सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
कूटानि | १९१
मुनिजनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकदम्बकेन ।
धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकर मकरे करे
च ॥ ७७ ॥ विकसति नयनाभ्या कैरव पङ्कजं च
श्लथयति चरणाम्बु ब्रह्मचर्यं पयोधे । उरसि लसति
यस्य श्रेयसा सप्रदायः स फणिनमधिशेते पद्मया पद्मनाभः
॥ ७८ ॥ अहिरिपुपतिकान्तातत्सवद्भ्रान्तातत्सुपूज्यका-
हन्तृप्राणदातुर्ध्वजस्य । सखिसुतसुतकान्तातत्तातसत्पूज्यका-
न्तापितुश्शिरसि पतन्ती जाह्नवी नः पुनातु ॥ ७९ ॥
उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च
प्राकृतेऽतिप्रपञ्चे । सपदि पदमुदीतं केवल प्रत्ययो
यस्तदियमिविति च वक्तुं कः क्षमः पण्डितोऽपि ॥ ८० ॥
हरिद्राया राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालंक्लृप्त्यै
विद्युत उरुता दुर्गकुरटीम् । वय सार्कौपेता. प्रहर इति
सेनाधिपकृताममात्येभ्यो लेखा प्रतिदिशति सिंहक्षितिपतिः
॥ ८१ ॥ गंता सा कि स्थान पथि सह तया का
स्थितवती नृपेणेत्थ पृष्टा सखि चतुरदूती स्थितवती ।
विलोक्यौलंकार निजमथ च शाकं नरपति निराकाङ्क्षं
चक्रे कथय कथमेतत्प्रभवति ॥ ८२ ॥ स्नानान्ते नो हारो
रजतगिरिमूले न धनद सुकेशीनां मध्ये विहरति न
कामो नवयुवा । रसान्ते नैवाऽधिविबुधनगरीसीम्नि न
सुरस्तथान्यस्मिन्पद्ये स्फुटमयतु दैवं किमपि न ॥ ८३ ॥
काचिद्भाला रैमणवसति प्रेक्षयन्ती करण्डं सा तन्मूले
समयमलिखद्धालमस्योपरिष्ठात् । गौरीनाथं पँवनतनयं
चैम्पकं चास्य भावं पृच्छत्यार्यान्प्रति कथमिरुदं मल्लिनाथ
कवीन्द्रः ॥ ८४ ॥ सर्वेज्ञ सन्वदसि बहुधा दीयते दीयते
वै दादातूना भवति सदृश रूपमेषा चतुर्णाम् । द्वौ दानार्थों
भवति च तथा पालने खण्डने वा नो जानीमः कथयति
भवान्कस्य धातोः प्रयोगम् ॥ ८५ ॥ चञ्चद्द्वादश-
नीलनीरजयुतं सप्ताम्बुजोध्दासित नित्य षोडशशोणपद्मरुचिर
धात्रानिश सेवितम् । श्रीराममोधिगृह सहस्रदलसत्पर्यङ्क-
विश्रान्ति यत्पायाद्वः कमलाङ्गसङ्गिशयनं तन्नीलरोचिर्महः
॥ ८६ ॥ रोमं वानरवाहिनी पुररिपुं राहु रखेः सारथि
कुम्भीगर्भसमुद्भवं सुररिपुं मारस्य मौर्वीरवम् । तन्वी
नूतनपल्लवैरिविरचिते शय्यातले शायिनी सख्या वीजितता-
[टिप्पणी / व्याख्या]
१ म पद्मनाभ पद्माया सह फणिनं शेषमधिशेते यस्य नयनाभ्या चन्द्रसूर्यलक्षणाभ्या कैरवं पङ्कज च विकसति यस्य चरणाम्बु गङ्गाजल पयोधेर्ब्रह्मचय्यं श्लथयति दूरीकरोति गङ्गाया समुद्रपत्नीत्वात्, यस्योरसि श्रेयसा सप्रदाय कौस्तुभमणिलंसति एवंविध पद्मनाभ फणिनमधिशेते
२ अहि सर्पस्तद्रिपुर्गंरुदस्तत्पतिर्विष्णुस्तत्कान्ता-लक्ष्मीस्तत्तात समुद्र स मय्यग्बद्धो येन स रामस्तत्कान्ता जानकी तस्या हरो हर्ता रावणस्तत्तनय इन्द्रजित्तद्विहन्ता लक्ष्मणस्तत्प्राणदाता हनूमान्स ध्वजे यस्यैतादृशोऽर्जुनस्तस्य सखा कृष्णस्तत्सुतो मदनस्तत्सुतोऽनिरुद्धस्तत्कान्ता उषा तत्तातओ बाणासुरस्तस्य सम्यक्पूज्य शिवस्तत्कान्ता पार्वती तत्पिता हिमालयस्तच्छिरसि पतन्ती जाह्नवी भागीरथ्यित्यर्थः
३ सिंहक्षितिपति सेनाधिपकॄना लेखा अमात्येभ्य प्रवानेभ्य प्रति दिशति कथयति इति लेखा प्रतीति किम् वय सार्कौपेता अर्कशब्देन इन लक्ष्यते तद्युक्त इन सेनोपेता हरिद्राया निशाया राहुप्रसरपिहितेच्छापरिषदि सत्याम् राहुशब्देन तम, हितशब्देनाच्छादनम् इच्छाशब्देन आशा दिशा, परिवच्छब्देन मण्डलम् प्रयुक्तो योऽलकार हार तस्य क्लृप्त्यै प्रहारार्थम् विद्युत गरुताम् गरुत्पक्ष उच्यते विकारयुक्ताना पक्षाणा विपक्षामान् दुर्गकुरटीम् कुरटीशब्देन नगरी लक्ष्यते दुर्गनगरी प्रहर इत्यर्थः
४ कश्चित्राजा काचिन्न्यायिका स्वगृहमानयत् ततश्च तद्गर्तारमागत दृष्ट्वा ता स्वगृह प्रापयितु दूतीमाज्ञापयति स सा च दूती ता स्वगृह प्राप्य्य पुना राजनिटे आगत्य स्थितवती ता प्रत्याह राजा सा कि न्वस्थान गता गतवत्या तया सह पथि मार्गे का स्थितवती एव राजा पृष्टा चतुरा दूती स्मितवती सती निजमलंकार ‘पोहोची’ इति महाराष्ट्रभाषाप्रसिद्धतथा शाक ‘मेथी’ इति महाराष्ट्रभाषाप्रसिद्ध शाकविशेषं चावलोक्य तावन्मात्रेणैव नरपति निराकाङ्क्षमुत्तरविषये आकाङ्क्षारहित चक्रे एतदलकारशाकावलोकन कथं प्रभवति राशो नैराकाङ्क्ष्य-सपादने कथं समर्थ भवतीति कथयेति कविप्रश्न अत्र प्रथमप्रश्नस्य प्राप्तेत्यर्थकं ‘पोहोची’ इति हिन्दीभाषयोत्तरम् द्वितीयप्रश्नस्य तु अहमासमित्यर्थकं ‘मे थी’ इति हिन्दीभाषयोत्तरमिति तात्पर्ये बोध्यम्।
१-२ प्रियनिवासम्
३ करण्डस्थितपुष्पसौरभ गन्धवाहो हरेदिति तद्रक्षर्कं सर्पम्
४ पुष्पबाणो वाणाय हरेदिति तद्वैर्रिण शिवम्
५ सूर्य पुष्प स्वकरें शोषयेदिति जन्मकाले एव भक्ष्युबुद्ध्या हर्तु प्रवृत्तं भयजननाय हनूमन्तम्
६ तन्मकरन्द भृङ्गो हरेदिति चम्पकमलिखदिति भाव चम्पके भृङ्गो न गच्छन्तीति प्रसिद्धे
७ त्वं सर्वज्ञ सन् बहुधा वारंवार दीयते दीयते इति वदसि दीयते इति रूप चतुर्णामपि दाधातूना सदृशं भवति तन्मध्ये द्वौ दानार्थी, दाण्दाने, डुदाञ्दाने, इति. एक पालने; देङ् रक्षणे इति एक खण्डने, दोऽवखण्डने इति एतन्मध्ये भवान्कस्य धातो प्रयोग कृत्वा वदति त न जानीम
८ तन्नीलरोचि श्यामप्रभ महस्तेज कृष्णलक्षणं वो युष्मान्पायात् तत्किभूतम् कमलाङ्गसङ्गिशयन लक्ष्मीसनाथ शय्यम् पु० कि० सहस्त्रदलसत्पर्यङ्क विश्रान्ति सहस्रफणदिव्यशयनशेषस्थितम् पु० कि० श्रीराम्भोधिगृह दुग्धसमुद्रनिवासम् पु० कि० धात्रा नाभिसरोरुहस्थेन ब्रह्मणा अनिश सेवितमध्यासितम् पु० कि० षोडशशोणपद्मरुचिरं षोटशारुणकमलमिवोहरम् षोडशशोणपद्मामा विवृति-विष्णोश्चत्वारो हस्ता द्वौ चरणौ तावन्त एव ब्रह्मण द्वौ करौ द्वौ चरणौ लक्ष्म्या इत्येवं षोडशशोणपद्मरुचिरम् पु०कि० नित्यमविनाशि पु० कि० सप्ताम्बुजोद्भासित सप्तकमलशोभितम् सप्ताम्बुजाना विवृति - चत्वारि मुखानि ब्रह्मण. एकं नाभिसरोरुहम् एकं विष्णोर्मुखम् एक लक्ष्मीमुखम् इत्येवं सप्ताम्बुजोद्भासितम् पु० किं० चञ्चद्द्वादशनीलनीरजयुतं शोभमानद्वादशनीलोत्पलयुक्तम् द्वादशनीलनीरजाना विवृति -अष्टौ नयनानि ब्रह्मण द्वे विष्णो द्वे लक्ष्म्या इत्येवं द्वादशनीलरजययुतम्
९ कोकिलरक्षककाकावशेषकत्वाद्रामम् मलयान्नवशेषानाडानरवाहिनीम् मन्मथावशेषणात्पुररिपुम् चन्द्रावशेषणाद्राहुम् रवे शीघ्रमस्ताद्रिप्रापणेन रात्रिसंपादनादनूरुम् चन्द्रोत्पादकसमुद्रावशेषणादगस्त्यम् मन्मथोत्पादनान्मुररिपु निनिन्देति भाव कोकिलादीना कामोद्दीपकतवं रसशास्त्रे प्रसिद्धम्.
| १९२ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
लुप्तपवना बाला मुहुर्निन्दति ॥ ८७ ॥ सत्यासक्तमना-
प्रवृद्धनरकच्छेदी द्विजेन्द्राश्रयो युक्तानेकसुखोद्भवस्पदमलं
श्रीयंत्र सराजते । यो गंगां च बिभर्ति यश्च सशिवो य-
त्कामदेहाश्रयः सङ्घः साम्यमयं प्रयातु भवता कृष्णेन
रुद्रेण वा ॥ ८८ ॥ येने ध्वस्तमनोभवेन बलिजित्कायः
पुरा स्त्रीकृतो यो गंगां च दधेऽन्धकक्षयकरो यो बर्हिपत्र-
प्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाऽमराः
सोऽव्यादिष्टभुजंगहारवलयस्त्वं सर्वदो माधवः ॥ ८९ ॥
'यो व्योमाडिनगोऽहरीडुडुपगोयुग्मः खगप्रोऽपभीर्भीमर्म्मर्श्व-
र्यसुकी रमारतरसो नाभ्यम्बुदासीनकः । योऽसञ्चेववनम्य-
पत्सलिलजो वार्धिस्वपोऽष्टाध्र्दोराधो गदासिवाऽधादस्मृतपाः
पायात्स वः कंदभाः ॥ ९० ॥ लक्ष्मीवन्कृतकूरसू रणद-
हिन्दूधकक्षम् पापडीलाडूढोऽकलधी वडाछन वडी खाजा-
१ अर्थं भवता सङ्घ कृष्णेन रुद्रेण वा साम्यं प्रयातु प्राप्नोतु किम्भू
तेन कृष्णेन अर्थवशाद्विपरिणाम किंभूत १ सत्यासक्तमना सत्यभा-
मायामासक्त मनो यस्यासौ नामैकदेशे नामग्रहणम् प्रवृद्धो नरक
मुरस्तं छिनत्तीति द्विजाना पक्षिणामिन्द्रो गरुडस्तस्याश्रय सेव्य
युक्तान्यनेकमुखानि यस्य ब्रह्मणस्तस्य उद्भवो यस्मात्कमलात्तत् यस्या
स्पदम् अलमत्यर्थं यत्र श्रीर्लक्ष्मी राजते योऽग गोवर्धनं गा पृथ्वीं
च विभर्ति शिवेन सह वर्तमान 'विष्णोश्च हृदयं शिव ' इति वच
नात् य कामदेह प्रद्युम्नस्तस्याश्रय ॥ किभूतो रुद्रः १ सत्याममासक्त
चित्त यस्य 'उमा गौरी सती चण्डी' इत्यभिधानात् प्रवृद्ध यन्नरस्य
ब्रह्मण क शिरस्तस्य छेत्ता द्विजाना ब्राह्मणानामिन्द्रश्चन्द्रस्तस्याश्रय
अनेकसुखानामुद्भवो यस्य कार्तिकेयस्य तदास्पदम् श्रीर्यंत्र सराजते
निधिपतित्वात् यो गङ्गां विभर्ति य शिवया पार्वत्या सह वर्तमान
काम यति खण्डयति एवविधा या ईहा तस्या आश्रय ॥ किभूत
सङ्घ १ सत्या सूनृता वाक् तत्र लग्न मनो यस्य स. प्रवृद्ध यन्नरकं दुःखं
तस्य नाशक द्विजेन्द्रा ब्राह्मणास्तेषामाश्रय युक्तानि योग्यानि यानि
अनेकसुखानि तेभ्य उद्भवो यस्य धर्मवार्ताया तस्या आस्पदम् यत्र
श्रीः शोभा राजते यो गा वाणी धत्ते काम ददातीति कामदा ईहा
इच्छा तदाश्रय २ त्वा सर्वदा स उमाधवोऽव्याद्रक्षतु स क ? येन
बलि जितवानिति बलिजिद्विष्णुस्तस्य काय शरीर पुरा त्रिपुरवधका-
लेऽस्त्रीकृतोऽस्त्रत्वेन संपादित • किभूतेन ध्वस्तो मनोभवो मारो येन
ध्वस्तमदन पु० स क १यो गङ्गां दधे पुन कीदृश १ अन्धकनामा
दैत्यस्तस्यान्तकर पु० कीदृश १ यो बर्ही मयूर एव पत्रं रथो यस्य
स स्कन्द प्रियो यस्य स पु० की० खलुभ्रीमद्य नाम यस्य अमरा
इति आहु इतीति किम् हर इति किभूत १ शशिमच्छिर शशि
रस्ति यस्मिंस्तच्छशिमत् तादृश शिरो यस्य स हाराश्च वलयानि च
हारवलयम् इष्टाश्च ते भुजंगाश्च इष्टभुजगाः ते हारवलयानि यस्य स
इष्टा वल्लभा भुजगा सर्पा हार कण्ठभूषणं वलय कटक बाहुभूषण-
मित्यर्थ . यद्वा,-इष्टानि भुजगा एव हारवलयानि यस्येति ॥ हरिपक्षे,-
सर्वं ददातीति सर्वद स माधवो लक्ष्मीपति मा लक्ष्मीस्तस्या धवो
भर्ता माधव• त्वामव्यात् स क.? भयेन भवेनेत्युत्पन्नमात्रेण धृतविप्र
हेणेश्यंथे अनो ध्वस्तं शकटाकृति दनुज हतवानित्यर्थ अथवा अभ-
वेनेति घोरसंसारसागरे प्राक्तनकर्मानुसारेण विधते भवो जन्म यस्य
स तेन कृष्णलीलामृतविग्रह इति पु० स क.? येनामृतविभागाथं
रुद्रमोहार्थं वा बलिजिन्नसौ कायश्चेति पुरा स्त्रीकृत स्त्रीभावं प्रापित
पु० की० य अग गोवर्धनम् गा पृथ्वीं च दधे पु० की० यः अन्धे
अगाधे के जले शयं गृह करोतीति विष्णूस्तु जलशायीति पु० की०
बर्हिणो मयूरस्य पत्राणि बर्हाणि पिच्छानि प्रियाणि वल्लभाणि यस्य स
पु० की० अमरा यस्य इति स्तुत्यं नाम आहु इतीति किम् शशिम-
च्छिरोहर इति शशिन चन्द्रं मथायतीति शशिमन् राहु तस्य शिर
हरतीति स तथा इष्ट भुजगहा गरुडो यस्य स तथा अर सुद-
र्शनं वलयं यस्य स तथा रवे परब्रह्मणि लयो यस्य स रवलय इति
१ कं जलं ददातीति कदस्तस्यो भा त्व भा यस्य स आकृष्णो वो
युष्मान्पायाद्रक्षतु स क य व्योमाडिनग व्योमाटा पक्षिणा
इनो गरुडस्तेन गच्छतीति स तथा अह्ना ईट् अहरोट् सूर्य उडु-
पश्चन्द्रस्तौ गोयुग्म नेत्रद्वयं यस्य स तथा कु पृथ्वीं अगा गिरय
तान्धरतीति तथा अपगता भीर्भयं यस्मात्स तथा पु० क० भीम-
र्व्वैर्यसुकी क्ष्माणा देवाना अरय ऋम्बरय भीमाश्च ते ऋम्बरयश्च
भीमर्च्वरय भीमर्व्वरीणा असून प्राणान् किरतीति स ऋभव अरय
तेषामरयो दैत्या भीमाश्च ते ऋम्बरयश्च भीमर्व्वरयश्च तेषामसून
किरति कलेवराद्वियोजयति तथा तथा रमा लक्ष्मी तस्या रते
क्रीडाया रस आसक्तिर्यस्य स अप्सु रुहंति इति अम्बुद कमल
नाभावभूदिति आसीन क ब्रह्मा यस्येति तथा पु०क० व्योमदा दवाना
दम्बा सघेन अवनम्य पत्सलिलज चरणकमल यस्य वा धौ स्वपि
नीति तथा अष्टाधं चत्वारो दोषा बाहवो यस्य जाध अनादिगि
लय गदा गदाधर असि खङ्ग वहति मोक्षं ददाति २ हे
लक्ष्मीवन् त्वं मा सेवकं अव्या रक्ष कथंभूतस्त्वम् ? कृतकू कृत
को पृथिव्या ऊ अवनं रक्षण येनामो पु० क० असू सूयते
उत्पद्यते असौ सू न सू असू जञ इत्यप पु० क० रणदहिन्
रण संग्राम ददति ते रणदा शत्रवस्तान्हिनस्ति जहौ शत्रुहा
इत्यव पु० क० दूधकू दुव दुख दहतीति दूथकू पु० क०
क्षम क्षमास्यास्तीति स पु० क० पापडी डल योरभेदात् पापली
पारपं लुनातीनिम पु क० इलाटू इलाया पृथिव्या अटतीति
इलाट् पुरा वामनादिरूपेण बले सकाश प्राप्त उक्तं च-'बहवो
मा न जानन्ति मम मायाविमोहिता । सदाह द्विजस्रूपेण विचरामि
