भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

२०२ तैत्तिरीये आरण्यके

स्मा॒त्त्वम॒स्माञ्जा॑तवेदो॒ मुमु॑ग्धि^(५)॥ ^(६)यद्वा॒चा यन्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑म॒ष्ठीव॑द्भ्याꣳ शिश्नै॒र्यदनृ॑तं च॒क्रमा व॒यम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः॒ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु च॒क्रम या-

तेन मयि कृता स्तुतिः, ‘तस्मात्’ स्तुतिमास्यात्, प्रमत्तेन* मया ‘अनाधृष्टं’ केनापि प्रकारेणापरिहार्यं प्रबलं, ‘देवकृतं’ देव- विषये सम्पादितं, ‘यत्’, ‘एनः’ पापं, हे ‘जातवेदः’, ‘त्वं’, ‘तस्मात्’, ‘अस्मात्’ पापात्, ‘मुमुग्धि’ अस्मान्† मुक्तं कुरु॥

अथ षष्ठीमाह। ^(१)“यद्वाचा यत् ॰ दुष्कृता”^(६) इति। वागादिभिः ‘यत्’, ‘अनृतं’ अयुक्तरूपं पापं, ‘वयं’, ‘चक्रम’ कृतवन्तः, वाचा असत्याभिधानं गुर्वादिषु त्वङ्कारादि च‡। ‘मनसा’, परानिष्टचिन्तनं। ‘बाहुभ्यां’, ब्राह्मणताडनादि। ‘ऊरुभ्यां’, अगम्यालिङ्गनादि। ‘अष्ठीवद्भ्यां’ जानुभ्यां, अग- न्तव्यदेशगमनादि, ‘शिश्नैः’ शिश्नेन, अयोनौ रेतःसेकादि, बहुवचनाच्चक्षुरादीन्द्रियग्रहः। चक्षुषा उच्चदर्कदर्शनादि। श्रोत्रेण गुरुदेवादिनान्दाश्रवणं। आस्येनाभक्ष्यभक्षणमित्या- दि। ‘तस्मात्’ सर्वस्मात्, ‘एनसः’, ‘अग्निः’, मां ‘प्रमुञ्चतु’ । ‘यानि दुष्कृतानि’ यान्यप्यन्यानि पापानि, ‘चक्रम’, तेभ्यो- ऽपि ‘प्रमुञ्चतु’॥


* स्तुतिसम्मानप्रमत्तेनेति तै० पाठः। † मां इति तै० पाठः ‡ अहङ्कारादि चेति तै० पाठः।

२ प्रपाठके ३ अनुवाकः। २०३

नि दु॒ष्कृ॒ता^(६) । ^(७)येन॑ चि॒तो अ॑र्ण॒वान्निर्ब॑भू॒व येन॒ सूर्यं॒ तम॑सो॒ निर्मुमोच॑ । येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हं ज्योति॑षा॒ ज्योति॑रानशा॒न आ॑क्षि^(७) । ^(८)यत् कु॒सीद॒मप्र॑तीतं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि । ए॒तत् तद॑ग्ने॒ अनृ॒णो भ॑वामि जी॒वन्ने॒व


अथ सप्तमीमाह । ^(७)“येन चितो ० ज्योतिरानशान आक्षि”^(७) इति । 'चितः' नाम कश्चित् पुरुषः, स च पुरोडाशिककाण्डे अङ्गारेणोदकपावनात् निष्पन्न इति श्रुतः* स तृतीयमभ्यपातयत्, ततश्चितो जायतेति । स च हतो 'येन'† परमेश्वरज्योतिषा, 'अर्णवात्' समुद्रसमानात् पापात् 'निर्बभूव' निर्मुक्तो बभूव । तथा 'येन' ज्योतिषा, परमेश्वरः स्वर्भानुसञ्ज्ञकासुरेणापादितात् 'तमसः', 'सूर्यं', 'निर्मुमोच' निर्मुक्तं कृतवान् । 'इन्द्रः' स्वर्गाधिपतिः, 'येन' परमेश्वरज्योतिषा, 'विश्वाः' 'अरातीः' सर्वानपि शत्रून्, 'अजहात्' क्षणनाशितवान्, 'तेन' ज्योतिषा, 'अहं', 'आनशान' सर्वतो व्याप्नुवं, 'ज्योतिराक्षि' पारमेश्वरं ज्योतिः प्राप्तवानस्मि ॥

