भारतकोश
संग्रह पर लौटें

मृच्छकटिकम् (सटीक संस्कृत नाटक)

Mricchakatikam with Sanskrit-Hindi Commentary

महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा

DevanagariSanskritpublished760 पृष्ठ

५०० मृच्छकटिकम्

वसन्तसेना—सुमरामि ण उण जधा अज्जो भणादि। वरं अहं उवेरदा ज्जेव। (स्मरामि, न पुनर् यथा आर्यो भणति। वरमहमुपरतैव।)

भिक्षुः—बुद्धोवाशिए ! किं ण्णेद ? (बुद्धोपासिके ! किं नु इदम् ? )

वसन्तसेना—(सनिर्वेदम्) जं सरिसं वेसभावस्स। (यत् सदृशं वेश-भावस्य।)

भिक्षुः—उट्ठेदु उट्ठेदु बुद्धोवासिआ एदं पादव-समोवजादं लदं ओलम्बिअ। (उत्तिष्ठतु उत्तिष्ठतु बुद्धोपासिका एतां पादपसमीप-जातां लतामव-लम्ब्य।) (इति लतां नामयति।) (वसन्तसेना गृहीत्वा उत्तिष्ठति।)

भिक्षुः—एदश्शि विहाले मम धम्मवहिणिआ चिट्ठदि, तहिं शम-श्शशिदमणा भविअ उवाशिआ गेहं गमिश्शदि। ता शेणं शेणं गच्छदु बुद्धोवाशिआ। (इति परिक्रामति। दृष्ट्वा) ओशलध अज्जा ! ओशलध। एशा तलुणी इत्थिआ, एशो भिक्खु त्ति शुद्धे मम एशे धम्मे। (एतस्मिन् विहारे मम धर्मभगिनी तिष्ठति, तस्मिन् समाश्वस्तमना भूत्वा उपासिका गेहं गमिष्यति। तत् शनैः शनैः गच्छतु बुद्धोपासिका।) (अपसरत आर्याः ! अपसरत। एषा तरुणी स्त्री, एष भिक्षुरिति शुद्धो मम एष धर्मः।)


वसन्तसेना—याद कर रही हूँ, किन्तु जैसा आप कह रहे हैं वैसा नहीं। इससे तो मैं मरी हुई ही ठीक थी।

भिक्षु—बुद्धोपासिके ! यह क्या है ?

वसन्तसेना—(दुख के साथ) जो वेश्यापन के लायक है।

भिक्षु—इस पेड़ के पास निकली हुई लता को पकड़ कर बुद्धोपासिका आप उठिये, उठिये।

(लता को झुकाता है।)

(वसन्तसेना लता को पकड़ कर उठती है।)

भिक्षु—इस बौद्धविहार में मेरी धर्म की बहिन रहती है, वहाँ आप धैर्य धारण कर (निश्चिन्त होकर) घर चली जाना। अतः बुद्धोपासिका आप धीरे-धीरे चलें। (ऐसा कहकर घूमता है और देखकर) सज्जनों ! हटिये, हटिये। यह जवान औरत है। और यह मैं भिक्षु हूँ, इस कारण मेरा धर्म पवित्र=निर्दोष है।

टीका—संज्ञाम्=चेतनाम्, शुद्धैः = निष्कलङ्कः यद्वा अमिश्रितधातुनिष्पन्नः, अलङ्कारैः=आभूषणैः, भूषितः=सज्जितः, निष्क्रामति=वातालीपुञ्जात् बहिरागच्छति, प्रत्यभिजानामि=परिचिनोमि, दीर्घिका=वापी, गालयिष्यामि=निष्पीडयिष्यामि, वर्तमानसामीप्ये लट्, पटान्तेन = वस्त्रान्तभागेन, वीजयति = पवनं करोति,

अष्टमोऽङ्कः । ५०१

हत्थशञ्जदो मुहशञ्जदो इन्दियशञ्जदो शे खु माणुशे ।
किं कलेदि लाअउले तश्श पललोओ हत्थे णिच्चलो ॥ ४७ ॥

( हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः ।
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥ ४७ ॥ )

( इति निष्क्रान्ताः सर्वे । )

। इति वसन्तसेनामोटनो नामाष्टमोऽङ्कः ।


दशसुवर्णनिष्कीतम् = दशसुवर्णप्रदानेन ऋणाद् मोचयित्वा स्ववशीकृतम्, उपरता = विनष्टा, मृतेति भावः, वेशभावस्य = वेश्यात्वस्य, सदृशम् = अनुरूपम्, नामयति = अवनमयति, गृहीत्वा = आधृत्य; धर्म गिणी = धर्मवशात्, न जन्मना, भगिनी, भगिनीतुल्येति भावः, समाश्वस्तम् = निश्चिन्तम्, मनः = चित्तम्, यस्यास्तादृशी एषा = पुरोवर्त्तमाना वसन्तसेनेत्यर्थः, शुद्धः = पवित्रः, भिक्षुः भूत्वा स्त्रीस्पर्शोः न करणीय इति स दूरादेव चलतीतितस्य धर्महानिर्नेति भावः ॥

अन्वयः— [ यः ] हस्तसंयतः, मुखसंयतः, इन्द्रियसंयतः, सः, खलु, मनुष्यः, [ अस्ति ], राजकुलम्, तस्य, किम्, करोति, तस्य, हस्ते, परलोकः, निश्चलः [ वर्तते ] ॥ ४७ ॥

शब्दार्थ— [ यः = जो ] हस्तसंयतः = हाथों से संयत है [ हाथों से अकार्य नहीं करता है ], मुखसंयतः = मुख से संयत [ मुख से अनुचित बात नहीं बोलता है ], इन्द्रियसंयतः = इन्द्रियों से संयत [ चक्षुरादि इन्द्रियों को वश में किये हुये है ], सः खलु = वह ही, मनुष्यः = मनुष्य, है, राजकुलम् = राजा से सम्बद्ध लोग, तस्य = पूर्वोक्त पुरुष का, किम् = क्या, करोति = कर सकता है, तस्य = उस [ पुरुष ] के, हस्ते = हाथ में, परलोकः = स्वर्गलोक, निश्चलः = ध्रुव, है, [ उसे कोई रोक नहीं सकता ] ॥ ४७ ॥

अर्थ— जिसके हाथ संयत हैं, मुख संयत है, इन्द्रियाँ संयत हैं, वही वास्तव में पुरुष है। राजा के लोग उसका क्या कर ( बिगाड़ ) सकते हैं? उसके हाथ में परलोक ध्रुव ( निश्चित ) है अर्थात् ऐसे व्यक्ति की स्वर्गप्राप्ति कोई भी नहीं रोक सकता ॥ ४७ ॥

( सब निकल जाते हैं । )

॥ इस प्रकार वसन्तसेना का गला मरोड़ना नामक आठवाँ अंक समाप्त हुआ ॥

—: ० :—

५०२ मृच्छकटिकम्


टीका—वसन्तसेनामनुगच्छन्तं तं भिक्षुं दृष्ट्वा कश्चित्तस्मिन् सन्देहं कुर्यादिति स्वस्य संयतत्वं स्वर्गप्राप्तिध्रुवत्वं च प्रतिपादयन्नाह—हस्तेति । यः मनुष्यः, हस्ताभ्याम् = कराभ्याम् संयतः = नियमितः कराभ्यामकार्यं न करोतीति भावः, मुखेन संयतः = मुखेन आबद्धः, कदाचिदपि परपीडाकरं किंचिन्न ब्रूते, इन्द्रिय-संयतः=संयतेन्द्रियः, सर्वाणीन्द्रियाणि वशीकृतानि सन्ति, सः = पूर्वोक्तः खलु = एव, मनुष्यः = मानवः, अन्येषां तु मानवजीवनं व्यर्थमिति तद्भावः, राज्ञः = नृपतेः, कुलम् = वंशजाः, सम्बद्धा जना इत्यर्थः, तस्य=पूर्वोक्तस्य संयतस्य, किम्, करोति=कर्तुं शक्नोति ? न किमपीति भावः, हि = यतः, तस्य= पूर्वोक्तस्य पुरुषस्य, हस्ते=करे, परलोकः=स्वर्लोकः, निश्चलः = ध्रुवः । तस्य स्वर्गप्राप्तिः केनापि वारयितुं न शक्येति भावः । एवञ्च वसन्तसेनानुगमनेऽपि तस्मिन् अधर्मशंका न कार्येति बोध्यम् । गीत्युपगीतिमिश्रं वृत्तम् ॥ ४७ ॥

॥ इस प्रकार जय-शङ्कर-लाल-त्रिपाठि-विरचित ‘भावप्रकाशिका’ हिन्दी-संस्कृत-व्याख्या में मृच्छकटिक का आठवां अंक समाप्त हुआ ॥

नवमोऽङ्कः (व्यवहार - न्यायालय विचार)

नवमोऽङ्कः

( ततः प्रविशति शोधनकः । )