महीतले ॥' इति भारतवचनात् पु० क० विविमुना रूढ वीना
पत्रिणा विमुर्गंरुटस्तेन उढ वाह्यमान इत्यर्थ पु० क० अकलधी
अक दुखं लङ्घयतीति अकलधी पु० क० अवलाञ्छनं अवगतं
लाञ्छन यस्य स अवलाञ्छनस्तस्य सबुद्धौ हे अवलाञ्छन ' अवा
प्योरुपसर्गयोरकारलोप पु० क० वटी वल्यो. डलयोश्च साव-
र्थ्यात् बली बलमस्यास्तीति म पु० क० खाजाम्बुदालीरुचि
खे आकाशे अजन्ति गच्छन्ति ते खाजा गगनचरा ते च ते अम्बु
दाश्च तेषामलि पङ्किस्तस्या रुचिरिव रुचिर्यस्यासौ घनश्याम
इत्यर्थ पु० क० महुशाकारखण्डन महाक्षाणूरादयस्तेषामाशा
वाञ्छा तस्या आकर समूह तं खण्डयतीति स महेच्छासामूहना
शन इत्यर्थ पु० क० क्षीरावस क्षीरे क्षीरसमुद्रे आसमन्ताद्भा-
वेन वसतीति तस्य सबुद्धौ हे क्षीरावस हे अतुत्य नास्ति तुल्यो
यस्य स तस्य सबोधने कीदृशं माम् ' सासुम् असव प्राणास्तै
सह वर्तमानम् पु० क० अलितन्निभाङ्गवसन अङ्गं च वसनं
च अङ्गवसने अलिक्ष तद्विच अलितडितौ तयोर्निभेव निभा ययोस्ते
अलितडिन्निभे अङ्गवसने यस्यासौ अलितडिन्निभाङ्गवसनः पु० क०
सारवान् सारो बलमस्यास्तीति स• पालनसमर्थ इत्यर्थ •
कूटानि, क्रियागुप्तादयः । १९३
म्बुदालीरुचिः । मङ्गाशाकरखण्डनो विविषुना क्षीरावसा-
तुल्य मा सांखूं हालितडिन्निभाञ्जवसनोऽव्या. सेवकं सार-
वान् ॥ ९१ ॥ खांटीच्छाशिपलेहपापडवडीर्ष्यारोडभाजी
गणो यद्भक्तोऽनिमिषीव वा कुलचणा ध्यायन्ति या
योगिन. । कालामीलकरालभूखलमहादैत्येन्द्रमाथार्थिनी सा
सास्यूररसा तवाघतटये स्तात्कर्ममोटी चिरम् ॥ ९२ ॥
सूँदारा उलपाडिमेखलतटी कच्छोटजा बिभ्रती पूता
रेभरडीननीलजसभा नागीव पातालगा । खाधोऽसावज-
कालियारिहरिणव्याधैः समं पीडितामामोघोघरवाघवारण-
पद मन्दाकिनी वः क्रियात् ॥ ९३ ॥ जायन्ते नव सौ तथामि
च नव म्भ्याम्भिसम्यसा सगमे षट्सख्यानि षडेव सुप्यथ
शसि त्रीण्येव तद्वज्जसि । चत्वार्यन्यवचःसु यस्य विबुधाः
शब्दस्य रूपाणि तज्जानन्ते यदि शक्तिरस्ति गदितुं षाण्मा-
सिकोऽत्रावधिः ॥ ९४ ॥ मुद्गीदालिसुशालितूअरतणीगार्ब
सुदुग्ध घृतं नीकाद्हूपलेहपापडवडी कोरीवघारीमडा । मूला-
कोष्ठकुठीवडा च कपिटाटीटीदुराचीभडा आदासूरणरायता-
हदिवडा कुर्वन्तु वो मङ्गलम् ॥ ९५ ॥ वाँश्चारेङ्ग्ध्वज-धृग्धृतोडुपिपति. कुभ्रेङ्गजजानिर्गणेझोराडारुदुरःमरेडुरतर-
ग्रैवेयकश्चाङग्म् । उड्डीङ्ङ्नरकास्थिधुकित्रदृगिमेडार्द्राजिना-
च्छच्छवि. स स्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो
मृड. ॥ ९६ ॥
क्रियागुप्तादयः
क्रियागुप्तम्
आगता. पाण्डवा. सर्वे दुर्योधनसमहिया । तस्मै गा च
सुवर्ण च रत्नानि विविधानि च ॥ १ ॥ निरुद्यमानवद्याङ्गया-
चकान्दु खसचान् । अत्र क्रियापदं गुप्तं यो जानाति स
पण्डित. ॥२॥ प्रातः प्रातः समुत्थाय द्वौ मुनी च कमण्डलू ।
अत्र क्रियापदं वक्तुमवधिर्ब्रह्मणे वयः ॥ ३ ॥ ललाटतिल-
कोपेताः कृष्णः कमललोचनः । गोकुलेऽत्र क्रिया वक्तुं
मर्यादा दशवार्षिकी ॥ ४ ॥ पम्पासरासि रामेण सस्नेहं
सविलासया । सीतया कि कृत सार्थमत्रैवोत्तरमीक्ष्यताम् ॥ ५ ॥
राजनवघनश्याम निक्षिक्षार्क दुर्जय । आकल्प वसुधामेता
विद्विषो च रणे बहून् ॥ ६ ॥ कान्तया कान्तसयोगे किमकारि
नवोढया । अत्रापि चोत्तर वक्तुमवधिर्ब्रह्मणो वयः ॥ ७ ॥
दामोदराय पुण्यात्मन्पुष्पमूलफलान्यपि । अत्र क्रियापदं
गुप्तं यो जानाति स पण्डितः ॥ ८ ॥ विराटनगरे राजन्की-
चकादुपकीचकम् । अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः
॥ ९ ॥ कान्तं विना नदीतीर मदमालोक्य केकिनी ।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः ॥ १० ॥
अम्लानपङ्कजा माला कण्ठे रामस्य सीतया । सुधा बुधा
१ सा कर्ममोटी चामुण्डा तवाघतटये अघहरणाय स्तात् अस्तु कथभूता सा ? सास्यूररसा असूया कोपस्तस्य रस तेन सह वर्तमाना कथभूता सा ? काला कृष्णवर्णा मीला भीषणा तेभ्योऽपि कराला, अतिरौद्रा इत्यर्थ भुवि खला भूखला दुर्जना, ते च ते महादैत्याश्च तेषां माथो मथन तमर्थयतीति एवविधा तथा वा कुलचणा कुलख्याता योगिन ध्यायन्ति तथा यद्भक्तो गण यस्या सेवको गण. यत्प्रसादेनानिमिषीव देवराज इव 'वर्तते' इति वाक्यशेष तामेव विशिनष्टि—खे वियत्यटतीति खाटी इच्छया अश्नातीति इच्छाशी पले आमिषे ईहा स्पृहा अस्येति पलेह तथा डल्योरैक्यात् पाप लुनातीति पापड बवयोस्तथैक्यात् बलमस्त्यास्तीति बली तथा ईर्ष्याया रोलं लोल भजते इति स चासौ स च इति कर्मधारय २ उलपानि हरिततृणानि तेषामालि पङ्कि सैव मेखला काञ्ची यस्यास्तादृशा तटी भूर्गुर्यस्या सा तथा कच्छे जलप्राये देशे उटजानि पर्णकुटी बिभ्रती बिभ्राणा तथा पूता पावना तथा रेभ शब्द त राति अङ्गीकरोतीति रेभरा सशब्दा मुखरा इत्यर्थ तथा लीनाना एकान्तगताना नीरजाना पङ्किस्नानाम् हसचक्र वाक्कल्हसादीनामित्यर्थ सभा परिषत् सभा यस्या सा तथा खाध अम्बरादथ नागीव पातालगा, भोगवती इत्यर्थ तथाजो ब्रह्मा कालियारि हरिणव्याधो रुद्र तै मम सहैव युगपदित्यथ पीडितावगाहितैत्यर्थ तथा मा मीयते इति मा तद्विरुद्धा, इयत्ता शून्या इत्यर्थ अमोघो नेतृणा मोक्षप्रद ओघरव स्रोतोध्वनिर्यस्या मा तथा एवगुणविशिष्टा मन्दाकिनी सुदारा सुतरा उदारा वो युष्माक इति शेष अघवारणपदं अघवारणस्य पदं अवस्थिति क्रियात् करोतु यद्वा,-वो युष्मान् अघवारणपदं अघवारणसमर्थानित्यर्थ २ गवां कृशब्देस्येत्यर्थ ३ वापुं चरन्ति तेषा इदं स्वामी मकर स ध्वजो यस्य त काम दहतीति वाश्चारेङ्ग्ध्वजधक् श्रुत उडूना नक्षत्राणामधिपतिर्येन कु पृथ्वी भरन्ति तेषामीद्र हिमालयस्तस्माज्जाता पार्वती
२५ सु. र मः
(१) य धनसमीहया धनेच्छया आगतस्तस्मै सर्वे पाण्डवा गा च सुवर्ण च विविधानि रत्नानि च 'अदु' ददति स्म (२) निरुद्यमान्याचनोयोगहीनानपि याचकान् अव रक्ष दु खसच्यान् च खण्डय (३) 'प्रात ' इति क्रिया प्रा पूरणे लट् प्रथमपुरुषद्विवचनम् (४) 'ललाट' इति लट् बाल्ये लिङ् (५) 'सस्ने' इति ष्णा शौचे कर्मणि लिङ् (६) 'अव' इति अव रक्षणे 'क्ष' इति च दोऽवखण्डने लोट् (७) 'अत्रापि' इति त्रपूष् लज्जायाम् कर्मणि लुङ् (८) हे दामोदर पुष्पमूलफलानि 'आय' आनय इट्किट्कटी इत्यत्र प्रविष्टस्स ईंधातोराङ्पूर्वस्य लोटो रूपमिदम् उपसर्गसमभिव्याहारेण आनयनार्थकत्वम् (९) वि पक्षी कीचकाद्रेणो कीचकान्तर 'आट' बभ्राम (१०) केकिनी मयूरी इरमद मेघज्योती विद्युतूमिति यावत् आलोक्य 'विनानदीति' विशेषेण पुन पुनवां शब्द करोतीत्यर्थ
सा जाता यस्य स कुभ्रेङ्गजजानि गणाना प्रमथानामीश गवा राजा नन्दी तमारोहतीति आरूढ उरसा सरन्ति ते भुजगास्तेषामीद्स एवोरुतर ग्रैवेयकं कण्ठभूषण तेन अरमत्यन्तं आजते तथा उड्डुनामीशस्य रुक् यस्य स नरकपालस्थिचारक त्रिनेत्र इभाना हस्तिनामिद्र तस्यार्द्रार्जिन तेनाच्छा छवियँस्य स मृड देव व मुदेस्तात् आशिषि 'अस् भुवि' इत्यस्य लोटो रूपम् अम्बु विचते येषा ते अम्बुमन्त एतादृशा अम्बुदा मेवास्तेषामालिर्माला सेव कण्ठच्छविर्यस्य एतादृश •
१९४ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे ॥ ११ ॥ नारसिंहा-
कृतिं वीक्ष्य वने मत्तमंतंगज. । अत्र क्रियापदं गुप्तं
यो जानाति स पण्डितः ॥ १२ ॥ सध्यावन्दनवेलाया
तडागान्ते द्विजोत्तमैः । अत्र क्रियापदं गुप्तं यो जानाति
स पण्डितः ॥ १३ ॥ पुस्कोकिलकुलैस्ते नितान्तमधुरारवैः ।
सहकारद्रुमा रम्या वसन्ते कामपि श्रियम् ॥ १४ ॥
बिम्बाकार सुधाधारं कान्तावदनपङ्कजम् । अत्र क्रियापदं
गुप्तं मर्यादा दशवार्षिकी ॥ १५ ॥ राघवस्य शरैर्घोरैर्घोर-
रावणमाहवे । अत्र क्रियापदं गुप्तं मर्यादा दशवार्षिकी
॥ १६ ॥ पामरागामिभूतस्य श्लेष्मव्याधिनिपीडित । यदि
ते जीवितसेच्छा तदा भोः शीतलं जलम् ॥ १७ ॥
कर्तृगुप्तम्
गौरी नखरसादृश्यक्रीडया शशिनं दधौ । इहैव गोप्यते
कर्ता वर्णेनापि न लभ्यते ॥ १८ ॥ अन्नवस्त्रसुवर्णानि
रत्नानि विविधानि च । ब्राह्मणेभ्यो नदीतीरे ददाति
व्रज सत्वरम् ॥ १९ ॥ राक्षसेभ्य सुता हत्वा जनकस्य
पुरीं ययौ । अत्र कर्तृपदं गुप्तं मर्यादा दशवार्षिकी ॥ २० ॥
श्यामौ तव स्तनावेतौ पिबन्ति सततं मुदा । अत्र
कर्तृपदं गुप्तं मर्यादा दशवार्षिकी ॥ २१ ॥ व्यत्यवासाः
पञ्चशिरा यरिर्वीनारिभूषणः । असिरोमा क्रियादुर्ध शङ्क-
लायनवीक्षणः ॥ २२ ॥ व्यामोहं तव भिन्दन्तु छिन्दन्तु
दुरितानि च । कर्तृगुप्तमिमं श्लोकं ये जानन्ति विचक्षणाः
॥ २३ ॥ न करोति नाम रोषं न वदति परुषं न हन्त्ययं
शत्रून् । रञ्जयति महीमखिलां तथापि धीरस्य वीरस्य
॥ २४ ॥ शरदिन्दुकुन्दधवल नगपतिनिलयं मनोहर
देवम् । यै. सुकृतं कृतमनिशं तेषामेव प्रसादयति ॥ २५ ॥
(११) 'प्रत्यक्षेपि' क्षिप्ता (१२) गज सिहस्याकृति वीक्ष्य 'नार' न जगाम ऋ गतौ कर्तरि लिङ् (१३) हे द्विजोत्तम 'ऐ' आगच्छ (१४) 'अधु' दधति स्म (१५) पूर्वोक्त कान्तावदन 'दश' चुम्बस्वेति (१६) हे राघव' त्व रावण आहवे शरै कृत्वा 'स्य' मारय इति (१७) भो श्लेष्मव्याधिनिपीडित ' यदि जीवितव्येच्छा तर्हि शीतल जल 'मा पा' मा पिवेति (१८) इ कामस्त हन्तीति 'इहा' ईश्वर इति (१९) हे ब्राह्मण' 'इभ्य' समृद्ध (२०) राक्षसानां इभ्य स्वामी रावण जनकस्य सुता सीता हृत्वा पुरी लङ्का ययौ (२१) श्यामौतव कृष्णमार्जारौ (२२) 'उ' महादेव (२३) उ, शिव इ ब्रह्मा अ विष्णु इत्यनेन व्य इति जातम् तस्य बहुवचने 'व्या' हर-विधि-हरय तव मोह भिन्दन्तु दुरितानि छिन्दन्तु. ये कर्तृशास्ते विचक्षणा (२४) अय पुरुषो रोष न करोति परुषं कठोर न वदति शत्रून्न हन्ति नामेति प्रसिद्धम् तथापि अस्य वीरस्य 'धी.' अखिला मही रञ्जयति. (२५) यैरनिश सुकृतं कृत तेषामेव 'मन.' शरदिन्दुकुन्दधवल नगपतिनिलय देव हर प्रसादयति.
कर्मगुप्तम्
शीकगुसारसवाहिसरोजवनमारुतः । प्रक्षोभयति पान्थ-
स्त्रीनि.श्वासैरिव मासलः ॥ २६ ॥ सुभग तवाननपङ्कजदर्शन-
सजातनिर्भरप्रीतेः । शमयति कुर्वन्दिवसः पुण्यवतः कस्य
रमणीय. ॥ २७ ॥ एहि हे रमणि पश्य कौतुक धूलि-
धूसरतनुं दिगम्बरम् । सापि तद्वदनपङ्कजं पपौ आत-
रुक्तमपि कि न बुध्यते ॥ २८ ॥
करणगुप्तम्
पूतिपङ्कमयेत्यर्थं कासारे दुःखिता अमी । दुर्धारा मानस
हंसा गमिष्यन्ति घनागमे ॥ २९ ॥ अह महानसायातः
कल्पितो नरकस्तव । मया सासादिकं भुक्त भीमं जानीहि
मा बक ॥ ३० ॥
संप्रदानगुप्तम्
अम्भोरुहमये स्नात्वा वापीपयसि कामिनी । ददाति
भक्तिसपन्ना पुत्रसौभाग्यकाम्यया ॥ ३१ ॥ प्रशस्त्यायुक्त-
मार्गस्य तव समानिता श्रिताः । स्पृहयन्ति न के नाम
गुणरत्नालय प्रभो ॥ ३२ ॥
अपादानगुप्तम्
शिलीमुखैस्त्वया वीर दुर्वारैर्निर्जितो रिपु. । बिभेत्य-
त्यन्तमलिनो वनेऽपि कुसुमाकुले ॥ ३३ ॥ सरसीतो-
यमुद्धृत्य जनः कंदर्पकारकम् ॥ पिबत्यम्भोजसुरभि स्वच्छ-
मेकान्तशीतलम् ॥ ३४ ॥
संबन्धगुप्तम्
तूणेव मधुमासेऽस्मिन्सहकारद्रुमञ्जरी । इयमुन्निद्रमुकुलै-
र्भाति न्यस्तशिलीमुखा ॥ ३५ ॥ भानुर्वै जायते लक्ष्म्या
सरस्वत्याथवा मता । अत्र षष्ठीपदं गुप्तं मर्यादा दशवार्षिकी
॥ ३६ ॥ प्राप्तमदो मधुमासः प्रबला रवियमतमोऽपि दूरस्थः ।
असती संनिहितेयं सहतशीला सखी नियतम् ॥ ३७ ॥
अधिकरणगुप्तम्
या कटाक्षच्छटापातैः पवित्रयति मानवम् । एकान्ते
रोपितप्रीतिरस्ति सा कमलालया ॥ ३८ ॥ विपद्यमानता
सिद्धा सर्वस्यैव निरूष्मणः । यथात्र भस्म पद्मा च निर्वाणं
हन्त्ययं जन. ॥ ३९ ॥
(२६) पान्थस्त्रीनि श्वासैर्मासल पुष्ट इवेत्युत्प्रेक्षा शीकरासारसंवाहिजवन मारुतो वेगवान्वायु 'स' प्रक्षोभयति (२७) दिवस 'श' सुख कुर्वन् अयति गच्छति (२८) हे रमणि' एहि कौ पृथिव्या तुर्क बालक धूलिधूसरतनु दिगम्बरं पश्य (२९) दुष्ट वा जल दुर्वा, तेन 'दुर्धारा' कलुषितजलेन (३०) महच्च तत् अन्न शकट च महान तेन 'महानमा' महता शकटेन आयात आगत नरको मृत्यु (३१) अम्भोरुहमये इत्यंत्र 'अये' इ काम तस्मै (३२) प्रशस्त्यायुक्तमार्गस्य इत्यत्र 'प्रशस्त्यै' कल्याणाय उक्तमार्गस्य (३३) 'अलिन' भ्रमरात् (३४) 'सरसीत' सरोवरात्, क जलम् (३५) उन्निद्रमुकुला 'ए' इति भिन्ने पदे क्रियेते इ कामस्तस्य ए (३६) भो कान्ति 'नु' नरस्य (३७) 'मास ' चन्द्रस्य अदो मधु मध प्राप्तम् (३८) 'ए' कृष्णे 'कान्ते' भर्तरि (३९) विपद्यमानता इत्यत्र 'विपदि' कष्टे निर्गत ऊष्मा द्रव्यरूपो यस्मात्तस्य निरूष्मण अमानता आदराभाव, शान्तमूर्ध्नरहितमित्यर्थ.
