भारतकोश
संग्रह पर लौटें

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

५० मेघदूतम्

प्रान्त में विस्तृत नर्मदा नदी को, हाथी के शरीर में, रचना-विशेष के माध्यम से बनायी गयी शृङ्गार-रेखा की तरह देखोगे ।

समासः - वने चरन्तीति वनचराः ( उपपद तत्० ) तेषां वध्वः, ताभिः भुक्ताः कुञ्जाः यस्मिन्, तस्मिन् ( बहुव्रीहि )। तोयस्य उत्सर्गः = तोयोत्सर्गः ( ष० तत्० ) तेन द्रुततरगतिः = तोयोत्सर्गद्रुततरगतिः ( तृ० तत् ) द्रुततरा गतिर्यस्य स द्रुततरगतिः ( बहुव्रीहिः ) । तस्मात्परं = तत्परम् ( सुप्सुपेति-समासः ) । उपलेन विषमः उपलविषमः तस्मिन् ( तृ० तत्० ) । विन्ध्यस्य-पादे विन्ध्यपादे ( ष० तत्० )।

कोशः - निकुञ्जकुञ्जौ वा क्लीबे लतादि पिहितोदरे, इत्यमरः । मुहूर्त्तमल्पकाले स्याद् घटिका द्वितयेऽपि च, इति शब्दार्णवः । पादाः प्रत्यन्तपर्वतः, इत्यमरः । पादो ब्रध्ने तुरीयांशे शैलप्रत्यन्तपर्वते, इति मेदिनी । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका, इत्यमरः । भूतिर्मातङ्ग-शृङ्गारे जातौ भस्मनि सम्पदि, इति विश्वः ।

टिप्पणी - वनचरवधूभुक्त० — यहाँ वन उपपदपूर्वक गत्यर्थक "चर्" धातु से "उपपदमतिङ्" इस सूत्र से समास करके "चरेष्टः" इस सूत्र से "ट" प्रत्यय करके "वनचर" शब्द बनाया जाता है । "तत्पुरुषे कृति बहुलम्" से वैकल्पिक अलुक् समास करके "वनेचर" ऐसा रूप भी बनता है । द्रुततर-गतिः - अतिशयेन द्रुता = द्रुततरा तथा भूता गतिर्यस्य स द्रुततरगतिः । यहाँ "द्रुता" शब्द से "द्विवचन-विभज्योपपदे तरबीयसुनौ" इस सूत्र से "तरप्" प्रत्यय किया गया है एवं स्त्रीत्व विवक्षा में टाप् करके "द्रुततरा" यह रूप निष्पन्न होता है । विन्ध्य पर्वत भी सात कुल पर्वतों में से एक हैं, जैसे—

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥

नर्मदा भी सात पूज्य नदियों में एक है । जैसा कि स्नान के समय लोग बोला करते हैं—

पूर्वमेघः ५१

गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधि कुरु ॥

**अलङ्कार—**यहाँ समासोक्ति एवं श्रौती उपमा के अङ्गाङ्गिभाव से रहने के कारण संकर अलङ्कार है ॥ १९ ॥

तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन ! तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥

**अन्वयः—**हे घन ! वान्तवृष्टिः तिक्तैः वनगजमदैः वासितम् जम्बूकुञ्ज-प्रतिहतरयम् तस्याः तोयम् आदाय गच्छेः । अन्तःसारम् त्वाम् अनिलः तुलयितुं न शक्ष्यति हि रिक्तः सर्वः लघुः भवति पूर्णता गौरवाय ।

**व्याख्या—**हे घन ! हे जलद ! वान्तवृष्टिः = उद्गीर्णवर्षः, (सन्) तिक्तैः = कटुभिः तिक्तरसान्वितैश्चेत्यर्थः, वनगजमदैः = काननहस्तिदानवारिभिः, वासितम् = सुगन्धितम्, जम्बूकुञ्जप्रतिहतरयम् = जाम्बवनिकुञ्जप्रतिबद्धजवम् = तस्याः = नर्मदायाः, तोयम् = जलम्; आदाय = नीत्वाः, गच्छेः = व्रज । अन्तः-सारम् = अन्तःस्थितत्वम् बलमिति यावत् जलपरिपूर्णमितिभावः । त्वाम् = मेघम्, अनिलः = वायुः, तुलयितुम् = मापयितुम्; न शक्ष्यति = न समर्थो भविष्यति, हि = निश्चयेन, रिक्तः = निःसारः शून्य इत्यर्थः, सर्वः = सकलः, लघुः = न्यूनः, हेय इति भावः, भवति = वर्तते, पूर्णता = सारवत्ता, गौरवाय = गरिम्णे भवति ।

**शब्दार्थः—**हे मेघ ! वान्तवृष्टिः = जल बरसाये हुए, तिक्तैः = सुगन्धित वनगजमदैः = जंगली हाथियों के मदजल से, वासितम् = सुगन्धित, जम्बूकुञ्ज-प्रतिहतरयम् = जामुन के निकुञ्ज से रोके हुए वेगवाले, तोयम् = जल को, आदाय = लेकर, गच्छेः = जाना । अन्तःसारम् = भीतर से शक्तिशाली, त्वाम् = तुझ को, अनिलः = वायु, तुलयितुम् = हिलाने में, न शक्ष्यति = समर्थ नहीं

५२मेघदूतम्

होगा, हि = क्योंकि, रिक्तः = भीतर से खाली, सर्वः = सभी, लघुः = हल्का ( हेय ) "और" पूर्णता = गुरुता, गौरवाय = गौरव के लिए, भवति = होता है ।

भावार्थः—हे मेघ ! तत्र जलवर्षणानन्तरं सुगन्धिभिर्वन्यगजानां दानवारिभिः सुवासितं जम्बूनिकुञ्जावरुद्धवेगं नर्मदाजलं गृहीत्वा व्रज ! जलवत्वादन्तःसारं त्वां पवनः प्रकम्पयितुं समर्थो न भविष्यति, यतो हि निःसारः सर्वोऽपि हेयः भवति, केवलं सारवतैव गौरवास्पदं भवति ।

हिन्दी—हे मेघ ! वहाँ जल बरसाने के बाद जंगली हाथियों के सुगन्धित मदजल से सुवासित जामुनों के निकुञ्जों के द्वारा रोके गये वेग वाले नर्मदा नदी के जल को लेकर (आगे) जाना । भीतर से शक्तिशाली तुझे वायु हिला नहीं सकेगा, क्योंकि प्रत्येक वस्तु जो भीतर से निःसार हो, हल्की होती है एवं भरापन गुरुता के लिए होता है ।

समासः—वान्ता वृष्टिर्येन स वान्तवृष्टिः (बहुव्रीहिः) । वनस्य गजा वनगजाः ( ष० तत्० ) तेषां मदैः वनगजमदैः (ष० तत्०) । जम्बूनां कुञ्ज-जम्बूकूञ्जः ( ष० तत्० ) तैः प्रतिहतो रयः यस्य तम् जम्बुकुञ्जप्रतिहतरयम् (बहुव्रीहि ) । अन्तः सारो यस्य तम् अन्तःसारम् (बहुव्रीहिः) ।

कोशः—वृष्टिर्वर्षम्, इत्यमरः । तिक्तो रसे सुगन्धे च, इति विश्वः । जम्बू स्त्री जम्बुजाम्बवम्, इत्यमरः । सारो बले स्थिरांशे च, इत्ययरः, सारो बले मज्जनि च स्थिरांशे, न्याये च नीरे च घने सारम्, इति विश्वः । भवेत् प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयः, इति मेदिनी । मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः, इति विश्वः ।

