सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पञ्चविंशः परिच्छेदः ६१७ प्रवेश करावे । मन्त्र तन्त्र में किसी प्रकार का स्खलन न हो, इस भय से अपने ही समान अन्य आचार्य का वरण करे ॥ ३९-४० ॥ स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम् ॥ ४० ॥ आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः । स्वस्य तु भूतशुद्ध्यादिन्यासान्तकर्मसु हवनार्चनकर्मवस्त्वनुसन्धानपूर्वकमेकाय- तचित्तत्वेन वर्तमान(ता)माह—स्वयमिति ॥ ४०-४१ ॥ स्वयं भूत शुद्ध्यादि न्यासान्त कर्म में तथा हवन एवं अर्चन कर्म के वस्तुओं का अनुसंधान कर सभी अवसरों में हवनार्चन कर्म में दक्ष पुरुष को नियुक्त करना चाहिए ॥ ४०-४१ ॥ कृत्वा दीक्षाविधानोक्तं सहोमं कलशार्चनम् ॥ ४१ ॥ कुर्यात् सतोरणानां तु ध्वजानां स्थापनं ततः । पूर्वं दीक्षाप्रकरणोक्तरीत्या महाकुम्भार्चनहोमादिकं तोरणध्वजस्थापनार्चनं चाह—कृत्वेति ॥ ४१-४२ ॥ दीक्षा विधानोक्त रीति से होम सहित कलशार्चन करे । फिर तोरण सहित ध्वजों का स्थापन करे ॥ ४१-४२ ॥ सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ॥ ४२ ॥ निवेश्य मध्यवेदयां तु पुनरप्ययवत् तथा । यजेत् सत्यादिकं तत्र चतुष्कं होवमेव हि ॥ ४३ ॥ उत देवा अवहितमृङ्मयान् पाठयेत् ततः । बहिर्वे सर्ववर्णेन चक्रं तोरणगं यजेत् ॥ ४४ ॥ पाठयेद् द्वारपालीयं साम सामविदस्ततः । मध्यवेद्याः परितो ध्वजाष्ट(क)स्थापनम्, तत्र प्रभवाप्ययक्रमेण सत्यसुपर्णाद्य- र्चनम्, उत देवा इत्यादिमन्त्रपाठनम्, बहिस्तोरणगतनानावर्णचक्रध्वजेषु चक्रराजा- र्चनम्, लोकद्वारमपावृण्वित्यादिद्वारपालीयसामपाठनं चाह—सितेति त्रिभिः । एवं महाकुम्भाद्यर्चनानन्तरं ध्वजार्चनादिकस्योक्तावपि तत्पूर्वमेव वा तत्कार्यमिति ज्ञेयम् । तथा चेश्वरपारमेश्वरयोः—‘‘एतेषामथवा पूर्वं भवेद् द्वास्थैः सहार्चनम्’’ (ई०सं० १८।५८, पा०सं० १५।१७८) इति ॥ ४२-४५ ॥ मध्य वेदी के चारों ओर आठो दिशाओं में सित, रक्त, पीतादि वर्णों की आठ ध्वजायें स्थापित करे । फिर प्रभव एवं अप्यय क्रम से सत्य सुपर्णादि की अर्चना करे । फिर ‘उत देवा’ इत्यादि मन्त्र का पाठ करे । बाहर तोरण पर रहने वाले नाना वर्ण के ध्वजाओं पर चक्रराज का अर्चन करे । फिर ‘लोकद्वारमपावृणु’ इत्यादि द्वारपालीय साम का पाठ करे ॥ ४१-४५ ॥ सा० सं० – 43
६१८ सात्वतसंहिता अथार्घ्यपुष्पमृण्मूर्तिधरैर्यायात् समावृतः ॥ ४५ ॥ यत्र तिष्ठति विश्वेशः पीठब्रह्मशिलान्वितः । तत्रावलोकनं तेषां कुर्यात् सन्ताडनादिकम् ॥ ४६ ॥ अथ मूर्तिपैः सह बिम्बसमीपगमनम्, नेत्रमन्त्रेण तदवलोकनादिकम्, सिद्धार्थोद- कादिषट्कलशस्थापनादिकमर्चनम्, देवस्य दक्षिणहस्ते सिद्धार्थैः सह प्रतिसरबन्धनम्, ऋग्वेदिभिरथार्वणिकैश्च रक्षोहणपाठनम्, वेदघोषैर्नृत्तगेयादिभिः सह रथादिना बिम्बा- द्यानयनम्, तदानीं स्वर्णादिदानयागगेहप्रवेशनं चाह—अथार्घ्यपुष्पभृदित्यारभ्य स्व- स्थानं यज्ञभूमेर्वै इत्यन्तम्। चक्राङ्गौषधी = कटुकरोहिणी, “कटुः कटुम्भराऽशोका रोहिणी कटुरोहिणी। मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादिनी" ॥ (३।८।८६) इति वैजयन्ती। कर्मारम्भं भगवतो बलेनेत्यादिकं मन्त्रम्, ॐ भगवानेव स्वशेषभूतं मामिति मन्त्रं वा ॥ ४५-५५ ॥ इसके बाद अर्घ्य पुष्प मृण्मयमूर्त्ति धारण किये हुए मूर्त्तियों से समावृत होकर पीठ पर ब्रह्मशिला से युक्त विश्वेश (बिम्ब स्वरूप) जहाँ पर स्थित हैं वहाँ जावे। नेत्र मन्त्र से उनका अवलोकन करे तथा सन्ताडनादि करे ॥ ४५-४६ ॥ चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नापयेत् ततः । सिद्धार्थकैस्तथा पञ्चगव्यमृद्धूतिवारिणा ॥ ४७ ॥ वल्मीकमृज्जलेनाथ चक्राङ्गौषधिवारिणा । संक्षाल्याभ्यर्च्य चोद्धर्त्य क्षालयेदस्त्रवारिणा ॥ ४८ ॥ तदनन्तर चक्रास्त्र से अभिमन्त्रित स्नान कलश से स्नान करावे। फिर सिद्धार्थक (श्वेत सर्षप) वारि से, फिर पञ्चगव्य के जल, फिर मिट्टी के जल से, फिर भस्म के जल से, फिर वल्मीकस्थ मिट्टी के जल से, फिर चक्राङ्ग औषधि (= कटुकरोहिणी) के जल से प्रक्षालित कर अर्चन करे, फिर उद्वर्त्तन करे। अस्त्र के जल से बिम्ब का प्रक्षालन करे ॥ ४७-४८ ॥ तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे । सिद्धार्थकान् दक्षिणे तु बद्ध्वायै पाठयेदृचम् ॥ ४९ ॥ रक्षोहणं तथा सर्वान् नयेत् प्रतिसरे मणीन् । सद्द्वस्त्रवेष्टितं कृत्वा समारोप्य रथोत्तमे ॥ ५० ॥ कर्मारम्भं च पठतस्तस्य दक्षिणदिङ् न्यसेत् । ऋक्सामपूर्वन् वामे तु ब्राह्मणांस्तु चतुश्रुतुः ॥ ५१ ॥ पुरतोऽस्त्रं स्मरन् यायात् स्वयं विघ्नांस्तु सूदयन् । तदनन्तर उस बिम्ब का अर्घ्य से अर्चन कर प्रथम अस्त्रमन्त्रित सिद्धार्थक दाहिने हाथ में बाँधे। फिर 'रक्षोहणम्' इस ऋचा का पाठ करते हुए सभी प्रकार की
पञ्चविंशः परिच्छेदः ६१९ मणियुक्त 'प्रतिसरा' उसी हाथ में बाँधे । फिर उस बिम्ब को वस्त्र से वेष्टित कर उत्तम रथ पर समारोपित कर कर्मारम्भ (भगवतो बलेनेत्यादि मन्त्र) का पाठ करते हुए उसके दक्षिण दिशा में न्यास करावे । फिर ऋक् सामपूर्वक मन्त्र का पाठ करते हुए बाईं ओर न्यास करावे । दाहिनी ओर और बायीं ओर मन्त्रों का पाठ करने वाले ब्राह्मणों की संख्या क्रमशः चार-चार होनी चाहिये । इसके बाद स्वयं अस्त्र मन्त्र के द्वारा विघ्नों का नाश करते हुए रथ के आगे-आगे चले ॥ ४९-५२ ॥ सन्नृत्तगेयवादित्रस्तुतिमङ्गलपाठकैः ॥ ५२ ॥ इदं विष्णुर्विचक्रम ऋङ्मयैः सह पाठयेत् । एकायनांस्तदन्ते तु ॐ नमो ब्रह्मणे तु यत् ॥ ५३ ॥ तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम् । स्वर्णादिनार्थिनः शक्त्या तर्पयंस्तान् प्रवेशयेत् ॥ ५४ ॥ उसके साथ-साथ नृत्य करने वाले, गान करने वाले, बाजा बजाने वाले, स्तुति और मङ्गल पाठ करने वाले चलें । 