क्रियांगुप्तादयः, मात्राच्युतकादयः १९५
| आमन्त्रितगुप्तम् | लिङ्गगुप्तम् |
|---|---|
| कमले कमले नित्य मधूनि पिबतस्तव । भविष्यन्ति न सर्वदेह कष्ट दोषाकरोदये ॥ ४० ॥ सर्वज्ञेन त्वया किंचिन्नास्त्यविज्ञातमीदृशम् । मिथ्यावचस्तथा च त्वमसत्य वेत्सि न क्वचित् ॥ ४१ ॥ पिबतस्ते शगवेण वारि कहारशीतलम् । केनेमौ दुर्विदग्धेन हृदये सन्निरोपितौ ॥ ४२ ॥ वटवृक्षो महानेष मार्गमावृत्य तिष्ठति । तावत्त्वया न गन्तव्यं यावन्नान्यत्र गच्छति ॥ ४३ ॥ | नितान्तस्वच्छहृदयं सखि प्रेयान्र्क्षमागतः । त्वा चिराद्दर्शनप्रीत्या य समालिङ्गय रक्षते ॥ ५० ॥ कलिकालमियं यावदगस्त्यस्य मुनेरपि । मानसं खण्डयत्यत्र शशिखण्डानुकारिणी ॥ ५१ ॥ |
| कर्तृक्रियागुप्तम् | सुब्वचनगुप्तम् |
| घनघनाघनकान्तिघनोऽघनुद्दनुजपुञ्जमिनात्रिजगुर्विग । सकमलोऽपिनदर्थसमा क्रियामिह विलोकयितु त्व सकर्तृकाम् ॥ ४४ ॥ | प्रमोदं जनयत्येव सदाग गृहमेधिनः । यदि धर्मश्च कामश्च भवेता सगताविमौ ॥ ५२ ॥ |
| कर्तृकर्मक्रियागुप्तम् | तिङ्वचनगुप्तम् |
| भवानिशंकरोमेश प्रति पूजापरायणः । कर्तृकर्मक्रियागुप्तं यो जानाति स पण्डितः ॥ ४५ ॥ वीरमलद्भुत लोके किमहं वच्म्यतः परम् । कर्तृकर्मक्रियागुप्त मर्यादा ब्रह्मणो वयः ॥ ४६ ॥ | कस्माच्च दुर्बलासीति सख्यस्ता परिपृच्छति । त्वयि सन्निहिते तासु दद्यात्कथय सोत्तरम् ॥ ५३ ॥ |
| संधिगुप्तम् | मात्राच्युतकादयः<br>मात्राच्युतकम् |
| न मया गोरसाभिज्ञ चेत कस्मात्प्रकुप्यसि । अश्यानरुदितैरेतैरमलोहितेक्षणे ॥ ४७ ॥ | महाशयमतिस्वच्छ नीर संतापशान्तये । खलवासादतिश्रान्ताः समाश्रयत हे जना ॥१॥ तुषारधवल स्फूर्जन्महामणिधरोऽनघः । नागराजो जयत्येकः पृथिवीधरणक्षमः ॥२॥ |
| समासगुप्तम् | बिन्दुच्युतकम् |
| विषादी भैक्ष्यमश्नाति सदारोग न मुञ्चति । रुष्टेनापि त्वया वीर शंभुनारिः समः कृतः ॥ ४८ ॥ नित्यमाराधिता देवैः कस्य द्विषतस्तनुः । मण्डलाग्रं गदा शङ्ख चक्रं जयति बिभ्रती ॥ ४९ ॥ | सुश्यामा चन्दनवती कान्ता तिलकभूषिता । कस्यैषानङ्गभूः प्रीति भुजंगस्य करोति न ॥ ३ ॥ यथा सत्यसवः स्निग्धः सन्मार्गविहितस्थितिः । तथा सर्वाश्रयः सत्यमयं मे वकुलद्रुमः ॥ ४ ॥ |
| विसर्गच्युतकम् | |
| महीरुहो विहगानामेते हृद्यैकलापिनाम् । विरुतै स्वागतानीव नीरवाहाय कुर्वते ॥५॥ अगस्त्यस्य मुनेः शापाद्ब्रह्मसन्दनमास्थितः । महासु खात्परिभ्रष्ठो नहुषः सर्पता गत ॥६॥ |
(४०) कमले इत्यत्र 'क अले' इति पदच्छेद हे 'अले' भ्रमर ' क सुख यथा स्यात्तथा पिबतस्तव (४१) सर्वजानातीति सर्वज्ञस्तस्य इन स्वामी तत्संबोधन हे मर्वज्ञेन पण्डितश्रेष्ठ ! (४२) हे 'एण' मृग ' कहार शीतल वारि उदक पिबत ते हृदये केन दुर्विदग्धेन इमौ शरौ वाणौ सन्निरोपितौ इत्यन्वय (४३) बवयोरैक्यात्, हे 'बटो' ब्राह्मण' ऋक्ष भल्लूक आवृत्त्य रुद्धा (४४) घन सान्द्र स चासौ घनाघन पर्जन्यश्च तस्य कान्तिस्तद्वत् घन सुन्दर घनवत्सुन्दर इत्यर्थ तथा अघनुत् अघहन्ता इन सूर्य अत्रिजश्चन्द्र तावेव गावौ नेत्रयुग्मे यस्य स तथा विना गरुडेन गच्छतीति 'विग' कमलया लक्ष्म्या सह वर्तते इति अत विष्णु रामावतारे कृष्णावतारे च दनुजपुञ्ज दैत्यनिचय 'अपिनद' चूर्णितवान् अत्र श्लोके सकर्तृका कर्त्रा सह वर्तमाना क्रिया क्रियापद विलोकयितु अर्धसमा अर्धवर्ष ददामीति श्लोककर्ता प्रतिज्ञा करोति (४५) हे 'कर' हस्त ! 'उमेश' प्रति अनिशं पूजापरायणो 'भव्' (४६) वीर, अहमलद्भुत वीर लोके पश्यामि अत पर कि वच्मि (४७) न निषेध मेमम आगोरसाभिक्षमिति पदच्छेद मे चेत आगोरसाभिज्ञ अपराधरमाभिक्ष नेत्यर्थ (४८) विषादी खिन्न, पक्षे,-विष कालकूटमत्तीति स विषादी तत्पुरुषसमास सदा सर्वदा रोग व्याधि न मुञ्चति पक्षे,-दारै सह वर्तमान सदार सस्त्रीक अग शैल न मुञ्चति तत्पुरुषसमास (४९) नित्य देवै आराधिता, पक्षे,-नित्य मा लक्ष्मीर्र्यस्या सा नित्यामा देवै राधिना बहुव्रीहिसमास' (५०) अय नितान्तमतिशयेन स्वच्छं निर्मल हृद् हृदय यस्य स नितान्तस्वच्छहृद् प्रेयान् समागत पुल्लिङ्गनिर्देश
(५१) इय अगस्त्यस्य वृक्षस्य कलिका अमल्यन्त मुनेर्मन खण्डयति स्त्रीलिङ्गनिर्देश (५२) सदारा इत्यत्र 'रा' इति प्रथमैकवचन सुबन्तम् गृहमेधिन इति षष्ठी (५३) अतिशयेन पृच्छतीति परिपृच्छति 'इति' यड्लुगन्ते अन्ति परतो रूपमस्ति इदमेव रूपमेकवचन ज्ञायते नतु बहुवचनेन इति तिङ्बचनगुप्तम्
(१) एकस्मिन्नर्थे 'नीर' जलम् द्वितीयेऽर्थे नीरशब्दस्य ईकारस्थाने अकार क्रियते तदा 'नर' पुरुष इत्यवशिष्यते (२) एकस्मिन्नर्थे 'नागराज' शेष द्वितीयेऽर्थे नागराज इत्यस्य आकारस्थाने अकार क्रियते तदा 'नगराज' हिमाचल इति स्यात् (३) एकस्मिन्नर्थे 'अनङ्गभू' कामस्य स्थान ईदृशी स्त्री द्वितीयेऽर्थे अनुस्वारो लुप्यते तदा 'नगभू' पर्वतस्य भूमि इत्यवशिष्यते (४) एकस्मिन्नर्थे 'अयं मे' मम 'वकुलद्रुम' बवयोरैक्यात् द्वितीयेऽर्थे अनुस्वारत्यागेन 'अयमेव कुलद्रुम' इति स्थितम् अय पुमान् कुले द्रुम इव द्रुमो वृक्ष (५) एकस्मिन्नर्थे 'हृद्यै' मनोहरै विरुतै शब्दै द्वितीयेऽर्थे विसर्गलोपे कृते 'हृद्यैकलापिनाम्' इति जातम् हृद्यं सुन्दर एक अद्वितीयं लपन्ति वदन्ति ते हृद्यैकलापिनस्तेषा विहगानाम् (६) एकस्मिन्नर्थे 'महासु ' महान्तोऽमव प्राणा यस्य स 'खात्' आकाशात् द्वितीयेऽर्थे विसर्गलोपे 'महासुखात्' महच्च तत्सुखं च तस्मात् राज्यात्
१ यत्र प्रश्ने मात्राविन्दुविसर्गाणा च्युतकेषु कृतेषु सत्सु द्वितीयोऽर्थे प्रकटो जायते तन्मात्राच्युतकादिकम् च्युतकशब्देन कुत्रचित्स्याने नाश, कुत्रचिद्विनिमयः
१९६ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम्
अक्षरच्युतकम्
महानपि सुधीरोऽपि बहुरत्नयुतोऽपि सन् । विरसः कुपरी-
वारो नदीनः केन सेव्यते ॥७॥ सुशीलः स्वर्णगौरङ्गः पूर्णचन्द्र-
निभाननः । सुगतः कस्य न प्रीतिं तनोति हृदि संस्थितः ॥८॥
स्थानच्युतकम्
तनोतु ते यस्य फणी गरुत्मान् पाणौ मुरारिर्दयिता च
शय्या । नाभौ स्फुरन्भद्रमशुश्रुदेशः पद्मा गतिश्चक्रमसौ
विधाता ॥ ९ ॥ हरः क्षयी तापकरः सुदेशः शान्तो
हरिर्गोत्ररिपुर्विवस्वान् । चन्द्रो द्विजिह्वाश्रित इत्युपेक्ष्य
लक्ष्म्या वृतः पातु विधिर्जगन्ति ॥ १० ॥
व्यञ्जनच्युतकम्
भिक्षवो रुचिराः सर्वे रसाः सर्वजनप्रियाः । क्षमायामभि
सपन्ना दृश्यन्ते मगधे परम् ॥११॥ सत्याशीलदयोपेतो दाता
सुचिरमत्सरः । जिनः सर्वात्मना सेव्यः पदमुच्चैरभीप्सता ॥१२॥
च्युतदत्ताक्षरम्
सदागतिह्वयोच्छ्लायस्तमसो वश्यता गतः । अस्तमेष्यति
दीपोऽयं विधुरेकः शिवे स्थितः ॥ १३ ॥ पूर्णचन्द्रमुखी
रम्या कामिनी निर्मलाम्बरा । तनोति कस्य न स्वान्तमेकान्त-
मदनातुरम् ॥ १४ ॥ कूजन्ति कोकिलाः साले यौवने
फुल्लमम्बुजम् । किं करोतु कुरङ्गाक्षी वदनेन
निपीडिता ॥ १५ ॥
अन्तरालापाः
कस्तूरी जायते कस्मात्को हन्ति करिणां कुलम् । किं
कुर्यात्कातरो युद्धे मृगात्सिंहः पलायनम् ॥ १ ॥ कः खे
चरति का रम्या का जप्या किं विभूषणम् । को वन्द्यः कीदृशी
लङ्का वीरमर्कटकम्पिता ॥ २ ॥ सीमन्तिनीषु का शान्ता
राजा कोऽभूद्गुणोत्तमः । विद्वद्भिः का सदा वन्द्या अत्रै-
वोक्तं न बुध्यते ॥ ३ ॥ युधिष्ठिरः कस्य पुत्रो गङ्गा वहति
कीदृशी । हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः
॥ ४ ॥ भोजनान्ते च किं पेयं जयन्त कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥ ५ ॥ पृथवी-
सबोधनं कीदृक्कविना परिकीर्तितम् । केनेदं मोहितं विश्वं
प्रायः केनाप्यते यशः ॥ ६ ॥ कः कुर्याद्ध्रुवन सर्वे कः समु-
न्मूलयेद्द्रुमान् । किं प्रतीके भवेन्मुख्यं कः परत्रैति पुण्यताम्
॥ ७ ॥ भवत इवातिस्वच्छ कस्याभ्यन्तरमगाधमतिशिशि-
रम् । काव्यामृतरसमग्नस्त्वमिव सदा कः कथय सरसः ॥८॥
वीरे सरुषि रिपूणा नियतं का हृदयशायिनी भवति । नभसि
प्रस्थितजलदे का राजति हन्त वद तारा ॥ ९ ॥ भ्रमरहितः
कीदृक्षो भवतितरा विकसितः पद्मः । ज्योतिषिकः कीदृक्षः
प्रायो भुवि पूज्यते लोकैः ॥ १० ॥ प्रभवः को गङ्गाया नग-
पतिरतिसुभगस्त्वङ्गधरः । के सेव्यन्ते सेवकसार्थैरत्यर्थमर्थरतैः
॥ ११ ॥ अयमुदितो हिमरश्मिर्वर्णितावदनस्य कीदृशः
सदृशः । नीलादिकोपलम्भ्रः स्फुरति प्रत्यक्षतः कस्य ॥ १२ ॥
गैरिकमनःशिलादिः प्रायेणोत्पद्यते कुतो नगतः । यः खलु
न चलति पुरुषः स्थानादुक्तः स कीदृक्षः ॥ १३ ॥ कस्य मेरौ
दुरधिगमः कमले कः कथय विरचितावासः । कैस्तुष्यति
चामुण्डा रिपवस्ते वद कुतो अद्यः ॥ १४ ॥ कं संजघान
कृष्णः का शीतलवाहिनी गङ्गा । के दारपोषणरताः कं बल-
वन्तं न बाधते शीतम् ॥१५॥ कः कौ के कं कौ कान् हसति
[टिप्पणी]
(७) एकस्मिन्नर्थे नदीना इन स्वामी 'नदीन' समुद्र द्वितीयेऽर्थे नदीन इत्यस्मात् नकार सस्वरो लुप्यते तदा 'दीन' इति तिष्ठति दीनशब्देन कृपणधनी पुमान्
(८) एकस्मिन्नर्थे 'सुगतो' बुद्ध जिन द्वितीयेऽर्थे सुगत इत्यस्मात् गकार सस्वरो लुप्यते तदा 'सुत' इति स्यात् सुत पुत्र
(९,१०) एषा श्लोकाना मध्ये अर्थयोजनिकाया कृताया सत्या योजनिका स्थानान्तरे धृताऽस्ति यो यस्य शब्दस्य अन्वयतवेन लगति सं शब्दस्तत्पार्थे धृतो नास्ति
(११) एकस्मिन्नर्थे 'भिक्षव' श्वेताम्बरा द्वितीयेऽर्थे भिक्षव इति पदात् भ्रकारलोप क्रियते तदा 'इक्षव ' गुडवृक्षा
(१२) एकस्मिन्नर्थे 'जिनो' वीतराग द्वितीयेऽर्थे जिन इत्यस्माज्जकारो लुप्यते तदा 'इन' इति स्थितम् इन स्वामी राजा वा
(१३) एकस्मिन्नर्थे 'दीप' द्वितीयेऽर्थे दीप इत्यत्र पकार लुप्त्वा तत्स्थाने नकारो दीयते तदा 'दीन' इति अय दीनो विधुश्चन्द्र एक एव शिवे स्थित
(१४) एकस्मिन्नर्थे 'कामिनी' स्त्री द्वितीयेऽर्थे 'यामिनी' रात्रि
(१५) अत्र 'रसाले' इति वक्तव्ये 'साले' इति रक्ष्यत 'वने' इत्यत्र 'यौवने' इति यौर्दत्त 'वदनेन' इत्यत्र 'मदनेन' इति मश्च्युतो वो दत्त
(१) कस्तूरी कस्माद् जायते? मृगात् करिणा कुल को हन्ति? सिंह कातरो युद्धे किं कुर्यात् ? पलायनम्-इति योजना
१ कर्तृकर्मक्रियापदाना स्थानान्तरे धृतत्वाद् अन्वयो दुर्लभो यस्य वृत्तस्य तत् स्थानच्युतकम्
२ 'स्फोटयित्वाक्षर किंचित्पुनरन्यस्य दानत । यत्रापरो भवेदर्थश्च्युतदत्ताक्षर हि तत् ॥' इति
(२) खे क चरति ? वि पक्षी रम्या-रमा जप्या ? ॐ विभूषणम्-कटकम् वन्द्य - पिता लङ्का-वीरमर्कटैर्हनूमदादिभि कम्पिता नास्ति तेत्यर्थ
(३) चरणायन्ताक्षरोर्मेलनेनोत्तरम् यथा सीता राम विद्या
(४,५) चतुर्थपादस्थपदत्रयेण प्रश्नत्रयस्योत्तरम्
(६) 'कविना' हे को हे पृथ्वि ' इना कामेन कविना काव्यकर्त्रा
(७,८) 'सरस' तडागस्य रसेन शृङ्गारादिना सह वर्तमान
(९) 'तारा' आरा चर्मप्रभेदिनी शत्रूणा मनसि दुःखरूपा तारा नक्षत्रम्
(१०) 'भ्रमरहित ' भ्रमराणा भृङ्गाणा हितो हितकृद् भ्रमेण मिथ्याप्रत्या रहित शुद्धज्ञानवान्
(११) 'प्रभव' उत्पत्तिस्थानम् महान्त ईश्वरा
(१२) 'सदृश' समान इव दृश्यतेऽसौ तुल्य इत्यर्थ इक्षा नेत्रेण सह वर्तमान सदृक् तस्य सेनेत्रस्य मनुष्यस्य
(१३) 'नगत 'नगात्पर्वतात् न गत स न जगामेत्यर्थ
(१४) 'कस्य' क जल तस्य 'क' ब्रह्मा 'कै' मस्तक 'कुत 'पृथ्व्या सकाशात् पृथ्व्याधिकारतापतिता इत्यर्थ .
(१५) कृष्ण क सजघान ? कासम शीतलवाहिनी गङ्गा का? काशी दारपोषणरता के? केदारपोषणरता शीत बलवन्त कं न बाधते? कम्बलवन्तम्-इति योजना
१ मरुदेशे
अन्तरालापाः १९७
च हसतो हसन्ति हरिणाक्ष्याः । अधरं पल्लवमङ्गी हंसौ चन्दस्य कोरकान्दन्ताः ॥ १६ ॥ का शंभुकान्ता किमु कुन्दकान्तं कान्तामुखं किं कुरुते भुजंग. । कः श्रीपति का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥ १७ ॥ का लोकमाता किमु देहमुख्यं रतेः किमादौ कुरुते मनुष्यः । को दैत्यहन्ता वद वै क्रमेण गौरीमुख चुम्बति वासुदेवः ॥ १८ ॥ का शैलपुत्री किमु नेत्ररम्यं शुकार्भक. किं कुरुते फलानि । मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ॥ १९ ॥ के भूषयन्ति स्तनमण्डलानि कीदृग्द्युमा चन्द्रमसः कुतः श्रीः । किमाह सीता दशकण्ठनीता हारामहादेवरतातमातः ॥ २० ॥ खेः कवे. कि समरस्य सारं कृषेर्भय किमिषन्ति भृङ्गाः । खलाद्वयं विष्णुपदं च केषा भागीरथीतीरसमाश्रितानाम् ॥ २१ ॥ व्रजन्ति पद्मानि कदा विकास प्रिया गते भर्तरि किं करोति । रात्रौ च नित्यं विरहाकुला का सूर्योदये रोदिति चक्रवाकी ॥ २२ ॥ सन्तश्च लुब्धाश्च महर्षिसंघा विप्राः कृषिस्याखलु माननीयाः । किं किं समिच्छन्ति तथैव सर्वे नेच्छन्ति कि माधवदाघयानम् ॥ २३ ॥ का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म । क. सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णौ. ॥ २४ ॥ करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता । अङ्गे तु कस्मिन्दहन. पुरारेः सिन्दूरबिन्दुविधवाललाटे ॥ २५ ॥ किं भूषण सुन्दरसुन्दरीणा किं दूषण पान्थजनस्य नित्यम् । कस्मिन्विधात्रा लिखितं जनाना सिन्दूरबिन्दुविधवाललाटे ॥ २६ ॥ कीदृक्षा गिरिशतनुर्जये च धातुर्विष्णौ का विबुधजरातमस्तुतीया । मध्यार्णे सति कथमात्मकोऽस्ति देशः सोमाज्यं सकलकलो जहातसाहा ॥ २७ ॥ विवाहे पुरंध्रीजनैर्लिप्यते का न के मानमायान्ति गर्वाेन्नता का । घने वारिधौ रामतः कम्पते का हरिद्रा दरिद्राः सरिद्रावणश्रीः ॥ २८ ॥ कस्मिन्रसन्ति वद मीनगणा विकल्प किं वापदं वदति किं कुरुते विवस्वान् । विद्युल्लतावलयवान्पथिकाङ्गनानामुद्वेजको भवति कः खलु वारिवाहः ॥ २९ ॥ शब्दः प्रभूत इति प्रचुरार्र्भिधायी कीदृग्भवेद्वदत शब्दविदो विचिन्त्य । कीदृग्बृहस्पतिमते विहिताभियोग. प्रायः पुमान्भवति नास्तिकवर्गमध्यः ॥३०॥ कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं बतायुः । कानादरो भवति केन च रज्यतेऽब्ज बाह्यास्ति कि फलमुदाहर नालिकेरम् ॥ ३१ ॥ क वसति लघु जन्तुः किं निदानं हि वान्तेर्झटिति वद पशु कं लम्बकण्ठं वदन्ति । प्रसवसमयदुःखं वेत्ति या कामिनीना तिलतुषपुटकोणे मक्षिकोट्रं प्रसूता ॥ ३२ ॥ को निर्दग्धस्त्रिपुरारिपुणा कश्च कर्णस्य हन्ता नयाः कूल विघटयति कः क. परस्त्रीरतश्च । क. सन्नद्धो भवति समरे भूषणं किं कुचाना किं दु.सङ्गाद्भवति महता मानपूजापहारः ॥ ३३ ॥ कः कान्तारमगात्पितुर्वचनतः संश्लिष्य कण्ठस्थली कामी किं कुरुते च गृप्रहठतश्छिद्रं प्ररूढं च किम् । का रक्ष कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्रुम्बति रावणस्य वदनं सीतावियोगातुरः ॥ ३४ ॥ कीदृग्बात्तमंतगजः कमभिनत्यादेन नन्दात्मजः शब्दं कुत्र हि जायते युवतयः कस्मिन्र्सति व्याकुलाः । विक्रेतुं दधि गोकुलात्मचलिता कृष्णेन मार्गे धृता गोपी काचन त किमाह करण दानी अनोखे भये ॥ ३५ ॥ किं कुर्वन्त्युधसि द्विजा. प्रतिदिनं के माननीयाः प्रभोः का वा साहसिकी निशासु सततं द्यौ. कीदृशी वर्तते । कुत्रास्ते मधु नालिकेरजफले कैः स्यात्पिपासाशम. सध्यावन्दनमाचरन्ति विबुधा नारीभगान्तर्जलेः ॥ ३६ ॥ लङ्काभूपनिशाचरो रघुपति युद्धे कथं दृष्टवान् दीनं पाति पितेव यः पशुपतिः कस्तस्य वाहः प्रिय. । केनापूर्वफलं नरैः सुकृतिभिः कस्मिन्स्थले भुज्यते जारा ये भुवि तान्नशास्ति कतमो ह्येषाामिहैवोत्तरम् ॥ ३७ ॥
(१६) हरिणाक्ष्याः क कं हसति ? अधर- पल्लवम् कौ कौ हसत ? अङ्गी हंसौ. के कान् हसन्ति ? दन्ताः कुन्दस्य कोरकान् (१७,१८,१९) गौरी मुखम् चुम्बति वासुदेव गौरीमुख चुम्बति वासुदेवः भुजंगो जार" (२०) हारा महादेवरता तमात रात्रित हा राम हा देवर, हा तात, हा मात. (२१) भा कान्ति गी वाणी रथी योद्धा इंति. अनावृष्ट्यादि भृङ्गा रस उशन्ति वाञ्छन्ति आश्रितानाम् भागीरथीतीरसमाश्रितानाम् (२२) सूर्योदये. रोदिति चक्रवाकी २३ मानम् धनम् वनम् दानम् धनम्. यानम् माधवदाघयान माधवे वैशाखे दाघ ऊष्मा तस्मिन् यान गमन नेच्छन्ति (२४, २५, २६) चतुर्थपादखपदे प्रश्नस्योतरम् (२७) सोमा जिङ् लक्ष्मी (२८) चतुर्थपादस्थचतुर्भि पदै क्रमेण चत्वारि उत्तराणि
(२९) 'वारिवाह • वारि जले वा विकल्पार्थे अह दिनम् वारिवाहो मेघ ३० नास्ति कवर्गमध्य न विद्यते कवर्गो गकारो मध्ये यस्य स प्रभूतशब्द प्रभूत प्रचुरवाची नास्तिकाना अपुनर्जन्मवादिना वर्ग समूहस्तस्य मध्येऽन्तर्वर्ती (३१) 'नालिकेरम्' ना पुरुष अलिके भाले अर शीघ्रम् पुन प्रतिलोमम् रङ्गे क्षुद्रे अलिना भ्रमरेण. बाह्येऽस्थि यस्य एवविधं नालिकेरम् (३२) चतुर्थपादस्थपदचतुष्टयेन प्रश्नचतुष्टयस्योत्तरम् (३३) मार मदन नर पूर जार पर हार मानपूजापहार मानपूजयोरपहारो नाश (३४) चतुर्थपादस्थपदैरनुक्रमेण उत्तराणि (३५) दानी दानमस्यास्तीति अन शूरटम् खे आकाशे भये सति दानी अनोखे भये यावनीभाषया प्रत्युत्तरम् (३६) चतुर्थपादस्थपदैरनुक्रमेणोत्तराणि (३७) लंका-काल दीन-नदी केन सुखेन-नाके स्वर्गे जारा - राजा
| १९८ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
कुत्रोदेत्युदयाचलस्य तरणी रम्या यति कस्य खे कान्त्या
भान्ति च किं करोति गणको यष्टि विधुलैति कः । कस्मि-
ञ्जाग्रति जन्तवो न च कदा सूते च का क प्रिय. शृङ्गाग्रे तुर-
गस्य भानि गणयन्व्यत्योऽहिवन्ध्यासुत ॥ ३८ ॥ अन्यस्त्रीस्पृ-
हयालवो जगति के पश्चाद्गमग्या च का को धातुर्दर्शने सम-
स्तमनुजै. का प्रार्थ्यतेऽहर्निशम् । दृष्ट्वा यवनेश्वरो निजपुरे
पद्मानना कामिनी मित्रं प्राह किमादरेण सहसा यागानदी
दशमा ॥ ३९ ॥ कस्मिञ्शेते मुरारिः क न खलु वसति-
र्वायसी को निषेध स्त्रीणा रागस्तु कस्मिन्क नु खलु मितिमौ
शौरिसंबोधनं किम् । सबुद्धि का हिमाशोर्विधिहरगयसा
चापि सबुद्धय का ऋते लुब्ध, कथं वा कुरु कुलहननं केग
तत्केशवेन ॥ ४० ॥ गच्छन्ति काजिवहौ द्वैतनिजतनव.