शोधनकः—–आणत्तम्हि अधिअरणभोइएहिं-‘अरे सोहणआ ! ववहार-मण्डवं गदुअ आसणाईं सज्जीकरेहि’ त्ति । ता जाव अधिअरणमण्डवं सज्जिदुं गच्छामि । ( परिक्रम्यावलोक्य च ) एदं अधिअरणमण्डवं, एस पविशामि । ( प्रविश्य सम्मार्ज्य आसनमाधाय ) विवित्तं कारिदं मए अधिअरणमण्डवं, विरइदाइं मए आसणाई, ता जाव अधिअरांणिआणं उण णिवेदेमि । ( परिक्रम्यावलोक्य च ) कथं एसो रट्टिअस्सालो दुट्ठ-दुज्जण-मणुस्सो इदो एव्व आअच्छदि, ता दिट्ठिपथं परिहरिअ गमिस्सं । ( आज्ञप्तोऽस्मि अधिकरणभोजकैः—‘अरे शोधनक ! व्यवहारमण्डपं गत्वा आसनानि सज्जीकुरु’ इति । तद् यावदधिकरणमण्डपं सज्जितुं गच्छामि । एषोऽधिकरणमण्डपः, एष प्रविशामि । विविक्तः कारितः मया अधिकरणमण्डपः, विरचितानि मया आसनानि । तद् यावदधिकरणिकानां पुनः निवेदयामि । कथमेष राष्ट्रियश्यालो दुष्ट-दुर्जन-मनुष्य इत एव आगच्छति । तदा दृष्टिपथं परिहृत्य गमिष्यामि । ) ( इत्येकान्ते स्थितः । )


शब्दार्थशोधनकः=सफाई कर्मचारी, आज्ञाप्तः=निर्दिष्ट किया गया, अधिकरणभोजकैः=न्यायालय के अधिकारियों द्वारा, व्यवहारमण्डपम्=मुकदमों के स्थान=न्यायालय को, विविक्तः=( व्यर्थ की चीजों से ) रहित, स्वच्छ, अधिकरणिकानाम्=न्यायालय के अध्यक्षों का, दृष्टिपथम्=नजर में आना, परिहृत्य=बचांकर, उज्वलवेशधारी=चमकीले कपड़े पहने ।

( इसके बाद स्वच्छता-कर्मचारी प्रवेश करता है । )

अर्थशोधनक—न्यायालयके अधिकारियों ने मुझे यह आज्ञा दी है—‘अरे शोधनक ! न्यायालय में जाकर आसनों ( = कुर्सियों ) को सजा दो ।’ इस लिये न्यायालय को सजाने के लिये चलता हूँ । ( घूमकर और देखकर ) यह न्यायालय है । यह मैं इसमें प्रवेश करता हूँ। ( घुसकर, सफाई करके कुर्सियाँ लगा कर ) मैंने न्यायालय को साफ=सजा हुआ, करा दिया है । कुर्सियाँ लगवा दीं है । इस लिये अब फिर न्यायाधिकारियों से निवेदन करता हूँ । ( घूमकर और देख कर ) क्या यह राजा का शाला दुष्ट मनुष्य इधर ही आ रहा है ? तो इसकी आँख बचाकर जाऊँगा ।

( यह कह कर एकान्त=एक ओर खड़ा हो जाता है । )

५०४ मृच्छकटिकम्

( ततः प्रविशति उज्ज्वलवेषधारी शकारः । )

शकारः--

ण्णादेऽहं शलिलजलेहिं पाणिएहिं उज्जाणे उववणकाणण णिषण्णे । णालीहिं सह जुवदीहिं इत्थिआहिं गन्धव्वे विअ शुविदेहि अङ्गकेहिं ॥ १ ॥

( स्नातोऽहं सलिलजलैः पानीयैरुद्याने उपवनकानने निषण्णः । नारीभिः सह युवतीभिः स्त्रीभिः गन्धर्व इव सुविहितैरङ्गकैः ॥ १ ॥ )


( इसके बाद स्वच्छ वेषधारी शकार प्रवेश करता है । )

टीकाशोधनकः = सम्मार्जनादिकर्त्ता अधिकरणभोजकः = अधिक्रियते विवादो निर्णयार्थमस्मिन् तदधिकरणम्, तस्य भोजकाः = भोगकारिणः, विचारकारका इति भावः, न्यायविचारकैरिति भावः, व्यवहारः = विवादः, तस्य मण्डपम् = गृहम्, 'विवादो व्यवहारः स्याद्' इत्यमरः । तथा चोक्तं मिताक्षरायाम् —

'विर्नानार्थैऽव सन्देहे हरणं हार उच्यते । नानासन्देहहरणाद् व्यवहार इति स्मृतः ॥ परस्परं मनुष्याणां स्वार्थ-विप्रतिपत्तिषु । वाक्यात् न्यायात् व्यवस्थां व्यवहार उदाहृतः ॥'

विविक्तः = विशुद्धः, आसनानि = आसनोपयोगिवस्तूनि, अधिकरणिकानाम् = अधिकरणे युक्तानाम्, सम्बन्धसामान्ये षष्ठी, दुष्ट-दुर्जन-मनुष्यः = दुष्टदुर्जनयोः समानार्थतया दुष्टो मनुष्य इत्यर्थः, दृष्टिपथम् = दृष्टिविषयम्, परिहृत्य = परित्यज्य ।

अन्वयः--अहम्, सलिलजलैः, पानीयैः, स्नातः, नारीभिः, युवतीभिः, सह, उद्याने, उपवनकानने, निषण्णः, सुविहितैः, अङ्गकैः, गन्धर्वः, इव, [ संवृत्तः अस्मि ] ॥ १ ॥

शब्दार्थ--अहम् = मैं शकार, सलिलजलैः = जल से, पानीयैः = पानी से, स्नातः = नहाया हुआ, नारीभिः, युवतीभिः = युवतियों के, सह = साथ, उद्याने = उद्यान में, उपवनकानने = बगीचे में, निषण्णः = बैठा हुआ, सुविहितैः = सजे हुये, अङ्गकैः = अंगों से, गन्धर्वः = गन्धर्व, इव = के समान, [ संवृत्तः = हो गया हूँ ] ॥ १ ॥

अर्थशकार-मैं पानी ( जल, सलिल ) से नहाया हुआ, युवतियों ( स्त्रियों ) के साथ, बगीचे ( उद्यान, उपवन ) में बैठा हुआ गन्धर्व के समान [ हो गया हूँ, लग रहा हूँ ] ॥ १ ॥

टीका--स्वसौन्दर्यातिशयं प्रकटयन् आत्मनो गन्धर्वतुल्यतामाह शकारः-स्नात इति । अहम् = शकारः, सलिलजलैः = वारिभिः, पानीयैः = उदकैः, त्रयाणामपि समानार्थता, स्नातः = कृतमज्जनः, नारीभिः युवतीभिः = कामिनीभिः, उद्याने = उपवन-कानने = कृत्रिमवने, अरण्ये च, अत्रापि त्रयाणां समानार्थता, निषण्णः = स्थितः,

नवमोऽङ्कः ५०५

खणेण गण्ठी खणजूलिके मे खणेण बाला खणकुन्तले वा ।
खणेण मुक्के खण उद्धचूडे चित्ते विचित्ते हगे लाअशाले ॥ २ ॥
( क्षणेन ग्रन्थिः क्षणजूलिका मे क्षणेन बालाः क्षणकुन्तला वा ।
क्षणेन मुक्ताः क्षणमूर्ध्वचूड़ा चित्रो विचित्रोऽहं राजश्यालः ॥ २ ॥ )

आसीनः, सुविहितैः=सुविभूषितैः, अङ्गकैः=अवयवैः, गन्धर्वः=देवगायकः, इव=यथा, संवृत्तः अस्मि । शकारवचनत्वात् पुनरुक्तिर्न दोषायेति बोध्यम् । प्रहर्षिणी वृत्तम् ॥१॥

विमर्श---शकार अपनी प्रशंसा करता हुआ अपने को गन्धर्वतुल्य मानने लगता है । यहाँ 'सलिल जल पानीय' तीनों पर्याय हैं । 'उद्यान उपवन कानन' भी पर्याय हैं । 'नारी युवती' भी अंशतः पर्याय हैं । परन्तु शकार का ऐसा बोलना स्वभाव होने से दोष नहीं है । इसका पाठान्तर भी उपलब्ध होता है ॥ १ ॥

अन्वयः - मे, [केशेषु] क्षणेन, ग्रन्थिः, क्षणजूलिका, [ च, भवति ], क्षणेन, बालाः, वा, क्षणकुन्तलाः, क्षणेन, मुक्ताः, क्षणम्, ऊर्ध्वचूड़ाः, [ भवन्ति ], अहम्, चित्रः, विचित्रः, राजश्यालः [ अस्मि ] ॥ २ ॥

