मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पूर्वमेघः १४५
अलङ्कारः—‘‘यशोवर्त्म’’ यहां तो रूपक अलंकार है एवं ‘‘विष्णोः पाद- इव’’ यहां श्रौती उपमा है एवञ्च दोनों का अङ्गाङ्गिभाव रहने से संकर अलंकार है ॥ ५७ ॥
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासित-प्रस्थ-सन्धेः कैलासस्य त्रिदश-वनितादर्पणस्यातिथिः स्याः । शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥५८॥
अन्वयः—ऊर्ध्वं च गत्वा दशमुखभुजोच्छ्वासित-प्रस्थ-सन्धेः त्रिदशवनि- तादर्पणस्य कैलासस्य अतिथिः स्याः । यः कुमुदविशदैः शृङ्गोच्छ्रायैः खं वितत्य प्रतिदिनम् राशीभूतः त्र्यम्बकस्य इव स्थितः ।
व्याख्या—( हे मेघ ! ) ऊर्ध्वं च = उपरि च, गत्वा = प्राप्य, दशमुखभुजो- च्छ्वासितप्रस्थसन्धेः = रावणबाहुालिङ्गितसानुसन्धेः, त्रिदशवनितादर्पणस्य = देवललनामुकुरस्य, कैलासस्य = शिवाद्रेः, अतिथिः = आगन्तुकः, स्याः = भवेः । यः = कैलासः, कुमुदविशदैः = श्वेतपद्मधवलैः, शृङ्गोच्छ्रायैः = शिखरोन्नत्यैः, खम् = नभः, वितत्यः = व्याप्य, प्रतिदिनम् = दिने-दिने, राशीभूतः = पुञ्जीभूतः, त्र्यम्बकस्य = शङ्करस्य, अट्टहास इव = अतिहास इव, स्थितः = विद्यमानो वर्तते इति भावः ।
शब्दार्थः—ऊर्ध्वं च = और ऊपर, गत्वा = जाकर, दशमुखभुजोच्छ्वासित- प्रस्थसन्धेः = रावण की भुजाओं के आलिङ्गन से वियोजित शिखर सन्धि वाले, त्रिदशवनितादर्पणस्य = देवताओं की स्त्रियों के लिए दर्पण के समान; कैलासस्य = कैलास पर्वत का, अतिथिः = आगन्तुक, स्याः = होना । यः = जो कैलास पर्वत; कुमुदविशदैः = कमल के समान श्वेत, शृङ्गोच्छ्रायैः = चोटियों की ऊँचाई से, खम् = आकाश को, वितत्य = व्याप्त कर, प्रतिदिनम् = प्रतिदिन, राशीभूतः = एकत्रित, त्र्यम्बकस्य = शिवजी के, अट्टहास इव = ठहाका ( जोर की हँसी )-सा, स्थितः = स्थित है ।
१४६ मेघदूतम्
भावार्थः—(हे मेघ !) क्रौञ्चबिलान्निर्गत्य ऊर्ध्वं च गत्वा, रावणबाहूद्गार-प्रस्थितशृङ्ग सन्धेः देवल्लनामुकुरभूतस्य कैलासस्य आगन्तुको भवेः। यः कैलासः श्वेतपद्मवदुज्जवलैः शृङ्गोच्चैराकाशमभिव्याप्य पुञ्जीभूतः शिवस्य अट्टहास इव वर्तमानोऽस्ति।
हिन्दी—(हे मेघ !) क्रौञ्चबिल से बाहर निकलने के बाद ऊपर जाकर, रावण ने अपनी भुजाओं के आलिंगन से जिसकी चोटियों की सन्धि को ढीला कर दिया और देवाङ्गनाओं के लिए दर्पण के समान है उस कैलास पर्वत का अतिथि बनना। जो कैलास पर्वत कमल के समान अपनी उजली ऊँची चोटियों से आकाश को व्याप्त कर शिवजी के पुञ्जीकृत अट्टहास के समान विद्यमान है।
समासः—दशमुखानि यस्य सः दशमुखः (बहु०), दशमुखस्य भुजाः = दशमुखभुजाः (ष० तत्०) तैः उच्छ्वासिताः दशमुखभुजोच्छ्वासिताः (तृ० तत्०) प्रस्थसन्धयो यस्य सः दशमुखभुजोच्छ्वासितप्रस्थसन्धिः (बहु०) तस्य। तिस्रो दशाः येषान्ते = त्रिदशाः (बहु०) तेषां वनिताः = त्रिदशवनिताः (ष० तत्०) तासां दर्पणः = त्रिदशवनितादर्पणः (ष० तत्०) तस्य। शृङ्गाणाम् उच्च्रायैः = शृङ्गोच्छ्रायैः (ष० तत्०) कुमुदानीव विशदाः = कुमुदविशदाः (उपमान कर्म०) तैः, दिने-दिने इति = प्रतिदिनम् (अव्ययीभावः)। त्रीणि अम्बकानि यस्य सः = त्र्यम्बकः (बहु०) त्रयाणाम् (लोकानाम्) अम्बकः (पिता) त्र्यम्बकः (ष० तत्०) त्रीन् (वेदान्) अम्बते (उच्चार्यते) इति त्र्यम्बः त्र्यम्ब एव त्र्यम्बकः स्वार्थे कन् (द्वि० तत्०)।
कोशः—अमरा निर्जरादेवास्त्रिदशा विबुधाः सुराः, इत्यमरः। विरूपाक्षस्त्रिलोचनः, इत्यमरः। अट्टावतिशयक्षोभो, इति यादवः। विशदश्वेतपाण्डुराः, इत्यमरः।
टिप्पणी—गत्वा—"गम्" धातु से "क्त्वा" प्रत्यय करके गत्वा बनाया जाता है। दशमुखभुजोच्छ्वासित०—वाल्मीकि रामायण में एक कथा आती है कि रावण एक बार बल के मद से मदान्ध होकर कैलास पर्वत को लंका में उठा ले जाने की इच्छा से उसे भुजाओं से उखाड़ने लगा। रावण के इस तरह करने से कैलास पर रहने वाले सभी जीव-जन्तु विकल से होने लगे, अधिक क्या
पूर्वमेघः १४७
