मृच्छकटिकम् (सटीक संस्कृत नाटक)
Mricchakatikam with Sanskrit-Hindi Commentary
महाराज शूद्रक / पं. जयशंकर लाल त्रिपाठी द्वारा
५२२ मृच्छकटिकम्
शकारः—( साक्षेपम् ) आगदाशि वुड्ढकुट्टणि ! आगदाशि । ( आगतासि वृद्धकुट्टनि ! आगतासि ? )
अधिकरणिकः— अये ! तत् त्वं किल वसन्तसेनाया माता ?
वृद्धा— अध इं ? ( अथ किम् ? )
अधिकरणिकः— अथेदानीं वसन्तसेना क्व गता ?
वृद्धा— मित्तघरं । ( मित्रगृहम् । )
अधिकरणिकः— किं नामधेयं तस्या मित्रम् ?
वृद्धा—( स्वगतम् ) हद्धी हद्धी अदिलज्जणीअं क्खु एदं । ( प्रकाशम् ) जणस्स पुच्छणीओ अअं अत्थो, ण उण अधिअरणस्स । ( हा धिक् हा धिक्, अतिलज्जनीयं खल्वेतत् । ) ( जनस्य प्रच्छनीयोऽयमर्थः, न पुनरधिकरणिकस्य । )
अधिकरणिकः— अलं लज्जया, व्यवहारस्त्वां पृच्छति ।
श्रेष्ठिकायस्थौ— ववहारो पुच्छदि, णत्थि दोसो, कधेहि । ( व्यवहारः पृच्छति, नास्ति दोषः, कथय । )
वृद्धा— कथं ववहारो ? जइ एव्वं, ता सुणन्तु अज्जमिस्सा । सो क्खु, सत्यवाह-विणअदत्तस्स णत्तिओ, साअरदत्तस्स तणओ, सुगहिदणा-महेओ अज्ज चारुदत्तो णाम सेट्ठिचत्तरे पडिवसदि; तहिं मे दारिआ जोव्वणसुहं अणुभवदि । ( कथं व्यवहारः ? यद्येवं तदा शृण्वन्तु आर्यमिश्राः । स खलु सार्थवाहविनयदत्तस्य नप्ता, सागरदत्तस्य तनयः, सुगृहीतनामधेय आर्यचारुदत्तो नाम श्रेष्ठिचत्वरे प्रतिवसति, तत्र मे दारिका यौवनसुखमनुभवति । )
शकार—( आक्षेपसहित ) आ गयी हो बूढ़ी कुट्टिनी, आ गई हो ?
अधिकरणिक— अरे ! तो तुम क्या वसन्तसेना की माता हो ?
वृद्धा— जी हाँ ।
अधिकरणिक— इस समय वसन्तसेना कहाँ गयी है ?
वृद्धा— मित्र के घर ।
अधिकरणिक— उसके मित्र का क्या नाम है ?
वृद्धा—(अपने में) हाय ! हाय ! यह तो अति लज्जा की बात है । (प्रकट में) यह बात तो साधारण लोगों के द्वारा पूछने की है, न कि न्यायाधिकारियों के द्वारा ।
अधिकरणिक— लजाने की कोई बात नहीं है । यह तो मुकदमा पूछ रहा है ।
श्रेष्ठो और कायस्थ— मुकदमा पुछवा रहा है, कोई दोष नहीं है, कहो कहो ।
वृद्धा— क्या मुकदमा ? यदि ऐसी बात है तो सज्जनों ! सुनिये । सार्थवाह-विनयदत्त के नाती ( पौत्र ), सागरदत्त के पुत्र, स्वनामधन्य आर्य चारुदत्त श्रेष्ठियों के मुहल्ले में रहते हैं । वहाँ मेरी बेटी जवानी का सुख उठा रही है ।
नवमोऽङ्कः ५२३
शकारः—शुदं अज्जेहिं ? लिहीअदु एदे अक्खला । चालुदत्तेण शह मम विवादे । ( श्रुतमार्थैः ? लिख्यन्तामेतान्यक्षराणि । चारुदत्तेन सह मम विवादः । )
श्रेष्ठिकायस्थौ—चारुदत्तो मित्तो त्ति णत्थि दोसो । ( चारुदत्तो मित्रमिति नास्ति दोषः । )
अधिकरणिकः—व्यवहारोऽयं चारुदत्तमवलम्बते !
श्रेष्ठिकायस्थौ—एव्वं विअ । ( एवमिव )
अधिकरणिकः—धनदत्त ! ‘वसन्तसेना आर्यचारुदत्तस्य गृहं गतेति’ लिख्यतां व्यवहारस्य प्रथमः पादः । कथमार्थचारुदत्तोऽपि अस्माभिराह्वयितव्यः । अथवा व्यवहारस्तमाह्वयति । भद्र शोधनक ! गच्छ, आर्यचारुदत्तं स्वैरमसम्भ्रान्तमनुद्विग्नं सादरमाहूय ‘प्रस्तावेनाधिकरणिकस्त्वां द्रष्टुमिच्छति’ इति ।
शकार—श्रीमन् ! आप लोगों ने सुना ? इन अक्षरों को लिख लो । चारुदत्त के साथ मेरा मुकदमा है ।
टीका—द्विविधः = द्वौ प्रकारौ यस्य तादृशः, वाक्यानुसारेण = श्रुतवाक्य-प्रतिपादितार्थतात्पर्य्यानुसारेण, अनुद्वेजयन् = वसन्तसेनायाः वधं श्रावयित्वा तस्या उद्वेगं न कारयन्नित्यर्थः, यौवनम् = यौवनजन्यसुखमित्यर्थः, शब्दापयति = आकारयति, अत्र पुगागमश्चिन्त्यः, मोहपरवशम् = किंकर्त्तव्यविमूढम्, थरथरायते = कम्पते, भावमिश्राणाम् = विद्वद्वर्याणाम्, वृद्धकुट्टिनि = वृद्धा = जराग्रस्ता चासौ कुट्टिनी = शम्भली, तत्सम्बुद्धौ रूपम्, परनारी परपुंसा योजने दक्षेति भावः, प्रच्छनीयः = प्रष्टुं योग्यः, बहुत्र ‘पृच्छनीयः’ इति सम्प्रसारणघटितप्रयोगो दृश्यते सोऽशुद्धः कितादिपरत्वाभावात् सम्प्रसारणस्याप्राप्तेः, व्यवहारः = विवादः ।
शब्दार्थ—आह्वायितव्यः = बुलाना चाहिये । स्वैरम् = मन्द मन्द, असम्भ्रान्तम् = बिना घबड़ाहट के, अनुद्विग्नम् = उद्वेगरहित, प्रस्तावेन = किसी प्रसङ्ग से ।
अर्थ—श्रेष्ठी और कायस्थ—चारुदत्त मित्र हैं, इसमें कोई दोष नहीं है ।
अधिकरणिक—यह विवाद-निर्णय चारुदत्त की अपेक्षा करता है ।
श्रेष्ठी और कायस्थ—ऐसा ही है ।
अधिकरणिक—धनदत्त ! ‘वसन्तसेना आर्य चारुदत्त के घर गयी’ यह मुकदमा की [ बयान की ] पहली पंक्ति लिख लो । क्या हमें चारुदत्त को भी बुलाना चाहिये । अथवा विवादनिर्णय ही उसे बुला रहा है । भद्र शोधनक ! जाओ, आर्य चारुदत्त को धीरे धीरे बिना घबड़ाहट के आदरपूर्वक बुला लाओ—‘प्रसंगवशात् न्यायाधिकारी आपका दर्शन करना चाहते हैं ।’
५२४ मृच्छकटिकम्
**शोधनकः--**जं अज्जो आणवेदि। (यदार्य आज्ञापयति।) (इति निष्क्रान्तश्चारुदत्तेन सह प्रविश्य च) एदु एदु अज्जो। (एतु एतु आर्यः।)
चारुदत्तः--(विचिन्त्य)
परिज्ञातस्य मे राज्ञा शीलेन च कुलेन च यत्सत्यमिदमाह्वानमवस्थामभिशङ्कते॥ ८॥
**शोधनक--**आपकी जैसी आज्ञा। (यह कह कर निकल कर और चारुदत्त के साथ प्रवेश करके) आइये, आर्य आइये।
**टीका--**धनदत्त=इदं कायस्थलेखकस्य नाम, व्यवहारस्य=विवादस्य, तद्विषयककथनस्य इत्यर्थः, पादः=अंशः, आह्वयितव्यः=आकारयितव्यः, स्वैरम्=धीरम्, असम्भ्रान्तम्=अत्वरम्, अनुद्विग्नम्=अव्याकुलम्, तथा वक्तव्यं येन चारुदत्तः स्वाभाविकीं दशां न परित्यजेदिति तद्भावः, सादरम्=ससम्मानम्, प्रस्तावेन=केनचित् प्रसङ्गेन, कुत्रचित् विवादनिर्णये भवदुपस्थितेरपेक्षणादित्यर्थः।
**अन्वयः--**राज्ञा, कुलेन, शीलेन, च, परिज्ञातस्य, मे, यत्, इदम्, आह्वानम्, तत्, सत्यम्, अवस्थाम्, अभिशङ्कते॥ ८॥
**शब्दार्थ--**राज्ञा = राजा पालक द्वारा, कुलेन=कुलसे, च=और, शीलेन=स्वभावसे, परिज्ञातस्य=अच्छी तरह जाने गये, मे=मेरा, यत्=जो, इदम्=यह, आह्वानम्=बुलावा है, सत्यम्=निश्चितरूप से, अवस्थाम्=दशाको, दरिद्रता को, अभिशङ्कते=सन्दिग्ध कर रहा है, [दरिद्रता के कारण किसी भी दोष को मुझ पर लगाया जाना सम्भव है।] ॥ ८॥
अर्थ--चारुदत्त--(सोंचकर)
