भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

४६० | मृच्छकटिकम्

विट:--

अप्रीतिर्भवतु विमुच्यतां हि हासो धिक् प्रीतिं परिभवकारिकामनार्याम् । मा भूच्च त्वयि मम सङ्गतं कदाचि- दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥

**शकारः--**भावे ! पशीद पशीद । एहि णलिणीए पविशअ कीलेम्ह । ( भाव ! प्रसीद प्रसीद । एहि, नलिन्यां प्रविश्य क्रीडावः । )

**अन्वयः--**हासः, विमुच्यताम्, अप्रीतिः, भवतु, हि, परिभवकारिकाम्, अनार्याम्, प्रीतिम्, धिक्, त्वयि, मम, सङ्गतम्, कदाचित्, मा भूत्, च, आच्छिन्नम्, निर्गुणम्, धनुः, इव, ( त्वाम् ) त्यजामि ॥ ४१ ॥

**शब्दार्थ --**हासः=हंसी, विमुच्यताम्=छोड़ दो, अप्रीतिः=शत्रुता, भवतु=हो जाय, हि=क्योंकि, परिभवकारिकाम्=अपमान कराने वाली, अनार्याम्=निन्दनीय, घृणायोग्य, प्रीतिम्=प्रेम, मित्रता को, धिक्=धिक्कार है, त्वयि=तुम्हारे साथ में, मम=मेरा, संगतम्=संग, कदाचित्=कभी, मा भूत्=न हो, आच्छिन्नम्=टूटे हुये, निर्गुणम्=डोरी-रहित, धनुः इव=धनुष के समान, त्वाम्=तुम शकार को, त्यजामि=छोड़ देता हूँ ॥ ४१ ॥

अर्थ--विट --

हंसी छोड़ो । ( तुम्हारे साथ ) मेरी मित्रता न रहे । क्योंकि अपमान कराने वाली निन्दनीय इस मित्रता को धिक्कार है । तुम्हारा मेरा साथ कभी भी न हो । टूटे और डोरीरहित धनुष के समान तुम्हें छोड़ता हूँ । ( धनुषपक्ष में-निर्गुण=डोरी रहित, मित्रतापक्ष में गुणों से शून्य ) ॥ ४१ ॥

**टीका --**साम्प्रतं विटः शकारेण सह मैत्रीविच्छेदमेवेच्छन्नाह — अप्रीतिरिति । हासः=हसनम्, विमुच्यताम्=त्यज्यताम्, ते हासो न मे रोचते इति भावः, अप्रीतिः=प्रीत्यभावः शत्रुत्वमिति भावः, भवतु=अस्तु, तत्त्यागे हेतुमाह-हि=यतः, परिभवस्य=अनादरस्य कारिकाम्=सम्पादिकाम्, अनार्याम्=दूषिताम्, प्रीतिम्=मित्रताम्, धिक्=धिगस्तु । त्वयि=दुष्टे शकारे, मम=विटस्य, संगतम्=सम्मेलनम्, कदाचित्=कदाचिदपि मा भूत्=न स्यात्, अतः, आच्छिन्नम्=त्रुटितम्, भग्नम् निर्गुणम्=प्रत्यञ्चारहितम् पक्षे दयादाक्षिण्यादिशून्यम्, त्वाम्=शकारम्, त्यजामि=परिहरामि । प्रहर्षिणी वृत्तम् ॥ ४१ ॥

**अर्थ--शकार--**भाव ! प्रसन्न हो जाओ, प्रसन्न हो जाओ । आओ इस कमलों वाले तालाब में घुस कर स्नान करें ।

अष्टमोऽङ्कः । ४९१

विटः—

अपतितमपि तावत् सेवमानं भवन्तं पतितमिव जनोऽयं मन्यते मामनार्यम् । कथमहमनुयायां त्वां हतस्त्रीकमेनं पुनरपि नगरस्त्री-शङ्कितादर्द्धाक्षिदृष्टम् ॥ ४२ ॥


**अन्वयः—**अयम्, जनः, अपतितम्, अपि, माम्, भवन्तम्, सेवमानम्, पतितम्, इव, अनार्यम्, मन्यते, तावत्, अहम्, हतस्त्रीकम्, नगरस्त्रीशङ्कितादर्द्धाक्षिदृष्टम्, एनम्, त्वाम्, पुनरपि, कथम्, अनुयायाम् ॥ ४२ ॥

**शब्दार्थ—**अयम्=यह पुरवासी, जनः=लोग, अपतितम् = अपतित, अपि=भी, माम्=मुझे, भवन्तम्=आपकी, भजमानम् = सेवा करने वाले को, पतितम्=पतित, इव = के समान, अनार्यम्=दूषित, मन्यते = मानते हैं, तावत् = निश्चित रूप से। अहम् = मैं विट, हतस्त्रीकम्=स्त्री की हत्या करने वाले, नगर-स्त्री-शंकितादर्द्धाक्षि-दृष्टम् = नगर की स्त्रियों द्वारा शङ्कायुक्त आधी खुली हुई आंखों के द्वारा देखे गये, एनम्=इस, सामने खड़े हुये, त्वाम् = तुम्हारा, पुनरपि=फिर से, कथम्=किस प्रकार, अनुयायाम्=अनुगमन करें, अर्थात् तुम्हारे पीछे चलना अब मेरे लिये सम्भव नहीं है ॥ ४२ ॥

अर्थ--विट-- नगरवासी लोग अपतित भी मुझे आपकी सेवा करने वाला देखकर (पतित की सेवा करने वाला देखकर) पतित के समान दूषित मानने लगेंगे। मैं स्त्री की हत्या करने वाले, नगर की स्त्रियों की शङ्कायुक्त अध खुली आँखों से देखे गये तुम्हारे पीछे अब फिर कैसे चल सकता हूँ। [अर्थात् तुम्हारे साथ चलना असम्भव है] ॥ ४२ ॥

**टीका--**दुर्जनसंगत्या सज्जनस्यापि निन्दा लोके दृश्यते इति प्रतिपादयितु-माह–अपतितमिति । अयम् = नगरवासीत्यर्थः, जनः = लोकः, अपतितम् = अपापकारि-णम्, अपि, माम् = विटम्, भवन्तम् = त्वाम्, स्त्रीहतकं शकारमित्यर्थः, सेवमानम् = भजन्तम्, पतितम् = पापमनुतिष्ठन्तम्, इव, अनार्यम् = असाधुम्, मन्यते = सम्भावयति, तावत् = इदं निश्चये। अहम् = विटः, समाजे प्रतिष्ठितः, हतस्त्रीकम् = स्त्रीवध-कारिणम् अत एव, नगरस्त्रीभिः = उज्जयिनीनारीभिः, शङ्कितम् = सन्दिग्धं यथा स्यात् तथा, वसन्तसेनाभिव मामपि न कदाचिद् हन्यादिति सन्देहपूर्वकमिति भावः, अर्धाक्षिभिः = संकुचितनेत्रैः, दृष्टः = वीक्षितः, यस्तम्, यद्वा शङ्कितैः = संशयग्रस्तैः, अर्द्धैः = अर्द्धोन्मीलितैः अक्षिभिः, दृष्टः = अवलोकितः, तम्, एनम् = पुरोवर्तिनम्, त्वाम् = भवन्तं शकारम्, पुनरपि = भूयोऽपि, पूर्ववदित्यर्थः, कथम् = केन प्रकारेण, अनु-यायाम् = अनुगच्छेयम् ? न कथमपि गच्छेयमिति भावः। ईदृशानुचितकार्या-

४९२मृच्छकटिकम्

( सकरुणम् ) वसन्तसेने !

अन्यस्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि ! ।
चारित्र्यगुणसम्पन्ने ! जायेथा विमले कुले ॥ ४३ ॥

नुष्ठातुः, तवानुगमनं मया कथमपि कर्तुं न शक्यते इति विटस्याभिप्रायः। अत्र पतितत्वस्य अनार्यत्वबोधस्य स्त्रीहत्यायाश्च विशेषणतया अनुगमनाशङ्काहेतुत्वात् काव्यलिङ्गमलङ्कारः। मालिनीवृत्तम् ॥ ४२ ॥

**विमर्श—**विट का आशय यह है कि यदि अच्छा आदमी भी नीच की सेवा में लग जाता है तो समाज उसके अच्छे होने पर भी बुरी नजर से ही देखता है। अतः वह किसी भी स्थिति में स्त्रीहत्यारे शकार का साथ निभाना नहीं चाहता है ॥ ४२ ॥

**अन्वयः—**हे सुन्दरि ! अन्यस्याम्, जातौ, अपि, त्वम्, वेश्या, मा भूः, हे चारित्र्यगुणसम्पन्ने, विमले, कुले, जायेथाः ॥ ४३ ॥

**शब्दार्थ—**हे सुन्दरि ! = हे सुन्दरी !, अन्यस्याम् = दूसरे, जातौ = जन्म में, अपि = भी, त्वम् = तुम, वेश्या = वेश्या, मा भूः = मत होना, चारित्र्यगुणसम्पन्ने ! = चरित्र और गुणों से युक्त !, विमले = पवित्र, निष्कलंक, कुले = वंश में, जायेथाः = उत्पन्न होना ॥ ४३ ॥