पार्वतीजी ने भी भयातुर होकर शिवजी का आलिङ्गन किया। इधर सभी को भयभीत देख शिवजी ने रावण के अभिमान को चूर्ण करने के लिए कैलास पर्वत को अपने अँगूठे से नीचे की ओर दबाया। परिणामस्वरूप कैलास तो बैठ ही गया साथ ही रावण भी उसी में कुचला जाने लगा। तब रावण के बहुत प्रार्थना करने पर शिवजी ने उसे बचा लिया। कैलासः—केलीनां समूहः = कैलम् “तस्य समूहः” इस सूत्र से अण् प्रत्यय हुआ और कैलेन आस्यते अस्मिन्निति “कैलासः” ‘कैल’ उपपदक “आस” धातु से “हलश्च” इस सूत्र से अधिकरण में “घञ्” प्रत्यय करके “कैलास” यह रूप निष्पन्न होता है। अतिथिः—अविद्यमाना तिथिर्यस्य स अतिथिः—जहाँ “नञोऽस्त्यर्थानां वाच्यो वाचोत्तरपदलोपः” इस वार्तिक से नञ् बहुव्रीहि समास हुआ है तब “अतिथि” ऐसा रूप बनता है। राशीभूतः—अराशिः राशिः यथा सम्पद्यते इति राशीभूतः “अभूततद्भाव” अर्थ में ‘च्वि’ प्रत्यय हुआ है। श्रायाः—श्रयणानि श्रायाः सेवा अर्थ में विद्यमान ‘श्रि’ धातु से ‘श्रिणीभुवोऽनुपसर्गे’ इस सूत्र से ‘घञ्’ प्रत्यय करके ‘श्राय’ ऐसा रूप बनता है। एवं उद्गताः श्रायाः = उच्छ्रायाः ‘कुगतिप्रादयः’ इस सूत्र से समास हुआ है।
अलंकारः—प्रस्तुत पद्य में ‘कुमुदविशदैः’ यहाँ उपमा एवं ‘अट्टहास इव’ यहाँ उत्प्रेक्षा अलंकार है। और दोनों अङ्गाङ्गिभाव रूप से विद्यमान हैं। अतः ‘संकर’ अलंकार है॥ ५८॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
सद्यः कृत्तद्विरददशनच्छेद—गौरस्य तस्य।
शोभामद्रेः स्तिमितनयन-प्रेक्षणीयां भवित्री-
मसंस्यस्ते सति हलभृतो मेचके वाससीव ॥५९॥
अन्वयः—स्निग्धभिन्नाऽञ्जनाऽऽभे त्वयि तटगते सद्यःकृत्तद्विरददशनच्छेद-गौरस्य तस्य अद्रेः मेचके वाससि असंस्यस्ते सति हलभृत इव स्तिमितनयन-प्रेक्षणीयाम् शोभाम् भवित्रीम् उत्पश्यामि।
व्याख्या—स्निग्धभिन्नाऽञ्जनाऽऽभे = चिक्कणमर्दित — कज्जलकान्तौ, त्वयि = मेघे, तटगते = सानुगते, (सति) सद्यः = तत्क्षणम्, कृत्तद्विरददशनच्छेद-
१४८ | मेघदूतम्
गौरस्य = छिन्नहस्तिदन्त—वच्छुभ्रस्य, तस्य = पूर्वोक्तस्य, अद्रेः = पर्वतस्य, कैलासस्येतिभावः । मेचके = श्यामे, वाससि = वस्त्रे, असंन्यस्ते = अपरित्यक्ते, स्कन्धस्थापित इत्यर्थः, हलभृत इव = बलरामस्येव, स्तिमित-नयनप्रेक्षणीयाम् = निश्चलनयनदर्शनीयाम्, भवित्रीम् = भाविनीम्, शोभाम् = श्रियम्, उत्पश्यामि = तर्कयामि ।
शब्दार्थ:— स्निग्धभिन्नाञ्जनाऽऽभे = पीसे गये चिकने सुरमे के समान कान्ति वाले, त्वयि = तुम्हारे, तटगते = समीप जाने पर, सद्यः-कृत्तद्विरद-दशनच्छेदगौरस्य = तुरन्त काटे गये हाथी के दाँत के समान उजले, तस्य = उस, अद्रेः = पर्वत के (कैलास के), मेचके = काले, वाससि = कपड़े के, असंन्यस्ते = नहीं छोड़ने पर अर्थात् कन्धे पर रखने पर, हलभृतः इव = बलराम के समान; स्तिमितनयनप्रेक्षणीयाम् = निश्चल नयन से देखने योग्य, भवित्रीम् = होने वाली, शोभाम् = सुन्दरता की, उत्पश्यामि = संभावना (मैं) करता हूँ ।
भावार्थ:— आर्य मेघ ! चिक्कणमर्दितकज्जलशोभे त्वयि कैलाससमीपगते सति तत्क्षणकृत्तहस्तिदन्तवच्छुक्लस्य तस्य कैलासपर्वतस्य श्यामवसनन्यस्तस्कन्धस्य बलरामस्य निश्चलनयनदर्शनीयां शोभां तर्कयामि ।
हिन्दी— चिकने सुरमे की चमक के समान चमक वाले तुम्हारे समीप जाने पर तुरन्त काटे गये हाथी के दाँत के समान उजले उस कैलास पर्वत की सुन्दरता का कंधे पर रखे काले कपड़े से होने वाली बलराम की निश्चल आँखों से देखने योग्य शोभा के समान मैं संभावना करता हूँ ।
समास:— स्निग्धं च तद्भिन्नम् = स्निग्ध-भिन्नम् (कर्म०) स्निग्धभिन्नञ्च तदञ्जनम् = स्निग्धभिन्नाञ्जनम् (कर्म०) तस्येव आभा यस्य स स्निग्धभिन्नाञ्जनाऽभः (बहु०) तस्मिन् । तटंगतः = तटगतः (द्वि तत्०) तस्मिन् । द्वौ रदौ यस्य स द्विरदः (बहु०) द्विरदस्य दशनः = द्विरददशनः (ष० तत्०) सद्यः कृत्तः = सद्यः कृत्तः ( सुप्सुपेति समासः ) सद्यः कृत्तश्चासौ द्विरददशनः = सद्यः कृत्तद्विरददशनः (कर्म०) तस्याच्छेदः (ष० तत्०) तदिव गौरः = सद्यः कृत्तद्विरददशनच्छेदगौरः (उपमानकर्मधारयः) तस्य । स्तिमिते च ते नयने = स्तिमितनयने (कर्मधारयः) ताभ्यां प्रेक्षणीयाम् = स्तिमित-नयन-प्रेक्षणीयाम् (तृ० तत्०) ।
पूर्वमेघः १४९
**कोशः—**चिक्कणं मसृणं स्निग्धम्, इत्यमरः । सद्यः सपदि तत्क्षणे, इत्यमरः । रदना दशना दन्ताः, इत्यमरः । कृष्णे नीलासितश्यामकालस्यामल-मेचकाः, इत्यमरः । स्कन्धोभुजशिरोऽस्त्री, इत्यमरः ।
टिप्पणी—स्निग्धः—“स्निह्” धातु से “क्त” प्रत्यय करके स्निग्ध ऐसा रूप निष्पन्न किया जाता है । स्निग्धभिन्नाञ्जने यहां ‘सप्तमी विशेषणे बहुव्रीहौ’ इस सूत्र के “सप्तमी” पद से ज्ञापित व्यधिकरण बहुव्रीहि समास हुआ है । **कृत्तः=**कृत् धातु से “क्त” प्रत्यय करके “कृत्तः” ऐसा शब्द निष्पन्न होता है । **हलभृतः=**बिभर्तीति “भृञ्” भरण अर्थ में विद्यमाने “भृ” (ञ्) धातु से ‘क्विप्’ प्रत्यय करके “भृत्” ऐसा रूप निष्पन्न होता है । हलं विभर्ति इति हलभृत् यहाँ “उपपद समास” हुआ है ।