**शब्दार्थ-**मे=मेरे, [ केशेषु=बालों में ], क्षणेन=एक क्षण में, ग्रन्थिः=गांठ, [ बन्ध जाती है ], क्षणजूलिका=क्षण में जूड़ा [ लग जाता है ] क्षणेन=क्षण में, बालाः=सादे बाल, वा=अथवा, क्षणकुन्तलाः=एकक्षण में घुंघराले बाल, क्षणेन=क्षण में, मुक्ताः=बिखरे हुये बाल, क्षणम्=क्षण भर में, ऊर्ध्वचूड़ाः=ऊपर की ओर जूड़ा वाले [ भवन्ति=हो जाते हैं ] अहम्=मैं, चित्रः=आश्चर्यकारक, विचित्रः=अद्भुत, राजश्यालः=राजा का शाला, [ अस्मि=हूँ ] ॥ २ ॥

अर्थ--मेरे [ शिर के बालों में ] एक क्षण में गांठ [ लग जाती है । ] दूसरे क्षण में जूड़ा [ बन्ध जाता है । ] क्षण भर में सादे बाल [ बन जाते हैं । ] दूसरे क्षण में घुंघराले बाल हो जाते हैं। दूसरे ही क्षण बिखरे हुये हो जाते हैं, क्षणभर में ऊपर की ओर जूड़ा बन जाते हैं । मैं आश्चर्यकारक अद्भुत राजश्यालक हूँ ॥२॥

टोका----नानाविधकेशविन्यासात् शकारः स्वानुपमं सौन्दर्य प्रकटयति-क्षणेनेति । मे=मम, शकारस्येत्यर्थः, [ केशेषु = शिरस्थेषु केशेषु ], क्षणेन=क्षण-कालम्, ग्रन्थिः=केशबन्धः, क्षणजूलिकाः=क्षणेन जटाः, क्षणेन=क्षणकालम्, कुन्तलाः=बञ्चलाः, क्षणेन=क्षणकालम्, मुक्ताः=बन्धनशून्याः, क्षणम्, ऊर्ध्वचूड़ाः=उपरि-भागे चूडारूपतां प्राप्ताः, भवन्ति, अहम्=शकारः, चित्रः=आश्चर्यकारकः, विचित्रः=अद्भुतः, राजश्यालः=राष्ट्रियः, अस्मि । उपजातिः वृत्तम् ॥ २ ॥

५०६ मृच्छकटिकम्

अपि अ, विश-गणि्ठ-गब्भपविट्ठेण विअ कीडएण अन्तलं मग्ग- माणेण पाविदं मए महदन्तरं । ता कश्श एदं किविण-चेट्टिअं पाड- इश्शं ? (स्मृत्वा) आं शूमलिदं मए--दलिद्द-चालुदत्तश्श एदं किविण- चेट्टिअं पाडइश्शं । अण्णं च, दलिद्दे क्खु शे, तश्श शव्वं शम्मावीअदि । भोदु, अधिअलणमण्डवं गदुअ अग्गदो ववहालं लिहावइश्शं--जधा चालुदत्तकेण वशन्तशेणोआ मोडिअ मालिदा । ता जाव अधिअलण- मण्डवं उज्जेव गच्छामि । (परिक्रम्यावलोक्य च) एदं तं अधिअलणमण्डवं । एत्थ पविशामि । (प्रविश्यावलोक्य च) कथं आशणाईं दिण्णाईं चिट्ठन्ति । जाव आअच्छन्ति अधिअलणभोइआ, दाव एदश्शिं दुव्वत्तले मुहु- त्तअं उबविशिअ पडिवालइश्शं । (अपि च, विष-ग्रन्थि-गर्भ-प्रविष्टेनेव कीटके- नान्तरं मार्गमाणेन प्राप्तं मया महदन्तरम् । तत् कस्येदं कृपणचेष्टितं पात- यिष्यामि ? ) (आं, स्मृतं मया, दरिद्रचारुदत्तस्येदं कृपणचेष्टित पातयिष्यामि । अन्यच्च, दरिद्रः खलु सः, तस्य सर्वं सम्भाव्यते । भवतु, अधिकरणमण्डपं गत्वा अग्रतो व्यवहारं लेखयिष्यामि--यथा चारुदत्तेन मोटयित्वा वसन्तसेना मारिता । तद्यावदधिकरणमण्डपमेव गच्छामि । ) ( एषोऽधिकरणमण्डपः, अत्र प्रविशामि । ) (कथमासनानि दत्तानि तिष्ठन्ति । यावदागच्छन्ति अधिकरणभोजकाः, तावदेतस्मिन् दूर्वाचत्वरे मुहूर्तमुपविश्य प्रतिपालयिष्यामि । ) ( तथा स्थितः । )


विमर्श--शकार अपने केशों की नाना अवस्थायें बताता है। कहीं कहीं पुनरुक्ति भी है ॥ २ ॥

शब्दार्थ-विषग्रन्थि-गर्भ-प्रविष्टेनेव=विष की गांठ के बीच=भीतर घुसे हुये के समान, अन्तरम्=रास्ता, मार्गमाणेने=खोजने वाले, अन्तरम्=उपाय, कृपणचेष्टितम्=जघन्य कृत्य को, पातयिष्यामि = गिराऊँ, थोपूं । सम्भाव्यते = माना जा सकता है, अधिकरणमण्डपम्=कचहरी, व्यवहारम् = मुकदमा, मोटयित्वा=गर्दन मरोड़ कर, अधिकरण-भोजकाः = न्याय के अधिकारी लोग, दूर्वाचत्वरे=दूब घास के चबूतरे पर, प्रतिपालयिष्यामि=प्रतीक्षा करूँगा । परिवृतः=सहित, व्यवहार-पराधीनतया=मुकदमा के पराधीन होने के कारण, परचित्तग्रहणम् = दूसरे के मन की बात समझ पाना, दुष्करम्=बहुत कठिन ।

अर्थ--और भी, विष की गाँठ के भीतर घुसे हुये कीड़े के समान रास्ता ढूँढ़ते हुये मैंने बहुत बड़ा रास्ता पा लिया है। तो यह [ अपना ] निकृष्ट कृत्य किसके शिर पर थोप दूं । [ याद करके ] याद आ गया । दरिद्र चारुदत्त पर यह अपराध कृत्य थोप दूंगा । और भी, वह गरीब है । उस पर सभी कुछ सम्भव है । अच्छा, न्यायालय में जाकर सबसे पहले मुकदमा लिखवाऊँगा - "चारुदत्त ने गला

नवमोऽङ्कः ५०७

शोधनकः---(अन्यतः परिक्रम्य पुरो दृष्ट्वा) एदे अधिअरणिआ आअच्छन्ति। ता जाव उवसप्पामि। (एते अधिकरणिका आगच्छन्ति। तद् यावदुपसर्पामि।) (इत्युपसर्पति।)

(ततः प्रविशति श्रेष्ठि-कायस्थादि-परिवृतोऽधिकरणिकः।)

अधिकरणिकः---भो भोः श्रेष्ठि-कायस्थौ ! ।

श्रेष्ठि-कायस्थौ---आणवेदु अज्जो। (आज्ञापयतु आर्यः।)

अधिकरणिकः---अहो ! व्यवहारपराधीनतया दुष्करं खलु परचित्तग्रहणमधिकरणिकैः।


दबा कर वसन्तसेना को मार डाला।" तो तब तक न्यायालय ही चलता हूँ। (घूम कर और देखकर) यह न्यायालय है। अतः इसमें प्रवेश करता हूँ। (घुस कर और देखकर) क्या आसन लगा दिये गये ? जब तक न्यायालय के अधिकारी लोग आते हैं तब तक दूब वाले चबूतरे पर बैठकर थोड़ी देर तक प्रतीक्षा कर लेता हूँ।

(उसी प्रकार बैठ जाता है।)

शोधनक--(दूसरी ओर घूम कर सामने देखकर) ये न्यायालय के अधिकारी आ रहे हैं। अतः इनके पास चलता हूँ। (यह कहकर पास चला जाता है।)

(इसके बाद सेठ और कायस्थ आदि से घिरा हुआ न्यायाधिकारी प्रवेश करता है।)

अधिकरणिक--अरे सेठ और कायस्थ !