अथाष्टमीमाह । ^(८)“यत् कुसीदमप्रतीतं ० प्रति तत्ते दधामि”^(८) इति । 'इह' अस्मिन् जन्मनि, 'मया', स्वीकृतं


* स च पुरुषो दार्शकाण्डे अङ्गारेणोदपातनामिषु उत्पन्न इति श्रुत इति तै० पाठः ।
† ततः चितः येनेति तै० पाठः ।

२०४ तैत्तिरीये आरण्यके

प्रति॒ तत्ते॑ दधामि⁽८⁾। ⁽९⁾यन्म॒ायि मा॒ता यद॑ पि॒पेष॒ य- द॒न्तरि॑क्षं॒ यदा॒शसाति॑क्रामामि चि॒ते दे॒वा दि॒वि जा॒ता यदार्प॑ इ॒मं मे॑ वरुण॒ तत्त्वा॑यामि॒ त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने॒ त्वम॑ग्ने॒ अया॑सि⁽९⁾ ॥ १ ॥

मुमुग्धि, सप्त च ॥ अनु० ३ ॥


‘यत्’, ‘कुसीदं’ ऋणं, ‘अप्रतीतं’ केनाप्याल्यादिना उत्त- मर्णेभ्यो न प्रत्यर्पितं, ‘यमस्य’ दुष्टशिचाधिकारिणः, निधि- स्थानीयेन प्रत्यर्पयितव्येन, ‘येन’ ऋणेन, युक्तोऽहं ‘चरामि’, ‘एतत्’ एतेन होमेन, ‘तत्’ तस्मात् ऋणात्, मुक्तोऽहं ‘अनृणः’, भूयासं ‘जीवन्नेव’, ‘ते’ तव प्रसादात्, तादृशं* ‘प्रतिदधामि’ प्रत्यर्पयामि, अनेन होमेन तुष्टस्त्वं अस्मिन्नेव जन्मनि मां प्रत्य- र्पणसमर्थं कुर्विति भावः ॥

अथ नवमीमारभ्य एकविंशतिपर्यन्तानान्त्रयोदशानां म- न्त्राणां प्रतीकानि दर्शयति। ⁽९⁾‘‘यन्मयि माता ० त्वमग्ने अयासि’’⁽९⁾ इति। एते मन्त्राः सर्वेष्यनेनैवाभिप्रायेणाच्छिद्र- काण्डेयद्देवा देवहेडनमित्यनुवाके व्याख्याताः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥


* ऋणमिति तै० पाठः

२ प्रपाठके ४ अनुवाकः । २०५

अथ चतुर्थोऽनुवाकः ।

(१)य॒द्दीव्य॑न्नृ॒णम॒हं ब॒भूवादि॑त्सन्वा स॒ङ्जगर॒ जने॑- भ्यः । अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च संविदा॒नौ प्रमु॑ञ्चतां(१) । (२)य॒द्धस्ता॑भ्यां च॒कर॒ किल्वि॑षाण्य॒क्षाणां॒ वग्वु॑मुपजि॒घ्न- मानः॑ । उ॒ग्रम्प॒श्या च॑ राष्ट्र॒भृच्च॒ तान्य॑प्सर॒सावनु॑दत्ता-