**अलङ्कारः—**यहाँ कज्जल की तुलना मेघ से और काले वस्त्र से भी मेघ की तुलना की गयी है एवं हिमालय की तुलना बलराम से की गयी है अतः उपमा अलङ्कार है ।। ५९ ।।
हित्वा तस्मिन् भुजग-वलयं शम्भुना दत्तहस्ता क्रीडा-शैले यदि च विचरेत्पाद-चारेण गौरी । भङ्गी-भक्त्या विरचित-वपुःस्तम्भितान्तर्जंलौघः सोपानत्वं कुरु मणितटा—रोहणायाग्रयायी ॥६०॥
**अन्वयः—**तस्मिन् क्रीडाशैले शम्भुना भुजग-वलयम् हित्वा दत्तहस्ता गौरी पादचारेण विचरेत् यदि अग्रयायी स्तम्भिताऽन्तर्जलौघः भङ्गीभक्त्या विरचितवपुः मणितटाऽरोहणाय सोपानत्वम् कुरु ।
**व्याख्या—तस्मि=**पूर्वोक्ते, **क्रीडाशैले=**केलि-पर्वते कैलास इति यावत् । **शम्भुना=**शिवेन, **भुजगवलयम्=**अहिकङ्कणम्, **हित्वा=**परित्यज्य, **दत्तहस्ता=**कराऽवलम्बा, ( सती ) **गौरी=**पार्वती, **पादचारेण=**चरणःसंचारेण, **विचरेत्=**चलेत्, **यदि=**चेत् ( तर्हि ) **अग्रयायी=**अग्रेसरः, **स्तम्भितान्तर्जलौघः=**अवरुद्धाभ्यन्तरतोयवेगः, **भङ्गीभक्त्या=**पर्वरचनया, **विरचितवपुः=**निर्मितशरीरः,
१५० | मेघदूतम्
( त्वम् ) मणितटाऽऽरोहणाय = रत्न-तटाऽऽरोहणाय, सोपानत्वम् = शृङ्खला-भावम्, कुरु = विधेहि। सोपानरूपस्त्वं भव इति भावः।
शब्दार्थः—तस्मिन् = उस, क्रीडाशैले = केलिपर्वत ( कैलास ) पर, भुजग-वलयम् = सर्प के कंगन को, हित्वा = छोड़कर, शम्भुना = शिवजी के द्वारा, दत्तहस्ता = हाथ का सहारा दी गयी, गौरी = पार्वती, पादचारेण = पैरों से, विचरेत् = चलें, यदि, तर्हि = तो, अग्रयायी = आगे-आगे चलते हुए, स्तम्भि-तान्तर्जलोघः = भीतर जल के प्रवाह को रोके हुए, भंगीभक्त्या = पौड़ियों के क्रम से, विरचित-वपुः = शरीर की रचना वाले ( तुम )। मणितटारोहणाय = मणि तट पर चढ़ने के लिए, सोपानत्वम् कुरु = सीढ़ी का काम करना।
भावार्थः—हे मेघ ! तस्मिन् केलिपर्वते कैलासे ( भयापनोदनाय ) कङ्कणं परित्यज्य शिवेन प्राप्तकरावम्बा पार्वती यदि पद्भ्यां विहरेत् तर्हि अग्रेसरः अवरुद्धान्तर्जैलसमूहस्त्वं स्वशरीरेण पर्वरचनां कृत्वा मणितटारोहणाय सोपानरूपो भव।
हिन्दी—हे मेघ ! उस क्रीड़ा पर्वत ( कैलास ) पर साँप के कंगन को छोड़कर शिवजी के द्वारा हाथ का सहारा दी गयी पार्वती यदि पैदल चलें तो तुम आगे-आगे चलते हुए, भीतर जल के प्रवाह को रोके हुए, अपने शरीर के द्वारा पौड़ियों की रचना कर मणितट पर चढ़ने के लिए सीढ़ी का काम करना।
समासः—क्रीडायाः शैलः = क्रीडाशैलः ( ष० तत्० ) तस्मिन्। भुजग एव वलयम् = भुजगवलयम् (कर्मधारणः) दत्तः हस्तो यस्यै सा दत्तहस्ता ( बहु० ) जलानाम् ओघः = जलौघः ( ष० तत्० ) अन्तः स्थितः जलौघः = अन्तर्जलोघः (मध्यमपदलोपी) स्तम्भितः अन्तर्जलोघः येन सः स्तम्भितान्तर्जलोघः (बहु०)। विरचितं वपुर्येन सः विरचितवपुः ( बहु० ) भङ्गीनां भक्ति = भङ्गीभक्तिः ( ष० तत्० ) तया। मणीनां तटम् = मणितटम् (ष० तत्०) मणितटे आरोहणं मणितटारोहणम् ( ष० तत्० ) तस्मै।
कोशः—आवापकः परिहार्यः कटकी वलयोऽस्त्रियाम्, इत्यमरः। निकर-व्रातवार-संघात-सञ्चयाः, इत्यमरः। आरोहणं स्यात् सोपानम्, इत्यमरः।
| पूर्वमेघः | १५१ |
|---|
टिप्पणी—क्रीडाशैले—कैलास पर्वत को क्रीडापर्वत कहने में शम्भुरहस्य का उक्त श्लोक प्रमाण है—
कैलाशः कनकाद्रिश्च मन्दरो गन्धमादनः।
क्रीडार्थं निर्मिताः शम्भोर्देवैः क्रीडाद्रयोऽभवन्॥
पादचारः—चरणं चारः=गत्यर्थक “चर्” धातु के भाव में “हलश्च” इस सूत्र से घञ् प्रत्यय करके “चार” ऐसा शब्द निष्पन्न होता है। अग्रयायी—अग्रे यातीति तच्छीलः इस विग्रह में अग्र उपपदपूर्वक गत्यर्थक “या” धातु से “णिनि' प्रत्यय करके वृद्ध्यादि करके “अग्रयायी” ऐसा रूप बनता है। भक्तिः—"भज्” धातु से क्तिन् प्रत्यय करके “भक्ति” ऐसा शब्द बनता है। विरचितम्—"वि" उपसर्गपूर्वक “रच्” धातु से कर्म में “क्त” प्रत्यय करके “विरचितम्” ऐसा रूप निष्पन्न होता हैं। आरोहणम्—“आङ्” उपसर्गपूर्वक “रुह्” धातु से “ल्युट्” प्रत्यय करके “आरोहणम्” ऐसा रूप बनाया जाता है।
अलङ्कारः—यहाँ भुजंग में वलय का आरोप किया गया है अतः “रूपक” अलङ्कार है॥ ६०॥
तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम्।
ताभ्यो मोक्षस्तव यदि सखे! घर्मलब्धस्य न स्यात्
क्रीडालोलाः श्रवणपरुषैः गर्जितैर्भाययेस्ताः ॥६१॥
अन्वयः—तत्र अवश्यम् सुरयुवतयः वलयकुलिशोद्घट्टनोद्गीर्णतोयम् त्वाम् यन्त्रधारागृहत्वम् नेष्यन्ति। हे सखे! घर्मलब्धस्य तव ताभ्यः मोक्षः न स्यात् क्रीडालोलाः ताः ताः श्रवणपरुषैः भाययेः।