सेठ और कायस्थ--श्रीमन् ! आदेश दीजिये।

अधिकरणिक--ओह ! मुक़दमा के पराधीन होने के कारण दूसरे के मन की बात को समझ पाना बहुत कठिन है। (दूसरों की बातें सुनकर ही निर्णय करना पड़ता है। मुक़दमेबाज बहुत कम सच बोलते हैं। अतः सही निर्णय कर पाना अति कठिन होता है।)

टीका--विषस्य = विषवृक्षस्य, ग्रन्थेः = पर्वणः, गर्भे = अभ्यन्तरे, प्रविष्टेन = स्थितेन, अन्तरम् = बहिर्गमनाय छिद्रम् अन्तरम् = उपायः, कृपणवेष्टितम् = नीचकृत्यम्, पातयिष्यामि = स्थापयिष्यामि, आरोपयिष्यामीति भावः, संभाव्यते = युज्यते, मोटयित्वा = निष्पीड्य, व्यवहारम् = विवादम्, व्यवहारस्य = विवादस्य, पराधीनतया = परायततया, वादिप्रभृतीनाम्, चित्तस्य = मनोगतभावस्य, ग्रहणम् = ज्ञानम्, दुष्करम् = अतिकठिनम् ।।

५०८ | मृच्छकटिकम्

छन्नं कार्यमुपक्षिपन्ति पुरुषा न्यायेन दूरीकृतं स्वान् दोषान् कथयन्ति नाधिकरणे रागाभिभूताः स्वयम् । तैः पक्षापरपक्षवर्द्धितबलैर्दोषैर्नृपः स्पृश्यते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ३ ॥

**अन्वयः—**पुरुषाः, न्यायेन, दूरीकृतम्, कार्यम्, छन्नम्, उपक्षिपन्ति, स्वयम्, दोषान्, अधिकरणे, न, कथयन्ति, पक्षापर-पक्षवर्द्धित-बलैः, तैः, दोषैः, नृपः, स्पृश्यते, संक्षेपात्, द्रष्टुः, अपवादः, एव, सुलभः, गुणः, दूरतः, [ तिष्ठति ] ॥ ३ ॥

**शब्दार्थः—**पुरुषाः=लोग, न्यायेन=न्याय से, दूरीकृतम्=दूर किये हुये, रहित, कार्यम्=कार्य को, बात को, छन्नम्=छिपा हुआ (बना कर), उपक्षिपन्ति=उपस्थित करते हैं, स्वयम् = अपने आप, रागाभिभूताः = विषयासक्ति से आक्रान्त, (होने के कारण), स्वान्=अपने, दोषान् = दोषों को, अधिकरणे = न्यायालय में, न=नहीं, कथयन्ति = कहते हैं, प्रकट करते हैं। पक्षापरपक्षवर्द्धितबलैः=वादी और प्रतिवादी दोनों पक्षों के लोगों द्वारा बढ़ाये गये बल वाले = प्रामाण्यवाले, तैः तैः = उन उन, दोषैः = दोषों से, नृपः=राजा, स्पृश्यते=स्पृष्ट होता है, दूषित होता है, संक्षेपात्=संक्षेप से, (यह कहा जा सकता है कि) द्रष्टुः = मुकदमा देखने वाले, निर्णयकर्ता को, अपवादः = कलंक, एव=ही, सुलभः=सरलतया प्राप्तव्य है, गुणः = यश तो, दूरतः = दूर ही, है ॥ ३ ॥

**अर्थ—**लोग (वादी प्रतिवादी गवाह आदि) न्याय से रहित अर्थात् गलत काम को छिपा कर [निर्णय के लिये] उपस्थापित करते हैं। स्वयम् विषयासक्त [क्रोध लोभादि के वशीभूत] होते हुये अपने दोषों को न्यायालय में नहीं प्रकट करते हैं। (इस कारण) वादी और प्रतिवादी दोनों पक्षों के द्वारा बढ़ाये गये बल वाले [प्रामाण्य वाले] उन-उन दोषों से राजा छुआ जाता है, [दूषित होता है] संक्षेप में, मुकदमें की सुनवाई करने वाले न्यायाधीश को कलंक मिलना ही सरल है, यश प्राप्त होना दूर की बात ॥ ३ ॥

**टीका—**निर्णयकर्तुर्निन्दाप्राप्तिहेतुं निर्दिशति —छन्नमिति । पुरुषाः=वादिनः, प्रतिवादिनः, साक्ष्यादयश्च, न्यायेन=नीत्या, औचित्येन वा, दूरीकृतम्=रहितम्, निराकृतम्, कार्यम्=अभियोगविषयीभूतं वस्तु, छन्नम्=शाठ्यादिनाच्छादितम् असत्या-वृत्तम्, उपक्षिपन्ति=आवेदयन्ति, स्वयम्=आत्मना, रागाभिभूताः=विषयासक्त्या आक्रान्ताः, निर्विवेकाः सन्तः, अधिकरणे=न्यायालये, स्वान्=आत्मीयान्, दोषान्=अपराधान्, न=नैव, कथयन्ति=प्रकाशयन्ति । पक्षापरपक्षवर्द्धितबलैः=पक्षः=वादि-जनीयपक्षः, अपरपक्षः=प्रतिवादिजनीयपक्षः, ताभ्यामुभाभ्यां वर्द्धितम्=पोषितम्

नवमोऽङ्कः ५०६

अपि च--

छन्नं दोषमुदाहरन्ति कुपिता न्यायेन दूरीकृताः स्वान् दोषान् कथयन्ति नाधिकरणे सन्तोऽपि नष्टा ध्रुवम् । ये पक्षापरपक्षदोषसहिताः पापानि संकुर्वते संक्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः ॥ ४ ॥

बलम् = प्रामाण्यसाधकत्वम् येषु तादृशैः, तैः = अन्यायाचरणादिसमुत्पन्नैः, दोषैः = अपराधैः, नृपः = राजा, स्पृश्यते = स्पृष्टो भवति, दूष्यते इति भावः । संक्षेपात् = किमधिकवर्णनेन, द्रष्टुः = व्यवहारदर्शकस्य न्यायाधीशस्य अपवादः = निन्दा, एव, सुलभः = सुप्रापः, गुणः = यशः, तु, दूरतः = दूरे, एव । एवञ्च मादृशानां निन्दा-प्राप्तिरेव समाजे वर्तते इति महाकष्टम् । शार्दूलविक्रीडितं, वृत्तम् ॥ ३ ॥

विमर्श-- न्यायाधिकारियों का तात्पर्य यह है कि वादी प्रतिवादी आदि सभी चालाकी से सत्यता को छिपाकर असत्य बात कहते हैं । उनकी बातों से ही निर्णय करना पड़ता है । अतः सही निर्णय करना बहुत कठिन हो जाता है । इसके फलस्वरूप समाज में न्यायाधिकारी की निन्दा ही अधिक होती है ॥ ३ ॥

अन्वयः-- ये, ( पुरुषाः ), कुपिताः न्यायेन, दूरीकृताः अधिकरणे, दोषम्, उदाहरन्ति, सन्तः, छन्नम्, अपि, स्वान्, दोषान्, न, कथयन्ति, ते, पक्षापरपक्ष-दोषसहिताः, पापानि, संकुर्वंते, ध्रुवम्, नष्टाः, ( भवन्ति ) संक्षेपात्, द्रष्टुः, अपवादः, एव, सुलभः, गुणः, ( तु ) दूरतः ॥ ४ ॥

शब्दार्थ-- ये = जो लोग, कुपिताः, = क्रोधयुक्त ( होते हुये ), न्यायेन = न्याय से, दूरीकृताः = रहित होते हुये, अधिकरणे = न्यायालय में, छन्नम् = छिपाये हुये, दोषम् = दोष, अपराध को, उदाहरन्ति = कहते हैं, सन्तः = सज्जन लोग, अपि = भी, स्वान् = अपने, दोषान् = दोषों को, न = नहीं कथयन्ति = कहते हैं, ( ते = वेलोग ), पक्षापर-पक्षदोषसहिताः = वादी तथा प्रतिवादी दोनों में पक्षों के दोषों से युक्त, पापानि = पापों को, संकुर्वंते = करते हैं, ( वे ), ध्रुवम् = निश्चित ही, नष्टाः = नष्ट, [ भवन्ति = होते हैं । ] संक्षेपात् = संक्षेप में, द्रष्टुः = मुकदमे के निर्णय करने वाले को, अपवादः = बुराई, एव = ही, सुलभः = सरलतया प्राप्तव्य, है, गुणः = यश, दूरतः = दूर ही रहता है ॥ ४ ॥

अर्थ--और भी, जो लोग क्रोधयुक्त, नीतिरहित होते हुये न्यायालय में छिपे हुये ( गलत ढंग से ) दोष का वर्णन करते हैं । सज्जन लोग भी अपने अपराधों को नहीं बताते हैं । वे लोग वादी और प्रतिवादी दोनों पक्षों के दोषों से युक्त होते हुये पाप करते है

५१० | मृच्छकटिकम्

यतोऽधिकरणिकः खलु--

शास्त्रज्ञः, कपटानुसारकुशलो वक्ता, न च क्रोधन- स्तुल्यो मित्र-पर-स्वकेषु, चरितं दृष्ट्वैव दत्तोत्तरः । क्लीबान् पालयिता, शठान् व्यथयिता, धर्म्यो, न लोभान्वितो द्वाभावे परतत्त्वबद्धहृदयो, राज्ञश्च कोपापहः ॥ ५ ॥

अतः वे निश्चित ही नष्ट हो जाते हैं। सक्षेप में, न्यायाधीशों को बुराई [ अपयश ] मिलना ही सरल है यश तो दूर की बात ॥ ४ ॥

