भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

३४ समराङ्गणसूत्रधारे तुषकेशोपलाङ्गारभस्मास्थिलववर्जिताः । भृत्वाद्भिः खातमापूर्णे तस्मिन् पदशतं व्रजेत् ॥ ७१ ॥ तावच्चेदौगमेऽम्भः स्यात् तदा भूः सार्वकामिकी । मध्यमात्रप्रहीणे स्यात् ततो हीनतरेऽधमा ॥ ७२ ॥ खाते सितादिमाल्यानि यस्यां निन्युषितानि च । यद्वर्णानि न शुष्यन्ति सा तद्वर्णेष्टदा मही ॥ ७३ ॥ खातस्योदक्प्रभृतिषु दिक्षु प्रज्वालयीत वा । दीपान् यस्यां चिरं तिष्ठेत् तद्वर्णेष्टप्रदा हि सा ॥ ७४ ॥ इत्येवं कीर्त्तिताः कार्त्स्न्याल्लक्ष्मभिः पुरभूमयः । खर्वटग्रामखेटानामेता एव स्मृता हिताः ॥ ७५ ॥ वर्णिनां वर्णधाम्नां च शिबिराणां च सर्वदा । प्रासादयज्ञवाटानामेता एवेष्टदा भुवः ॥ ७६ ॥ इत्येवमादिभिरिमाः शुभलक्ष्मयुक्ता भूम्यः शुभा निगदिता नगरादिहेतोः । आभ्यः परेण बहुधा परिकल्प्यमानं ब्रूमस्त्रिधा स्थितवतोऽपि करस्य मानम् ॥ ७७ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भूमिपरीक्षा नामाष्टमोऽध्यायः ॥

अथ हस्तलक्षणं नाम नवमोऽध्यायः । हेतुः समस्तवास्तूनामाधारः सर्वकर्मणाम् । मानोन्मानविभागादिनिर्णयैकनिबन्धनम् ॥ १ ॥ परिध्युदयविस्तारदैर्ध्याणां स्युरमी यतः । ज्येष्ठमध्याधमा भेदा यं च ज्ञात्वा न मुह्यति ॥ २ ॥ इदानीं तस्य हस्तस्य सम्यङ् निश्चयसंयुतम् । कथ्यते २त्रिविधस्यापि लक्षणं शास्त्रदर्शितम् ॥ ३ ॥ १ क. दागतेऽम्भ(:)स्यात् । २ ख. ग. विविधं ।

हस्तलक्षणं नाम नवमोऽध्यायः । ३५ रेण्वष्टकेन वालाग्रं लिक्षा स्यादष्टभिस्तु तैः । भवेद् यूकाष्टभिस्ताभिर्यवमध्यं तदष्टकात् ॥ ४ ॥ अष्टाभिः सप्तभिः षड्भिरङ्गुलानि यवोदरैः । ज्येष्ठमध्यकनिष्ठानि तच्चतुर्विंशतिः करः ॥ ५ ॥ सोऽष्टभिः पर्वभिर्युक्तः करः कार्यो विजानता । करस्यार्धं चतुःपर्व शेषं स्याद् भक्तमङ्गुलैः ॥ ६ ॥ तत्राग्रे पर्वरेखाः स्युस्तिस्रः पुष्पकभूषिताः । शेषास्वङ्गुलरेखासु पुष्पाणि विदधीत न ॥ ७ ॥ अत्रार्धे मध्यतः कार्यं द्वेधा पञ्चममङ्गुलम् । १मध्यं त्रिधाष्टमं कार्यं चतुर्था द्वादशं ततः ॥ ८ ॥ हस्तः स्वाङ्गुलमानेन विधेयाङ्गुल(मि ? इ)ष्यते । तत् सार्धं द्विगुणं वापि बाहुल्यं तु तदर्धतः ॥ ९ ॥ कथितः करभेदोऽयमङ्गुलानां विभेदतः । तस्य निर्माणदारूणि देवताश्च प्रचक्ष्महे ॥ १० ॥ खदिराञ्जनवंशादि श्लक्ष्णं हीरं मनोरमम् । सारवच्च भवेदिष्टं दारु हस्तप्रकल्पने ॥ ११ ॥ ग्रन्थिलं लघु निर्दग्धं जीर्णं विस्फुटितं२ तथा । अदृढं कोटराक्रान्तं दारु हस्ताय नेष्यते ॥ १२ ॥ त्रिविधस्याप्यथैतस्य पर्वरेखासु देवताः । †३मध्यादारभ्य विज्ञेयाः क्रमेण नव वच्मि ताः ॥ १३ ॥ *ब्रह्मा वह्निर्यमो विश्वकर्मा नाथश्च पाथसाम् । वायुर्धनाधिपो रुद्रो विष्णुश्चाग्रे जगत्पतिः ॥ १४ ॥ १ ख. ग. द. मध्यात् । २ द. विस्फटितं । ३ द. मूलां । † ‘ मध्यपर्वत एकस्मिन् पार्श्वगणनया प्रान्तसंयुक्तानि चत्वारि पर्वाणि भवन्ति । मध्यादेव परस्मिन् पार्श्वे समध्यमपर्वत्वात् पञ्च भवन्ति ’ ।

  • ‘ मध्ये ब्रह्मा । ततो वामे पर्वणि वह्निः दक्षिणे पर्वणि यमः, पुनर्वामे विश्वकर्मा दक्षिणे वरुणः, पुनर्वामे वायुः दक्षिणे धनदः, पुनर्वामे रुद्रो दक्षिणे विष्णुः । ततस्तु क्रमेण गणनायां रुद्रो वायुर्विश्वकर्मा वह्निर्विधाता कालस्तोयेशः कुबेरो विष्णुरिति पर्वदेवता भवन्ति ’ इति टिप्पणमिह दत्तमस्ति ।