व्याख्या—(हे मेघ!) तत्र = कैलासे, अवश्यम् = नूनम्, सुरयुवतयः = देवललनाः, वलयकुलिशोद्घट्टनोद्गीर्णं तोयम् = कङ्कणकोटिताडनोत्सृष्टजलम्, त्वाम् = मेघम्, यन्त्रधारागृहत्वम् = कृत्रिमधारागेहत्वम्, नेष्यन्ति = प्रापयिष्यन्ति। हे सखे! = हे मित्र! घर्मलब्धस्व = आतपप्राप्तस्य, तव = मेघस्य, ताभ्यः = देवयुवतिभ्यः, मोक्षः = मुक्तिः, न स्यात् = न भवेत् (चेत्) “तर्हि” क्रीडालोलाः =
१५२ | मेघदूतम्
केलिचपलाः, ताः=सुरयुवतीः, श्रवणपरुषैः=कर्णकटुभिः, गर्जितैः=स्तनितैः, भाभयेः=त्रासयेः।
शब्दार्थः— (हे मेघ !) तत्र = वहाँ कैलास पर, अवश्यम्=निश्चय ही। सुरयुवतयः=देवाङ्गनाएँ, वलयकुलिशोद्घट्टनोद्गीर्णतोयम्=कङ्कणों के अग्रभाग के प्रहार से जल उगलते हुए, त्वाम्=तुमको, यन्त्रधारा-गृहत्वम् = कृत्रिम जलप्रवाह का घर, नेष्यन्ति=बना देगी। हे सखे != हे मित्र ! घर्मलब्धस्य = गर्मी को प्राप्त, तव = तुम्हे, ताभ्यः=उन देवललनाओं से, मोक्षः = मुक्ति (छुटकारा), न स्यात् = न मिले (यदि) तो तुम, क्रीडालोलाः=खेल में लगी चञ्चल, ताः=उन देवप्रियाओं को, श्रवणपरुषैः = कर्णकठोर, गर्जितैः गर्जनों से, भाययेः = डराना।
**भावार्थः—**हे मेघ ! कैलासे सुरयुवतयः कङ्कणप्रहारैरुत्सृष्टजलं त्वां कृत्रिमजलधारागृहत्वं नूनं विधास्यन्ति। हे सखे ! यदि ते ताभ्यो देवललनाभ्यो मुक्तिर्न स्यात् तर्हि त्वं कर्णकठोरैर्गर्जनैस्ताः त्रासयेः।
**हिन्दी—**हे मेघ ! उस कैलास पर्वत पर देवाङ्गनाएँ निश्चित ही तुम्हें अपने कङ्कणों के अग्रभाग के प्रहार से जलवर्षण के लिए विवश करती हुई कृत्रिम जलधारा का साधन बना देगी। हे सखे, इस प्रकार आतप प्राप्त तुम्हें यदि उन देवललनाओं से मुक्ति न मिले तो तुम क्रीडासक्त चञ्चल उन देवललनाओं को अपने श्रवणकठोर गर्जनों से भयभीत करना।
**समासः—**बलयानां कुलिशानि = वलयकुलिशानि (ष० तत्०) उद्गीर्णं तोयं येन सः उद्गीर्णतोयः (बहु०) वलय-कुलिशैः उद्घट्टनानि = वलयकुलिशोद्घट्टनानि (तृ० तत्०) वलयकुलिशोद्घट्टनैः उद्गीर्णतोयः वलयकुलिशोद्घट्टनोद्गीर्णतोयः। सुराणां युवतयः=सुरयुवतयः (ष० तत्०)। यन्त्रेषु धाराः = यन्त्रधाराः (स० तत्) यन्त्रधाराणां गृहत्वम्=यन्त्रधारागृहत्वम् (ष० तत्)। घर्मे लब्धः = घर्मलब्धः (स० तत्) तस्य। क्रीडायां लोलाः क्रीडालोलाः (स० तत्०) श्रवणयोः परुषाणि = श्रवणपरुषाणि (स० तत्०) तैः।
**कोशः—**कटको वलयोऽस्त्रियाम्, इत्यमरः। चलनं कम्पनं कम्पं चलं लोलं चलाचलम्, इत्यमरः। अथ मित्रं सखा सुहृद्, इत्यमरः। निष्ठुरं परुषम्; इत्यमरः।
पूर्वमेघः १५३
टिप्पणी—तत्र-तस्मिन्निति "तत्र" यह अव्यय है। 'तद्' शब्द से "सप्तम्यास्त्रल्", इस सूत्र से त्रल् प्रत्यय किया जाता है। उद्घट्टनम्-उद्घट्ट एव उद्घट्टनम्, यहाँ 'उद्' उपसर्गपूर्वक 'घट्ट' धातु से भाव में ल्युट् करके अनादेश आदि करके 'उद्घट्टनम्' यह रूप बना है। उद्गीर्णः—'उद्' उपसर्गपूर्वक निगरणार्थ 'गॄ' धातु से 'क्त' प्रत्यय करके णत्वादि करके 'उद्गीर्णः' ऐसा रूप निष्पन्न होता है। नेष्यन्ति—यह प्रापणार्थक ( णि ) नि धातु के लृट् लकार के बहुवचन का रूप है। भाययेः—भयार्थक णिजन्त 'भायि' धातु के लिङ् लकार के मध्यमपुरुष के एकवचन का यह रूप है। यहाँ “भीष्मयोर्हेतुभये” इस सूत्र से आत्मनेपद हुआ है या 'नुयुक्' आगम ही। यहाँ भय का कारण ( हेतु ) मेघ नहीं अपितु 'गर्जित' है ॥ ६१ ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन्कल्पद्रुम--किसलयान्यांशुकानीव वातै--
र्नानाचेष्टैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६२ ॥
अन्वयः—हे जलद ! हेमाम्भोज-प्रसवि मानसस्य सलिलम् आददानः ऐरावतस्य क्षणमुखपटप्रीतिम् कुर्वन् अंशुकानि इव कल्पद्रुमकिसलयानि वातैः धुन्वन् नानाचेष्टैः ललितैः तम् नगेन्द्रम् कामम् निर्विशेः ।
व्याख्या—हे जलद !-हे मेघ ! हेमाम्भोजप्रसवि = स्वर्णपद्मोत्पादकम्, मानसस्य = मानससरोवरस्य, सलिलम् = तोयम्, आददानः = गृह्णन् पिबन् इति भावः, ऐरावतस्य = एतन्नामक इन्द्रगजस्य, क्षणमुखपटप्रीतिम् = मुहूर्त्तवदन-वस्त्रानन्दम्, कुर्वन् = विदधत्, अंशुकानि इव = मसृणवस्त्राणीव, कल्पद्रुम-किसलयानि = कल्पवृक्षपल्लवानि, वातैः = पवनैः, धुन्वन् = कम्पयन्, नाना-चेष्टैः = अनेकक्रीडितैः, ललितैः = विलासैः, तम् = पूर्वोक्तम्, नगेन्द्रम् = पर्वत-राजम् कैलासमित्यर्थः, कामम् = पर्याप्तम्, निर्विशेः = उपभुंक्ष्व ।
शब्दार्थः—हे जलद ! हे मेघ ! हेमाम्भोजप्रसवि=स्वर्णकमलों का उत्पादक, मानसस्य = मानसरोवर के, सलिलम् = जल को, आददानः=ग्रहण करते