अर्थ—( करुणापूर्वक ) हे वसन्तसेने !
हे सुन्दरि ! दूसरे जन्म में भी तुम वेश्या मत होना । हे चरित्र और गुणों से युक्त ! पवित्र कुल में जन्म लेना ॥ ४३ ॥

**टीका—**ईदृशगुण-सम्पन्नायाः वसन्तसेनायाः भावि जन्म वेश्याकुले न भवेदिति आशास्ते विटः—अन्येति। हे सुन्दरि ! = हे सुरूपे !, अन्यस्याम् = अपरस्याम्, जातौ = जन्मनि, 'जातिः सामान्य-जन्मनो' रित्यमरः, अपि, वेश्या = गणिका, मा भूः = न भूयाः, माङो योगाल्लुङ, चारित्र्यम् = शीलत्वम्, गुणाः = दयादाक्षिण्यादयः, तैः सम्पन्ना, तत्सम्बुद्धौ, सुचरित्रे !, सद्गुणशालिनि ! इत्यर्थः, यद्वा, 'चारित्र्यगुण-सम्पन्ने' इदं 'कुले' इत्यस्य विशेषणम्, विमले = पवित्रे, निष्कलङ्के, कुले = वंशे, जायेथाः = उत्पद्येथाः। एतदतिरिक्तं मया किं प्रार्थनीयमिति तद्भावः ॥ ४३ ॥

विमर्श—'चारित्र्यगुणसम्पन्ने' चरित्र शब्द से स्वार्थ में ष्यञ् होने से दोनों शब्द समानार्थक हैं । कुछ लोग इसे सम्बोधनान्त मानकर 'वसन्तसेना' का विशेषण मानते हैं । कुछ लोग इसे 'कुले' का विशेषण मानते हैं । दोनों ही ठीक हैं ॥ ४३ ॥

**शब्दार्थ—**आवुत्तस्य = बहनोई का, प्रासाद-बालाग्रप्रतोलिकायाम् = महल के ऊपर नये बने कमरे में, आत्मपरित्राणे = अपनी रक्षा के लिये, निगडदुरितम् =

अष्टमोऽङ्कः ४९३

शकारः--मम केलके पुप्फकलण्डकजिण्णुज्जाणे वशन्तशेणिअं मालिअ कहिं पलाअसि ? एहि, मम आवुत्तशश अग्गदो ववहालं देहि । ( मदीये पुष्पकरण्डक-जीर्णोद्याने वसन्तसेनां मारयित्वा कस्मिन् पलायसे ? एहि, मम आवुत्तस्य अग्रतो व्यवहारं देहि । ) ( इति धारयति )

विटः— आः ! तिष्ठ जाल्म ! ( इति खड्गमाकर्षति ) ।

शकारः--( सभयमुपसृत्य ) किं ले ! भोदेशि ? ता गच्छ । ( किं रे ! भीतोऽसि ? तद्गच्छ । )

विटः—( स्वगतम् ) न युक्तमवस्थातुम् । भवतु, यत्र आर्यशर्विलक-चन्दनकप्रभृतयः सन्ति, तत्र गच्छामि । ( इति निष्क्रान्तः । )

शकारः--णिधणं गच्छ । अले थावलका ! पुत्तका । कीलिशे मए किदे ? ( निधनं गच्छ । अरे स्थावरक ! पुत्रक ! कीदृशं मया कृतम् ? )

चेटः- भट्ठके ! महन्ते अकज्जे किदे । ( भट्टक ! महदकार्यं कृतम् । )

शकारः--अले चेड़े ! किं भणाशि अकज्जे किडेत्ति ? भोदु, एव्वं दाव । ( नानाभरणान्यवतार्य ) गेण्ह एदं अलङ्कारअं, मए तावदिण्णे जेत्तिके वेले अलङ्कलेमि, तेत्तिकं वेलं मम अण्णं तव । ( अरे चेट ! किं भणसि अकार्यं कृतमिति ? भवतु, एवं तावत् । ) ( गृहाण इममलङ्कारं मया ताव-द्दत्तम्, यावत्यां वेलायामलङ्करोमि, तावतीं वेलां मम अन्यदा तव । )


बेड़ी पहनाकर, मन्त्रः = इत्यारूपी गुप्त योजना, सुवृत्ता = अच्छी प्रकार मर गई, प्रावारकेण = दुपट्टे से, प्रत्यभिजानाति = पहचान लेता है, वातालीपुञ्जितेन = अन्धड़ से एकत्रित किये गये, व्यवहारम् = मुकदमा, व्यापादिता = मार डाली ।

अर्थ—शकार—मेरे पुष्पकरण्डक नामक जीर्णोद्यान में वसन्तसेना को मार कर कहाँ भाग रहे हो ? चलो, मेरे बहनोई के सामने अपनी सफाई दो । ( ऐसा कह कर पकड़ लेता है ।)

विट—अरे नीच ! ठहर जा । ( यह कह कर तलवार खींच लेता है ।)

शकार--( भय के साथ हटकर ) अरे ! क्या तुम डर गये ? तो जाओ ।

विट--( अपने में ) अब ( यहाँ ) रुकना ठीक नहीं है । अच्छा, जहाँ आर्य शर्विलक चन्दनक आदि हैं, वहीं चलता हूँ । ( इस प्रकार निकल जाता है ।)

शकार—मर जाओ । अरे स्थावरक बेटा ! मैंने कैसा किया ?

चेट—स्वामिन् ! बहुत अनुचित किया ।

शकार—अरे चेट ! क्या कह रहे हो—अकार्य = अनुचित कार्य किया है ? अच्छा ऐसा करूँ ( अनेक गहने उतार कर ) इन गहनों को ले लो । मैंने दे दिये हैं, जब तक पहनता हूँ तब तक मेरे हैं और दूसरे समय में तुम्हारे ।

४६४ मृच्छकटिकम्

**चेटः--**भट्टके ज्जेव एदे शोहन्ति, किं मम एदेर्हि ? ( भट्टके एव एते शोभन्ते, किं मम एतैः ? )

**शकारः--**ता गच्छ, एदाईं गोणाईं गेण्हिअ मम केलिकाए पाशाद-वालग्गपादोलिआए चिट्ठ, जाव हग्गे आगच्छामि । ( तद् गच्छ, एतौ गावो गृहीत्वा मदीयायां प्रासाद-बालाग्रप्रतोलिकायां तिष्ठ, यावदहमागच्छामि । )

**चेटः--**जं भट्ठके आणवेदि । ( यद्भट्टक आज्ञापयति । ) ( इति निष्क्रान्तः । )

**शकारः--**अत्तपलित्ताणे भावे गदे अदशणं, चेडं वि पाशाद-बालग्ग-पदोलिआए णिगलपूलिदं कदुअ थावइश्शं । एव्वं मन्ते रक्खिदे भोदि । ता गच्छामि । अथवा, पेक्खामि दाव एदं, किं एशा मिदा अथवा पुणो वि मारइश्शं । ( अवलोक्य ) कथं शुमिदा । भोदु, एदिणा पावालएण पच्छादेमि णं । अथवा णामङ्किदे एशे, ता के वि अज्जपुलिशो पच्छहिजा-णेदि । भोदु, एदिणा वादालीपुञ्जिदंण शुक्ख-पण्ण-पुडेण पच्छादेमि । ( तथा कृत्वा विचिन्त्य ) भोदु, एव्वं दाव, सम्पदं अधिअलणं गच्छिअ वंवहालं लिहावेमि । जहा अत्थश्श कालणादो शत्थवाह-चालुदत्ताकेण मम केलकं पुप्फकलण्डकं जिण्णुज्जाणं पवेशिअ वशन्तशेणिआ वावादिदे-त्ति । ( आत्मपरित्राणे भावो गतः अदर्शनम् । चेटमपि प्रासादबालाग्रप्रतोलिकायां निगडपूरितं कृत्वा स्थापयिष्यामि । एवं मन्त्रो रक्षितो भवति । तद्गच्छामि । अथवा, पश्यामि तावदेनाम्, किमेषा मृता । अथवा पुनरपि मारयिष्यामि । कथं सुमृता । भवतु, एतेन प्रावारकेण प्रच्छादयामि एनाम् । अथवा नामाङ्कित एषः, तत् कोऽपि आर्यपुरुषः प्रत्यभिजानाति । भवतु, एतेन वातालीपुञ्जितेन शुष्कपर्णपुटेन प्रच्छादयामि । भवतु, एवं तावत् साम्प्रतमधिकरणं गत्वा व्यव-