टिप्पणी—(दु) वम् धातु से कर्म में क्त प्रत्यय करके स्त्रीत्व विवक्षा में टाप् करके 'वान्ता' ऐसा प्रयोग बनता है । यहाँ "वम्" धातु का "उगलना" अर्थ होने पर भी गौणवृत्ति का आश्रय लेने के कारण जुगुप्सा व्यंजक अश्लीलता नहीं आ पायी है । क्योंकि "निष्ठ्यूतोद्गीर्णवान्तादिगौणवृत्तिव्यपाश्रयम् । अति सुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ।" ऐसा दण्डी लिखते हैं । आदाय—आङ्उप-

पूर्वमेघः ५३

सर्गपूर्वक "दा" धातु से क्त्वा प्रत्यय करके उसके स्थान पर ल्यप् करके उक्त रूप निष्पन्न होता है। गच्छेः—यहाँ "विधिनिमन्त्रणामन्त्रणादि" सूत्र से विधि में लिङ् है। तुलयितुम्—यहां "तुल" धातु से "तत्करोति तदाचष्टे" इस सूत्र से "णिच्" प्रत्यय करके पश्चात् "समानकर्तृकेषु तुमुन्" इस सूत्र से "तुमुन्" प्रत्यय किया गया है। शक्ष्यति—'शक्' धातु के लृट् लकार के प्रथमपुरुष के एकवचन का रूप है। (शक् + स्य + ति)। प्रस्तुत श्लोक का महोपाध्याय मल्लिनाथजी ने एक दूसरा भी अर्थ निकाला है, जैसे कि आयुर्वेद-शास्त्रानुसार वमन के बाद मानव को कसैला, हल्का और चरपरा जल पीना चाहिए ताकि वायुविकार न होवे, इसलिए हे मेघ ! तुम जल वमन करने के पश्चात् सुगन्धित एवं जामुन के कुञ्ज में रुके हुए प्रवाह के कारण कसैला नर्मदा का जल पीकर जाना, तब तुम्हें पवन नहीं हिला सकेगा, अन्यथा वमन के कारण भीतर से निःसार तुम्हें पवन हिला देगा, क्योंकि भीतर से शून्य सभी हल्के होते हैं, पूर्णता ही गौरव के लिए होती है।

अलङ्कारः—यहाँ तृतीयचरण के विशेष अर्थ का समर्थन चतुर्थचरण के सामान्य अर्थ से किया गया है, अतः यहाँ "अर्थान्तरन्यास" नामक अलङ्कार है॥ २०॥

नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै- राविर्भूत-प्रथम-मुकुलाः कन्दलीश्चानुकच्छम्। जग्ध्वाऽरण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्॥२१॥

अन्वयः—अर्धरूढैः केसरैः हरितकपिशम् नीपम् दृष्ट्वा अनुकच्छम् आविर्भूतप्रथममुकुलाः कन्दलीः च जग्ध्वा अरण्येषु उर्व्याः अधिकं सुरभिम् गन्धम्, च आघ्राय सारंगाः जललवमुचः ते मार्गम् सूचयिष्यन्ति।

व्याख्या—(हे मेघ!) अर्धरूढैः = अर्धोत्पन्नैः, केसरैः = किञ्जल्कैः, हरितकपिशम् = हरिद्‌धूसरम्, नीपम् = कदम्बम्, दृष्ट्वा = विलोक्य, अनुकच्छम् =

५४ मेघदूतम्

मन्वनूपम् जलप्रायदेशसमीपे इत्यर्थः, आविर्भूत-प्रथममुकुलाः = सञ्जातपूर्व-कुड्‌मलाः, कन्दलीश्च = भूकन्दलीश्च, जग्ध्वा = भुक्त्वा, अरण्येषु = काननेषु, उर्व्याः = पृथिव्याः, अधिकसुरभिम् = उत्कट-सुगन्धियुक्तम्, आघ्राय = घ्रात्वा, सारङ्गाः = कुरङ्गाः, जललवमुचः = सलिलबिन्दुवर्षकः, ते = मेघस्य, मार्गम् = पन्थानम्, सूचयिष्यन्ति = निर्देशं करिष्यन्ति ।

शब्दार्थः—( हे मेघ ! ) अर्धरूढैः = आधे निकले हुए, केसरैः = रेशों से, हरितकपिशम् = हरे और धूसर रंगवाले, नीपम् = कदम्ब को, दृष्ट्वा = देखकर, अनुकच्छम् = दलदल में, आविर्भूतप्रथममुकुलाः = जिनमें पहले-पहले कलियाँ प्रकट हुई हैं, कन्दलीः = केले के समान पुष्प वृक्षों को, जग्ध्वा = खाकर, अरण्येषु = वनों में, उर्व्याः = पृथ्वी की, अधिक-सुरभिम् = अत्यन्त सुरभित, गन्धम् = सुगन्ध को, आघ्राय = सूंघकर, सारंगाः = मृग, हाथी, भ्रमर, जललवमुचः = जलबिंदु बरसाने वाले, ते = तेरे, मार्गम् = मार्ग को, सूचयिष्यन्ति = सूचित करेंगे ।

भावार्थः—( हे मेघ ! ) हस्तिभ्रमरमृगाः अर्धोत्पन्नकेसरैः हरितधूसरं कदम्बकुसुमं विलोक्य, जलप्रायदेशे उत्पन्नपूर्वकूङ्‌मलाः भूमिकन्दलीश्च भुक्त्वा, अरण्येष्वत्यधिकसुरभि भूमिगन्धमाघ्राय सलिलबिंदु-त्यजतस्ते पन्थानमनुमापयिष्यति ।

हिन्दी—हे मेघ ! हाथी, मृग और भौंरे अर्धविकसित केसर से हरे-धूसर रंगवाले कदम्बपुष्प को देखकर, दल दल से पहले-पहले जिनमें कलियाँ प्रकट हो रही हैं, ऐसे भूमिकन्दलियों के नये कुङ्‌मलों को खाकर, जंगलों में अधिक सुगन्धित पृथ्वी के सुगंध को सूंघकर, जलबिंदु बरसाने वाले तेरे मार्ग को सूचित करेंगे ।

समासः—हरितञ्च तत् कपिशम् = हरितकपिशम् (कर्मधारयः) । कच्छस्य समीपे अनुकच्छम् ( अव्ययीभावः ) । आविर्भूताः प्रथमा मुकुलाः यासां ताः आविर्भूतप्रथममुकुलाः ( बहुव्रीहिः ) । साराण्यंगानि येषां ते ( मृगादयः ) ( बहुव्रीहिसमासः ) ।

पूर्वमेघः ५५

कोशः—पलाशो हरितो हरित् । श्यावः स्यात् कपिशो धूम्रधूमिलो कृष्णलोहिते, इत्यमरः । अथ स्थलकदम्बके । नीपः स्यात्पुलके, इति शब्दार्णवः । जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः, इत्यमरः । कुड्मलो मुकुलोऽस्त्रियाम्, इत्यमरः । द्रोणपर्णी स्निग्ध-कन्दा कन्दली भूकदल्पपि, इति शब्दार्णवः । सारंगश्चातके भृङ्गे कुरङ्गे च मतङ्गजे, इति विश्वः ।