'इदं विष्णुर्विचक्रमे' इन ऋचाओं को पढ़ते हुए वैदिक लोग भी साथ में चलें । सबसे अन्त में शाकुन सूक्त एवं श्रीसूक्त के सहित 'ॐ नमो ब्रह्मणे तु यत्' इस एकायन का पाठ करने वालों से समन्वित रहे । इस प्रकार स्वर्णादि की कामना करने वाले उन-उन अर्थी जनों को अपनी शक्ति के अनुसार तृप्त करते हुए यागगृह में प्रवेश करावे ॥ ५३-५४ ॥ स्वस्थानं यज्ञभूमेर्वे प्रासादाभ्यन्तरं तु वा । वक्ष्यमाणविधानेन युक्तं रत्नशिलादिना ॥ ५५ ॥ कृत्वा द्रव्याधिवासं प्राक् कर्मभूमौ पुरोदितम् । स्नानकर्मशिलादीनामीषत् कृत्वा तु सार्चनम् ॥ ५६ ॥ यथावद् रत्नविन्यासं पीठपूर्वं निवेश्य च । बृहद्विम्बे ततः कुर्यात् कर्मबिम्बेऽखिलं तु वै ॥ ५७ ॥ सन्निरोधस्तु मन्त्राणां तत्र लग्नोदये स्मृतः । आबृहत्स्नपनात् सर्वं यत्किञ्चिदथ तत्र तत् ॥ ५८ ॥ निर्वर्तनीयं पूर्णान्तं बुद्ध्वैवं प्राङ् महामते । तथा कार्यं शुभो येन मुहूर्तो नावसीदति ॥ ५९ ॥ बिम्बे बृहति सति तस्य केवलं प्रासादाभ्यन्तरप्रवेशम्, तत्र रत्नन्यासपूर्वकं पीठे स्थापनम्, यागशालाद्याखिलकर्मणां कर्मबिम्बे कर्तव्यत्वम्, लग्नोदये मूलबिम्ब एव मन्त्रावाहनसन्निरोधम्, मुहूर्तातिक्रमो यथा न संभवेत् तथा बृहत्स्नपनात् पूर्वं कर्तव्यानां पूर्णाहुत्यन्तानां कर्मणां झटित्यनुष्ठानं चाह—प्रासादाभ्यन्तरं तु वेत्यारभ्य मुहूर्तो नावसीदतीत्यन्तम् । आ बृहत्स्नपनात् पूर्वमित्यनेन बृहत्स्नपनस्य मूलबिम्ब एव
६२० सात्वतसंहिता कर्तव्यत्वमुक्तं भवति। तथा चोक्तमीश्वरपारमेश्वरायोः— स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते द्विजाः। पूर्ववत् कर्मशालायां संस्थाप्याकारशुद्धये॥ संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः। स्नपनं बृहदापाद्य केवलं वा बहूदकैः॥ स्नानकर्म शिलादीनामीषत् कृत्वा तु सार्चनम्। उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम्॥ समानीय ततो यत्नात् प्रासादाभ्यन्तरं तु वै। यथावद् रत्नविन्यासपूर्वं पीठे निवेश्य च॥ इति। —(ई०सं० १८।७१-७५, पा०सं० १५।१९२-१९५) शिल्पिशालायां केवलं बहूदकैरेव स्नपने कृते बृहत्स्नपनं प्रासादाभ्यन्तर एव कार्यमिति च ज्ञेयम्॥ ५५-५९॥ यदि बिम्ब बहुत बड़ा हो, तब केवल प्रासाद के भीतर उसका प्रवेश करावे। वहाँ रत्नन्यासपूर्वक पीठ पर स्थापित करे। यज्ञशालादि समस्त कर्म ‘कर्म-बिम्ब’ पर करे। लग्नोदय होने पर मन्त्रावाहन एवं सन्निरोध मूल बिम्ब पर ही करे। इसका तात्पर्य यह है कि कर्म बिम्ब पर समस्त यज्ञ शालादिकर्म शीघ्रता से कर ले। लग्नोदय (मुहूर्त्त उपस्थित होने पर) शिल्पिशाला में शीघ्रता से बहूदक स्नान कराकर बृहत्स्नपन एवं मन्त्र सन्निरोध प्रासाद के भीतर मूल-बिम्ब पर ही करे। अतः जिस प्रकार मुहूर्त्त का अतिक्रमण न हो, वैसा करे। ऐसा करने से साधक का कल्याण होता है॥ ५५-५९॥ एवं हि चित्रपूर्वाणामन्येषां कमलेक्षण। सरलब्रह्मपाषाणवर्जितानां समाचरेत्॥ ६०॥ स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे। कर्मबिम्बं विना तेषां प्रस्वापाद्यं हि विष्टरे॥ ६१॥ कुर्यात् प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम्। चित्रबिम्बविषयेऽप्येवमेव कर्मबिम्बे स्नपनाद्यखिलकर्मणामनुष्ठानम्, तस्याभावे दर्पणे छायास्नपनम्, कूर्चद्वारा यागगेहप्रवेशशय्याधिवासोत्सवान्तानां कर्तव्यत्वं चाह— एवं हीति सार्धद्वाभ्याम्॥ ६०-६२॥ हे कमलेक्षण! चित्र बिम्ब के विषय में भी यही विधान कहा गया है। कर्म बिम्ब पर स्नपनादि अखिल कर्म का अनुष्ठान करना चाहिए। यदि उसं स्नानादि का अभाव हो तो दर्पण में छाया स्नपन करे। इसके बाद कूर्च द्वारा यागगेह प्रवेश एवं शय्याधिवास और उत्सव करे। कर्मबिम्ब के बिना ही उस विष्टर पर उन्हें पहले सुलावे इस प्रकार प्रवेश से पूर्व समस्त उत्सव सम्पादन करे॥ ६०-६२॥
पञ्चविंशः परिच्छेदः ६२१ एवं प्रवेश्य तद्बिम्बं साम्प्रतं विनिवेश्य च ॥ ६२ ॥ निषण्णदृढकाष्ठोत्थतोरणेऽस्त्राहुतीस्ततः । एवं यागगेहानयनानन्तरं तत्र दृढकाष्ठोत्थतोरणे सन्निवेशमस्त्रमन्त्रेण होमं चाह—एवमिति । पीठब्रह्मशिलयोः पूर्वमेव तत्रानयनं तदुपरि ब्रह्मस्थापनं कार्य- मित्युक्तमीश्वरपारमेश्वरयोः— यागभूमिं ततो बिम्बमवरोप्य रथादिकात् । निषण्णदृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥ स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः । यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम् ॥ भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च । ततो बिम्बं समानीय स्थापयेत् पिण्डिकोपरि ॥ इति । —(ई०सं० १८।६८-७१, पार०सं० १५।१८६९-१९१) ॥ ६२-६३॥ इसके पश्चात् बिम्ब का प्रवेश कराकर दृढ़ काष्ठ से बने हुए तोरण पर उसे स्थापित करे । फिर अस्त्र मन्त्र से आहुति देवे ॥ ६२-६३ ॥ स्नपनार्थ कलशस्थापनविधिकथनम् निवेश्य स्नानकलशान् हेमाद्युत्थांस्तु निर्व्रणान् ॥ ६३ ॥ पूर्ववद् वदनोपेतान् सुसमांस्त्रासवर्जितान् । निरीक्षणादिसंशुद्धान् कृत्वा सहृदयेन तु ॥ ६४ ॥ द्वादशाक्षरमन्त्रेण मन्त्रयेत् तान् सकृत् सकृत् । तेनैव पूजयेत् पश्चादर्घ्यस्रक्चन्दनादिना ॥ ६५ ॥ तदाहरणहोमं तु यथाशक्ति समाचरेत् । पूर्णान्तमथ सम्पूर्य क्रमाद् द्रव्यैर्नियोजयेत् ॥ ६६ ॥ अथ स्नपनार्थं कलशस्थापनविधिमाह—निवेश्य स्नानकलशानित्यारभ्य वस्त्रे- णाच्छाद्य वै तत इत्यन्तम् । पूर्वोदितैर्दीक्षाप्रकरणोक्तैरित्यर्थः । अस्य स्नपनस्य पार- मेश्वरेऽप्युक्तत्वात् तद्व्याख्याने पाद्यार्घ्याचमनीयद्रव्याण्युपरि स्पष्टीकरिष्यतीत्युक्तम् । तद्विरुद्धम्, पूर्वोदितैरिति विशेषणस्य वैयर्थ्यात्, तत्रोपरि स्पष्टीकरिष्यमाणपाद्यादि- द्रव्याणां वैजात्याच्च । चमसी = मलनिरहरणार्थकसुगन्धद्रव्यविशेषः । त्रिफलं (नेल्लिक्कायि अरलेकायि तारेकायि । वचा बजे) 'वचोग्रन्था' (२।४।१०२) इत्यमरः। शतावरी = आषाढी । कन्या लोलिसरकन्या, कुमारीति निघण्टुः । व्याघ्री गुल्ली सिंही आडुसोगे । कृताञ्जलिः सट्टदकरिकै कृताञ्जलिर्नार्गबालेति निघण्टुः । गोलोमी पिल्लगरिकै, 'गोलोमी शतवीर्या च' (२।४।१५९) इत्यमरः । "गोलोमी शतपर्विका" (२।४।१०२) इति गोलोमीशब्दस्य वचापरत्वमप्यस्ति, वचायाः पूर्वमेवोक्तत्वादत्र श्वेतदूर्वैव प्रकृता । सिंहलोमी नरियाल्दहुल्लु, क्रोष्टुविन्ना सिंहपुच्छी''