अथ चतुर्थोऽनुवाकः ।

चतुर्थानुवाकोक्तास्वृक्षु प्रथमामाह । (१)“यद्दीव्यन् ० संविदानौ प्रमुञ्चतां”(१) इति । ‘अहं’, ‘अदीव्यन्’ पुत्रादि- रक्षणरूपं व्यवहारं कर्तुमसमर्थः सन्, ‘यत् ऋणं’, ‘बभूव’ प्राप्तवानस्मि, यद्वा तदृणं ‘जनेभ्यः’ उत्तमर्णेभ्यः, ‘अदित्सन्’ प्रत्यर्पयितुमन्विच्छन्, ‘सङ्गर’ सम्यग् भक्षितवानस्मि,* ‘अग्निरिन्द्रश्च’, ‘संविदानौ’ परस्परमैक्यं गतौ, मां ‘तस्मात्’ ऋणात्, ‘मुञ्चतां’ ॥

अथ द्वितीयामाह । (२)“यद्धस्ताभ्यां ० तान्यप्सरसावनु- दत्तामृणानि”(२) इति । यानि ‘किल्विषाणि’ पापानि द्रव्याप- हरणादीनि, ‘हस्ताभ्यां’, अहं कृतवानस्मि । ‘अक्षाणां’ चक्षु- रादीन्द्रियाणां, ‘वग्मु’ वचनापगन्तव्यं,† रूपादिविषयमित्यर्थः । तं विषयं ‘उपजिघ्नमानः’ उपहतं कुर्वन्, अधर्महेतुं कुर्वन्,‡

* सम्यगशितवानस्मि इति तै० पाठः
† वर्जनीयं गन्तव्यमिति तै० पाठः ।
‡ अधर्म्माह्वतं कुर्वन्निति तै० पाठः ।

२०६ तैत्तिरीये आरण्यके

मृणानि॑⁽२⁾ । ⁽३⁾उग्र॑म्पश्ये॒ राष्ट्र॑भृत् किल्बि॒षाणि॒ यद्- क्ष॒वृत्त॒मनु॑दत्त॒मेतत् । नेन्न॑ ऋ॒णानृ॑ण॒व इत्स॑मानो॒ यमस्य॑ लो॒के अधि॑रज्जु॒राय॑⁽३⁾ । ⁽४⁾अव॑ते॒ हेड॒ उदु॑त्त-

'यत्' पापं, कृतवानस्मि, तानि पापात्मकानि* 'ऋणानि', 'उग्रम्पश्या च', 'राष्ट्रभृच्च', इत्येतन्नामधारिण्यौ 'अप्सरसौ', 'अनुदत्तां' आनुकूल्येन प्रत्यर्पयतां। पापरूपमृणं यथास्माकं न भवति तथा कुरुतामित्यर्थः ॥

अथ तृतीयामाह। ⁽३⁾“उग्रम्पश्ये ० लोके अधिरज्जु- राय”⁽३⁾ इति। हे 'उग्रम्पश्ये', हे 'राष्ट्रभृत्', 'किल्बिषाणि'† ऋणरूपाणि यानि कृतानि, 'यत् अक्षवृत्तं' यत् द्यूते पणादि- रूपं प्रतिश्रुतं‡ अप्रणीतं, 'एतत्' सर्वं, 'अनुदत्तं' अनुकूले युवा- मेव दत्तवत्यौ, 'ऋणान्' ऋणयुक्तान्, 'नः' अस्मान्, 'समानः' सदृशः उत्तमर्णः, 'अधिरज्जुः' बन्धनार्थं अधिकरज्जुयुक्तः सन्, 'आय' अस्मानादाय, बध्ध्वा 'नेदृणवः' नैव ऋणयुक्तः, ऋणप्रयुक्तं बन्धनं कुर्यादित्यर्थः । कुत्रेति तदुच्यते, 'यमस्य लोके' मरणादूर्ध्वभाविनि गन्तव्ये लोके। द्वितीयः 'इत्'- शब्द एवकारार्थः सन्, 'आय' इत्यनेन सम्बध्यते, आदायैव रज्जुभिर्बध्येत्यर्थः ॥


* पातकानीति तै० पाठः ।
† किल्बिषाणि चेति तै० पाठः ।
‡ यच्चाक्षवृत्तं यच्चाद्यूतपणादिरूपमप्रतिश्रुतमिति तै० पाठः ।

