मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
| १६४ | मेघदूतम् |
|---|
वेष्टिता गृहबर्हिणः सततोज्ज्वलबर्हाः स्ववाणीभिरुद्गतकण्ठः, एवं रात्रयश्च निरवच्छिन्न चन्द्रिकोज्ज्वलाऽऽपसारितान्धकारप्रसरा रमणीयाश्च सन्ति ॥ १ ॥
हिन्दी—हे मेघ ! जिस अलका में वृक्ष नित्य फूलों से सम्पन्न, न कि केवल अपनी ही ऋतुओं में, अतएव मदमस्त भौरों से गुञ्जायमान रहते हैं, सदा कमलों से युक्त कमल-लताएँ हंसपंक्ति से घिरी रहती हैं, घर के पालतू मयूर सदा चमकते हुए पूँछवाले अपनी वाणी बोलते समय गर्दन ऊँची करके रहते हैं, और रातें अनवरत ज्योत्स्नावाली अन्धकार के नष्ट हो जाने से, रमणीय रहती हैं ॥ १ ॥
समासः—उन्मत्ताश्च ते भ्रमराः = उन्मत्तभ्रमराः (क० धा०) उन्मत्त-भ्रमरैः मुखराः = उन्मत्तभ्रमरमुखराः (तृ० तत्०) नित्यानि पद्मानि यासां ताः नित्यपद्मा (बहु०) हंसानां श्रेणी = हंस-श्रेणी (ष० तत्०), रचिता रशना यासां ताः रचितरशनाः (बहु०) हंसश्रेणिभिः रचितरशनाः = हंसश्रेणी-रचित-रशना (तृ० तत्) भवनेषु शिखिनः भवनशिखिनः (स० तत्०), भास्वन्तः कलापाः येषां ते = भास्वत्कलापाः (बहु०) नित्यं भास्वत्-कलापाः = नित्य-भास्वत्कलापाः (सुप्सुपेति समासः) उन्नतः कण्ठः येषां ते = उत्कण्ठाः (बहु०), केकाभिः उत्कण्ठाः = केकोत्कण्ठाः (तृ० तत्०)। प्रकृष्टाः दोषाः येषां ते प्रदोषाः (बहु०)। नित्या ज्योत्स्ना येषां ते नित्यज्योत्स्ना (बहु०)। तमसः वृत्तिः = तमोवृत्तिः (ष० तत्०) प्रतिहताः तमोवृत्तयः येषां ते प्रतिहततमो-वृत्तयः (बहु०) प्रतिहततमोवृत्तयश्च ते रम्याः प्रतिहततमोवृत्तिरम्याः (क० धा०)।
कोशः—वृक्षो महीरुहः शाखी विटपी पादपस्तरुः, इत्यमरः। केकावाणी-मयूरस्य, इत्यमरः। प्रदोषो रजनी-मुखम्; इत्यमरः
टिप्पणी—पादपः—पादैः पिबन्ति इस विग्रह में "पाद" उपपदपूर्वक "पा" पाने धातु से आतोऽनुपसर्गे कः" इस सूत्र से "क" प्रत्यय करके "पादपः" ऐसा शब्द निष्पन्न होता है। उन्मत्तः—"उद्" उपसर्गपूर्वक "मद्" धातु से "क्त" प्रत्यय करके "उन्मत्तः" शब्द निष्पन्न होता है। मुखराः—
उत्तरमेघः १६५
“मुखमस्त्येषामिति” इस विग्रह में “मुख” शब्द से “रप्रकरणे मुखकुञ्जेभ्यः उपसंख्यानम्” इस वार्तिक से रप्रत्यय करके “मुखर” ऐसा रूप निष्पन्न होता है। शिखिनः—शिखा अस्त्येषाम् इस विग्रह में “शिखा” शब्द से इनि प्रत्यय करके “शिखिन्” ऐसा शब्दरूप निष्पन्न होता है, उसी के प्रथमा विभक्ति के बहुवचन का उक्त रूप है। भास्वन्तः—भास धातु से मतुप् प्रत्यय करके उक्त रूप निष्पन्न किया जाता है। प्रदोषाः—यद्यपि “प्रदोष” गोधूलिवेला का नाम है क्योंकि कोश कहता है “प्रदोषो रजनी-मुखम्” परन्तु प्रकृति में यह लक्षणा से रात्रि का वाचक है। प्रतिहताः—“प्रति” उपसर्गपूर्वक हिसार्थक “हन्” धातु से “क्त” प्रत्यय करके स्त्रीत्व विवक्षा में टाप् करके “प्रतिहता” शब्द निष्पन्न होता है। वृत्तिः—यहाँ वर्तनाथंक “वृत्” धातु से क्तिन् प्रत्यय किया गया है।
अलङ्कारः—प्रस्तुत श्लोक में कमलिनी में नायिकाभाव गम्य है पर “हंसश्रेणीरचितरशना” यहाँ हंस-श्रेणी में रशनात्व का आरोप किया गया है अतः एकदेशविवर्ति रूपक अलंकार हुआ। एवञ्च अन्य पादपों से प्रस्तुत पद्य में वर्णित “पादप” वैशिष्ट्य का वर्णन है, अतः व्यतिरेक एवं आर्थी परिसंख्या अलङ्कार है एवं इन अलङ्कारों के परस्पर निरपेक्षभाव से रहने के कारण “संसृष्टि” अलङ्कार है।
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै- र्नान्यस्तापः कुसुमशरजादिष्ट-संयोगसाध्यात् । नाप्यन्यस्मात् प्रणयकलहाद्विप्रयोगोपपत्ति- र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ २ ॥
अन्वयः—यत्र, वित्तेशानाम्, आनन्दोत्थम्, नयनसलिलम्, अन्यैः निमित्तैः न इष्टसंयोगसाध्यात्, कुसुमशरजात्, अन्यः, तापः न, प्रणयकलहात्, अन्यस्मात् विप्रयोगोपपत्तिः, अपि न यौवनात्, अन्यत्, वयः, अस्ति, खलु।
१६६ मेघदूतम्
व्याख्या—हे मेघ ! यत्र = अलकायाम्, वित्तेशानाम् = वित्ताधिपानां यक्षाणामित्यर्थः, आनन्दोत्थम् = हर्षोद्भवम्, नयनसलिलम् = नेत्राम्बु, "अस्ति" इति तु सर्वत्र योज्यम्, अन्यैः = अपरैः, निमित्तैः = हेतुभिः, न = नहि वर्तते । इष्टसंयोगसाध्यात् = प्रियसमागम-निवर्तनीयात्, कुसुमशरजात् = कामोद्भवात्, अन्यः = अपरः, तापः = संतापः, न नहि वर्तते । प्रणयकलहात् = प्रेम-( केलि ) विग्रहात्, अन्यस्मात् = अपरस्मात्, विप्रयोगोपपत्तिः = विश्लेषप्राप्तिः, अपि, न = वर्तते; यौवनात् = तारुण्यात्, अन्यत् = अपरम्, वयः = अवस्था न अस्ति = न वर्तते, खलु = निश्चयेन ।
शब्दार्थः—यत्र = जिस अलका में, वित्तेशानाम् = यक्षों के, नयनसलिलम् = नेत्रजल, अश्रु, आनन्दोत्थम् = हर्ष से उत्पन्न हैं, अन्यैः = दूसरे, निमित्तैः = कारणों से, न = नहीं, इष्टसंयोगसाध्यात् = प्रियजनों के समागम से दूर हो सकनेवाले, कुसुमशरजात् = काम से उत्पन्न, अन्यः = भिन्न, तापः = संताप, न = नहीं, प्रणयकलहात् = प्रणयकालिक झगड़े से, अन्यस्मात् = भिन्न ( किसी कारण से ), विप्रयोगोपपत्तिः = विरह की प्राप्ति, न = नहीं है, यौवनात् = जवानी से, अन्यत् = भिन्न दूसरी, वयः = उम्र, न अस्ति = नहीं है, अर्थात् वृद्धावस्था नहीं है ।