६२२ सात्वतसंहिता (२।४।९३) इत्यमरः । कुष्ठं चगलकोष्ठ, "व्याधि कुष्ठं पारिभाव्यम्" (२।४। १२६) इत्यमरः । भूम्यञ्जनम् । महागंरुडवेगा गरुडनगरिगिड्डा । महानीला करि- गुरुग, गलूची अमृतवल्ली, गल्लूच्यमृतवल्ली चेति निघण्टुः । सहदेवी प्रसिद्धा । विष्णुकान्ता च प्रसिद्धा । शतावरी पूर्वोक्ता । कार्कोटा तोट्टिगिड्डा, हिंस्रा कार्कोटकी चेति निघण्टुः । सिंहा बिल्वः शैलूषश्रीफलसिंहा इति वैद्यनिघण्टुः । वह्निशिखा गिणिमृभिनगड्डे, "स्याल्लाङ्गलिक्यग्निशिखा" (२।४।११८) इत्यमरः । यष्टि अतिमधुरम् । वाराहकर्णी, "अनेलदालु । बला बेण्णेगरुड, "बला वाट्यालकी घण्टा" (२।४।१०७) इत्यमरः । मोटा अगलशुण्ठी । पद्मकं प्रसिद्धम् । सप्त ग्राम्यौषधयः शालिमुद्गादयः, सप्तान्यका वेणुश्यामाकादयश्चेश्वरपारमेश्वरयोर्हविः- पाकप्रकरणोक्ता ग्राह्याः । एवं वामभागे स्थापितचत्वारिंशत्कलशस्नपनस्य स्थूलपर- संज्ञत्वम्, पृष्ठभागे स्थापितचत्वारिंशत्संख्याककेवलशीतोदककलशस्नपनस्य स्थूल- सूक्ष्मसंज्ञत्वम्, दक्षिणभागे स्थापितगन्धोदकपूरितचत्वारिंशत्कलशस्य स्थूलस्थूल- संज्ञत्वं चेश्वरपारमेश्वरयोः प्रतिपादितम् । एवं देवस्य वामभागादिषु स्नपनत्रयकलश- स्थापनं पृथक् स्नपनमण्डपे सति कार्यम्, तदभावे यागगेहस्थतदर्थपीठ एव पूर्वादि- पश्चिमान्तं तत्तद्दिने तत्तत्स्नपनकलशस्थापनं कार्यमिति च तत्रैव प्रतिपादितं ज्ञेयम् । तत्तत्स्नपनकालश्च तत्रैवोक्तः- अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥ प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम् । चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत् ॥ इति । -(ई०सं० १८।१६४-१६५, पा०सं० १५।२८८-२८९) एषां स्नपनानां सति विभवे विस्तारस्तदभावे संकोचश्च तत्रैव स्नपनाध्याये प्रतिपादितः- भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ॥ त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् । अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ॥ चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् । एकैकं वापि विप्रेन्द्राः सर्वद्रव्यमयं घटम् ॥ -(ई०सं० १५।१३८-१४०, पा०सं० १४।१४०-१४२) इति ॥ ६३-९० ॥ इसके बाद स्वर्णादि विनिर्मित व्रण रहित दीक्षा प्रकरण में कहे गये मुखों से युक्त सर्वत्र एक समान, फूटने-टूटने के भय से वर्जित, अच्छी तरह देखभाल कर, शुद्ध किये गये, सौहार्दपूर्वक बनाये गये कलशों को स्थापित करे । फिर एक-एक कलश को द्वादशाक्षर मन्त्र से अभिमन्त्रित करे । पुनः उसी मन्त्र से अर्घ, माला एवं चन्दन से उनकी पूजा करे । उसके स्थापित करने के मन्त्र से यथाशक्ति होम करे । पूर्णाहुती करे । तदनन्तर उसमें तत्तद् द्रव्य स्थापित करे ॥ ६३-६६ ॥
पञ्चविंशः परिच्छेदः ६२३ पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् । नागाद्याद्यन्तमध्येभ्यो नदीमृत्तीर्थसम्भवा ॥ ६७ ॥ ह्रदाद् वल्मीकशिखराद् गजदन्तक्षतीकृतात् । हलोत्था वृषशृङ्गोत्था शालिक्षेत्रेषु सम्भवा ॥ ६८ ॥ तथैव पद्मषण्डोत्था त्वेकस्मिन् गोमयं परे । वनदाहसमुद्भूतं तथैव च महानसात् ॥ ६९ ॥ त्रेताग्निभस्म त्वपरे विनिवेश्यं घटान्तरे । अन्यस्मिन् पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ ७० ॥ पूर्व में कहे गये पाद्य, अर्घ्य और आचमनीय द्रव्यों को तीन कलश में स्थापित करे । पहाड़ के आदि, मध्य और अन्त में होने वाली मृत्तिका, नदी की मिट्टी, तीर्थ की मिट्टी, ह्रद (तालाब) की मिट्टी, वल्मीक के शिखर (ऊपरी भाग की मिट्टी), हाथी के दाँत से उखाड़ी गई मिट्टी, हल की मिट्टी, बैल के सींग से उखाड़ी गई मिट्टी, धान के खेत की मिट्टी, कमल की मिट्टी, इतनी मिट्टी एक कलश में स्थापित करे । अन्य कलश में केवल गोमय स्थापित करे । वनदाह का भस्म, रसोई का भस्म और त्रेताग्नि भस्म अन्य घट में स्थापित करे । अन्य कलश में कुशोदक युक्त पञ्चगव्य स्थापित करे ॥ ६७-७० ॥ सघृतं तैलकुम्भं तु चमसीवारिपूरितम् । पलाशखदिराश्वत्थशमीलोहितचन्दनम् ॥ ७१ ॥ कषायोदकमन्यस्मिन् परस्मिंस्त्रिफलोदकम् । वचा शतावरी कन्या व्याघ्री सिंही कृताञ्जलिः ॥ ७२ ॥ गोलोमी सिंहलोमी च कुष्ठं भूतजटा तथा । महागरुडवेगा च कलशेऽन्यत्र लाङ्गलिन् ॥ ७३ ॥ चमसी (मल निकालने वाला सुगन्धित द्रव्य विशेष) के जल से पूर्ण सघृत तैल अन्य कलश में और पलाश, खदिर, अश्वत्थ, शमी, लालचन्दन एवं कषायोदक किसी अन्य कलश में स्थापित करे । इसके बाद त्रिफलोदक युक्त कलश, वचा, शता- वरी कन्या, व्याघ्री, सिंही, कृताञ्जलि, गोलोमी, सिंहलोमी, कुष्ठ, भूतजटा तथा महा- गरुडवेगा, हे लाङ्गलिन् (सङ्कर्षण) किसी अन्य कलश में स्थापित करे ॥ ७१-७३ ॥ महानीला गलूची च सहदेवी शतावरी । विष्णुक्रान्ता च कार्कोटा साह्रा वह्निशिखाऽपरे ॥ ७४ ॥ महानीला, गलूची, सहदेवी, शतावरी, विष्णुक्रान्ता, कार्कोटा, साह्रा तथा वह्निशिखा अन्य घट में स्थापित करे ॥ ७४ ॥