**चेट--**ये ( गहने ) स्वामी पर ही अच्छे लगते हैं, मुझसे इनसे क्या ?

**शकार--**तो जाओ, इन दोनों बैलों को लेकर मेरी क्रीडा के लिये बने महल की अटारीवाली गली में ठहरो, तब तक मैं आता हूँ ।

**चेट--**स्वामी की जैसी आज्ञा ।

**शकार--**भाव अपनी रक्षा के लिये चला गया । चेट को भी महल की नवनिर्मित अटारी वाले कमरे में बेड़ियों से जकड़ कर रखूँगा, इस प्रकार से यह गुप्त कार्य सुरक्षित रहेगा । तो चलता हूँ । अथवा, इसको देखूँ कि यह मरी ? अथवा फिर मार डालूँगा । ( देखकर ) क्या, अच्छी तरह मर गई । अच्छा, इस दुपट्टे से इसे ढक दूँ । अथवा, इसमें नाम लिखा हुआ है, इसलिये कोई भी शिक्षित व्यक्ति पहचान लेगा । अच्छा, अन्धड़ से एकत्रित इन पत्तों के समूह से ढक देता हूँ । ( ढक कर और सोंचकर ) अब कचहरी में जाकर मुक़दमा लिखवा

अष्टमोऽङ्कः४९५

हारं लेखयामि । यथा; अर्थस्य कारणात् सार्थवाहचारुदत्तेन मदीयं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य वसन्तसेना व्यापादितेति । )

चालुदत्तविणाशाय कलोमि कवडं णवं ।
णअरीए विशुद्धाए पशुघादं व्व दालुणं ॥ ४४ ॥
( चारुदत्तविनाशाय करोमि कपटं नवम् ।
नगर्यां विशुद्धायां पशुघातमिव दारुणम् ॥ ४४ ॥ )

भोदु, गच्छामि । ( इति निष्क्रम्य दृष्ट्वा सभयम् ) अविदमादिके ! जेण जेण गच्छामि मग्गेण, तेण ज्जेव एशे दुट्ठशमणके गहिदकाश।ओदकं चीवलां गेण्हिअ आअच्छदि । एशे मए णशि छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ 'एदेण मालिदे' त्ति पआशइश्शदि । ता कथं गच्छामि । ( अवलोक्य ) भोदु, एदं अद्धपडिदं पाआलखण्डं उल्लङ्घिअ गच्छामि ।


देता हूँ, इस प्रकार—'सार्थवाह चारुदत्त ने मेरे पुष्पकरण्डक जीर्णोद्यान में धन के लिये ले जाकर वसन्तसेना को मार डाला है।'

टीका—आवुत्तस्य=भगिनीपत्युः, व्यवहारम् = स्वनिर्दोषताप्रमाणम्, देहि=प्रदर्शय, निधनम्=मरणम्, अकार्यम्=अनुचितं कार्यम्, प्रासादबालाग्रप्रतोलिकायाम्=प्रासादस्यान्तरे बाला=नवनिर्मिता या अग्रप्रतोलिका=उत्कृष्टरथ्या, तस्याम्, निगडपूरितम्=निगडबद्धम्, मन्त्रः=वसन्तसेना-वधरूपं जघन्य कृत्यम्, प्रत्यभिजानाति=सम्यग् ज्ञातुं शक्नोतीति भावः, आर्यपुरुषः=शिक्षितो जनः, वातस्य=पवनस्य आलिः=समूहः=‘बवण्डर’ इति भाषायाम्, तया पुज्जितेन=एकत्रित्रेन, अधिकरणम्=न्यायालयम्, अर्थस्य=धनस्य, प्रवेश्य=नीत्वा, व्यापादिता=मारिता ॥

अन्वयः—( अस्याम् ), विशुद्धायाम्, नगर्याम्, दारुणम्, पशुघातम्, इव, चारुदत्त-विनाशाय, नवम्, कपटम्, करोमि ॥ ४४ ॥

शब्दार्थ—( अस्याम्=इस उज्जायिनी ), विशुद्धायाम्=पवित्र, नगर्याम्=नगरी में, दारुणम्=कष्ट-कारक, भयङ्कर, पशुघातम्=पशुवध, इव=के समान, चारुदत्त-विनाशाय=चारुदत्त के विनाश के लिये, नवम्=नये, कपटम्=छल को, करोमि=करता हूँ ॥ ४४ ॥

अर्थ—इस पवित्र उज्जयिनी नगरी में कष्टकारक ( भयंकर ) पशुवध के समान चारुदत्त का वध करने के लिये नया छल रचता हूँ ॥ ४४ ॥

टीका—वसन्तसेनां मारयित्वापि चारुदत्तविनाशोपायं चिन्तयति-चारुदत्तेति । अस्याम्, विशुद्धायाम्=पवित्रायाम्, नगर्याम्=पुर्याम्, उज्जयिन्याम् दारुणम्=कष्टकारकम्, भयङ्करम्, पशुघातम्=पशोः वधम् इव, चारुदत्तस्य विनाशाय=वधार्थम् नवम्=नवीनम्, कपटम्=छलम्, करोमि=रचयामि ॥ पथ्यावक्त्रं वृत्तम् ॥ ४४ ॥

४९६मृच्छकटिकम्

( भवतु, गच्छामि । अविदमादिके ! येन येन गच्छामि मार्गेण, तेनैव एष दुष्ट-श्रमणकः गृहीतकाषायोदकं चीवरं गृहीत्वा आगच्छति । एष मया नासां छित्त्वा वाहितः कृतवैरः कदापि मां प्रेक्ष्य 'एतेन मारिता' इति प्रकाशयिष्यति । तत् कथं गच्छामि ? भवतु एतदर्द्धपतितं प्राकारखण्डमुल्लङ्घय गच्छामि । )

एशे म्हि तुलिंद-तुलिंदे लङ्का-णअलीए गअणे गच्छन्ते ।
भूमीए पाआले हणूमशिखले विअ महेन्दे ॥ ४५ ॥
( एषोऽस्मि त्वरित-त्वरितो लङ्कानगर्य्या गगने गच्छन् ।
भूम्यां पाताले हनूमच्छिखरे इव महेन्द्रः ॥ ४५ ॥ )
( इति निष्क्रान्तः । )

अर्थ—अच्छा चलता हूँ । ( निकलकर, देखकर, भयसहित ) ओह; जिस जिस रास्ते से जाता हूँ उसी उसी रास्ते से यह दुष्ट बौद्ध संन्यासी कसैले रंगवाले चीवर को लेकर आ जाता है। इसे मैंने नाक छेद कर बाहर निकाल दिया था अतः शत्रुता बनाने वाला कदाचित् मुझे देखकर 'मैंने मार डाली है' ऐसा प्रकाशित कर देगा । तो कैसे चलूँ ? ( देखकर) अच्छा, इस आधी गिरी हुई चहारदीवारी को लांघ कर जाता हूँ ।

अन्वयः—एषः, अस्मि, आकाशे, भूम्याम्, पाताले, हनुमच्छिखरे, लंका-नगर्याम्, गच्छन्, महेन्द्रः, इव, त्वरितत्वरितः, [ गच्छामि ] ॥ ४५ ॥

शब्दार्थएषः=यह, अस्मि=( मैं शकार ), आकाशे=आकाश में, भूम्याम्=जमीन में, पाताले=पाताल में, हनुमच्छिखरे=हनुमान् की चोटी पर, लंकानगर्याम्=लंका नगरी में, गच्छन्=जाता हुआ, महेन्द्रः=इन्द्र, इव=के समान, त्वरित-त्वरितः=जल्दी-जल्दी, ( गच्छामि=जा रहा हूँ ।) ॥ ४५ ॥

अर्थ—यह मैं आकाश में, जमीन में, पाताल में हनुमान् की चोटी पर और लंका नगरी में जाता हुआ महेन्द्र के समान जल्दी-जल्दी जा रहा हूँ ॥ ४५ ॥

( ऐसा कह कर निकल जाता है ।)

टीका—शकारः स्वगमनस्य हनुमता साम्यं प्रतिपादयन्नाह-एष इति । एषः=पूर्वोक्तः, अस्मि=अहम् शकारः, आकाशे=गगने, भूम्याम्=धरायाम्, पाताले=भूमि-तलस्याधोभागे, हनुमच्छिखरे=हनुमच्छृङ्गे, अत्र महेन्द्रशृङ्गे इति वक्तव्ये मूर्खतया व्यत्यासं कृत्वाह, लङ्कानगर्याम्=रावणपालितपुर्याम्, महेन्द्रः=महेन्द्रपर्वतः, इव, 'हनुमान् इवे' ति वक्तव्ये मूर्खतया महेन्द्र इवेति वदति स्म, त्वरितत्वरितः=अतित्वरायुक्तः गच्छामि । यथा हनुमान् महेन्द्र-पर्वतस्य शृङ्गे गतवान् इति वक्तव्ये मूर्खतया 'महेन्द्रः हनुमच्छिखरे यथा गतवान्' इति शकारः वदति स्म । तस्य मूर्खता-युक्तानि वचनानि सह्यानीति भावः । आर्या वृत्तम् ॥ ४५ ॥

विमर्श—हनुमान् ने महेन्द्र पर्वत का शिखर लांघा था । किन्तु शकार अपनी मूर्खता के कारण उल्टी बात कहता है 'महेन्द्र ने जैसे हनुमान् पर्वत की चोटी पार की थी।' ॥ ४५ ॥

अष्टमोऽङ्कः ४६७

( प्रविश्य अपटीक्षेपेण )