टिप्पणी—सारङ्गाः—साराण्यंगानि येषां ते सारङ्गाः ऐसा समास किया जाता है, परन्तु यहाँ सवर्ण दीर्घ न होकर शकन्ध्वादि गण में पाठ होने के कारण "शकन्ध्वादिषु पररूपं वाच्यम्" इससे पररूप होकर "सारंग" शब्द सिद्ध होता है । "सारंगः पशुपक्षिणोः" इसके अनुसार सारंग शब्द का अर्थ हाथी, हिरण, भौंरा, चातक आदि किया जाता है । जग्ध्वारण्येष्वधिक०—इसके स्थान पर कोई-कोई टीकाकार "दग्ध्वारण्येष्वधिकसुरभिम्" ऐसा पाठ मानते हैं । इस विषय में उनका कहना है कि इस श्लोक में दो बार ही केवल "च" शब्द का प्रयोग किया गया है, एक दूसरे पाद में तथा दूसरा, तीसरे पाद में । पहला च नीपं और आघ्राय को जोड़ता है । ऐसी दशा में यदि जग्ध्वारण्ये० को शुद्ध पाठ माना जाय तो दृष्ट्वा, जग्ध्वा, और आघ्राय तीनों एक ही साथ आ जाते हैं एवं उनको जोड़ने वाला केवल दो च ही रह जाते हैं तथा जग्ध्वा का कर्म इससे बहुत दूर हो जाता है । परन्तु उचित तो "जग्ध्वारण्ये०" आदि पाठ ही है क्योंकि कवि ने यहाँ सारंग शब्द का प्रयोग इसलिए किया है कि उसके तीन कर्ता अभिप्रेत हैं हाथी, भौंरे और हरिण इसलिए पूर्वकालिक क्रियाएँ भी तीन रहनी चाहिए, एक मूल क्रिया है और दो क्रियाओं के जोड़ने के लिए दो "च" का रहना उचित है ।

अलङ्कार—यहाँ वृष्टि का अनुमान किया गया है इसलिए यहाँ अनुमानालंकार है ॥ २१ ॥

अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥ २२ ॥

५६ मेघदूतम्

**अन्वयः—**अम्भोबिन्दुग्रहणचतुरान् चातकान् वीक्षमाणाः श्रेणीभूताः बलाकाः परिगणनया निर्दिशन्तः सिद्धाः स्तनितसमये सोत्कम्पानि प्रियसहचरी-सम्भ्रमालिङ्गितानि आसाद्य त्वाम् मानयिष्यन्ति ।

**व्याख्या—**अम्भोबिन्दुग्रहणचतुरान् = वारिकणग्रहणपटून्, चातकान् = सारंगान्, वीक्षमाणः = अवलोकयमानः, श्रेणीभूताः = पंक्तिबद्धाः, बलाकाः = बकपंकतीः, परिगणनया = एका, द्वे, तिस्रः इति क्रमपूर्वकेण संख्यानेन, निर्दिशन्तः = अंगुल्या निर्देशं कुर्वन्तः, सिद्धाः = देवयोनि-विशेषाः, स्तनित-समये = रति-समये, त्वद्गर्जनकाले वा, सोत्कम्पानि = उत्कम्पसहितानि, प्रियसहचरी-संभ्रमालिङ्गितानि = स्निग्धप्रियात्वराश्लेषानि, आसाद्य = प्राप्य, त्वाम् = मेघम्, मानयिष्यन्ति = साधुवादान् वदिष्यन्ति ।

**शब्दार्थः—**अम्भोबिन्दुग्रहणचतुरान् = जल के कणों को ग्रहण करने में चतुर, चातकान् = “चातक” नामक पक्षियों को, वीक्षमाणः = देखते हुए, श्रेणीभूताः = पंक्तिबद्ध, बलाकाः = वकपंक्तियों को, परिगणनया = एक-दो तीन इस तरह गिनकर, निर्दिशन्तः = अंगुली से दिखाते हुए, सिद्धाः = देव-योनिविशेष, स्तनितसमये = संभोगकाल में अथवा (तुम्हारे गर्जन काल में ), सोत्कम्पानि = कम्पन के सहित, प्रियसहचरीसम्भ्रमालिङ्गितानि = अपनी प्यारी सहचरियों के भय के साथ भरपूर आलिंगन को, आसाद्य = प्राप्त कर, त्वाम् = तुम्हें (मेघ को ), मानयिष्यन्ति = धन्यवाद देंगे ।

**भावार्थः—**हे मेघ ! वर्षणजलग्रहणनिपुणान् चातकान् पश्यन्तो बद्धपंक्तीः बलाकाः एका द्वे तिस्रः इत्थं संख्यानेन दर्शयन्तः सिद्धाः रतिक़ाले त्वद्गर्जनेन भीतानां कामिनीनां स्वेच्छयाऽऽश्लेषं प्राप्य त्वां धन्यवादन् व्याहरिष्यन्ति ।

**हिन्दी—**हे मेघ ! वर्षा के जल-विन्दुओं को ग्रहण करने में चतुर चातकों को देखते हुए, पंक्तिबद्ध बकपंक्तियों को एक, दो, तीन इस प्रकार अंगुली से गिनकर बताते हुए (दिखाते हुए) सिद्धलोग, संभोग काल में तुम्हारे गरजने के कारण भयभीत अपनी प्रियाओं के भरपूर आलिंगन को प्राप्तकर तुम्हें धन्यवाद देंगे ।

पूर्वमेघः ५७

**समासः—**अम्भसां बिन्दवः = अम्भोबिन्दवः ( ष० तत्० ) तेषां ग्रहणं ( ष० तत्० ) तस्मिन् चतुरास्तान् ( स० तत्० )। प्रियाश्च ताः संहचर्यः (कर्मधारय०) तासां सम्भ्रमः ( ष० तत्० ) तेन आलिंगितानि ( तृ० तत्० ) प्रियसहचरीसम्भ्रमालिगितानि ।

**कोशः—**पृषन्तिबिन्दुपृषताः, इत्यमरः। सारंगाः स्तोकश्चातकः समाः, इत्यमरः। बलाकाः वकपंक्तिः स्यात्, इत्यमरः। स्तनितं गर्जितं मेघं निर्घोषे रसितादि च, इत्यमरः ।

**टिप्पणी—**वीक्षमाणाः—यहाँ “वि” उपसर्गपूर्वक आत्मनेपदी “ईक्ष” धातु के लट् लकार के स्थान में “लटः शतृशानचावप्रथमासमानाधिकरणे” इस सूत्र से “शानच्” प्रत्यय करके “वीक्षमाण” ऐसा रूप हुआ है। **श्रेणीभूताः—**अश्रेणयः श्रेणयः संपद्यन्ते इति श्रेणीभूताः। यहाँ “श्रेणी” शब्द से भूताः के योग में “कृभ्वस्ति योगे संपद्यकर्तरि च्विः” इस सूत्र से अभूत तद्भाव अर्थ में च्वि प्रत्यय होकर “च्वौ च” इस सूत्र से दीर्घ होकर “श्रेणीभूता” ऐसा रूप बना है ॥ २२ ॥

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२३॥

**अन्वयः—**हे सखे ! मत्प्रियार्थं द्रुतं यियासोः अपि ते ककुभसुरभौ पर्वते पर्वते कालक्षेपम् उत्पश्यामि । सजलनयनैः शुक्लापाङ्गैः केकाः स्वागतीकृत्य प्रत्युद्यातः भवान् कमपि आशु गन्तुं व्यवस्येत् ।