६२४ सात्वतसंहिता यष्टी वाराहकर्णी चाप्यन्यस्मिन् गजपिप्पली । श्रीफलाद्यानि चान्यस्मिन् पावनानि फलानि च ॥ ७५ ॥ यष्टी और वाराहकर्णी अन्य कलश में तथा गजपिप्पली, श्रीफलादि एवं पावन फलों को किसी अन्य घट में स्थापित करे ॥ ७५ ॥ दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ । मूलान्यम्भोरुहाणां च नान्यन्यस्मिन् द्वये न्यसेत् ॥ ७६ ॥ द्रुमाणां पावनानां तु सक्षीराणां विशेषतः । पुष्पपत्रफलोपेतमेकस्मिन् मञ्जरीगणम् ॥ ७७ ॥ दधि, दूध तथा घी स्थापित किये जाने वाले तीन कुम्भ, मधु का कुम्भ, इक्षुरस का कुम्भ, कमल का मूल (कवलगट्टा), इन्हें पृथक्-पृथक् दो घड़ों में स्थापित न करे । क्षीर युक्त परम पवित्र वृक्षों का पुष्प, पत्र, फल और उनकी मञ्जरी अन्य कलशों में स्थापित करे ॥ ७६-७७ ॥ जात्यादिकमथैकस्मिन् कौसुमीयं लताचयम् । रोचनारजनीयुग्मं बला मोटा च पद्मकम् ॥ ७८ ॥ इति पञ्चकमेकस्मिन् दर्भान् दूर्वाङ्कुराणि च । सास्यं शाल्यङ्कुरचयं कलशेऽन्यत्र वै न्यसेत् ॥ ७९ ॥ सिद्धार्थकान् सिताद्यांस्तु प्रियङ्गुं गन्धसंज्ञकम् । अपरस्मिन् न्यसेत् कुम्भे सह वै नागकेसरैः ॥ ८० ॥ एक घड़े में फूलने वाले जात्यादि लताओं का समूह स्थापित करे । रोचना, रजनी, बला, मोटा और पद्मक इन पाँचों को किसी एक घड़े में स्थापित करे । कुशा, दूर्वाङ्कुर, सास्य, शालिधान्य का अङ्कुर समूह किसी अन्य कलश में स्थापित करे और सिद्धार्थक, सितादि, प्रियङ्गु, गन्ध इन्हें नागकेसर के साथ किसी अन्य कुम्भ में स्थापित करे ॥ ७८-८० ॥ ग्राम्याश्चौषधयः सप्त सप्तारण्या घटद्वये । बाह्लीकं चन्दनं चैव रसं कर्पूरसंयुतम् ॥ ८१ ॥ चतुष्कमेतदपरे त्वन्यस्मिन् धातवः शुभाः । ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत् ॥ ८२ ॥ सात ग्राम्य औषधियाँ तथा सात अरण्य औषधियाँ दो कलशों में स्थापित करे । बाह्लीक, चन्दन, कपूर, संयुक्त रस इन चारों को किसी अन्य कलश में स्थापित करे । इसी प्रकार ताम्र, सुवर्णादि धातु किसी अन्य कलश में एवं रत्न समूह किसी अन्य घट में स्थापित करे ॥ ८१-८२ ॥
पञ्चविंशः परिच्छेदः ६२५ न्यसेद् विद्रुमजालं च द्वयोर्मुक्ताफलानि च । अर्घ्योदकमथैकस्मिन् नदीतीर्थोदकं द्वये ॥ ८३॥ इसी प्रकार एक कलश में विद्रुम जाल तथा दूसरे में मुक्ता फल स्थापित करे । एक कलश में अर्घ्योदक, तथा नदी का जल एवं तीर्थ का जल, दो कलशों में अलग-अलग रखे ॥ ८३ ॥ सर्वौषधिघटं चैव सुशीताम्भोघटं ततः । सुगन्धपुष्पकलशं चत्वारिंशत् त्वमी स्मृताः ॥८४ ॥ एक कलश में सर्वौषधि, एक में सुशीत जल तथा एक कलश में सुगन्ध पुष्प स्थापित करे । यहाँ तक चालीस घटों में स्थापित किये जाने वाले द्रव्यों का विवरण कहा गया ॥ ८४ ॥ वामभागे तु देवस्य अग्निकोणादितो न्यसेत् । यातुधानपदं यावत् क्रमाद् द्विद्विकसंख्यया ॥ ८५ ॥ दशपङ्क्तिनियोगेन एवमन्ये तु पृष्ठतः । ईशकोणात् समारभ्य यावदाग्नेयगोचरम् ॥ ८६ ॥ शीताम्बुपूरितानां च घटानां केवलं न्यसेत् । पुनरीशानकोणात् तु शयने सप्तधा न्यसेत् ॥ ८७ ॥ गन्धोदकेन सम्पूर्णांस्तथा वायुपदावधि । सर्वाण्याधाररूढानि पूरितान्यमलाम्भसा ॥ ८८ ॥ मूलमन्त्रेण तदनु पूजयेद् द्वादशात्मना । संवेष्ट्य च पुरा सूत्रैश्छादयेत् तदनन्तरम् ॥ ८९ ॥ विधानैः सूत्रसम्बन्धैर्वस्त्रेणाच्छाद्य वै ततः । इसी प्रकार देवता के वामभाग में अग्निकोण से लेकर नैर्ऋत्यकोण पर्यन्त क्रमशः दो-दो की संख्या के अनुसार दश पङ्क्ति में कलश स्थापित करे । इसी प्रकार पीछे ईशानकोण से आरम्भ कर आग्नेयकोण तक केवल शीत जल पूरित कलश स्थापित करे । इसी प्रकार शयन स्थान में भी ईशानकोण से लेकर वायव्य कोण तक गन्धोदक से पूर्ण सात कलश स्थापित करे । तदनन्तर स्वच्छ जल से परिपूर्ण आधार पर स्थापित सभी कुम्भों की द्वादशाक्षर मन्त्र से पूजा करे । उन्हें प्रथमतः सूत्र से संवेष्टित करे । फिर वस्त्र से आच्छादित करे ॥ ८५-९० ॥ तदर्पणावसानेऽथ शयनं कल्पयेद् द्विधा ॥ ९० ॥ सर्वोपकरणोपेतमनन्तं तदधो यजेत् । प्रभावाप्यययोगेन तदूर्ध्वं सर्वगं प्रभुम् ॥ ९१ ॥
६२६ सात्वतसंहिता पाठयेत् सर्पसामाथ संज्ञां ज्ञानबलात्मिकाम् । अथ नयनोन्मीलनार्थमधिवासार्थं च शयनद्वयकल्पनं तत्रानन्तार्चनादिकं चाह— तदिति द्वाभ्याम् । तदर्पणावसाने कलशपूजानन्तरमित्यर्थः । सर्वोपकरणोपेतमित्यत्र शयनोपकरणानीश्वरपारमेश्वरोक्तानि ग्राह्याणि । प्रभवाप्यययोगेन प्रागादिषु वासुदेव- रूपेणाग्नेयादिषु पुरुषादिरूपेणेत्यर्थः । सर्पसाम = चर्षणीधृतमित्यादि । ज्ञानबला- त्मिकां = सङ्कर्षणो भगवानित्यादिकं मन्त्रम् ॥ ९०-९२ ॥ इस प्रकार पूजा के पश्चात् सर्वोपकरण युक्त दो शयन का निर्माण करे । उसकी सब प्रकार से पूजा करे । तदनन्तर उसके नीचे अनन्त की प्रभव एवं अव्यय क्रम से पूजा करे । उनके ऊपर सर्वत्र गमन करने वाले प्रभु की पूजा करे । ब्राह्मणों से ‘चर्षणी धृतमित्यादि सर्पसाम’ की तथा ‘सङ्कर्षणो भगवान्’ इत्यादि ज्ञानबलात्मिका ऋचा का पाठ करावे ॥ ९०-९२ ॥ हुत्वा शताष्टसंख्यं तु मूलं तदनु कल्पयेत् ॥ ९२ ॥ मण्डलं पावनै रागैः सिताद्यैर्माङ्गलीयकैः । तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः ॥ ९३ ॥ संस्कुर्यात् प्रतिकुण्डस्य निकटे कुम्भमध्यगम् । प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् ॥ ९४ ॥ हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रराट् । कृत्वा तदर्थं पूर्णां तु पूर्णात् पूर्णं च पाठयेत् ॥ ९५ ॥ एकायनान् यजुर्मयानाश्रावितमनन्तरम् । अथ मूलमन्त्रेणाष्टोत्तरशताहुतिपूर्वकं मण्डललेखनम्, तन्न्यूनातिरिक्तशान्त्यर्थं प्रायश्चित्तहोमम्, प्रागाद्यष्टकुण्डसंस्कारम्, प्रतिकुण्डसमीपं कुम्भस्थापनम्, तेषु प्रभ- वाप्ययक्रमेण वासुदेवाद्यर्चनं यद्वा हृन्मन्त्राद्यर्चनम्, मध्यकुण्डे तदर्थं पूर्णाहुतिम्, एकायनादिभिः पूर्णात्पूर्णपठनं चाह—हुत्वेति चतुर्भिः । आश्रावितमथर्ववेद इति पारमेश्वरव्याख्याने ॥ ९२-९६ ॥ तदनन्तर मूल मन्त्र से १०८ आहुति देकर मण्डल निर्माण करे । उसे पवित्र श्वेत, लाल, पीत आदि रंगों से रञ्जित करे । उसमें होने वाले न्यूनातिरिक्त दोष की शान्ति के लिये प्रायश्चित होम करे । इसके पश्चात् आठ कुण्डों का संस्कार करे । प्रत्येक कुण्ड के समीप कलश स्थापित करे । उन कुम्भों पर सृष्टि एवं संहार क्रम से वासुदेवादि का अर्चन करे, अथवा हृन्मन्त्रादि का अर्चन करे । मध्य कुण्ड में अर्चना पूर्ति के लिये पूर्णाहुति करे । तदनन्तर ‘पूर्णमदं पूर्णमिदं पूर्णात्पूर्णमुदच्यते’ का पाठ करावे । इसके बाद ‘एकायनान यजुर्मयानाश्रावितम्’ का पाठ करावे ॥ ९३-९६ ॥ अथास्त्रमन्त्रेण पुरा माङ्गल्यकलशाम्भसा ॥ ९६ ॥