२ प्रपाठके ४ अनुवाकः । २०७

ममिमम्मे॑ वरु॒ण॒ तत्त्वा॑या॒मि त्वन्नो॑ अग्ने॒ स त्वन्नो॑ अग्ने ^{(४)}। ^{(५)}सङ्कु॑सु॒को वि॑कुसु॒को निर्ऋ॑थो॒ यश्च॑ नि॒स्खनः॑ । ते ये॒ऽस्मत् यक्ष्ममना॑गसो दू॒राद्दू॒रम॑चीचतं^{(५)}। ^{(६)}नि-


चतुर्थीमारभ्य नवमीपर्य्यन्तानां षण्णामृचां प्रतीकानि दर्शयति । ^{(१)}“अवते हेड ० स त्वन्नो अग्ने”^{(४)} इति । “अवते हेड उदुत्तमम्” इति द्वयं वैश्वानरो न इत्यत्र व्याख्यातं । “इमं मे वरुण तत्त्वायामि” इति द्वयं इन्द्रं वो विश्वतस्परीत्यत्र व्याख्यातं । “त्वं नो अग्ने स त्वं नो अग्ने” इति द्वयं आयुष्ठ आयुर्दा अग्ने इत्यनुवाके व्याख्यातं ॥

अथ दशमीमाह । ^{(५)}“सङ्कुसुको विकुसुको ० दूराद्दूरमचीचतं”^{(५)} इति । ‘सङ्कुसुकः’ सङ्क्षेपेण परापवादनशीलः,* ‘विकुसुकः’ परापवादनस्य विस्तारयिता, ‘निर्ऋथः’ क्लेशस्य प्रापयिता, ‘यश्च’, ‘निस्खनः’ पिशुनः, ‘ते’ तादृशा ये वयं,† स्म, ‘अस्मत्’ तेभ्योऽस्मत्तः, ‘यक्ष्मं’ रोगनिमित्तं पापं, ‘अनागसः’ पापरहिता देवाः, ‘दूराद्दूरं’ अतिशयेन दूरं यथा भवति तथा, ‘अचीचतं’ चोतयन्तु, विनाशयन्वित्यर्थः ॥

अथैकादशीमाह । ^{(६)}“निर्यक्ष्ममचीचते ० तमस्मै प्रसुवामसि”^{(६)} इति । तेन ‘यक्ष्मं’‡ रोगनिमित्तं पापं, ‘निरचीचते’


* परापवादस्य विस्मरयिता इति तै० पाठः ।
† तादृशा वयमिति तै० पाठः ।
‡ यक्ष्ममित्येव तै० पाठः ।

२०८ तैत्तिरीये आरण्यके


य॑क्ष्ममचीचते कृत्य्॒ान् निर्ऋ॑तिञ्च ॥ तेन॒ योऽस्म॒त् स॒-
मृ॒च्छा॑तै तम॑स्मै प्रसु॑वामसि^(६) । ^(७)दुः॒शꣳ॒सानु॑शꣳसा-
भ्यां॑ घ॒णेना॑नुघ॒णेन॑ च । तेना॒न्योस्म॒त् समृ॑च्छा॒तै त-
म॑स्मै प्रसु॑वामसि^(७) । ^(८)सं वर्च॑सा॒ पय॑सा॒ सन्त॒नूभि॒रग॑-


निष्कृत्य निश्चयेन वा चाभच्चयामि नाशयामि,* ‘कृत्यां’ पाप-
रोगादिकामलक्ष्मीञ्च† नाशयामि । ‘यः’ शत्रुः, ‘अस्मत्’
अस्मासु, ‘तेन’ कृत्यादिना, ‘समृच्छाते’ विनाशमाचरेत्,
‘अस्मै’ शत्रवे, ‘तं’ यक्ष्मादिकं, ‘प्रसुवामसि’ प्रेरयामः ॥