१५४ | मेघदूतम्
हुए, ऐरावतस्य=ऐरावत नामक इन्द्र के हाथी को, क्षणमुखपटप्रीतिम्=कुछ समय के लिए मुँह ढकने वाले वस्त्र का आनन्द, कुर्वन्=देते हुए, अंशुकानीव=महीन (चिकने) वस्त्र की तरह, कल्पद्रुमकिसलयानि=कल्पवृक्ष के पल्लवों को, वातैः=वायु से, धुन्वन्=कँपाते हुए, नाना-चेष्टैः=अनेक प्रकार की चेष्टाओं से युक्त, ललितैः=विलासों से, तम्=उस, नगेन्द्रम्=पर्वतराज कैलास का, निर्विशेः=आनन्द लेना।
भावार्थः—हे मेघ ! स्वर्णपद्मोत्पत्तिस्थानभूतं मानससरोवरजलं पिबन्, किञ्चिन्ममुहूर्तं यावत् इन्द्रहस्तिनः ऐरावतस्यानानवागुण्ठनानन्दं प्रयच्छन् मसृण-वस्त्राणीव कल्पद्रुमपल्लवानि पवनैः कम्पयन् अनेक-प्रकारैः क्रीडितैः कैलासं यथेष्टमुपभुङ्क्ष्व ।
हिन्दी—हे मेघ ! स्वर्ण-कमलों को उत्पन्न करने वाले मानसरोवर के जल को पीते हुए, ऐरावत हाथी को मुँह के घूंघट का आनन्द देते हुए, पतले वस्त्रों के समान कल्पवृक्ष के पत्तों को हवा से हिलाते हुए तुम अनेक प्रकार की चेष्टाओं से युक्त क्रीड़ाओं से उस कैलास पर्वत का पर्याप्त उपभोग करना ॥ ६२ ॥
समासः—हेम्नः अम्भोजानि (ष० तत्०) हेमाम्भोजानां प्रसवित् यत् तत्=हेमाम्भोजप्रसवि (ष० तत्०)। कल्पद्रुमाणां किसलयानि=कल्पद्रुम-किसलयानि (ष० तत्०)। नाना चेष्टा येषां येषु वा तैः, नानाचेष्टैः (बहु०)।
कोशः—अंशुके वस्त्रमात्रे स्यात्परिधानोत्तरीययोः, इति शब्दार्णवः । ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे, अस्त्रियां प्रमदागारे क्रीडिते जातिपल्लवे, इति शब्दार्णवः । निर्वेशो भृतिभोगयोः, इत्यमरः । निर्वेश उपभोगः, इत्यमरः ।
टिप्पणी—जलदः—जलं ददाति इस विग्रह में “जल” उपपदपूर्वक दानार्थ “दा” धातु से “आतोऽनुपसर्गे कः” इस सूत्र से क प्रत्यय करके “जलद” ऐसा रूप निष्पन्न होता है । हेमाम्भोजः—अम्भसि जातानीति अम्भोजानि, यहाँ “अम्भस्” उपपदपूर्वक प्रादुर्भावार्थक ‘जन्’ धातु से “सप्तम्यां जनेर्डः” इस सूत्र से ‘ड’ प्रत्यय करके “डित्त्वसामर्थ्यादमस्यापि टेलोपः” इस वचन के
पूर्वमेघः १५५
आधार पर धातु के "अन्" का लोप होकर "अम्भोज" ऐसा रूप बनता है। हेम्नः अम्भोजानि—हेमाम्भोजानि। प्रसवि-“प्र” उपसर्गपूर्वक प्रसवार्थक (भू०) “सू” धातु से “जिदृक्षि विश्रीण्वमाव्यथाम्यभपरिभूप्रसूभ्यश्च” इस सूत्र से “इनि” प्रत्यय करके गुणादि करके “प्रसवि” ऐसा रूप निष्पन्न होता है। आददान-“आङ्” उपसर्गपूर्वक दा धातु से लट् लकार के स्थान पर “शानच्” प्रत्यय का विधान कर “आददान” ऐसा रूप बनता है। धुन्वन्—कम्पनार्थक “धु” धातु से लट् के स्थान पर “शतृ” आदेश करके “धुन्वन्” ऐसा रूप बनता है। निर्विशेः-“निर्” उपसर्गपूर्वक “विशृ” धातु के विधिलिङ् के मध्यमपुरुष के एकवचन का यह रूप है।
अलङ्कारः-“अंशुकानीव' यहाँ उत्प्रेक्षा अलंकार है ॥ ६२ ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगंगादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
याबः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३ ॥
अन्वयः—हे कामचारिन् प्रणयिन इव तस्य उत्सङ्गे स्रस्त-गंगादुकूलाम् अलकाम् दृष्ट्वा त्वं पुनः न ज्ञास्यसे न । उच्चैर्विमाना या वः काले सलिलोद्गारम् अभ्रवृन्दम् कामिनी मुक्ताजालग्रथितम् अलकमिव वहति ।
व्याख्या—हे कामचारिन् = हे स्वेच्छाचारिन् ! प्रणयिनः = प्रियतमस्य, इव = यथा, तस्य = कैलासस्य, उत्सङ्गे = क्रोडे, स्रस्तगङ्गादुकूलाम् = च्युतजाह्नवीवस्त्राम्, अलकाम् = कुबेरनगररीम्, प्रियामिवेति शेषः । दृष्ट्वा = विलोक्य, त्वं = मेघः, पुनः = भूयः, न = नहि, ज्ञास्यसे = परिचेष्यसे (इति) तु न = नहि, अर्थात् अवश्यं ज्ञास्यसे इति ध्वनिः । उच्चैर्विमाना = उन्नतसप्तभूमिभवनवती, या = अलका, वः = युष्माकम्, काले = समये वर्षतौ इत्यर्थः ।
१५६ मेघदूतम्
सलिलोद्गारम् = जलोत्सजर्नम्, अभ्रवृन्दम् = मेघनिचयम्, कामिनी = वनिता, मुक्ताजालग्रथितम् = मौक्तिक-प्रचुरैर्गुम्फितम्, अलकमिव = केशपाशमिव, वहति = धारयति ।
शब्दार्थः—हे कामचारिन् = हे स्वच्छन्दचारी, प्रणयिन इव = प्रियतम की तरह, तस्य = उस (कैलास) की, उत्संगे = गोद में, स्रस्तगङ्गादुकूलाम् = खिसक गयी है गंगारूपी साड़ी जिसकी, ऐसी, अलकाम् = पुरी (रूपी कामिनी को) को, दृष्ट्वा = देखकर, त्वम् = तुम, पुनः = फिर, न = नहीं, ज्ञास्यसे = पहचानोगे (इति = ऐसा) नहीं, अर्थात् अवश्य पहचानोगे। उच्चैर्विमानाः = ऊँचे-ऊँचे सात-सात मंजिलों के भवन वाली, या = जो अलका, वः = तुम्हारे, काले = समय में, अर्थात् वर्षा के समय में, ललिलोद्गारम् = जल (के प्रवाह को छोड़नेवाले, अभ्रवृन्दम् = मेघ के समूह को, कामिनी = स्त्री, मुक्ताजाल-ग्रथितम् = मोतियों की लड़ियां जिसमें गुँथी हुई हैं ऐसे, अलकामिव = केश के समान, वहति-धारण करती है।