राजा (पालक) के द्वारा कुल और आचरण से अच्छी प्रकार परिचित मेरा यह बुलाया जाना सचमुच दरिद्रता के कारण शंका पैदा करता है॥ ८॥
**टीका--**अकारणे राज्ञाऽऽह्वाने वितर्कमाह चारुदत्तः--राज्ञेति। राज्ञा=नृपेण, शीलेन=चरित्रेण, कुलेन=वंशेन, च, परिज्ञातस्य=सुपरिचितस्य, यत् इदम्=साम्प्रतं क्रियमाणम्, आह्वानम् = अकारणाहूतिः, सत्यम् = निश्चितम्, अवस्थाम् = दशाम्, दारिद्र्यम्, अभिशङ्कते=सन्देग्धि। मम दारिद्र्यमभिलक्ष्य कस्मिन्नपि विषये मदीय-दोषं तर्कयति, यतो हि दोषः सहसा दरिद्रमेवाश्रयति, न तु धनिनम्, दारिद्र्यस्य सर्वदोषैकहेतुत्वादिति तद्भावः। पथ्यावक्त्रं वृत्तम्॥ ८॥
**विमर्श--**यहाँ 'आह्वानम्' को कर्तृपद समझना चाहिये। राजा चारुदत्त के बारे में सभी कुछ जानता है। फिर भी बुलाया जाना उसकी गरीबी का अनुचित लाभ उठाने के लिये हो सकता है। क्योंकि गरीब पर सभी दोष मढ़े जा सकते हैं, यह शंका चारुदत्त के मन में उठती है॥ ८॥
नवमोऽङ्कः ५२५
( सवितर्कं स्वगतम् । )
ज्ञातो हि किन्नु खलु बन्धनविप्रयुक्तो मार्गागतः प्रवहणेन मयाऽपनीतः । चारेक्षणस्य नृपतेः श्रुतिमागतो वा येनाहमेवमभियुक्त इव प्रयामि ॥ ६ ॥
अथवा, किं विचारितेन, अधिकरणमण्डपमेव गच्छामि। भद्र शोधनक ! अधिकरणस्य मार्गमादेशय ।
**अन्वयः--**बन्धनविप्रयुक्तः, मार्गागतः, सः, मया, प्रवहणेन, अपनीतः, खलु, किन्नु, ज्ञातः, वा, चारेक्षणस्य, नृपतेः, श्रुतिम्, आगतः, येन, अहम्, अभियुक्तः, इव, प्रयामि ॥ ६ ॥
**शब्दार्थ--**बन्धनविप्रयुक्तः = कारागार से भागा हुआ, मार्गागतः = सड़क पर आया हुआ, सः = वह, (आर्यक), मया = मेरे (चारुदत्त) के द्वारा, प्रवहणेन = गाड़ी से, अपनीतः = पहुँचा (भगा) दिया गया, खलु = निश्चित रूप से, किन्नु = क्या, ज्ञातः = (लोगों के द्वारा) जान लिया गया, वा = अथवा, चारेक्षणस्य = गुप्तचररूपी नेत्रोंवाले, नृपतेः = राजा के, श्रुतिम् = श्रवण में, आगतः = आगया, येन = जिससे, मै = चारुदत्त, अभियुक्तः = अपराधी, इव = के समान, प्रयामि = जा रहा हूँ ॥ ६ ॥
अर्थ-- (तर्कपूर्वक अपने में)
जेल से भागा हुआ, सड़क पर आया हुआ वह (आर्यक) मैंने (अपनी) गाड़ी से कहीं भगा दिया--यह क्या लोगों को मालूम हो गया ? अथवा गुप्तचर-रूपी नेत्रोंवाले राजा के कान में (समाचार) पहुँच गया जिसके कारण मैं अपराधी के समान जा रहा हूँ ॥ ६ ॥
**टीका--**चारुदत्त आह्वानकारणविषये वितर्कते--ज्ञात इति । बन्धनात्= कारागारात्, **विप्रयुक्तः=**पलायितः, विमुक्तः, ततः, मार्गागतः मार्गे = राजमार्गे, **मार्गात् वा, आगतः=**उपस्थितः, **सः=**आर्यकनामा गोपालपुत्रकः, **मया=**चारुदत्तेन, **प्रवहणेन=**स्वशकटेन, अपनीतः = अपसारितः, स्थानान्तरं प्रापितः, **खलु=**निश्चयेन, **किं नु ज्ञातः=**परिज्ञातः किं नु ? अपि सर्वैः जनैः ज्ञातः, सर्वे जनाः परम्परया ज्ञात्वा राजनं प्रकटितवन्तः किम् ? **वा=**अथवा, **चारेक्षणस्य=**चारचक्षुषः, **नृपतेः=**राज्ञः, **श्रुतिम्=**श्रवणम्, **आगतः=**प्राप्तः, चारैर्मदीयाचारितं श्रुतवान् किम् ? **येन=**येन कारणेन, **अहम्=**चारुदत्तः, **एवम्=**अनेन प्रकारेण, **अभियुक्तः=**अपराधी, **इव=**यथा, **गच्छामि=**व्रजामि, न्यायालये इति शेषः । अत्राभियोगसम्भावनायाः स्फुटत्वा-दुत्प्रेक्षालंकार इति बोध्यम् । वसन्ततिलकं वृत्तम् ॥ ६ ॥
**अर्थ--**अथवा सोंचने से क्या लाभ ? न्यायालय की ओर ही जा रहा हूँ । (प्रकटरूप में) भद्र शोधनक ! न्यायालय का रास्ता बतलाओ ।
५२६ मृच्छकटिकम्
**शोधनकः—**एदु एदु अज्जो । ( एतु एतु आर्यः । ) ( इति परिक्रामतः । ) चारुदत्तः—( सशङ्कम् ) तत् किमपरम् ?
रुक्षस्वरं वाशति वायसोऽयममात्यभृत्या मुहुराह्वयन्ति । सव्यञ्च नेत्रं स्फुरति प्रसह्य ममानिमित्तानि हि खेदयन्ति ॥ १० ॥
**शोधनकः—**एदु एदु अज्जो सैरं असम्भन्तं । ( एतु एतु आर्यः स्वैरम-सम्भ्रान्तम् । ) चारुदत्तः—( परिक्रम्याग्रतोऽवलोक्य च )
शुष्कवृक्षस्थितो ध्वाङ्क्ष आदित्याभिमुखस्तथा । मयि चोदयते वामं चक्षुर्धोरमसंशयम् ॥ ११ ॥
**शोधनक—**आइये, आइये श्रीमान् । ( दोनों घूमते हैं । )
**अन्वयः—**अयम्, वायसः, रुक्षस्वरम्, वाशति, अमात्यभृत्याः, मुहुः, आह्वयन्ति, च, मम, सव्यम्, नेत्रम्, च, स्फुरति, अनिमित्तानि, हि, प्रसह्य, खेदयन्ति ॥ १० ॥
**शब्दार्थ—**अयम्=यह, वायसः=कौवा, रुक्षस्वरम्=रूखी कर्कश आवाज में, वाशति=बोल रहा है, काँव-काँव कर रहा है, अमात्यभृत्याः=सचिवों के नौकर, मुहुः=बार-बार, आह्वयन्ति=बुला रहे हैं, मम=मेरा, चारुदत्त का, सव्यम्=वाँया, नेत्रम्=आँख, स्फुरति=फड़क रही है, हि=निश्चित रूप से, अनिमित्तानि=अपशकुन, खेदयन्ति=दुखी बना रहे हैं ॥ १० ॥
अर्थ – चारुदत्त —( शंकासहित ) तो यह और क्या ?
कौवा रूखी बोली में आवाज ( काँव-काँव ) कर रहा है । सचिवों के सेवक बार-बार बुला रहे हैं । मेरी बाँयी आँख फड़क रही है । निश्चित ही अपशकुन मुझे दुखी बना रहे हैं ॥ १० ॥
**टीका—**गमन-समयेऽपशकुनं दृष्ट्वा उद्वेगं प्रकटयति चारुदत्तः–रूक्षेति । **अयम्=**पुरो दृश्यमानः, **वायसः=**काकः, **रूक्षस्वरम्=**कर्कशम्, **वाशति=**शब्दं करोति, अमात्यानाम् = सचिवानाम् भृत्याः = सेवकाः, मुहुः = बारम्बारम्, आह्वयन्ति= आकारयन्ति, **मम=**चारुदत्तस्य, सव्यम् = वामम्, **नेत्रम्=**चक्षुः, **च, स्फुरति=**स्पन्दते, **हि=**निश्चयेन, अनिमित्तानि = अपशकुनानि, **खेद्यन्ति=**उद्वेजयन्ति, मम खेदयन्ती-त्यन्वये तु सम्बन्धसामान्ये षष्ठी बोध्या । माम् खेदयन्तीत्यर्थो बोध्यः । पुंसां वामाङ्गस्फुरणमनिष्टसूचकमिति वचनादत्र चारुदत्तस्य चिन्तोत्थानं बोध्यम्, उपजातिर्वृत्तम् ॥ १० ॥
**अर्थ—शोधनक-**आइये आर्य, धीरे-धीरे निश्चिन्त होकर आइये ।
**अन्वयः—**शुष्कवृक्षस्थितः, तथा, आदित्याभिमुखः, ध्वाङ्क्षः, मयि, वामम्, चक्षुः, घोरम्, चोदयते, इति, असंशयम् ॥ ११ ॥
navamo'ṅkaḥ ५२७
( पुनरन्यतोऽवलोक्य । ) अये ! कथमयं सर्पः ?