टीका—पूर्वोक्तमेवार्थं भङ्ग्यन्तरेण पुनराह —छन्नमिति । ये पुरुषाः-इति संयोज्यम्, कुपिताः=क्रोधयुक्ताः, अत एव न्यायेन=नीत्या, दूरीकृताः=नीतिवियुक्ताः, अधिकरणे=न्यायालये, छन्नम्-कदाचित् सत्यम् असत्येन, कदाचित् असत्यं सत्येन आवृतम्, दोषम्=अपराधम्, उदाहरन्ति=वर्णयन्ति, सन्तः=सज्जनाः, अपि, स्वान्=आत्मीयान्, दोषान्=अपराधान्, न=नैव, कथयन्ति=प्रकाशयन्ति, ते, पक्षापरपक्षदोषसहिताः=पक्षाणाम्, अपरपक्षाणाम्=वादिप्रतिवाद्युभयपक्षाणाम् दोषैः=दूषणैः, सहिताः=युक्ताः, सन्तः, पापानि=दुष्कृतानि, संकुर्वते=भृशमाचरन्ति, ते, ध्रुवम्=निश्चितम् नष्टाः=विनष्टाः, भवन्ति, संक्षेपात् = किमधिकवर्णनेन, द्रष्टुः=विवादस्य निर्णयकर्तुः, अपवादः=कलङ्कः, निन्दा एव, सुलभः=सुप्रापः, गुणः=यशः तु, दूरतः=दूरे, एव वर्तते । शार्दूलविक्रीडितं वृत्तम् ॥ ४ ॥

विमर्श—पूर्वोक्त श्लोक का आशय ही इसमें श्लोक में भी वर्णित है। अतः यह श्लोक प्रक्षिप्त प्रतीत होता है ॥ ४ ॥

अन्वयः—[ अधिकरणिकः खलु--इति गद्यस्थेनान्वयः ] शास्त्रज्ञः, कपटानुसारकुशलः, वक्ता, न, च, क्रोधनः, मित्रस्वपरकेषु, तुल्यः, चरितम्, दृष्ट्वा, एव, दत्तोत्तरः, क्लीबान्, पालयिता, शठान्, व्यथयिता, धर्म्यः, न, लोभान्वितः, द्वाभावे, परतत्त्वबद्धहृदयः, च, राज्ञः, कोपावहः, च, ( भवेत् ) ॥ ५ ॥

शब्दार्थ—( अधिकरणिकः=न्यायाधीश ), शास्त्रज्ञः = न्यायशास्त्र को जानने वाला, कपटानुसारकुशलः=कपट को पकड़ने में कुशल, वक्ता=बोलने में चतुर, न च=और न, क्रोधनः=क्रोध करने वाला, मित्रपरस्वकेषु = मित्र, शत्रु और अपने लोगों में, तुल्यः=समान दृष्टि रखने वाला, चरितम्=व्यवहार को, दृष्ट्वा=देखकर, एव=ही, दत्तोत्तरः=उत्तर देने वाला, क्लीबान्=दुर्बल लोगों का, पालयिता=पालन करने वाला, शठान्=दुष्टलोगों को, व्यथयिता =दण्ड देने वाला, धर्म्यः=धार्मिक, न लोभान्वितः=लोभ से रहित, द्वाभावे=उपाय सम्भव रहने पर, परतत्त्वबद्धहृदयः=दूसरे की बात का सही निष्कर्ष निकालने में सावधान, =और, राज्ञः=राजा के, कोपावहः=क्रोध को नष्ट-शान्त कराने वाला, [ भवेत्=होना चाहिये ] ॥ ५ ॥

नवमोऽङ्कः ५११

श्रेष्ठिकायस्थौ--अज्जस्स वि णाम गुणे दोसो त्ति वुच्चदि। जइ एव्वं ता चन्दालोए वि अन्धआरो त्ति वुच्चदि। ( आर्यस्यापि नाम गुणे दोष इत्युच्यते । यद्येवम्, तदा चन्द्रालोकेऽप्यन्धकार इत्युच्यते । )

**अर्थ--**क्योंकि न्यायाधीश को—

शास्त्रों का जानकार, कपट को पकड़ने में कुशल, वक्ता, क्रोध न करने वाला, मित्र, शत्रु और आत्मीय जनों के बीच में समान भाव रखने वाला [ मुकदमा से सम्बद्ध लोगों के ] व्यवहार को देखकर ही उत्तर देने वाला, दुर्बलों का रक्षक, धूर्तों को दण्डित करने वाला, धार्मिक, लोभरहित, और उपाय के सम्भव रहने पर सच बात का पता लगाने में सावधान तथा राजा के क्रोध को नष्ट = शान्त करने वाला [ होना चाहिये ] ॥ ५ ॥

**टीका--**साम्प्रतं स्वकर्त्तव्यत्वकथन-प्रसंगेन अधिकरणिकलक्षणं प्रतिपादयति–शास्त्रज्ञ इति । यतः अधिकरणिकः–इति गद्यांशेनान्वयः कार्यः । अधिकरणस्य अयम् इत्यर्थे इक प्रत्ययः, अथवा मतुबर्थे 'अत इनिठनौ' ( पा. सू. ५।२।११५) इति ठन् प्रत्ययः । अधिकरण-सम्बन्धी, विचारकर्ता इत्यर्थः । शास्त्रज्ञः = न्यायादिशास्त्रवेत्ता, कपटस्य=छलस्य, अनुसारे=आविष्कारे, **कुशलः=**निपुणः, **वक्ता=**वाग्मी, **न च=**नैव च, **क्रोधनः=**क्रोधी, क्रोधरहित इत्यर्थः **मित्रपरस्वकेषु=**मित्रेषु, शत्रुपु आत्मीयेषु च तुल्यः = समदर्शी, 'पक्षपातशून्यः, चरितम् = आचरणम्, वादि-प्रतिवादिनोरिति शेषः, दृष्ट्वा एव = ज्ञात्वा एव, दत्तोत्तरः = दत्तम् प्रकटितम्, **उत्तरम्=**प्रतिवचनं येन तथाभूतः, क्लीबान् = दुर्बलान् **पालयिता=**रक्षकः, **शठान्=**धूर्तान् व्यथयिताः = दण्डयिता, धर्म्यः = धर्मादनपेतः, धर्माचारी, न लोभान्वितः= निर्लोभः, द्वाभवि = उपायसत्त्वे **परेषाम्=**वादिप्रभृतीनाम्, यत् तत्त्वम् = याथार्थ्यम्, **तस्मिन् बद्धहृदयः=**व्यासक्तमनाः, सावधान इति भावः, च = तथा, **राज्ञः=**नृपस्य, कोपावहः = क्रोधस्य शमयिता, भवेत् । शार्दूलविक्रीडितं वृत्तम् ॥ ५ ॥

**विमर्श--**न्यायाधीश को कैसा होना चाहिये इस विषय में इस श्लोक में बहुत सुन्दर विवेचन है ॥ ५ ॥

**शब्दार्थ--**चन्द्रालोके = चन्द्रमा के प्रकाश में, कार्यार्थी = मुकदमा वाला, साटोपम्=घमण्ड के साथ, व्यवहारे = मुकदमा के विषय में, उपरागः = सूर्यग्रहण, महापुरुषविनिपातम् = महान् पुरुष के विनाश को, व्याकुलेन = परेशानी के साथ, दृश्यते=देखा जायगा, विचार किया जायगा, आवृत्तम् = बहनोई, स्थापयिष्यामि=नियुक्त करवा दूंगा, कुपितः=नाराज, संभाव्यते=सम्भव है।

**अर्थ--सेठ और कायस्थ--**श्रीमान् के भी गुण में दोष देखा जाता है। यदि ऐसी बात है तब तो चन्द्रमा के प्रकाश में भी अन्धकार है, ऐसा कहा जाता है ।

५१२ | मृच्छकटिकम्

अधिकरणिकः - भद्र शोधनक ! अधिकरणमण्डपस्य मार्गमादेशय ।

शोधनकः - एदु एदु अधिअरणभोइओ एदु । ( एतु एतु अधिकरणभोजक एतु । )

( इति परिक्रामन्ति । )

शोधनकः - एदं अधिअरणमण्डवं, ता पविसन्तु अधिअरणभोइआ । ( अयमधिकरणमण्डपः, तत्प्रविशन्तु अधिकरणभोजकाः । )

( सर्वे च प्रविशन्ति । )

अधिकरणिकः - भद्र शोधनक ! बहिनिष्क्रम्य ज्ञायताम्—कः कः कार्यार्थी इति ।

शोधनकः - जं अज्जो आणवेदि (इति निष्क्रम्य) अज्जा ! अधिअरणिआ भणन्ति—'को को इध कज्जत्थी' त्ति । ( यदार्य आज्ञापयति । ) ( आर्याः ! अधिकरणिका भणन्ति —'कः कः इह कार्यार्थी' इति ? )

शकारः - ( सहर्षम् ) उवत्थिदे अधिअलणिए । ( साटोपं परिक्रम्य ) हग्गे वलपुलिशे मणुश्शे वासुदेवे लट्टिशशाले लाअशाले कज्जत्थी । ( उपस्थिताः अधिकरणिकाः । ) ( अहं वरपूरुषः मनुष्यः वासुदेवः राष्ट्रियश्यालः राजश्यालः कार्यार्थी । )


अधिकरणिक - भद्र शोधनक ! अधिकरणमण्डप ( न्यायालय ) का मार्ग बतलाइये ।

शोधनक - आइये, आइये न्यायाधीश जी, आइये ।

( सभी लोग घूमते हैं । )

शोधनक - यह न्यायालय है, अतः न्यायाधिकारी आप लोग इसमें प्रवेश करिये ।

( सभी लोग प्रवेश करते हैं । )

अधिकरणिक - भद्र शोधनक ! बाहर निकल कर पता लगाओ “कौन-कौन मुकदमा के विचारार्थ आया है ।”

शोधनक - जैसी आर्यकी आज्ञा । ( बाहर जाकर ) सज्जनों ! न्यायाधिकारी यह कह रहे हैं कि “किस किस का मुकदमा विचारार्थ है ?”