भावार्थः—हे स्वेच्छाचारिन् ! प्रणयिनः इव कैलासस्योत्सङ्गे च्युतगंगा-वस्त्राम् अलकां प्रियतमस्याङ्के अवस्रस्तक्षौमा प्रेयसीमिव विलोक्य अवश्यं परि-चेष्यसे । या समुन्नतभवना अलका वर्षामये जलवर्षके मेघसमूहं क्रोध-रहिता रमणी मुक्तासमूहानुस्यूतं केशपाशमिव धारयति ।
हिन्दी—हे स्वच्छन्द भ्रमणशील ! प्रियतम के समान कैलास की गोद में खिसक गया है गंगारूपी वस्त्र जिसका ऐसी अलका को प्रियतम की गोद में खिसक गयी है साड़ी जिसकी ऐसी कामिनी की तरह देखकर अवश्य पहचान जाओगे । जो अलका वर्षा के समय जल बरसाने वाले मेघ-समूह को वैसे ही धारण करती है जैसे क्रोध-रहित कोई कामिनी मोतियों की लड़ियों से गुंथे केश-पाश को धारण करती है ।
समासः—अलकापक्षे-गङ्गा दुकूलमिव-इति गङ्गादुकूलम् ( "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" ) । कामिनी पक्षे-गङ्गा इव दुकूलम् (उपमानानि सामान्यवचनैः ) स्रस्तं गङ्गादुकूलं यस्याः सा = स्रस्तगङ्गादुकूला (बहु०) ताम् । उच्चैः विमानानि यस्याः सा उच्चैर्विमाना (बहु०) इत्यलकापक्षे ।
पूर्वमेघः १५७
कामिनीपक्षे तु विगतः मानो यस्याः सा विमाना ( बहु० ) अतिशयेन विमाना उच्चैर्विमाना ( कुगतिप्रादयः ) । अभ्राणां वृन्दम् = अभ्रवृन्दम् ( ष० तत्० ) । मुक्तानां जालम्=मुक्ताजालम् ( ष० तत्० ) सलिलम् उद्गिरतीति सलिलोद्गारः ( उपपद० ) तम् ।
कोशः— उत्सङ्गो मुक्तसंयोगे सक्थन्यूर्ध्वतलेऽपि च, इति मालतीमालायाम् । दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके, इति शब्दार्णवः । विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि, इति यादवः । पुंश्चल्यां मौक्तिके मुक्ता, इति यादवः । अलकाश्चूर्णकुन्तला, इत्यमरः ।
टिप्पणी— कामचारिन्— "काम" उपपदपूर्वक "चर्" धातु से ताच्छील्य अर्थ में "णिनि" प्रत्यय करके कामचारिन् ऐसा रूप निष्पन्न होता है। यह सम्बोधन का रूप है। प्रणयिनः— "प्रणय" शब्द से 'अतइनिठनौ' इस सूत्र से "इनि" प्रत्यय करके "प्रणयिन" शब्द बनता है। यह रूप षष्ठी विभक्ति का है। उत्संगः— "उद्" उपसर्गपूर्वक "सञ्ज्" धातु से "हलश्च" इस सूत्र से घञ् प्रत्यय करके "उत्सङ्गः" ऐसा रूप होता है। न ज्ञास्यसे न— यहां दो नञ् का प्रयोग है जो दृढ़ता का बोधक होता है 'द्वौ नञौ प्रकृत्यर्थं गमयतः' इस वचन से । ग्रथितः— 'ग्रंथ' धातु से 'क्त' प्रत्यय करके ग्रथित ऐसा रूप बनता है। वहति— प्रापणार्थक 'वह' धातु के लट् लकार के प्रथमपुरुष के एकवचन का यह रूप है।
अलंकारः— प्रस्तुत पद्य में कैलास में प्रणयी का साम्य तथा अलका में प्रणयिनी का साम्य गम्य है अतः एकदेश-विवर्तनी 'उपमा' अलंकार है। एवञ्च दोनों निरपेक्ष भाव से हैं अतः 'संसृष्टि' अलंकार है।
एक ही नायिका में आसक्त प्रणयी नायक को 'अनुकूल' एवं प्रियतम से उपलालित नायिका को स्वाधीनपतिका कहते हैं। प्रकृत में "कैलास" अनुकूल नायक है एवं 'अलका' स्वाधीन-पतिका नायिका ध्वनित है ॥ ६३ ॥
॥ इति शिवो वः शिवं तनोतु ॥
इति पूर्वमेघः
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त पृष्ठ (blank page) है।
उत्तरमेघः
११ मे० दू०
उत्तरमेघः
विद्युत्वन्तं ललित-वनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीर-घोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ १ ॥
अन्वयः—यत्र ललितवनिताः सचित्राः संगीताय प्रहतमुरजाः मणिमयभुवः अभ्रंलिहाग्राः प्रासादाः विद्युत्वन्तम् सेन्द्रचापम् स्निग्धगम्भीरघोषम् अन्तस्तोयम् तुङ्गम् त्वाम् तैः तैः विशेषैः तुलयितुम् अलम् ।
व्याख्या—पूर्वमेघे यक्षः अलकापरिचयं दत्वेदानीं स्वभवनाऽभिज्ञानं ददाति—यत्र=अलकायाम्, ललित-वनिताः=रमणीयललनाः, सचित्राः=आलेख्यसहिताः, संगीताय=नृत्यगीतवाद्याय, प्रहतमुरजाः=प्रताडितमृदङ्गाः, मणिमयभुवः=रत्ननिर्मितभूप्रदेशाः, अभ्रंलिहाग्राः=अभ्रङ्कशाग्राः, अत्युच्छ्रिता इति भावाः, प्रासादाः=देवालयाः, विद्युत्वन्तम्=सचपलम्, सेन्द्रचापम्=इन्द्रधनुःसहितम्, तुङ्गम्=उन्नतम्, त्वाम्=मेघम्, तैः तैः=पूर्वोक्तप्रकारैः, विशेषैः=ललितवनितादिभिः, तुलयितुम्=समानताङ्कर्तुम्, अलम्=पर्याप्ताः ।