मयि विनिहितदृष्टिर्भिन्ननीलाञ्जनाभः स्फुरित-विततजिह्वः शुक्लदंष्ट्राचतुष्कः । अभिपतति सरोषो जिह्मिताध्मातकुक्षि- र्भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः ॥ १२ ॥
शब्दार्थ--शुष्कवृक्षस्थितः=सूखे पेड़ पर बैठा हुआ, तथा=और, आदित्याभिमुखः = सूर्य की ओर मुह किये हुये, ध्वाङ्क्षः = कौवा, मयि=मेरे ( चारुदत्त के ) ऊपर, वामम्=बांयीं, चक्षुः = आँख, घोरम् = घोररूप से, चोदयते = डाल रहा है, इति = यह, असंशयम्=निश्चित है ॥ ११ ॥
अर्थ—चारुदत्त--( घूमकर और आगे देख कर )
सूखे पेड़ पर बैठा हुआ और सूर्य की ओर मुख किये हुये कौवा मेरे ऊपर बाँयीं आँख भयानक रूप से डाल रहा है, यह निश्चित है ॥ ११ ॥
टीका - पूर्वश्लोकोक्तमेवापशकुनं भङ्ग्यन्तरेण विशदीकृत्याभिदधाति - शुष्केति । शुष्के=नीरसे, पल्लवादिरहिते, वृक्षे=पादपे, स्थितः = आसीनः, तथा=च, आदित्याभिमुखः = सूर्यस्याभिमुखः, ध्वाङ्क्षः = काकः, मयि = चारुदत्ते, वामम्= सव्यम्, चक्षुः = नेत्रम्, घोरम्=भयानकं यथा स्यात् तथा, चोदयते=निक्षिपति, इति, असंशयम्=असन्दिग्धम्, अस्ति । एवञ्च तादृशवायसावलोकनं महदनिष्टकरमिति चारुदत्तस्याशयः । घोरमिदं चक्षुषोऽपि विशेषणं सम्भवतीति बोध्यम् ॥ ११ ॥
अन्वयः--मयि, विनिहितदृष्टिः, भिन्ननीलाञ्जनाभः, स्फुरितविततजिह्वः, शुक्लदंष्ट्राचतुष्कः जिह्मिताध्मातकुक्षिः, मे, मार्गम्, आक्रम्य, सुप्तः, अयम्, भुजगपतिः, सरोषः, अभिपतति ॥ १२ ॥
शब्दार्थ--मयि=मेरे [ = चारुदत्त के ] ऊपर, विनिहितदृष्टिः=आँख गड़ाये हुये, भिन्ननीलाञ्जनाभः = घिसे हुये काले काजल के समान कान्तिवाला, स्फुरित-विततजिह्वः=फैली हुई लम्बी जीभ वाला, शुक्लदंष्ट्राचतुष्कः = सफेद [ चमकती हुई ] चार दाढ़ों वाला, जिह्मिताध्मातकुक्षिः = टेड़े और फूले हुये पेट वाला, तथा, मे=मेरे=चारुदत्त के, मार्गम्=रास्ते को, आक्रम्य = घेर कर, सुप्तः=लेटा हुआ, अयम्=यह, भुजगपतिः=विशाल साँप, सरोषः = गुस्सा के साथ, अभिपतति = मेरी ओर आ रहा है ॥ १२ ॥
अर्थ--( पुनः दूसरी ओर देखकर ) अरे ! क्या यह साँप ?
मेरे ऊपर आंख गड़ाये हुये, घिसे हुये काजल के समान नीले रंगवाला, फैली और हिलती हुई जीभ वाला, सफेद चमकती हुई चार दाढ़ों वाला, टेढ़े और फूले
५२८ मृच्छकटिकम्
अपि च, इदम्—
स्खलति चरणं भूमौ न्यस्तं न चार्द्रतमा मही स्फुरति नयनं वामो बाहुर्मुहुश्च विकम्पते । शकुनिरपरश्चायं तावद्विरौति हि नैकशः कथयति महाघोरं मृत्युं न चात्र विचारणा ॥ १३ ॥
हुये पेट वाला, मेरे रास्ते को घेर कर लेटा हुआ यह विशाल साँप क्रोध युक्त होकर मेरी ओर आ रहा है ॥ १२ ॥
टीका—अन्यदपि अपशकुनमाह-मयीति । मयि=चारुदत्ते, तस्योपरि इत्यर्थः, विनिहिता=पातिता, दृष्टिः = नेत्रम्, येन सः, भिन्नम् = घृष्टम्, नीलम्=नीलवर्णम्, यत् अञ्जनम् = कज्जलम्, तस्य आभा=कान्तिः इव आभा यस्य सः, अतिकृष्ण इति भावः, स्फुरिता=स्पन्दिता, वितता=विस्तृता, च, जिह्वा=रसना यस्य सः, शुक्लम्= उज्ज्वलम् दंष्ट्राणां चतुष्कम् = चतुष्टयं यस्य सः, जिह्मितः = वक्रीकृतः, आध्मातः= वायुना पूरितः स्फीत इत्यर्थः, कुक्षिः = उदरं यस्य तादृशः, तथा, मे = चारुदत्तस्य, मार्गम्=पन्थानम्, आक्रम्य = व्याप्य, सुप्तः = शयितः वर्तमान इति भावः, अयम्= पुरोवर्ती, भुजगपतिः = नागराजः, विशालसर्प इति भावः, सरोषः = सक्रोधः, सन्, अभिपतति=सम्मुखमागच्छतीत्यर्थः । एवञ्च तादृशसर्पस्य सम्मुखागमनमतीवानिष्ट-सूचकमिति भावः । अत्र स्वभावोक्त्यलंकारः, मालिनी वृत्तम् ॥ १२ ॥
अन्वयः—भूमौ, न्यस्तम्, ( इदम्, ) चरणम्, स्खलति, मही, च, आर्द्रतमा, न, नयनम्, स्फुरति, वामः, बाहुः, च मुहुः, विकम्पते, अयम्, अपरः, शकुनिः, च, तावत्, नैकशः, विरौति, ( इदं सर्वम् ) महाघोरम्, मृत्युम्, कथयति, अत्र, च, विचारणा, न, [ वर्तते ] ॥ १३ ॥
शब्दार्थ—भूमौ=पृथ्वी पर, न्यस्तम्=रखा हुआ, ( इदम्=यह, ) चरणम्=पैर, स्खलति=फिसल रहा है, (किन्तु) च=और, मही=पृथिवी, आर्द्रतमा=अधिक गीली, न=नहीं, है, नयनम्=आँख, (बांयी आँख), स्फुरति=फड़क रही है, च=और, वामः= बाँया, बाहुः = हाथ, मुहुः = बार बार, विकम्पते=कांप रहा है, च =और, अयम्= यह, अपरः = दूसरा, शकुनिः = पक्षी [ अमंगलसूचक पक्षी ] . तावत् = वास्तव में, नैकशः = बार-बार, विरौति=चिल्ला रहा है, [ इदम्=यह, सर्वम् = सभी कुछ ] महाघोरम्=भयानक, मृत्यु = मौत, ( मृत्युतुल्य कष्ट ), कथयति=कह रहा है, अत्र च=और इस विषय में, विचारणा = विचार, न =नहीं ( करना है ) ॥ १३ ॥
अर्थ—और भी, यह— जमीन पर रखा हुआ ( यह ) पैर फिसल रहा है, किन्तु जमीन अधिक गीली ( फिसलने लायक ) नहीं है । ओर ( बाँयी ) आँख फड़क रही है, बाँया हाथ भी
नवमोऽङ्कः ५२६
सर्वथा देवताः स्वस्ति करिष्यन्ति ।
शोधनकः--एदु एदु अज्जो । इमं अधिकरणमण्डवं पविसदु अज्जो ।
( एतु एतु आर्यः । इममधिकरणमण्डपं प्रविशतु आर्यः । )
चारुदत्तः---( प्रविश्य समन्तादवलोक्य ।) अहो ! अधिकरणमण्डपस्य परा श्रीः । इह हि—
चिन्तासक्त-निमग्न-मन्त्रि-सलिलं दूतोर्मिशङ्खाकुलं
पर्यन्त-स्थित-चार-नक्र-मकरं नागाश्व-हिंस्राश्रयम् ।
नाना-वाशक-कङ्क-पक्षि-रुचिरं कायस्थ-सर्पास्पदं
नीति-क्षुण्ण-तटञ्च राज-करणं हिंस्रैः समुद्रायते ॥ १४ ॥
काँप रहा है। और यह [ अमंगलसूचक ] दूसरा पक्षी भी बार-बार चिल्ला रहा है। ( यह सभी कुछ ) महाघोर मृत्यु ( या तत्तुल्य ) कष्ट की सूचना दे रहा है, इसमें विचार करने की कोई बात नहीं है ॥ १३ ॥