संवाहको भिक्षुः—पक्खालिदे एश मए चीवलखण्डे, किं णु क्खु शाखाए शुक्खावइश्शं ? इध वाणला विलुप्पान्त । किं णु क्खु भूमीए ? धूलोदोशे होदि । ता कहिं पशालिअ शुक्खावइश्शं । ( दृष्ट्वा ) भोदु, इष वादाली-पुञ्जिदे शुक्ख-वत्त-शञ्चए पशालइश्शं । ( तथा कृत्वा ) णमो बुद्धश्श । (इत्युपविशति ।) भोदु, धम्मक्खलाइ उदाहलामि । ( 'पञ्च जण जेण मालिदा' इत्यादि पूर्वोक्तं पठति । ) अथवा, अलं मम एदेण शग्गेण । जाव ताए वसन्त-शेणिआए बुद्धोवाशिआए पच्चुवकालं ण कलेमि, जाए दशाणं शुवण्णकाणं किदे जूदिकलेहिं णिक्कीदे, तदो पहुदि ताए किदं विअ अत्ताणं अवगच्छामि । ( दृष्ट्वा ) किं णु क्खु पण्णोदले शमुश्शशदि ? अथवा—

( प्रक्षालितमेतन्मया चीवरखण्डन् । किं नु खलु शाखायां शोषयिष्यामि ? इह वानरा विलुम्पन्ति । किं नु खलु भूम्याम् ? धूलिदोषो भवति । तत् कुत्र प्रसार्य शोषयिष्यामि ? भवतु, इह वातालीपुञ्जिते शुष्क-पत्रसञ्चये प्रसारयिष्यामि । नमो बुद्धाय । भवतु, धर्माक्षराणि उदाहरामि । अथवा अलं ममैतेन स्वर्गेण । यावत्तस्या वसन्तसेनायाः बुद्धोपासिकायाः प्रत्युपकारं न करोमि, यया दशानां सुवर्णकानां कृते द्यूतकाराभ्यां निष्क्रीतः, ततः प्रभृति तया क्रीतमिवात्मानमवगच्छामि । किं नु

शब्दार्थ—अपटीक्षेपेण=बिना पर्दा हटाये, चीवरखण्डम्=वस्त्रविशेष का टुकड़ा, धर्माक्षराणि=धर्म के अक्षरों को, तस्याः=उस वसन्तसेनाका, निष्क्रीतः=मुक्त कराया गया, खरीदा हुआ, पर्णोदरे=पत्तों के बीच में ।

( बिना पर्दा हटाये प्रवेश करके )

**अर्थ—संवाहक भिक्षु—**मैंने यह चीवर (वस्त्र) का टुकड़ा धो लिया है । तो क्या पेड़ की शाखा पर सुखा लूँ ? यहाँ बन्दर लेकर भाग जायेंगे । तो क्या जमीन पर सुखाऊँ ? इससे धूल लग जायगी । तब फिर कहाँ फैलाकर सुखाऊँ ? ( देख कर ) अच्छा, यहाँ बवण्डर से एकत्रित सूखे पत्तों के ढेर पर सुखाऊँगा । ( उसी प्रकार फैलाकर ) बुद्ध भगवान् को प्रणाम । (ऐसा कह कर बैठ जाता है ।) अथवा धार्मिक अक्षरों का उच्चारण करता हूँ । ( 'जिसने पाँच लोगों=इन्द्रियों को मार डाला'—इत्यादि पूर्वोक्त इसी अंक का दूसरा श्लोक पढ़ता है ।) अथवा, मुझे इस स्वर्ग से क्या लेना देना । जब तक उस बुद्धोपासिका ( वसन्तसेना ) का बदला नहीं चुका लेता हूँ, जिसने दश सोने के सिक्कों के लिये मुझे दोनों जुआरियों से मुक्त कराया था, उस समय से लेकर अपने को उसके द्वारा खरीदा हुआ सा समझ रहा हूँ । ( देखकर ) अरे पत्तों के बीच में यह कौन सांस ले रहा है ? अथवा—

३२ मृ०

४९८ मृच्छकटिकम्

खलु पर्णोदरे समुच्छ्वसिति ? अथवा--

वादादवेण तत्ता चीवल-तोएण तिम्मिदा पत्ता ।
एदे विथिण्णपत्ता मण्णे पत्तण विअ फुल्लन्ति ॥ ४६ ॥
( वातातपेन तप्तानि चीवरतोयेन स्तिमितानि पत्राणि ।
एतानि विस्तीर्णपत्राणि मन्ये पत्राणीव स्फुरन्ति ॥ ४६ ॥ )


टीका—अपटीक्षेपेण=स्वयमेव जवनिकामुद्घाट्य सहसा, चीवरस्य=वस्त्र-विशेषस्य, खण्डम्=भागम्, विलुम्पन्ति=नीत्वान्यत्र प्रयास्यन्तीति भावः, वाताली-पुञ्जिते=वात-समूहेनैकत्रिते, धर्माक्षराणि=धर्मजनकशब्दान्, तस्याः=पूर्वोक्तायाः साहाय्यकर्त्याः वसन्तसेनाया इत्यर्थः, निष्क्रीतः=मुक्तिं प्रापितः, पर्णोदरे=पत्राणा-माभ्यन्तरे, समुच्छ्वसिति=श्वासं गृह्णातीत्यर्थः ।

अन्वयः—वातातपेन, तप्तानि, चीवरतोयेन, स्तिमितानि, एतानि, पत्राणि, विस्तीर्णपत्राणि, पत्राणि, इव, स्फुरन्ति, इति, मन्ये ॥ ४६ ॥

शब्दार्थ—वातातपेन=हवा के साथ धूप से, तप्तानि=सूखे, चीवरतोयेन=चीवर=वस्त्रखण्ड से ( निकले हुये ) पानी से, स्तिमितानि=सिंचे हुये, एतानि=ये, पत्राणि=पत्ते, विस्तीर्णपत्राणि=फैले हुये पंखो वाले, पत्राणि=पक्षियों ( के पंखों ), इव=के समान, स्फुरन्ति=हिल रहे हैं, इति=ऐसा, मन्ये=मैं समझता हूँ ॥ ४६ ॥

अर्थ—हवा के साथ धूप से सुखाये गये, ( किन्तु ) चीवर के निचोड़ने से निकले पानी से सिंचे हुये ये पत्ते फैले हुये पंखों वाले पक्षियों के पखों के समान हिल रहे हैं ॥ ४६ ॥

टीका—पुञ्जितानां पर्णानां स्पन्दनं विलोक्य भिक्षुः इदं सम्भावयन्नाह-वातेति । वातेन सहित आतपः=घर्मः, तेन तप्तानि=शुष्कतां गतानि, किन्तु चीवरतोयेन=यतीनां वस्त्रविशेषखण्डात् निःसृतजलेन, स्तिमितानि=सिक्तानि, एतानि=पुरो-विद्यमानानि, पत्राणि=पल्लवानि, विस्तीर्णपत्राणि=विस्तारितानि पक्षाणि येषां तानि, पत्राणि=पक्षिणां पक्षाणि, इव=यथा, स्फुरन्ति = स्पन्दन्ते, इति मन्ये =सम्भावयामि एवञ्चैतानि पत्राण्येव नान्यत् किञ्चिदिति तद्भावः । पृथ्वी-धरस्तु-वातातपेन तप्तानि चीवरतोयेन स्तिमितत्वमार्द्रत्वं प्राप्तानि, स्तिमिता-नीति भाव-प्रधाननिर्देशः, एतानि विस्तीर्णं प्राप्तं प्रसारितं यत्र तानि, मन्ये पत्राण्येव विजृम्भन्ते । उपमालङ्कारः । आर्या वृत्तम् ॥ ४६ ॥

शब्दार्थ—संज्ञाम्=चेतना को, प्रत्यभिजानामि=पहचानता हूँ, बुद्धोपासिका=भगवान् बुद्ध की सेविका, आकाङ्क्षति=मांगती है, दीर्घिका=बावड़ी, गाल-यिष्यामि=निचोड़ दूंगा, पटान्तेन=वस्त्र के किनारे से, बीजयति=हवा करता है । उपरता=मरी हुई, वेशभावस्य=वेश्यापन के, विहारे=बौद्धविहार में, धर्मभगिनी=धर्म की बहिन, शुद्धः=निर्दोष ।

अष्टमोऽङ्कः ४६१

( वसन्तसेना संज्ञां लब्ध्वा हस्तं दर्शयति ।)

भिक्षुः—हा हा ! शुद्धालङ्कालभूशिदे इत्थियाहत्थे णिक्कमदि । कधं दुदिए वि हत्थे ? ( बहुविधं निर्वर्ण्य ) पञ्चभिआणामि विअ एदं हत्थं । अथवा, किं विचारेण ? शच्चं शे ज्जेव हत्थे, जेणा मे अभअं दिष्णं । भोदु, पेक्खिश्शं । (नाट्येनोद्घाट्य दृष्ट्वा प्रत्यभिज्ञाय च ) शा ज्जेव बुद्धोवाशिआ । ( हा हा ! शुद्धालङ्कारभूषितः स्त्रीहस्तो निष्क्रामति ।) ( कथं द्वितीयोऽपि हस्तः ? प्रत्यभिजानामीव एतं हस्तम् । अथवा, किं विचारेण, सत्यं स एव हस्तः, येन मे अभयं दत्तम् । भवतु, प्रेक्षिष्ये । ) ( सैव बुद्धोपासिका । )