व्याख्या —हे सखे = हे मित्र ! मत्प्रियार्थम् = मत्प्रियायै किंवा मदिष्टसम्पादनाय, द्रुतम् = शीघ्रम्, यियासोः = गन्तुमिच्छोः अपि, ते = तव मेघस्येति यावत्, ककुभसुरभौ = कुटजपुष्पपरिमलसुरभिते, पर्वते पर्वते = प्रत्यद्रौ, कालक्षेपम् = समयविलम्बम्, उत्पश्यामि = उत्प्रेक्षे । सजलनयनैः = अश्रुपूर्णाक्षिभिः, शुक्ला-

५८मेघदूतम्

पाङ्गैः = मयूरैः, केकाः = मयूरवाणीः, स्वागतीकृत्य = स्वागतवचनं विधाय, प्रत्युद्गातः = प्रत्युद्गतः सन्, भवान् = मेघः, कथमपि = यथाकथञ्चित्, आशु = त्वरितम्, गन्तुम् = प्रयातुम्, व्यवस्येत् = प्रयत्नं कुर्यात् ।

शब्दार्थः—हे सखे = हे मित्र, मत्प्रियार्थम् = मेरी प्रिया के पास, अथवा मेरा सन्देश पहुँचाने के लिए, यियासोः = जाने की इच्छा वाले, अपि = भी, ते = तुम्हारा, ककुभसुरभौ = कुटज पुष्प के सुगन्ध से सुगन्धित, पर्वते-पर्वते = प्रत्येक पर्वत पर, कालक्षेपम् = समय के विलम्ब की, उत्पश्यामि = सम्भावना करता हूँ । सजलनयनैः = आनन्दाश्रुओं से परिपूर्ण नेत्रों वाले, शुक्लापाङ्गैः = भौरों द्वारा, केकाः = उनकी वाणी को, स्वागतीकृत्य = स्वागत वचन बनाकर, प्रत्युद्गातः = अगवानी किया जाता हुआ, भवान् = आप (मेघ), कथमपि = किसी तरह, आशु = शीघ्र, गन्तुम् = जाने का, (आगे बढ़ने का) व्यवस्येत् = प्रयत्न कीजियेगा ।

भावार्थः—हे सखे, मद्वल्लभासमीपं किंवा मत्सन्देशार्थं गन्तुमिच्छोरपि भवतः कुटजपुष्पपरिमलसुवासिते प्रत्यद्रौ समयविलम्बमनुमीये । तथापि आनन्दाश्रुपूरितैः मयूरैः केकया स्वागतं प्राप्य प्रत्युद्गतो भवान् ततः यथा कथञ्चित् शीघ्र गन्तुमुद्युञ्जीत ।

हिन्दी—हे मित्र ! मेरी प्रिया के पास (या मेरे सन्देश पहुँचाने के लिए) शीघ्र जाने की इच्छा रहने पर भी, कुटज पुष्पों से सुगंधित प्रत्येक पर्वत पर तुम्हारे समय-क्षेप का अनुमान मैं कर रहा हूँ । (फिर भी) आनंदाश्रु से भरे नेत्रों वाले मोर अपनी केका वाणी से तुम्हारा स्वागत करके, तुम्हारी अगवानी करेंगे, तुम भी किसी प्रकार वहाँ से शीघ्र आगे जाने का प्रयत्न करना ।

समासः—मदीया प्रिया मत्प्रिया तस्यै, किंवा मदीयं प्रियम् मत्प्रियम् (नित्यसमासः) । कालस्य क्षेपम् कालक्षेपम् (ष० तत्०) । न स्वागतम् अस्वागतम्, (नञ्०) अस्वागतं स्वागतं सम्पद्यमानं कृत्वा इति स्वागतीकृत्य ।

कोशः—अथ मित्रं सखा सुहृत्, इत्यमरः । जवोऽथ शीघ्रं त्वरितं लघु क्षिप्र मरं द्रुतम्, इत्यमरः । ककुभः कुटजेऽर्जुने, इति शब्दार्णवः । क्षेपो विलम्बे निन्दा-

पूर्वमेघः ५९

याम्, इति विश्वः। मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः, इति यादवः। केकावाणी मयूरस्य, इत्यमरः।

टिप्पणी—मत्प्रियार्थ०—यहाँ मम प्रियम् मत्प्रियम् इस प्रकार षष्ठी तत्पुरुष समास हुआ है। "प्रिय" इस उत्तर पद होने के कारण "प्रत्ययोत्तरपदयोश्च" इस सूत्र मे "अस्मद्" शब्द के स्थान पर "मत्" यह आदेश हुआ है।

यियासोः = यातुमिच्छोः यियासोः प्रापणार्थक "या" धातु से इच्छा अर्थ में "सन्" प्रत्यय करके तत् प्रयुक्त द्वित्व; इत्यादि कार्य करके "सनाशंसभिक्ष उः" इस सूत्र से उप्रत्यय करके "यियासुः" ऐसा रूप बनता है। उक्त रूप उसी शब्द के षष्ठी विभक्ति का है ॥ २३ ॥

(पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः—
नींडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
सम्पत्स्यन्ते कतिपय-दिनस्थायिहंसा दशार्णाः ॥ )

अन्वयः—( हे मेघ ! ) त्वयि आसन्ने दशार्णाः सूचिभिन्नैः केतकैः पाण्डुच्छायोपवनवृतयः गृहबलिभुजाम् नीडारम्भैः आकुलग्रामचैत्याः परिणतफलश्यामजम्बूवनान्ताः कतिपयदिनस्थायिहंसाः सम्पत्स्यन्ते ।

व्याख्या—( हे मेघ ) त्वयि=मेघे, आसन्ने=समीपस्थे, सति, दशार्णाः=एतन्नामकाः देशाः, सूचिभिन्नैः=मुकुलाग्रविकसितैः, केतकैः=केतकीकुसुमैः, पाण्डुच्छायोपवनवृतयः=पाण्डुरवर्णाऽऽरामप्रकाराः, गृहबलिभुजाम्=गेहबलिभोक्तृणाम्, काकादीनामिति भावः, नीडारम्भैः=कुलायरचनाभिः, आकुलग्रामचैत्याः=संकीर्णग्रामवृक्षाः, अश्वत्थादयः परिणतफलश्यामजम्बूवनान्ताः=परिपक्वफलकृष्णजम्बुकाननप्रदेशाः, कतिपय-दिनस्थायिहंसाः=किञ्चिद-दिवस-स्थायिहंसाः, संपत्स्यन्ते=भविष्यन्ति ।

शब्दार्थः—( हे मेघ ) त्वयि=तुम्हारे, आसन्ने=आने पर, दशार्णाः=दशार्ण नामक देश, सूचिभिन्नैः=मुकुल के अग्रभाग में खिले हुए, केतकैः=

६०मेघदूतम्

केतकी के पुष्पों से, पाण्डुच्छायोपवनवृतयः = जहाँ के उद्यान का घेराव पीला-पीला-सा हो गया। गृहबलिभुजाम् = घर की (विश्वेदेव) बलि को खाने वाले (कौए आदि) पक्षियों के, नीडारम्भैः = घोसलों की रचना से, आकुलग्रामचैत्याः = सङ्कीर्ण हो गये हैं पीपल आदि वृक्ष जहां के गाँवों के, परिणतफलश्यामजम्बूवनान्ताः = जहाँ के जामुन के वन पके हुए फलों से काले हो गये हैं, कतिपयदिनस्थायिहंसाः = जहाँ हंस कुछ दिनों तक रह सकते हैं ऐसे, सम्पत्स्यन्ते = हो जायेंगे।