टीका--अपरमपि अपशकुनमाह-स्खलतीति। भूमौ = पृथिव्याम्, न्यस्तम्= स्थापितम्, चरणम्=पादः, स्खलति=भ्रश्यति, च=किन्तु, मही-पृथ्वी, आर्द्रतमा=अत्यार्द्रा, न=नैव, वर्तते, पृथिव्या आर्द्रत्वाभावेऽपि चरणस्खलनमनिष्टकारकमिति भावः, नयनम्=वामं चक्षुः, स्फुरति=स्पन्दते, च=तथा, वामः=दक्षिणेतरः, बाहुः=भुजः, मुहुः=बारंवारम्, विकम्पते=स्फुरति, अयम्=पुरोवर्त्ती, अपर =अमङ्गलसूचकोऽन्यः, शकुनिः=पक्षी, तावत्=वस्तुतः, नैकशः=मुहुर्मुहुः, विरोति=कुत्सितं शब्दायते, [ इदं सर्वम् ], महाघोरम्=अतिदारुणम्, मृत्युम्=मरणम्, तत्तुल्यकष्टं वा, कथयति= सूचयति, अत्र च=अस्मिन् विषये च, विचारणा=विचारणीयता, संशयो वा, न=नैव, वर्तते । एवञ्चैतादृशानिमित्ते सति मम मृत्युर्ध्रुव इति बोध्यम् । अत्रानेकालंकाराणां सांकर्य बोध्यम् । हरिणी वृत्तम्-न समरसला गः षड्वेदैर्हयैर्हरिणी मता ॥ १३ ॥
अर्थ---देवता लोग हर तरह कल्याण करेंगे ।
शोधनक---आइये आर्य, आइये । आर्य इस न्यायालय में प्रवेश करिये ।
अन्वयः--चिन्तासक्त-निमग्न-मन्त्रि-सलिलम्, दूतोर्मिशङ्खाकुलम्, पर्यन्तस्थित-चारनक्रमकरम्, नागाश्वहिंस्राश्रयम्, नानावाशककङ्कपचिरचितम्, कायस्थसर्पास्पदम्, नीतिक्षुण्णतटम्, च, राजकरणम्, हिंस्रैः, समुद्रायते ॥ १४ ॥
शब्दार्थ---चिन्तासक्त-निमग्नमन्त्रिसलिलम् = [ घटना की सत्यता की ] चिन्ता में लगे और डूबे हुये मन्त्री ही जिसमें जल है, दूतोमिशंखाकुलम्=जो दूत-रूपी लहरों ओर शङ्खों से व्याप्त है, पर्यन्तस्थित-चारनक्रमकरम्=जिसमें चारों ओर स्थित गुप्तचररूपी घड़ियाल ओर मगर हैं, नागाश्वहिंस्राश्रयम्=हाथी और घोड़े रूपी हिंसक जीवों का जो आश्रय-स्थान है, नानावाशककंकपक्षिरचितम्=जो
३४ मृ०
५३० मृच्छकटिकम्
भवतु । ( प्रविशन् शिरोघातमभिनीय सवितर्कम् ) अहह ! इदमपरम् ।
सव्यं मे स्पन्दते चक्षुर्विरौति वायसस्तथा । पन्थाः सर्पेण रुद्धोऽयं स्वस्ति चास्मासु दैवतः ।। १५ ।।
अनेक प्रकार से बोलने वाले=वादी-प्रतिवादीरूपी कंकपक्षियों से भरा हुआ है, कायस्थसर्पास्पद्म्=जो कायस्थ रूपी साँपों का घर है, नीतिक्षुण्णतटम्=जिसका नीतिरूपी किनारा टूटा हुआ है, ऐसा, राजकरणम्=न्यायालय, हिंस्रैः=हिंसक जीवों से, समुदायते=समुद्र के समान प्रतीत हो रहा है ।।१४।।
अर्थ चारुदत्त--(प्रवेशकर चारों ओर देखकर) ओह ! इस न्यायालय की परम सुन्दरता है । क्योंकि यहाँ--
[ घटना की सत्यता की जानकारी की ] चिन्ता में लगे और डूबे हुये मन्त्री ही जिसमें जल हैं, जो दूतरूपी ( सन्देशवाहक लोगरूपी ) लहरों तथा शंखों से भरा हुआ है, जिसमें सभी ओर विद्यमान गुप्तचर रूपी घड़ियाल और मगर हैं, जो [ अपने-अपने पक्ष के समर्थन में ] तरह-तरह से बोलने वाले=वादी-प्रतिवादी रूपी कंक पक्षियों का आश्रय है, जो कायस्थरूपी साँपों का घर है, जिसका नीति रूपी किनारा टूट चुका है, ऐसा राजा के न्याय का स्थान=कचहरी हिंसक लोगों के कारण समुद्र के समान प्रतीत हो रहा है ।। १४ ।।
**टीका--**साम्प्रतं न्यायालयस्य दुष्टत्वं प्रतिपादयति-चिन्तेति । चिन्तायाम्=घटनायास्तत्त्वार्थज्ञानविषये, आसक्ताः=प्रवृत्ताः, अत एव निमग्नाः=गाढनिविष्टाः, मन्त्रिणः=सचिवाः एव मलिलानि=जलानि यस्मिन् तत्, दृढतासम्पादनाय 'आसक्त-निमग्न' इत्युभय-प्रयोगः, दूताः=सन्देशहरा एव ऊर्मयः=तरङ्गाः, शङ्खाः=कम्बवश्च यद्वा ऊर्म्याक्षिप्ताः शङ्खाः, तैराकुलम्=व्याप्तम्, तथा पर्यन्तेषु=प्रान्तभागेषु, मध्यदेशेषु वा, स्थिताः=विद्यमानाः चाराः=गुप्तचरा एव नक्राः=कुम्भीराः, मकराः=एतन्नाम्ना प्रसिद्धाः जलजन्तुविशेषाश्च यत्र तत्, तथा नागाः=गजाः अश्वाः=घोटकाश्च ते एव, हिंस्राः=क्रूरजन्तवः तेषाम् आश्रयम्=आवासस्थानम्, नाना=विविधाः वाशकाः=शब्दं कुर्वाणाः स्वामीष्टसिद्ध्यर्थं नानाविधभाषणदक्षाः वादिप्रभृतय एव कङ्कपक्षिणः=समुद्रतटचारिपक्षिविशेषाः तैः, रुचिरम्=मनोहरम्, कायस्थाः=लेखन-कर्मदक्षजातिविशेषोत्पन्नलोका एव सर्पाः=भुजङ्गाः, तेषाम् आस्पदम्=आश्रयस्थानम्, नीतिः=शासनशास्त्रम् एव क्षुण्णम्=भग्नम्, तटम्=कूलं यस्य तत्, हिंस्रैः=हिंसापरैः, स्वार्थसाधने इति शेषः, राजकरणम्=राज्ञः न्यायाधिकरणम्, समुदायते=समुद्रवद् आचरतीति भावः । अत्र रूपकमलङ्कारः, शार्दूलविक्रीडितं वृत्तम् ।।१४।।
**अन्वयः--**मे, सव्यम्, चक्षुः, स्पन्दते, तथा, वायसः, विरौति, अयम्, पन्थाः, च, सर्पेण, रुद्धः, अस्मासु, दैवतः, स्वस्ति (करिष्यति) ।।१५।।
नवमोऽङ्कः ५३१
तावत् प्रविशामि । ( इति प्रविशति । )
अधिकरणिकः--अयमसौ चारुदत्तः । य एषः--
घोणोन्नतं मुखमपाङ्गविशालनेत्रं नैतद्धि भाजनमकारणदूषणानाम् । नागेशु गोषु तुरगेषु तथा नरेषु नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ १६ ॥
शब्दार्थ— मे=मेरा, सव्यम्=बाँया, चक्षुः=आंख, स्पन्दते=फड़क रही है, तथा=और, वायसः=कौवा, विरोति=चिल्ला रहा है, च=और, अयम्=यह, पन्थाः=रास्ता, सर्पेण=साँप ने, रुद्धः=घेर लिया है, अस्मासु=हम लोगों पर, दैवतः=भाग्य, स्वस्ति=कल्याण, (करिष्यति=करेगा) ।।१५।।
अर्थ-- अच्छा, [ प्रवेश करता हुआ शिर की चोट लगने का अभिनय करके सोच-विचार-पूर्वक ] अहह ! यह दूसरा (अपशकुन ।
मेरी बाँयी आंख फड़क रही है तथा कौवा बार-बार चिल्ला रहा है, और इस सांप ने रास्ता घेर लिया है । भाग्य ही कल्याण करेगा ।।१५।।