( वसन्तसेना पानीयमाकाङ्क्षति ।)

भिक्षुः—कधं उदअं मग्गेदि, दूरे च दिग्घिआ । किं दाणि एत्थ कलाईश्शं ? भोदु, एदं चीवलं शे उवरि गालइश्शं । (कथमुदकं याचते दूरे च दीर्घिका । किमिदानीमत्र करिष्यामि ? भवतु, एतच्चीवरमस्या उपरि गालयिष्यामि । ) ( तथा करोति । )

( वसन्तसेना संज्ञां लब्ध्वा उत्तिष्ठति । भिक्षुः पटान्तेन वीजयति ।)

वसन्तसेना—अज्ज ! को तुमं ? ( आर्य ! कस्त्वम् ? )

भिक्षुः—किं मं ण सुमरेदि बुद्धोवाशिआ दश-शुवण्णणिक्कोदं ? (किं मां न स्मरति बुद्धोपासिका दश-सुवर्ण-निष्कीतम् ? )


अर्थ—( वसन्तसेना होश में आकर हाथ दिखाती है ।)

भिक्षु—हाय, हाय, शुद्ध गहनों से सजा हुआ स्त्री का हाथ बाहर निकल रहा है। क्या, दूसरा भी हाथ (निकल रहा है) ? (अनेक प्रकार से देख कर) इस हाथ को पहचानता सा हूँ। अथवा, सोचना क्या, सचमुच वही हाथ है जिसने मुझे अभयदान दिया था। अच्छा, देखता हूँ । (अभिनय के साथ पत्तों को हटा कर देख कर और पहचान कर ) वही बुद्धोपासिका (वसन्तसेना) है।

(वसन्तसेना पानी मांगती है।)

भिक्षु—क्या, पानी मांग रही है ? और बावड़ी दूर है। अब यहाँ क्या करूँ ? अच्छा, यह चीवर इसके ऊपर निचोड़ता हूँ। (चीवर निचोड़ने लगता है।)

(वसन्तसेना होश में आकर उठ बैठती है। भिक्षु कपड़े के छोर से हवा करता है।)

वसन्तसेना—आर्य? आप कौन हैं?

भिक्षु—क्या बुद्धोपासिका आप दश सोने के सिक्कों से खरीदे हुए मुझे नहीं याद कर पा रहीं हैं?

५०० मृच्छकटिकम्

वसन्तसेना—सुमरामि ण उण जधा अज्जो भणादि। वरं अहं उवेरदा ज्जेव। (स्मरामि, न पुनर् यथा आर्यो भणति। वरमहमुपरतैव।)

भिक्षुः—बुद्धोवाशिए ! किं ण्णेद ? (बुद्धोपासिके ! किं नु इदम् ? )

वसन्तसेना—(सनिर्वेदम्) जं सरिसं वेसभावस्स। (यत् सदृशं वेश-भावस्य।)

भिक्षुः—उट्ठेदु उट्ठेदु बुद्धोवासिआ एदं पादव-समोवजादं लदं ओलम्बिअ। (उत्तिष्ठतु उत्तिष्ठतु बुद्धोपासिका एतां पादपसमीप-जातां लतामव-लम्ब्य।) (इति लतां नामयति।) (वसन्तसेना गृहीत्वा उत्तिष्ठति।)

भिक्षुः—एदश्शि विहाले मम धम्मवहिणिआ चिट्ठदि, तहिं शम-श्शशिदमणा भविअ उवाशिआ गेहं गमिश्शदि। ता शेणं शेणं गच्छदु बुद्धोवाशिआ। (इति परिक्रामति। दृष्ट्वा) ओशलध अज्जा ! ओशलध। एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे। (एतस्मिन् विहारे मम धर्मभगिनी तिष्ठति, तस्मिन् समाश्वस्तमना भूत्वा उपासिका गेहं गमिष्यति। तत् शनैः शनैः गच्छतु बुद्धोपासिका।) (अपसरत आर्याः ! अपसरत। एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो मम एष धर्मः।)


वसन्तसेना—याद कर रही हूँ, किन्तु जैसा आप कह रहे हैं वैसा नहीं। इससे तो मैं मरी हुई ही ठीक थी।

भिक्षु—बुद्धोपासिके ! यह क्या है ?

वसन्तसेना—(दुख के साथ) जो वेश्यापन के लायक है।

भिक्षु—इस पेड़ के पास निकली हुई लता को पकड़ कर बुद्धोपासिका आप उठिये, उठिये।

(लता को झुकाता है।)

(वसन्तसेना लता को पकड़ कर उठती है।)

भिक्षु—इस बौद्धविहार में मेरी धर्म की बहिन रहती है, वहाँ आप धैर्य धारण कर (निश्चिन्त होकर) घर चली जाना। अतः बुद्धोपासिका आप धीरे-धीरे चलें। (ऐसा कहकर घूमता है और देखकर) सज्जनों ! हटिये, हटिये। यह जवान औरत है। और यह मैं भिक्षु हूँ, इस कारण मेरा धर्म पवित्र=निर्दोष है।

टीका—संज्ञाम्=चेतनाम्, शुद्धैः = निष्कलङ्कः यद्वा अमिश्रितधातुनिष्पन्नः, अलङ्कारैः=आभूषणैः, भूषितः=सज्जितः, निष्क्रामति=वातालीपुञ्जात् बहिरागच्छति, प्रत्यभिजानामि=परिचिनोमि, दीर्घिका=वापी, गालयिष्यामि=निष्पीडयिष्यामि, वर्तमानसामीप्ये लट्, पटान्तेन = वस्त्रान्तभागेन, वीजयति = पवनं करोति,

अष्टमोऽङ्कः । ५०१

हत्थशञ्जदो मुहशञ्जदो इन्दियशञ्जदो शे खु माणुशे ।
किं कलेदि लाअउले तश्श पललोओ हत्थे णिच्चलो ॥ ४७ ॥

( हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥ ४७ ॥ )

( इति निष्क्रान्ताः सर्वे । )

। इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।


दशसुवर्णनिष्कीतम् = दशसुवर्णप्रदानेन ऋणाद् मोचयित्वा स्ववशीकृतम्, उपरता = विनष्टा, मृतेति भावः, वेशभावस्य = वेश्यात्वस्य, सदृशम् = अनुरूपम्, नामयति = अवनमयति, गृहीत्वा = आधृत्य; धर्म गिणी = धर्मवशात्, न जन्मना, भगिनी, भगिनीतुल्येति भावः, समाश्वस्तम् = निश्चिन्तम्, मनः = चित्तम्, यस्यास्तादृशी एषा = पुरोवर्त्तमाना वसन्तसेनेत्यर्थः, शुद्धः = पवित्रः, भिक्षुः भूत्वा स्त्रीस्पर्शोः न करणीय इति स दूरादेव चलतीतितस्य धर्महानिर्नेति भावः ॥

अन्वयः— [ यः ] हस्तसंयतः, मुखसंयतः, इन्द्रियसंयतः, सः, खलु, मनुष्यः, [ अस्ति ], राजकुलम्, तस्य, किम्, करोति, तस्य, हस्ते, परलोकः, निश्चलः [ वर्तते ] ॥ ४७ ॥

शब्दार्थ— [ यः = जो ] हस्तसंयतः = हाथों से संयत है [ हाथों से अकार्य नहीं करता है ], मुखसंयतः = मुख से संयत [ मुख से अनुचित बात नहीं बोलता है ], इन्द्रियसंयतः = इन्द्रियों से संयत [ चक्षुरादि इन्द्रियों को वश में किये हुये है ], सः खलु = वह ही, मनुष्यः = मनुष्य, है, राजकुलम् = राजा से सम्बद्ध लोग, तस्य = पूर्वोक्त पुरुष का, किम् = क्या, करोति = कर सकता है, तस्य = उस [ पुरुष ] के, हस्ते = हाथ में, परलोकः = स्वर्गलोक, निश्चलः = ध्रुव, है, [ उसे कोई रोक नहीं सकता ] ॥ ४७ ॥

अर्थ— जिसके हाथ संयत हैं, मुख संयत है, इन्द्रियाँ संयत हैं, वही वास्तव में पुरुष है। राजा के लोग उसका क्या कर ( बिगाड़ ) सकते हैं? उसके हाथ में परलोक ध्रुव ( निश्चित ) है अर्थात् ऐसे व्यक्ति की स्वर्गप्राप्ति कोई भी नहीं रोक सकता ॥ ४७ ॥

( सब निकल जाते हैं । )