३६ समराङ्गणसूत्रधारे वास्तुद्रव्यविभागेषु यानेषु च विशेषतः । प्रारभेत यतो मानं कल्पयेद् देवतास्ततः ॥ १५॥ विद्धैश्च द्रव्यमध्यैश्च देवताभिश्च १पीडिते । प्रत्येकं त्रिदशस्थाने यथोक्तं फलमादिशेत् ॥ १६॥ शिरोर्त्तिरनलप्लोषो मरणं स्थपतेर्वधः । २अतिसारो मरुद्व्याधिरर्थभ्रंशो भयं नृपात् ॥ १७॥ कुलपीडा च महती कर्तृकारक३योरिति । यथाक्रमममी दोषा ब्रह्मादीनां निपीडनात् ॥ १८॥ ब्रह्मानलकयोर्मध्ये यदा हस्तं तु ४धारयेत् । कर्मस्वधिगतस्तेषां पुत्रलाभो भविष्यति ॥ १९॥ कर्मणः सुष्ठुनिष्पत्ति(स्तिष्ठतेभोग ? स्थपतेर्भोग्य)मक्षयम् । ब्रह्मा यमस्तयोर्मध्ये यदा हस्तं तु धारयेत् ॥ २०॥ कर्ता सशिल्पिकश्चैव(अ ? न)चिरेण५ विनश्यति । विश्वानलकयोर्मध्ये हस्तसूत्रं यदा धृतम्६ ॥ २१॥ ७सु(ष्ठु)कर्मणि मध्यान्तं निष्पन्ने पुरवृद्धिता । यमजलदयोर्मध्ये मध्यमं च विनिर्दिशेत् ॥ २२॥ पवनो विश्वकर्मा चोभयोर्मध्ये च धारणम् । यदा तु तत्र कर्मान्तं ८शुभं तत्सर्वकामदम् ॥ २३॥ ९नीरधनदयोर्मध्ये मध्यमं च विनिर्दिशेत् । एषां मध्ये यदा वत्सहस्तं तत्र यदा धृतम्१०(?) ॥ २४॥ अनावृष्टिभयं लोके देशभङ्गो न संशयः । रुद्रपवनयोर्मध्ये रुचिहस्तं तु धारयेत् ॥ २५॥ तत्र लक्ष्मीवतस्तस्य कार्यसिद्धिर्न संशयः । विष्णुधनदयोर्मध्ये यदा पाणिकरा११र्यैतः ॥ २६॥ १ द. ख. ग. पीडितैः । २ द. प्रमीसारो । ३ द. क. ख. ॰योरपि । ४ क. कारयेत् । ५ द. कर्तारो शिल्पिनश्चैव अचिरेण विनश्यति । ६ द. वृतम् । ७ द. क. सुमतिर्मणिमध्यान्तं । ८ द. शुभं तं सर्वं°; क. शुभान्तं सर्वं° । ९ द. नीरदधन° । १० द. एषां मध्ये न हस्तं तत्र यदा वृतम् । ११ द. ख. ग. काराप्रतः ।

हस्तलक्षणं नाम नवमोऽध्यायः । ३७ विविधास्तत्र भोगाश्च १प्रजायन्ते नरस्य हि । ज्येष्ठादीनामथैतेषां संज्ञाभेदो विधीयते ॥ २७ ॥ यच्च येन भवेद् द्रव्यं मेयं तदपि कीर्त्यते । यवाष्टकाङ्गुलैः क्लृप्तः प्रकर्षेणायतः किल ॥ २८ ॥ ज्येष्ठो हस्तः स विद्वद्भिः प्रोक्तः प्राशयसंज्ञितः । यः पुनः कल्पितः सप्तयवक्लृप्तैरिहाङ्गुलैः ॥ २९ ॥ तज्ज्ञैः स मध्यमो हस्तः साधारण इति स्मृतः । मात्रेत्यल्पं यतः प्रोक्तं हस्तश्च शय उच्यते ॥ ३० ॥ तेन मात्राशयः स स्याद्धस्तो यः षड्यवाङ्गुलः२ । विभागायामविस्ताराः खेटग्रामपुरादिषु ॥ ३१ ॥ प्रासादवेश्मपरिखाद्वाररथ्यासभादिषु । मार्गाश्च निर्गमाँ(?ये ?श्चै)षां सीमक्षेत्रान्तराणि च ॥ ३२ ॥ वनोपवनभागाश्च देशान्तरविभक्तयः । योजनक्रोशगव्यूतिप्रमाणमपि चाध्वनः ॥ ३३ ॥ प्राशयेन प्रमातव्याः खातक्रकचराशयः । तलोच्छ्रयान् मूलपादान् जलोद्देशानधः क्षितेः४ ॥ ३४ ॥ तथा दोलाम्बुशस्त्रादि पातमौनवनिर्णयम् । शैलखातँनिकेतानि सुरुङ्गामानमान्तरम् ॥ ३५ ॥ साधारणेन वास्थ्यध्वमानं च परिकल्पयेत् । आयुधानि धनुर्दण्डान् यानं शयनमासनम् ॥ ३६ ॥ प्रमाणं कूपवापीनां गजानां वाजिनां नृणाम् । अरघट्टेक्षुयन्त्राणि युगयूपहलानि च ॥ ३७ ॥ शिल्प्युपस्करनौच्छत्रध्वजातोध्यानि यानि च । वृसीधर्मोपकरणपटवानादिकं च यत् ॥ ३८ ॥ १ द. ख. ग. सदा चैतस्य संभवेत् । २ द. षट्पञ्चाङ्गुलः । ३ द. ०श्चार्गमायेषां । ४ द. स्थितैः । ५ द. पातयामानवनिर्णयम् ; क. ०तयामाननि० । ६ द. ख. ग. ०खातनेत्रोतानि । ७ द. सान्तरम् । ८ द. ख. ग. परिकीर्तयेत् ।

३८ समराङ्गणसूत्रधारे १नलवदण्डांस्तथा मात्राशयहस्तेन मापयेत् । भेदत्रयान्वितमपि प्रोक्तं हस्तस्य लक्षणम् ॥ ३९ ॥ संज्ञाभेदोऽथ सामान्यमानानां प्रतिपाद्यते । स्यादेकमङ्गुलं मात्रा कला प्रोक्ताङ्गुलद्वयम् ॥ ४० ॥ पर्व त्रीण्यङ्गुलान्याहुर्मुष्टिः स्याच्चतुरङ्गुला । तलं स्यात् पञ्चभिः षड्भिः करपादाङ्गुलैर्भवेत् ॥ ४१ ॥ सप्तभि( र्द्द ? र्दि )ष्टिरष्टाभिरङ्गुलैस्तूणिरिष्यते । प्रादेशो नवभिस्तैः स्याच्छयतालो दशाङ्गुलः ॥ ४२ ॥ गोकर्ण एकादशभिर्वितस्तिर्द्वादशाङ्गुला । चतुर्दशभिरुद्दिष्टः पादो नाम तथाङ्गुलैः ॥ ४३ ॥ रत्निः स्यादेकविंशत्या स्यादरत्निः करोन्मितः । द्वाचत्वारिंशता किष्कुरङ्गुलैः परिकीर्त्तितः ॥ ४४ ॥ चतुरुत्तरयाशीत्या व्यामः स्यात् पुरुषस्तथा । षण्णवत्याङ्गुलैश्चापं भवेन्नाडीयुगं तथा ॥ ४५ ॥ शतं षडुत्तरं दण्डो नलवस्त्रिंशद्धनुर्मितः । क्रोशो धनुःसहस्रं तु गव्यूतं तद्द्वयं विदुः ॥ ४६ ॥ चतुर्गव्यूतं२मिच्छन्ति योजनं मानवेदिनः । एकं दश शतमस्मात् सहस्रमनु चायुतम् ॥ ४७॥ नियुतं प्रयुतं तस्मादर्बुदन्यर्बुदे अपि । बृन्दखर्वनिखर्वाणि शङ्कुपद्माम्बुराशयः ॥ ४८ ॥ ततः स्यान्मध्यमन्त्यं च परं चापरमप्यतः । परार्धं चेति विज्ञेयं दशवृद्धयोत्तरोत्तरम् ॥ ४९ ॥ सङ्ख्यास्थानानि कथितान्येवमेतानि विंशतिः । इदानीं कालसङ्ख्यायाः प्रमाणमभिधीयते ॥ ५० ॥ दृङ्निमेषो निमेषः स्यात् तैः पञ्चदशभिः स्मृता । काष्ठा ताभिः कला ताभिर्मुहूर्त्तस्तैरहर्निशम् ॥ ५१ ॥ १ क. भल्लदं ; द. नव्वदं । २ ‘व्यूर्ति त’ । ३ ‘ति’ क. पाठः ।