टीका-- 'शिरोऽवघातेन सहैव पुनरपि अपशकुनं प्रकटयति -सव्यमिति । मे=मम चारुदत्तस्य, सव्यम्=वामम्, चक्षुः=नेत्रम्, स्पन्दते=स्फुरति, तथा, वायसः=काकः, विरोति=कुत्सितं शब्दायते, अयम्=पुरोवर्ती, पन्थाः=मार्गः, च, सर्पेण=विषधरेण, रुद्धः=आक्रान्तः, अस्मासु=चारुदत्तसम्बन्धिषु, दैवतः=भाग्यम् यद्वा, देवताः, स्वस्ति=कल्याणम्, करिष्यति=विधास्यतीति शेषः । देव एव देवता, स्वार्थे तल् ततः स्वार्थिक एव अण् प्रत्ययः । यद्वा देवतानां समूहः--इत्यर्थेऽण् प्रत्ययो बोध्यः । देवसमूहो मम कल्याणं विधास्यतीति तद्भावः । पथ्यावक्त्रं वृत्तम् ।।१५।।
विमर्श-- दैवतः--यह 'दैवतानि पुंसि वा' इस अमरकोष के अनुसार पुंलिङ्ग है । अथवा 'देवता एव दैवतः' यहाँ 'देवता' शब्द से 'प्रज्ञादिभ्योऽण्' सूत्र से पुनः स्वार्थिक अण् प्रत्यय है । अथवा देवतानां समूहः --इस अर्थ में अण् प्रत्यय करके 'देवसमूह' यह अर्थ करना चाहिये ।।१५।।
अर्थ -- तो तबतक प्रवेश करता हूँ । ( ऐसा कहकर प्रवेश करता है । )
अन्वयः-- घोणोन्नतम्, अपाङ्गविशालनेत्रम्, एतत्, मुखम्, अकारण-दूषणानाम्, भाजनम्, न, हि, [ भवितुम् अर्हति, ] हि, नागेषु, गोषु, तुरगेषु, तथा नरेषु, आकृतिः, सुसदृशम्, वृत्तम्, न, विजहाति ।।१६।।
शब्दार्थ-- घोणोन्नतम्=ऊँची नाकवाला, अपाङ्गविशालनेत्रम्=कोणभाग तक लम्बी आंखोंवाला, एतत्=यह, मुखम्=मुख, अकारणदूषणानाम्=बिना कारण के अपराध करने का, भाजनम्=पात्र, न हि=नहीं, [भवितुम् अर्हति=हो सकता है ।]
५३२ मृच्छकटिकम्
चारुदत्तः—भोः ! अधिकृतेभ्यः स्वस्ति । हंहो नियुक्ताः ! अपि कुशलं
हि=क्योंकि, नागेषु=हाथियों में, गोषु=गायों और बैलों में, तुरगेषु=घोड़ों में, तथा=और, नरेषु=मनुष्यों में, आकृतिः=आकार, स्वरूप, सुसदृशम्=अपने समान, वृत्तम्=आचरण को, न=नहीं, विजहाति=छोड़ती है ।।१६।।
**अर्थ—अधिकरणिक—**यही वे चारुदत्त हैं। जो यह—
ऊँची नाकवाला, किनारों तक लम्बे नेत्रों वाला यह मुख बिना किसी कारण के अपराधों का पात्र=करने वाला नहीं हो सकता। क्योंकि हाथियों में, गायों, बैलों में, घोड़ों में और मनुष्यों में सुन्दर आकार अपने योग्य आचरण को नहीं छोड़ता है। [ अर्थात् सुन्दर मुंहवाला यह चारुदत्त वसन्तसेना की हत्यारूपी घृणित काम को नहीं कर सकता । ] ।।१६।।
टीका—'यत्राकृतिस्तत्र गुणाः वसन्ती'ति प्रसिद्धसिद्धान्तेन सुरूपस्य चारुदत्तस्यायं वसन्तसेनाहत्यारूपोऽपराधो भवितुं नार्हतीति वक्तुमाह—घोणेति । उन्नता=उद्गता, घोणा=नासिका यस्मिन् तत् 'वाऽहिताग्न्यादिषु' इति सूत्रेण विशेषणस्य परनिपातः, उन्नतनासिकमिति भावः, 'अपाङ्गयोः=नेत्रप्रान्तयोः, विशाले=आयते, नेत्रे=चक्षुषी यस्य तादृशम्, आकर्णविशालनेत्रम्, एतत्=पुरोवर्ति, मुखम्=आननम्, अकारणदूषणानाम्=अहैतुकापराधानाम्, भाजनम्=पात्रम्, कर्तृ इति भावः, न हि=नैव, भवितुमर्हति, हि=यतो हि, नागेषु=गजेषु, गोषु=धेनुषु वृषभेषु च, गोशब्द उभयोरर्थयोः वाचीति बोध्यम्, तुरगेषु=अश्वेषु, तथा=एवम्, नरेषु=मनुष्येषु, आकृतिः=स्वरूपम्, सुसदृशम्=स्वानुरूपम्, वृत्तम्=आचरणम्, न=नैव, जहाति=परित्यजति । एवञ्चास्य चारुदत्तस्य सुन्दराकृतिरेवास्य निर्दोषत्वं प्रतिपादयतीति तद्भावः ।
अत्र प्रस्तुताप्रस्तुतानां नरनागादीनाम् आकृत्यनुरूपस्वभावापरित्यागरूपैकधर्माभिसम्बन्धात् दीपकालंकारः, अपि च पूर्वार्द्धप्रतिपादित-विशेषनरस्यैव चारुदत्तस्य परार्द्धगतेन 'नरेषु' इति कृत्वा सामान्येन समर्थनात्, सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासश्च इत्यनयोरन्योन्यसापेक्षतया संकर इति जीवानन्दः । शार्दूलविक्रीडितं वृत्तम् ।।१६।।
**शब्दार्थ—**अधिकृतेभ्यः=निर्णय करने के लिये नियुक्त न्यायाधीशों के लिये, नियुक्ताः=कर्मचारी, ससम्भ्रमम्=घबड़ाहट के साथ, स्त्रीघातकः=औरत का हत्यारा, न्याय्यः=न्याययुक्त, धर्म्यः=धर्मयुक्त, व्यवहारः=आचरण, प्रसक्तिः=लगाव, प्रणयः=साधारण प्रेम, प्रीतिः=विशेष प्रेम, सुनिक्षिप्तम्=अच्छी तरह लगाया, यौवनम्=जवानी ।
**अर्थ—चारुदत्त—**हे अधिकारियों ! आपका कल्याण हो । अरे कर्मचारियों !
नवमोऽङ्कः ५३३
भवताम् ?
अधिकरणिकः — (ससम्भ्रमम्) स्वागतमार्यस्य। भद्र शोधनक ! आर्यस्यासनमुपनय ।
शोधनकः — (आसनमुपनीय) एदं आसणं, एत्थ उवविसदु अज्ज। (इदमासनम्, अत्रोपविशतु आर्यः।)
(चारुदत्त उपविशति।)
शकारः — (सक्रोधम्) आगदेशि ले इत्थिआघादआ ! आगदेशि ? अहो ! णाए ववहाले ! अहो ! धम्मे ववहाले ! जं एदाह-इत्थिआघादकाह आशणे दीअदि (सगर्वम्) भोदु, णं दीअदु। (आगतोऽसि रे स्त्रीघातक ! आगतोऽसि ? अहो ! न्याय्यो व्यवहारः ! अहो ! धर्म्यो व्यवहारः, यदेतस्मै स्त्रीघातकाय आसनं दीयते। भवतु, ननु दीयताम्।)
अधिकरणिकः — आर्यचारुदत्त ! अस्ति भवतोऽस्या आर्याया दुहित्रा सह प्रसक्तिः, प्रणयः प्रीतिर्वा ?
चारुदत्तः — कस्याः ?
अधिकरणिकः — अस्याः। (इति वसन्तसेनामातरं दर्शयति।)
चारुदत्तः — (उत्थाय) आर्ये ! अभिवादये।
वृद्धा — जाद ! चिरं मे जीव। (स्वगतम्) अअं सो चारुदत्तो। सुणिक्खित्तं खु दारिआए जोव्वणं।
(जात ! चिरं मे जीव।) (अयं स चारुदत्तः। सुनिक्षिप्तं खलु दारिकाया यौवनम्।)
आप लोगों का कुशल तो है ?
अधिकरणिक — (घबड़ाकर, जल्दी से) आर्य का स्वागत है। भद्र शोधनक ! आर्यचारुदत्त के लिये आसन (कुर्सी) लाओ।
शोधनक — (आसन लाकर) यह आसन है। श्रीमान् ! इस पर बैठिये।
(चारुदत्त बैठ जाता है।)
शकार — (गुस्सा के साथ) अरे, औरत के हत्यारे ! आ गये हो, आ गये हो ? यह न्याययुक्त व्यवहार है जो इस औरत के हत्यारे को बैठने का आसन दिया जा रहा है ? (घमण्ड से) अच्छा, दे दीजिये।
अधिकरणिक — आर्य चारुदत्त ! इस वृद्धा की लड़की के साथ आपका लगाव, प्रेम या विशेष अनुराग है ?
चारुदत्त — किस की ?