भावार्थः—हे मेघ ! त्वयि समीपस्थे सति दशार्णदेशे गृहाऽऽरामाणां वृत्तयः किञ्चिद्विकसितकेतकी-कुसमानांकान्त्या पीताभा भविष्यन्ति, ग्राम्याः अश्वत्थादयो वृक्षाः बल्यन्नभोजीनां काकादीनां कुलाय-निर्माणैः सङ्कीर्णा भविष्यन्ति। तत्रस्थवनप्रान्तभागाः पक्वजम्बूफलैः कृष्णाः भविष्यन्ति, हंसाश्च कतिपयदिextदिवसं यावत् स्थास्यन्ति।

हिन्दी—हे मेघ ! तुम्हारे समीप आने पर दशार्णदेश के बगीचों का घेराव अधखिले केतकी पुष्प के रंग से पीला हो जायेगा, घर में दी गयी बलि को खाने वाले कौए आदि पक्षियों द्वारा घोंसलों के निर्माण से वहाँ के गाँवों के पीपल आदि वृक्ष सङ्कीर्ण हो जायेंगे, पके हुए फलों की आभा से वहाँ के जामुन के वन-प्रदेश काले हो जायेंगे, हंस भी वहाँ वर्षाऋतु के कारण कुछ दिन ही ठहरेंगे।

समासः—पाण्ड्वी छाया यासां ताः पाण्डुच्छायाः (बहु०)। पाण्डुच्छायाः उपवनानां वृतयः येषु ते = पाण्डुच्छायोपवनवृतयः (बहुव्री०)। आकुलानि ग्रामेषु चैत्यानि येषु ते = आकुलग्रामचैत्याः (बहुव्रीहि०)। परिणतैः फलैः श्यामानि यानि जम्बूवनानि (बहुव्रीहिः) ते अन्ताः—परिणतफलश्यामजम्बूवनान्ता (तृ० तत्०)। कतिपयेषु दिनेषु स्थायिनो हंसा येषु ते—कतिपयदिनस्थायिहंसाः (बहुव्रीहि०)। सूचीषु भिन्नानि सूचिभिन्नानि (स० तत्०) तैः। नीडानामारम्भः नीडारम्भः (ष० तत्०) तैः। गृहाणां बलयः (ष० तत्०) गृहबलीन् भुञ्जत् इति गृहबलिभुजः तेषाम्।

पूर्वमेघः | ६१

**कोशः—**समीपे निकटासन्नसन्निकृष्टसनीडवत्, इत्यमरः। केतकी मुकुलाग्रे- षुसूचिः, इति शब्दार्णवः। हरितः पाण्डुरः, इत्यमरः। प्रकारो वरणः सालः प्राचीरं प्रान्ततो वृतिः इत्यमरः। ध्वाङ्क्षात्मपरभृद्वलिभुग्वायसा अपि, इत्यमरः। चैत्यमायतने बुद्धवन्द्ये चोदद्देशपादपे, इति विश्वः।

**टिप्पणी—दशार्णाः—**यहशब्द अलग-अलग व्युत्पत्ति से अलग-अलग अर्थ को कहता है। जैसे—दश ऋर्णानि (दुर्गभूमयः) येषां ते (बहुव्री०) दशार्णाः = दश + ऋणः, यहाँ “प्रवत्सरकम्बलवसनदशानामृणे” इस सूत्र से “आ” वृद्धि होकर “उरण् रपरः” से रपर हो गया है। प्रस्तुत व्युत्पत्ति के अनुसार “दशार्णाः” शब्द पुरुषवाची है, जिनके दश दुर्ग हों उन राजाओं को “दशार्ण” कहा जाता है। तेषां निवासः ऐसा विग्रह करके “तस्य निवासः” से अण् प्रत्यय होता है। उसका “जनपदे लुप्” से लुप् तो हो जाता है परन्तु “लुपि युक्तवद्व्यक्तिवचने” इस सूत्र से लिङ्ग और वचन के प्रकृतिभाव हो जाने से “दशार्णा” यह बहुवचनान्त रूप निष्पन्न होता है। **दूसरी व्युत्पत्तिः—**ऋण शब्द का दूसरा अर्थ जल भी है तो दश ऋणानि (जलस्रोतसः) यस्यां सा “दशार्णा” यहाँ “दशार्णा” नदी अर्थ का बोधक शब्द है। **चैत्याः—**यहाँ “चैत्य” शब्द अग्निवाचक “चित्य” शब्द से “चित्यस्य इमानि” इस विग्रह में “तस्येदम्” इस सूत्र से “अण्” प्रत्यय करके आदि वृद्धि करने पर निष्पन्न होता है न कि “चिता” या “चित्या” शब्द से ॥ २३ ॥

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं

गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा।

तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्

सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २४ ॥

**अन्वयः—**दिक्षु प्रथितविदिशालक्षणाम् तेषां राजधानीम् गत्वा सद्यः कामुकत्वस्य अविकलफलं लब्धा यस्मात् स्वादु चलोर्मि वेत्रवत्याः पयः सभ्रू- भङ्गं मुखम् इव तीरोपान्तस्तनितसुभगं पास्यसि।

६२ | मेघदूतम्

व्याख्यादिक्षु = दिशासु, प्रथितविदिशालक्षणाम् = प्रसिद्धविदिशेति-नाम्नीम्, तेषां = दशार्णानाम्, राजधानीम् = मुख्यनगरीम्, गत्वा = प्राप्य, सद्यः = तत्क्षणम्, कामुकत्वस्य = विलासितायाः, अविकलम् = समग्रम्, फलम् = लाभम्, लब्धा = प्राप्स्यते भवतेति शेषः । यस्मात् = कारणात्, स्वादु = पेयम्, चलोर्मि = तरंगसहितम्, वेत्रवत्याः = वेत्रवतीनद्याः, पयः = जलम्, सभ्रूभंगम् = सकटाक्षम् मुखमिव = आननमिव (अधरमिवेतिभावः) तीरोपान्ते = कूलप्रदेशे, (यत्) स्तनितम् = गर्जितम्, तेन सुभगम् = सुन्दरम् = पास्यसि = पानं करिष्यसि ।

शब्दार्थःदिक्षु = दिशाओं में, प्रथितविदिशालक्षणाम् = विख्यात विदिशा नाम वाली, तेषाम् = दशार्ण देशवालों की, राजधानीम् = राजधानी में, गत्वा = जाकर, कामुकत्वस्य = कामुकता का, अविकलम् = सम्पूर्ण, फलम् = फल को, लब्धा = प्राप्त करोगे । यस्मात् = क्योंकि, स्वादु = मधुर, चलोर्मि = तरंगयुक्त, वेत्रवत्याः = वेत्रवती नदी के, पयः = जल को, सभ्रूभंगम् = कटाक्ष-युक्त, मुखमिव = मुख की तरह (अधर के समान) तीरोपान्तस्तनितसुभगम् = तट के पास गर्जन से सुन्दर, पास्यसि = पान करोगे ।