पुरनिवेशो दशमोऽध्यायः । ३९ विंशतैतत् त्रिकं विद्यात् क्रमादित्यत्तरोत्तरम् । अहोरात्रैः पुनः पञ्चदशभिः पक्ष उच्यते ॥ ५२ ॥ पक्षद्वयेन मासः स्याद् भवेन्मासद्वयाद्दृतुः । ऋतुत्रयं स्यादयनं वत्सरस्त्वयनद्वयम् ॥ ५३ ॥ दशधायमिति प्रोक्तः कालः कालविदां वरैः । इत्युक्तमेतदखिलं करमानमत्र सम्यक्तया निगदितापि च कालसङ्ख्या । अन्तःपुरं जनपदामरधाममार्गैराचक्ष्महे नगरसंप्रविभागमत्र ॥ ५४ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे हस्तलक्षणं नाम नवमोऽध्यायः ॥ अथ पुरनिवेशो दशमोऽध्यायः । पुरस्य त्रिविधस्यापि प्रमाणमथ कथ्यते । प्राकारपरिखाट्टालद्वाररथ्याध्वभिः सह ॥ १ ॥ ज्येष्ठं तत्र चतुश्चापसहस्रं पुरमिष्यते । मध्यं द्वाभ्यां सहस्राभ्यामेकेन व्यासतोऽधमम् ॥ २ ॥ साष्टमांशं सपादं वा सार्धं वा व्यासमायतम् । कुर्यादेकैकमायामं चतुरास्त्रीकृतं शुभम् ॥ ३ ॥ चतुःषष्टिपदाख्येन पुरं सर्वं प्रकल्पयेत् । द्विरष्टकोष्ठं तत् कुर्यात् षट्पथं नवचत्वरम् ॥ ४ ॥ चतुरश्रीकृते क्षेत्रे प्रागुदीच्यन्तमागताः । चतुर्भागान्तरा वंशाः कार्यास्तस्य त्रयस्त्रयः ॥ ५ ॥ वंशषट्कविभक्तेऽस्मिन् पदषोडशकान्विते । राजमार्गः शुभः कार्यो मध्यमं वंशमाश्रितः ॥ ६ ॥ कार्यो ज्यायसि (च) ज्यायांश्चतुर्विंशतिकः करैः । विंशत्या मध्यमे मध्योऽधमे षोडशकोऽधमः ॥ ७ ॥ १ द. ग. मासास्थं । २ क. ॰विंशतिभिः ।

४० समराङ्गणसूत्रधारे बलस्य चतुरङ्गस्य पौराणां पार्थिवस्य च । असम्बाधसमश्चैष कार्योऽयं काश्मशर्करः ॥ ८ ॥ महारथ्याद्वयं कार्यं तदुपान्तस्थवंशयोः । तद् द्वादश दशाष्टौ स्यात् करान् ज्येष्ठादिकं त्रिषु ॥ ९ ॥ पदमध्यगतं कार्यं यानमार्गचतुष्टयम् । ज्येष्ठादिषु पुरेष्वेषु तत्पञ्च च चतुःकरम् ॥ १० ॥ उपरथ्या महामार्गस्यार्धं वा द्विशयाधिकम् । शेषा रथ्यास्तदर्धेन विधातव्याः प्रमाणतः ॥ ११ ॥ यानमार्गचतुष्कस्य कार्यों पार्श्वद्वयाश्रितौ । पदाष्टकपदान्तस्थौ द्वौ द्वौ जङ्घापथावपि ॥ १२ ॥ पुरे ज्येष्ठे त्रिहस्तौ तौ मध्यमेऽर्धकरोज्झितौ । मध्यमादर्धहस्तेन हीनौ स्यातां कनीयसि ॥ १३ ॥ पुरस्यान्तर्गतौ कार्यों घण्टामार्गौ तथापरौ । राजमार्गगुणोपेतौ प्रमाणेन च तद्विधौ ॥ १४ ॥ प्राक्प्रत्यगायताः सप्तदश मार्गा इतीरिताः । याम्योत्तरायतास्तद्वदन्ये स्युस्तत्प्रमाणतः ॥ १५ ॥ घण्टामार्गप्रमाणेण घण्टामार्गस्य बाह्यतः । समन्ततो वप्रभुवं स्थापयेत् तद्विधानवित् ॥ १६ ॥ महारथ्याप्रमाणेण तद्भूमेर्बाह्यतस्ततः । ५व्यासखातान्तरैः सार्धं विधेयं परिखात्रयम् ॥ १७ ॥ खातोत्पादोज्झितं कार्यं सत्र्यंशेनार्धतोऽपि वा । व्यासतः स्यादशेषेण मूलतस्तद्वदेव तत् ॥ १८ ॥ कुर्याद् वप्रं स्वभूभागे परिखोत्खातया मृदा । सोत्सङ्गं गजपृष्ठं वा गोत्रीयपदताडितम् ॥ १९ ॥ १ द. असम्बाधः । २ क. चतुःप्रान्तं । ३ ख. ग. द. स्यार्धस्वादिसया० । ४ द. ख. विधानवन् । ५ द. ख. ग. व्यासः ।