पञ्चविंशः परिच्छेदः ६२७ संसेच्य बिम्बं तदनु स्नापयेत् तन्मृदम्भसा । पाठयेत् तत्र कूष्माण्डान् बलमन्त्राननन्तरम् ॥ ९७ ॥ अथ पूर्वं स्थापितस्थूलपराभिधानस्नपनकलशेषु पाद्यादिकतिपयकलशाभिषे- कालङ्करणार्चनपूर्वकं नयनोन्मीलनार्थं शयने बिम्बस्य सन्निवेशनमाह—अथेति चतुर्भिः । माङ्गल्यकलशाम्भसा पाद्यार्घ्याचमनाख्यकलशत्रयोदकेनेत्यर्थः । चमसाम्बुना । चमसो नाम तैलनिर्हरणार्थकद्रव्यविशेषः पूर्वमाराधनप्रकरणेऽप्युक्तः— रजनीचूर्णसंमिश्रमीषत्पङ्कभावितम् ॥ देयमुद्वर्तनार्थं तु चमसं तदनन्तरम् । (६।३३-३४) इति । चमषी सुगन्धद्रव्यविशेष इति पारमेश्वरव्याख्याने ॥ ९६-१०० ॥ फिर माङ्गल्य कलश (पाद्यार्घ्याचमनीय कलश) के जल से अस्त्र मन्त्र पढ़ते हुए बिम्ब का सेचन करे । पश्चात् मिट्टी के जल से स्नान करावे । अनन्तर कूष्माण्ड मन्त्र, फिर बल मन्त्र का पाठ करावे ॥ ९६-९७ ॥ ततो गोमयकुम्भेन इह गावः प्रपाठयेत् । भूतिस्त्वमिति मन्त्रेण पठ्यमानेन भूतिना ॥ ९८ ॥ फिर गोमय युक्त कलश के जल से गोमय द्वारा स्नान करावे और 'इह गावः' इत्यादि मन्त्र का पाठ करावे । फिर 'भूतिस्त्वम्' इत्यादि मन्त्र से भस्म कलश के जल से स्नान करावे ॥ ९८ ॥ पञ्चगव्येन तदनु पाठयेच्चतुरस्ततः । पूर्ववच्च ततोऽभ्यर्च्य विधिवच्चमसाम्बुना ॥ ९९ ॥ क्षालयित्वाऽर्चयित्वा च निवेश्य शयनान्तरे । नेत्राभिमन्त्रितां कृत्वा शलाकां तैजसीं स्वयम् ॥ १०० ॥ फिर पञ्चगव्य से स्नान कराकर 'चतुरस्तत' इत्यादि मन्त्र का पाठ करावे । तदनन्तर चमस के जल से (तैलादि द्रव्यों को निकालने वाला द्रव्य विशेष) पूर्ववत् अर्चना करे । फिर प्रक्षालन कर अर्चना के अनन्तर बिम्ब को दूसरे शयन पर स्थापित करे ॥ ९९-१०० ॥ नयनोन्मीलनविधानम् संस्मरन् परमं ज्योतिरीषन्नेत्रे तु चोल्लिखेत् । तन्मन्त्रितेन शस्त्रेण शिल्पी स्नातोऽवलोकितः ॥ १०१ ॥ यथावत् प्रकटीकुर्याद् विधिदृष्टेन कर्मणा । वारुणं पाठयेत् साम सह चान्द्रेण सामगान् ॥ १०२ ॥ ततः पात्रद्वये कृत्वा तैजसे मधुसर्पिषी ।
६२८ सात्वतसंहिता वौषदन्तेन मूलेन सम्पूर्य जुहुयात् ततः ॥ १०३ ॥ अथ नयनोन्मीलनविधानमाह—नेत्राभिमन्त्रितां कृत्वेत्यारभ्य मूर्तिपानां च दक्षिणा इत्यन्तम् । तैजसीं तैजसद्रव्यसंभवामित्यर्थः, सौवर्णीं राजतीं वेति यावत् । अत्रैकयैव शलाकया नेत्रद्वयोल्लेखनमिति ज्ञेयम् । संहितान्तरेषु सुवर्णरजतशलाकाद्वयेन नेत्रद्वयो- ल्लेखनमुच्यते । अत एवेश्वरपारमेश्वरयोः पक्षद्वयमप्युक्तम्— "आज्याक्तया तया वापि राजत्या वाममुल्लिखेत्" (ई०सं० १८।२०७, पा०सं० १५।३३०) इति । तन्मन्त्रितेन नेत्राभिमन्त्रितेनेत्यर्थः । अवलोकितो नेत्रमन्त्रेण निरीक्षित इत्यर्थः । वारुणं साम 'प्रमित्राय प्रार्थम्णा' इत्यादि । 'चान्द्रं साम चान्द्रं चान्द्रं चान्द्रं चान्द्रम्' इत्यादि । सम्पूर्येत्यत्र नेत्रयुग्ममिति शेषः । तथा चोपबृंहितमीश्वरपारमेश्वरयोः— पूरयेन्मधुसर्पिभ्यां नेत्रयुग्मं क्रमेण तु ॥ वौषदन्तेन मूलेन तेनैव जुहुयात् ततः । इति । —(ई०सं० १८।२०९-२१०, पा०सं० १५।३३२-३३३) अन्ये च बहवो विशेषास्तत्र प्रतिपादिता ग्राह्याः ॥ १०१-१०६ ॥ तदनन्तर स्वयं तैजसी (सुवर्णमयी) शलाका को नेत्रमन्त्र से अभिमन्त्रित करे । फिर शिल्पी स्नान कर नेत्रमन्त्र से नेत्र अवलोकन करते हुए, नेत्र मन्त्र से अभिमन्त्रित शस्त्र के द्वारा परम ज्योति का स्मरण करते हुए बिम्ब के दोनों नेत्रों पर रेखाकरण करे । इस प्रकार की विधि से दोनों नेत्रों का प्रकटीकरण करे । उस समय सामगान करने वाले ब्राह्मणों से वरुण मन्त्र एवं चान्द्र मन्त्र का पाठ करावे । फिर दो पात्रों में अलग-अलग मधु और घृत पूर्ण कर मूल मन्त्र से हवन करे ॥ १०१-१०३ ॥ मुञ्चन्तममृतौघं तु हृदाद्यन्तेन सेचयेत् । तन्मूर्ध्नि शशिबिम्बं तु ध्यायेत् ताडनशान्तये ॥ १०४ ॥ सदक्षिणं शलाकाद्यं दद्याच्छिल्पिजनाय च । गोदानमाचरेत् पश्चाद् गुरोराराधकस्ततः ॥ १०५ ॥ यथाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः । फिर नेत्रों से अमृत की वर्षा करने वाले उस बिम्ब को हृदाद्यन्त (नमः) से सिञ्चित करे और ताडन की शान्ति के लिये बिम्ब के शिर पर चन्द्र बिम्ब का ध्यान करे । आराधक भक्त दक्षिणा के सहित शलाका आदि शिल्पी जनों को दे देवे और गुरु को गोदान करे । फिर यथाशक्ति मूर्त्तियों (मूर्त्ति के रक्षकों) को दक्षिणा देवे ॥ १०४-१०६ ॥ दत्त्वा समाचरेत् पश्चाद् दाहं साप्यानं तु वै ॥ १०६ ॥ आमूर्ध्नो द्वादशार्णं तु मूर्त्यर्थं पूर्ववन्न्यसेत् । व्याप्तिसप्तसमायुक्ते संस्कृते प्रोक्षणादिना ॥ १०७ ॥