भावार्थः-हे मेघ ! विदिशाभिधेयां दशार्णानां राजधानीं गत्वा तत्र त्वं तत्क्षणमेव विलासिताया अशेषं लाभं लप्स्यसे । यतस्तत्र वेत्रवत्याः नद्याः मधुरं तरंगयुक्तञ्च जलं कस्याश्चिन्नायिकायाः कटाक्षयुक्तमधुरमिव तटप्रान्ते गर्जनान्तरं पास्यसि ।

हिन्दी—हे मेघ ! तुम विख्यात विदिशा नामावली दशार्णा देश की राज-धानी में जाकर तुरन्त विलासिता के सम्पूर्ण फल को प्राप्त कर लोगे । क्योंकि वहाँ वेत्रवती के मधुर एवं तरंगयुक्त जल को, किसी नायिका के कटाक्षयुक्त अधर के समान तटप्रान्त में गर्जन के बाद पान करोगे ।

समासः-प्रथितं "विदिशा" इति लक्षणं यस्याः ताम् प्रथितविदिशालक्षणम् (बहुव्रीहि०) । विगता कला यस्य तद्विकलम् (बहुव्रीहि०) । न विकलम् = अविकलम् (नञ् तत्०) । चलाः ऊर्मयो यस्याः तत् = चलोर्मि (बहुव्रीहि०) ।

पूर्वमेघः ६३

भ्रूभङ्गेन सह वर्तमानम् सभ्रूभंगम् (बहुव्रीहि०) । तीरस्य उपान्तः तीरोपान्तः ( ष० तत्० ) तस्मिन् स्तनितम् ( स० तत्० ) तेन सुभगम् तीरोपान्तस्तनित-सुभगम् ( तृ० तम्० )।

कोशः—प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः, इत्यमरः । लक्षणं नाम्नि चिह्ने च, इति विश्वः । प्रधाननगरी राज्ञां राजधानीति कथ्यते, इति शब्दार्णवः । विलासी कामुको कामी, इति शब्दार्णवः । स्तनितं गर्जितं मेघ-निर्घोषे रसितादि च, इत्यमरः ।

टिप्पणीराजधानी—धीयन्ते अस्यामिति धानी, “धा” धातु-से अधिकरण में “करणाधिकरणयोश्च” इस सूत्र से ल्युट् प्रत्यय हुआ है एवं स्त्रीत्व-विवक्षा में ङीप् होकर “धानी” यह शब्द निष्पन्न हुआ है । राज्ञां धानी राजधानी । कामुकत्वस्य—कामयते तच्छीलः इस विग्रह मे “क्रान्ति” अर्थात् “इच्छा” अर्थ वाले “कमु” धातु से “लषपतपदस्थाभूवृषहनकमगम्श्रुभ्य उकञ्” इस सूत्र से “उकञ्” प्रत्यय किया गया है एवं भित्वात् “तद्धितेष्वचामादेः” इस सूत्र से आदिवृद्धि करके “कामुक” ऐसा रूप बना है एवं तस्य ( कामुकस्य ) भावः इस अर्थ में “तस्य भावस्त्वतलौ” से “त्व” प्रत्यय करके “कामुकत्व” ऐसा साधु होता है । लब्धा— “लभ्” धातु के अनद्यतन भविष्यत् अर्थ में “लुट्” लकार के प्रथम पुरुष के एकवचन का रूप । “लब्ध्वा” यह पाठ भी मिलता है जिसका अर्थ होगा “प्राप्त करके” उक्त रूप उसी धातु से “क्त्वा” प्रत्यय करके बनेगा ।

अलङ्कार—इस श्लोक में लिङ्ग साम्य से नायक-नायिक के व्यवहार का समारोप होने से “समासोक्ति” अलङ्कार है एवं “सभ्रूभङ्गं मुखमिव” यहाँ उत्प्रेक्षा अलङ्कार है । इस तरह दोनों अलङ्कारों के अङ्गाङ्गिभाव से रहने के कारण यहाँ “संकर” नामक अलङ्कार है ॥ २४ ॥

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो- स्त्वत्संपर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः । ५ मे० दू०

६४मेघदूतम्

यः पण्यस्त्री रतिपरिमलोद्गारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौ वनानि ॥ २६ ॥

अन्वयः—तत्र विश्रामहेतोः प्रौढपुष्पैः कदम्बैः त्वत्संपर्कात् पुलकितमिव नीचैराख्यम् गिरिम् अधिवसेः । तः पण्यस्त्रीरतिपरिमलोद्गारिभिः शिलावेश्मभिः नागराणाम् उद्दामानि यौवनानि प्रथयति ।

व्याख्या—( हे मेघ ! ) तत्र = विदिशायाम्, विश्रामहेतोः = श्रमापनोदनाय, प्रौढपुष्पैः = सुविकसितकुसुमैः, कदम्बैः = नीपैः, त्वत्संपर्कात् = भवत्साहचर्यात्, पुलकितमिव = सलोमहर्षमिव, रोमाञ्चमिवेत्यर्थः, नीचैराख्यम् = नीचैः नामानम्, गिरिम् = पर्वतम्, अधिवसेः = अधिवासं कुर्याः । यः = नीचैः पर्वतः, पण्यस्त्रीरतिपरिमलोद्गारिभिः = वेश्याकामक्रीडासौरभाविष्कुर्वद्भिः, शिलावेश्मभिः = पाषाणसदनैः कन्दराभिरित्यर्थः, नागराणाम् = चतुरनगरवासिनाम्, उद्दामानि = निर्बन्धानि, उत्कटानीति भावः, यौवनानि = तारुण्यानि, प्रथयति = कथयति ।

शब्दार्थः—तत्र = उस विदिशा में, विश्रामहेतोः = थकावट दूर करने के लिए, प्रौढपुष्पैः = अच्छी तरह खिले हुए फूलों वाले, कदम्बैः = कदम्ब वृक्षों से, त्वत्संपर्कात् = तुम्हारे संपर्क से, पुलकितमिव = रोमाञ्चित हुए की तरह, नीचैराख्यम् = "नीचैः" इस नाम के, गिरिम् = पर्वत, पण्यस्त्रीरतिपरिमलोद्गारिभिः = वेश्यायाओं की काम-क्रीडा में ( उपयुक्त ) सुगन्ध को व्यक्त करने वाले, शिलावेश्मभिः = कन्दराओं के द्वारा, नागराणाम् = नगर निवासियों के, उद्दामानि = निबंध ( उत्कट ), यौवनानि = यौवन ( जवानी ) को, प्रथयति = कहता है ( प्रकट करता है ) ।

भावार्थः—हे मेघ ! विदिशायां श्रमापनोदनाय कुसुमित-कदम्बवृक्षैः, रोमाञ्चयुक्तमिव नीचैर्नामकं पर्वतमधिवासं कुर्याः । यः पर्वतः वेश्यारम्भक्रीडा-प्रयुक्त-सुगन्धिताभिः कन्दराभिर्नागराणामुत्कटयौवनानि व्यनक्ति ।

हिन्दी—हे मेघ ! विदिशा में विश्राम करने के लिए पूर्णविकसितकदम्ब-पुष्पों से मानो तुम्हारे सम्पर्क से रोमाञ्च के समान "नीचैः" नामक पर्वत

पूर्वमेघः ६५

पर-ठहर जाना । जो पर्वत, वेश्याओं द्वारा काम-क्रीडा में प्रयुक्त सुगन्धि वाली कन्दराओं के माध्यम से नगरनिवासियों के उत्कट यौवन (जवानी) को व्यक्त कर रहा है ।