पुरनिवेशो दशमोऽध्यायः । ४१ खातोद्वृत्तमृदा वप्रनिर्माणधिकया ततः । भूप्रदेशान् पुरा निम्नानापूर्य समतां नयेत् ॥ २० ॥ एवं संशोध्य परिखात्रितयं परितोऽश्मभिः । विधेयमिष्टकाभिर्वा सम्यग्बद्धतलं स्थिरम्¹ ॥ २१ ॥ सिरावारिभिरापूर्णं पूर्णं वागागिनाम्भसा । विचित्राब्जमनोहारि ²ससंग्राहाम्बुनिर्गमम् ॥ २२ ॥ सर्वपार्श्वेष्वथैतस्य गन्धान्धमधुपाङ्गनान् । सुमनोविटपारामान् कुर्याद् ³वासान् समुत्सकान् ॥ २३ ॥ बाह्यभागं पुनस्तस्य विदध्यात् सर्वतोदिशम् । द्रुममूलैर्लताजालैः कण्टकैरपि संवृतम् ॥ २४ ॥ वप्रोर्ध्वभागगं मध्यं स्थूलोपलशिलाचितम् । कुर्यात् प्राकारमुद्दामं यद्वा पक्वेष्टकामयम् ॥ २५ ॥ ⁴ज्यायान् करैर्द्वादशभिर्दशभिर्मध्यमः स्थितः । कनीयानष्टभिर्हस्तैर्विस्तारः⁵ स्यात् त्रिधेत्यसौ ॥ २६ ॥ उच्छ्रायः सप्तदशभिः करैर्ज्यायान् प्रशस्यते । मध्यमः पञ्चदशभिस्त्रयोदशभिरन्तिमः ॥ २७ ॥ ऊर्ध्वं न सप्तदशकान्न त्रयोदशकादधः । प्राकारोच्छ्रयमिच्छन्ति नापि युग्मकरोन्मितम् ॥ २८ ॥ ⁶हस्ते हस्तेऽङ्गुलद्वन्द्वमायतः सम्यगुच्छ्रयात् । यस्य वा द्वादशकरा मूले भवति विस्तृतिः ॥ २९ ॥ चतु(रस्त्रो ? र्हस्तो)⁷च्छ्रितिँस्तस्य शिरः स्याद् दशविस्तृतम् । हस्तोच्चं कपिशीर्षं स्याद् द्विहस्ता ⁸काण्डवारिणी ॥ ३० ॥ कार्याः कर्णाश्रितैर्द्वारकर्णान्तस्थैश्च संयुताः । प्राकारेऽट्टालकास्तस्मिन् दिक्षु दिक्षु चतुर्दिशम् ॥ ३१ ॥ १ द. ख. ग. ॰तलस्थितम् । २ द. ससंग्राहां तु निर्गमम् ( ? ) । सग्राहं साम्बुनिर्गमम् इति शास्त्रिभिः संस्कृतः पाठः । ३ क. द्वादशकच्छकान् । ४ क. ज्येष्ठः । ५ क. द. विस्तारान् । ६ द. हस्ताङ्गुलद्वन्द्वमायतः । ७ द. ॰स्थितितस्तस्य । ८ द. द्विहस्तात् कण्ठचारिणी । वा. ६

४२ समराङ्गणसूत्रधारे द्विभौमांश्चरिकोर्ध्वं च प्राकारोच्छ्रायविस्तृतान् । तदर्धं निर्गमान् कुर्यात् ससालाट्टालकानथ ॥ ३२ ॥ शतं शतं स्याद्धस्तानां मिथश्चाट्टालकान्तरम् । इत्थं पुरमगम्यं स्यात् पत्त्यश्वरथदन्तिनाम् ॥ ३३ ॥ चरिकां संचरद्वारां सुखारोहां सवेदिकाम् । ससोपानां सनिर्यूहां कुर्यात् सकपिशीर्षकाम् ॥ ३४ ॥ राजमार्गमहारथ्यासंश्रितानि चतुर्दिशम् । त्रीणि त्रीणि विधेयानि पुरे द्वाराणि तद्विदा ॥ ३५ ॥ राजमार्गमहाद्वारचतुष्कं विस्तरान्नव । अष्टौ सप्त करा नोर्ध्वं द्विगुणं ल्लिंकरोज्झितम्(?) ॥ ३६ ॥ महारथ्याश्रयं द्वारं तत् षट्पञ्चचतुष्करम् । उच्छ्रयात् सार्धसार्धैकहस्तोनं विस्तरेण तत् ॥ ३७ ॥ कुर्यात् प्रतोलीः सर्वेषु महाद्वारेष्वथो दृढाः । दृढार्गलाश्चेन्द्रकीलाः कपाटपरिघान्विताः ॥ ३८ ॥ राजमार्गसमा २ शाला स्यात् प्रतोलीविनिर्गमा ३ । तदर्धं कोष्ठकान्तः स्याद् व्यासोऽध्यर्धं तयोः स्मृतः ॥ ३९ ॥ चतुरश्रामिति न्यस्य प्रतोलीं वदनायताम् । व्यासत्र्यंशविन्यस्तमार्गां मूषाद्वयान्विताम् ॥ ४० ॥ अन्तर्भित्तौ चतुर्द्वारं महाद्वारेण सम्मितम् । विकल्पकोष्ठकान्तेषु दारुभिस्तद् विभूषयेत् ॥ ४१ ॥ द्वारे चोभयतःशाले द्वे द्वे द्वारे च मूषयोः । ते कार्ये सम्मुखे व्यासाद् द्विकरे द्विगुणोच्छ्रिते ॥ ४२ ॥ (ष ? त) द्वारूंमूषयोः पट्टमध्यं पञ्चकरोच्छ्रितम् । तद्वत् कार्या द्वितीया भूर्द्वारशेषोदयोच्छ्रिता ॥ ४३ ॥ १ द. ख. ग. ॰करोष्ठितम् । २ द. ख. ग. ॰समः । ३ क. विनिर्गमः, द. ख. विनिर्मात् । ४ द. ख. व्यासो वृद्ध । ५ द. ख. ग. ॰न्ते यद् दा°। ६ द. षद्दारुं, °तुं मू° [शा.] । ७ द. ख. बद्धा ।

[Header] पुरनिवेशो दशमोऽध्यायः । ४३ बहिर्द्वारविनिर्मुक्तां पूर्ववत् तां प्रकल्पयेत् । पुरःसंरोधनसहैर्गवाक्षैरग्रतो युताम् ॥ ४४ ॥ तलं ततो महाद्वारस्योर्ध्वं बद्ध्वा तृतीयकम् । १रोधनद्वारयुग्हर्म्यसंयुक्तं सपरिक्रमम् ॥ ४५ ॥ सन्न्यस्तस्तम्भवेचन्यदूर्ध्वं तस्योपकल्पयेत् । व्यालजालशतघ्नीयन्त्रशस्त्रयन्त्रादिभिर्युतम् ॥ ४६ ॥ वृद्धिशोभाभिगुप्त्यर्थं पुरस्य प्रविकल्पयेत् । बृहद्द्वाराणि परितस्त्रितलाभिः प्रतोलीभिः ॥ ४७ ॥ प्रतोल्या दक्षिणाद् भागादुच्छ्रितो वामतो गतः । यावद् द्वितीयं तत्पार्श्वमेकः कार्यो बहिः स्थितः ॥ ४८ ॥ द्वितीयो वामभागात् तु निर्गत्यास्यैव वेष्टकः । कार्यः स्याद्वा तदुत्थानात् प्राकारस्तस्य बाह्यतः ॥ ४९ ॥ एतयोरन्तरालं च राजमार्गेण सम्मितम् । कर्तव्यं स्यादिहैवं तु वक्त्रद्वारकमुत्तमम् ॥ ५० ॥ दृष्ट्वा दृष्टोपभोगार्हान् सरिद्भिरिजलाशयान् । पक्षद्वाराणि कुर्वीत स्वेच्छया तत्र तत्र च ॥ ५१ ॥ जलभ्रमान् पुरे कुर्याच्छिलादारुतिरोहितान् । द्विकरन् करमात्नान् वा २साम्भसोऽस्मिन् प्रदक्षिणान् ॥ ५२ ॥ छिन्नकर्णं विकर्णं च वज्रं सूचीमुखं तथा । वर्तुलं व्यजनाकारं ३चापाकृतिधरं च यत् ॥ ५३ ॥ शकटद्विसमं यच्च विस्ताराद् द्विगुणायतम् । विदिक्स्थं सर्पचक्रं च तत् पुरं निन्दितं भवेत् ॥ ५४ ॥ छिन्नकर्णे वसँल्लोकः पुरे तस्करतो भयम् । व्याधिभ्यो वापरेभ्यो वा प्राप्नोतीति विनिर्दिशेत् ॥ ५५ ॥ [Footnote 1] १ द. रोधनद्वारेषु हर्म्यं सं' । २ 'विस्तराद् द्विगुणायतः ।' (?) क. पाठः । ३ द. चापाकारं [Footnote 2] पुरं भवेत् ।