शब्दार्थः—पूर्वमेघ में यक्ष अलकापुरी का परिचय देकर अब यहाँ अपने भवन का परिचय देने की भूमिका प्रस्तुत करता है—यत्र=जिस अलकापुरी में ललितवनिताः=सुन्दरस्त्रियाँ, सचित्राः=चित्रशालाएँ, संगीताय प्रहतमुरजाः=संगीत के लिए बजाये गये मृदङ्ग, मणिमयभुवः=रत्न से निर्मित पृथ्वी (फर्श), अभ्रंलिहाग्राः=गगनचुम्बी, प्रासादाः=देवालय, विद्युत्वन्तम्=बिजली से युक्त; सेन्द्रचापम्=इन्द्रधनुष से युक्त, स्निग्धगम्भीरघोषम्=मधुर एवं गम्भीर गर्जनों से युक्त, अन्तस्तोयम्=अन्दर जल से पूर्ण, तुङ्गम्=ऊँचे, त्वाम्=तुम्हारी, तैस्तैः=पूर्वोक्त प्रकारों से, विशेषैः=सुन्दरस्त्रियादि धर्मों से, तुलयितुम्=समानता करने में, अलम्=समर्थ हैं ।
उत्तरमेघः १५९
भावार्थः—हे मेघ ! यस्यामलकायां रमणीयललनाः चित्रशालाः, तोर्यं-त्रिकाय प्रताडितमृदङ्गाः मणिखचित-भूमयः अभ्रङ्कषाः देवालयाः एभिर्धर्मैः तडित्वन्तं इन्द्रधनुषायुक्तम्, मधुरगम्भीरस्तनितमुच्छ्रितं त्वां यथाक्रमं समीकर्तुं पर्याप्ताः ( समर्थाः ) सन्ति ॥ १ ॥
हिन्दी—हे मेघ ! जिस अलका में, रमणीय स्त्रियां, चित्रशालाएं नृत्य-गीतादि के लिए बजाए गये मृदङ्ग, मणिखचित फर्श, गगनचुम्बी देवालय अपने इन ललित वनितत्त्वादिधर्मं से क्रमपूर्वक बिजली से युक्त, इन्द्रधनुष से युक्त, कर्णप्रिय गम्भीर गर्जन वाले, ऊँचे, तुम्हारी तुलना करने में पूर्ण समर्थ हैं।
समासः—ललिता वनिता येषु ते ललितवनिताः (बहु०)। चित्रैः सहिताः सचित्राः ( तुल्ययोगबहु० )। प्रहता मुरजाः येषु ते प्रहतमुरजाः ( बहु० )। अभ्रंलिहानि अग्राणि येषान्ते अभ्रंलिहाग्राः ( बहु० )। इन्द्रस्य चाप इन्द्रचापः । ( ष० तत्० ), इन्द्रचापेन सहितः सेन्द्रचापः ( तृ० बहु० ) तम्, स्निग्धो गम्भीरो घोषो यस्य स स्निग्धगम्भीर-घोषः ( बहु० ) तम्। अन्तर्गतं तोयं यस्य स अन्तर्गत-तोयः ( बहु० ) तम्।
कोशः—वनिता महिला तथा, इत्यमरः। आलेख्यमाश्चर्ययोश्चित्रम्, इत्यमरः मुरजा तु मृदङ्गे स्याद् ढक्कामुरजयोरपि, इति शब्दार्णवः। प्रासादो देव-भूभुजाम् इत्यमरः। अलंभूषण-पर्याप्ति-शक्ति-वारणवाचकम्, इत्यमरः। नृत्यं वाद्यं तथा गीतं त्रय संगीतमुच्यते, इति संगीतरत्नाकरः।
टिप्पणी—सचित्राः—यहाँ चित्रैः सहिताः इस विग्रह में "तेन सहेति तुल्ययोगे" इस सूत्र से (तुल्ययोग) बहुव्रीहि समास हुआ है एवं "वोपसर्जनस्य" इस सूत्र से विकल्प के "सह" के स्थान पर "स" भाव हुआ है। समभ्याभाव पक्ष में "सहचित्राः" ऐसा भी प्रयोग होता है। संगीताय—"सम्" उपसर्गपूर्वक शब्दार्थक "गै" धातु से भाव में "क" प्रत्यय करके "संगीतम्" ऐसा शब्द बनता है। यह रूप चतुर्थी विभक्ति का है, यहाँ तादर्थ्य में "तादर्थ्ये चतुर्थी वाच्या" इस वार्तिक के नियमानुरोध से चतुर्थी हुई है। प्रहताः—"प्र" उपसर्गपूर्वक "हन्" धातु से कर्म में "क्त" प्रत्यय करके "प्रहत" ऐसा रूप निष्पन्न
१६० | मेघदूतम्
होता है। मणिमयभुवः—यहाँ “मणीनां विकारः” इस विग्रह से “मणि” शब्द से विकार अर्थ में “तस्य विकारः” इस सूत्र से “मयट्” प्रत्यय हुआ है एवं स्त्रीत्वविवक्षा में ङीप् करके बहुवचन में “मणिमय्यः” ऐसा रूप बनता है। मणिमय्यः भुवः येषु ते मणिमयभुवः (बहु०)। यहाँ पूर्व पद को पुंवद्भाव हो गया है। अभ्रंलिहः—“अभ्र” उपपदक “लिह्” धातु से “वहाभ्रेलिहः” इस सूत्र से “खश्” प्रत्यय हुआ है एवं “अरुर्द्विषदजन्तस्य मुम्” इस सूत्र से “अभ्र” को “मुम्” हुआ है। तुलयितुम्—णिजन्त “तुलि” धातु से तुमुन् प्रत्यय करके “तुलयितुम्” ऐसा रूप निष्पन्न होता है।
अलंकारः—यहाँ विद्युत्वन्तम् आदि उपमानों के क्रम से ललितवनिता आदि उपमेय कहे गये हैं अतः यथासंख्य एवं आर्थी उपमा अलङ्कार हैं और दोनों का अंगांगिभाव होने से “सङ्कर” अलंकार हो गया ॥ १ ॥
हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २ ॥
अन्वयः—यत्र, वधूनाम्, हस्ते, लीलाकमलम्, अलके, बालकुन्दानुविद्धम्, आनने, लोध्रप्रसवरजसा, पाण्डुतां, नीता, श्रीः, चूडापाशे, नवकुरबकम्, कर्णे, चारु, शिरीषम्, सीमन्ते च, त्वदुपगमजम्, नीपम् ॥ २ ॥
व्याख्या—हे मेघ ! यत्र = अलकायाम्, वधूनाम् = वनितानाम्, हस्ते = करे, लीलाकमलम् = क्रीडापद्मम्, शरदृतुंभवमिति भावः । अलके = चूर्णे-कुन्तले, बालकुन्दानुविद्धम् = नूतनमाघ्य-पुष्प-गुम्फनम्, हेमन्ततुं भवं पुष्पविशेषम्, आनने = मुखे, लोध्रप्रसवरजसा = शिशिरर्तुभवलोध्र-पुष्प-परागेण, पाण्डुताम् = श्वेतताम्, गौरवर्णतामिति भावः, नीता = प्रापिता, श्रीः = शोभा, चूडापाशे = केशजालके, नवकुरबकम् = नूतनकुरबकम् वसन्तर्तुभवं पुष्पविशेषम्, कर्णे = श्रोत्रे, चारु = मनोज्ञम्, शिरीषम् = ग्रीष्मर्तूंतपन्नपुष्पविशेषम्, सीमन्ते = केशवेशे च