शकार - ( हर्ष के साथ ) न्यायाधिकारी आ गये । ( घमण्ड के साथ घूम-कर ) मैं श्रेष्ठ पुरुष, मनुष्य, वासुदेव, राष्ट्रिय शाला, राजा का शाला मुकदमा के विचारार्थ उपस्थित हूँ ।

नवमोऽङ्कः ५१३

शोधनकः-(ससम्भ्रमम्) हीमादिके ! पढमं ज्जेव रट्टिअशालो कज्जत्थी । भोदु, अज्ज ! मुहुत्तं चिट्ठ, दाव अधिअरणिश्राणं णिवेदेमि । (उपगम्य) अज्ज ! एसो क्खु रट्टिअशालो कज्जत्थी ववहारे उवत्थिदो । (हन्त ! प्रथममेव राष्ट्रियश्यालः कार्यर्थी । भवतु, आर्य ! मुहूर्तं तिष्ठ, तावदधिकरणिकानां निवेदयामि ।) (आर्याः ! एष खलु राष्ट्रियश्यालः कार्यार्थी व्यवहारे उपस्थितः ।)

अधिकरणिकः-कथं, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । यथा—

सूर्योदये उपरागो महापुरुषविनिपातमेव कथयति । शोधनक ! व्याकुलेनाद्य व्यवहारेण भवितव्यम् ! भद्र ! निष्क्रम्य उच्यताम्-'गच्छ, अद्य न दृश्यते तव व्यवहार इति' ।

शोधनकः-जं अज्जो आणवेदि । (इति निष्क्रम्य शकारमुपगम्य) अज्ज ! अधिअरणिया भणन्ति-'अज्ज गच्छ, ण दीशदि तव ववहारो ।' (यदार्य आज्ञापयति ।) (आर्य ! अधिकरणिका भणन्ति-'अद्य गच्छ, न दृश्यते तव व्यवहारः ।')

शकारः-(सक्रोधम्) आः ! किं ण दीशदि मम ववहाले ? जइ ण दीशदि, तदो आउत्तं लाआणं पालअं वहिणीवदिं विष्णविअ बहिणिं अत्तिकं च विष्णविअ एदं अधिअलणिअं दूले फेलिअ एत्थ अण्णं अधिअलणिअं ठावइश्शं । (इति गन्तुमिच्छति) आः ! किं न दृश्यते मम व्यवहारः ? यदि न दृश्यते, तदा आवुत्तं राजानं पालकं भगिनीपतिं विज्ञाप्य भगिनीं मातरञ्च विज्ञाप्य एतमधिकरणिकं दूरीकृत्य अत्र अन्यमधिकरणिकं स्थापयिष्यामि ।)


शोधनक-(घबड़ाहट के साथ) हाय ! सबसे पहले राजा का शाला ही मुकदमा के लिये आया है । अच्छा, आर्य ! कुछ देर रुकिये जब तक मैं अधिकरणिकों से निवेदन करता हूँ । (पास जाकर) श्रीमन् ! यह राजा का शाला मुकदमा के विचार के लिये आया है ।

अधिकरणिक-क्या, सबसे पहले राजा का शाला ही मुकदमा के लिये आया है ? जैसे सूर्योदय में सूर्यग्रहण महापुरुष के विनाश को कहता है, सूचित करता है । शोधनक ! आज मुकदमा परेशानी से भरा हुआ होगा । भद्र ! निकल कर कह दो-'जाओ, आज तुम्हारे मुकदमा पर विचार नहीं होगा ।'

शोधनक-जैसी आर्य की आज्ञा । (निकल कर शकार के पास जाकर) आर्य ! अधिकरणिक यह कह रहे हैं-'आज जाइये, तुम्हारे मुकदमे पर विचार नहीं होगा ।'

शकार-(क्रोध के साथ) क्या, मेरे मुकदमा पर विचार नहीं होगा ? यदि विचार नहीं होगा तब अपने बहनोई जीजा राजा पालक से कह कर और बहन तथा माता से कह कर इस अधिकरणिक को हटवा कर दूसरे अधिकरणिक को नियुक्त करवाऊँगा ।

३३ मृ०

५१४ मृच्छकटिकम्

शोधनक --अज्ज रट्टिअशालअ ! मुहुत्तअं चिट्ठ, दाव अधिअरणियाणं णिवेदेमि । ( अधिकरणिकमुपगम्य ) एसो रट्टिअशालो कुविदो भणादि । (आर्य राष्ट्रियश्याल ! मुहूर्तकं तिष्ठ, तावदधिकरणिकानां निवेदयामि ।) ( एष राष्ट्रियश्यालः कुपितो भणति । ) ( इति तदुक्तं भणति । )

अधिकरणिकः--सर्वमस्य मूर्खस्य सम्भाव्यते । भद्र ! उच्यताम्--'आगच्छ, दृश्यते तव व्यवहारः ।'

शोधनकः--(शकारमुपगम्य) अज्ज ! अधिअरणिया भणन्ति-आअच्छ दीशदि तव ववहारो ! ता पविसदु अज्जो । ( आर्य ! अधिकरणिका भणन्ति--'आगच्छ, दृश्यते तव व्यवहारः । तत् प्रविशतु आर्यः । )

शकारः--पढमं भणन्ति--'ण दीशदि, शम्पदं दीशदि' त्ति । ता णाम भीदभीदा अधिअलणभोइआ । जेत्तिअं हग्गे भणिश्शं तेत्तिअं पत्तिआवइश्शं । भोदु, पविशामि । ( प्रविश्योपसृत्य ) शुशुहं अम्हाणं, तुम्हाणं पि शुहं देमि ण देमि अ । (प्रथमं भणन्ति 'न दृश्यते, साम्प्रतं दृश्यते' इति । तत् नाम भीतभीता अधिकरणभोजकाः ! यावदहं भणिष्यामि, तावत् प्रत्याययिष्यामि ।) ( सुसुखमस्माकम्, युष्माकमपि सुखं ददामि न ददामि च । )

अधिकरणिकः--( स्वगतम् ) अहो ! स्थिरसंस्कारता व्यवहारार्थिनः । ( प्रकाशम् ) उपविश्यताम् ।


शोधनक--आर्य राजा के शाले ! कुछ देर रुकिये, जब तक अधिकरणिकों से निवेदन करता हूँ । ( अधिकरणिक के पास जाकर ) यह राजा का शाला नाराज होकर कह रहा है । ( यह कह कर उसके द्वारा कही बात दोहरा देता है । )

अधिकरणिक--इस मूर्ख के लिये सब कुछ सम्भव है । भद्र ! जाकर कह दो--'आइये, तुम्हारे मुकदमे पर विचार किया जायेगा ।'

शोधनक--( शकार के पास जाकर ) आर्य ! अधिकरणिक कह रहे हैं--आइये, तुम्हारे मुकदमे पर विचार किया जायगा । अतः आर्य प्रवेश करें ।

शकार--पहले कहते हैं 'नहीं देखा जायेगा, अब देखा जायगा ।' इसलिये अधिकरणिक बहुत डर गये हैं । जितना कहूँगा, उतना सच मनवा लूँगा । ( प्रवेश करके पास जाकर ) हमारा अच्छी तरह सुख है । तुम लोगों को भी सुख देता हूँ अथवा नहीं देता हूँ ।

अधिकरणिक--(अपने में) मुकदमा का न्याय चाहने वाले इसकी निर्भीकता आश्चर्यजनक है । ( प्रकट रूप में ) बैठिये ।

नवमोऽङ्कः ५१५

शकारः--आ ! अत्तणकेलका शे भूमी । ता जंहि मे लोअदि तंहि उवविशामि । ( श्रेष्ठिनं प्रति ) एश उवविशामि । ( शोधनकं प्रति ) णं एत्थ उवविशामि । ( इत्यधिकरणिकमस्तके हस्तं दत्त्वा ) एश उवविशामि । ( इति भूमौ उपविशति । ) ( आः ! आत्मीया एषा भूमिः, तद् यस्मिन् मे रोचते, तस्मिन्नुपविशामि) (एष उपविशामि ।) (नन्वत्र उपविशामि ।) (एष उपविशामि ।)

अधिकरणिकः--भवान् कार्यार्थी ?