भावार्थः—हे मेघ ! यस्यामलकायां यक्षाणां हर्षजन्यमेव नेत्राम्बु नान्य-निमित्तोद्भवम्, कामोत्पन्न एव सन्तापः नान्योद्भवः, प्रणयकलहादेव विरह-प्राप्तिर्नतु अन्यस्मात् कारणात्, एवञ्च तारुण्यादपरं वयः न वर्तते नतु वृद्धत्वा-दिकमपि इति भावः ।
हिन्दी—हे मेघ ! जिस अलका में यक्षों को हर्षजन्य ही नेत्रजल ( अश्रु ) निकलते हैं न किसी और कारणों से, प्रियजन-समागम से दूर होनेवाला काम से ही उत्पन्न संताप है न कि किसी और कारणों से, प्रणयकलह के कारण ही वियोग की प्राप्ति होती है न कि किसी और कारण से, और जवानी ही एक अवस्था है दूसरी कोई अवस्था ( उम्र ) नहीं ।
समासः—वित्तानाम् ईशः = वित्तेशः ( ष० तत्० ) तेषाम् । नयनयोः सलिलम् नयनसलिलम् ( ष० तत्० ) इष्टैः संयोगः = इष्टसंयोगः ( तृ० तत्० )
उत्तरमेघः १६७
इष्टसंयोगेन साध्यः = इष्टसंयोगसाध्यः (तृ० तत्०) तस्मात्। कुसुमान्येव शराः = कुसुमशराः (रूपक क०) अथवा कुसुमान्येव शराः यस्य सः कुसुमशरः (बहु०) तस्माज्जातः कुसुमशरजः (ष० तत्०) तस्मात्। विप्रयोगस्य उपपत्तिः = विप्रयोगोपपत्तिः (ष० तत्०)।
कोशः—वित्ताधिपः कुबेरः स्यात् प्रभौ धनिकपक्षयोः, इति शब्दार्णवः। निमित्तं हेतुलक्ष्मणोः, इत्यमरः। कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्, इत्यमरः। पुष्पधन्वा रतिपतिः मकरध्वजः आत्मभूः, इत्यमरः।
टिप्पणी—इष्टः—इच्छा अर्थ में विद्यमान "इष्" धातु से "क्त" प्रत्यय करके "इष्ट" शब्द निष्पन्न होता है। कुसुमशरजात्—यहाँ "अन्य" के योग होने से "अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते" इस सूत्र से पञ्चमी विभक्ति हुई है। विप्रयोगः—"वि" एवं "प्र" उपसर्गपूर्वक योगार्थक "युज्" धातु से "घञ्" प्रत्यय करके विप्रयोग शब्द बनता है। उपपत्तिः—"उप" उपसर्गपूर्वक गत्यर्थक "पद्" धातु से भाव में "क्तिन्" प्रत्यय करके "उपपत्ति" शब्द निष्पन्न होता है। यौवनम्—यूनो भावः इस विग्रह में "युवन्" शब्द से "हायनान्तयुवादिभ्योऽण्" इस सूत्र से "अण्" प्रत्यय करके आदिवृद्धि करके "यौवनम्" शब्द बनता है॥
अलङ्कारः—"परिसंख्या निषिध्यैकमन्यस्मिन्वस्तुयन्त्रणम्" चन्द्रालोक के इस नियम के अनुसार यहाँ 'परिसंख्या' अलङ्कार है, क्योंकि इस श्लोक में आंसू आदि का शोकादि में निषेध कर हर्षादि में नियन्त्रण किया गया है।
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधुरतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्व्वाहतेषु ॥ ३ ॥
अन्वयः—यस्याम्, यक्षाः, उत्तमस्त्रीसहायाः, सितमणिमयानि, ज्योतिश्छाया
१६८ | मेघदूतम्
कुसुमरचितानि हर्म्यस्थलानि एत्य, त्वद्गम्भीरध्वनिषु, पुष्करेषु, शनकैः, आहतेषु कल्पवृक्षप्रसूतम्, रतिफलम्, मधु, आसेवन्ते ॥ ३ ॥
व्याख्या—यस्याम् = यत्रालकायाम्, यक्षाः = देवयोनिविशेषधनाधिपाः, उत्तमस्त्रीसहायाः = मनोज्ञ-वनितासहचराः, (सन्तः), सितमणिमयानि = स्फटिकमणिनिर्मितानि, ज्योतिश्छायाकुसुमरचितानि = नक्षत्रप्रतिबिम्ब-रूपपुष्प-परिष्कृतानि, हर्म्यस्थलानि = सौध-शिखराणि, एत्य = गत्वा, त्वद्गम्भीरध्वनिषु = मेघगम्भीरस्तनितेषु, पुष्करेषु = वाद्यपात्रमुखेषु, शनकैः = मन्दम्, आहतेषु = सुताडितेषु, (सत्सु), कल्पवृक्षप्रसूतम् = सुरतरुजातम्, रतिफलम् = एतन्नामकं फलम्, मधु = मद्यम्, आसेवन्ते = पिबन्ति ॥ ३ ॥
शब्दार्थः—यस्याम् = जिस अलका नगरी में, यक्षाः = यक्षगण, उत्तमस्त्रीसहायाः = रमणीय स्त्रियों के साथ, सितमणिमयानि = स्फटिक मणि से खचित, ज्योतिश्छायाकुसुमरचितानि = नक्षत्रों के प्रतिबिम्ब रूप फूलों से सजाये गये, हर्म्यस्थलानि = महलों की अटारियों पर, एत्य = जाकर, त्वद्गम्भीरध्वनिषु = तुम्हारे समान गम्भीर शब्द वाले, पुष्करेषु = नगाड़ों के, शनकैः = धीरे-धीरे, आहतेषु = बजाये जाने पर, कल्पवृक्षप्रसूतम् = कल्पवृक्ष से उत्पन्न, रतिफलम् = रतिफल नाम की, मधु = मदिरा का, सेवन्ते = सेवन करते हैं, अर्थात् पीते हैं ॥ ३ ॥
भावार्थः—हे मेघ ! यस्यामलकायां यक्षाः स्फटिकमणिनिर्मितानि नक्षत्र-प्रतिबिम्ब-रूपैः पुष्पैः सज्जीकृतानि सौधशिखराण्येल्य त्वद्गम्भीरध्वनिषु वाद्यभाण्डेषु शनैः शनैः प्रताडितेषु कल्पवृक्षोत्पन्नं रतिफलनामकं मद्यमासेवन्ते ॥ ३ ॥
हिन्दी—हे मेघ ! जिस अलका नगरी में यक्षगण रमणीय रमणियों के साथ स्फटिकमणि से खचित, तारों के प्रतिबिम्बरूपी फूलों से सजाये गये महलों की अटारियों पर जाकर तुम्हारी तरह गम्भीर शब्द वाले नगाड़ों के धीमे-धीमे बजाये जाने पर कल्पवृक्ष से निकले रतिफल नामक मदिरा का सेवन करते हैं ॥ ३ ॥
उत्तरमेघः १६९