विद्विष्टस्वामिता सर्वलोकगर्हानपत्यता । जायते स्वल्पमायुष्यं विकर्णपुरवासिनाम् ॥ ५६ ॥ स्त्रीजयं विषरोगांश्च भेदांश्च विविधांस्तथा । जनो वसन्नवाप्नोति वज्राकृतिधरे पुरे ॥ ५७ ॥ व्रजन्ति प्राणिनो नाशं क्षुद्व्याधिपरिपीडिताः । निवसन्तः सदा सूचीमुखाकारधरे पुरे ॥ ५८ ॥ स्वामिना सह हीयन्ते सर्वतः संश्रयोज्झिताः । स्वल्पायुषश्च जायन्ते जना वृत्तपुराश्रयाः ॥ ५९ ॥ असत्यवादिनः स्वल्पायुषः पवनपीडिताः । जनाः स्युश्चलचित्ताश्च नगरे व्यजनाकृतौ ॥ ६० ॥ दुश्चरित्राङ्गनायुक्तस्तथा बहुनपुंसकः । चापाकारे पुरे लोको निवसन् भवति ध्रुवम् ॥ ६१ ॥ रोगशोकानलस्तेनभयं तत्र प्रजायते । शकटद्विसमाकारं पुरं यद् विनिवेश्यते ॥ ६२ ॥ आरम्भासिद्धिदं विप्रभयदं ज्ञातिभेदकृत् । पौराणां स्वामिनश्च स्याद् गजवाजिक्षयावहम् ॥ ६३ ॥ परैराक्रम्य भुज्येत तत् पुरं बलशालिभिः । द्विगुणायतसंस्थानं यत् कचिद् विनिवेश्यते ॥ ६४ ॥ जनक्षयोऽग्निदाहश्च स्त्रीकृतानि भयानि च । पुरे भवति दिङ्मूढे न च निर्योगमेति तत् ॥ ६५ ॥ १शस्त्रानिलपिशाचाग्निभूतयक्षभयार्दिताः । २रुक्पीडिताश्च नश्यन्ति भुजङ्गकुटिले जनाः ॥ ६६ ॥ पुराणामप्रशस्तानि संस्थानानीदृशानि यत् । एकस्मिन्नपि तेनैषां न पुरं विनिवेशयेत् ॥ ६७ ॥ संस्थानमेकमप्येषां प्रमादात् क्रियते यदि । तदा राष्ट्रं निपीड्येत क्षुद्विषद्रीतिमृत्युभिः ॥ ६८ ॥


१ ‘सस्वामिनः पि’ । २ ‘रुक्पीडाभिश्च’ ख. ग. पाठः ।

पुरनिवेशो दशमोऽध्यायः । ४५ शास्त्रज्ञः स्थपतिस्तस्मात् प्रयत्नपरया धिया । यथावत् कथितं १चारु नगरं विनिवेशयेत् ॥ ६९ ॥ वेदीनिवेशयात्रायां२ देवागारामिचारयोः । नदीकर्मणि मैत्रे च शान्तिं कुर्याच्छ्रमेषु च ॥ ७० ॥ यज्ञे पुरनिवेशे च स्थापने प्रयतः सुधीः । कुर्यात् तथाभ्युदयिकं यच्चान्यदपि किञ्चन ॥ ७१ ॥ पुरे भीतिकरं शश्वदनायुष्यमपौष्टिकम् । कृतमप्रयतैः कर्म नृपतिघ्नं च जायते ॥ ७२ ॥ विहितं यदशास्त्रज्ञैर्यच्च निर्लक्षणैः कृतम् । कृतमप्रयतैर्यच्च३ तदशस्तं फलोज्झितम् ॥ ७३ ॥ शास्त्रज्ञः स्थपतिर्ज्योतिर्विदा तद्वत् पुरोधसा । अधिष्ठितः पुरे कर्म विदध्याच्छान्तिकेषु च ॥ ७४ ॥ पुरोहितोऽग्निं जुहुयाद् दद्यान्मौहूर्त्तिकः स्थिरम्४ । स्थपतिश्च बलिं दद्याद् योजयेदिति शान्तिकम् ॥ ७५ ॥ तदा तस्मिन् पुरे शान्तिर्यत्र मर्मस्थिताः सुराः । पूज्यन्ते सततं पौरैश्चत्वरस्थायिनस्तथा ॥ ७६ ॥ चतुःप्रकारं स्थापत्यमष्टधा च चिकित्सितम् । धनुर्वेदश्च सप्ताङ्गो ज्योतिषं कमलालयात् ॥ ७७ ॥ सामान्यलक्षणोत्पातनिमित्तानि च सर्वशः । ब्रह्मा विष्णुश्च रुद्रश्च त्यजन्त्येते न तत् पुरम् ॥ ७८ ॥ नगरस्य विभागोऽयं यथावत् समुदीरितः । खेटं तदर्थविष्कम्भमाहुर्ग्रामं तदर्धतः ॥ ७९ ॥ योजनेन पुरात् खेटं खेटाद् ग्रामं प्रचक्षते । गव्यूतिपरिमाणेन ग्रामाद् ग्रामं प्रचक्षते ॥ ८० ॥ १ 'चारु न' क. पाठः । २ 'यां वेदागा' ग. पाठः । ३ 'यतैः कर्म त' क. पाठः । ४ 'तम्' ख. ग. पाठः ।