का भिनत्ति स्वकूल कि स्याद्भोज्यं विकल्पे कँकचनिभनखै
कि नृसिंहेन भिन्नम् । कीटग्विद्या. प्रसूति किमनलशमन का
नृपै. पालनीया को वन्द्य कः प्रमाष्टिं त्रिभुवनकलुषं स्वर्धुनी-
वारिपूर ॥ ४१ ॥ पुस. सबोधनं कि विदधति करिणा
के रुंचोऽथोर्र्ध्वर्षत्कि का शून्या ते रिपूणा नरवरनरकं कोऽन-
धीद्रोचकं किम् । के वा वर्षासु न स्युर्बिसमिव हरिणा कि
नखायैर्विभिन्नं को वा मार्गे विसर्पन्विघटयति तरून्नर्मदा-
वारिपूरः ॥ ४२ ॥ कि तृष्णाकारि कीदृग्मथचरणमहो रोति
कः कान्धिकाब्धिः कोऽपस्मारी भुजगे किमु कलिशमन त्यार्य-
सबोधनं किम् । का सुन्दर्यामपीन्दुः कथमचलभृतः का च
सबुद्धिरग्नेर्बीजं कि कोंवनीजारमणमतिहरा हेममारङ्ग्यलीला
॥ ४३ ॥ ताराविष्णूरणाविट्खगहृदयरमास्कन्दसबुद्धय. क
क स्याद्धातुत्रयं लुग्विकरणपठित कुत्र तरूनावबोध. । चत्वार-
(३८) चतुर्थपादस्थपदैरनुक्रमेणोत्तराणि (३९) यारा जारा नदी
दश मालक्ष्मी यारानदीद शमा हे मित्र, एतादृशी दीपकलिका मया
कदापि न दृष्टा इत्यर्थक यावनीभाषया उत्तरम् (४०) के उदके शवे
प्रेते न नवे शके यत्रनविशेषे केशव इन क ईश वे न केशवेन
(४१) स्व स्वर्गे धुनी नदी वा रिपूर रिपोर्र्द्धरण्यकशिपोरुर
स्तुलम् स्वर्धुनी स्व स्वर्गे धूनयति कम्पयतीति तादृशी वारि उद्-
कम् पू पुरी अ विष्णु स्वर्धुनीवारिपूर (४२) न मदा वारि
पू नगरी अ विष्णु नर्म क्रीडानर्म दावा दावानला रिपूर
हिरण्यकशिपोरुर स्थलम् नर्मदावारिपूर (४३) हेम सार अराभि.
सहितम् गली प्रशस्तकण्ठ इला पृथ्वी लाली लालावान् गर
विषम् साम सान्त्वम् हे हेला लीला मली बलवान् कलङ्कीति
यावत साग अग्रेर्वृद्धै सहित रम् हेमसारङ्ग्यलीला हेम्न सुवर्णस्य
सारङ्गो मृग तस्य लीला
१ कस्मिन्प्रदेशे २ सूर्ये ३ श्वेतवस्त्रम् ४ संग्रामाश्रौ ५ त्यक्तनि
जदेहा ६ करपत्रसदृशनखै ७ शोभा. ८ रमणीयम् ९ गायति
१० अवनिजा सीता तद्रमणो राम
स्तद्धिताः स्युः क नु खलु विगलैकेकवर्णस्वरूपाः किं सूत्रं
पाणिनीयं विकसति न सहसोक्तिर्बिम्बोष्ठरेऽपि ॥ ४४ ॥
बहिरालापाः
पूजाया किं पदं प्रोक्तमस्तनं को बिभर्त्युरः । क आयु-
धतया ख्यात. प्रलम्बास्रुरविद्विष. ॥ १ ॥ को दुराख्यस्य
मोहाय का प्रिया मुरविद्विष. । पदं प्रश्नवितर्के कि को
दन्तच्छदभूषणम् ॥ २ ॥ पक्षिश्रेष्ठसखीबभ्रूसुरा वाच्या.
कथं वद । ज्येष्ठे मासि गता. शोष कीदृश्योऽल्पजला
भुव ॥ ३ ॥ विश्वंभराप्रलम्बघ्नीहिमानुषसयुगा. । कथ
वाच्या भवन्त्येता दिनान्ते विकसन्ति का. ॥ ४ ॥ आन-
न्दयति कोऽत्यर्थ सजनानेव भूतले । प्रबोधयति पद्मानि
तमांसि च निहन्ति क ॥ ५ ॥ अटवी कीदृशी प्रायो
दुर्गमा भवति प्रिये । प्रियस्य कीदशी कान्ता तनोति सुर-
तोत्सवम् ॥ ६ ॥ कीदृक्कि स्यान्न मत्स्याना हितं स्वेच्छा-
विहारिणाम् । गुणैः परेषामत्यर्थ मोदते कीदृश पुमान्
॥ ७ ॥ अगस्त्येन पयोराशेः कियत्कि पीतमुज्झितम् ।
त्वया वैरिकुल वीर समरे कीदृशं कृतम् ॥ ८ ॥ के
स्थिराः के प्रियाः स्त्रीणा कोऽप्रियो नक्तमाह्वय । नृत्यभूः
कीदृशी रम्या नदी कीदृग्घनागमे ॥ ९ ॥ का कृता
विष्णुना कीदृग्योषिता कः प्रशस्यते । असेव्यः कीदृशः
(४४) हे भ हे अ अवे भा वे भाव इ भावे भा दीप्तौ वा
गतिगन्धनयो इण् गतौ भावे भवस्यापत्य भावि अवस्यापि वस्य
वि अस्य इ . सश्च रश्च अश्व श्वा तेषामुक्य स्रोज्ञ्य ताभि सह
'भास्वरे' इत्यस्मिन्पदे 'भावे' इत्युत्तर स्फुरति 'भास्वरे' इत्यत्र सकार-
अकाररेफैर्विना 'भावे' इति पाणिनिसूत्र मुङ्गवतीत्यर्थे
(१) 'सुनासीर' सु पूजायाम् ना पुरुष सीरो हलम्
(२) 'रामानुराग' रा धनम् मा लक्ष्मी नु इति वितर्के राग
आरक्तत्वम् (३) 'विवरालीनकुलीरा ' वि पक्षी वर श्रेष्ठम् आली
सखी नकुली नकुलस्त्री इरा मदिरा विवरेषु छिद्रेषु आलीना प्रविष्टा ०
कुलीरा जलचरजीवविशेषा यासु ता (४) 'कुवलयवनराजाय ' कु
पृथ्वी (बवयोरैक्यात्) बलो बलभद्र यवो धान्यभेद नरो
मनुष्य आजि सग्राम कुवलयाना कमलाना वनाना राजय
पङ्कय (५) 'मित्रोदय' मित्राणा सखीनामुदयो वृद्धि' मित्रस्य
सूर्यस्य उदय उद्गमनम् (६) 'मदनवती' मदना मदनवृक्षा विद्यन्ते
यस्या सा अतिगहनत्वादुर्गमा मदन कामो विद्यते यस्या सा सयो-
वना इत्यर्थ (७) 'विमत्सर' वय पक्षिणो विचरन्ते यस्मिंस्तत् विमत्
ईदृश सरस्तद्भागम् विगतो मत्सरोऽहंकारो यस्य स (८) 'सकल
कम् ' सकल समस्त क पानीय मूत्र च कलङ्केन लाञ्छनेन सह वर्त
मानं कृतम् (९) 'अगाधवारिपूरजनिततरङ्गा' अगा पर्वता धवा
भर्तार रिपु शत्रु हे रजनि ! ततरङ्गा ततो विस्तीर्णो रङ्गो नर्तन-
मण्डपो यस्या सा अगाधेन अतलस्पर्शेन वारिपूरेण जनसमूहेन
जनिता उत्पादितास्तरङ्गा लहर्यो यस्या सा
बहिरालापाः १९९
| स्वामी को निहन्ता निशातमः ॥ १० ॥ लक्ष्मणेत्युत्तर यत्र प्रश्नः स्यादत्र कीदृशः । ग्रीष्मे द्विरद्वृन्दाय वनाली कीदृशी हिता ॥ ११ ॥ प्रायः कार्ये न मुह्यन्ति नरा. सर्वत्र कीदृशाः । नाधा इति भवेच्छब्दो नौवाची वद कीदृशः ॥ १२ ॥ कामुका. स्युः कथा नीचाः सर्वः कस्मि- न्प्रमोदते । अर्थिनः प्राप्य पुण्याहं करिष्यन्धे वसूनि किम् ॥ १३ ॥ को दुःखी सर्वकार्येषु कि भृशार्थस्य वाचकम् । यो यस्माद्विरतो नित्यं ततः कि स करिष्यति ॥ १४ ॥ वारेणेन्द्रो भवेत्कीदृक्प्रीतये भृङ्गसंहते । यद्यवश्य तदास्मै किमकरिष्यमहं धनम् ॥ १५ ॥ काले देशे यथायुक्तं नरः कुर्वन्नुपैति काम् । मुक्तवन्तावसम्पैता किमन्नम- करिष्यताम् ॥ १६ ॥ हिमानीस्थगिरौ स्याता कीदृशौ शशिभास्करौ । कः पूज्यः कः प्रमाणेभ्यो न प्रभाकरसमतः ॥ १७ ॥ के प्रवीणाः कुतो हीनं जीर्ण वासोऽशुभाश्च कः । निराकरिष्णवो बाह्यं योगाचाराश्च कीदृशाः ॥ १८ ॥ न श्लाघते खल. कस्मै सुप्तिङन्त किमुच्यते । लादेशाना नवाना च तिङा कि नाम कथ्यताम् ॥ १९ ॥ सतत | श्लाघते कस्मै नीचो भुवि किमुत्तमम् । कर्तर्यपि रुचादीना धातूना कि पदं भवेत् ॥ २० ॥ किमव्ययतया ख्यातं कस्य लोपो विधीयते । ब्रूत शब्दविदो ज्ञात्वा समाहारः क उच्यते ॥ २१ ॥ कौ विस्मयातावहेः शत्रु शोके वदति कि पदम् । कोऽभीष्टोऽतिदरिद्रस्य सेव्यन्ते के च भिक्षुभिः ॥ २२ ॥ कि मुञ्चन्ति पयोवाहाः कीदृशी हरिवल्लभा । पूजाया कि पदं कोऽग्निः कः कृष्णेन हतो रिपुः ॥ २३ ॥ वद वल्लभ सर्वत्र साधुर्भवति कीदृशः । गोविन्देनानसि क्षिप्ते नन्दवेश्मनि कामवत् ॥ २४ ॥ यत्पादन्विष्य का ग्राह्या लेखकैर्मसिमल्लिका । घनान्धकारे निःशङ्क मोदते केन बन्धकी ॥ २५ ॥ किमनन्ततया ख्यातं पादेन व्यङ्गमाह्वय । जनाना लोचनानन्दं के तन्वन्ति घनालये ॥ २६ ॥ प्रायेण नीचलोकस्य क. करोतीह गर्वताम् । आदौ वर्ण- द्वयं दत्त्वा ब्रूहि के वनवासिनः ॥ २७ ॥ सानुज काननं गत्वा नैकषेयाञ्जघान कः । मध्ये वर्णत्रयं दत्त्वा रावणः कीदृशो वद ॥ २८ ॥ धत्ते वियोगिनीगण्डस्थलपाण्डुफलानि का । वद वर्णौ विधायान्ते सीता हृष्टा भवेत्कया ॥ २९ ॥ विष्णोः का वल्लभा देवी लोकत्रितयपावनी । वर्णावाद्य- न्तयोर्दत्त्वा क. शब्दस्तुल्यवाचकः ॥ ३० ॥ पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः । मध्यवर्णद्वयं त्यक्त्वा ब्रूहि क. स्यात्सुरालयः ॥ ३१ ॥ यजमानेन कः स्वर्गहेतुः सम्यग्विधीयते । विहायाद्यन्तयोर्वर्णौ गोत्वं कुत्र स्थितं वद ॥ ३२ ॥ नीचेषु यावनी वाणी का कः स्यात्सुखदो |
| (१०) 'कुमुदवनबान्धवोदय' 'को पृथिव्या मुत् कुमुद पृथिव्या मध्ये प्रीति कृत्यर्थं अवन रक्षण विधते यस्यासौ अवनवान् रक्षाकर धवो भर्ता नास्ति दया यस्य स अदय दयारहित . कुमुदाना चन्द्र विकासिकमलाना वनानां बान्धवो आता चन्द्रस्तस्योदय (११) 'कासारसहिता' सारसस्य पक्षिणो हिता प्रिया का इति प्रश्न सारसस्य योषित् लक्ष्मणा कासारेण आखानसरोवरेण सहिता सहवर्तमाना (१२) 'सावधाना ' सह अवधानेन समाधिना वर्तत इति अव्य- प्रचित्ता इत्यर्थ सौ अधा ना स् इति पदच्छेदे अस्सार्थे औका रेण सहवर्तमान सौ न धा अधा धारहित एवविध ना इति शब्द सकारस्य विसर्गे 'नौ' इति नौवाची भवेदिति योजना (१३) 'दास्यामहे दास्या वेश्यया सह महोत्सवे दास्यामहे दान दास्याम ' (१४) 'प्रयास्यती' प्रयास आयासोऽस्यास्तीति प्रयासी अति भृशम् प्रयास्यति प्रकर्षेण तत्स्थान विमुच्य गमिष्यति (१५) 'समदास्य' समद मदसहित आस्यं मुख यस्य स समादास्य भ्रमरा हि गजाना मदमाघ्राय हृष्यन्ति समदास्य त्व दानं व्यतरिष्य (१६) 'अहास्यताम् ' हास्यस्य भावो हास्यता न हास्यता अहास्यता ताम् युक्तक्रिया कुर्वतो न कश्चिद्वसेदित्यर्थ ओहाङ् त्यागे क्रिया तिपत्तौ स्या् तदन्नं तावत्त्यक्ष्यतामित्यर्थ (१७) अभाव ' अभौ नास्ति भा दीप्तिर्ययोस्तौ कान्तिरहिनौ अ कृष्ण अभाव प्रमाण शास्त्रे प्रसिद्ध सप्तम पदार्थ प्रभाकरास्तु अभावरूप सप्तम पदार्थ प्रमाणत्वेन न मन्यन्ते (१८) 'विज्ञानवादिन ' विद्या विशेषेण जानन्ति ते चतुरा नवात् नूत्नात् जीर्ण हि वस्त्रं नवात् हीनमूल्य स्यादित्यभिप्राय इन सूर्य विज्ञानवादिन विशेषेण ज्ञानस्य तत्त्वा र्थज्ञानस्य वादो विद्यते येषु ते विज्ञानवादिन इति पदं बौद्धशाखे प्रसिद्धम् (१९) 'परस्मैपदम्' आत्मव्यतिरिक्त परं तस्मै परस्मै अन्यस्मै न स्तौति पद पदसज्ञ सुप्तिडन्त पदम् परस्मैपद नवाना- मपि तिङा तिप्-तस्-झि इत्यादीना परस्मैपदसज्ञा | (२०) 'आत्मनेपदम्' आत्मने स्वस्मै पद प्रतिष्ठास्थानम् आत्म- नेपद त आताम् झ इत्यादीनि नव वचनानि भवन्ति इति भाव (२१) 'स्वरित ' स्वर् स्वरव्यय स्वर्गे निपात इत इत्संज्ञकस्य स्वरित इत्वादयस्त्रय. स्वरा प्रत्येकमुदात्तानुदात्तस्वरितसंज्ञा समाहार स्वरित इति तात्पर्यार्थ (२२) 'वीहारा ' विश्व विश्व वी गरुडमयूरो हा इति खेदे रा द्रव्यम् वीहारा तीर्थभूमय (२३) 'कसासुर' क जलम् सा एन कृष्णेन सहवर्तमाना लक्ष्मी सु पूजायाम् र अग्नि कसासुर एतन्नामा दैत्य (२४) 'दीनरक्षी- क्षीरनदी' दीनान्दु स्वान् भिक्षाचरादीन् रक्षत इत्येवंशीलो दीनरक्षी दीनपालक क्षीर दुग्ध तस्स नदी क्षीरनदी (२५) 'नालिकेरजा- जारकेलिना' नालिकेराजाता नालिकेरजा जारेण उपपतिना सह केलि क्रीडा तया जारकेलिना (२६) 'खजना' ख आकाशम् आकाशस्य सर्वत्र वर्तमानत्वादन्तो नास्ति हे खञ खञ्जना पक्षि- विशेषा (२७) 'शवरा 'रा द्रव्यम् शवरा भिल्ला (२८) 'राक्षसो- त्तम ' राम दाशरथि राक्षसोत्तम राक्षमाना मध्ये उत्तम श्रेष्ठ (२९) 'लवलीलया' लवली लताविशेष लवलीलया लवो नाम पुत्र- स्तस्य लीला क्रीडा तया (३०) 'समान ' मा लक्ष्मी समान तुल्य (३१) 'नागरिक नागरिक नगरनिवासी चतुरो वा नाक स्वर्गे (३२) 'यागविवि ' याग यजन तस्य विधि गविशब्दे गोत्व वर्तते |
| १ बाह्यशून्यत्ववादिनो योगाचारा बौद्धविशेषा | २ मत्स्राधारपात्रम् |
२०० सुभाषितरत्नभाण्डागारम् [४ प्रकरणम्]
[वाम-भागः]
जने । शंभोरावरणं किं कं भजन्ते व्याधयो जनम् ॥ ३३ ॥
कस्मिन्स्वपिति कंसारिः का वृत्तिरधमा नृणाम्। किं ब्रूते पितरं
बाल. कि दृष्ट्वा रमते मन. ॥३४॥ किमिच्छति नरः काश्यां
भूपानां को रणे हितः । को वन्द्यः सर्वदेवानां दीयतामेक-
मुत्तरम् ॥ ३५ ॥ भागीरथी कथंभूता कामिनी प्राह किं
प्रियम्। एकमेवोत्तरं देहि शास्त्रलौकिकभाषया ॥३६॥ बुधः
कीदृग्वचो ब्रूते को रोगी कश्च नास्तिकः । कीदृक्चन्द्रं नम-
स्यन्ति किं सूत्रं पाणिनेर्वद ॥३७॥ राज्ञः संबोधन किं स्यात्सु-
ग्रीवस्य तु का प्रिया। अधनास्तु किमिच्छन्ति आर्ते. किं
क्रियते वद ॥ ३८ ॥ किमस्ति यमुनानद्या जारान्किं वक्ति
जारिणी । आन्ध्रगीर्वाणभाषाभ्यामेकमेवोत्तरं वद ॥ ३९ ॥
का कान्ता कालियारातेः पुनरर्थे किमव्ययम् । किं वन्द्यं
सर्वदेवानां फलेषु किमु सुन्दरम् ॥ ४० ॥ केदारे कीदृशो
मार्गः कुत्र शेते जनार्दनः । स्त्रीचित्तं कुत्र रमते स्वामी किं
वक्ति चेटिकाम् ॥ ४१ ॥ घनसमये शिखिषु सानृत्यं
कीदृक्षु किं घनातपति । प्रावृषि कस्य न गमनं मानसगमनाय
कीदृशा हंसा. ॥ ४२ ॥ चादय इति यत्र स्यादुत्तरमथ तत्र
कीदृशः प्रश्नः । कथय त्वरितं के स्युर्नौकाया वाहनो-
पायाः ॥ ४३ ॥ वदतानुत्तमवचनं ध्वनिरुच्चैरुच्यते स
कीदृक्ष. । तव सुहृदो गुणविभवे रिपुनिवहं किं नु कर्तारः
॥ ४४ ॥ को माद्यति मकरन्दैस्तनयं कमसूत जनकराज-
सुता । कथय कृषीवल सस्यं पक्वं किमचीकरत्त्वमपि ॥४५॥
पृच्छति पुरुषः केऽस्या समभूवन्वज्रकृत्पक्षतयः । बहुभय-
[दक्षिण-भागः]
देशं जिगमिषुरेकाकी वार्यते स कथम् ॥ ४६ ॥ को नयति
जगदशेषं क्षयमथ बिभरावभूव कं विष्णुः । नीचः कुत्र
सगर्व. पाणिनिसूत्रं च कीदृक्षम् ॥ ४७ ॥ कि स्याद्विशेष्य-
निष्ठं का सख्या वदत पूरणी भवति । नीचः केन
सगर्वं सूत्रं चन्द्रस्य कीदृक्षम् ॥ ४८ ॥ सुकपरिविन्दः
शब्दः सुब्रह्मण्यस्य वाचक. केन । स्तनभरनमिता नारी
केनोपायेन रञ्जयेत्कान्तम् ॥ ४९ ॥ कीदृग्गृहं याम्यगृहं
गतस्य कास्राणमम्भस्तरणे जनानाम् । भूषा कथं कण्ठ न
ते मु पृष्टे मुक्ताकलापैरिति चोत्तरं किम् ॥ ५० ॥ कीदृ-
ग्वस्त्रं स्यान्न भयाय पृष्टे यदुत्तरं तस्य च कीदृशस्य ।
वाच्यं भवेदीक्षणजातमम्बु कं चाधिशेते गवि कोऽर्चनीयः
॥ ५१ ॥ दधौ हरिः कं शुचि कीदृगन्नं पृच्छत्सखः
किं कुरुते सशोक. । श्लोकं विधायपि किमित्युदारः कविर्न
तोषं समुपैति भूयः ॥ ५२ ॥ लक्ष्मीधरः पृच्छति कीदृशः
स्यान्नृपः सपत्नेरपि दुर्निवारः । अकारि किं ब्रूहि नरेण सम्य-
क्पितृत्वमारोपयितुं स्वकीयम् ॥ ५३ ॥ कीदृशं वद मरु-
स्थलं मतं द्वारि कुत्र सति भूषणं भवेत् । ब्रूहि कान्त
सुभटः सकार्मुकः कीदृशो भवति कुत्र विद्विषाम् ॥ ५४ ॥
का प्रियेण रहिता वराङ्गना धान्नि केन तनयेन नन्दिता ।
कीदृशेन पुरुषेण पक्षिणा बन्धनं समभिलष्यते सदा ॥५५॥
[पादटिप्पण्यः]
(३३) 'अवेलाभोजिनम्' अवे लाभ अजिनम् ओवेलाभोनि नम्
(३४) 'शेषेसेवावापररूपम्' 'शेषे सेवा वा पररूपम्'
(३५) 'मृत्युंजय' मृत्युम् जय मृत्युजय
(३६) 'मलापहा' मलापहा मला पहा
(३७) 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम्' अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
(३८) 'देवताराधनम्' देव तारा धनम् देवताराधनम्
(३९) कालिय कालि य
(४०) 'मातुलिङ्गम्' मा तु लिङ्गम् मातुलिङ्गम्
(४१, ४२) 'समुत्सुकमनसः' समुत्सु मुदा हर्षेण सह वर्तमाना समुदस्तेषु क पानीयम् अनसः शकटस्य समुत्सुक उत्कण्ठायुक्तं मनो येषां ते समुत्सुकमनसः
(४३) 'केनिपाताः' अत्र, के निपाता इति प्रश्नः प्रथमवारमेव द्वितीयवारं तूत्तरम् निपाताः के भवन्तीति प्रश्नः चादयो निपातसंज्ञाः के पानीये निपतन्ति ते केनिपाता अरित्राणि