समासः— विश्रामस्य हेतु = विश्रामहेतुः तस्य ( ष० तत् ० ) । प्रौढानि पुष्पाणि येषु तैः प्रौढपुष्पैः ( बहु० ) । तव संपर्कः तस्मात् त्वत्संपर्कात् ( ष० तत् ० ) । नीचैः आख्या अस्य तम् ( बहु० ) । पण्याः स्त्रियः तासां ( बहु० ) रतिषु यः परिमलः ( स० तत् ० ) तमुद्गिरन्ति तैः पण्यस्त्री-रतिपरिमलोद्-गारिभिः, दाम्नः उद्गतानि ( कुगतिप्रा० तत् ० ) । यूनः भावः यौवनम् तानि ।

कोशः— वारस्त्री गणिका वेश्या पण्यस्त्रीरूपजीवनी, इति शब्दार्णवः । विमर्दोत्थे परिमलो गन्धे जनमनोहरे, इत्यमरः । पाषाणप्रस्तरग्रावोपलाश्मानः शिलादृषत्, इत्यमरः । उद्दामो बन्धरहिते स्वतन्त्रे च, इति मेदिनी ।

टिप्पणी—विश्रामहेतोः— यद्यपि कई टीकाकार “विश्राम” शब्द को अपाणिनीय कहकर “विश्रान्ति” ऐसा पाठ इस श्लोक में रखते हैं । उनका कहना है कि “श्रमु” धातु से जब “घञ्” प्रत्यय करेंगे तब उपधावृद्धि नहीं हो पायेगी, क्योंकि “नोदात्तोपदेश-मान्तस्याऽनाचामेः” इस सूत्र से उसका निषेध हो जायेगा । सिद्धान्तकौमुदीकार ने भी विश्राम शब्द को अपाणिनीय ही बताया है । परन्तु महाकवि कालिदास को प्रमाद दोष से बचाने के लिए यदि “श्रमु” धातु से स्वार्थ में “णिच्” प्रत्यय लगाकर वृद्धि करके “श्रामि” ऐसा रूप बना-कर उसकी धातु संज्ञा करके वि उपसर्गपूर्वक, “श्रामि” धातु से “एरच्” इस सूत्र से “अच्” प्रत्यय करेंगे (वि + श्रामि + अं) तो “विश्राम” यह रूप सिद्ध हो जायेगा । यदि यह कहें कि पुनःवृद्धि निषेध करेंगे तो नहीं कह सकते क्योंकि उपधावृद्धि निषेध इस सूत्र में “कृति” का अनुवर्तन किया जाता है “णिच्” कृत्प्रत्यय से भिन्न है । हाँ ! णिजन्त बनाकर “विश्राम” सिद्ध होने पर भी एक शङ्का यह आ सकती हैं कि “मितां ह्रस्वः” से वृद्धि को पुनः ह्रस्व होना चाहिए, परन्तु यह सूत्र विकल्प से ह्रस्व करता है, क्योंकि “वा” की अनुवृत्ति जाती है ।

६६ | मेघदूतम्

यहाँ ध्यान रखना चाहिए कि "णिच्" प्रत्यय स्वार्थ में है "प्रेरणा" में नहीं ताकि अर्थभेद को आपत्ति आ सके। कवि को इस दोष से बचाने के लिए मल्लिनाथजी "विश्रामो वा" इस सूत्र को प्रस्तुत करते हैं, उनका कहना है कि यह सूत्र चान्द्र व्याकरण का है। कुछ लोगों का कहना है कि यह सूत्र जैनेन्द्र व्याकरण का है। जो कुछ भी हो, किसी भी व्याकरण से सिद्ध तो है ही, परन्तु पाणिनि नहीं सिद्ध कर सके। महोपाध्याय मल्लिनाथजी ऊपर णिजन्तादि प्रक्रिया की अपेक्षा "श्रमणं श्रमः, भावे घञ्" और श्रम शब्द से स्वार्थेऽण् करके "श्राम" शब्द सिद्ध करके पुनः विगतः श्रामो यस्मिन् इति "विश्रामः" यह प्रक्रिया भी सरल और लघु होते हुए दोष विघातक भी है। पुलकितम्-"पुलकाः सञ्जाता यस्य" इस विग्रह में "तदस्य संजातं तारकादिभ्य इतच्" इस सूत्र से "इतच्" प्रत्यय करके "पुलकित" यह रूप बना है। उक्त रूप इसी शब्द के द्वितीया के एक वचन का है। पण्यस्त्री०—यहाँ "पण्य शब्द" "पणितुं योग्या" इस विग्रह में निन्दा अर्थ में "अवद्यपण्यवर्या गर्ह्यपणितव्याऽनिरोधेषु" इस सूत्र से निपातन किया गया है। उद्गारिभिः—यहाँ उद्गार शब्द का प्रयोग गौणवृत्या होने के कारण जुगुप्साव्यञ्जक अश्लीलता नहीं आ पायी है। क्योंकि दण्डी की "निष्ठ्यूतोद्गोर्ण०" वाली पंक्ति इसका प्रमाण है॥ २५ ॥

विश्रान्तः सन् व्रज वननदीतीरजातानिसिञ्च-
न्नुद्यानानां नवजलकणैर्यू थिका—जालकानि।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानाम्
छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥

अन्वयः—तत्र विश्रान्तः सन् वननदीतीर-जातानि उद्यानानाम् यूथिका-जालकानि नवजलकणैः सिञ्चन् गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानाम् पुष्पलावीमुखानाम् छायादानात् क्षणपरिचितः ( सन् ) ।

व्याख्या—तत्र = विदिशायां स्थिते नीचैः गिरौ, विश्रान्तः सन् = गतश्रमः सन्, वननदीतीरजातानि = वन्यसरित्कूलोद्भवभावि, उद्यानानाम् = आरामाणाम्,

पूर्वमेघः ६७

यूथिकाजालकानि=मागधीपुष्प-कुड्मलानि, नवजलकणैः=नूतन-सलिलबिन्दुभिः, सिञ्चन्=आर्द्रयन्; गण्डस्वेदापनयन-रुजाक्लान्तकर्णोत्पलानाम्=कपोलस्वेदा-पनयनपीडाक्षामश्रोत्रपद्मानाम्; पुष्पलावीमुखानाम् = पुष्पावचायिकावदनानाम्; छायादानात्=अनातपीकरणात्, क्षणपरिचितः = किञ्चित्कालेन ज्ञातः, (सन्) व्रज = गच्छ ।

शब्दार्थः—तत्र=उस “नीचैः” नामक पर्वत पर; विश्रान्तः सन्=विश्राम करके, वननदीतीरजातानि=जंगली नदियों के किनारे उत्पन्न, उद्यानानाम्=बगीचों के, यूथिकाजालकानि=माधवी की कलियों को, नवजलकणैः=नूतन-जलबूंदों से, सिञ्चन्=सींचता हुआ, गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानाम् = जिसके कानों में ( पहने गये ) कमल गालों पर ( चूते हुए ) पसीने को पोछने के कारण मुरझा गये हैं, ऐसे, पुष्पलावीमुखानाम् = फूल तोड़नेवाली महिलाओं के मुखों का, छायादानात् = छाया देने के कारण, क्षणपरिचितः=कुछ समय के लिए परिचित होकर, व्रज=जाना ।