समासः— उत्तमाश्च ताः स्त्रियः = उत्तमस्त्रियः ( कन्याः ) उत्तमस्त्रियः सहायाः येषान्ते उत्तमस्त्रीसहायाः ( बहु० ) सिताश्च ते मणयः = सितमणयः ( कर्म० ) सितमणिभिः प्रकृतानि = सितमणिमयानि ( तृ० तत्० ) । ज्योतिषां छायाः = ज्योतिश्छायाः ( ष० तत्० ), ता एव कुसुमानि = ज्योतिश्छायाकुसुमानि ( क० धा० रूपक० ) तैः रचितानि = ज्योतिश्छायाकुसुमरचितानि ( तृ० तत्० ) । हर्म्याणां स्थलानि = हर्म्यस्थलानि ( ष० तत्० ) । कल्पवृक्षात्प्रसूतम् ( ष० त० ) ।
कोशः— कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः, इत्यमरः । ज्योतिस्ताराग्निभाज्वाला दृक्पुत्रार्यार्धिवरात्मसु, इति वैजयन्ती । पुष्करं करहस्ताग्रे वाद्यभाण्डमुखे जले, इत्यमरः ।
टिप्पणी— उत्तमस्त्रीसहायाः—समासस्थल में इसका विग्रह उत्तमाश्च ताः स्त्रियः ऐसा विग्रह होता है वहाँ कर्मधारय समास होकर "पुंवत्कर्मधारयजातीयदेशीयेषु" इस सूत्र से उत्तमा को पुंवत्भाव "उत्तम" ऐसा हो गया और पुनः बहुव्रीहि समास कर उत्तम-स्त्रीसहायाः बनाया जाता है । सितमणिमयानि—यहाँ सितमणि शब्द से नाभि प्रकृतानि इस विग्रह में "तत्प्रकृतवचने मयट्" इस सूत्र से मयट् प्रत्यय किया गया है । एत्य—गत्यर्थक इण् धातु से क्त्वा प्रत्यय करके उसके स्थान पर ल्यप् करके "एत्य" ऐसा रूप बनता है । आहतेषु—"आङ्" उपसर्गपूर्वक "हन्" धातु से "क्त" प्रत्यय करके आहत ऐसा बनता है, यह रूप इसी शब्द की स० वि० के बहुवचन का है । आसेवन्ते—'आङ्' उपसर्गपूर्वक "सेव" धातु के लट् लकार के प्रथम पुरुष के बहुवचन का यह रूप है, यह धातु आत्मनेपदी है ।
अलङ्कारः— यहाँ यक्षों का ( महापुरुषों का ) एवं अलौकिक ऐश्वर्य का भी वर्णन है, अतएव "उदात्त" अलङ्कार है । "ज्योतिश्छायाकुसुमरचितानि" यहाँ "रूपक" है । "त्वद्गम्भीरध्वनिषु" यहाँ "लुप्तोपमा" है । एवं तीनों अलङ्कारों की सत्ता निरपेक्षभाव से है अतः "संसृष्टि" अलङ्कार है ॥ ३ ॥
१७० | मेघदूतम्
मन्दाकिन्याः सलिल-शिशिरैः सेव्यमानामरुद्भि- र्मन्दाराणामनुतटरुहां छायया वारि-तोष्णाः । अन्वेष्टव्यैः कनकसिकता—मुष्टि — निक्षेपगूढैः संक्रीडन्ते मणिभिरमर-प्रार्थिता यत्र कन्याः ॥४॥
अन्वयः—यत्र, अमर-प्रार्थिताः, कन्याः, मन्दाकिन्याः, सलिलशिशिरैः, मरुद्भिः, सेव्यमानाः, अनुतटरुहाम्, मन्दाराणाम् छायया, वारितोष्णाः, कनक-सिकतामुष्टिनिक्षेपगूढैः, अन्वेष्टव्यैः, मणिभिः, संक्रीडन्ते ॥ ४ ॥
व्याख्या — यत्र = अलकायाम्, अमर-प्रार्थिताः=देव'भिलषिताः, कन्याः= यक्षकुमार्यः, मन्दाकिन्याः=स्वर्गङ्गायां, सलिलशिशिरैः=तोयशीतलैः, मरुद्भिः=पवनैः, सेव्यमानाः=सेविताः, अनुतटरुहाम् =उपकूलोद्भवानाम्, मन्दाराणाम् =मन्दारवृक्षाणाम्, छायया=अनातपेन, वारितोष्णाः =दूरीकृताऽऽतपाः [सत्यः], कनकसिकतामुष्टिनिक्षेपगूढैः =स्वर्णवालुकामुष्टिप्रक्षेपगुप्तैः, अत एव अन्वेष्टव्यैः =गवेषणीयैः, मणिभिः =रत्नैः, संक्रीडन्ते =सम्यक्क्रीडन्ति ॥५॥
शब्दार्थः—यत्र = जिस अलका में, अमर-प्रार्थिताः =देवताओं की अभिलषित, कन्याः =यक्षकुमारियां, मन्दाकिन्याः = आकाशगङ्गा के, सलिल-शिशिरैः =जल से शीतल, मरुद्भिः =पवनों से, सेव्यमानः =सेवित, अनुतटरुहाम् =किनारों पर उत्पन्न, मन्दाराणाम् =मन्दारवृक्षों की, छायया =छाया से, वारितोष्णाः =जिनकी धूप दूर कर दी है (ऐसी वे यक्षकुमारियां) कनक-सिकता-मुष्टि-निक्षेप-गूढैः =स्वर्ण की बालू में मुट्ठी रखकर छुपाई गयी, अत एव, अन्वेष्टव्यैः =खोजने योग्य ( जिन्हें खोजना पड़े ) ऐसे, मणिभिः = मणियों से, संक्रीडन्ते =अच्छी तरह खेलती हैं ॥ ४ ॥
भावार्थः—हे मेघ ! यत्रालकायां देवयाचिताः आकाशगङ्गायाः जलशीतलैः पवनैरासेव्यमानाः तीरोत्पन्नमन्दारवृक्षाणां छाययाऽऽपसारिताऽऽतपाः यक्षकुमार्यः सुवर्णवालुकामुष्टि-प्रक्षेपगुप्तैः अन्वेष्टव्यैः रत्नैः संक्रीडन्ते ।
हिन्दी—हे मेघ ! जिस अलका में, देवताओं से याचित, आकाशगङ्गा के
उत्तरमेघः १७१
जल से शीतल पवनों से सेवित, तीर पर उत्पन्न मन्दार वृक्षों की छाया से जिनकी धूप दूर कर दी गयी है, ऐसी यक्षकुमारियाँ सोने के बालुओं में मुट्ठी बाँधकर छिपायी गयी एवं जिसे खोजना पड़ता है ऐसी मणियों से अच्छी तरह खेलती हैं ।
समासः—अमरैः प्रार्थिताः = अमरप्रार्थिताः (तृ० तत्) । सलिलेन शिशिराः = सलिलशिशिराः (तृ० तत्) । तटे इति अनुतटम् (विभक्त्यर्थे अव्ययीभावः) । अनुतटं रोहन्तीति अनुतटरुहः (उपपद०) तेषाम् कनकस्य सिकताः = कनकसिकताः (ष० तत्०) मुष्टिभिर्निक्षेपः = मुष्टिनिक्षेपः (तृ० तत्०), कनकसिकतासु मुष्टिनिक्षेपः = कनकसिकता-मुष्टिनिक्षेपः (स० तत्०) कनकसिकतामुष्टिनिक्षेपेण गूढाः = कनकसिकतामुष्टिनिक्षेपगूढाः (तृ० तत्०) । वारितो उष्णो यासां ताः वारितोष्णाः (बहु०) ।
कोशः—कन्या कुमारिका नार्यः, इति विश्वः । रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारिभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता । इति दशार्णवः । 'मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका, इत्यमरः ।