(४४) 'अवमन्तारः' अवमं नीचार्थेवाचकम् तार अत्युच्चैः ध्वनिः अवमन्तारः अस्मिन्मित्राणि रिपूणामपमानं करिष्यन्ति इत्यर्थे
(४५) 'अलीलवम्' अली भ्रमरः, लवं लवनामानं पुत्रम्, अहम् अलीलवं छेदनमकरवम्
(४६) 'मानवनगाः' हे मानव ! नगाः पर्वताः इन्द्रेण हि पर्वतानां पक्षच्छेदः कृत इति पौराणिकी कथा, मानवन गा हे अनवन 'न विद्यते अवनं रक्षणं यस्य स अनवनः तत्संबोधनं हे अरक्षित ! त्वं मा गा गमनं मा कुर्याः
(४७) 'यमो गन्धने' यमः कृतान्तः अगं गोवर्धनम् धने यमो गन्धने पाणिनीयव्याकरणमध्ये इदं सूत्रमस्ति
(४८) 'विशेषणमेकार्थेन' विशेषणम् एकाशून्यानां संख्यापूरकम् एकमेव भवति एकादी अङ्को लिख्यते तदा बिन्दुना साफल्यं स्यादन्यथा शून्यमेव अर्थेन द्रव्येण विशेषणमेकार्थेन इदं चान्द्रव्याकरणसूत्रमस्ति
(४९) 'उपरिविहरणेन' आद्ये सुकपरिविन्दशब्दे उ प रि वि इत्येतेषां वर्णानां हरणेन निष्कासनेन स्कन्द इति शब्दः सुब्रह्मण्यस्य षडाननस्य वाचको भवति द्वितीये उपरि विहरणेन इत्यस्य विपरीतस्तेनेत्यर्थः
(५०) 'हारावि नाव' हारावि हा इति खेदे हा इति रावः शब्दो विद्यते यस्मिंस्तत्- नावः नौका हे हारा, वो युष्मान्विना
(५१) 'अहिंस्रमहिम' अहिंस्रम् न सन्ति हिंसा घातुका जीवविशेषा यस्मिंस्तत् अहिम् न विद्यते हिम् अहिम् तस्य अहिम् सत कोऽर्थे यदा अहिंस्रशब्दात् हिम् दूरीक्रियते तदा अस्र इति तिष्ठेत् अस्रं नेत्रजलम् अश्रुपातः अहिं शेषनागम् अ कृष्णः पूज्यः सन् अधिशेते
(५२) 'अगमकमकरोदिति' अगं गोवर्धनम् अकं न विद्यते कं जलं यत्र तत् हे अक न विद्यते कं सुखं यस्य स हे दुःखिन् 'रोदिति रोदनं करोति अगमकमकरोदिति एव शोकं अगम्यं अकरोत् इति विचारयन् तुष्टो न भवति
(५३) 'समजनितनय' हे सम मा लक्ष्मीस्तया सह वर्तमान हे लक्ष्मीधर ! जनितनयः कृतो नयो न्यायो येन सः समजनि तनयः, तनयः पुत्रः समजनि उत्पादितः
(५४) 'अवारितोरणे'-अवारि न विद्यते वारि जलं यस्मिंस्तत् तोरणे बहिर्द्वारे सति अवारितो रणे रणे संग्रामे अवारितो न वारयितुं शक्यते सः
(५५) 'शकुन्तलाभरतेन' शकुन्तलानाम्नी ऋषेः पुत्री भरतनाम्ना पुत्रेण, नन्दिता इत्यर्थः शकुन्तानां पक्षिणां लाभोऽर्जनं तत्र रतः आसक्तस्तेन, व्याधेनेत्यर्थः
१ संस्कृतया महाराष्ट्रभाषया चेत्यर्थः
२ तैलङ्गभाषया संस्कृतया च
बहिरालापाः २०१
कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः। कस्त- वास्ति विपिने भयाकुलः कीदृशश्च न भवेन्निशाकरः॥ ५६॥ कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः। प्रेतराक्षस- पिशाचसेविता कीदृशी च पितृकाननस्थली ॥ ५७ ॥ केसर- द्रुमतलेषु संस्थित कीदृशो भवति मत्तकुञ्जरः। तत्त्वतः शिव- मपेक्ष्य लक्षणैरर्जुनः समिति कीदृशो भवेत् ॥ ५८ ॥ निर्जित- सकलारातिः पृच्छति को नैको मृत्योर्भयमुच्छति । मेघा- त्ययकृतरुचिराशायाः किं तिमिरक्षयकारि निशायाः ॥ ५९ ॥ विहगपतिः कं हतवानहितं कीदृग्भवति पुर जनमहितम् । कि कठिनं विदित वद धिमन्पादःपतिरपि कीदृग्मयकृत् ॥ ६० ॥ अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः। विरहि- ण्यपि जानकी वने निवसन्ती सुदमादधौ कुतः ॥ ६१ ॥ कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः । अधि- गम्य रतं वराङ्गना क नु यत्न कुरुते सुशिक्षिता ॥ ६२ ॥ कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः । अधुना तव वैरियोषिता हृदि तापः प्रबलो विहाय का- ॥ ६३ ॥ वसति कुत्र सरोरुहसंततिर्दिनकृतो ननु के तिमिर- च्छिदः। पवनभक्तसपत्नरणोत्सुकं पुरुषमाह्वय को जगति प्रियः ॥ ६४ ॥ न भवति मलयस्य कीदृशी भूः क इह कुचं न बिभर्ति कं गता श्रीः । भवदरिनिवहेषु कास्ति नित्यं बलमथनेन विपद्ध्यधायि केषाम् ॥ ६५ ॥ समयमिह वदन्ति कं निशीथ शमयति कान्वद वारिवाहवृन्दम् । वितरति जगता मनःसु कीदृग्द्युदमतिमात्रमय महातडागः ॥ ६६ ॥ किमकरवमहं हरिमैहीध्रं स्वभुजबलेन गवा हितं विधित्सुः । प्रियतमवदनेन पीयते कः परिणतबिम्बफलोपमः प्रियायाः ॥ ६७ ॥ परिहरति भयात्तवाहित किं कमथ कदापि न विन्दतीह भीतः । कथय किमकरोरिमा धरित्रीं नृपतिगुणैर्नृपते स्वयं त्वमेक ॥ ६८ ॥ पृच्छति शिरसिरुहो मधुमथनं मधुमथनस्तं शिरसिरुहं च । कः खलु चपल- तया भुवि विदितः का ननु यानतया गवि गदिताः ॥६९॥ कीदृक्तोयं दुस्तर स्यात्तितीर्षो का पूज्यास्मिन्वङ्गामामन्त्र- यस्व । दृष्ट्वा धूम दूरतो मानविक्षः किं कर्तासि प्रातरेवा- श्रयाशम् ॥ ७० ॥ कीदृक्प्रातर्दीपेपर्वते शिखा स्याद्दुष्टः पृच्छत्याभजन्ते मृगाः किम् । देवामात्ये किं गते प्रायशो- ऽस्मिलोकः कुर्यान्नो विवाहं विविक्तः ॥ ७१ ॥ कीदृक्सेना भवति रणे दुर्धारा वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् । का सबुद्धिर्भवति बुधः सग्रामे किं कुर्वीर्ध्वं सुभटजना भ्रातृव्यान् ॥ ७२ ॥ कसारातेर्वद गमनं केन स्यात्कस्मिन्दृष्टि सलभते खल्पेच्छुः। क सर्वेशा शुभकरमृचुर्धीराः किं कुर्यास्त्वं सुजन सशोकं लोकम् ॥ ७३ ॥ कीदृक्षः सकलजनो भवे- त्सुराज्ञः कः कालो विदित इहान्धकारहेतुः । कः प्रेयान्कु- मुदवनस्य को निहन्ति भ्रातृव्यं वद शिरसा जितस्वया कः ॥ ७४ ॥ सग्रामे स्फुरदसिना हतास्त्वया के दुःखं के बत निरये नरस्य कुर्युः । कस्मिश्चिद्वति कदापि नैव लोम ज्ञाताः के जगति महालघुत्वभाजः ॥ ७५ ॥ कीदृक्षं
(५६) ‘कलंकविरहित’ कल मधुर शब्द कवि काव्यादिकृत अहित शत्रु कलङ्केन मृगरूपाभिशानेन विरहित न स्यात् इति भावार्थ (५७) ‘नरकपालरचिता’ नरकाणा पालाः नारकजीवरक्षका यमभटास्तै रचिता' उपस्कृता नराणा कपालानि कर्पराणि तै कृत्वा रचिता श्मशानभूमिस्तु मनुष्याणा मुण्डै सहिता भवति (५८) ‘दानवकुल भ्रमरहित’ दानेन मदेन बकुलाना वृक्षाणा भ्रमरेभ्य सकाशात् हित हितकृतदित्यर्थ दानवाना दैत्याना कुले यो अमो दानवा अमी युध्यन्तीति मिथ्याज्ञान तेन रहित (५९) ‘विधुतारातेज’ ‘हे विधुताराते' विधुता कम्पिता अरातय शत्रवो येन स तत्संबोधनम् अजः ब्रह्मा विधुश्चन्द्र तारा नक्षत्राणि तासा तेज प्रकाश (६०) ‘अहिमकरमय’ अहि सर्पम् अकर नास्ति करो राजदण्डो यस्मिस्तत् अय लोहम् अहय सर्पा मकरा मत्स्यविशेषास्तन्मय (६१) ‘कुशलवर्धित’ कुशलै शुभसूचकशकुनैर्वर्धितो वर्धापित कुशल कुशवलवौ एतन्नामानौ पुत्रौ तयोऋद्धि सपत्तस्सात् (६२) ‘सुरतरवे’ सुरतरवे कल्पवृक्षाय वाञ्छन्ति सुरतस्य सम्भोगस्य रव शब्दस्तस्मिन् (६३) ‘गिरिसारमुखा’ गिरि वाण्या सार प्रधान स्फुतोच्चारणवन्मुखं वदनं येषा ते गिरिसार लोहम् उल्का स्याल्य (६४) 'केकिरणोत्करा' के पानीये किरणाना उल्करा. समूहा हे केकिरणोत्क, केका विद्यते येषा ते केकिन तेषा मयूराणा रणे शब्दे उक्त उत्सुक तत्संबोधनम् रा द्रव्यम् (६५) 'विपन्नगानाम्' विगता पन्नगा सर्पा यस्या सा द्विपन्नगा न कितु पन्नगसहितैव ना पुमान् अ कृष्णम् विपत्सपत्यभाव दरिद्रता नगाना पर्वतानाम्
(६६) ‘अरविदवान्’ अरवि नास्ति रवि सूर्यो यस्मिन्स अरविस्तम् दवान्दावानलान् अरविन्दवान् अरविन्द्वानि कमलानि विद्यन्ते यस्मिन्स (६७) 'अधर' 'हे कृष्ण ! त्व गोवर्धनपर्वत अधर हस्ते धृतवान् अधर ओष्ठ (६८) 'समरजयम्' समर सङ्ग्रामम् जय जयबीदम् अह समरजय रागिणी पृथ्वीमकरवम् (६९) ‘केशवनौका' 'हे केशवनौका. वने ओको गृहं यस्यासौ वानर हे केशव' नौका नाव. (७०) 'अनुमातासे' अनु न विद्यते नौ यत्र तत् नौकारहितमित्यर्थे माता जनित्री हे असे खङ्ग ! अनुमातासे त्वं अनुमान करिष्यसि (७१) 'विभाकरभवनम्' विभा विगता भा कान्तिर्यस्या सा हे करम उष्ट्र' वनम् विभाकरभवन विभाकरस्य सूर्यस्य भवनं गृहं तत् सिंहराशि गते जीवे लोका विवाहादिशुभकार्याणि न कुर्वन्ति सिंहस्याधिपति सूर्य (७२) 'पराजयेमहि' परा उत्कृष्टा उत्कृष्टा एव सेना जय प्राप्नुयादित्यर्थ आजये सङ्ग्रामाय हे महि हे पृथ्वि' वय पराजयेमहि जयेम (७३) 'विनोदयेयम्' विना गरुडेन उदये सति परस्योन्नती सत्याम् अय भाग्यम् अह त विनोदयेय विनोदेन युक्त कुर्यामित्यर्थ (७४) 'विधुरविरहित' 'विधुरेण कष्टेन विरहित सुखीयर्थे विधुश्च रविश्च विधुरवी चन्द्रादित्यौ ताभ्या रहित, विधुश्चन्द्र अवि उर्णायु अहित. शत्रु (७५) 'नरकरेणव.' नराश्च करेणवश्च मनुष्यहस्तिन नरकस्य रेणवो धूल्य अधिरूपा बालुका इत्यर्थे नरकरे पुरुषाणा हस्ततले. अणव परमाणव..
२६ सु. र. भां.
| २०२ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
समिति बलं निहन्ति शत्रु विष्णो. का मनसि मुदं सदा तनोति । तुच्छ सच्छरधिमुख निगद्यते किं पञ्चल्यै· सममपमान एव केषु ॥ ७६ ॥ कामरिरहितामिच्छति भूपः कामुद्धरयति शूकररूप । केनाकारि हि मन्मथजननं केन विभाति च तरुणीवदनम् ॥ ७७ ॥ हिमांशुखण्डं कुटिलोज्ज्वलप्रभं भवेद्धराहप्रवरस्य कीदृशम् । विहाय वर्णं पदमध्यसंस्थितं न कि करोत्येव जिन. करोति किम् ॥ ७८ ॥ वसन्तमासाय वनेषु कीदृशा. पिकेने राजन्ति रसालभूरुहाः । निरस्य वर्णद्वयमात्र मध्यगं तव द्विषा कान्ततमा तिथिश्च का ॥ ७९ ॥ उर स्थलं कोऽत्र विना पयोधरं बिभर्ति सबोधय मारुताशनम् । वदन्ति कं पत्तनसंभवं जना. फल च किं गोपवधूकचोपमम् ॥ ८० ॥ वसन्तमासाद्य वनेषु राजते विकासि कि वल्लभ पुष्पमुच्यताम् । विहंगमं कं च परिस्फुटाक्षर वदन्ति किं पङ्कजसंभवं विदु ॥ ८१ ॥ समुद्यते कुत्र न याति पांसुला समुद्यते कुत्र भय भवेज्जलात् । समुद्यते कुत्र तवापयात्यरौ. प्रहीणसंबोधनवाचि किं पदम् ॥ ८२ ॥ तपस्विनोऽत्यन्तमहासुखाङ्गया बनेषु कस्मै स्पृहयन्ति सत्तमा. । इहापि वर्णद्वितयं निरस्य भो. सदा स्थितं कुत्र च सत्त्वमुच्यताम् ॥ ८३ ॥ पदमनन्तरवाचि किमिष्यते कपिपतितॊर्विजयी ननु कीदृश । परगुणं गदितुं गतमत्सराः कुरुत किं सतत भुवि सज्जनाः ॥ ८४ ॥ वदति राममनुष्य जघन्यजो वसति कुत्र सदालसमानस. । अपि च शक्रसुतेन तिरस्कृतो रविसुतः किमसो विदधे त्वया ॥ ८५ ॥ मेघात्यये भवति कः समद सुभगं च किं कमधरन्मुरजित् । कुटुत्तैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनै. ॥ ८६ ॥ वर्षासु का भवति निर्मेघु कीदृगब्जं शेषं बिभर्ति वसुधासहितं क एकः । आमन्त्रयस्व धरणीधरराजपुत्रीं को भूतिमन्ननिचिताञ्जनाश्रयः स्यात् ॥ ८७ ॥ कौ शंकरस्य वलयावपयोधरः कः कीदृक्परस्य नियतं वशमेति भूप. । सबोधयोरगपति विजयी च कीदृग्दुर्योधनो नहि भवेद्वद कीदृशश्च ॥ ८८ ॥ कासुज्जहार हरिरम्बुधिमध्यमग्ना कीदृक्श्रुतं भवति निर्मलमानसानाम् । आमन्त्रयस्व वनमग्निशिखावलीढ तच्चापि को दहति के मदयन्ति भृङ्गान् ॥ ८९ ॥ मेघाल्यये भवति किं सुभगावगाहं का वा विडम्बयति वारणमल्लवेश्या । दुर्वारवीर्यविभवस्य भवेद्रणे क काः खेरवक्रसुभगास्तरणप्रभाभिः ॥ ९० ॥ कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूततेस्त्वमिव कः परितोषकारी । क. सर्वदा वृषगतिस्त्वमिवातिमात्र भूत्याश्रितः कथय पालितसर्वभूतः ॥ ९१ ॥ सूर्यस्य का तिमिरकुञ्जरवृन्दसिंही सत्यस्य का सुकृतवारिधिचन्द्रलेखा । पार्थश्च कीदृगरिदावहुताशनोऽभूत्का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ९२ ॥ मेघाल्यये भवति का सुभगावगाहा वृत्तं वसन्ततिलक कियदक्षराणाम् । भो भो कदर्यपुरुषा विषुवद्दिने च वित्तं च वः सुबहु तत्क्रियता किमेतत् ॥ ९३ ॥ प्राप्ते वसन्तसमये वद किं तरुणा किं क्षीयते विरहिणामुरगः किमेति । किं कुर्वते मधुलिहो मधुगानमत्ता कीदृग्वनं मृगगणास्त्वरित त्यजन्ति ॥ ९४ ॥ दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता श्यामा सपत्नहृदये सुपयोधरा च । तुष्टे
(७६) ‘अभिमानिषु’ अभि नास्ति भीर्भय यस्य तत् मा लक्ष्मी अनिषु न विद्यन्ते इषवो बाणा यस्मिंस्तत् अभिमानिषु गर्ववत्सु (७७) ‘कुंकुमेन’ कुं पृथ्वीम् कु धराम् एन कृष्णेन कुङ्कुमेन (७८) ‘दंष्ट्राभ्रम्’ दंष्ट्रा दाढा तद्वद् आभा शोभा यस्य तत् द्वितीयायामुदय प्राप्तश्चन्द्रो वक्रोञ्चवलगुणेन सूकरदष्टया सहोपमीयते दम्भ कपट जिन न करोति भद्र कल्याण जिन करोति (७९) ‘कान्तगिरा’ कान्तागिरा कान्ता मनोहरा गीर्वाणी यस्यासौ कान्तगीस्तेन कारा वन्दिगृहम् राका पूर्णमामी (८०) ‘नागरगम्’ ना पुमान् हे नाग हे सर्प नगर नगरे भवस्तम् नागरङ्ग नारङ्गीफलम् (८१) ‘किंशुकम्’ किंशुकु पलाशम् शुक कीरम् क ब्रह्माणम् (८२) ‘हिमकरे’ हिमकरे चन्द्रे उद्गते सति मकरे मत्स्ये उत्पन्ने सति करे हस्ते सायुधे ऊर्ध्वीकृते सति रे रे दास इति चामन्त्रणे (८३) ‘तपसे’ तपोगुणाय से सकारभाव- सकारे वर्तते (८४) ‘अनुसराम’ अनु पश्चाद्धाचि रामेण सह वर्तमान सराम अनुमराम वय परगुण प्रति अनुमरण कुर्म (८५) ‘अनुजगृहे’ हे अनुज भ्रात ! गृहे मया अनुजगृहे अनुगृहीत (८६) ‘श्वास्ररोगम्’ श्वा तेषु दिनेषु मैथुनेच्छो भवेत् सरमस्तडागम् अग गोवर्धनम् श्वास्ररोगम् (८७) ‘कालिकापालिकाकमठ’ कालिका श्यामता अपगता अल्यो भ्रमरा यस्यास्तदपपालि भ्रमररहितम् कमठ कच्छप हे कालि हे पार्वती ! कापालिको योगी तस्य मठ (८८) ‘अहीनाक्षतनय’ अही सर्पो ना पुमान् क्षतनय क्षत खण्डितो नयो न्यायो येन स अन्यायवान् हे अहीन सर्पाणा स्वामिन् ! अक्षतनय न क्षतो नयो न्यायो येन स अखण्डन्यायवान् हीने अक्षिणी यस्यासौ हीनाक्षोऽन्धस्तस्य तनय पुत्र न हीनाक्षतनयो अहीनाक्षतनय धृतराष्ट्रो हि हीनाक्षोऽन्ध इति पौराणिका तत्पुत्रो दुर्योधनोऽहीनाक्षतनयो न भवति, किंतु अन्धपुत्र इत्यर्थ (८९) ‘कुन्दमकरन्दविन्दव’ कु पृथ्वीम् दमकर उपशमक्षमायुक्त भवति इत्यर्थे हे दविन् दवो विद्यते यस्मिस्तत् दवि तत्सबोधनम् दव वनाग्नि कुन्दमकरन्दविन्दव कुन्दाना पुष्पविशेषाणा मकरन्द पुष्परसस्तस्य बिन्दव कणा (९०) ‘सरोजराजय’ सरस्तडागम् जरा वयोहानि जय सरोजराजय कमलश्रेणय (९१) ‘शंकर’ श सुखम् करो राजभाग शकरी महादेव (९२) ‘भागीरथी’ भा कान्ति गी वाणी रथी रथो विद्यते यस्य स भागीरथी गङ्गा (९३) ‘नदीयताम्’ नदी इयता एतावदक्षराणाम् न दीयताम् (९४) ‘दवविकलम्’ दलम् बलम् बिलम् कल अव्यक्तमधुरम् दवविकल दावाग्निना व्याकुलम्
१ श्यामवर्णा लोहमयत्वात्, पक्षे,-षोडशवार्षिकी २ सुष्ठु पयः जलं धरतीति सुपयोधरा लोहनिर्मिते शस्त्रे पानीय दीयते इति प्रसिद्धि, पक्षे,-सुस्तनी
बहिरालापाः २०३