॥ इस प्रकार वसन्तसेना का गला मरोड़ना नामक आठवाँ अंक समाप्त हुआ ॥

—: ० :—

५०२ मृच्छकटिकम्


टीका—वसन्तसेनामनुगच्छन्तं तं भिक्षुं दृष्ट्वा कश्चित्तस्मिन् सन्देहं कुर्यादिति स्वस्य संयतत्वं स्वर्गप्राप्तिध्रुवत्वं च प्रतिपादयन्नाह—हस्तेति । यः मनुष्यः, हस्ताभ्याम् = कराभ्याम् संयतः = नियमितः कराभ्यामकार्यं न करोतीति भावः, मुखेन संयतः = मुखेन आबद्धः, कदाचिदपि परपीडाकरं किंचिन्न ब्रूते, इन्द्रिय-संयतः=संयतेन्द्रियः, सर्वाणीन्द्रियाणि वशीकृतानि सन्ति, सः = पूर्वोक्तः खलु = एव, मनुष्यः = मानवः, अन्येषां तु मानवजीवनं व्यर्थमिति तद्भावः, राज्ञः = नृपतेः, कुलम् = वंशजाः, सम्बद्धा जना इत्यर्थः, तस्य=पूर्वोक्तस्य संयतस्य, किम्, करोति=कर्तुं शक्नोति ? न किमपीति भावः, हि = यतः, तस्य= पूर्वोक्तस्य पुरुषस्य, हस्ते=करे, परलोकः=स्वर्लोकः, निश्चलः = ध्रुवः । तस्य स्वर्गप्राप्तिः केनापि वारयितुं न शक्येति भावः । एवञ्च वसन्तसेनानुगमनेऽपि तस्मिन् अधर्मशंका न कार्येति बोध्यम् । गीत्युपगीतिमिश्रं वृत्तम् ॥ ४७ ॥

॥ इस प्रकार जय-शङ्कर-लाल-त्रिपाठि-विरचित ‘भावप्रकाशिका’ हिन्दी-संस्कृत-व्याख्या में मृच्छकटिक का आठवां अंक समाप्त हुआ ॥

नवमोऽङ्कः (व्यवहार - न्यायालय विचार)

नवमोऽङ्कः

( ततः प्रविशति शोधनकः । )

शोधनकः—–आणत्तम्हि अधिअरणभोइएहिं-‘अरे सोहणआ ! ववहार-मण्डवं गदुअ आसणाईं सज्जीकरेहि’ त्ति । ता जाव अधिअरणमण्डवं सज्जिदुं गच्छामि । ( परिक्रम्यावलोक्य च ) एदं अधिअरणमण्डवं, एस पविशामि । ( प्रविश्य सम्मार्ज्य आसनमाधाय ) विवित्तं कारिदं मए अधिअरणमण्डवं, विरइदाइं मए आसणाई, ता जाव अधिअरांणिआणं उण णिवेदेमि । ( परिक्रम्यावलोक्य च ) कथं एसो रट्टिअस्सालो दुट्ठ-दुज्जण-मणुस्सो इदो एव्व आअच्छदि, ता दिट्ठिपथं परिहरिअ गमिस्सं । ( आज्ञप्तोऽस्मि अधिकरणभोजकैः—‘अरे शोधनक ! व्यवहारमण्डपं गत्वा आसनानि सज्जीकुरु’ इति । तद् यावदधिकरणमण्डपं सज्जितुं गच्छामि । एषोऽधिकरणमण्डपः, एष प्रविशामि । विविक्तः कारितः मया अधिकरणमण्डपः, विरचितानि मया आसनानि । तद् यावदधिकरणिकानां पुनः निवेदयामि । कथमेष राष्ट्रियश्यालो दुष्ट-दुर्जन-मनुष्य इत एव आगच्छति । तदा दृष्टिपथं परिहृत्य गमिष्यामि । ) ( इत्येकान्ते स्थितः । )


शब्दार्थशोधनकः=सफाई कर्मचारी, आज्ञाप्तः=निर्दिष्ट किया गया, अधिकरणभोजकैः=न्यायालय के अधिकारियों द्वारा, व्यवहारमण्डपम्=मुकदमों के स्थान=न्यायालय को, विविक्तः=( व्यर्थ की चीजों से ) रहित, स्वच्छ, अधिकरणिकानाम्=न्यायालय के अध्यक्षों का, दृष्टिपथम्=नजर में आना, परिहृत्य=बचांकर, उज्वलवेशधारी=चमकीले कपड़े पहने ।

( इसके बाद स्वच्छता-कर्मचारी प्रवेश करता है । )

अर्थशोधनक—न्यायालयके अधिकारियों ने मुझे यह आज्ञा दी है—‘अरे शोधनक ! न्यायालय में जाकर आसनों ( = कुर्सियों ) को सजा दो ।’ इस लिये न्यायालय को सजाने के लिये चलता हूँ । ( घूमकर और देखकर ) यह न्यायालय है । यह मैं इसमें प्रवेश करता हूँ। ( घुसकर, सफाई करके कुर्सियाँ लगा कर ) मैंने न्यायालय को साफ=सजा हुआ, करा दिया है । कुर्सियाँ लगवा दीं है । इस लिये अब फिर न्यायाधिकारियों से निवेदन करता हूँ । ( घूमकर और देख कर ) क्या यह राजा का शाला दुष्ट मनुष्य इधर ही आ रहा है ? तो इसकी आँख बचाकर जाऊँगा ।

( यह कह कर एकान्त=एक ओर खड़ा हो जाता है । )

५०४ मृच्छकटिकम्

( ततः प्रविशति उज्ज्वलवेषधारी शकारः । )

शकारः--

ण्णादेऽहं शलिलजलेहिं पाणिएहिं उज्जाणे उववणकाणण णिषण्णे । णालीहिं सह जुवदीहिं इत्थिआहिं गन्धव्वे विअ शुविदेहि अङ्गकेहिं ॥ १ ॥

( स्नातोऽहं सलिलजलैः पानीयैरुद्याने उपवनकानने निषण्णः । नारीभिः सह युवतीभिः स्त्रीभिः गन्धर्व इव सुविहितैरङ्गकैः ॥ १ ॥ )


( इसके बाद स्वच्छ वेषधारी शकार प्रवेश करता है । )

टीकाशोधनकः = सम्मार्जनादिकर्त्ता अधिकरणभोजकः = अधिक्रियते विवादो निर्णयार्थमस्मिन् तदधिकरणम्, तस्य भोजकाः = भोगकारिणः, विचारकारका इति भावः, न्यायविचारकैरिति भावः, व्यवहारः = विवादः, तस्य मण्डपम् = गृहम्, 'विवादो व्यवहारः स्याद्' इत्यमरः । तथा चोक्तं मिताक्षरायाम् —

'विर्नानार्थैऽव सन्देहे हरणं हार उच्यते । नानासन्देहहरणाद् व्यवहार इति स्मृतः ॥ परस्परं मनुष्याणां स्वार्थ-विप्रतिपत्तिषु । वाक्यात् न्यायात् व्यवस्थां व्यवहार उदाहृतः ॥'

विविक्तः = विशुद्धः, आसनानि = आसनोपयोगिवस्तूनि, अधिकरणिकानाम् = अधिकरणे युक्तानाम्, सम्बन्धसामान्ये षष्ठी, दुष्ट-दुर्जन-मनुष्यः = दुष्टदुर्जनयोः समानार्थतया दुष्टो मनुष्य इत्यर्थः, दृष्टिपथम् = दृष्टिविषयम्, परिहृत्य = परित्यज्य ।

अन्वयः--अहम्, सलिलजलैः, पानीयैः, स्नातः, नारीभिः, युवतीभिः, सह, उद्याने, उपवनकानने, निषण्णः, सुविहितैः, अङ्गकैः, गन्धर्वः, इव, [ संवृत्तः अस्मि ] ॥ १ ॥

शब्दार्थ--अहम् = मैं शकार, सलिलजलैः = जल से, पानीयैः = पानी से, स्नातः = नहाया हुआ, नारीभिः, युवतीभिः = युवतियों के, सह = साथ, उद्याने = उद्यान में, उपवनकानने = बगीचे में, निषण्णः = बैठा हुआ, सुविहितैः = सजे हुये, अङ्गकैः = अंगों से, गन्धर्वः = गन्धर्व, इव = के समान, [ संवृत्तः = हो गया हूँ ] ॥ १ ॥

अर्थशकार-मैं पानी ( जल, सलिल ) से नहाया हुआ, युवतियों ( स्त्रियों ) के साथ, बगीचे ( उद्यान, उपवन ) में बैठा हुआ गन्धर्व के समान [ हो गया हूँ, लग रहा हूँ ] ॥ १ ॥

टीका--स्वसौन्दर्यातिशयं प्रकटयन् आत्मनो गन्धर्वतुल्यतामाह शकारः-स्नात इति । अहम् = शकारः, सलिलजलैः = वारिभिः, पानीयैः = उदकैः, त्रयाणामपि समानार्थता, स्नातः = कृतमज्जनः, नारीभिः युवतीभिः = कामिनीभिः, उद्याने = उपवन-कानने = कृत्रिमवने, अरण्ये च, अत्रापि त्रयाणां समानार्थता, निषण्णः = स्थितः,