शकारः--अध इं । ( अथ किम् ? )

अधिकरणिकः--तत् कार्यं कथय ।

शकारः--कण्णे कज्जं कहइश्शं । एवं वड्ढके मल्लकप्पमाणाहे कुले हग्गे जादे । ( कर्णे कार्यं कथयिष्यामि । एवं बृहति मल्लकप्रमाणस्य कुले अहं जातः ।)


शकार—ओह् ! यह अपनी जमीन है । अतः जहाँ मुझे अच्छा लगेगा वहाँ बैठूँगा । ( श्रेष्ठी की ओर ) यहाँ बैठता हूँ । ( शोधनक की ओर ) यहाँ बैठना हूँ । ( न्यायाधिकारी के सिर पर हाथ रख कर ) यहाँ बैठता हूँ । ( ऐसा कर कर जमीन पर बैठ जाता है । )

अधिकरणिक—क्या आप मुकदमा का विचार चाहते हैं ?

शकार—और क्या ?

अधिकरणिक—तो मुकदमा कहिये ।

शकार—कान में कहूँगा । क्योंकि मैं मिट्टी के पुरवे [प्याला] के समान विशाल वंश में उत्पन्न हुआ हूँ ।

टीका—चन्द्रालोके=चन्द्रस्य प्रकाशे, कार्यार्थी=कार्यस्य व्यवहारस्य अर्थी=प्रार्थी, साटोपम्=सदर्पम्, उपरागः=राहुणा, चन्द्रग्रहणम् 'उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च' इत्यमरः, महापुरुषस्य=सम्मानितजनस्य, निपातम्=विनाशम्, व्याकुलेन=क्षोभयुक्तेन, आवृत्तम्=भगिनीपतिम्, दृश्यते=विचारार्थं स्वीक्रियते, सामीप्ये लट्, भीतभीताः=अत्यन्तं भयग्रस्ताः, प्रत्याययिष्यामि=विश्वासयोग्यं कारयिष्यामि, स्थिरसंस्कारता=स्थिरः अविचलः, यथा प्राक् तथेदानीमपि इत्यर्थः, संस्कारः=सिद्धान्तः, तस्य भावः, एकरूपमेव ज्ञानम्, अस्मत्समीपेऽपि न किञ्चित् परिवर्तनमिति भावः, मल्लकप्रमाणस्य=क्षुद्रं-मृन्मयं-पात्रम् तत्सदृशस्य, क्वचित्त 'मत्सकप्रमाणस्ये' त्यपि पाठः । अत्र शकारः स्ववंशस्य महत्त्वे ख्यापयितव्ये मूर्खतया निकृष्टत्वं वदतीति बोध्यम् ।

५१६मृच्छकटिकम्

लाअशशुले मम पिदा लाआ तादश्श होइ जामादा ।
लाअशिआले हग्गे ममावि बहिणोवदो लाआ ॥ ६ ॥
( राजश्वशुरो मम पिता राजा तातस्य भवति जामाता ।
राजश्यालोऽहं ममापि भगिनीपती राजा ॥ ६ ॥ )

अधिकरणिकः-- सर्वं ज्ञायते ।

किं कुलेनोपदिष्टेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ ७ ॥

तदुच्यतां कार्यम् ।


अन्वयः--मम, पिता, राजश्वशुरः, राजा, तातस्य, जामाता, भवति, अहम्, राजश्यालः, राजा, अपि, मम, भगिनीपतिः ॥ ६ ॥

शब्दार्थ--मम=मेरे, शकार के, पिता=पिता, राजश्वसुरः=राजा पालक के ससुर हैं, राजा=राजा, पालक, तातस्य=मेरे पिता के, जामाता=दामाद, भवति=हैं, अहम्=मैं, शकार, राजश्यालः=राजा का शाला हूँ, राजा अपि=राजा भी, मम=मेरे, भगिनीपतिः=बहिन के पति=बहनोई हैं ॥ ६ ॥

अर्थ--(शकार--) मेरे पिता राजा पालक के ससुर हैं । राजा मेरे पिता के दामाद हैं। मैं राजा का शाला हूँ । राजा मेरे बहनोई हैं ॥ ६ ॥

टीका--साम्प्रतं स्वप्रभाववृद्धये शकारः स्वपरिचयं ददाति-राजेति । मम=शकारस्य, व्यवहारार्थिन इति भावः, पिता=जनकः, राजश्वशुरः=राज्ञः पालकस्य श्वशुरः, राजा=नृपः, पालकः, तातस्य=शकारजनकस्य, जामाता=दुहितुः पतिः, भवति=वर्तते, अहम्=शकारः, राजश्यालः=राज्ञःपालकस्य श्यालकः, राजा=नृपःपालकः, मम=शकारस्य, भगिनीपतिः=भगिन्याः पतिः, आवुत्तः वर्तते । अत्रैकस्यैव सिद्ध-सम्बन्धस्य चतुर्धा कथनं शकारस्य मूर्खतां प्रतिपादयतीति बोध्यम् । आर्या वृत्तम् ॥६॥

अन्वयः--कुलेन, उपदिष्टेन, किम् अत्र, शीलम्, एव, कारणम्, सुक्षेत्रे, कण्टकिद्रुमाः, नितराम्, स्फीताः, भवन्ति ॥ ७ ॥

शब्दार्थ--कुलेन=कुल के, उपदिष्टेन=कहने से, किम्=क्या लाभ ? अत्र=यहाँ, शीलम्=चरित्र, एव=ही, कारणम्=कारण, ( होता है ), सुक्षेत्रे=सुन्दर खेत में, कण्टकिद्रुमाः = कांटेदार पेड़, नितराम्=बहुत अधिक, स्फीताः=बढ़े हुये, विशाल, भवन्ति=होते हैं ॥ ७ ॥

अर्थ--अधिकरणिक--सब मालूम है ।
वंश के कहने से क्या लाभ ? यहाँ ( न्यायालय में ) चरित्र ही कारण होता है । सुन्दर खेत में कांटेदार [ भी ] पेड़ बहुत अधिक बड़े-बड़े हो जाते हैं ॥ ७ ॥
तो अपना कार्य=मुकदमा बतलाइये ।

नवमोऽङ्कः ५१७

शकारः--एव्वं भणामि-अवलद्धाह वि ण अ मे किं वि कलइशदि। तदो तेण बहिणीपदिणा परितुट्ठेन मे कीलिदुं रक्खिढं शव्वुज्जाणाणं पवलं पुप्फकरण्डके जिण्णुज्जाणे दिण्णे। तहिं च पेक्खिदुं अणुदिअहं शोशावेदुं शोधावेदुं पोत्यावेदुं लुणावेदुं गच्छामि। देव्वजोएण पेक्खामि ण पेक्खामि वा इत्थिआशलीलं निव्वडिदं। (एवं भणामि-अपराद्धस्यापि न च मे किमपि करिष्यति। ततस्तेन भगिनीपतिना परितुष्टेन मे क्रीडितुं रक्षितुं सर्वोद्यानानां प्रवरं पुष्पकरण्डकं जीर्णोद्यानं दत्तम्। तत्र च प्रेक्षितुमनुदिवसं शोषयितुं शोधयितुं पोषयितुं लावयितुं गच्छामि। दैवयोगेन प्रेक्षे न प्रेक्षे वा स्त्रीशरीरं निपतितम्।)


टीका--वंशो न्यायालये न किमपि करोतीति तथ्यं प्रकटयति अधिकरणिकः--किमिति। कुलेन=वंशेन, उपदिष्टेन=वर्णितेन, किम्=किं फलम्, न किमपीति भावः, अत्र=न्यायालये, शीलम् = चरित्रम्, एव, कारणम्=निर्णयकारकमिति भावः। सुक्षेत्रे=उर्वरायां भूमौ, कण्टकिद्रुमाः=कण्टकयुक्ताः, द्रुमाः=वृक्षाः, अपि, नितराम्=अत्यधिकम्, स्फीताः=वृद्धाः, विशालाः, भवन्ति,=जायन्ते। उर्वरायां भूमौ यथा सद्वृक्षाः सम्पन्नाः भवन्ति तथैव कण्टकयुक्ताः वृक्षा अपि विशालतां प्राप्नुवन्ति। एवमेव सद्वंशेऽपि सुयोग्या इव दुष्टा अपि पुत्रा उत्पन्ना भवन्तीति भावः। अत्र दृष्टान्तालङ्कारः। पथ्यावक्त्रं वृत्तम्॥ ७॥

विमर्श--आठवें अंक में २६ वां श्लोक भी यही है। वहाँ भी इसकी व्याख्या देखी जा सकती है॥ ७॥