अधिकरणिक — इसकी। (यह कहकर वसन्तसेना की माता को दिखाता है।)
चारुदत्त — (उठकर) आर्ये ! प्रणाम करता हूँ।
वृद्धा — बेटा ! चिरंजीवी रहो। (अपने में) यही वे चारुदत्त हैं। मेरी
५३४ | मृच्छकटिकम्
अधिकरणिकः--आर्य ! गणिका तव मित्रम् ? ( चारुदत्तो लज्जां नाटयति । )
शकारः--
लज्जाए भीलुदाए या चालित्तं अलिए ! णिगूह्रिदुं ।
शअं मालिअ अत्थकालणा दाणिं गूहदि ण तं हि भट्टके ॥ १७ ॥
( लज्जया भीरुतया वा चारित्रमलीक ! निगूहितुम् ।
स्वयं मारयित्वा अर्थकारणादिदानीं गूहति न तद्धि भट्टकः ॥ १७ ॥ )
लड़की ने अच्छी जगह अपनी जवानी लगाई ।
अधिकरणिक--आर्य ! गणिका आपकी मित्र है ? ( चारुदत्त लज्जा का अभिनय करता है । )
अन्वयः--अलीक ! अर्थकारणात्, स्वयंम्, मारयित्वा, इदानीम्, लज्जया, भीरुतया, वा, चारित्रम्, निगूहितुम्, (चेष्टसे) भट्टकः, तत्, न हि, निगूहति ॥१७॥
शब्दार्थः--रे अलोक ! = रे असत्यवादी, अर्थकारणात् = धन के कारण, स्वयंम् = अपने आप, मारयित्वा = मार कर, लज्जया = लज्जा से, वा = अथवा, भीरु-तया = डर के कारण, चारित्रम् = आचरण = अपने दुष्कृत को, इदानीम् = इस समय ( न्यायालय में ), निगूहितुम् = छिपाने के लिये ( चेष्टसे = चेष्टा कर रहे हो ) किन्तु, भट्टकः = स्वामी अथवा अधिकरणिक, तत् = उस ( तुम्हारे पाप कर्म ) को, न हि = नहीं, गूहति = छिपाता है, ( तुम्हारा पापाचरण छिपा कर मुक्त करना नहीं चाहता है । ) ॥१७॥
अर्थ--शकार--
अरे झूठे ! धन के [ लोभ के ] कारण स्वयं ( वसन्तसेना को ) मार कर लज्जा के कारण अथवा भय के कारण ( अपने ) पाप कर्म को छिपाने के लिये चेष्टा कर रहे हो । किन्तु स्वामी ( राजा, या न्यायाधिकारी ) उसे नहीं छिपाता है । ( तुम्हारा पाप चरित्र छिपा कर छोड़ना नहीं चाहता है । ) ॥१७॥
टीका--गणिकया सह प्रेमप्रकाशने लज्जमानं चारुदत्तमधिक्षिपति शकारः - लज्जयेति । रे अलीक ! = मिथ्यावादिन् !, अर्थस्य = धनस्य, कारणात् = हेतोः, स्वयंम् = आत्मना, मारयित्वा = हत्वा, लज्जया = त्रपया, वा = अथवा, भीरुतया = भयशीलत्वेन, इदानीम् = साम्प्रतं न्यायालये इत्यर्थः, चारित्रम् = चरित्रमेव चारित्रम्, स्वार्थे प्रज्ञादित्वादण् बोध्यः, वसन्तसेनाहत्यारूपं पापकर्म, निगूहितुम् = गोपायितुम्, चेष्टसे = यतसे इति शेषः । भट्टकः = राजा, अधिकरणिको वा, तत् = त्वदीयं पापकर्म, न हि = नैव, निगूहति = आवृणोति, तव पापाचरणं गोपायित्वा नैव त्वां
नवमोऽङ्कः ५३५
**श्रेष्ठिकायस्थौ--**अज्जचारुदत्त ! भणाहि, अलं लज्जाए, ववहाशो क्खु एसो। ( आर्यचारुदत्त ! भण, अलं लज्जया, व्यवहारः खल्वेषः । )
चारुदत्तः--(सलज्जम्) भो अधिकृताः ! मया कथमीदृशं वक्तव्यं यथा गणिका मम मित्रमिति । अथवा यौवनमत्रापराध्यति, न चारित्रम् ।
अधिकरणिकः--
व्यवहारः सविघ्नोऽयं त्यज लज्जां हृदि स्थिताम् ।
ब्रूहि सत्यमलं धैर्यं छलमात्र न गृह्यते ॥ १८ ॥
मोचयितुं यतते इति भावः । 'अलीकम्' इति पाठे तु 'चारित्रम्' इत्यस्य विशेषणं बोध्यम् । अत्र वैतालीयं वृत्तम् ॥ १७ ॥
अर्थ-- श्रेष्ठौ और कायस्थ—आर्य चारुदत्त ! कहो, लज्जा की कोई बात नहीं है यह मुकदमा है ।
चारुदत्त ए न्यायाधिकारियोँ ! मैं ऐसा कैसे कह सकता हूँ कि गणिका मेरी मित्र है । अथवा यहाँ यौवन [ जवानी ] अपराधी है न कि चरित्र ।
**अन्वयः--**अयम्, व्यवहारः, सविघ्नः, अतः, हृदि, स्थिताम्, लज्जाम्, त्यज, सत्यम्, ब्रूहि, धैर्यम्, अलम्, अत्र, छलम्, न गृह्यते ॥ १८ ॥
**शब्दार्थ--**अयम्=यह, व्यवहारः=मुकदमा, सविघ्नः=परेशानियों से भरा हुआ है, ( अतः=इस लिये ), हृदि=हृदय में, स्थिताम्=विद्यमान, लज्जाम्=लाज को, त्यज=छोड़ दो, सत्यम्=सच, ब्रूहि=बोलो, धैर्यम्=धैर्य, अलम्=व्यर्थ है, अत्र=यहाँ न्यायालय में, छलम्=कपट, न=नहीं, गृह्यते=माना जाता है ॥ १८ ॥
अर्थ--अधिकरणिक--
यह मुकदमा परेशानियों से भरा हुआ है, अतः हृदय में विद्यमान लज्जा को छोड़ दो । सच बोलो । धैर्य अनावश्यक है । [ अतः चुप रहना ठीक नहीं है । ] इस न्यायालय में छल-कपट नहीं माना जाता है ॥ १८ ॥
**टीका--**चारुदत्तं वक्तुं प्रेरयन्नाह-व्यवहारेति । अयम्=साम्प्रतं प्रचलितः, व्यवहारः=विवादः, अभियोगविचारः, सविघ्नः=बहुविधसंकट-परिपूर्णः, अस्ति, अतः हृदि=मनसि, स्थिताम्=वर्तमानाम् लज्जाम्=त्रपाम्, त्यज=जहि, सत्यम्=यथार्थम्, ब्रूहि=वद, धैर्यम्=गाम्भीर्यम्, मौनावलम्बनमिति भावः, अलम्=अनावश्यकम्, हानिकरमिति यावत्, अत्र=न्यायालये, छलम्=कपटादिकम्, न=नहि, गृह्यते=स्वीक्रियते। एवञ्च त्वया वास्तविकी घटना वर्णनीया येन शकारकृता-रोपस्य तत्वनिर्णये समर्थाः स्याम इति तदभिप्रायः । पथ्यावक्त्रं वृत्तम् ॥ १८ ॥
| ५३६ | मृच्छकटिकम् |
|---|
अलं लज्जया, व्यवहारस्त्वां पृच्छति।
**चारुदत्तः—**अधिकृत ! केन सह मम व्यवहारः ?
शकारः—(साटोपम्) अले ! मए शह ववहाले। (अरे ! मया सह व्यवहारः ।)
**चारुदत्तः—**त्वया सह मम व्यवहारः सुदुःसहः ।
**शकारः—**अले इत्थिआघादा ! तं तादिशिं लअणशदभूशणिअं वशन्त-शेणिअं मालिअ, शम्पदं कवड़कावड़िके भविअ णिगूहेशि ? ( अरे स्त्री-घातक ! तां तादृशीं रत्न-शत-भूषणिकां वसन्तसेनां मारयित्वा, साम्प्रत कपटका-पटिको भूत्वा निगूहसि । )
**चारुदत्तः—**असम्बद्धः खल्वसि ।
**अधिकरणिकः—**आर्य चारुदत्त ! अलमनेन । ब्रूहि सत्यम् । अपि गणिका तव मित्रम् ?
**चारुदत्तः—**एवमेव ।
**अधिकरणिकः—**आर्य ! वसन्तसेना क्व ?
**चारुदत्तः—**गृहं गता ।
**श्रेष्ठिकायस्थौ—**कधं गदा ? कदा गदा ? गच्छन्ती वा केण अणुगदा ? ( कथं गता ? कदा गता ? गच्छन्ती वा केन अनुगता ? )
**अर्थ—**लजाने की कोई बात नहीं है । विचारणीय अभियोग तुमसे पूछ रहा है ।
**चारुदत्त —**न्यायाधिकारिन् ! किसके साथ मेरा मुकदमा है ?
शकार —( घमण्ड से ) अरे ! मेरे साथ तुम्हारा मुकदमा है ।
**चारुदत्त —**तुम्हारे साथ मेरा मुकदमा अति कष्ट से सहन करने योग्य है अर्थात् मैं नहीं सह सकता ।
**शकार—**अरे औरत के हत्यारे ! अरे, उस प्रकार की सैंकड़ों रत्नों से सजी हुई वसन्तसेना को मार कर इस समय कपटपूर्वक छिपाने वाले बनकर [ अपना अपराध ] छिपा रहे हो ।
चारुदत्त — तुम ऊटपटांग बोलने वाले हो ।
**अधिकरणिक—**आर्य चारुदत्त ! इन बेकार की बातों से क्या ? सच सच बताइये, गणिका आपकी मित्र है ?
**चारुदत्त—**हाँ, ऐसा ही है ।
**अधिकरणिक—**आर्य ! वसन्तसेना कहाँ है ?
**चारुदत्त—**घर गयी है ।
**श्रेष्ठो ओर कायस्थ—**कैसे गयी ? कब गयी ? और किसके साथ साथ गयी ?
नवमोऽङ्कः ५३७
चारुदत्तः—( स्वगतम् ) किं प्रच्छन्नं गतेति ब्रवीमि ? श्रेष्ठिकायस्थौ--अज्ज ! कहेहि । ( आर्य कथय । ) चारुदत्तः—गृहं गता । किमन्यत ब्रवीमि । शकारः--ममकेलकं पुफ्फकरण्डकंजिण्णुज्जाणं पवेशिअ, अत्थणि- मित्तं बाहु-पाश-बलक्कालेण मालिदा । अए ! शम्पदं वदशि घलं गदेत्ति । ( मदीयं पुष्पकरण्डकजीर्णोद्यानं प्रवेश्य अर्थनिमित्तं बाहुपाशबलात्कारेण मारिता । अये ! साम्प्रतं वदसि--गृहं गतेति । ) चारुदत्तः--आः असम्बद्धप्रलापिन् !