नवमोऽङ्कः ५०५

खणेण गण्ठी खणजूलिके मे खणेण बाला खणकुन्तले वा ।
खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशाले ॥ २ ॥
( क्षणेन ग्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा ।
क्षणेन मुक्ताः क्षणमूर्ध्वचूड़ा चित्रो विचित्रोऽहं राजश्यालः ॥ २ ॥ )

आसीनः, सुविहितैः=सुविभूषितैः, अङ्गकैः=अवयवैः, गन्धर्वः=देवगायकः, इव=यथा, संवृत्तः अस्मि । शकारवचनत्वात् पुनरुक्तिर्न दोषायेति बोध्यम् । प्रहर्षिणी वृत्तम् ॥१॥

विमर्श---शकार अपनी प्रशंसा करता हुआ अपने को गन्धर्वतुल्य मानने लगता है । यहाँ 'सलिल जल पानीय' तीनों पर्याय हैं । 'उद्यान उपवन कानन' भी पर्याय हैं । 'नारी युवती' भी अंशतः पर्याय हैं । परन्तु शकार का ऐसा बोलना स्वभाव होने से दोष नहीं है । इसका पाठान्तर भी उपलब्ध होता है ॥ १ ॥

अन्वयः - मे, [केशेषु] क्षणेन, ग्रन्थिः, क्षणजूलिका, [ च, भवति ], क्षणेन, बालाः, वा, क्षणकुन्तलाः, क्षणेन, मुक्ताः, क्षणम्, ऊर्ध्वचूड़ाः, [ भवन्ति ], अहम्, चित्रः, विचित्रः, राजश्यालः [ अस्मि ] ॥ २ ॥

**शब्दार्थ-**मे=मेरे, [ केशेषु=बालों में ], क्षणेन=एक क्षण में, ग्रन्थिः=गांठ, [ बन्ध जाती है ], क्षणजूलिका=क्षण में जूड़ा [ लग जाता है ] क्षणेन=क्षण में, बालाः=सादे बाल, वा=अथवा, क्षणकुन्तलाः=एकक्षण में घुंघराले बाल, क्षणेन=क्षण में, मुक्ताः=बिखरे हुये बाल, क्षणम्=क्षण भर में, ऊर्ध्वचूड़ाः=ऊपर की ओर जूड़ा वाले [ भवन्ति=हो जाते हैं ] अहम्=मैं, चित्रः=आश्चर्यकारक, विचित्रः=अद्भुत, राजश्यालः=राजा का शाला, [ अस्मि=हूँ ] ॥ २ ॥

अर्थ--मेरे [ शिर के बालों में ] एक क्षण में गांठ [ लग जाती है । ] दूसरे क्षण में जूड़ा [ बन्ध जाता है । ] क्षण भर में सादे बाल [ बन जाते हैं । ] दूसरे क्षण में घुंघराले बाल हो जाते हैं। दूसरे ही क्षण बिखरे हुये हो जाते हैं, क्षणभर में ऊपर की ओर जूड़ा बन जाते हैं । मैं आश्चर्यकारक अद्भुत राजश्यालक हूँ ॥२॥

टोका----नानाविधकेशविन्यासात् शकारः स्वानुपमं सौन्दर्य प्रकटयति-क्षणेनेति । मे=मम, शकारस्येत्यर्थः, [ केशेषु = शिरस्थेषु केशेषु ], क्षणेन=क्षण-कालम्, ग्रन्थिः=केशबन्धः, क्षणजूलिकाः=क्षणेन जटाः, क्षणेन=क्षणकालम्, कुन्तलाः=बञ्चलाः, क्षणेन=क्षणकालम्, मुक्ताः=बन्धनशून्याः, क्षणम्, ऊर्ध्वचूड़ाः=उपरि-भागे चूडारूपतां प्राप्ताः, भवन्ति, अहम्=शकारः, चित्रः=आश्चर्यकारकः, विचित्रः=अद्भुतः, राजश्यालः=राष्ट्रियः, अस्मि । उपजातिः वृत्तम् ॥ २ ॥

५०६ मृच्छकटिकम्

अपि अ, विश-गणि्ठ-गब्भपविट्ठेण विअ कीडएण अन्तलं मग्ग- माणेण पाविदं मए महदन्तरं । ता कश्श एदं किविण-चेट्टिअं पाड- इश्शं ? (स्मृत्वा) आं शूमलिदं मए--दलिद्द-चालुदत्तश्श एदं किविण- चेट्टिअं पाडइश्शं । अण्णं च, दलिद्दे क्खु शे, तश्श शव्वं शम्मावीअदि । भोदु, अधिअलणमण्डवं गदुअ अग्गदो ववहालं लिहावइश्शं--जधा चालुदत्तकेण वशन्तशेणोआ मोडिअ मालिदा । ता जाव अधिअलण- मण्डवं उज्जेव गच्छामि । (परिक्रम्यावलोक्य च) एदं तं अधिअलणमण्डवं । एत्थ पविशामि । (प्रविश्यावलोक्य च) कथं आशणाईं दिण्णाईं चिट्ठन्ति । जाव आअच्छन्ति अधिअलणभोइआ, दाव एदश्शिं दुव्वत्तले मुहु- त्तअं उबविशिअ पडिवालइश्शं । (अपि च, विष-ग्रन्थि-गर्भ-प्रविष्टेनेव कीटके- नान्तरं मार्गमाणेन प्राप्तं मया महदन्तरम् । तत् कस्येदं कृपणचेष्टितं पात- यिष्यामि ? ) (आं, स्मृतं मया, दरिद्रचारुदत्तस्येदं कृपणचेष्टित पातयिष्यामि । अन्यच्च, दरिद्रः खलु सः, तस्य सर्वं सम्भाव्यते । भवतु, अधिकरणमण्डपं गत्वा अग्रतो व्यवहारं लेखयिष्यामि--यथा चारुदत्तेन मोटयित्वा वसन्तसेना मारिता । तद्यावदधिकरणमण्डपमेव गच्छामि । ) ( एषोऽधिकरणमण्डपः, अत्र प्रविशामि । ) (कथमासनानि दत्तानि तिष्ठन्ति । यावदागच्छन्ति अधिकरणभोजकाः, तावदेतस्मिन् दूर्वाचत्वरे मुहूर्तमुपविश्य प्रतिपालयिष्यामि । ) ( तथा स्थितः । )


विमर्श--शकार अपने केशों की नाना अवस्थायें बताता है। कहीं कहीं पुनरुक्ति भी है ॥ २ ॥

शब्दार्थ-विषग्रन्थि-गर्भ-प्रविष्टेनेव=विष की गांठ के बीच=भीतर घुसे हुये के समान, अन्तरम्=रास्ता, मार्गमाणेने=खोजने वाले, अन्तरम्=उपाय, कृपणचेष्टितम्=जघन्य कृत्य को, पातयिष्यामि = गिराऊँ, थोपूं । सम्भाव्यते = माना जा सकता है, अधिकरणमण्डपम्=कचहरी, व्यवहारम् = मुकदमा, मोटयित्वा=गर्दन मरोड़ कर, अधिकरण-भोजकाः = न्याय के अधिकारी लोग, दूर्वाचत्वरे=दूब घास के चबूतरे पर, प्रतिपालयिष्यामि=प्रतीक्षा करूँगा । परिवृतः=सहित, व्यवहार-पराधीनतया=मुकदमा के पराधीन होने के कारण, परचित्तग्रहणम् = दूसरे के मन की बात समझ पाना, दुष्करम्=बहुत कठिन ।

अर्थ--और भी, विष की गाँठ के भीतर घुसे हुये कीड़े के समान रास्ता ढूँढ़ते हुये मैंने बहुत बड़ा रास्ता पा लिया है। तो यह [ अपना ] निकृष्ट कृत्य किसके शिर पर थोप दूं । [ याद करके ] याद आ गया । दरिद्र चारुदत्त पर यह अपराध कृत्य थोप दूंगा । और भी, वह गरीब है । उस पर सभी कुछ सम्भव है । अच्छा, न्यायालय में जाकर सबसे पहले मुकदमा लिखवाऊँगा - "चारुदत्त ने गला

नवमोऽङ्कः ५०७

शोधनकः---(अन्यतः परिक्रम्य पुरो दृष्ट्वा) एदे अधिअरणिआ आअच्छन्ति। ता जाव उवसप्पामि। (एते अधिकरणिका आगच्छन्ति। तद् यावदुपसर्पामि।) (इत्युपसर्पति।)

(ततः प्रविशति श्रेष्ठि-कायस्थादि-परिवृतोऽधिकरणिकः।)

अधिकरणिकः---भो भोः श्रेष्ठि-कायस्थौ ! ।

श्रेष्ठि-कायस्थौ---आणवेदु अज्जो। (आज्ञापयतु आर्यः।)

अधिकरणिकः---अहो ! व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः।


दबा कर वसन्तसेना को मार डाला।" तो तब तक न्यायालय ही चलता हूँ। (घूम कर और देखकर) यह न्यायालय है। अतः इसमें प्रवेश करता हूँ। (घुस कर और देखकर) क्या आसन लगा दिये गये ? जब तक न्यायालय के अधिकारी लोग आते हैं तब तक दूब वाले चबूतरे पर बैठकर थोड़ी देर तक प्रतीक्षा कर लेता हूँ।

(उसी प्रकार बैठ जाता है।)

शोधनक--(दूसरी ओर घूम कर सामने देखकर) ये न्यायालय के अधिकारी आ रहे हैं। अतः इनके पास चलता हूँ। (यह कहकर पास चला जाता है।)

(इसके बाद सेठ और कायस्थ आदि से घिरा हुआ न्यायाधिकारी प्रवेश करता है।)

अधिकरणिक--अरे सेठ और कायस्थ !