पञ्चविंशः परिच्छेदः ६२९ पीठेऽवतार्य संवेष्ट्य वासोभ्यां चाप्यधोध्वतः। ततो बिम्बस्य दहनाप्यायनपूर्वकं मूलमन्त्रन्यासममन्तादिव्याप्तिसप्तान्विते स्नान- पीठे संस्थापनं वस्त्राभ्यां संवेष्टनं चाह—दत्वेति द्वाभ्याम् ॥ १०७-१०८ ॥ फिर बिम्ब का दहन एवं आप्यायन करे। फिर मूल मन्त्र से पूर्ववत् मूर्त्यर्थ मूर्धा पर्यन्त न्यास करे और अनन्तादि सप्त व्याप्ति समन्वित कर और स्नानपीठ पर स्थापित कर नीचे से लेकर ऊपर तक दो वस्त्रों से वेष्टित करे ॥१०६-१०८॥ अथ क्रमोदितैः कुम्भैर्द्विषोढावर्तितैर्हृदा ॥ १०८ ॥ स्नापयेत् पाठयेद् विप्रान् ओषधीनामिति श्रुतिम्। या ओषधय इत्यादि ऋग्वेदांस्तदनन्तरम् ॥ १०९ ॥ अथावशिष्टैः कलशैरभिषेचनक्रमं तच्छिद्रपूरकं होमं चाह—अथ क्रमोदितैः कुम्भैरित्यारभ्य जुहुयात् साधिकं शतमित्यन्तम् ॥ १०८-११६ ॥ फिर अवशिष्ट बारह कुम्भों से स्नपन करावे। ब्राह्मणों से ‘ओषधीनाम्’ इस श्रुति का पाठ करावे। उसके बाद ऋग्वेदियों से ‘या ओषध्यः’ इस ऋचा का पाठ करावे ॥ १०८-१०९ ॥ एवं दशावशिष्टान्तैः सेचिते कलशैः सति। ततः कुम्भचतुष्केण चतुर्भिर्मूर्तिधारकैः ॥ ११० ॥ ऋक्सामपूर्वैर्विधिवत् स्नापनीयं च पाठयेत्। उदुत्तमं हि ऋग्वेदान् पाठयेद् द्रविणं यजुः ॥ १११ ॥ ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः। अयं ते वरुणश्चेति पवित्रं ते ततो ऋचम् ॥ ११२ ॥ वसोः पवित्रं हि यजुः पाठयेत् सामगांस्ततः। पवित्रं ते हि यत्साम सञ्चोद्यैकायनांस्ततः ॥ ११३ ॥ फिर शेष दश कलशों से स्नान करावे। तदनन्तर चार मूर्ति धारकों से चार कलशों द्वारा स्नान करावे और उनसे ऋक् एवं साम में आये हुए स्नान मन्त्रों का पाठ करावे। ऋग्वेदी से ऋग्वेद के ‘उदुत्तमं’ मन्त्र का, यजुर्वेदी से यजुर्वेद के ‘द्रविणम्’ मन्त्र का, फिर सामवेदी से सामवेद के ‘वारुणं’ मन्त्र का, अथर्ववेदी से ‘अयं ते वरुणश्चेति पवित्रं ते’ इत्यादि ऋचाओं का पाठ करावे। फिर ‘वसो पवित्रं हि’ इस यजुर्वेद मन्त्र का, ‘सामग पवित्रं ते हि यत्साम’ इस साम मन्त्र का, पाठ करावे ॥ ११०-११३ ॥ मूर्तिपान् समुदायेन पावमानीचतुष्टयम्। तदन्ते तु परं मन्त्रं व्यूहीयं भगवानिति ॥ ११४ ॥
६३० सात्वतसंहिता पवित्रमन्त्रं तदनु इदं विष्णुर्विचक्रमे । ततो विभवमन्त्रैस्तु सर्वैः संमन्त्रितेन च ॥ ११५ ॥ समस्त मूर्त्तियों के द्वारा पावमानी चतुष्टय का पाठ करावे । इन सबके अन्त में श्रेष्ठ पवित्र 'व्यूहीय मन्त्र' 'भगवानिति' का पाठ करावे । इसके बाद पवित्र मन्त्र 'इदं विष्णुर्विचक्रमे' का तथा इसके बाद सभी एक में मिलकर विभव मन्त्र का पाठ करे ॥ ११४-११५ ॥ कुम्भेन सेचयित्वा तु व्यूहमन्त्रैः परेण तु । स्नापयित्वाऽर्चयित्वा तु जुहुयात् साधिकं शतम् ॥ ११६ ॥ तदनन्तर अन्य कलश से व्यूह मन्त्र द्वारा स्नान कराकर अर्चन करे । फिर एक सौ आठ आहुति प्रदान करे ॥ ११६ ॥ यथावत् प्रणवेनाथ व्याप्तिं कृत्वा च पाठयेत् । मा प्रकामेति ऋग्वेदानाग्नेनायुर्यजुर्मयान् ॥ ११७ ॥ प्राणापानं हि यत्साम ततः प्राणाय वै नमः । यातव्येति परं मन्त्रं विप्रानेकायनांस्ततः ॥ ११८ ॥ अथ प्रणवेन बिम्बे भगवद्व्याप्तिस्मरणपूर्वकम्ऋगादिचतुर्वेदेष्वेकायने च प्राण- प्रतिष्ठामन्त्रपाठनमाह—यथावदिति द्वाभ्याम् ॥ ११७-११८ ॥ तदनन्तर प्रणव (ॐ) मन्त्र से भगवान् की व्याप्ति का स्मरणपूर्वक 'मा प्रकाम' ऋगादि और 'अग्नेनायुः' आदि यजुः तथा 'प्राणापानं हि यत्' आदि साम एवं 'यातव्य' आदि चारो वेदों में तथा एकायन में आये हुए मन्त्रों द्वारा बिम्ब में प्राण-प्रतिष्ठा करे ॥ ११७-११८ ॥ ध्यानयुक्तो धिया सम्यक् पठेदाराधकस्ततः । ॐ आवाहयाम्यमरवृन्दनताङ्घ्रियुग्मं लक्ष्मीपतिं भुवनकारणमप्रमेयम् । आद्यं सनातनतनुं प्रणवासनस्थं पूर्णेन्दुभास्करहुताशसहस्ररूपम् ॥ ११९ ॥ ततस्त्वावाहनश्लोकचतुष्टयं स्वयं पठेद्दिति । तच्चाह— ध्यानेत्यादिभिः ॥ ११९-१२२ ॥ फिर आराधना करने वाला यजमान आवाहन के इन चार श्लोकों का (ॐ आवाहयामि............मदनुग्रहकाम्ययाद्य पर्यन्त) स्वयं पाठ करे । अर्थ इस प्रकार है—जो लक्ष्मीपति समस्त भुवनों के कारण अप्रमेय आद्य
पञ्चविंशः परिच्छेदः ६३१ सनातन शरीर वाले हैं, जो प्रणवासन पर संस्थित है, सहस्रों चन्द्रमा, सहस्रों सूर्य तथा सहस्रों अग्नियों के समान जाज्वल्यमान स्वरूप वाले हैं, जिनके चरणों में समस्त अमर वृन्द नमस्कार करते हैं, हम उन परमात्मा का इस मूर्ति में आवाहन करते हैं ॥ ११९ ॥ ध्येयं परं सकलवेदविदां च वेद्यं वाराहकापिलनृकेसरिसौम्यमूर्तिम् । श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं कौमोदकीकमलशङ्खरथाङ्गहस्तम् ॥ १२० ॥ समस्त वेदविदों से वेद्य, वाराह, कपिल तथा नृसिंह के समान सौम्य मूर्ति धारण करने वाले, श्रीवत्स, कौस्तुभादि महामणियों से विभूषित अङ्ग वाले तथा कौमोदकी (गदा), कमल, शङ्ख और चक्र हाथ में लिये हुये उन परमाराधनीय देवाधिदेव का मैं इस बिम्ब में आवाहन करता हूँ ॥ १२० ॥ सर्वत्रगोऽसि भगवन् किल यद्यपित्वा- मावाहयामि हि यथा व्यजनेन वायुम् । गूढो यथैव दहनो मथनादुपैति आवाहितोऽपि हि तथा त्वमुपैषि चाऽर्चाम् ॥ १२१ ॥ हे भगवन् ! यद्यपि आप सर्वज्ञ हैं, आपको आवाहन की कोई आवश्यकता नहीं है फिर भी जैसे व्यजन (पङ्खा) से वायु का आवाहन किया जाता है उसी प्रकार मैं आप का आवाहन करता हूँ । जिस प्रकार काष्ठ में रहने वाली अग्नि मन्थन से उत्पन्न होती है उसी प्रकार आप आवाहन से प्रकट होकर अर्चा ग्रहण करते हैं ॥ १२१ ॥ मालाधराच्युत विभो परमात्ममूर्ते सर्वत्र नाथ परमेश्वर सर्वशक्ते । आगच्छ मे कुरु दयां प्रतिमां भजस्व पूजां गृहाण मदनुग्रहकाम्ययाऽद्य ॥ १२२ ॥ हे मालाधर !, अच्युत !, विभो !, परमात्ममूर्ते !, हे सर्वत्र !, हे नाथ !, हे परमेश्वर !, हे सर्वशक्ते ! आप आइये और मेरे ऊपर दया कीजिये । इस प्रतिमा में निवास कीजिये और मुझ पर अनुग्रह करने की कामना से मेरी पूजा ग्रहण कीजिये ॥ १२२ ॥ ततो विमृज्य वस्त्रेण भोगैः पूर्वोदितैर्यजेत् । अर्घ्याद्यैर्दक्षिणान्तैस्तु पाठयेद् ऋङ्मयांस्ततः ॥ १२३ ॥