अभ्युक्षितोऽसि सलिलैर्न बलाहकानां
चाषाग्रपक्षसदृशं भृशमन्तराले ।
मिथ्यैतदाननमिदं भवतस्तथापि
हेमन्तपद्ममिव निष्प्रभतामुपैति ॥ १६ ॥
चारुदत्त--( अपने में ) क्या यह कह दूँ कि छिपी हुयी गयी ?
श्रेष्ठी और कायस्थ--आर्य ! बताइये ।
चारुदत्त--घर गई। और क्या बताऊँ ।
शकार--मेरे पुष्पकरण्डक नामक जीर्ण उद्यान में ले जाकर धन के ( लोभ के ) कारण हाथों से गला दबाकर मार डाला । अरे ! इस समय कह रहे हो--'घर गयी है ।'
अन्वयः--अन्तराले, बलाहकानाम्, सलिलैः, चाषाग्रपक्षसदृशम्, भृशम्, न अभ्युक्षितः, असि, तथापि, भवतः, इदम्, आननम्, हि, हेमन्तपद्मम, इव, निष्प्रभ-ताम्, उपैति, अतः, एतत्, मिथ्या, अस्ति ॥ १६ ॥
शब्दार्थ--अन्तराले=अन्तरीक्ष में, बलाहकानाम्=बादलों के, सलिलैः=पानी से, चाषाग्रपक्षसदृशम्=चातक पक्षी के पंख के अग्रभाग के समान, भृशम्=अच्छी तरह, न=नहीं, अभ्युक्षितः=भीगे हुये, असि=हो, तथापि=फिर भी, भवतः=आपका, इदम्=यह, आननम्=मुँह, चेहरा, हि=निश्चितरूप से, हेमन्तपद्मम्=हेमन्त ऋतु के कमल, इव=के समान, निष्प्रभताम्=कान्तिहीनता को, उपैति=प्राप्त कर रहा है ॥ १६ ॥
अर्थ--चारुदत्त --ओह अनर्गलबकवादी !
अन्तरीक्ष में बादलों के पानी से चातक पक्षी के पंख के अग्रभाग की तरह खूब नहीं भीगे हो, फिर भी तुम्हारा यह मुंह हेमन्त ऋतु में कमल के समान मुरझाया हुआ हो रहा है अतः तुम्हारा यह कहना झूठ है ॥ १६ ॥
टीका--शकारस्य निष्प्रभं मुखं तस्यापराधित्वं व्यनक्तीति प्रतिपादयति चारुदत्तः - अभ्युक्षितेति । अन्तराले=अन्तरीक्षे, बलाहकानाम्=मेघानाम्, सलिलैः
५३८ मृच्छकटिकम्
अधिकरणिकः-- (जनान्तिकम्)
तुलनञ्चाद्रिराजस्य समुद्रस्य च तारणम् । ग्रहणञ्चानिलस्येव चारुदत्तस्य दूषणम् ॥ २० ॥
जलैः, चाषस्य=स्वर्णवातकस्य अग्रपक्षः=पक्षाग्रम्, तस्य, सदृशम्=तुल्यम्, यथा स्यात् तथा, भृशम्=अत्यधिकम्, न=नैव, अभ्युक्षितः=सिक्तः असि, तथापि=पूर्वोक्तस्थितौ सत्यामपि, भवतः = शकारस्य, इदमाननम्, हेमन्तपद्ममिव = हेमन्ताख्यर्तुसम्भवं कमलमिव, निष्प्रभताम्=मलिनताम्, उपैति=गच्छति । अतः, एतत्=शकारोक्त-मभियोगादिकं सर्वम्, मिथ्या=असत्यमिति तद्भावः । वसन्ततिलकं वृत्तम् ॥ १६ ॥
विमर्शः-इस श्लोक का अभिप्राय कुछ अस्पष्ट है। घबड़ाहट के कारण शकार के माथे पर पसीने की बूंदें निकल आयीं हैं और चेहरा मुरझा गया है। अतः उसका कथन असत्य प्रतीत होता है। क्योंकि बिना वर्षा के माथे पर बूंदें होना अस्वाभाविक है। इसी लिये चारुदत्त कहता है कि स्वर्ण चातक के समान तुम आकाश में नहीं उड़ रहे थे जिससे चेहरे पर पानी की बूंदें दिखाई पड़तीं। अतः अकारण पसीना आना और मुख का मुरझा जाना ही तुम्हारे कथन की असत्यता बता रहे हैं।
कहीं कहीं 'तथापि' के स्थान पर 'तथाहि' ऐसा पाठ है। उनके अनुसार ऐसा अन्वय करना चाहिये—एतत् मिथ्या अस्ति, तथाहि-वलाहकानाम्, सलिलैः, न, अभ्युक्षितः, असि, अन्तराले, चाषाग्रपक्षसदृशम्, भवतः, इदम्, आननम्, हेमन्त-पद्मम्, इव, निष्प्रभताम्, उपैति ॥ १९ ॥
अन्वयः-- अद्रिराजस्य, तुलनम्, समुद्रस्य, तारणम्, अनिलस्य, च, ग्रहणम्, इव, चारुदत्तस्य, दूषणम् ॥ २० ॥
शब्दार्थ-- अद्रिराजस्य=हिमालय को, तुलनम्=तोलना, समुद्रस्य=समुद्र को, तारणम्=तैरना, च=और, अनिलस्य=वायु को, ग्रहणम्=पकड़ना, इव=के समान, चारुदत्तस्य=चारुदत्त को, दूषणम्=दूषित करना है ॥ २० ॥
अर्थ--अधिकरणिक -- (जनान्तिक) हिमालय को तौलने, समुद्र को तैरकर पार करने और हवा को पकड़ने के समान चारुदत्त को दोषी बनाना है। [अर्थात् जैसे ये तीनों असम्भव हैं वैसे ही चारुदत्त का अपराधी होना भी असम्भव है ] ॥ २० ॥
टीका-- चारुदत्तस्य दोषित्वमसम्भवमिदं प्रतिपादयति—तुलनमिति । अद्रि-राजस्य=हिमालयस्य, तुलनम्=तुलया गुरुत्वनिरूपणमिति भावः, समुद्रस्य=सागरस्य, तारणम्=सन्तरणेन अपरपारगमनम्, तथा, अनिलस्य=वायोः, ग्रहणम्=हस्तादिना संयमनम्, इव=तुल्यम्, चारुदत्तस्य, दूषणम्=दोषारोपणम् । एवञ्च यथैतत् त्रितयं
नवमोऽङ्कः ५३९
( प्रकाशम् ) आर्यचारुदत्तः खल्वसौ कथमिदमकार्यं करिष्यति ।
( घोणेत्यादि ३।१६ श्लोकं पठति । )
शकारः--किं पक्खवादेण व्यवहाले दीशदि ? ( किं पक्षपातेन व्यवहारो दृश्यते ? )
अधिकरणिकः--अपेहि मूर्ख ! ।
वेदार्थान् प्राकृतस्त्वं वदसि न च ते जिह्वा निपतिता
मध्याह्ने वीक्षसेऽर्कं न तव सहसा दृष्टिर्विंचलिता ।
दीप्ताग्नौ पाणिमन्तः क्षिपसि स च ते दग्धो भवति नो
चारित्र्याच्चारुदत्तं चलयसि न ते देहं हरति भूः ॥२१॥
लोकेऽसम्भवं तथैव चारुदत्तस्योपरि हत्यारोपणमपि असम्भवमेवेति तद्भावः । अत्र मालोपमालंकारः । पथ्यावक्त्रं वृत्तम् ॥२०॥
विमर्श--जैसे कोई हिमालय को नहीं तौल सकता, तैर कर समुद्र नहीं पार कर सकता, हाथ से हवा नहीं पकड़ सकता उसी प्रकार चारुदत्त पर दोष नहीं लगाया जा सकता। अतः शकारकृत आरोप झूठा है ॥२०॥
अर्थ--( प्रकट रूप में ) ये आर्यचारुदत्त इस अनुचित काम को कैसे कर सकते हैं। ( "ऊँची नाक वाला, अपाङ्ग तक विशाल नेत्र वाला" आदि पूर्वोक्त ३।१६ वाँ श्लोक पढ़ता है ।)
शकार--क्या पक्षपातपूर्ण ढंग से मुकदमा विचारा जा रहा है ?