शब्दार्थ--अपराद्धस्य=अपराधी का, प्रवरम्=श्रेष्ठ, अनुदिवसम्=रोजाना, लूनम्=कटाई, दैवयोगेन=संयोगवश, विपन्ना=मरी हुई, नगरमण्डनम्=शहर को अलंकार, अर्थकल्यवर्तस्य=धनरूपी कलेवा, बाहुपाशबलात्कारेण=भुजारूपी पाश के बलात्कार से, आवृणोति=छिपा लेता है, उत्ताम्यता=उतावले होने वाले, पायसपिण्डारकेण=खीर खाने के लोभी, निर्णाशितः=नष्ट कर डाला, प्रोञ्छति=पोंछता है, व्यापादिता=मार डाली, मोघस्थानया=रिक्त स्थानवाली, ग्रीवालिकया=गले की माला से, प्रत्युज्जीवितः=फिर से जिन्दा।

अर्थ--शकार--ऐसा कहता हूँ, अपराधी भी मेरा कोई कुछ नहीं करेगा। इसके बाद प्रसन्न बहनोई ने मेरे विहार के लिये और रक्षा के लिए सभी उद्यानों में श्रेष्ठ पुष्पकरण्डक उद्यान दिया। और उन [उद्यान] में रोज देख भाल करने के लिये, सूखा [सफाई] कराने के लिये, पुष्ट कराने के लिये और [अनावश्यक, घासादि को] कटवाने के लिये जाता हूँ। संयोगवश मैंने (वहाँ) गिरे हुये स्त्री-शरीर को देखा, अथवा नहीं देखा।

५१८ मृच्छकटिकम्

अधिकरणिकः-- अथ ज्ञायते का स्त्री विपन्नेति ?

शकारः-- हंहो अधिकलणभोइआ ! किं त्ति ण जाणामि तं तादिशि णअलमण्डणं कञ्चणशदभूशणिअं । केण वि कुपुत्तेण अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डकं जिण्णुज्जाणं पविशिअ बाहुपाश-वलक्कारेण वशन्तशोणिआ मालिदा, ण मए । (अहो अधिकरणभोजकाः ! किमिति न जानामि तां तादृशीं नगरमण्डनं काञ्चनशतभूषणाम् । केनापि कुपुत्रेण अर्थकल्य-वर्त्तस्य कारणात् शून्यं पुष्पकरण्डकं जीर्णोद्यानं प्रवेश्य बाहुपाशबलात्कारेण वसन्त-सेना मारिता, न मया ।) (इत्यर्द्धोक्ते मुखमावृणोति ।)

अधिकरणिकः-- अहो नगररक्षिणां प्रमादः ! भोः श्रेष्ठिकायस्थौ ! 'न मयेति' व्यवहारपदं प्रथममभिलिख्यताम् ।

कायस्थः-- जं अज्जो आणवेदि । (तथा कृत्वा) अज्ज ! लिहिदं । (यदार्थ आज्ञापयति ।) (आर्य ! लिखितम् ।)

शकारः-- (स्वगतम्) हीमादिके ! उत्तलाअन्तेण विअ पाअशपिण्डा-लकेण अज्ज मए अत्ता एव्व णिण्णाशिदो । भोदु, एवं दाव । (प्रकाशम्) अहो अधिकलणभोइआ ! णं भणामि, मए ज्जेव दिट्ठा, किं कोलाहलं कलेध ? (हन्त ! उत्ताम्यतेव पायसपिण्डारकेण अद्य मया आत्मैव निर्णशितः । भवतु, एवं तावत्) । (अहो अधिकरणभोजकाः ! ननु भणामि - मयैव दृष्टा । किं कोलाहलं कुरुत ?) (इति पादेन लिखितं प्रोञ्छति ।)


अधिकरणिक-- अच्छा, कुछ मालुम पड़ता है कि वह कौन स्त्री मरी पड़ी है ?

शकार-- अहो न्यायाधीश महोदय ! नगर की भूषण, सैकड़ों स्वर्णभूषणों से युक्त उस सुन्दरी को क्यों नहीं जानूँगा ? किसी दुष्ट व्यक्तिने कलेवा के समान तुच्छ धन के लिये सूने पुष्पकरण्डक बगीचे में लेजाकर बाहुपाश से बलपूर्वक (हाथों से गला दबाकर) वसन्तसेना को मार डाला, मैंने नहीं । [ऐसा आधा कह कर मुख को छिपा लेता है ।]

अधिकरणिक-- ओह ! नगर के रक्षकों (सिपाहियों) की असावधानी । हे श्रेष्ठी और कायस्थ ! 'मैंने नहीं' ये मुकदमे के पद पहले लिख दो ।

कायस्थ-- श्रीमान् की जैसी आज्ञा । (लिखकर) आर्य ! लिख लिया ।

शकार-- (अपने में) हाय ! जल्दीबाजी करते हुये (उतावला होते हुये) मैंने गरम गरम खीर खाने वाले के समान आज अपना ही नाश कर डाला । अच्छा, ऐसा हो । (प्रकट रूप में) हे न्यायाधिकारियो ! कहता हूँ कि मैंने ही देखा है । क्या कोलाहल कर रहे हो ? (ऐसा कह कर लिखी बात को पैर से पोंछ डालता है ।)

नवमोऽङ्कः ५१६

अधिकरणिकः---कथं त्वया ज्ञातं यथा खल्वर्थनिमित्तं बाहुपाशेन व्यापादिता ?

शकारः---हंहो ! णूणं शूनशूण्णाए मोघट्ठाण्णाए गोव्वालियाए णिसुत्त-ण्णकेहिं आहलणट्ठाणेहिं तक्केमि । ( हंहो ! नूनं शूनशून्यया मोघस्थानया ग्रीवालिकया निःसुवर्णकैराभरणस्थानैस्तर्कयामि । )

श्रेष्ठिकायस्थौ---जुज्जदि विअ । ( युज्यत इव । )

शकारः---( स्वगतम् ) दिट्ठिआ पच्चुज्जीविदम्हि । अविदमादिके ! ( दिष्ट्या प्रत्युज्जीवितोऽस्मि । अविदमादिके । )


अधिकरणिक---तुमने कैसे जाना कि धन के लिये गला दबा कर मार डाला ?

शकार---ओह ! उसकी स्फीत, सूनी और खाली गर्दन के कारण तथा आभूषणों को पहनने के अंगों को आभूषणों से रहित होने के कारण वैसा अनुमान करता हूँ ।

श्रेष्ठी और कायस्थ---ठीक सा ही लगता है ।

शकार---(अपने में) सौभाग्य से मैं फिर जीवित हो गया । सन्तोष की बात है ।

टीका---अपराद्धस्यापि=कृतदोषस्यापि, भगिनीपतिना=आवूत्तेन, क्रीडितुम्=विहारार्थम्, शोधयितुम्=सम्मार्जनादिना स्वच्छं कारयितुम्, दैवयोगेन=संयोगवशात् नगरमण्डनम्=नगरस्याभूषणभूताम्, अर्थकल्यवर्त्तस्य=तुच्छधनस्य, बाहुपाशाभ्यां बलात्कारैर्बलपूर्वकं निष्पीडनम्, व्यवहारपदम्=विवादस्य पदम्, 'न मया मरिते'ति कथनेनेदं प्रतीयते यदनेनैव मारितेति तत्तात्पर्यम्, प्रमादः=अनवधानता, उत्ताम्यता=अस्थिरचित्तेन, उत्पूर्वकात् 'तम्' उत्काङ्क्षायाम् इति धातोः दैवादिकात् शतृप्रत्ययान्तात् तृतीयैकवचने रूपम्, पायसपिण्डारकेण = पायसपिण्ड-भोजन-लुब्धेन=पयः इदं पायसम्, तस्य पिण्डम् ऋच्छति=प्राप्नोति, भुङ्क्ते इति भावः कर्तरि ण्वुल् प्रत्ययः, निर्णाशितः=विनाशितः, मयैव दृष्टा इत्युक्त्वात्मनो निर्दोषतां प्रतिपादयति । व्यापादिता=मारिता, शूनशूनया=स्फीतस्फीतया, क्वचित् शून्य-शूनया आभरणशून्यया स्फीतया चेत्यर्थः, क्वचित् 'पड़िशूणार' प्राकृतस्य परिशून्यया' इति संस्कृतम्, मोघस्थानया=मोघम्=विफलम्, स्थानम्=स्थितिः, तादृशालंकार-विरहादिति भावः, यस्यास्तया, ग्रीवालिकया=ग्रीवया, यद्वा ग्रीवामलति=भूषयति या तया, अल्धातोः कर्तरि ण्वुल्, ग्रैवेयकेनेत्यर्थः 'परिशून्ययेति पाठे बोध्यः, निःसुवर्णकैः=निः=न सन्ति सुवर्णकानि=सौवर्णाभरणानि येषु तथाभूतैः, आभरणस्थानैः=हस्तादिभिरित्यर्थः, तर्कयामि=अनुमिनोमि, प्रत्युज्जीवितः=पुनः जीवनं प्रापितः । अविदमादिके इति हर्षसूचकमव्ययम् ।

विमर्श---'अपराद्धस्यापि न च मे किमपि करिष्यति' यह कह कर शकार अपनी प्रभुता प्रकट करना चाहता है । 'न मया मारिता' यह कहने पर उस