६३२ सात्वतसंहिता एवमावाहनानन्तरं बिम्बसंमार्जनमर्घ्याद्यभ्यर्चनम्, अर्चामि त इत्यादिमन्त्रपठनम्, मध्यकुण्डे दिक्कुण्डेषु च हवनम्, जितन्तास्तोत्रपूर्वकं गायत्ररथन्तरसामपठनम्, जप- मुद्राप्रणामविज्ञापनानि ब्रह्मरथोपरि भगवदुत्सवं शय्याधिवासं लाञ्छनन्यासं दामोदरा- दीनां महिमादितच्छक्तीनां विशाखयूपबीजस्य तत्तन्मूर्तिबीजस्य प्रणवस्य वा मूलमन्त्रस्य च पादादिमूर्धान्तं संहारक्रमेण न्यासम्, निस्तरङ्गार्णववत् सुशान्तत्वेन भगवद्ध्यानमुप- संहारप्रतिपादकानां विद्यां गदामित्यादिमन्त्राणां पाठनम्, बिम्बविन्यस्तैर्मन्त्रैः प्रत्येकं शतसंख्यया होमं पूर्णाहुतिं पुनः सर्वशक्तिमयेन स्वभावेन भगवतोऽभ्युदितत्वचिन्तनम्, बिम्बहृत्पद्मे षट्शक्तिकरणोपेतमूलमन्त्रस्मरणम्, नृसिंहकल्पोक्तरीत्या पाञ्चभौतिकतनू- पसंहारचिन्तनम्, अमलमन्त्रमयमूर्त्युत्पत्तिचिन्तनम्, तद्वाचकानां सहस्रशीर्षं देवमि- त्यादिमन्त्राणां पाठनम्, औपचारिकसांस्पर्शिकाभ्यवहारिकैर्भोगैर्यथाविधि शयनस्थ- भगवदर्चनम्, मध्यकुण्डे दिक्कुण्डेषु च समित्सप्तकादिभिर्भगवत्सन्तर्पणम्, स्वस्व- मूर्तिकुम्भोदकैर्बिम्बसेचनम्, पुनराज्यादिभिः सपरिवारमन्त्रनाथसन्तर्पणम्, पूर्णाहुतिम्, घृतादिचतुर्द्रव्येष्वेकैकेन तत्तदङ्गस्पर्शपूर्वकं हृन्मन्त्रेणाहुतिद्विषट्कात्मकं होमं चाह—ततो विमृज्य वस्त्रेणेत्यारभ्य स्पृष्ट्वा देहं तु चाखिलमित्यन्तम् ॥ १२३-१६७ ॥ फिर वस्त्र से बिम्ब को पोंछ कर सब प्रकार के भोगों से अर्चना करे । ऋग्वेद के अर्ध्यादि से आरम्भ कर दक्षिणान्त मन्त्रों का पाठ करावे ॥ १२३ ॥ अर्चामि तेति वै मन्त्रं साम यच्चार्चितस्त्विति । भगवानिति तज्ज्ञांस्तु ततः सन्तर्पितेऽनले ॥ १२४ ॥ स्तुत्वा जितन्तमन्त्रेण सामज्ञान् पाठयेत् पुनः । सह गायत्रसाम्ना तु तद्रथन्तरसंज्ञितम् ॥ १२५ ॥ ‘अर्चामि ते’ इस मन्त्र का तथा ‘याच्चार्चितास्त्विति’ और ‘भगवानिति’ इत्यादि मन्त्र का पाठ करावे । फिर मध्य कुण्ड में तथा दिक् कुण्ड में होम करे । फिर ‘जितन्तास्तोत्रपूर्वक गायत्ररथन्तर’ साम का पठन करे ॥ १२४-१२५ ॥ प्रजप्य द्वादशार्णं तु मुद्रां बद्ध्वा प्रणम्य च । अष्टाङ्गेनाथ विज्ञाप्यो भगवान् भूतभावनः ॥ १२६ ॥ मूर्तिभूतेन रूपेण अनेनैव हि साम्प्रतम् । लोकानज्ञाततत्त्वांस्तु समाह्लादय नागरान् ॥ १२७ ॥ येनान्तःसम्प्रविष्टेन ईषत्कालवशात् तु वै । जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात् ॥ १२८ ॥ एवमर्थ्यो हि भगवांल्लोकानुग्रहकृत् प्रभुः । करावङ्घ्रिगतौ कृत्वा पाठयेद् ऋङ्मयांस्ततः ॥ १२९ ॥ उत्तिष्ठेति ऋचो मन्त्रं कृत्वा ब्रह्मरथे स्थिरे । सुयन्त्रिते च क्षीराज्ये दध्योदनसमन्विते ॥ १३० ॥
पञ्चविंशः परिच्छेदः ६३३ दुर्भिक्षक्षामशान्त्यर्थं परमान्नफलैर्युते । पाठयेदस्यवामीयम् ऋङ्मयांस्तदनन्तरम् ॥ १३१ ॥ तन्मयान् बलमन्त्रं तु दशार्धेति महामते । स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत् ॥ १३२ ॥ द्वादशाक्षर मन्त्र का जप कर मुद्रा बनाकर प्रणाम करे । फिर समस्त प्राणियों में रहने वाले भगवान् से साष्टाङ्ग दण्डवत् करते हुये इस प्रकार प्रार्थना करे—हे भगवन्! आप यही मूर्ति धारण कर संप्रति अतत्त्वज्ञ नागर जनों को समाह्लादित कीजिये । जिस आप के स्वरूप के अन्तःकरण में प्रवेश मात्र से स्वल्प काल में ही मनुष्य अपने सहस्त्र जन्मों में किये गये पापों से मुक्त हो जाता है । लोक पर अनुग्रह करने वाले भगवान् से मात्र इतनी ही प्रार्थना करे । फिर अपना दोनों हाथ भगवान् के चरणों में स्थापित कर ऋङ्मय मन्त्रों का पाठ करावे । फिर सुयन्त्रित दूध, घी, दही और ओदन से युक्त स्थिर दुर्भिक्ष बुभुक्षादि की शान्ति के लिये खीर तथा फलों से संयुक्त स्थिर ब्रह्मरथ पर भगवान् को 'उत्तिष्ठ' इस मन्त्र से पधरावे । ऋङ्मय मन्त्रों का तथा पाँच बल मन्त्रों का पाठ करावे और स्वयं कवच का पाठ करे ॥ १२६-१३२ ॥ भ्रामयेद् बलिदानं तु क्रियमाणं तु सर्वदिक् । रत्नकाञ्चनवस्त्राणां पूर्ववत् क्षेपमाचरेत् ॥ १३३ ॥ दिव्याद्यायतनानां च कार्या पूजा यथोदिता । पञ्चरात्रविदां चैव यतीनां ब्रह्मचारिणाम् ॥ १३४ ॥ षट्कर्मनिरतानां च दानं दीनजनेष्वपि । रथस्थे मन्त्रबिम्बे तु यावत् पदशतं व्रजेत् ॥ १३५ ॥ स रथस्तूर्यघोषेण तावत् क्रतुफलं बहु । आप्नोत्याराधकः शश्वत् सकामो नियतव्रतः ॥ १३६ ॥ तदनन्तर किये जाने वाले बलिदान को सभी दिशाओं में घुमावे । रत्न, काञ्चन और वस्त्रों को लुटावे । शास्त्र पद्धति के अनुसार दिव्यादि आयतनों की पूजा करे । पञ्चरात्र वेत्ताओं को, यतियों को, ब्रह्मचारियों को, षट्कर्म में निरत लोगों को एवं दीन जनों को दान देवे । रथ पर स्थित मन्त्र बिम्ब को स्थापित कर जब तक एक सौ पग चले, उसे उतने ही दूरी में, उस रथ के तुर्य घोष से नियत व्रतवाला सकामी आराधक अनेक यज्ञों का फल प्राप्त करता है ॥१३३-१३६॥ ततस्तोरणदेशस्थं रथं कृत्वाऽर्चयेत् प्रभुम् । पाद्यार्घ्यपुष्पधूपैस्तु नमस्कृत्य च पाठयेत् ॥ १३७ ॥ उत्तिष्ठेति द्विषट्कार्णं सजितन्तं तु चाखिलम् । सा० सं० - 44