अथ द्वादशीमाह । ^(७)“दुः॒शꣳ॒सानु॑शꣳसाभ्यां ० प्रसुवा-
मसि”^(७) इति। ‡ ‘दुःशंसः’ अस्मदीयस्य दुष्कृतस्य शंसिता कथ-
यिता, ‘अनुशंसः’ अन्येषामग्रेऽस्मदीयस्य दुष्कृतस्य पुनः पुनः
शंसिता, ‘घणः’ हननशीलः, ‘अनुघणः’ तस्यैवानुविधायकः, ‘तेन’
तैर्दुःशंसादिभिः, सह ‘अन्यः’, अपि यः शत्रुः § ‘अस्मत्समृच्छाते’
अस्मासु विनाशमाचरेत् । ‘अस्मै’ विनाशकाय, ‘तं’ यक्ष्माणम-
स्माकं॥, ‘प्रसुवामसि’ प्रेरयामः ॥


* निष्कृत्य निश्चयेन वा चातयामि विनाशयामीत्यर्थ इति तै० पाठः ।
† ‘कृत्यां’ नरोत्पादितां, ‘निर्ऋतिं’ अलक्ष्मीञ्चेति तै० पाठः ।
‡ यक्ष्मारोगनिमित्तमिति तै० अधिकः पाठः ।
§ यः कश्चिदिति तै० पाठः ।
॥ तस्मै विनाशाय एतं यक्ष्मादिकमिति तै० पाठः ।

२ प्रपाठके ४ अनुवाकः । २०६

न्म हि मन॑सा सँ॒शिवेन॑ । त्वष्टा॑ नो॒ अत्र॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो३ यद्विलि॑ष्टम्⁽८⁾ ॥ १ ॥

कृत्यान् निर्ऋतिञ्च, पञ्च च ॥ ४ ॥

अथ त्रयोदशीमाह । ⁽८⁾"सं वर्चसा पयसा ० तन्वो३ यद्विलिष्टं"⁽८⁾ इति । एवमनेन कर्मणा निर्धूतपापा वयं 'वर्चसा' बलेन, 'सम्पयसा' क्षीरादिना, 'सन्त॒नूभिः' शोभनैः शरीरैः, 'मनसा' चाथापि तेन* 'समगन्म' हिंसां गता भूयास्म । 'अत्र' कर्मणि, 'त्वष्टा', देवः, 'नः' अस्माकं, 'रायः' धनानि, 'विदधातु' सम्पादयतु । 'यत्', च 'विलिष्टं' स्वल्पं पापं, 'तन्वः' अस्मच्छरीरस्य सम्बन्धि विद्यते† तदपि 'अनुमार्ष्टु' 'त्वष्टा', शोधयतु ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥


* वा स्खलितेनेति तै० पाठः ।
† तन्वोऽस्मत्सम्बन्धिशरीरविषयमिति तै० पाठ

२८

२१० तैत्तिरीये आरण्यके

अथ पञ्चमोऽनुवाकः

(१)आयु॑ष्टे विश्व॒तो दध॒दयम॒ग्निर्वरे॑ण्यः । पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒ यक्ष्मँ॑२सुवामि ते^(१)। (२)आयु॑र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि घृ॒तं पी॒त्वा-


अथ पञ्चमोऽनुवाकः ।

पञ्चमानुवाकप्रोक्तर्चु* प्रथमामाह । (१)“आयुष्टे ० सुवामि ते”^(१) इति । हे यजमान ‘ते’ तुभ्यं, ‘वरेण्यः’ श्रेष्ठोऽयमग्निः, ‘विश्वतः आयुर्दधत्’ सम्पूर्णमायुर्दधातु, अपमृत्युनिगृहीतोऽपि ‘ते प्राणः’, ‘पुनः’, अस्यानुग्रहेण† ‘आयाति’ त्वद्देहे समागच्छतु । ‘ते’ तव, ‘यक्ष्मं’ व्याधिं, ‘परा सुवामि’ विनाशयामि ॥