टिप्पणी—प्रार्थिताः—"प्र" उपसर्गपूर्वक णिजन्त "आर्थि" धातु से "क्त" प्रत्यय करके "प्रार्थित" शब्द बनता है, स्त्रीत्व विवक्षा में "टाप्" करके "प्रार्थिता" ऐसा बनता है । अनुतटरुहाम्—यहाँ 'अनुतट' उपपदपूर्वक "रुह" धातु से क्विप् प्रत्यय किया गया है और उसका सर्वापहारीलोप हो गया है । इसका पाठान्तर "तटवनरुहाम्" ऐसा भी मिलता है । इन्द्र के नन्दनबन के पाँच वृक्षों में मन्दार भी एक वृक्ष है । पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ इत्यमरः । वारिताः—णिजन्त "वारि" धातु से "क्त" प्रत्यय करके स्त्रीत्वविवक्षा में "टाप्" करके बहुवचन में ऐसा रूप निष्पन्न होता है । गूढाः—"गुह्" धातु से "क्त" प्रत्यय करके ढत्वादिक करके "ढूलोपे पूर्वस्य दीर्घोऽणः" इस सूत्र से धातु के उकार को दीर्घ करके "स्त्रीत्वविवक्षा में "टाप्" करके बहुवचन में "गूढाः" ऐसा रूप बनाया जाता है । अन्वेष्टव्यैः—"अनु" उपसर्गक "इष्" धातु से "तव्यत्" प्रत्यय
१७२ मेघदूतम्
करके “अन्वेष्टव्य” रूप बनता है, तृतीया विभक्ति का उक्त रूप है। संक्रीडन्ते- सम् उपसर्गपूर्वक “क्रीड्” धातु के प्रथमपुरुष के बहुवचन का यह रूप है। यहाँ “क्रीडोऽनुसंपरिभ्यश्च” इस सूत्र से आत्मनेपद हुआ है।
अलङ्कारः-यहाँ अद्भुत ऐश्वर्य का वर्णन है अतः “उदात्त” अलङ्कार है॥
नीवोबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्
ह्रीमूढानां भवति विफलप्रेरणा चूर्ण-मुष्टिः ॥ ५ ॥
अन्वयः—यत्र, अनिभृतकरेषु, प्रियेषु नीवीबन्धोच्छ्वसितशिथिलम्, क्षौमम्, रागात् आक्षिपत्सु, ह्रीमूढानाम्, बिम्बाधराणाम्, चूर्णमुष्टिः, अर्चिस्तुङ्गान्, रत्नप्रदीपान्, अभिमुखम्, प्राप्य, अपि, विफलप्रेरणा, भवति।
व्याख्या—(हे मेघ!) यत्र=यस्मामलकायाम्, अनिभृतकरेषु=चपल-हस्तेषु, प्रियेषु=वल्लभेषु, नीवीबन्धोच्छ्वसितशिथिलम् = वसनग्रन्थित्रुटित-शिथिलम्, क्षौमम्=दुकूलम्, रागात्=कामाऽऽधिक्यात्, आक्षिपत्सु (सत्सु) ह्रीमूढानाम्=लज्जाविधुराणाम्, बिम्बाधराणाम्=वनिता-विशेषाणाम्, चूर्ण-मुष्टिः=मुष्टिगृहीतकुंकुमादिधूलिः, अर्चिस्तुङ्गान्=मयूखोन्नतान्, रत्नप्रदीपान् मणिदीपान्, अभिमुखम्=सम्मुखम्, प्राप्य अपि, गत्वा अपि, विफलप्रेरणा=निष्फलवेगा, भवति=वर्तते।
शब्दार्थः—(हे मेघ!) यत्र=जिस अलका में, अनिभृतकरेषु=चञ्चलहाथ वाले, प्रियेषु=प्रियतमों के (द्वारा) नीवीबन्धोच्छ्वसितशिथिलम्=नीवीबन्ध के टूट जाने के कारण शिथिल, क्षौमम्=साड़ी को, रागात्=कामाऽऽवेश के कारण, आक्षिपत्सु=खींचने का, ह्रीमूढानाम्=लज्जा से विमूढ, बिम्बाधरा-णाम्=बिम्ब फल के समान होंठवाली स्त्री-विशेषों के, चूर्णमुष्टिः=कुंकुमादि-चूर्ण की मुट्ठी, अर्चिस्तुङ्गान्=ऊंची किरणोंवाले, रत्नप्रदीपान्=मणिदीपों के
उत्तरमेघः १७३
पास, प्राप्य अपि = पहुँचकर भी, विफलप्रेरणा = निष्फल वेगवाली; भवति = हो जाती है। अर्थात् उनका फेंकना बेकार हो जाता है ॥ ५ ॥
भावार्थः— हे मेघ ! यस्यामलकायां चञ्चलहस्तेषु वल्लभेषु नीवीबन्धत्रुटितशिथिलं दुकूलं कामाऽऽवेशात् आहरत्सु लज्जाविमूढानां बिम्बाधराणां कुंकुमादि-चूर्णमुष्टिः मयूखोन्नतान् रत्नदीपान् प्राप्य अपि निष्फलवेगा भवति ॥
हिन्दी— हे मेघ ! जिस अलका के चञ्चल हाथों वाले प्रियतमों के द्वारा नीवीबन्ध के टूट जाने के कारण शिथिल साड़ी को कामाऽऽवेश से खींचने पर लज्जा से ठगी बिम्बाधरियों की कुंकुमादि की मुट्ठी ऊँची किरणोंवाले मणिदीप के पास पहुँचकर भी बेकार चली जाती है ॥ ५ ॥
समासः= न निभृताः = अनिभृताः ( नञ्० ) अनिभृताः कराः येषान्ते अनिभृतकराः ( बहु० ) तेषु। ह्रिया मूढाः = ह्रीमूढाः (तृ० तत्०) बिम्बम् इव अधरो यासां ताः बिम्बाधराः ( बहु० ) तासाम् । चूर्णस्य मुष्टिः = चूर्णमुष्टिः ( ष० तत्० ) अर्चिभिः तुङ्गाः = अर्चिस्तुङ्गाः ( तृ० तत्० ) तान् । रत्नान्येव प्रदीपाः रत्नप्रदीपाः ( रूपकः ) तान्, विगतं फलं यस्याः सा = विफलाः (बहु०) विफला प्रेरणा यस्याः सा विफलप्रेरणा ( बहु० ) ।
कोशः— नीवी परिपणे ग्रन्थो स्त्रीणां जघनवाससि, इति विश्वः। बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले, इति विश्वः। विशेषाः कामिनी कान्ता भीरुर्बिम्बाधराऽङ्गनाः, इति शब्दार्णवः। अर्चिर्मयूर-वह्निशिखयोः, इति विश्वः। मन्दाक्षं स्त्रीस्त्रपा व्रीडा लज्जा सा, इत्यमरः ॥
टिप्पणी— निभृतः— “नि” उपसर्गपूर्वक “भृ” धातु से “क्त” प्रत्यय करके “निभृत” ऐसा रूप बनता है। उच्छ्वसित— “उद्” उपसर्गपूर्वक “श्वस्” भाव में क्त प्रत्यय करके उच्छ्वसित बनता है। नीवीबन्धः— “नीवी” शब्द का अर्थ ही स्त्रियों की साड़ी का “बन्ध” है, पुनः “बन्ध” शब्द का प्रयोग कवि ने किया है अतः महामहोपाध्याय मल्लिनाथजी ने नीव्याः बन्धः ऐसा ष० तत्० समास न करके रूपक समास किया है। बिम्बाधरा— यहाँ अधर शब्द स्वाङ्गवाची है अतः “स्वाङ्गाच्चोपसर्जनात्” इस सूत्र से ङीष् होना चाहिए