पुन प्रणतशत्रुसरोजसूर्ये सेवाद्यवर्णरहिता वद नाम का स्यात् ॥ ९५ ॥ उरसि मुरभिद. का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का । गिरिसमेलघुवर्णैरण्वारव्यातित्वस्यैर्गुरुभिरपि कृता का छन्दसा वृत्तिरस्ति ॥ ९६ ॥ समरगिरिसि सैन्यं कीदृश दुर्निवार विगतघन-निशीथे कीदृशे व्योम्न्नि शोभा । कमपि विविधशेन प्राप्य योग्याभिमानं जगदखिलमनिन्द्वं दुर्जनः किं करोति ॥ ९७ ॥ भवति गमनयोग्या कीदृशी भू रथाना किमति-मधुरमम्लं भोजनान्ते प्रदेयम् । प्रियतम वद नीचायग्रणे किं पदं स्यात्कुमतिकृतविवादाश्चक्रिरे किं समर्थै ॥ ९८ ॥ भवति जथिनी काजौ सेनाद्यावरणभूषणं वहति किमहि पुष्पं कीटक्सुभम्समुद्भवम् । महति समरे वैरी वीर त्वया वद किं कृत कमलमुकुले भृङ्ग. कीदृक्विवन्मधु गजत् ॥ ९९ ॥ आह्वानं कि भवति हि तरो कस्यचित्प्रश्नविज्ञा. प्रायः कार्यं किमपि न कलौ कुर्वते के परेषाम् । पूर्णे चन्द्र वहति ननु का पृच्छति म्लानचक्षु. केनोदन्याज-नितमसमं कष्टमाप्नोति लोक. ॥ १०० ॥ का सबुद्धि सुभट भवतो ब्रूहि पृच्छामि सम्यक्प्रताप् कीदृग्भवति विपिनं सप्रबुद्धैर्विहंगै । लोक कस्मिन्रथयति मुदं का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ १०१ ॥ गतक्लेशायासा विमलमनस कुत्र मुनयस्तपस्यन्ति स्वस्था. सुररिपुरिपोः का च दयिता । कैविप्रेया. कि स्यान्नवलघुयुतैरगुरुभिर्बुधा वृत्तं वर्णै. स्फुट-घटितबन्धं कथयत ॥ १०२ ॥ बिभर्ति वदनेन कि क इह सर्वपीडाकर कुलं भवति कीदृशं गलितयौवनं योषि-ताम् । वभार हरिरम्बुधेरुपरि का च केन स्तुतो हतः कथय कस्त्वया नगपतेर्भयं कीदृशात् ॥ १०३ ॥ हरिव्हति का तवास्त्यरिषु का गता कं च का कमर्चयति रोगवान्ध-नयती पुरी कीदृशी । हरि. कमधरद्वलिप्रभृतयो धरा किं व्यधु. कया सदसि कस्त्वया बुध जितोऽम्बुधिः कीदृशः ॥ १०४ ॥ पवित्रमतितृप्तिकल्किमिह कि भटामश्रणं ब्रवीति धरणीधरश्च किमजीर्णसबोधनम् । हरिवदति को जितो मदनवैरिणा सयुगे करोति ननु क शिखण्डिकुलताण्डवाड-म्बरम् ॥ १०५ ॥ को मोहाय दुगीश्वरस्य विदित सबो-वनीयो गुरु को धात्र्या विगल कलौ नयधन. किवन्न कीटग्द्विज. । कि लेखावचनं भवेदतिशयं दुःखाय कीट-खल को विन्नाधिपतिर्मनोभवसमो मूर्त्या पुमान्कीदृशः ॥ १०६ ॥ कामिन्या स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः कंदर्पकवलामिनत्यवसते. कीटक्पुमान्वल्लभ. । हेलाकृष्ट-कृपाणपाटितगजानीकात्क्षतस्तेऽरय. श्वासायासविशुष्ककण्ठ-कुहरा निर्यान्ति जीवार्थिन ॥ १०७ ॥ दैत्यारातिरसो वराहवपुषा कामुज्जहाराम्बुधे का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः । स्वच्छन्दं नवसल्लकीकवलनैः पम्पासरोमज्जनै. के विन्ध्याद्रिवने वसन्त्यभिमतक्रीडाभि-रामस्थिता. ॥ १०८ ॥ का चक्रे हरिणा घने कृपणधी.
(९५) 'शखी' आद्यवर्णरहिता 'स्त्री' हे दुर्वारवीर्य ! त्वयि सवृषि सति सपत्नहृदये का प्रसुप्ता ? शखी, प्रणतशत्रुसरोजसूर्ये त्वयि तुष्टे सति सपत्नहृदये प्रसुप्ता नैवाद्यवर्णरहिता का? स्त्री (९६) 'मालिनी' मा लक्ष्मी नलिनी अमरी मालिनी नाम छन्दोवृत्तम् (९७) 'अभिभवति' अभि नास्ति भीर्यस्य तत् भयरहितम् भवति भानि नक्षत्राणि विद्यन्ते यस्मिंस्तत् भवन् तस्मिन्नक्षत्रयुक्ते अभिभवति पराभवति नीचो वृद्धि गतो दु खदायक एव भवेदिति भाव (९८) 'समादधिरे' समा अविषमा दधि क्षीरजम् रे इति नीचसबोधन दीयते समाहिता (९९) 'परागरजित' परा उत्कृष्टा हे राग आर-क्तत्व गर गरलम् रञ्जि रञ्जतीत्येवशील तत् जित परागरजित परागेण केमरेण रञ्जित प्रीणितमना (१००) 'नीरापकारेण' हे नीप वृक्षविशेष 'परे अन्ये आत्मन कार्याणि मर्वे कुर्वन्ति परकार्यकृत्तु विरल राका पूर्णिमा हे काण एकाक्ष ! नीरापकारेण नीरस्य जलस्य अपकार अभावस्तेन नीर विना वृथा कष्ट ददाति (१०१) 'वीहार सेविना' हे वीर ! रवि रव शब्दो विद्यते यस्मिन् तत् शब्दयुक्तम् हासे हास्ये सेना सैन्यम् वीहारसेविना वीहार उपवनादिषु खेलन सेवते इत्येवंशीलेन (१०२) 'शिखरिणी' शिखराणि विद्यन्ते यस्मि न्सौ शिखरी पर्वत तस्मिन् शिखारिणि ई लक्ष्मी, शिखरिणी छन्द
१ विष्णो २ अष्टाभिर्लघुभि सप्तभिश्च गुरुभिरित्यर्थ ३ कविप्रियम्
(१०३) 'विषमपादनिकुञ्जगतादित' विष गरलम् अपात् सर्पं अनि नास्ति इ कामो यस्मिन् तत् कदर्प॑रहितम् कु पृथ्वीम् जगता ससारेण अदित शत्रु विषमपादनिकुञ्जगतादित विषमाणा दुर्गमाणा पादाना प्रत्यन्तपर्वताना निकुञ्जेषु गहनस्थानेषु गता अद्ध्य सर्पा यस्मिन्स विषमपादनिकुञ्जगताहस्तिस्मात् यत्र पर्वते शिलाया अधस्तात्सर्पा निग्रेच्छन्ति तत पर्वताद्विभीयते (१०४) 'कुभीरमीन मकरागमदुर्गवारि' कु पृथ्वीम् भी भयम् अ विष्णुम् ई लक्ष्मी इन सूर्यम् अकरा नास्ति करो राजदण्डो यस्या सा अग गोवर्धन-पर्वतम् अदु ददति स गवा वाण्या वादेन कृत्वा अरि प्रति-वादी कुम्भीरमीनमकरागमदुर्गवारि कुम्भीरा नक्राश्च मीना मत्स्याश्च मकराश्च तेषा आगमौ आगमनगमने ताभ्या कृत्वा दुर्गे दुस्तर वारि जलं यस्यासौ ईदृश समुद्रो भवति (१०५) 'पयोधरसमय 'पयो जलम् हे योध ! हे धर पर्वत ! हे रस अजीर्णे ! हे सम 'मा लक्ष्मी स्त्या सहवर्तमान हारे मय मयनामा कश्चिद्दैत्यविशेषो हरेण हृत इति भावार्थे पयोधरसमय पयोधरस्य मेघस्य समय काल मेघा-गमे हि मयुरा विशेषेण नृत्यन्तीत्यर्थ (१०६) 'राजीवसन्निभवदन' रा द्रव्यम् हे जीव हे गुरो सन् सज्जन. इभवद् हस्तिवत. न विद्यते अ कृष्णोऽसित्क्रिति अन ब्राह्मणो हि कृष्णरहित कदाचिन्न स्यादित्यर्थ राजी पङ्कि वसन् निवास कुर्वन् इभवदन इभवत् हस्तिनुल्य वदन मुखं यस्यासौ गणेश इत्यर्थे राजीवैन कमलेन सन्निभ सदृश बदन मुख यस्यासौ राजीवसन्निभवदन (१०७) 'सम-रत 'सम तुल्य रत भोगक्रिया यस्य स समामात् (१०८) 'कुञ्जरा' कु पृथ्वीम् जरा वृद्धत्वम् अ. कृष्ण कुञ्जरा हस्तिनः
| २०४ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
कीदृग्भुजंगोऽस्ति कि कीदृक्समुद्रस्वजं जठरं कीदृग्यियासुर्वधू । श्लोकः कीदृगभीप्सितः सुकृतिना कीदृङ्नभो निर्मलं क्षोणीमाह्वय सर्वग किमुदितं रात्रौ सरः कीदृशम् ॥ १०९ ॥ मुण्डः पृच्छति कि मुरारिशयनं का हन्ति रूपं नृणा कीदृग्विीरजनश्च कोऽतिगहनः संबोधयावञ्चितम् । का धात्री जगतो वृहस्पतिवधूः कीदृक्कविः काहतः कोऽर्थः किं भवता कृतं रिपुकुलं कीदृक्सरो वासरे ॥ ११० ॥ कस्मै यच्छति सज्जनो बहुधनं सृष्टं जगत्केन वा शंभोर्माति च को गले युवतभिर्वेण्या च का धार्यते । गौरीशः कमताडयच्चरणत का रक्षिता राक्षसैगारोहादवरोहतः कलयतामेकं द्वयोरुत्तरम् ॥ १११ ॥ कः स्यादम्बुदयाचको युवतय. किं कामयन्ते पतिं लज्जा केन निवार्यते निकट के दासे कथं यावनी । भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेदाद्यन्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्णताम् ॥ ११२ ॥ का मेघादुपयाति कृष्णदयिता का वा सभा कीदृशी का रक्ष्यत्वहिहा शरद्विकचयेत्कं धैर्यहन्त्री च का । कं धत्ते गणनायक. करतले का चञ्चला कथ्यतामारोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम् ॥ ११३ ॥ कुत्र श्रीः स्थिरतामुपैति भुवि को दुःखी किमीषत्पदं धर्मी- | दीन्विनिवारयन्ति पथि के पान्थस्य दीनस्य च । का सबुद्धिरिह श्रियश्च तममः कौ नाशकौ प्रोच्यता गच्छन्तं पथिक किमाह यवनः सङ्गाभिलाषान्वितः ॥ ११४ ॥ कः खे भाति हतो निशाचरपतिः केनाम्बुधौ मज्जति कः कीदृक्तरुणीविलासगमनं को नाम राज्ञा प्रियः । पत्रं कि नृपतेः किमप्सु ललितं को रामरामाहरो मन्प्रश्नोत्तरमध्यमाक्षरपदं यत्तच्चाशीर्वचः ॥ ११५ ॥ किं त्राणं जगतां न पश्यति च क. के देवताविद्विषः किं दातुः करभूषणं निरुदरः कः किं पिधानं दृशाम् । के खे खेलनमाचरन्ति सुदृशा किं चारुताभूषणं बुद्ध्या ब्रूहि विचार्य सूक्ष्ममतिर्मस्त्वेकं द्वयोरुत्तरम् ॥ ११६ ॥ कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य नुक्रो जानाति परेङ्गितं विषमगु. कुत्रोद्भूतकामिनाम् । भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निश्चश्च कस्तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसत्पक-रम् ॥ ११७ ॥ लावण्यं क नु योषिता नमसि के सञ्चार-मातन्वते कासासुच्चतरा भवन्ति निनदाः क क्रीडतो दंपती । केषु श्रीः प्रकटीचकार भगवान्सीतापतिः पौरुषं मत्प्रश्नोत्तरमध्यवर्णघटितो देवो मुदे सोऽस्तु वः ॥ ११८ ॥ कः पूज्यः सृजनत्वमेति कतम. क स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम् । किं वाञ्छन्ति सदा जना युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तदाशीर्वचः ॥ ११९ ॥ क्षोणी कं सहते करोति दिवि का नृत्यं शिवायाः पतिर्भूताना कमयुद्ध जीवहरणे का रामशत्रोः पुरी । कं रक्षन्ति च साधवः पशुपते. किं वाहनं प्रोच्यतामालोमप्रतिलोमशाखचतुरैरेकं द्वयोरुत्तरम् ॥ १२० ॥
(१०९) 'कुमुदवनपरागराजिताम्भोविहितगमागमकोकसुग्मरेखम्' कुमुदै पृथ्व्या हर्षोऽकारि, पृथ्वी उद्धृता इत्यर्थ अवनपरा अवन रक्षण धनस्य गोपन तत्र परा सावधाना गर विषम् जितानि पीतानि अम्भासि जलानि येन तज्जिताम्भ विहितगमा विहित कृतो गमो गमन यया सा गमक अर्थाभिप्रायेण गम्यते प्राप्यते स गमक अकमूक क पानीय मुञ्चन्ति ते कमुचो मेघा न विद्यन्ते कमुचो यस्मिन् तत् अकमुकु, मेघै रहितमित्यर्थ हे धरे हे पृथ्वि ! ख आकाशम् कुमुदवनपरागराजिताम्भोविहितगमागमकोकसुग्मरेख कुमुदाना चन्द्रविकासीकमलाना वनानि तेषा परागेण रजसा रञ्जितं रङ्गयुक्तं कृतं अम्भो जल यस्मिन् तव ईदृश सर पुन. कीदृशम् ? विहितौ निष्पादितौ गमागमौ गमनागमने याभ्या तौ विहितगमागमौ तौ च तौ कोकौ च ताभ्या कृत्वा मुग्धा सुन्दरा रेखा पङ्क्तिर्यस्मिन् तत् यतस्तौ चक्रवाकीचक्रवाकौ अन्योन्य 'वियुक्तौ सन्तौ रात्रौ मिलनाय तीरात्तीर पर्यटत' तयोर्गमनागमनेन जलरेखाया-भवात् रात्रौ सर ईदृशं इति भाव (११०) 'विकचवारिजराजिसमुद्भवोच्छलितभूरिपरागविराजितम्' हे विकच विगता कचा केशा यस्य स तत्सबोधन हे वालरहित ! वारि जलम्, महाप्रलये हरि. शेषशय्याया समुद्रजले शेते जरा वृद्धत्वम्, आजिसमुद् आजौ सग्रामे समुद् सहर्ष, भव ससार, हे अच्छलित हे अवञ्चित ! भू पृथ्वो इपरा १. कामस्तेन परा उत्कृष्टा नित्ययौवनवती, गवि वाण्याम्, रा' द्रव्यम्, जितम् 'विकचवारिजराजिसमुद्भवोच्छलित-भूरिपरागविराजित' विकचाना प्रफुल्लाना वारिजाना कमलाना राजि-पङ्क्तिस्तया समुद्भवस्तेन उच्छलितो यो भूरि प्रचुर पराग तेन विराजितं शोभितम् (१११) साधवे-वेधसा, कालिमा-मालिका, काले-लका (११२, ११३) धारा-राधा वधा-धाव (अहिहा इन्द्र) काश-शका पाश-शपा (विबुध)
(११४) इमे उत्तरे अर्धस्फोरिते एवान्वेषा योजनासौकर्याय लिख्यते-ए विष्णो, भयी भीतियुक्त, आ खला (डल्योरभेदात् खडा) एव प्र भय्या खड। (११५) महेशः रामेण मैनाक मधरम् सचिव तुरग गज राजीवम् रावण एतन्मध्यमाक्षरघटिन्न वाक्य 'हे मे नाथ! चिर जीव' इति राजान प्रति आशीर्वचनम् (११६) अन्ध अत्र दृष्टिविहीनश्च दानवा दैत्या दानवारि च, दानोदकमित्यर्थ तम राहु• अन्धकारश्च वय पक्षिण तारुण्य च (११७) वासव हरस्य हस्वस्य तुगागमो 'ह्रस्वस्य पिति कृति तुक्' इति सूत्रेण मतिमान् नमसि रामस्य कुरुत्विति अन्यत्र एतन्मध्यमाक्षरघटितवाक्यं 'सरस्वति नमस्तुभ्यम्' इति विषमा पञ्च गावो बाणा यस्येति विषमगु काम (११८) नैपुण्ये, अण्डजा, पारीणा, एकान्ते, रक्ष सु, मध्यमवर्णोद्धारात्पुण्डरीकाक्ष इत्युत्तरम् पारीणामित्यस्य नदीपूर इत्यर्थ 'कर्करीपूरयो पारी पादरज्ज्वा च हस्तिन.' इति विश्व. (११९) भूदेव, खवश, संसदि, दुर्गेण (दैल) वैभव, युवति, मध्यमाक्षरोद्धरेण देव सर्गे भव इत्युत्तरम् उच्चकोटिस्य स्या. इति तात्पर्येम् (१२०) भार-रभा काल-लका दीने-नंदी
प्रश्नोत्तराणि, चित्रम् | २०५
| प्रश्नोत्तराणि | चित्रम् |
|---|---|
| भारतं चेक्षुदण्डं च सिन्धुमिन्दुं च वर्णय । पाठमेकं<br>प्रदास्यामि प्रतिपर्वप्रमोदय. ॥ १ ॥ कियन्मात्रं जलं विप्र<br>जानुदघ्नं नराधिप । तथापीयमवस्था ते नहि सर्वे भवा-<br>दृशाः ॥ २ ॥ अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।<br>त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥ ३ ॥ भूरि-<br>भारभराक्रान्तो बाधति स्कन्ध एष ते । न तथा बाधते<br>स्कन्धो यथा बाधति बाधते ॥ ४ ॥ निरर्थकं जन्म गतं<br>नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि<br>निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ५ ॥ अङ्गं<br>तदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरे । उल्लसत्तरुण-<br>केलिपल्लवा सङ्ककीं त्यजति किं मातङ्गज. ॥ ६ ॥ इदमनु-<br>चितमक्रमश्च पुंसा यदिह जरास्वपि मन्मथा विकारा ।<br>इदमपि न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं<br>वा ॥ ७ ॥ यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे<br>लोकः शशक इति नो मा प्रति तथा । अह त्विन्दुं मन्ये<br>त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्कित-<br>तनुम् ॥ ८ ॥ भविन्त्री रम्भोरु त्रिदशवदनम्लानिरधुना<br>स रामो मे स्थाता न युधि पुरतो लक्ष्मणसख. । इयं यास्य-<br>त्युच्चैर्विपदमधुना वानरचमूर्गलिष्ठेदं षष्ठाक्षरपरविलोपात्पठ<br>पुनः ॥ ९ ॥ अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः<br>पञ्चाशन्मधुगन्धमत्तमधुपाः कोधोद्धताः सिन्धुराः । अश्वा-<br>नामयुतं प्रपञ्चचतुर पण्याङ्गनाना शत दण्डे पाण्ड्यनृपेण<br>ढौकितमिदं वैतालिकायार्पणम् ॥ १० ॥ | नमामि मामनोनुन्नमान मुनिममानिनम् । नानागमनमा<br>नाममॊनामानमसुमेनमुम् ॥ १ ॥ तागतारतंग्गेतैरुरुत्तरुत्तरोत्तरुत्तरो<br>रूतै. । रतार्र्ता तित्तिगी गैति तीरे तीरे तगे तरै ॥ २ ॥<br><br>तनुना तनुता नीता तेन ते नीतनीतिना । नाता नूतनता<br>तान्ति तनो तेनातनोति न० ॥ ३ ॥ या मौताममता माया<br>मा परोक्षकश्रोपमा । तागेने गगनेऽगे तामक्षगच्छेऽगक्षम्<br>॥ ४ ॥ सर स्वतिप्रमादं मे स्थितिं चित्तमरेम्वति । सग-<br>स्वति कुरु क्षेत्रकुरुक्षेत्रममस्वति ॥ ५ ॥ समार साक-<br>दर्पेण कंदर्पेण मसाग्मा । शर नवाना विश्राणा नाविश्राणा<br>शरन्नवा ॥ ६ ॥ मागारिशक्रगमेभमुखैरामाग्गरहमा । साग-<br>ग्वध्वस्ता नित्य तदतिहणक्षमा ॥ ७ ॥ माता नताना<br>सव्रट् श्रिया भावितसम्भ्रमा । मान्याथ सीमा राणाणा शं<br>मे दिश्यादुमादिजा ॥ ८ ॥ सरला बहलारम्भतरलालि- |