अथ द्वितीयामाह । (२)“आयुर्दा ० पुत्रमभिरक्षतादिमं”^(२) इति । हे ‘अग्ने’, त्वं ‘आयुर्दाः’, सन् ‘एधि’ यजमानस्यायुःप्रदो भव‡ । कीदृशः त्वं, ‘हविषो जुषाणः’ आज्यं सेवमानः, ‘घृतप्रतीकः’ घृतोपक्रमः, आघारादीनां घृतेन हूयमानत्वात् । अवसानेऽपि घृतमेव योनिर्ज्वालोत्पत्तिकारणं यस्यासौ ‘घृतयोनिः’, तादृशस्त्वं । ‘मधु’ स्वादुतमं, ‘चारु’


* पञ्चमानुवाकप्रोक्तासु ऋक्षु इति तै० पाठः ।
† अनुग्रहादि तै० पाठः ।
‡ ‘आयुर्दा एधि’ यजमानस्यायुःप्रदो भवेति तै० पाठः ।

२ प्रपाठके ५ अनुवाकः । २२१

मधु॑ चा॒रु गव्यं॑ पि॒तैव पु॒त्रम॒भिर॑क्षतादि॒मम्^(२) । ^(३)इ॒मम॑ग्न॒ आ॒युषे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरु॒ण सꣳशि॑शाधि । मा॒तेवा॑स्मा॒ अदि॑ते॒ शर्म॑ यच्छ॒ विश्वे॑देवा॒ जरद॑ष्टि॒र्य- थास॑त्^(३) । ^(४)अ॒ग्न आयू॑ꣳषि पवस॒ आसु॒वोर्ज॒मिष॑ञ्च

शोधितत्वेन निर्मलं, 'गव्यं घृतं पीत्वा', 'पिता पुत्रमिव', 'इमं' यजमानं, अभितो रक्ष ॥

अथ तृतीयामाह । ^(३)“इममग्ने ० जरदष्टिर्यथासत्”^(३) इति । हे ‘अग्ने’, ‘इमं’ यजमानं, ‘कृधि आयुषे वर्चसे’ दीर्घायुषे बलाय च समर्थं* कुरु । हे ‘वरुण’, ‘तिग्मं’ तीक्ष्णं, ‘ओजः’ बलं, पुनरपि ‘सꣳशिशाधि’ नियमितं† कुरु । हे ‘अदिते’ पृथिवि, ‘मातेव’ मातृवत्, ‘अस्मै’, सुखं प्रयच्छ । हे ‘विश्वेदेवाः’, ममायं यजमानः ‘जरदष्टिर्यथासत्’,‡ तथा कुर्वन्तु, जरया अष्टिव्र्याप्तिर्यस्यासौ ‘जरदष्टिः’ बाल्ये यौवने च मरणरहितः, जरामायुःसम्पूर्ण्तिपर्यन्तां§ यथा व्याप्नोति तथा कुर्वित्यर्थः ॥

अथ चतुर्थीमाह । ^(४)“अग्न आयूꣳषि ० दुच्छुनां”^(४)


* समृद्धमिति तै० पाठः ।
† संश्रितमिति तै० पाठः ।
‡ यथायं यजमानो जरदष्टिरसदिति तै० पाठः ।
§ जरामायुःसम्पत्तिपर्यन्तामिति तै० पाठः ।
2 c 2

२१२ तैत्तिरीये आरण्यके

नः॑ । आ॒रे बा॑धस्व दु॒च्छुना॑म्^(४) । ^(५)अग्ने॑ पवस्व स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॒द्रयिं मयि॒ पोष॑म्^(५) ॥ १ ॥ ^(६)अ॒ग्निर्ऋषिः॑ पव॑मानः पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यं^(६) । ^(७)अग्ने॑ जा॒तान् प्रणु॑दा नः स॒-


इति । हे ‘अग्ने’, ‘आयुंषि’ अस्मदीयजीवनानि, ‘पवसे’ यथा वर्द्धन्ते* तथा शोधयसे । ‘ऊर्जं’ क्षीरादिरसं, ‘इषं’ अन्नं, ‘च’, ‘नः’ अस्माकम्, ‘आसुव’ आभिमुख्येन प्रेरय, ‘दुच्छुनां’ उपद्रवं, ‘आरे’ दूरे नीत्वा, ‘बाधस्व’ विनाशय ॥