१२ मे० दू०
| १७४ | मेघदूतम् |
|---|
या परन्तु अघर शब्द के बहुत अच्वाला होने के कारण "न क्रोडादिबह्वचः" इस सूत्र से निषेध हो गया—टाप् हो गया है । प्राप्य — "प्र" उपसर्गपूर्वक आप् ( स्वा० ) धातु से क्त्वा प्रत्यय करके उसके स्थान पर ल्यप् करके "प्राप्य" ऐसा रूप बनता है । प्रस्तुत श्लोक में वर्णित बिम्बाधरियाँ "मुग्धा" जान पड़ती हैं क्योंकि पतिद्वारा साड़ी खींचे जाने पर नग्नता के कारण उत्पन्न लज्जा से किंकर्तव्यविमूढ होकर रत्नप्रदीप पर जिसकी किरणें बुझ नहीं सकतीं उस पर चूर्णमुष्टि का प्रक्षेप करती है, जो निष्फल है, क्योंकि उस दीप पर पड़कर भी वह धूलि नीचे गिर जाती हैं, प्रकाश पूर्ववत् रह जाता है, अतः वे मुग्धा हैं ।
अलङ्कारः—प्रस्तुत पद्य में चूर्णमुष्टि-प्रक्षेप रूप कारण के रहने पर रत्न-प्रदीप के बुझने रूप ( फल ) कार्य के न होने से "विशेषोक्ति" अलङ्कार है । "बिम्बाधराणाम्" यहाँ सामान्यवाचक पद के न रहने के कारण "लुप्तोपमा" है । इस तरह दोनों के परस्पर अङ्गाङ्गिभावतया रहने के कारण "संकर" नामक अलंकार है ॥ ५ ॥
नेत्रा नीताः सततमतिना यद्विमानाग्रभूमि-
रालेख्यानां स्वजलकणिका-दोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै-
र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ६ ॥
अन्वयः—( हे मेघ ! ) नेत्रा, सततगतिना, यद्विमानाग्रभूमीः, नीताः, त्वादृशाः, जलमुचः, आलेख्यानाम्, स्वजलकणिकादोषम्, उत्पाद्य, सद्यः, शङ्कास्पृष्टा, इव, धूमोद्गारानुकृतिनिपुणाः, जर्जराः, जालमार्गैः, निष्पतन्ति ॥
व्याख्या—( हे मेघ ! ) नेत्रा = नायकेन, सततगतिना = अनवरतगतिना पवनेनेत्यर्थः, यद्विमानाग्रभूमीः = यत्र सप्तभूमिकभवनप्रासादोपरिभूमिका , नीताः = प्रापिता , त्वादृशाः = त्वत् समानाः, जललवमुचः = मेघाः, आलेख्यानाम् = चित्राणाम्, स्वजलकणिकादोषम् = निजतोयलवसंस्पर्शदोषम्, उत्पाद्य = सम्पाद्य, सद्यः = तत्क्षणे, शङ्कास्पृष्टा इव = भीतभीता इव, धूमोद्गारानुकृतिनिपुणाः =
उत्तरमेघः १७५
धूमनिगमानुकरणदक्षाः, जर्जराः=शीर्णाः, (सन्तः) जालमार्गैः=गवाक्षैः, निष्पतन्ति=निर्गच्छन्ति ॥
शब्दार्थः— (हे मेघ !) नेत्रा=प्रेरक, सततगतिना=निरन्तरगतिवाले (वायु) के द्वारा, यद्विमानाग्रभूमीः=सात मंजिलवाले भवनों की अटारियों पर, नीताः=ले जाये गये, त्वादृशाः=तुम्हारे समान, जललवमुचः=मेघगण, आलेख्यानाम्=चित्रों को, स्वजलकणिकादोषम्=अपने जलकणों के संसर्ग से दूषित, प्राप्य=करके, शंकास्पृष्टाः इव=भयभीत से (होकर), धूमोद्गारानुकृतिनिपुणाः=धुआं उगलने का अनुकरण करने में चतुर, जर्जराः=छिन्न-भिन्न (होकर), जालमार्गैः=खिड़कियों के मार्ग से, निष्पतन्ति=निकलते हैं ।
**भावार्थः—**यत्र त्वादृशाः मेघाः प्रेरकेण वायुना सप्तभूमिकभवनप्रासादोपरि नीताः चित्रान् निजजललवसंस्पर्शैः दूषयित्वा सद्यः भयभीता इव धूमोद्गीर्णानुकरणचतुराः जीर्णाः सन्तः गवाक्षमार्गैः निष्पतन्ति ।
**हिन्दी—**हे मेघ ! जिस अलका में अपने प्रेरक वायु के द्वारा सतमंजिले भवनों के ऊपरी भाग पर ले जाये गये तुम्हारे समान मेघ, अपने जलकणों से चित्रों को दूषित कर भयभीत से होकर धूएं निकलने का अनुकरण करने में चतुर छिन्न-भिन्न होकर खिड़की के मार्ग से निकलते हैं ।
**समासः—**सततं गतिर्यस्य सः सततगतिः (बहु०) तेन । यस्याः विमानानि = यद्विमानानि (ष० तत्०) अग्राश्च ताः भूमयः = अग्रभूमयः (कर्मधा०) यद्विमानानां अग्रभूमयः = यद्विमानाग्रभूमीः (ष० तत्०) । जलं मुञ्चन्तीति = जलमुक् (उपपद०) तस्य । स्वस्य जलम् = स्वजलम् (ष० तत्०) । स्वजलस्य कणिका = स्वजलकणिका (ष० तत्०) ताभिः दोषः = स्वजलकणिकादोषः (तृ० तत्०) तम् । शङ्कया स्पृष्टाः = शङ्कास्पृष्टाः (तृ० तत्०) । धूमस्य उद्गारः = धूमोद्गारः (ष० तत्०), तस्य अनुकृतिः = धूमोद्गाराऽनुकृतिः (ष० तत्०) तस्यां निपुणाः = धूमोद्गाराऽनुकृति-निपुणाः (स० तत्०) । जालानां मार्गाः = जालमार्गाः (ष० तत्०) तैः ।
१७६ मेघदूतम्
कोशः—मातरिश्वा सदागतिः, इत्यमरः । चित्रं लिखितरूपाढ्यं स्यादा- लेख्यं तु यत्नतः, इति शब्दार्णवः । शङ्कावितर्कभययोः, इति शब्दार्णवः । सद्यः सपदि तत्क्षणे, इत्यमरः ।
टिप्पणी—नेत्रा—नयतीति नेता प्रापणार्थक् 'नी' धातु से तृच् प्रत्यय करके “अप्तृन्तृच्” आदि सूत्र से अनङ् आदि करके उपधादीर्घ करके “नेत्रा” शब्द व्युत्पन्न होता है । उक्तरूप तृतीया विभक्ति के एकवचन का है ।
नीताः—“नी” धातु से “क्त” प्रत्यय का विधान होने पर निष्पन्न होता है ।