६३४ सात्वतसंहिता सम्पठन् पौरुषं सूक्तं यागवेश्म प्रवेशयेत् ॥ १३८ ॥ फिर तोरण स्थान पर रथ स्थिर कर प्रभु की पाद्य, अर्घ्य, पुष्प, धूप से अर्चना करे, नमस्कार करने के बाद 'उत्तिष्ठ' इस द्वादश अक्षर का मन्त्र तथा समस्त जितन्त स्तोत्र का एवं पुरुष सूक्त का पाठ करते हुये यागगृह में भगवान् का प्रवेश करावे ॥ १३७-१३८ ॥ हृदा शयनगं कृत्वा यात्राहोमं समापयेत् । ततस्तच्छिरसो देशे चक्राधारस्थिते घटे ॥ १३९ ॥ पूर्वोक्तलक्षणे नेत्रमन्त्रसम्पुटितं जपेत् । पूजयित्वाऽर्घ्यपुष्पाद्यैः शयनस्थं च वै पुनः ॥ १४० ॥ वर्मणाऽऽच्छाद्य वस्त्रेण ततोऽङ्घ्रिनिकटे विभोः । स्थित्वा लाञ्छनमन्त्रांस्तु यथास्थानगतान् न्यसेत् ॥ १४१ ॥ हृदय में शयन स्थित भगवान् का स्मरण करते हुये यात्रा होम समाप्त करे । फिर भगवान् के शिरःप्रदेश में चक्राधार पर स्थित घट की अस्त्र सम्पुटित नेत्र मन्त्र द्वारा पूजा करे । फिर दूसरी बार शयनस्थ भगवान् की अर्घ्य पुष्पादि द्वारा पूजन करे । वस्त्र से कवच मन्त्र द्वारा आच्छादन करे । पुनः रथोत्सव इस प्रकार शय्याधिवासन के बाद भगवान् के सन्निकट स्थित होकर उनके शरीर में यथा स्थान स्थित लाञ्छन मन्त्रों से न्यास करे ॥ १३९-१४१ ॥ पादाद् वै द्वादशाङ्गेषु ततो दामोदरादिकान् । तच्छक्तिकांस्तथा मन्त्रान् भास्वद्व्यापकलक्षणान् ॥ १४२ ॥ ऐश्वरेणाथ बीजेन यथावस्थेन भावयेत् । पादादितन्मयेनैव तद्धन्मन्त्रवरेण तु ॥ १४३ ॥ लाञ्छन मन्त्र के न्यास के बाद दामोदरादि का, महिमादि तच्छक्तियों का, विशाखयूप बीज का, तत्तन्मूर्त्ति बीजों का, प्रणव का तथा मूल मन्त्र का पादादि मूर्द्धान्त संहार क्रम से न्यास करे ॥ १४२-१४३ ॥ प्राग्वदप्यययुक्त्या तु अन्तर्ज्योतिर्मयात्मना । विभुना वाक्स्वरूपेण तदेवाथ परं पदम् ॥ १४४ ॥ सुशान्तं सर्वगं बुद्ध्वा निस्तरङ्गमिवोदधिम् । विद्यां गदामित्याद्यं यत् पाठयेत् पाञ्चरात्रिकान् ॥ १४५ ॥ देहसाञ्न्यासिकं मन्त्रं धारणाख्यमनन्तरम् । जीमूतस्येति ऋग्वेदान्नासदासीच्च पाठयेत् ॥ १४६ ॥ क्रमेणानेन हुत्वा तु पादार्धशतसंख्यया ।
पञ्चविंशः परिच्छेदः ६३५ तिलानां तु तथाज्यस्य मन्त्रैरेभिर्महामते ॥ १४७ ॥ दत्वा पूर्णाहुतिं सम्यगुपसंहारलक्षणाम् । ततस्तत्परमं ब्रह्माऽभ्युदितं पूर्ववत् स्मरेत् ॥ १४८ ॥ भगवान् अन्तर्ज्योतिर्मय है, विभु है, वाक् स्वरूप है, वही परं पद है, वही सुशान्त और सर्वगामी हैं, वही निस्तरङ्ग समुद्र के समान सुशान्त हैं, ऐसा समझ कर उनका ध्यान करे । फिर उपसंहार प्रतिपादक, विद्या स्वरूपा गदा इत्यादि मन्त्रों का पाठ करावे । फिर बिम्ब पर विन्यस्त मन्त्रों द्वारा एक-एक मन्त्र से सौ-सौ की संख्या में होम, तदनन्तर पूर्णाहुति करे । पुनः सर्वशक्तिमान् स्वभाव होने के कारण भगवान् के अभ्युदितत्व का पूर्ववत् चिन्तन करे ॥ १४४-१४८ ॥ सर्वशक्तिमयैनैव स्वभावेन स्वकेन तु । ओजोबलात्मना यद्वद् गन्धद्रव्यात्मना तु वै ॥ १४९ ॥ बीजं तरुस्वरूपेण समुद्रो बुद्बुदात्मना । एवमव्यपदेश्यायाः शक्तेः स्वे शक्तिदर्पणे ॥ १५० ॥ स्थितिमादाय विश्वेशः स्वातन्त्र्याच्च महामते । मन्त्ररूपां तनुं धत्ते सम्यगाराधनाय च ॥ १५१ ॥ जिस प्रकार बीज सर्वशक्तिमय अपने स्वभाव के कारण, अपने ओज और बल के कारण एवं गन्धद्रव्यमय होने के कारण वृक्ष स्वरूप हो जाता है । जिस प्रकार बूँद-बूँद से समुद्र बन जाता है, उसी प्रकार भगवान् अपने शक्ति रूप दर्पण में अपनी अव्यपदेश्य शक्ति की स्थिति को लेकर स्वतन्त्र होने के कारण जीवों की आराधना के लिये मन्त्र स्वरूप शरीर धारण करते हैं ॥ १४९-१५१ ॥ नानात्वमुपयातस्य प्रसरं तस्य च स्वयम् । निष्प्रभत्वं प्रयातस्य चिद्बीजनिचयस्य च ॥ १५२ ॥ आविष्कृतस्य भेदेनाप्यमूर्तेन बलीयसा । अज्ञानगहनेनैव नित्यानित्यमयात्मना ॥ १५३ ॥ स्मृत्वैवं मूलमन्त्रं तु बिम्बहृत्पद्मगं स्मरेत् । षट्शक्तिकिरणोपेतैस्तैस्तद्द्रव्यमयीं तनुम् ॥ १५४ ॥ संस्मरेत् संहरन्तं च प्रागुक्तेनैव वर्त्मना । स्वरूपममलं भूयः स्मरेन्मूर्त्यात्मना ततः ॥ १५५ ॥ नयन्तं पूर्वविधिना एवं स परमेश्वरः । मन्त्रात्मना स्वतन्त्रत्वमुपयातो यदा तदा ॥ १५६ ॥ सहस्रशिरसं देवमित्यथर्वांस्तु चोदयेत् ।
६३६ सात्वतसंहिता पाठयेद् ब्राह्मणान् धातर्यध्यक्षेति च मन्त्रराट् ॥ १५७ ॥ यो विश्वतश्चक्षुरिति ध्यातव्यो भवतीति च। द्वा सुपर्णेति तदनु अतो देवेति वै पुनः॥ १५८ ॥ ऋङ्मयान् पौरुषं सूक्तं ततः परतमा त्विति। ततोऽर्चयित्वा मन्त्रेशं शयने बिम्बवृत्तिगम्॥ १५९ ॥ नित्यसन्निधिसिद्ध्यर्थमा समाप्तिं तु मण्डले। संरोध्य सन्निधीकृत्य महता विभवेन तु॥ १६० ॥ अनेकत्व होने के कारण उस मन्त्र का प्रसार अपने आप हो जाता है। वही चिद् बीज निचय नित्यानित्यमय होने के कारण, गहन अज्ञान के कारण, अमूर्त्त बलवान् भेद के कारण, कभी निष्प्रभ हो जाता है। इस प्रकार बिम्ब के हृत्पद्म में ज्ञानादि षट् शक्ति युक्त मूल मन्त्र का स्मरण करे। फिर नृसिंह कल्पोक्त रीति से पाञ्चभौतिक शरीर के उपसंहार का चिन्तन करे। अमल मन्त्रमय मूर्त्ति की उत्पत्ति का ध्यान करे। जब वह अमल मूर्त्ति भगवान् मन्त्र रूप से सर्वथा स्वतन्त्र है तब उनके वाचक मन्त्र 'सहस्र शिरसं देवम्' इस मन्त्र का पाठ करने के लिये अथर्ववेदी को प्रेरित करे। 'धातर्यध्यक्षेति' मन्त्र का पाठ करने के लिये ब्राह्मणों को प्रेरित करे। इसी प्रकार 'यो विश्व तश्चक्षुः' इस मन्त्र का स्वयं ध्यान करे। इसके बाद 'द्वा सुपर्णा' इस मन्त्र का, पुनः 'अतो देवेति' मन्त्र का, पुनः ऋग्वेद के मन्त्रों का, फिर पुरुष सूक्त का पाठ करे। फिर शयन पर बिम्ब रूप धारण किये हुये मन्त्रेश का अर्चन करे। उनकी नित्य सन्निधि की सिद्धि के लिये समाप्ति पर्यन्त मण्डल में ही महान् विभव से उनका संरोधन करे, सन्निधान करे ॥ १४९-१६० ॥ साङ्गं सन्तर्प्य विधिवत् सह मूर्तिधरैस्ततः। स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्धृत्य भाजने ॥ १६१ ॥ बिम्बमूर्ध्नि क्रमाद् देयं सर्वैरेकायनादिकैः। सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम् ॥ १६२ ॥ आज्यादिना प्रभूतेन दत्वा पूर्णाहूतिं ततः। बिम्बात्मना प्रयातानां क्ष्मादीनामङ्गरूपिणाम् ॥ १६३ ॥ आपादानेऽपि पूर्णत्वात् पिण्डीभावार्थमेव च। आरम्भादेव जातानां छिद्राणां शमने तु वै ॥ १६४ ॥ आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत्। द्विषट्केणाहुतीनां तु एकैकेन चतुर्ह्रदा ॥ १६५ ॥ आ चाङ्घ्रेर्जानुपर्यन्तं स्पृष्ट्वाऽऽज्यं होमयेत् पुरा। आ नाभिजानुदेशाच्च तथैव जुहुयाद् दधि ॥ १६६ ॥