अथ पञ्चमीमाह । ^(५)“अग्ने पवस्व ० मयि पोषं”^(५)इति । हे ‘अग्ने’, शोभनमपः कर्म यस्यासौ ‘स्वपाः’, तादृशस्त्वं, ‘अस्मे’ अस्मदीयं, ‘वर्चः’ ब्रह्मवर्चसं, ‘सुवीर्यं’ शोभनसामर्थ्यञ्च, ‘पवस्व’ शोधय, वर्द्धयेत्यर्थः । धनं पुष्टिञ्च ‘मयि’, ‘दधत्’ स्थापय ॥

अथ षष्ठीमाह । ^(६)“अग्निर्ऋषिः ० महागयं”^(६) इति । यः ‘अग्निः’, ‘ऋषिः’ अतीन्द्रियज्ञानवान्, ‘पवमानः’ शोधनशीलः, निषादपञ्चमा वर्णाः, पञ्च जनाः, तेषु भवः ‘पाञ्चजन्यः’, ‘पुरोहितः’ सर्वकर्मसु पुरस्तान्निहितः, ‘तं’ एवंगुणमग्निं, ‘महागयं’ महागृहं, ‘ईमहे’ प्राप्नुमः ॥

अथ सप्तमीमाह । ^(७)“अग्ने जातान् ० स्यामचिवरूथ उद्ग्ने”


* वर्द्धन्ते इति तै० पाठः ।

२ प्रपाठके ५ अनुवाकः । २१३


प॒त्नान् प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सुमना॒ अहे॑ड॒ञ्छर्म॑न्ते स्याम चिवरूथ॒ उद्गौ॑ ।^(७) । ^(८)स॒ह॑सा जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यꣲ स्याम॒


(७) इति । हे 'अग्ने', 'नः' अस्माकं, 'जातान्' 'सपत्नान्' ये पूर्वमुत्पन्नाः शत्रवस्तान्, 'प्रणुद' प्रकर्षेण नाशय, हे 'जातवेदः', पूर्वमनुत्पन्ना इतःपरमुत्पत्तिप्रसक्तियुक्ताः तान् 'जातान्', शत्रून् 'प्रणुदस्व' उत्पत्तिप्रतिबन्धेन,* निराकुरु । 'सुमनाः' अस्मदनुग्रहचित्तः,† त्वं 'अहेडन्' अक्रुध्यन्, 'चिवरूथः' प्राग्वंशसदोहविर्द्धानरूप‡गृहत्रयोपेतः, 'उद्गौ' उद्गित्, अनुष्ठेयकर्मोत्पादकः§ सन्, 'अस्मे दीदिहि' अस्मान् प्रकाशय, 'ते' तव, प्रसादात् 'शर्मन् स्याम' सुखवान् भवेयं ॥

अथाष्टमोमाह । ^(८)"सहसा जातान् ० सपत्नान्"^(८) इति । 'सहसा' बलेन, जातानित्यादि पूर्ववत् । 'सुमनस्यमानः' अस्मासु सौमनस्यं प्राप्तः सन्, 'नः' अस्मान्, 'अधिब्रूहि' शत्रुभ्योधिकान् ब्रूहि । 'वयं', अपि तदनुग्रहादधिकाः 'स्याम', 'नः' अस्माकं,॥ 'सपत्नान्' शत्रून्, 'प्रणुद' ॥


* उत्पत्तिप्रतिबन्धनेनेति तै० पाठः ।
† सानुग्रहचित्तः इति तै० पाठः ।
‡ हविर्द्धानाख्येति तै० पाठः ।
§ अनुष्ठेयधर्मोत्पादक इति तै० पाठः ।
॥ अस्मदीयान् इति तै० पाठः ।