त्वादृशाः—त्वमिव पश्यन्ति इस विग्रह में “युष्मद्” शब्द से “त्यदादिषु” “दृशोऽनालोचने कञ् च” इस सूत्र से “कञ्” प्रत्यय हुआ “अ” बचा एवं “आसर्वनाम्नः” इस सूत्र से युष्मद् को आकारान्तादेश हुआ तब “त्वादृश” शब्द बना है, बहुवचन में त्वादृशाः ऐसा प्रयोग होता है । उत्पाद्य— “उद्” उपसर्ग- पूर्वक णिजन्त “पादि” धातु से क्त्वा प्रत्यय करके उसके स्थान पर ल्यप् करके “उत्पाद्य” ऐसा बनता है । उद्गारः— “उद्” उपसर्गपूर्वक निगरणार्थक “गॄ” धातु से भाव में “घञ्” प्रत्यय तथा वृद्ध्यादि करके “उद्गार” शब्द निष्पन्न होता है । धूमोद्गारानुकृतिनिपुणः—अनुकृतौ निपुणः यहाँ “साधु- निपुणाभ्यामर्चायां सप्तम्यप्रतेः” इस सूत्र से सप्तमी विभक्ति का विधान हुआ । पश्चात् “सप्तमी शौण्डैः” इस सूत्र से सप्तमी तत् पु० समास हुआ है ।
जालमार्गैः—यहाँ “यन्त्रजालैः” ऐसा पाठ भी कहीं-कहीं मिलता है वहाँ यन्त्रनिर्मितानि जालानि ऐसा मध्यमपदलोपी समास समझना चाहिए । निष्पतन्ति—“निस्” उपसर्गपूर्वक “पत” धातु के लट्लकार के प्रथमपुरुष के बहुवचन का उक्त रूप है ।
अलङ्कार—इस श्लोक में “शङ्कास्पृष्टा इव” इस स्थल में उत्प्रेक्षा अलङ्कार है । महामहोपाध्याय श्री मल्लिनाथजी ने इस श्लोक के द्वारा 'जिस तरह कोई जार पुरुष अन्तःपुर के दूत द्वारा चुराकर अन्तःपुर पहुँचा दिया जाता है और वह जार वहाँ स्त्रियों को दूषित कर पीछे पकड़े जाने के भय से किसी
उत्तरमेघः १७७
चोर दरवाजे से निकल भागता है वैसे यहाँ भी मेघ धूआँ-सा रूप बनाकर खिड़की के रास्ते निकल भागते हैं" इस प्रकार की ध्वनि का प्रतिपादन किया है ॥ ६ ॥
अत्र स्त्रीणां प्रियतमभुजालिङ्ग्नोच्छ्वासिताना-
मङ्गग्लानिं सुरतजनितां तन्तुजालाब लम्बाः ।
त्वत्संरोधापगम — विशदैश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७ ॥
अन्वयः—यत्र, निशीथे, त्वत्संरोधाऽपगमविशदैः, चन्द्रपादैः, स्फुटजल-लवस्यन्दिनः, तन्तुजालाऽवलम्बाः, चन्द्रकान्ताः, प्रियतमभुजालिङ्ग्नोच्छ्वासितानाम्, स्त्रीणाम्, सुरतजनिताम्, अङ्गग्लानिम्, व्यालुम्पन्ति ।
व्याख्या—यत्र = यस्यामलकायाम्, निशीथे = रात्रौ, त्वत्संरोधापगमविशदैः = मेघावरणापगमनिर्र्मलैः, चन्द्रपादैः = हिमांशु·किरणैः, स्फुटजललवस्यन्दिनः = व्यक्ततोयकण स्राविणः, नन्तुजाला·वलम्बाः = सूत्रसमूहाधाराः, वितानाधो भागः इति शेषः । चन्द्रकान्ताः = चन्द्रकान्तमणयः, प्रियतमभुजाऽऽलिङ्गिनोच्छ्वासितानाम् = वल्लभवाह्वाश्लेषशिथिलीकृतानाम्, स्त्रीणाम् = वनितानाम्, सुरतजनिताम् = सम्भोगोत्पन्नाम्, अङ्गग्लानिम् = शरीरपीडाम्, व्यालुम्पन्ति = दूरीकुर्वन्ति ॥ ६ ॥
शब्दार्थः—यत्र = जिस अका में, निशीथे = रात्रि में, त्वत्संरोधाऽपगमविशदैः = तुम्हारी रुकावट हट जाने के कारण स्वच्छ, चन्द्रपादैः = चन्द्रमा की किरणों के द्वारा, स्फुट-जललवस्यन्दिनः = स्पष्टजल·कणों को टपकाने वाली, तन्तुजालावलम्बाः = सूत्रसमूह की झालरों से लटकती हुई, चन्द्रकान्ताः = चन्द्रकान्तमणि, प्रियतमभुजालिङ्गिनोच्छ्वासितानाम् = प्रियतमों की भुजाओं के आलिंगन से शिथिल, स्त्रीणाम् = स्त्रियों को, सुरत-जनिताम् = संभोग से उत्पन्न, अंगग्लानिम् = अंगों की पीडा को, व्यालुम्पन्ति = दूर करती हैं ॥ ७ ॥
भावार्थः—हे मेघ ! यस्यामलकायां रात्रौ त्वदावरण-विहरेण निर्मलैः
| १७८ | मेघदूतम् |
|---|
चन्द्रमयूखैः स्पष्टजललव-स्राविणः सूत्रसमूहनिमितजाला-धारिताश्चन्द्रकान्त-मणयः दयितबाह्वालिङ्गनशिथिलानां वनितानां संभोगोत्पन्नां शरीरपीडामपा-कुर्वन्ति ॥ ७ ॥
**हिन्दी—**हे मेघ ! जिस अलका में रात्रि में तुम्हारी रुकावट के न रहने के कारण निर्मल चन्द्रमा की किरणों से (किरणों के सम्पर्क से) स्पष्टजल-कण को टपकानेवाली झालरियों में लटकी हुई चन्द्रकान्तमणियाँ, प्रियतम की भुजाओं के आलिंगन से शिथिल स्त्रियों की, सम्भोग से उत्पन्न अंगों की, पीड़ा को दूर करती है ॥ ७ ॥
**समास:—**तव संरोधः = त्वत्संरोधः (ष० तत्०) तस्य अपगमः = त्वत्संरोधापगमः (ष० तत्०) तेन विशदः = त्वत्संरोधापगमविशदः ( तृ० त० ) तैः । चन्द्रस्य पादाः = चन्द्रपादाः ( ष० तत्० ) तैः । जलस्य लवाः = जललवाः ( ष० तत्० ) स्फुटाश्च ते जललवाः स्फुटजललवाः ( कर्म० ) तान् स्यन्दन्ते तच्छीलाः इति स्फुटजलवस्यन्दिनः (उपपद०), प्रियतमानां भुजा प्रियतमभुजाः ( ष० तत्० ) तैः आलिङ्गितानि = प्रियतमभुजाऽऽलिङ्गितानि ( तृ० तत्० ) उदगताः श्वासाः यासां ताः = उच्छ्वासाः ( बहु० ) प्रियतमभुजाऽऽलिङ्गनेन उच्छ्वसिताः = प्रियतम-मुजाऽऽलिङ्गिनोच्छ्वासिता ( तृ० तत्० ) तासाम् । सुरतेन जनिताम् = सुरतजनिताम् ( तृ० तत्० ) ।
**कोश:—**अर्धरात्रं निशीथौ द्वौ, इत्यमरः, पादारश्म्यङ्घ्रितुर्यांशाः, इत्यमरः ।
टिप्पणी—संरोधः—"सम्" उपसर्गपूर्वक आवरणार्थक "रुध्" धातु से 'घञ्' प्रत्यय करके "संरोध" ऐसा निष्पन्न किया जाता है। अपगमः—"अप" उपसर्गपूर्वक गत्यर्थक् "गम्" धातु से 'अप्' प्रत्यय करके "अपगमः" ऐसा बनाया जाता है। स्यन्दिनः—"स्यन्द" धातु से ताच्छील्य अर्थ में णिनि प्रत्यय करके "स्यन्दिन्" ऐसा रूप निष्पन्न होता है। उक्त रूप षष्ठी विभक्ति के एकवचन का है। **प्रियाः—**प्रीणन्ति इति, इस विग्रह में "प्री" धातु से "क" प्रत्यय करके "प्रिय" शब्द निष्पन्न होता है। **प्रियतमाः—**अतिशयेन प्रियाः प्रियतमाः यहाँ "प्रिय" शब्द से "अतिशायने तमबिष्ठनौ" इस सूत्र से "तमप्"