भावार्थः—( हे मेघ ! ) नीचैरद्रौ विश्रम्य नदीतटोत्पन्नानि आरामाणां मागधीकुसुमकुड्मलानि नूतनजललवैराद्रींकुर्वन् पुष्पावचयनपरायणानां नारीमुखानां गण्डघर्मजलदूरीकरणेन म्लानकर्णाऽऽभरणीभूतपद्मानां छायाप्रदानेन किञ्चित्कालाय परिचितः सन् गच्छ ।

हिन्दी—( हे मेघ ! ) वहां नीचैः नामक पर्वत पर विश्राम करके जंगली नदियों के तट पर विद्यमान बगीचों के जूही पुष्प की कलियों को नवीन जलकणों से सींचता हुआ, जिनके कानों में पहिने गये कमल गालों पर बहते हुए पसीनों को पोछने के कारण मुरझा गये हैं, ऐसी फूल तोड़ने वाली महिलाओं के मुख को छाया प्रदान करने के कारण कुछ समय के लिए परिचित होकर (आगे) जाना ।

समासः—वने या नद्यः तासां तीरेषु जातानि=वननदीतीरजातानि (बहुव्री०)। नवजलानां कणास्तैः (ष०तत्०) नवजलकणैः । गण्डयोःस्वेदः=गण्ड-स्वेदः (स० तत्०) गण्डस्वेदस्य अपनयनम गण्डस्वेदापनयनम् (ष० तत्०), तेन रुजा (तृ० तत्०) तया क्लान्तानि (तृ० तत्०) गण्डस्वेदापनयनरुजाक्लान्तानि,

६८ मेघदूतम्

कर्णयोः उत्पलानि कर्णोत्पलानि ( स० तत्० ) गण्डस्वेदापनयनरुजाक्लान्तानि कर्णोत्पलानि येषां तानि; तेषाम् (बहुव्रीहि०)। पुष्पाणि लुलन्तीति पुष्पलाव्यः तासां मुखानि = पुष्पलावीमुखानि (ष० तत्०) तेषाम् । छायायाः दानं तस्मात् ( ष० तत्० ) । क्षणं परिचितः = क्षणपरिचितः ( द्वि० तत्० ) ।

कोशः—पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम्, इत्यमरः। मागधी, गणिका यूथिकाऽम्बष्ठा, इत्यमरः। कोरकजालककलिकाकुङ्मलमुकुलानि तुल्यानि, इति हलायुधः। रुजा रोगे च भंगे, इति मेदिनी। छाया सूर्यप्रिया-कान्तिः प्रतिबिम्बमनातपः, इत्यमरः। अव्यापारस्थितौ कालविशेषोत्सवयोः क्षणः, इत्यमरः।

टिप्पणी—विश्रान्तः—वि उपसर्गपूर्वक 'श्रम्' धातु से ''क्त'' प्रत्यय करके "विश्रान्त" ऐसा रूप निष्पन्न किया जाता है। सिञ्चन्—"सिच्" धातु जिसका अर्थ है आद्रीकरण, से लट् लकार लाकर उसके स्थान पर "लटः शतृ०" इत्यादि सूत्र से "शतृ" प्रत्यय करके नुमादि लाकर सिञ्चन् ऐसा रूप बनता है। पुष्पलावी—पुष्प उपपदपूर्वक छेदनार्थक "लू" धातु से कर्म में "कर्मण्यण्" इस सूत्र से अण् प्रत्यय करके वृद्धि करके स्त्रीत्व विवक्षा में "टिड्ढाणञ्" इत्यादि सूत्र से "ङीप्" करके पुष्पलावी शब्द बना है। यहाँ "कुगतिप्रादयः" से पुष्प और लावी का समास हुआ है ।। २६ ।।

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्ग-प्रणय-विमुखो मास्म-भूर्दुज्जयिन्याः ।
विद्युद्दाम—स्फुरित—चकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमते लोचनैर्वञ्चितोऽसि ॥ २७ ॥

अन्वयः—उत्तराशाम् प्रस्थितस्य भवतः पन्था यदपि वक्रः उज्जयिन्याः सौधोत्सङ्ग-प्रणय-विमुखः मास्मभूः। तत्र विद्युद्दामस्फुरितचकितैः लोलापाङ्गैः पौराङ्गनानाम् लोचनैः यदि न रमसे वञ्चित असि।

पूर्वमेघः ६९

व्याख्या—उत्तराशाम् उदीचीं दिशं प्रति, प्रस्थितस्य = गच्छतः, भवतः = मेघस्य, पन्था = मार्गः, यदपि = यद्यपि, वक्रः = अनृजुः, (तथापि) उज्जयिन्याः = विशालायाः, सौधोत्सङ्ग-प्रणयविमुखः = हर्म्योर्ध्वभागपरिचयपराङ्मुखः, मास्मभूः = मा.भव । तत्र = उज्जयिन्याम्, विद्युद्दामस्फुरितचकितैः = तडिल्लतादीप्तिचञ्चलैः, लोलापाङ्गैः = चञ्चलकटाक्षैः, पौराङ्गनानाम् = नागरिक-वनितानाम्, लोचनैः = नेत्रैः, यदि = चेत्, (त्वम्) न रमसे = न क्रीडसि, (तर्हि) वञ्चितोऽसि = प्रतारितोऽसि ।

शब्दार्थः—उत्तराशाम् = उत्तर दिशा की ओर, प्रस्थितस्य = प्रस्थान किये हुए, भवतः = आपका, पन्था = मार्ग, यदपि = यद्यपि, वक्रः = टेढ़ा है तथापि, उज्जयिन्याः = उज्जयिनी के, सौधोत्सङ्ग-प्रणयविमुखः = ऊँचे महलों के ऊपरी भाग के परिचय से पराङ्मुख, मास्म भू = मत होइयेगा । तत्र = उज्जयिनी के उन महलों पर, विद्युद्दामस्फुरित-चकितैः = विद्युल्लता की चमक से भौंचक्की, लोलापाङ्गैः = चञ्चल कटाक्षों वाली, पौराङ्गनानाम् = नागरिक रमणियों के, लोचनैः = आँखों से, यदि न रमसे = यदि विहार (रमण) नहीं किया तो अपने को, वञ्चितोऽसि = प्रताड़ित समझो (जीवन-लाभ से ठगा गया समझो) ।

भावार्थः—हे मेघ ! अलकां गन्तु प्रवृत्तस्य ते उज्जयिनी-गमने मार्गः यद्यपि वक्रस्तथापि उज्जयिन्या हर्म्यप्रासादपरिचयाद्विमुखो मा भव। तत्र विद्युल्लतायाः कान्तिभिश्चकितैः चञ्चलकटाक्षयुक्तैः नागरीणां युवतीनां नयनैः यदि न रमणं करोसि तर्हि जीवनफलादात्मानं प्रताडित एव जानीहि।

हिन्दी—हे मेघ ! अलका जाने के लिए प्रवृत्त तुम्हारा मार्ग यद्यपि टेढ़ा होगा, फिर भी उज्जयिनी के ऊँचे महलों की छतों के परिचय करने से विमुख मत होना। विजली की रेखा की चमक से भौंचक्की, चञ्चल कटाक्षों वाली, नगरवासी स्त्रियों की आँखों से यदि तुमने विहार नहीं किया (तो जीवन-लाभ से) अपने को वञ्चित ही समझो।

समासः—उत्तरा चेयमाशा उत्तराशा (कर्म० धा०) ताम्। सौधाना-मुत्सङ्गः सौधोत्सङ्गः (ष० तत्०) तेषु प्रणयः (स० तत्०) तस्मिन् विमुखः