४६ समराङ्गणसूत्रधारे द्विक्रोशाद् विषये सीमा तदर्धेन पुरस्य सा । खेटके पुरसीमार्थं ग्रामे खेटार्धतः स्मृता ॥ ८१ ॥ त्रिंशद्धनूंषि विष्कम्भः पुरे दिग्वर्त्मसु स्मृतः । विंशतिः खेटके मार्गो ग्रामे दश च दर्शितः ॥ ८२ ॥ १नव ग्रामसहस्त्राणि २नवति(श्र? श्व) प्रचक्षते । चतुःषष्टिमपि ग्रामान् ज्यायो राष्ट्रं विदुर्बुधाः ॥ ८३ ॥ ३दशार्धं च सहस्राणि ग्रामाणां त्रिशती तथा । ग्रामाश्चतुरशीतिश्च मध्यमं राष्ट्रमीरितम् ॥ ८४ ॥ सहस्त्रमेकं ग्रामाणां तद्वच्च शतपञ्चकम् । ४ह्यूना च ग्रामपञ्चाशत् कनीयो राष्ट्रमुच्यते ॥ ८५ ॥ अध्यर्धसङ्ख्ययैतेषां ज्येष्ठमध्यकनीयसाम् । विधाय नवधैकैकं विभजेद् विधिवत् सुधीः ॥ ८६ ॥ राष्ट्रेष्वेवं विभक्तेषु यथाभागं विधानवित् । निवेशयेत् पुराण्येषु सप्त सप्त यथागैमम् ॥ ८७ ॥ विभागश्च प्रमाणं च लक्षणं चादिमस्य यत् । जातिवर्णाधिवासश्च यथावत् तदिहोच्यते ॥ ८८ ॥ सुवर्णकारान्नाग्नेय्यां तथा वह्न्युपजीविनः । निवेशयेत् कर्मकरानन्यानपि विधानवित् ॥ ८९ ॥ वैश्यानामक्षधूर्तानां चक्रिकाणां च दक्षिणे । नटानां नर्त्तकानां च गृहाणि विनिवेशयेत् ॥ ९० ॥ निवेशयेत् सौकरिकान् ६मे(धी? षी)कारान् मृगच्छिदः । कैवर्तान् नैर्ऋताशायां दमनाधिकृतांस्तथा ॥ ९१ ॥ रथेपु कौशलं येषां येषां स्यादायुधेषु च । वारुण्यां दिशि तान् सर्वान् पुरस्य विनिवेशयेत् ॥ ९२ ॥ १ क. द. तत्र ग्राम°। २ द. भवन्ति च। ३ क. द. दश द्वे च। ४ द. ख. ग. न्यूनाच्च। ५ क. यथाक्रमम्। ६ सर्वत्र मेयी° पाठः।

पुरनिवेशो दशमोऽध्यायः । ४७ कर्मस्वधिकृता ये च ये चापि परिकर्मिणः । शौण्डिका ये च तान् सर्वान् वायोर्दिशि निवेशयेत् ॥ ९३ ॥ यतीनामाश्रयान् ब्रह्मवत्सानां च तथा सभाम् । प्रपाश्च पुण्यशालाश्च कुर्याद् दिशि धनेशितुः ॥ ९४ ॥ घृतविक्रयिणो ये च फलविक्रयिणश्च ये । निवेशिताः प्रशस्यन्ते पुरस्येशानदिग्गताः ॥ ९५ ॥ पूर्वभागे बलाध्यक्षान् राज्ञो मुख्यांस्तथा बले । निवेशयेत् तथाग्नेय्यां बलं नानाविधं सुधीः ॥ ९६ ॥ श्रेष्ठिनो दक्षिणाशायां तथा देशमहत्तरान् । याम्येकहारान्( ? )कुर्वीत तथा ककुभि निर्ऋतेः ॥ ९७ ॥ कोशपालमहामात्रादेशिकान् कारुकानपि । १निर्यामकांश्च कुर्वीत सलिलाधिपतेर्दिशि ॥ ९८ ॥ वायोः ककुभि कुर्वीत दण्डनाथान् सनायकान् । पुरोहितज्योतिषिकानुत्तरस्यां निवेशयेत् ॥ ९९ ॥ विप्राः सौम्य२ दिशो भागे क्षत्रियाः शक्रदिग्गताः । वैश्यशूद्रास्तु कर्तव्या दक्षिणापरयोः क्रमात् ॥ १०० ॥ निधेया वणिजो वैद्या मुख्याश्चापि चतुर्दिशम् । चतुर्दिशं विशेषेण स्थापयीत बलानि च ॥ १०१ ॥ नगरस्य बहिः प्राच्यां लिङ्गस्थान् विनिवेशयेत् । श्मशानानि तथा तत्स्थान् याम्यायां स्थपतिः सुधीः ॥ १०२ ॥ सर्वतोदिशमुद्दिष्टो विभागो नगरे यथा । तथा ग्रामेषु खेटेषु सेनायाश्च निवेशने ॥ १०३ ॥ नगराभिमुखौ कार्यौ संपूर्णाङ्गम३होदयौ । द्वारे द्वारे सौम्यमुखौ लक्ष्मीवैश्रवणौ शुभौ ॥ १०४ ॥ १ द. प्रतेः श्रेष्ठः पाठः निर्यामकांश्च, अन्यत्र नियामकांश्चेत्यपपाठः । २ क. सौम्यदिशो, शा. सौम्या दिशो । ३ क. द. ˚सहोदरौ ।

४८ समराङ्गणसूत्रधारे । राष्ट्रं खेटमथ ग्रामं पश्यन्तेन्तत्पुरं महत्( ? ) । तत्रारोग्यार्थसंसिद्धी प्रजाविजयमादिशेत् ॥ १०५ ॥ क्लेशबन्धवधैर्लोकाः स्युर्मिथः ²स्तूलहिंसकाः । ग्रामं खेटं पुरं राष्ट्रं यदेतौ नैव पश्यतः ॥ १०६ ॥ स्थाप्यन्ते ये यथा देवा नगरे सर्वतोदिशम् । बाह्यान्तरासु भूमीषु ब्रूमहे तानतःपरम् ॥ १०७ ॥ चतुर्दिशं समारभ्य प्राकारपरिखान्ततः । बहिः शते शते सार्धे धनुषां द्विशतेऽपि च ॥ १०८ ॥ धनुःशतमितैः शुद्धैरनिन्द्यैर्धरणीतलैः । स्वस्वप्रासाद्युक्तानि स्वखानुगगृहैः सह ॥ १०९ ॥ निवेशनानि कुर्वीत त्रिदशानां यथाक्रमम् । नगराभिमुखं चित्रवनभाञ्जि शुभानि च ॥ ११० ॥ याम्योत्तरायतं वंशं विकल्पपुरमव्यगम् । बहिरन्तश्च कुर्वीत देवानां विनिवेशनम् ॥ १११ ॥ प्राच्यां प्रत्यङ्मुखान् कुर्यात् प्राङ्मुखांश्चाम्बुभृद्दिशि । याम्योदक्पार्श्वयोस्तस्य ³प्रादक्षिण्येन वंशगान् ॥ ११२ ॥ दक्षिणस्यां न कुर्वीत त्रिदशानप्युदङ्मुखान् । चैत्यशान्तिसभायक्षमातृप्रँथमयान्विताः( ? ) ॥ ११३ ॥ इत्यमी कथिताः सम्यग् ये यथादिङ्मुखाः सुराः । दिक्षु दिक्षु बहिर्ये स्युस्तानिदानीं प्रचक्ष्महे ॥ ११४ ॥ विष्णोर्दिनाधिनाथस्य सहस्रनयनस्य च । धर्मस्य च विधातव्यं दिशि प्राच्यां निकेतनम् ॥ ११५ ॥ सनत्कुमारसावित्र्योर्मरुतां मारुतस्य च । पूर्वदक्षिणदिग्भागे विदधीत निकेतनम् ॥ ११६ ॥ १ क. द. पश्यन्त्ये ते पुरं, ‘पश्यतस्तौ पुरे च यत्’ इति शास्त्रिभिः निर्दिष्टः पाठः । २ द. तत्रहिंसकाः । ३ द. प्राग्दं । ४ क. ॰प्रमथया॰, ॰प्रमथपा॰ इति शास्त्रिभिः निर्दिष्टः पाठः, द. ॰प्रथमया॰ ।