अन्वयः--त्वम्, प्राकृतः, [सन्] वेदार्थान्, वदसि, ते, जिह्वा, न च, निपतिता, मध्याह्ने, अर्कम्, वीक्षसे, तव, दृष्टिः, सहसा, न, विचलिता, दीप्ताग्नौ, अन्तः, पाणिम्, क्षिपसि, ते, स, च, दग्धः, नो, भवति, चारुदत्तम्, चारित्र्यात्, चलयसि, भूः, ते, देहम्, न, हरति ॥२१॥
शब्दार्थ--त्वम्=तू शकार, प्राकृतः=नीच, सन्=होता हुआ, वेदार्थान्=वेदप्रतिपादित अर्थों को, वदसि=कह रहे हो, ते=तुम्हारी, जिह्वा=जीभ, न च=नहीं, निपतिता=गिरी, मध्याह्ने=दोपहर में, अर्कम्=सूर्य को, वीक्षसे=देख रहे हो, तव=तुम्हारा, दृष्टिः=आँख, सहसा=अचानक, न=नहीं, विचलिता=चौंधिया गई है, दीप्ताग्नेः=जलती आग के, अन्तः=बीच में, पाणिम्=हाथ, क्षिपसि=डाल रहे हो, ते=तुम्हारा, स च=वह, हाथ, दग्धः=जला हुआ, नो=नहीं, भवति=होता है, चारुदत्तम्=चारुदत्त को, चारित्र्यात्=सदाचार से, चलयसि=गिराते हो, भूः=पृथ्वी, ते=तुम्हारी, देहम्=शरीर को, न=नहीं, हरति=हर रही है ॥२१॥
अर्थ--अधिकरणिक--दूर हट जा मूर्ख !
५४० मृच्छकटिकम्
आर्यचारुदत्तः कथमकार्यं करिष्यति।
कृत्वा समुदमुदकोच्छ्रयमात्रशेषं दत्तानि येन हि घनान्यनपेक्षितानि। स श्रेयसां कथमिवैकनिधिर्महात्मा पापं करिष्यति धनार्थमवैरिजुष्टम् ? ।। २२ ।।
तुम नीच होकर वेद के अर्थों को कह रहे हो किन्तु तुम्हारी जीभ नहीं गिर गयी। दोपहर में सूर्य को देख रहे हो, किन्तु तुम्हारी आँख नहीं चौंधिया गयी। जलती हुई आग के बीच में हाथ डाल रहे हो, किन्तु वह जल नहीं रहा है। चारुदत्त को सच्चरित्र से गिरा रहे हो, यह पृथ्वी तुम्हारा हरण नहीं कर लेती है ॥२१॥
टीका--चारुदत्तं दूषयतस्तव शरीरं न नश्यतीति आश्चर्यं व्यनक्ति-वेदार्थेति। त्वम्=शकारः, वेदार्थान्=वेदप्रतिपाद्यार्थान्, वदसि=कथयसि, ते=तव, शकारस्य, जिह्वा=रसना, न च=न हि, निपतिता=स्खलिता, पृथग्भूय भूमौ पतितेति भावः, मध्याह्ने=मध्यन्दिने, अर्कम्=सूर्यम्, वीक्षसे=पश्यसि, तव=शकारस्य, दृष्टिः=चक्षुः, सहसा=अकस्मादेव, न=नैव, विचलिता=उपहता, तथा, दीप्ताग्नेः=प्रज्वलितानलस्य, अन्तः=मध्ये, पाणिम्=हस्तम्, क्षिपसि=पातयसि, ते=तव, स च=तादृशोऽग्नि-मध्यस्थो हस्तः, न=नैव, दग्धः=भस्मीभूतः, भवति=जायते। चारुदत्तम्=एतन्नामकं निर्मलचरित्रम्, चारित्र्यात्=सदाचारात्, चलयसि=भ्रंशयसि, तथापि, भूः=धरा, ते=तव,शकारस्य, देहम्=शरीरम्, नो=नैव, हरति=मुष्णाति। चलधातौमित्त्वेन ह्रस्वतया 'चलयसि' इत्येव रूप शुद्धं बोध्यम् ॥२१॥
अन्वयः--हि, येन, समुद्रम्, उदकोच्छ्रयमात्रशेषम्, कृत्वा, अनपेक्षितानि, धनानि, दत्तानि, श्रेयसाम्, एकनिधिः, सः, महात्मा, धनार्थम्, अवैरिपुष्टम्, पापम्, कथम् इव, करिष्यति ॥२२।
शब्दार्थ--हि=क्योंकि, येन=जिस चारुदत्त ने, समुद्रम्=समुद्र को, उदकोच्छ्रय-मात्रशेषम्=जल का पुञ्जमात्र, कृत्वा=बना कर, अनपेक्षितानि=बिना याचना किये गये, बिन मांगे, धनानि=धन, सम्पत्ति, दत्तानि=दे दिये, बांट दिये, श्रेयसाम्=कल्याणों का, एकनिधिः=एक आश्रय, सः=वह, महात्मा=महान् आत्मा वाला, अति उदार, चारुदत्त, धनार्थम्=धन के लिये, अवैरिजुष्टम्=शत्रुओं द्वारा भी न करने योग्य, पापम्=वसन्तसेना की हत्यारूपी घृणित कर्म, कथम् इव=किस प्रकार, करिष्यति=करेगा ? ॥२२॥
अर्थ--आर्य चारुदत्त अकार्य कैसे कर सकते हैं --
नवमोऽङ्कः । ५४१
वृद्धा—हदास ! जो तदाणिं णासीकिदं सुवण्णभण्डअं रत्तिं चोरेहिं अवहिदं त्ति तस्स कारणादो चदुस्समुद्दसारभूदं रअणावलिं देदि, सो दाणिं अत्थकल्लवत्तस्स कारणादो इमं अकज्जं करेदि ? हा जादे ! एहि मे पुत्ति ! । ( इति रोदिति । ) हताश ! यस्तदानीं न्यासीकृतं सुवर्णभाण्डकं रात्रौ चोरैरपहृतमिति तस्य कारणात् चतुःसमुद्रसारभूतां रत्नावलीं ददाति, स इदानीमर्थकल्यवर्त्तस्य कारणादिदमकार्यं करोति ? हा जाते ! एहि मे पुत्रि ! )
अधिकरणिकः—आर्यचारुदत्त ! किमसौ पद्भ्यां गता ? उत प्रवहणेनेति ?
क्योंकि जिसने [ समस्त रत्नों का दान करके ] समुद्र को केवल पानी का पुंज ही बना कर [ याचकों द्वारा ] बिना मागें ही धन सम्पत्तियां दे डालीं । कल्याणों का सबसे बड़ा आश्रय वह महात्मा धन के लिये शत्रुओं द्वारा भी न करने योग्य [ स्त्री-हत्यारूपी ] पाप कर्म कैसे कर सकता ॥२२॥
टीका—विविधगुणालंकृतेन चारुदत्तेन वसन्तसेनाया वधः कर्तुं न शक्य इति प्रतिपादयति—कृत्वेति। हि=यतः, येन=चारुदत्तेन, समुद्रम्=सागरम्, उदकानाम्=जलानाम्, उच्छ्रायः=प्राचुर्यम्, पुञ्जम्=तन्मात्रम्, शिष्यते इति शेषः अवशिष्टो यस्य तम्, जलाधारमात्रमित्यर्थः, कृत्वा=विधाय, तदुद्भूतसर्वरत्नानां दानं कृत्वेति भावः, अनपेक्षितानि=अविचारितानि, धनानि=वित्तानि दत्तानि=सुहृद्भ्यो याचकेभ्यश्च समर्पितानि, श्रेयसाम्=कल्याणानाम् एकनिधिः=एकमात्राश्रयः, महात्मा=महाशयः, सः=चारुदत्तः, उदारचेताः, अवैरिजुष्टम्=शत्रुणापि न सेवितम्, पापम्=वसन्तसेनाबधरूपम् कुकर्म, धनार्थम्=धनापहरणार्थम्, कथमिव=कस्मादिव, करिष्यति=विधास्यति, कथमपि नैव विधास्यतीति भावः । अत्रातिशयोक्तिरलंकारः, वसन्ततिलकं वृत्तम् ॥२२॥
विमर्श—न्यायाधिकारी चारुदत्त की उदारता से सुपरिचित है । चारुदत्त द्वारा धन के लिये वसन्तसेना का वध किया जाना सर्वथा असंभव है ॥२२॥
अर्थ—वृद्धा—अभागे ! जिसने उस समय धरोहर में रखे गये सोने के भाण्ड को 'रात में चोरों ने चुरा लिया' इस कारण चारों समुद्रों ( से घिरी पृथ्वी ) की सारभूत रत्नावली दे दी, वही इस समय कलेवातुल्य धन के लिये इस अनुचित काम को कैसे कर सकता है ? हाय बेटी ! आओ, मेरी पुत्री ! । ( ऐसा कहकर रोने लगती है । )
अधिकरणिक—आर्य चारुदत्त ! वह वसन्तसेना क्या पैदल गयी अथवा गाड़ी से ?