उत्तरमेघः १६१
त्वदुपगमजम् = मेघागमनजन्यम्, वर्षर्तुभवमिति भावः, नीपम् = कदम्बम् अस्तीति शेषः ॥ २ ॥
शब्दार्थः—हे मेघ ! यत्र = जिस अलका में, वधूनाम् = स्त्रियों के, करे = हाथ में, लीला-कमलम् = क्रीडाकमल ( है ), अलके = घुँघराले बालों में, बाल-कुन्दानुविद्धम् = नवीनकुन्द के फूलों का गुम्फन ( है ), आनने = मुँह में, लोध्र-प्रसवरजसा = लोध्रपुष्प के पराग से, पाण्डुतां = गौरवर्णता को, नीताः = प्राप्त, श्रीः = शोभा (है), चूडापाशे = वेणियों में, नव-कुरबकम् = कुरबक के फूल हैं, कर्णे = कान में, चारु = सुन्दर, शिरीषम् = शिरीष (मोलश्री) फूल हैं, सीमन्ते = माँग में, त्वदुपगमजम् = तुम्हारे आने पर अर्थात् वर्षाऋतु आने पर उत्पन्न, नीपम् = कदम्ब पुष्प है ।
भावार्थः—हे मेघ ! यत्रालकायां स्त्रीणामङ्गेषु सर्वेषु ऋतुषु जायमानानि पुष्पाणि सर्वदेव विराजन्ते । यथा करे शरदर्तुभवं पद्मम्, चूर्णकुन्तले हेमन्तर्तुभवं नवकुन्दानुविद्धम्, आनने शिशिर-सूचिका-लोध्रपुष्पपरागेण श्वेततां नीता शोभा, चूडापाशे वसन्तर्तुभवं नवकुरबकपुष्पम्, कर्णे सुन्दरं ग्रैष्मं शिरीष-पुष्पं, सीमन्ते च वर्षर्तुभवं कदम्बपुष्पं विराजते ॥ २ ॥
हिन्दी—हे मेघ ! जिस अलका में छहों ऋतुओं में होने वाले फूल सर्वदा स्त्रियों के अङ्गों में लगे रहते हैं । जैसे स्त्रियों के हाथ में शरदऋतु में होने वाला कमल है, घुंघराले बालों में हेमन्त ऋतु में होने वाले नवीन कुन्दों का गुम्फन है, मुँह पर शिशिरऋतु में होने वाले ‘लोध्र’ पुष्प के पराग से गौरवर्णता को प्राप्त शोभा है, केश की गूंथी चोटी में वसन्तऋतु में होने वाले नये कुरबक के फल हैं, कान में ग्रीष्म ऋतु में होने वाले सुन्दर शिरीष के फूल हैं और माँग में वर्षा ऋतु में होने वाले कदम्ब के पुष्प हैं ॥ २ ॥
समासः—लीलायै कमलम् = लीलाकमलम् ( चतु० तत्० ), बालानि तानि कुन्दानि बालकुन्दानि ( कर्म० ) बालकुन्दानाम् अनुविद्धम् = बालकुन्दानुविद्धम् ( ष० तत्० ) लोध्रस्य प्रसवाः = लोध्र-प्रसवाः ( ष० तत्० ) लोध्रप्रसवानां रजः = लोध्रप्रसवरजः ( ष० तत्० ) तेन । नवञ्च तत् कुरबकम्
| १६२ | मेघदूतम् |
|---|
नवकुरबकम् ( कर्म० )। चूडानां पाशः = चूडापाशः ( ष० तत्० ) तस्मिन् । सीम्नः अन्तः सीमन्त, ( ष० तत्० ) तस्मिन् । तव उपगमः = त्वदुपगमः ( ष० तत्० )।
कोशः—वधूर्जायास्नुषास्त्री च, इत्यमरः। सीमान्तम-स्त्रियां मस्तकेश-वीथ्यामुदाहृतम्, इति शब्दार्णवः। वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् इत्यमरः। परागः सुमनोरजः, इत्यमरः।
टिप्पणी—अलकम् = यहाँ सप्तमी विभक्ति के नहीं होने से भग्नप्रक्रम दोष है। शीघ्रप्रसवरजसा पाण्डुता—जिस तरह आजकल की वधुएं मुँह पर शोभा लाने के लिए “पाउडर” आदि का उपयोग करती हैं उसी तरह यक्ष के समय में भी स्त्रियां लोध्र-पुष्प के पराग का उपयोग करती थीं। लोध्र-पुष्प रक्त वर्ण का होता है और उसका पराग गौर वर्ण का होता है, अतः उसका उपयोग किया जाता रहा होगा। यहाँ “श्री” के प्रधान कर्म होने से कर्मवाच्य में “प्रधाने नीहृत्कृष्वहाम्” इस नियम के अनुसार प्रथमा विभक्ति हुई है एवं पाण्डुता के अप्रधान कर्म होने के कारण उससे द्वितीया विभक्ति हुई है। कुरबकम्—कुरबकस्य विकारम् कुरबकम्, उक्त विग्रह में पुष्पवाची “कुरबक” शब्द से “तस्य विकारः” इस सूत्र से अण् प्रत्यय हुआ तो परन्तु उसका “पुष्पमूलेषु बहुलम्” इस सूत्र से लुक् हो गया “कुरत्रक” अपने प्रकृतिरूप में ही रह गया। सीमन्तः—सीम्नः (केशस्य) अन्तः = सीमन्तः। यहाँ मांग के अर्थ में सीमन् + अन्तः ऐसी स्थिति “शकन्ध्वादिषु पररूपं वाच्यम्” इस सूत्र से पररूप हुआ है, अन्य अर्थ में तु “सीमान्त” ऐसा प्रयोग होता है। त्वदुपगमजः = यहाँ युष्मद् के आगे “उपगम” यह उत्तर पद है अतः “प्रत्ययोत्तरपदयोश्च” इस सूत्र से युष्मद् के स्थान पर “त्वत्” आदेश हो गया है।
अलकापुरी भोगस्थल है अतः उसमें छहों ऋतुओं के उपभोग्य फूल सर्वदा उपलब्ध रहते हैं, इस बात को प्रदर्शित करते हुए कवि ने उसका वर्णन किया है जैसे—शरद में कमल, कुन्द पुष्प हेमन्त में, कुरबक वसन्त में, लोध्रपुष्प शिशिर में, शिरीष पुष्प ग्रीष्म में एवं कदम्ब के फूल वर्षार्ऋतु में होते हैं, परन्तु ये सभी फूल अलका की स्त्रियों के अङ्गों में सर्वदा अलंकृत रहते हैं ॥ २ ॥