पुरनिवेशो दशमोऽध्यायः । ४९ गणेशमातृभूतानां याम्ये प्रेतपतेर्गृहम् । भद्रकाल्याः पितॄणां स्याद् वेश्म चैत्यं च नैऋते ॥ ११७ ॥ सागरस्य नदीनां च शिल्पिभर्तुः प्रजापतेः । निलयं पश्चिमाशायां विदध्याद् वरुणस्य च ॥ ११८ ॥ फणिनां भवनं कार्यमपरोत्तरदिग्गतम् । शनैश्चरस्य चात्रैव कात्यायन्याश्च मन्दिरम् ॥ ११९ ॥ विशाखस्कन्दसोमानां तथा यक्षाधिपस्य च । पृथक्पृथग् विधातव्याः प्रासादाः सौम्यदिग्गताः ॥ १२० ॥ जगद्गुरोर्महेशस्य श्रियो वह्नेश्च मन्दिरम् । पूर्वोत्तरस्यां ककुभि प्रविधेयं मनोरमम् ॥ १२१ ॥ नदीनामम्बुधीनां च समन्तान्नगरस्य च । कान्तारेष्वद्रिषु स्थानं सर्वत्रेष्टमुमापतेः ॥ १२२ ॥ निवेश्यन्ते स्वदिग्भागेष्वेवं यस्मिन् सुरोत्तमाः । सम्यक्समृद्धिमासाद्य चिरं नन्दति तत्पुरम् ॥ १२३ ॥ नगरस्य विदूरेऽपि ककुप्सु निखिलास्वपि । बाह्यतोऽभिमुखा देवाः शस्यन्ते न पराङ्मुखाः ॥ १२४ ॥ क्रियते यदि १भूभागे वंशेन स पराङ्मुखः । विधिमेनं तदा तस्मिंस्तज्ज्ञः शास्त्रोक्तमाचरेत् ॥ १२५ ॥ तद्रूपवर्णभूषास्त्रवाहनैरन्वितं सुरम् । तद्भित्तौ प्रकटाकारं नगराभिमुखं लिखेत् ॥ १२६ ॥ वैकङ्कतशमीबिल्वैः क्षीरकण्टकिभिर्द्रुमैः । उदपानाग्न्यगारेषु स्यान्न दोषोऽन्तरस्थितैः ॥ १२७ ॥ अर्चाश्रितेष्वयं प्रोक्तो विधिर्नालेख्यवर्तिषु । कर्तव्याः सर्वतोवक्त्रास्तस्माच्चित्रगताः सुराः ॥ १२८ ॥ विधानं यद् यथा प्रोक्तं सुरधाम्नां पुराद् बहिः । तत् तथाभ्यन्तरेऽपि स्यात् कार्यं स्वस्वदिगाश्रयम् ॥ १२९ ॥ १ द. भूभागवशेन । वा. ७

५० समराङ्गणसूत्रधारे मध्ये पुरस्य कर्तव्यं गृहमम्भोजजन्मनः । निवेशनं तथेन्द्रस्य तथैव हलिकृष्णयोः ॥ १३० ॥ मातृयक्षगणाधीशान् शिवकान् भूतसङ्घकान्१ । विनापि वेश्मभिः कुर्यात् पुरे चत्वरमार्गगान् ॥ १३१ ॥ राज्ञा वर्णाश्रमकलापण्यशिल्पोपजीविनः । स्वदिक्पदस्थाः कर्तव्यास्ते देवाश्चेच्छता श्रियम् ॥ १३२ ॥ प्रासादे सति भक्तीच्छाशक्तियुक्तो यदापरम् । प्रासादं कारयेत् पूर्वं न तदा पीडयेत् सुधीः ॥ १३३ ॥ प्रतिवेश्म प्रतिग्रामं प्रतिदेवकुलं तथा । कुर्यात् प्रतिपुरं चापि न प्राज्ञानगुणाधिकम् ॥ १३४ ॥ पूर्वप्रासादतो रुद्रसोमयोर्ब्रह्मणोऽथवा । प्रासादे विहितेऽन्यस्मिन् भवेत् पीडाग्रजन्मनाम् ॥ १३५ ॥ कृते धामन्यधिकेऽन्यस्मिन् वहेर्वाचस्पतेरुत । पुरोधसां भयं विद्याद् ध्रुवं ज्योतिर्विदां तथा ॥ १३६ ॥ धनाधिपामराधीशयमानां वरुणस्य वा । अधिके विहिते धाम्नि भयं विद्यान्महीपतेः ॥ १३७ ॥ स्कन्दधाम्नोऽधिकेऽन्यस्मिन् विहिते तस्य वेश्मनि । सेनापतेर्बलानां च पीडा सञ्जायते ध्रुवम् ॥ १३८ ॥ प्रजापतेरभ्यधिकं हरेर्वान्यत् कृतं गृहम् । कर्तुः कारयितुश्च स्याद् बन्धाय२ च विनष्टये ॥ १३९ ॥ गणेशयक्षफणिनामधिकोऽन्यः कृतो यदि । प्रासादः स्यात् तदा नित्यं सेनाङ्गानां महद्भयम् ॥ १४० ॥ स्त्रीनाम्न्यो देवतास्तासां पीड्यन्ते यदि वेश्मभिः । मुख्यानां पुरनारीणां तदा कुर्वन्त्युपद्रवम् ॥ १४१ ॥ पूर्वामरेषु सर्वेषु पीडितेष्वमरालयैः । अन्यैस्तल्लिङ्गिनां पीडा चैत्यैर्वा चैत्यपीडितैः ॥ १४२ ॥ १ क. ढ. सिंहकान् । २ द. ख. बन्धायाथ ।