उत्तरमेघः १७९
प्रत्यय होता है। उच्छ्वासिताः—"उद्" उपसर्गपूर्वक णिजन्त "श्वासि" धातु से "तत्करोति तदाचष्टे" इस सूत्र से "क्त" प्रत्यय हुआ है एवं स्त्रीत्व-विवक्षा में टाप् करके "उच्छ्वासिता" ऐसा रूप निष्पन्न किया जाता है। ग्लानिः—हर्षक्षयार्थक "ग्लै" धातु से भाव में "क्तिन्" प्रत्यय करके आत्वादि करके "ग्लानि" शब्द निष्पन्न किया जाता है।
अलङ्कारः—यहाँ ऐश्वर्यपूर्ण वस्तु चन्द्रकान्त आदि का वर्णन है अतः उदात्त अलङ्कार है ॥ ७ ॥
अक्षय्यान्तर्भवन-निधयः प्रत्यहं रक्त-कण्ठै- रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥८॥
अन्वयः—यत्र, अक्षय्यान्तर्भवननिधयः विबुधवनितावारमुख्यासहायाः, बद्धालापाः, कामिनः, प्रत्यहम्, रक्तकण्ठैः, धनपतियशः, उद्गायद्भिः, किन्नरैः, सार्धम्, वैभ्राजाख्यम्, बहिरुपवनम्, निर्विशन्ति ॥ ८ ॥
व्याख्या—यत्र = यस्यामल्कायाम्, अक्षय्यान्तर्भवननिधयः = अपरिमित-गृहाभ्यन्तरसम्भूतसम्पत्तयः, विबुधवनिताः = देववनिताः, वारमुख्यासहायाः = अप्सर·सहचराः, बद्धालापाः = कृतसंभाषणाः, कामिनः = कामुकाः, प्रत्यहम् = प्रतिदिनम्, रक्तकण्ठैः = मधुरकण्ठस्वरैः, धनपतियशः = कुबेरकीर्तिम्, उद्गा-यद्भिः = तारस्वरेण गायद्भिः, किन्नरैः = किम्पुरुषैः देवयोनिविशेषैः, सार्धम् = साकम्, वैभ्राजाख्यम् = वैभ्राजाऽभिधेयम्, कुबेराऽऽराममित्यर्थः । बहिरुपवनम् = बाह्योद्यानम्, निर्विशन्ति = उपभोगं कुर्वन्ति ॥ ८ ॥
शब्दार्थः—यत्र = जिस अलका में, अक्षय्यान्तर्भवननिधयः = जिनके घर के भीतर अपार सम्पत्ति पड़ी हैं, विबुध-वनिताः = देवाङ्गना ( रूपी ), वारमुख्या-सहायाः = वेश्याओं अर्थात् अप्सराओं के साथ, बद्धालापाः = वार्त्तालाप करते
१८० मेघदूतम्
हुए, कामिनः=कामुक लोग, प्रत्यहम्=प्रतिदिन, रक्तकण्ठैः=मधुर स्वर से, धनपतियशः = कुबेर की कीर्ति का, उद्गायद्भिः = ऊँचे स्वर में गान करते हुए, किन्नरैः=किन्नरों के, सार्धम्=साथ, वैभ्राजाख्यम्=वैभ्राजनामक, बहिरुपवनम्=बाहरी उद्यान का ( कुबेर के उद्यान का ), निर्विशन्ति=उपभोग करते हैं ॥ ८ ॥
भावार्थः—यस्यामलकायां गृहाभ्यन्तरेऽपरिमित-संगृहीतसंपत्तयः कामिनः अप्सरोभिः सह वार्तालापं कुर्वन्तः, कुबेर-कीर्तिम् मधुर-तार-स्वरैरुद्गायद्भिः किम्पुरुषैः सह प्रत्यहं वैभ्राजनामकस्य बाह्योद्यानस्योपभोगं कुर्वन्ति ॥ ८ ॥
हिन्दी—जिस अलका में जिनके घरों में अपार सम्पत्ति भरी पड़ी है, ऐसे कामुक लोग देवाङ्गणारूपी वेश्याओं अर्थात् अप्सराओं के साथ वार्तालाप करते हुए, कुबेर के यश का मधुर एवं ऊँचे स्वर में गान करते हुए किन्नरों के साथ वैभ्राज नामक बाह्य उद्यान का आनन्द लेते हैं।
समासः—न क्षय्याः अक्षय्याः ( नञ्० )। भवनेषु इति=अन्तर्भवनम् ( अव्ययीभाव विभक्त्यर्थ ) अन्तर्भ॑वने निधयः अन्तर्भवननिधयः ( स० त० ) अक्षय्याः अन्तर्भवननिधयः येषां ते=अक्षय्यान्तर्भवननिधयः (बहु०) विबुधानां वनिताः विबुधवनिता ( ष० तत्० ), वारे मुख्याः वारमुख्याः ( स० तत्० ) विबुध-वनिता एव वारमुख्याः विबुध-वनिता-वारमुख्या ( रूपक० ) ता एव सहाया येषां ते = विबुधवनिता-वारमुख्यासहायाः ( बहु० )। बद्धः आलापो यैस्तैः = बद्धालापाः ( बहु० )। अहनि अहनि इति प्रत्यहम् (वीप्सारूपयथाऽर्थे अव्ययीभाव) रक्तः कण्ठः येषान्ते रक्तकण्ठाः ( बहु० ) तैः । धनानां पतिः=धनपतिः ( ष० तत्० ) तस्य यशः धनपतियशः ( ष० तत्०.) तत् । वैभ्राज्यम् आख्या यस्य तत् वैभ्राजाख्यम् ( बहु० )।
कोषः—वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः। सद्वृत्ता वारमुख्या स्यात्, इत्यमरः। स्यात्किन्नरः किम्पुरुषः तुरङ्गवदनो मयुः, इत्यमरः। पुमाना क्रीड उद्यान राज्ञः साधारणं वनम्, इत्यमरः।
टिप्पणी—क्षेतुं योग्यम् इस विग्रह में ‘क्षि’ धातु से “क्षय्यजय्यौ शक्यार्थे”
उत्तरमेघः १८१
इस सूत्र से "यत्" प्रत्यय करके धातु को गुण, अयादेश आदि करके "क्षय्य" रूप निष्पन्न किया जाता है। अन्तर्भवनम्—यहाँ "अव्ययं विभक्ति समीप" इत्यादि सूत्र से विभक्त्यर्थ में नित्य अव्ययीभाव समास हुआ है। आलापाः—"आङ्" उपसर्गपूर्वक "लप्" धातु से भाव में "घञ्" प्रत्यय करके वृद्ध्यादि करके "आलाप" शब्द निष्पन्न होता है, उक्त रूप प्रथमा के बहुवचन का है। बद्धालापाः—इसके स्थान पर "बद्धापानम्" ऐसा भी पाठान्तर मिलता है। वहाँ बद्धम् आपानं यस्मिंस्तद् बद्धापानम् ऐसा विग्रह करके और वह बहिरुपवनम् का विशेषण होगा। उद्गायद्भिः—उद् उपसर्गपूर्वक "गै" धातु से लट् लकार के स्थान पर शतृ प्रत्यय करके तृतीया विभक्ति के बहुवचन का यह रूप होगा। वैभ्राजम्-विभ्राजस्येदम् इस विग्रह में "विभ्राज" शब्द से "तस्येदम्" इस सूत्र से "अण्" प्रत्यय करके "वैभ्राजम्" ऐसा रूप निष्पन्न होता है ॥ ८ ॥