| (१) पूर्वार्धं भोजराजस्योक्ति उत्तरार्ध तु कालिदासस्य प्रत्युक्ति<br>(२) प्रथमपादस्तृतीयपादश्च नदीमुत्तितीर्षोर्भोजस्योक्ति द्वितीयपाद-<br>श्चतुर्थपादश्च राजदर्शनार्थं छद्मना काष्ठभारवाहपण्डितस्य प्रत्युक्ति<br>(३) पूर्वार्धं मानिनीमनुनयतां वल्लभस्योक्ति उत्तरार्धं तु तस्य<br>वक्रोक्ति (४) पूर्वार्धं मृगयाया गृहामागच्छत शिबिकारूढस्य मोन<br>राजस्योक्ति उत्तरार्धं च राजदर्शनार्थं गच्छत शिविकावाहकस्य<br>पण्डितस्य प्रत्युक्ति (५) पूर्वार्धं विदुषस्योक्ति उत्तरार्धं राजक-<br>न्याया (६) पूर्वार्ध तच्चित्तपरीक्षिक्राया राजकन्याया उक्ति उत्त-<br>रार्धं तदनुरक्तस्य विह्वणस्य प्रत्युक्ति (७) पूर्वार्धं सारक्रीडा कुर्वत्या<br>शीलाभट्टारिकाया उत्तरार्धं च भोजस्य (८) पूर्वार्धं रात्रौ चन्द्र<br>वर्णयतो भोजस्योक्ति उत्तरार्धं च राजदर्शनार्थं आगतस्य छद्मचौर-<br>पण्डितस्य (९) प्रतिचरणसप्तमाक्षरविलोपात् द्वितीयोऽर्थ उद्रवति<br>पूर्वचरणत्रय रावणस्योक्ति सीता प्रति चतुर्थचरणस्तु तस्या<br>प्रत्युत्तरम् (१०) निखिलमपि पद्य विज्ञापयतो भाण्डागारिकस्योक्ति<br>वैतालिकायार्पय इति च सप्ताक्षराणि वैतालिकगीतदत्तकर्णस्य विक्रमा<br>दित्यस्य प्रत्युक्ति<br><br>१ कुरा, पक्षे, -काष्ठेन | (१) द्वयक्षर पद्यम् नमामि नमस्करोमि कम् उ विष्णुम् न<br>केवल तमेव अपि तु उमेन पार्वतीनाथम्, हरिहरमित्यर्थे , किंभूतम् ?<br>मामनोनुन्नमान मा लक्ष्मीस्तस्या मनसो नुन्नोऽपहस्तो मानो येन स<br>तथा त लक्ष्मीचाञ्चल्यगर्वोपहारिणम् पु० किं० ? मुनि योगीश्वर<br>अमानिन मानरहितम् पु० किं० ? नानानन नानाविधानि आननानि<br>मुखानि यस्यासौ त दशावतारत्वान्नकेविधमुग्म् पु० किं० ? अमा-<br>नाम अमानमाकाशममति अतिक्रामतीत्यमानामानस्तम् पु० किं०<br>ओनामानं ब्रह्मस्वरूपम् एवविर्द उमेन हरं उ हरिं च नमामि<br><br>(२, ३) द्वयक्षर (४) उ इति संबोधनम् हे अक्षगच्छद्यगक्षम ! अक्षे<br>रिन्द्रियैर्गच्छन्ति प्रतिपद्यन्ते ते अक्षगच्छा विषया तेषां छत्र नाग<br>तत्र क्षम समर्थ तस्य संबोधनम् हे महायोगिन् ! गगने आकाशे<br>ता अर प्राप किंभूते गगने ? तारोने ताराभि ऊन तस्मिन् ता<br>काम् ? या माता अर्थात् विश्वस्य माता पु० की० ? या ममता मम-<br>तास्वरूपेण वर्तते या वैष्णवी माया पु० की० ? या मा लक्ष्मी<br>पु० की० ? या परोक्षक्षरोपमा परक्षाणी उक्षा च परोक्षा वृषभ तेन<br>क्षरति गच्छतीति स श्रीमहादेव तेन उपमीयतेति सा (५) स्वतिप्र-<br>साद सुन्दरातिप्रसन्नता मर प्रामुहि चित्तमरेम्वति चित्तसमुद्रे क्षेत्र<br>शरीरमेव कुरुक्षेत्रं तत्र मरस्वत्याख्यनदीरूपे नेधा- समुद्रस्थितेरी-<br>चिल्येन मम चित्तसमुद्रे स्थितिं कुरु इत्यर्थं (६) नवा शरत् कंदर्प-<br>रूपेण दर्पेण साक ससार किंभूता ? मसाग्मा मारसेन पक्षिविशेषेण<br>पश्रेण वा सहिता शर काण्डं बिभ्राणा पोषयन्ती- परिपाक प्रापय-<br>न्तीत्यर्थ नवाना नवमन शकट कर्दमभावेन पथि यस्या<br>सा न अविश्राणा वीना पक्षिणा आण शब्द न तेन रहिता च<br><br>(७, ८) खड्गबन्धोऽयम् उमा गौरी शं सुखं मे मद्य दिश्यादेयात्<br>कीदृशी आदिजा जगदादिभवा तथा मारारि शंभु , शक इन्द्र,<br>रामो जामदग्न्यो दाशरथिवीं, इभमुखो गणाधिपस्तैरामाररहसा वेग-<br>वर्षवेद्वेगेनादराद्वेशात्सर उत्कृष्ट आरब्ध प्रकव स्तव स्तुतिर्यस्या-<br>सा तथा नित्य सदा तेषा मारारिप्रभृतीनामार्तं पीडाया हरणेऽपन-<br>यने क्षमा समर्था तथा नताना मातेव माता वत्सलत्वात् तथा-<br>सघट समूह कामा? श्रियामृदीनाम् तथा बाधितो नाशितो<br>भक्ताना सभ्रमो भय यया सा तथाभूता तथा मान्या पूज्या. अथ<br>सीमा मर्यादा रामाणा स्त्रीणाम्, सर्वोत्तमेल्यर्थे |
२०६ सुभाषितरत्नभाण्डागारम् [ ४ प्रकरणम्
बलारवा । वारलवहलामन्दकरला बहलामला ॥ ९ ॥ भामते प्रतिमासारग्माभाताहताविता । भावितात्मा शुभा वादे देवाभा बत ते सभा ॥ १० ॥ मारमासुषमा चारु रुचा मारवधूतमा । मात्तधूर्ततमावामा सा वामा मेऽस्तु मारमा ॥ ११ ॥ रसा साररमा सार सायताक्ष क्षतायसा । सातावात तवातासा रक्षतस्वस्वतक्षर ॥ १२ ॥ यदानतोऽयदानतो नयात्ययं न यात्ययम् । शिवे हिता शिवेहिता स्मगमिता स्मरमि ताम् ॥ १३ ॥ आम्नायानामाहान्यावा गीतिर्नीतिर्भीति प्रीति । भोगो रोगो मोदो मोहो ध्येयेच्चेच्छेक्षेमे देशे ॥ १४ ॥ नागविशेषे शेषे शेषेऽशेषेऽपि सहते जगति । हंससिकालं कालं का लङ्काल्लङ्घने स्तुतिर्भवतः ॥ १५ ॥ विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना । महाजनोऽदीयंत मानसादर महाजनोदीयमानमादरम् ॥ १६ ॥ विश्वस्य हेतुर्मरैर्बहु गीयसे त्वं विश्वंभरे शिवशिवे त्रिगुणात्ममूर्ते । चिद्व्योमतलेऽपि परमा प्रथमा वदन्ति त्वा योगिन. स्तुतिपरा. प्रणिधानदृष्ट्या ॥ १७ ॥ पायाद्वः करणोऽरणो रणरणो रणो रणोवारणो दत्ता येन रमारमारमरमा शमारमा. सा रमा । स श्रीमानुदयोदयोऽदयदयो दायोदयोदेदयो विष्णुर्जिष्णु-रमीरभीरमिरभीराभीरभीमारभी. ॥ १८ ॥
भाषाचित्रम्
उत्सङ्गकलितोरुकटारीभाजिग उत गद्यंकरमाला । मन्नु पायकगणा जय तेम्व गामगोह्गमिळाव इलावी ॥ १ ॥ हरनयनहुतागन्वाल्या जो जलाया रतिनयन-
(९) मुरजबन्धोऽयम् शारदूर्नमेनन मरलोन्तीर्थे नामम तादृइने । प्रभूतेनारम्भेण तल्लाना यन्नलानारमन्विताना भ्रमरमैन्यानामाख शब्दो यस्या सा मरलावहलाग्मन्वरलालिबल्लारवा तथा वारलारिभिर्हसीभिर्बहुला समता यदि वा वारेण परिपाटया लावो लवन येषा तानि तथाविधानि हलानि हलकृष्टधान्यक्षेत्राणि यस्या सा तथाविधा तथा कर लान्ति गृह्णन्ति ये ते करला नृपा अमन्दा यात्रायो सोधमा करला यस्या सा तथाविधा तथा बहलानि प्रभूतान्यमलाम्यान्यमलानि फलानि यस्या सा तथाविधा यदि वा बहलमल्यममला निर्मला बहुलामला (१०,११) पद्मबन्ध (१२) सर्वतोभद्र हे सार उत्कृष्ट ! तवरक्षत पाल यत सत मा रमा पृथ्वी मरमा उत्कृष्टरसाऽस्तु भवतु हे आयताक्ष दीर्घ लोचन, तथा मा क्षतायमा चास्तु क्षतो नास्ति आयोधोगमो येस्ते क्षतायाश्रीरादयस्तानस्वलन्त नयतीति कृत्वा तथा मात सुगमननीति सातावा, श्रेयस्करीत्यर्थ अस्ति बति सर्वत्र योज्यम् हे अत, अतति नित्य मेवोधम भजत इत्यर्थ तथा अतासा अक्षया रसा भवद्विषयत्त्रापियोग तुनियमे रक्षत एव, न त्ववलिप्सस्य तहा हे अतक्षर ! तक्षण तक्षस्तनुक-रण त राति ददातीति तक्षर, न तक्षरोऽनक्षर, पुष्टिक इत्यर्थ (१३) यस्यामानतोऽथ जन नयात्यय नीतिविक्षेप न याति कुत अयदानत अर्थात् तथेवास्य शुभावहविधिदानात् शिवे मङ्गले हिता अनुकूलान् शिवेन महादेवेन ईहिता प्रार्थनीयाम् स्मरेण कन्दर्पेण अमिता मातु मयोग्याम् अनभिभूतामित्यर्थ (१४) चतुर्मात्रिको विष्णुमालाच्छन्द आम्नायाना वेदानामन्या वाक् उपनिषद् आह अकथयत् किम् ? ईति नीति भीति प्रीति भोग रोग मोद मोह क्षेमे शुभे देशे स्थाने आत्मपरात्मनो ध्येयेव् इच्छेच्च (१५) सानुप्रास हे राम ! त्वया अशेषे समस्तेऽपि जगति सहतेत्व नागविशेषे शेषनागे शेषे स्वपिषि तथा असि-बत् खङ्गवत् काल कृष्ण कालं हसि मारयसि अतो भवतस्तव लङ्काया लङ्घने पारगमने का स्तुति स्तवन ? न किमपीत्यर्थ (१६) मृत जटायुष दृष्ट्वा राम प्रति लक्ष्मणोक्तिरियम् अय विना पक्षिस्वरूप पुरुष जटायु यमेन यतमानसादर यतमानाना रक्षितुमद्यताना साद विषाद राते ददातीति तद् यथा स्यात्तथा अर शीघ्र मानसामानस चित्तमेव मानस मानससरस्तस्मात् अदीयंत अखण्डयत अथ किंभूत ? महाजन महात्या महाजनोदी च मह उत्सवमजन्ति क्षिपन्ति ये दुर्जनास्तन्नोदी तदपसा-रक यमेन किभूतेन ? एनो विना अपराधमृते नयता स्वपुर प्रापयता असुखादिना प्राणभक्षणेन सुग्वादिना ऊनयता च हीन कुर्वता च इत्यर्थे
(१७) अस्य वसन्ततिलकाच्छन्दसो दुर्गास्तुतिरूपस्य पद्यस्य चतुर्णा-मपि पादाना पञ्चमसप्ताष्टमाक्षरलोपेन इन्द्रवज्रावृत्त शिवस्तुतिश्च जायते (१८) म पुराणप्रसिद्ध वेवेष्टि व्याप्नोती ते विष्णुर्भगवान्वो युष्मान्पायादित्यर्थ ब इति वट्श्वचनेन मर्वममत्व सूचितम् मायया मृष्टस्य तस्य रूय रक्षक्त्व मघटित्यत आह-श्रीमानिति श्रीर्नित्य-नस्यास्तीति श्रीमान् माया विनाभूदित्यर्थ ननु बहूना रक्षणपरिप्र-न्थिना विद्यमानत्वात्कथमस्य रक्षकत्वमित्याह-विष्णुर्जिति जयन्शील इत्यर्थ तथा च रक्षणपरिपन्थीनोऽपि तद्वशगा इति भाव इदानी व इति बहुवचनोक्त सर्वममत्व द्रढयितुमवतारविशेषेषुसुखेनाह-करण दन्ति क जल रणति गच्छतीति करण मत्स्यकूर्मावतारवानिव्यर्थ पुन अरण न विद्यते रण समामो यस्य स तथा अनेन च ब्रह्मकर्म मात्रप्रणयी वामनावतार उक्तो भवति यस्येति शेष स क ? यस्य विष्णो रण रणस्थाय रण, रणसबन्धीत्यर्थ रणरण रणाच्छन्दा-जायमानो रण शब्दो रणरण प्रतिशब्दो रणोवारण रणस्य उ लक्ष्मण व्रणादिचिह्न येषा ते रणव वीरा तान् वारयतीति रणोवारण अभूत् उकारस्तिवह लक्षणम् अनेन नृसिंहावतार उक्तो भवति क म ? येन अर शीघ्रम अरीणा समूहो अर अरिवृन्द मिनोति हिन-स्तीति आरमा तेन आरमा अरिकुलनिहन्त्रा रमा लक्ष्मीर्विप्रेभ्यो विश्रानिना दत्ता तथा रमया रमते असौ रमारमो विष्णुस्तस्मिन्सर-मन्ते ते रमारमरमा ब्राह्मणास्तान् आरमयति आह्लादयति स, तथा आम बभूवेत्यर्थ अनेन क्षत्रियान्तकारिपरशुरामावतार उक्तो भवति पु० क० १ उदयोदय याति प्राप्नोतीति य न य अय अप्राप्त उदयो* येन तत् अयोदय भूधरादि उत्तु उद्धत अयोध्व अप्राप्तोदय जलनि-मग्न भूधरादि नये स तथा अनेन आदिवराह उक्तो भवति पु० क० १ अदद्यदय अदद्येषु दयते स तथा कूरुष्वपि दयावानित्यर्थे अनेन बौद्धावतार उक्तो भवति पु० क० ? दायोदयोदेदय दायार्थ विभागार्थ उदयन अयो लोहमय शस्त्र यैस्ते दायोदया धातैराढ्या तान्नयति खण्डयतीति तथाविधोऽर्जुन तस्मिन् दयते स तथा अनेन कृष्णावतार उक्तो भवति पु० क० १ अभीरमौरभि पराङ्नाहरणा-दिभ्यः कृत्येष्व्यो अमीरा निर्भया रावणादयस्तेषु भियै भयार्थ रमते रामस्त्येन वर्तते स तथा अनेन रामावतार उक्तो भवति पु० क०१ अमीराभीरभीसारभी अमीरा शूरा भीरा कातरा तेष्वपि कोव्या लोभादिबशात् भय सारयन्ति प्रयच्छन्ति ते दुष्टम्लेच्छास्तेषा भी यस्मात् स तथा अनेन कल्क्यवतार उक्तो भवति
(१) हे राजन् ! तव पायकगणा सेवकालोका उत्सङ्गकलितोरुकटारीभाजिग उत्सङ्गा मतिमुदिता कलितोरुकटा सज्जिनधुलक
भाषाचित्रम्, जातिवर्णनम् २०७
जलौघे खाक बाकी बहाया । तदपि दहति चित्तं माक-
क्या मै करोंगी मदनसरसि भूयः क्या बला आग लागी
॥ २ ॥ नूनं बादल्शाइ शोहपसरी निःसाणशब्द. खर.
शत्रुं पाडि लुटालितो विहणिसो एवं भणन्त्युद्धटा । रूढे
गर्दभरामधालि सहसा रे कं तमेरे कहे कण्ठे पापनिवेशि
याहि शरणं श्रीमल्लदेव प्रभुम् ॥ ३ ॥
जातिवर्णनम्
सिंह.
गर्जन्हरि साम्ससि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्नि-
शम्य । पदं बबन्ध क्रमितुं सरोष. प्रतर्कयन्नन्यमृगेन्द्रनादम्
॥ १ ॥ लीढग्रस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्य-
स्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः । एतत्सिन्मद-
गन्धवासितसट. सावज्ञतिर्यक्चलत्सृक्क्रान्ताहतिधूतलोलमधुपः
कुञ्जेषु शेते हरि ॥ २ ॥ पश्योदञ्चदवाञ्चदञ्चितवपु. पश्चार्ध-
पूर्वार्धभाक्स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गलभृत् ।
दंष्ट्राकोटिविशङ्कटास्रकुहर कुर्वन्सटामुत्कटामुकर्ण. कुरुते
क्रमं करिपतौ क्रूराकृतिः केसरी ॥ ३ ॥ उत्कर्णोऽयमकाण्डच-
ण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्त्रविकटस्तब्धो-
र्ध्वलाङ्गूलभृत् । चित्रेणापि न शक्यतेऽभिलिखितुं सर्वाङ्गसङ्को-
चनाच्चीत्कुर्वद्विरिकुञ्जकुञ्जरशिरःकुम्भस्थलस्थो हरि. ॥ ४ ॥
तरक्षुः
लाङ्गलेनाभिहत्य क्षितितलमसकृद्धारयन्नग्रपञ्चामात्मन्येवा-
वलीय द्रुतमथ गगन प्रोत्पतन्विक्रमेण । स्फूर्जहुत्कारघोष
प्रतिदिशमखिलान्द्रावयन्नेष जन्तूनूकोपाविष्ट. प्रविष्ट. प्रतिवन-
मरुणोच्छूनचक्षुस्तरक्षुः ॥ ५ ॥
करिणः
अम्भोमुचा सलिलमुद्वमता निशीथे तालीवनेषु निभृतं
स्थिरकर्णतालाः । आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा
धारारवान्दशनकोटिनिषण्णहस्ता. ॥ ६ ॥
मृगः
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन
प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढै
श्रमविवृतमुखभ्रंशिभि. कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति
बहुतर स्तोकमुर्व्यां प्रयाति ॥ ७ ॥
भल्लुः
नयनपथनिरोधात्क्रोधनिर्धूतभालश्रमदविरलरोमस्तोमबद्धा-
न्धकार. । कृमिकवलनलोभोत्खातवल्मीकरन्ध्रोत्थितफणि-
फणघातैरूच्छलत्येष भल्लः ॥ ८ ॥
पोला ये अरीभा शत्रुगजास्तेषां योऽसौ आजि सग्राम त रान्ति
ददतीति ते सन्तु उत पुन भयङ्करभाला भृकुटीभीषणललाटा सन्तु
तै पायऋगणै इलाव पृथ्वीरक्षक इलावीजितकदर्पस्त्व अगोहर
अगोग्रह यथा स्यात्तथैव गा पृथ्वीं जह परदेशानात्मीयान्कुरु
हयः
यावच्छकलितो वायुरेकीभवितुर्महति । तावदेव तुरंगो-
ऽयमाजगाम जगाम च ॥ ९ ॥ मण्डले मण्डलाकारो रेखा
वाजीमयी जवे । सव्यापसव्ये द्विमुखो नकुलाधिष्ठितो हयः
॥१०॥ पुरो नुन्न. पश्चाद्ब्रजति विधुतश्रोच्छ्रिततनुः समुत्प-
त्योत्तान पतति पथि लोकान्विशति । हय. किंचिच्छेदयदि
नयति पत्ति क्वचिदहो कशाघाते तिष्ठत्यथ चरणघातेन
खनति ॥ ११ ॥ आकर्णन्निव गा वमन्निव खुरौ पश्चार्ध-
मुज्जृम्भिव स्वीकुर्वन्निव खं पिबन्निव दिशो वायूश्च मुष्णन्निव ।
साङ्गारप्रकरा स्पृशन्निव भुव छायाममृष्यन्निव प्रेङ्खच्चामर-
वीज्यमानवदन. श्रीमान्हयो धावति ॥ १२ ॥ पश्चादङ्गी
प्रसार्य त्रिकनतितवितं द्राघयित्वाऽङ्गमुच्चैरासज्याभुग्नकण्ठो
मुखमुरसि सटा धूलिधूम्रा विधूय । घासग्रासाभिलाषादनव-
रतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति
शयनादुत्थित. क्ष्मा खुरेण ॥ १३ ॥
कपिः
यदक्रांशुक्रान्तस्फुरदरुणपुष्पोदरधिया प्रविष्टो नासान्तः
क्वणितमणिडिम्भः प्रकुरुते । कपि. स्थित्वा स्थित्वा
तदिदमसृग्वन्वन्विचकितो धुनोत्यास्य रौति प्रचलति
चलत्युच्छलति च ॥ १४ ॥
महोक्षः
गर्जित्वो मेघधीर प्रथममथ शनैर्मण्डलीकृत्य देहं
शृङ्गाभ्या भीषणन्तावभिमुखमवनी दारयन्तौ खुराग्रैः ।
मन्द मन्द समेत्य स्थिरनिहितपदं दत्तघातो सरोषं युध्येते
चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ ॥ १५ ॥
धेनुः
आहूत्याहल्य मूर्ध्नि द्रुतमनुपिवत. प्रस्रुत मातुरूध.
किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः । उत्कर्ण
तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्राविस्रंसत्क्षीरधाराप्लव-
शबलमुखस्याङ्गमातृप्ति लेढि ॥ १६ ॥
रासभः
आघ्रायोध्याय गन्ध विकटमुखपुटो दर्शयन्दन्तपङ्क्तिं
धावत्युन्मुक्तनादो मुहुरपि च रसाद्भूष्टया पृष्ठलग्न. ! गर्दभ्यांः
पादघाताद्विगुणितसुरतप्रीतिराकृष्टशिखो वेगादारुह्य मुग्धम्ब्रवं-
तरति खरः खण्डितेच्छश्चिरेण ॥ १७ ॥
अजः
घ्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसङ्कोचभङ्गं
स्थित्वा सूर्यं निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मा खुरेण ।
बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं छागश्चादून-
नेकाश्रतुर इव विटो मन्मथान्धः करोति ॥ १८ ॥
मेषः
पार्श्वीस्फालावलेपाच्चदुलितचरणेलेखिताकाशदेशः सद्य-
ष्टाटोपकोपप्रसरितरसनापल्लवालीढसृक्कः । किंचित्साचीकृ-
तास्य. स्फुरदधरपुट. स्फारिताताम्रचक्षुर्घोणाघाताभिलाषा-
दपसरति रुषं दर्शयन्नेष मेषः ॥ १९ ॥
| २०८ | सुभाषितरत्नभाण्डागारम् | [ ४ प्रकरणम् |
|---|
मयूरः
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः
प्रनृत्यन्ति काले जीमूतमालिनि ॥ २० ॥
चातकः
दम्भोलिस्फूर्जदम्भोधरविपुलतडिद्दम्यगम्भीरनादैरम्भःसंभा-
रसभावनकुतुकिकुलं चातकानां प्रनृत्यत् । ऊर्ध्वं विन्यस्त-
चञ्चूपुटमुपरि परिभ्राम्यदुत्पातवातैरम्भोदोन्मुक्तमम्भःक्षणमपि
न चिरात्प्राप्य नम्रं मिथोऽभूत् ॥ २१ ॥
पारावतः
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परावृत्य
रिरंसुश्चुम्बति प्रियाम् ॥ २२ ॥
बकः
नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् । जनयति
कुमुदभ्रान्तिं धृद्धबको बालमत्स्यानम् ॥ २३ ॥ स्थित्वा
धैर्योदुपाम्मः समजठरशिराश्चक्रमूर्तिर्मुहूर्तं धूर्तः सत्यक्ततीरः
कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्घ्रिः । पश्चाद्ग्रीवा प्रसार्य
त्वरितगतिरपा मध्यमाविश्य चञ्च्वा चञ्चन्तीमूर्ध्वकण्ठः
कथमपि शफरी स्फारिताक्षो बकोऽत्ति ॥ २४ ॥
कुक्कुटः
न्यञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रसंपत्तचक्राकारकराल-
केसरसटारस्फारस्फुरत्कन्धरम् । वारंवारमुदञ्चिच्छ्लघनअश्य-
ञ्झक्खुष्णयोर्दृष्टा कुक्कुटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः
॥ २५ ॥ पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहान् भोगविस्तारि-
तात्मा प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य ।
प्रातः प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चैरुद्ग्रीवं पूर्वका-
योन्नतविकटसटः कुक्कुटो रारटीति ॥ २६ ॥
गौरखर-कृकलासौ
ग्रीष्मादित्यकरप्रतप्तसिकतामध्योपविष्टः सुखं शेते गौर-
खरो मरुस्थलभुवि प्रोथ निधाय क्षितौ । गुञ्जाजाहककण्ट-
काहतमरूद्भूतोत्पतद्धूलिमिश्रिच्छाङ्गः कृकलासकोऽपि निभृतं
मार्तण्डमुद्रीक्षते ॥ २७ ॥
सर्पः
आलोकत्रस्तनारीकृतसमयमहानादधावज्जनौघव्याप्तद्वार-
प्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः । काष्ठं दण्डं गृहाणेत्य-
तिमुखरजनैस्ताडितो लोष्ठघातैर्भितः सर्पो गृहस्थानधिगत-
विवरः कोणतः कोणमेति ॥ २८ ॥
पुलिन्दः
वामस्कन्धनषण्णशाङ्गि्कुटिलप्रान्तापिताधोमुखस्सन्दच्छो-
णितलम्बमानशशकान्वेणीस्खलच्चामरान् । ज्यान्तप्रोतकपोत-
पोतनिपतद्रक्ताक्ततूणीरकान्सोऽपश्यत्करिकुम्भभेदजनिता-
स्कन्दान्युलिन्दान्पुरः ॥ २९ ॥
पथिकः
गायति हसति च नृत्यति हृदयेन धृता प्रिया विचिन्तयति । समविषमं न च विन्दति गृहगमनसमुत्सुकः
पथिकः ॥ ३० ॥ मातर्धर्मपरे दया कुरु मयि श्रान्तेऽद्य
वैदेशिके द्वारालिन्दककोणके सुनिभृतं यास्यामि सुप्त्वा
निशि । इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भत्सितः
स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुन प्रस्थितः ॥ ३१ ॥
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्घुष्यते स्थाने रूपमनु-
त्तमं सुकृतिना दानेन कर्णो जितः । इत्यालोक्य भृशं
दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना
गर्व्यायते हालिकः ॥ ३२ ॥ देशैरन्तरिता शतैश्च सरितामु-
र्वीभृता काननैर्येलेनापि न याति लोचनपथं कान्तेति
जानन्नपि । उड्डीवश्वरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यायन्समुद्वीक्षते ॥ ३३ ॥
शूरः
खड्गहस्तोऽरिमालोक्य हर्षामर्षसमन्वितः । शूरः पुलकितो
रक्तनेत्रो हसति जृम्भते ॥ ३४ ॥
बालः
धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकरूपाः । कृत-
मुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं बालाः ॥ ३५ ॥ आयातो
भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो
विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् । दूरात्स्मेरमुखः
प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः समेति
परया प्रीत्या रत्नघ्घरम् ॥ ३६ ॥
कुमारः
अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतल प्रतिछाया कुर्वन्
युवतिषु दृशं स्निग्धतरलाम् । कुमारोऽहंकारात्यरषिदि समा-
नानगणयन्भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥३७॥
नर्तकी
स्वेदक्लेदितकङ्कणा भुजलता कृत्वा मृदङ्गाश्रया चेटीहस्त-
समर्पितैकचरणा मञ्जीरसथिल्सया । सा भूयः कुचकम्पसूचि-
तरयं निःश्वासमामुञ्चती रङ्गस्थानमनङ्गसात्कृतवती तालाव नौ
तस्थुषी ॥ ३८ ॥
लेखनकत्री
उन्नमितैकभ्रूलतानमनमस्याः पदानि रचयन्त्याः । कण्ट-
कितेन प्रथयति मय्यनुरागं कपोलेन ॥ ३९ ॥ यल्लुलते
तर्गलिते यदुदङ्गुलीक. पाणिः पुरो यदपि चक्षुरलब्धलक्ष्यम् ।
उन्मुद्रिताधरदलं च यदास्यमस्यास्तत्काव्यकर्मणि निषिक्त-
मवैमि चेत. ॥ ४० ॥
कलमकण्डनीगीतयः
विलास मसृणोल्लसन्सुलललोकदो. कन्दलीपरस्परपरिस्खल-
द्दल्यनि. खनोऽन्धुराः । लसन्ति कलहुंकृतिप्रसमकम्पितोरः-
स्थलत्रुटद्रमकसकुलाः कलमकण्डनीगीतयः ॥ ४१ ॥
इति श्रीसुभाषितरत्नभाण्डागारे चतुर्थ प्रकरणं समाप्तम् ।
पञ्चममन्योक्तिप्रकरणम्
सूर्यान्योक्तयः
रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ १ ॥
खद्योतो द्योतते तावद्यावन्नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः ॥ २ ॥
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति । विकासभाजो जायन्ते गुणिनः कमलाकराः ॥ ३ ॥
निमीलनाय पद्मानामुदयायाल्पतेजसाम् । तमसांमवकाशाय भजत्यस्तमसौ रविः ॥ ४ ॥
करस्फोटोडम्बरत्यागस्तेजोहानिः सरागता । वारुणीसंगजावस्था भानुनाप्यनुभूयते ॥ ५ ॥
अजस्रं लसत्पद्मिनीवृन्दसङ्गं मधुनि प्रकाभं पिबन्तं मिलिन्दम् । रविर्मोचयत्यब्जकारागृहेभ्यो दयालुहिं नो दुष्टवदोषदर्शी ॥ ६ ॥
एतावत्सरसिजकुण्डलस्य कृत्यं भित्त्वाम्भोसरसि विनिर्गमो बहिर्यत् । आमोदो विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमाममन्ति ॥ ७ ॥
देवो हरिवह्तु वक्षसि कौस्तुभं तन्मन्ये च काचन पुनर्भुगणेः प्रतिष्ठा । यत्पादसंगतिसमर्पितसौरभाणि धत्ते स एव शिरसा सरसीरुहाणि ॥ ८ ॥
उद्वन्वन्मूर्नि सुवहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ ९ ॥
विक्रीमितमोहितजगज्जनरञ्जनादि सर्वे भविष्यति रवेरिव चन्द्रतोऽपि । किं स्वस्तगामिनि रवौ भविता न जाने राजीवजीवनविधौ कतमः प्रकारः ॥ १० ॥
अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठाम् । दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन्किं तु लोकैरालोकि ॥ ११ ॥
गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरहव्यथा चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि । इदं चेतस्तापं जनयतितरामत्र यदमी प्रदीपाः सजातास्तिमिरहतिबद्धोद्धुरशिखाः ॥ १२ ॥
पातः पूष्णो भवति महते नोपता पाय यस्मात्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १३ ॥
पततु नभसो गच्छत्वस्तं निमज्जतु वारिधौ व्रजतु वरुणागारद्वार प्रभाभिरनाहतः । तदपि तरणिर्दत्त्वा पादं शिरःसु महीभृता दलिततिमिरव्रातः प्रातः पुनः सकृदेष्यति ॥ १४ ॥
येनोन्मथ्य तमांसि मासलघनस्पर्धीनि सर्वे जगच्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा । तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो यद्बध्नाति धृतिं शशाङ्कशकलोके प्रदीपेऽथवा ॥ १५ ॥
यत्पादाः शिरसा न केन विधृताः पृथ्विभृता मध्यस्तस्मिन्भास्वति राहुणा कवलिते लोकत्रयीचक्षुषि । खद्योतैः स्फुरितं तमोभिरुदितं तारामिरुज्जृम्भितं धूकैरुत्थितमः किमत्र करवै किं किं न कैश्चेष्टितम् ॥ १६ ॥
पूर्वाङ्गे प्रतिबोध्य पङ्कजवनन्युत्सार्य नैशं तमः कृत्वा चन्द्रमस प्रकाशरहितं निस्तेजस तेजसा । मध्याह्ने सरिता पयः प्रविततैरापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ १७ ॥
दूर यान्तु निशाचराः शशिकराः क्लेशं लभन्तांतारासमुद्द्योतं कलयन्तु हन्त न चिर खद्योतका द्योतले । ध्वान्तं ध्वंसमुपैतु हंसनिवहः पद्माकरे शाम्यतु प्राचीपर्वतमौलिमण्डनमणिः सूर्य समुज्जृम्भते ॥ १८ ॥
चन्द्रान्योक्तयः
आलोकवन्तः सन्त्येव भूयांसो भास्करादयः । कलावानेव तु औंन्द्रावकर्मणि कर्मठः ॥ १ ॥
दैवादद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः । तथापि किं कैमोलानि तुला यान्ति कलानिधेः ॥ २ ॥
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम् । परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ॥ ३ ॥
व्यज्यमानकलङ्कस्य वृद्धौ सति कलानिधेः । आशास्महे वयं पूर्वो सर्वश्लाघ्या कृशा दशाम् ॥ ४ ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरताम् । उपैति मित्राँचन्द्रो युक्तं तन्मलिनात्मनः ॥ ५ ॥
निशाचरोऽपि दीनोऽपि सकलङ्कोऽपि चन्द्रमाः । चकोरीनयनद्वन्द्वमानन्दयति सर्वदा ॥ ६ ॥
हरमुकुटे सुरतटिनीनिकटस्थितिलामतो
पादटिप्पण्यः (Footnotes)
[स्तम्भ १]: १ ज्योतिरिङ्गण २ सूर्ये ३ किरणा, पक्षे,-हस्ता ४ आकाश, पक्षे,-वस्त्रम् ५ वरुणदिक्, पक्षे,-मद्यविशेष. २७ सु. र भां.
[स्तम्भ २]: १ किरणा., पक्षे,-चरणा . २ शैलानाम्, पक्षे,-राज्ञाम् ३ सूर्ये ४ ग्रस्ते ५ दिवान्धे ६ उत्निद्राणि कृत्वा ७ निशासम्बन्धि ८ प्रकाशवन्तः ९ बहव १० पाषाण ११ समर्थ १२ कपालास्थीनि १३ सूर्यात्, पक्षे,-स्निग्धात् १४ कलङ्किन..
२१० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
द्विजेन्द्रेण । अपि गलं फणिफूत्कृतिरीक्षणतीक्ष्णांशुशुक्षणि क्षान्तः ॥ ७ ॥ निजकरनिकरप्रमृष्ट्या धवलय भुवनानि पार्वण शशाङ्क । सुचिर हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ ८ ॥ यद्यपि शिरोऽधिरोहसि रौद्रं कोवेन मिहिकातनय । त्यजति न शरण यात सागरसूनुर्मृगं तदपि ॥ ९ ॥ प्रोषितवति रजनिकरे बन्धुतया न खलु कैरवाण्यैव । म्लायन्ति किंतु सहसा भुवनान्यपि तमसि मज्जन्ति ॥ १० ॥ शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ११ ॥ या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सव । सेयमिन्दुकलिका दिनात्यये तापिता कमिह नातितापयेत् ॥ १२ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो वत चकोरचञ्चुषु । कष्टमिन्दुरुदये निपीयते दारुणेन तमसा बलीयसा ॥ १३ ॥ किरति प्रकरं गवां प्रकर्षं सुमनस्खच्छतर विधौ कलानाम् । कति चेत्कलयन्ति यद्वबोध कति चेन्नेति स तत्स्वभाव एव ॥ १४ ॥ विधेः कलानामपि रीतिरेषा मर्माणि मे सस्पृशतीव भूयः । कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु ॥ १५ ॥ निष्पीडितो यद्यपि दैवयोगान्निशाकरश्चापि विधुंतुदेन । तथापि पीयूषविशेषवर्षी सुधाकर कैरवकाननेषु ॥ १६ ॥ वक्रोऽस्तु बाल्ये तदनु प्रवृद्ध कलङ्कवानस्तु जडोऽस्तु चन्द्रः । महेशमौलौ च पदं दधातु जायेत वन्द्यो विविधोपकारात् ॥ १७ ॥ तारागणाश्चन्द्रमसं भजन्ते न जातु नाथं नलिनाकराणाम् । एतावता तस्य किमस्ति हानिर्ज्ञाता तयोरन्तरमेष लोक ॥ १८ ॥ यस्योदयेनैव दिशां प्रसादस्तापापनोदोऽपि जगत्त्रयस्य । चकोरचञ्चुपुटपारणे तु चन्द्रस्य तस्यास्ति कियान्प्रयास ॥ १९ ॥ प्रकुर्वता संगतिमिन्दुनाधुना किं किं च लब्धं जगदीश्वरेण वै । कलङ्कहानिः सुरसिन्धुसंगमः कलाक्षयित्वं च पदं तथोच्चकै ॥ २० ॥ नयनमसि जनार्दनस्य शंभोर्मुकुटमणिः सुदृशां त्वमादिदेवः । त्यजसि न मृगमात्रमेकमिन्दो चिरमिति येन कलङ्किनं वदन्ति ॥ २१ ॥ विरम तिमिर साँहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम् । कलयसि न पुरो महोर्मिधाराद्युतिनिधिरभ्युदयत्ययं शशाङ्कः ॥ २२ ॥ आस्ते विधुः परमनिवृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः । अन्तर्निर्गूढनयनाननदाहदुःखं जानाति कः परभृते बत शीतरश्मेः ॥ २३ ॥ एकैव सा मृतमयी सुतराममर्ध्या काप्यस्त्यसौ हिमकरस्य कला ययैव । आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः ॥ २४ ॥ श्रेयान्विधोर्बहुहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधेरिह वर्णनीया । यद्वारि न स्पृशति हन्त पृथग्जनोऽपि यस्यामृतेर्मखभुजोऽपि मुदं लभन्ते ॥ २५ ॥ मौरस्य मित्रमसि कि च सुधामयूरख शंभावपि प्रणयितां प्रकटीकरोषि । विश्वासपात्रमसि यद्विषतोस्तयोरप्येतत्तव प्रकृतिशुद्धतनोश्चरित्रम् ॥ २६ ॥ रत्नाकरो जनयिता सहजश्च वर्गः किं कथ्यताममृतकोस्तुभपारिजाताः । किं तैरचिन्त्यमिह तत्पुनरन्यदेव तत्त्वान्तरं कुमुदबन्धुरसौ यदिन्दु ॥ २७ ॥ नानन्दि कैरवमवर्धि न वाम्बुराशिरादीपि नाम्बरमहारि न वान्धकारः । धिग्दैवदुर्विलसितं यदसौ सुधाशुरभ्युद्यतश्च तमसा कवलीकृतश्च ॥ २८ ॥ चन्द्रं समाश्रयति नाम तिथिष्वनेका क्षीणस्तु बिम्बपरिपूरणमपूरणाय । एवं पुनः सकलमण्डलपूर्णवर्णं सा पूर्णिमैव खलु पूरयितुं समर्था ॥ २९ ॥ खैरा दिशः कुमुदमुन्निदुरं पिबन्ति ज्योत्स्नाकरम्भमुदरभरयश्चकोराः । आः कीदृगत्रिमुनिलोचनदूषिकाया पीयूषदीधितिरिति प्रथितोऽनुरागः ॥ ३० ॥ हिमकर परभागं भूषयिष्यन्सुमेरोर्व्रजसि यदि तदाहं न क्षमः संनिरोद्धुम् । इति तु बहुविधाभिः काकुभिः प्रार्थये त्वां पुनरपि कुमुदानामत्यान्तायो विषादः ॥ ३१ ॥ कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर्धुतिस्तादृग्भूम्ना जनिरपि च रत्नाकरकुले । बहु ब्रूम किंवा पुरहगशिरोमण्डलमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितम् ॥ ३२ ॥ पादन्यासं क्षितिधरगुरोर्मूध्निं कृत्वा सुमेरोः कान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः । सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूर्खेदूरारोहो भवति महतामप्यपभ्रंशहेतुः ॥ ३३ ॥ त्वं भोः शंभोर्निवाससि शिरोदेशमाश्रित्य निलयं तत्त्वां याचे जगदुपकृतिव्यापृतिक्यग्रमिन्दो । यः सद्भावस्तव परिणतः कैरवे वा चकोरे स्पृश्यस्तेन प्रतिनिशमसौ चक्रवाको वराकः ॥ ३४ ॥ यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि यद्विश्वस्योद्रदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः । भ्रातः शीतमयूरख सर्वमधुना म्लानीकृतं तत्त्वया राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम् ॥ ३५ ॥ पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः पुष्टं भानुकरैरिरं त्रिमुवनं ज्योत्स्नांभरेः सिञ्चति । सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः ॥ ३६ ॥ उच्चैःस्थानकृतोदयैर्बहुविधेर्ज्यौतिर्मिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथा प्रौढिं दधानैरपि । यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं
पादटिप्पण्यः (Left Footnotes):
१ तृतीयनेत्रस्थितस्तीक्ष्णाग्नि
२ राहुणा
३ राहुणा
४ कुमुदवनेषु
५ सूर्यम्
६ अयथावलमारम्भात्
७ पश्यसि
८ गुप्त
पादटिप्पण्यः (Right Footnotes):
१ नदनस्य
२ प्रीतिम्
३ राहुणा
४ नक्षत्रै