वास्तुत्रयविभागो नामैकादशोऽध्यायः । ५१ हीनाधिकप्रमाणेषु दुर्निविष्टेषु धामसु । कर्तुः कारयितुः पीडा स्यान्न पूजा तथास्य च ॥ १४३ ॥ नैवातिसंभृतं कुर्यात् स्वल्पमल्पामरालयम् । १पुरं चानाश्रितं कुर्याद् वेधभागाश्रितं न च ॥ १४४ ॥ ज्येष्ठमध्यकनिष्ठानि नवषट्त्रिपदान्तरे । सुरवेश्मानि कुर्वीत दोषायापरथा पुनः ॥ १४५ ॥ कठिनोऽयं विधिः ३स्वैः स्वैस्त्रिदशानां निवेशने । बहिर्निवेशनात् स्वेच्छं विदध्यादमरालयम् ॥ १४६ ॥ नगरेषु समग्रेषु ग्रामेषु निखिलेषु च । खेटकेषु च सर्वेषु सामान्योऽयं विधिः स्मृतः ॥ १४७॥ इत्युक्त एष नगरोपगतः सुराणां स्वस्व४भागविहितः पदसन्निवेशः । ब्रूमो विभागमधुना गृहदेवतानां सम्यक् शुभाशुभफल५विभागयुक्तम् ॥ १४८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारारूपनाम्नि वास्तुशास्त्रे पुरनिवेशो दशमोऽध्यायः ॥ अथ वास्तुत्रयविभागो नामैकादशोऽध्यायः । चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः । मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः ॥ १ ॥ तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा । आग्नेयकर्णे सवितृसावित्रौ पदिकावुभौ ॥ २ ॥ ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः । नैर्ऋते पदिकौ कर्णे जयेन्द्रौ कथितावुभौ ॥ ३ ॥ १ द. संभृतं । २ द. स्वं पुरं चानाश्रि° । ३ द. स्वे स्वे । ४ द. °विभाग° । ५ द. प्रविपाकः।

'षट्पदः स्यात् ततो मित्रः काष्ठायां पत्युरम्भसः । कर्णेऽपरोत्तरे यक्ष्मा रुद्रश्च पदिकावुभौ ॥ ४ ॥ षड्भिः पदैस्ततः सौम्ये निश्चलः पृथिवीधरः । आपस्तथापवत्सश्च पदिकावीशदिग्गतौ ॥ ५ ॥ इत्यन्तःसंश्रया देवाः प्रोक्ता ब्रूमो बहिःस्थितान् । ज्ञेयं प्रदक्षिणं तेषां स्थानं पूर्वोत्तरादितः ॥ ६ ॥ ^२अग्निस्तदनु पर्जन्यो जयन्तश्चेन्द्र एव च । रविः सत्यो भृशश्चेति नभस्तस्मात् ततोऽनिलः ॥ ७ ॥ पूषाख्यो वितथाख्यश्च गृहक्षतयमावथ । गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्ततः ॥ ८ ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो ^३जलेश्वरः । असुरः शोषनामा च पापयक्ष्मा ततः परम् ॥ ९ ॥ रोगो नागश्च मुख्यश्च भल्लाटः सोम एव च । चरकोऽथादितिर्दैत्यमातेति पददेवताः ॥ १० ॥ वह्नेर्वायोः पितॄणां च व्याधेश्चैव क्रमाद् बहिः । चरकी च विदारी च पूतना पापराक्षसी ॥ ११ ॥ पदै^४भोगोऽस्ति नैतासां स्थानमेव हि केवलम् । ^५पदभोगमथ ब्रूमो बहिःस्थानां नभःसदाम् ॥ १२ ॥ तत्राष्टौ द्विपदाधीशा जयन्तो भृश एव च । वितथो भृङ्गसुग्रीवशोषमुख्यास्तथादितिः ॥ १३ ॥ एभ्यः शेषा बहिर्ये तु ते स्युः पदभुजः सुराः । एकाशीतिपदे प्रोक्तो देवतानां पदक्रमः ॥ १४ ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । भवेच्छतपदो वास्तुर्ब्रूमोऽत्राप्यमरस्थितिम् ॥ १५ ॥ १ द. षट्पदाम्यन्तरो । २ ख. ईशस्तं । ३ क. जलोद्विपः (? जलाधिपः) । ४ द. पदभागो । ५ द. पदभागं ।

वास्तुत्रयविभागो नामैकादशोऽध्यायः । ५३ द्विरष्टगुणिनं मध्ये पदमेकं पितामहः । भुङ्क्ते शतपदे वास्तौ चतुर्गुणितमर्यमा ॥ १६ ॥ विवस्वतोऽथ मित्रस्य तद्वच्च पृथिवीभृतः । भोगमिच्छन्ति वै तेषामर्यम्ण इव सूरयः ॥ १७ ॥ सवित्राद्यापवत्सान्ता ये च नोक्ताः सुरोत्तमाः । यथैकाशीतिके तद्वत् तेषां भोगः पदाष्टकम् ॥ १८ ॥ अग्न्यन्तरिक्षपवना मृगश्च पित¹रोऽपि च । रोगोऽदिनिस्तथाध्यर्धपदभाजो बहिः स्थिताः ॥ १९ ॥ चतुर्विंशन्निरुक्ता ये पर्जन्याद्याः सुरोत्तमाः । अदित्यन्ता द्विपदिकास्ते शेषं प्राक् प्रसाधितम् ॥ २० ॥ चतुरश्रीकृते क्षेत्रे पूर्ववद् भाजितेऽष्टभिः । चतुःषष्टिपदो वास्तुश्चतुःषष्ट्या पदैर्भवेत् ॥ २१ ॥ अस्मिन् पदानि चत्वारि भुनक्त्यन्तः पितामहः । अर्यमाद्याः सुराश्चात्र द्वे द्वे मध्यगताः पदे ॥ २२ ॥ मध्येऽष्टौ बाह्यतोऽष्टौ ये स्थिताः कर्णेषु चाष्टसु । ये देवाः सर्व एवात्र ते पदार्धभुजः स्मृताः ॥ २३ ॥ ²पर्जन्योऽथ भृशः पूषा भृङ्गदौवारिकौ तथा । शोषनागादितिप्रान्ताः स्युरध्यर्धपदस्पृशः ॥ २४ ॥ ³जयन्तादिषु बाह्येषु चरकान्तेषु कीर्तिता । प्रत्येकं षोडशस्वत्र सुरेषु द्विपदस्थितिः ॥ २५ ॥ सिरां वह्निपदादूर्ध्वं नयेत् ⁴पितृपदान्ततः । ⁵बाह्याशानिर्गतां चैनां रोगनामानमानयेत् ॥ २६ ॥ द्विनाम्नः प्रापयेद् भृङ्गं भृङ्गात् सुग्रीवमानयेत् । ततोऽदितिं तां गमयेद् द्विनामानं प्रवेशयेत् ॥ २७ ॥ १ क. पितरः क्षयः । २ द. पर्जन्यो जयभृशः भृंगोदौवारिकस्तथा । ३ द. ख. द्विनामादिषु । द्विनामशब्दो जयन्तपर्यायः ( शार्ङ्गी ) । ४ द. पितृपदं ततः । ५ द. स्वास्वाशा ।