अलङ्कार—यहाँ पर भी "उदात्त" अलङ्कार है ॥ ८ ॥
गत्युत्कम्पादलक-पतितैर्यत्रमन्दार-पुष्पैः, पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च । मुक्ताजालैः, स्तनपरिसरच्छिन्नसूत्रैश्च हारै- नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥९॥
अन्वयः—यत्र, कामिनीनाम्, नैशः, मार्गः, सवितुः, उदये, गत्युत्कम्पात्, अलक-पतितैः, मन्दारपुष्पैः, पत्रच्छेदैः, कर्णविभ्रंशिभिः, कनक-कमलैः, मुक्ता-जालैः, स्तनपरिसरच्छिन्नसूत्रैः, हारैश्च, सूच्यते ॥ ९ ॥
व्याख्या—यत्र = अलकायाम्, कामिनीनाम् = अभिसारिकाणाम्, नैशः = निशासम्बन्धि, मार्गः = अध्वा, सवितुः = दिनकरस्य, उदये = उदिते, सति, गत्यु-त्कम्पात् = गमनसञ्चलनात्, अलक-पतितैः = चूर्णकुन्तलध्वस्तैः, मन्दार-पुष्पैः = मन्दारकुसुमैः, पत्रच्छेदैः = किसलयखण्डैः, कर्णविभ्रंशिभिः = श्रोत्रच्युतैः, कनक-कमलैः = स्वर्णपद्मैः, मुक्ताजालैः = मौक्तिक-सरैः, स्तनपरिसरच्छिन्नसूत्रैः = कुच-प्रदेश-त्रुटित-तन्तुभिः, हारैश्च = स्रग्भिश्च, सूच्यते = ज्ञाप्यते ॥ ९ ॥
१८२ मेघदूतम्
शब्दार्थः— यत्र = जिस अलका में, कामिनीनाम् = अभिसारिकाओं का, नैशो मार्गः = रात्रि का मार्ग, सवितुः = सूर्य के, उदये = उदित होने पर, गत्युत्कम्पात् = चलने के समय हिलने के कारण, अलक-पतितैः = घुंघराले बालों से गिरे, मन्दार-पुष्पैः = मन्दार के फूलों के द्वारा, पत्रच्छेदैः = पत्तों के टुकड़ों से, कर्ण-विभ्रंशिभिः = कान से गिरे, कनक-कमलैः = स्वर्ण कमलों के द्वारा, मुक्ताजालैः = मोतियों की लरियों से, स्तनपरिसरच्छिन्न-सूत्रैः = और स्तन-प्रदेश से टूटे हुए सूत्र वाली, हारैश्च = मोती की मालाओं के द्वारा, सूच्यते = सूचित होता है ॥ ९ ॥
भावार्थः— हे मेघ ! यस्यामलकायामभिसारिकाणां रात्रिपन्याः सूर्योदये सति गमन-काले सञ्चलनेन चूर्ण-कुन्तलध्वस्तैः मन्दारकुसुमैः, मन्दार-किसलय-सकलैः, श्रोत्रच्युतैः स्वर्ण-पद्मैः मौक्तिकसरैः कुचप्रदेशेषु विच्छिन्नतन्तुभिः मौक्तिकस्रग्भिश्च सूच्यते ॥ ९ ॥
हिन्दी— हे मेघ ! जिस अलका में अभिसारिकाओं का रात्रि का मार्ग चलने के समय घुंघराले बालों से गिरे हुए मन्दार के फूलों से, मन्दार के पत्तों के टुकड़ों से, कान से गिरे स्वर्ण-कमलों से, (बालों में गुंथे) मोतियों के लड़ों से एवं स्तनप्रदेश पर टूटे हुए सूत्र वाली मोती की मालाओं से दिन में सूचित (अनुमानित) होता है ॥ ९ ॥
समासः— गत्या उत्कम्पः = गत्युत्कम्पः (तृ० तत्०) तस्मात् । अलकेभ्यः पतितानि = अलकपतितानि (प० तत्०) तैः । मन्दारस्य पुष्पाणि = मन्दार-पुष्पाणि (ष० तत्०) तैः । पत्राणां छेदाः = पत्रच्छेदाः (ष० तत्०) तैः । स्तनयोः परिसरः स्तनपरिसरः (ष० तत्०) । छिन्नानि सूत्राणि येषां ते = छिन्नसूत्राः (बहु०), स्तन-परिसरे छिन्नसूत्राः = स्तनपरिसरच्छिन्नसूत्राः (स० तत्०) तैः ।
कोशः— मन्दारः पारिजातकः, इत्यमरः । अलकाश्चूर्ण-कुन्तलाः, इत्यमरः । पर्यन्तभूः परिसरः, इत्यमरः । स्वर्णं सुवर्णं कनकम्, इत्यमरः ।
उत्तरमेघः १८३
टिप्पणी—कामिनीनाम्— प्रशस्तः कामोऽस्यासामिति कामिन्यः तासाम्। चाणक्य ने "आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणाः। षड्गुणो व्यवहारश्च कामश्चाष्टगुणः स्मृतः।" ऐसा स्त्रियों के सम्बन्ध में लिखा है। अतः स्त्री को कामिनी कहा जाता है, क्योंकि उनमें पुरुषों की अपेक्षा आठगुणा अधिक कामाऽऽवेश रहता है। यहाँ कामिनी का अर्थ सर्वसाधारण स्त्री नहीं अपितु "अभिसारिका" का ग्रहण होता है। नैशः— निशायां भवः नैशः यहाँ "निशा" शब्द से "तत्र भवः" इस सूत्र से अण् प्रत्यय और वृद्धि की गयी है। उत्कम्पः— "उत्" उपसर्गपूर्वक "कम्प" धातु से भाव में "घञ्" प्रत्यय करके "उत्कम्पः" ऐसा रूप निष्पन्न होता है। पतितः— "पत्" धातु से 'क्त' प्रत्यय करके "पतित" शब्द निष्पन्न होता है। कर्णविभ्रंशिभिः— कर्णेभ्यः विभ्रंशयन्तीति तच्छीलानि इस विग्रह में कर्ण उपपदक एवं "वि" उपसर्गपूर्वक "भ्रंश्" धातु से "णिनि" प्रत्यय करके उपपद समास करके "कर्णविभ्रंशिन्" ऐसा शब्द निष्पन्न होता है। उक्त रूप तृतीया के बहुवचन का है। सूच्यते— 'सूच्' धातु से "हेतुमति च" इस सूत्र से णिच् प्रत्यय लाकर पुनः धातु संज्ञा करके लट् लकार "णिचश्च" इस सूत्र से आत्मनेपद हो जायेगा, प्रथमपुरुष के एकवचन में सूच्यते ऐसा रूप बन जायेगा।
अलङ्कारः— यहाँ रात्रिमार्ग सूचन रूपी एक कार्य के लिए अलक से गिरे हुए मन्दार-पुष्प आदि अनेक कारणों का कथन होने के कारण "समुच्चय" अलङ्कार एवं गिरे हुए मन्दार पुष्पों के द्वारा रात्रि मार्ग रूप साध्य का ज्ञान होने से "अनुमान" अलङ्कार है ॥ ९ ॥
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्ग-प्रहित-नयनैः कामिलक्ष्येष्वमोघै- स्तस्यारम्भश्चतुर-वनिता-विभ्रमैरेव सिद्धः ॥१०॥
अन्वयः— यत्र, मन्मथः, धनपतिसखम्, देवम्, साक्षात्, वसन्तम्, मत्वा,