सेठ और कायस्थ--श्रीमन् ! आदेश दीजिये।

अधिकरणिक--ओह ! मुक़दमा के पराधीन होने के कारण दूसरे के मन की बात को समझ पाना बहुत कठिन है। (दूसरों की बातें सुनकर ही निर्णय करना पड़ता है। मुक़दमेबाज बहुत कम सच बोलते हैं। अतः सही निर्णय कर पाना अति कठिन होता है।)

टीका--विषस्य = विषवृक्षस्य, ग्रन्थेः = पर्वणः, गर्भे = अभ्यन्तरे, प्रविष्टेन = स्थितेन, अन्तरम् = बहिर्गमनाय छिद्रम् अन्तरम् = उपायः, कृपणवेष्टितम् = नीचकृत्यम्, पातयिष्यामि = स्थापयिष्यामि, आरोपयिष्यामीति भावः, संभाव्यते = युज्यते, मोटयित्वा = निष्पीड्य, व्यवहारम् = विवादम्, व्यवहारस्य = विवादस्य, पराधीनतया = परायततया, वादिप्रभृतीनाम्, चित्तस्य = मनोगतभावस्य, ग्रहणम् = ज्ञानम्, दुष्करम् = अतिकठिनम् ।।

५०८ | मृच्छकटिकम्

छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दूरीकृतं स्वान् दोषान् कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् । तैः पक्षापरपक्षवर्द्धितबलैर्दोषैर्नृपः स्पृश्यते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥

**अन्वयः—**पुरुषाः, न्यायेन, दूरीकृतम्, कार्यम्, छन्नम्, उपक्षिपन्ति, स्वयम्, दोषान्, अधिकरणे, न, कथयन्ति, पक्षापर-पक्षवर्द्धित-बलैः, तैः, दोषैः, नृपः, स्पृश्यते, संक्षेपात्, द्रष्टुः, अपवादः, एव, सुलभः, गुणः, दूरतः, [ तिष्ठति ] ॥ ३ ॥

**शब्दार्थः—**पुरुषाः=लोग, न्यायेन=न्याय से, दूरीकृतम्=दूर किये हुये, रहित, कार्यम्=कार्य को, बात को, छन्नम्=छिपा हुआ (बना कर), उपक्षिपन्ति=उपस्थित करते हैं, स्वयम् = अपने आप, रागाभिभूताः = विषयासक्ति से आक्रान्त, (होने के कारण), स्वान्=अपने, दोषान् = दोषों को, अधिकरणे = न्यायालय में, न=नहीं, कथयन्ति = कहते हैं, प्रकट करते हैं। पक्षापरपक्षवर्द्धितबलैः=वादी और प्रतिवादी दोनों पक्षों के लोगों द्वारा बढ़ाये गये बल वाले = प्रामाण्यवाले, तैः तैः = उन उन, दोषैः = दोषों से, नृपः=राजा, स्पृश्यते=स्पृष्ट होता है, दूषित होता है, संक्षेपात्=संक्षेप से, (यह कहा जा सकता है कि) द्रष्टुः = मुकदमा देखने वाले, निर्णयकर्ता को, अपवादः = कलंक, एव=ही, सुलभः=सरलतया प्राप्तव्य है, गुणः = यश तो, दूरतः = दूर ही, है ॥ ३ ॥

**अर्थ—**लोग (वादी प्रतिवादी गवाह आदि) न्याय से रहित अर्थात् गलत काम को छिपा कर [निर्णय के लिये] उपस्थापित करते हैं। स्वयम् विषयासक्त [क्रोध लोभादि के वशीभूत] होते हुये अपने दोषों को न्यायालय में नहीं प्रकट करते हैं। (इस कारण) वादी और प्रतिवादी दोनों पक्षों के द्वारा बढ़ाये गये बल वाले [प्रामाण्य वाले] उन-उन दोषों से राजा छुआ जाता है, [दूषित होता है] संक्षेप में, मुकदमें की सुनवाई करने वाले न्यायाधीश को कलंक मिलना ही सरल है, यश प्राप्त होना दूर की बात ॥ ३ ॥

**टीका—**निर्णयकर्तुर्निन्दाप्राप्तिहेतुं निर्दिशति —छन्नमिति । पुरुषाः=वादिनः, प्रतिवादिनः, साक्ष्यादयश्च, न्यायेन=नीत्या, औचित्येन वा, दूरीकृतम्=रहितम्, निराकृतम्, कार्यम्=अभियोगविषयीभूतं वस्तु, छन्नम्=शाठ्यादिनाच्छादितम् असत्या-वृत्तम्, उपक्षिपन्ति=आवेदयन्ति, स्वयम्=आत्मना, रागाभिभूताः=विषयासक्त्या आक्रान्ताः, निर्विवेकाः सन्तः, अधिकरणे=न्यायालये, स्वान्=आत्मीयान्, दोषान्=अपराधान्, न=नैव, कथयन्ति=प्रकाशयन्ति । पक्षापरपक्षवर्द्धितबलैः=पक्षः=वादि-जनीयपक्षः, अपरपक्षः=प्रतिवादिजनीयपक्षः, ताभ्यामुभाभ्यां वर्द्धितम्=पोषितम्

नवमोऽङ्कः ५०६

अपि च--

छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः स्वान् दोषान् कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् । ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥

बलम् = प्रामाण्यसाधकत्वम् येषु तादृशैः, तैः = अन्यायाचरणादिसमुत्पन्नैः, दोषैः = अपराधैः, नृपः = राजा, स्पृश्यते = स्पृष्टो भवति, दूष्यते इति भावः । संक्षेपात् = किमधिकवर्णनेन, द्रष्टुः = व्यवहारदर्शकस्य न्यायाधीशस्य अपवादः = निन्दा, एव, सुलभः = सुप्रापः, गुणः = यशः, तु, दूरतः = दूरे, एव । एवञ्च मादृशानां निन्दा-प्राप्तिरेव समाजे वर्तते इति महाकष्टम् । शार्दूलविक्रीडितं, वृत्तम् ॥ ३ ॥

विमर्श-- न्यायाधिकारियों का तात्पर्य यह है कि वादी प्रतिवादी आदि सभी चालाकी से सत्यता को छिपाकर असत्य बात कहते हैं । उनकी बातों से ही निर्णय करना पड़ता है । अतः सही निर्णय करना बहुत कठिन हो जाता है । इसके फलस्वरूप समाज में न्यायाधिकारी की निन्दा ही अधिक होती है ॥ ३ ॥

अन्वयः-- ये, ( पुरुषाः ), कुपिताः न्यायेन, दूरीकृताः अधिकरणे, दोषम्, उदाहरन्ति, सन्तः, छन्नम्, अपि, स्वान्, दोषान्, न, कथयन्ति, ते, पक्षापरपक्ष-दोषसहिताः, पापानि, संकुर्वंते, ध्रुवम्, नष्टाः, ( भवन्ति ) संक्षेपात्, द्रष्टुः, अपवादः, एव, सुलभः, गुणः, ( तु ) दूरतः ॥ ४ ॥

शब्दार्थ-- ये = जो लोग, कुपिताः, = क्रोधयुक्त ( होते हुये ), न्यायेन = न्याय से, दूरीकृताः = रहित होते हुये, अधिकरणे = न्यायालय में, छन्नम् = छिपाये हुये, दोषम् = दोष, अपराध को, उदाहरन्ति = कहते हैं, सन्तः = सज्जन लोग, अपि = भी, स्वान् = अपने, दोषान् = दोषों को, न = नहीं कथयन्ति = कहते हैं, ( ते = वेलोग ), पक्षापर-पक्षदोषसहिताः = वादी तथा प्रतिवादी दोनों में पक्षों के दोषों से युक्त, पापानि = पापों को, संकुर्वंते = करते हैं, ( वे ), ध्रुवम् = निश्चित ही, नष्टाः = नष्ट, [ भवन्ति = होते हैं । ] संक्षेपात् = संक्षेप में, द्रष्टुः = मुकदमे के निर्णय करने वाले को, अपवादः = बुराई, एव = ही, सुलभः = सरलतया प्राप्तव्य, है, गुणः = यश, दूरतः = दूर ही रहता है ॥ ४ ॥

अर्थ--और भी, जो लोग क्रोधयुक्त, नीतिरहित होते हुये न्यायालय में छिपे हुये ( गलत ढंग से ) दोष का वर्णन करते हैं । सज्जन लोग भी अपने अपराधों को नहीं बताते हैं । वे लोग वादी और प्रतिवादी दोनों पक्षों के दोषों से युक्त होते हुये पाप करते है