२१४ तैत्तिरीये आरण्यके

प्रणु॑दा न॒: सपत्नान्॑$^{(८)}$। $^{(९)}$अग्ने॒ यो नो॑ऽभि॒तो जनो॒ वृको॒ वारे॑ जिघाꣳ॑सति । स्ताꣳस्त्वं वृ॑त्रहञ्ज॒हि वस्व॒स्मभ्य॒माभ॑र$^{(९)}$। $^{(१०)}$अग्ने॒ यो नो॑ऽभिदास॑ति समा॒नो यश्च॒ निष्ट्य॑: । तं व॒यꣳ स॒मिधं॑ कृ॒त्वा तुभ्य॑मग्नेऽपि॑ दध्मसि$^{(१०)}$। $^{(११)}$यो न॒: शपा॒दश॑पतो॒ यश्च॑ न॒: शप॑तः॒ शपा॑त् । उपा॒श्व॒ तस्मै॑


अथ नवमीमाह। $^{(९)}$“अग्ने यो ० वस्वस्मभ्यमाभर”$^{(९)}$ इति। हे 'अग्ने', 'यः', शत्रुजनः, 'वृकः' वृकसदृशः, अरण्यश्वा यथोपद्रवं करोति तथोपद्रवकारोत्यर्थः। अतएव 'वारः' अस्मद्व्यवहारस्य निवारकः सन्, 'अभितः' 'सर्वतः, 'नः' अस्मान्, 'जिघाꣳसति' हन्तुमिच्छति। हे 'वृत्रहन्' वैरिघातिन् अग्ने, 'त्वं', तान् वृकवद्दुष्टातुकान्, 'जहि' मारय। 'अस्मभ्यं', तु 'वसु' धनम्, 'आभर' सम्पादय ॥

अथ दशमीमाह। $^{(१०)}$“अग्ने योनोभिदासति ० दध्मसि”$^{(१०)}$ इति। हे 'अग्ने', 'यः' प्रबलः शत्रुः, 'नः' अस्मान्, 'अभिदासति' हिनस्ति, 'यश्च' अन्यः, 'समानः', सन्* 'निष्ट्यः' नित्यं शत्रुत्वेनावस्थितः, हिनस्ति। 'वयं', 'तं' हिंसकं, 'समिधं' समित्सदृशं, 'कृत्वा', हे 'अग्ने', 'तुभ्यं' त्वदर्थं 'अपि', 'दध्मसि' प्रक्षिपामः॥

अथैकादशीमाह। $^{(११)}$“यो नः शपादशपतः ० पापꣳ समू-


* समानबलः सन्निति तै० पाठः

२ प्रपाठके ५ अनुवाकः। २१५

नि॒म्रुक्च॒ सर्वं॑ पा॒पꣳ स॒मूह॑तां^(११)। (१२)यो न॑: स॒पत्नॊ॒ यो॑ रणे॑ मर्त्तो॑ऽभि॒दास॑ति दे॒वाः। इ॒ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किञ्चन॑^(१२)। (१३)यो मां द्वेष्टि॑ जातवेदो॒ यं

हतां”(११) इति। ‘अशपतः’ अनाक्रोशतः, ‘यः’ शत्रुः, ‘शपात्’ शपति, अधिविक्षिपति, ‘यश्च’ अन्यः शत्रुः, ‘शपतः’ अधिविक्षि- पतः, ‘नः’ अस्मान्, ‘शपात्’ प्रत्यधिक्षिपति, ‘तस्मै’ तदर्थं तस्मि- न्नवस्थापयितुं, ‘उषाश्च निम्रुक्च’ उदयास्तमयदेवौ,* अहो- रात्रदेवौ वा, ‘सर्वं पापं’, अस्मदोषं ‘समूहतां’ सङ्गतं कृत्वा तस्मिन्नेवास्थापयतां ॥

अथ द्वादशीमाह। (१२)“यो नः ० किञ्चन”(१२) इति। हे ‘देवाः’, ‘यः’ ‘मर्त्तः’ मनुष्यः, अस्माकं ‘सपत्नः’ शत्रुः सन्, अनर्थं चिन्तयति ‘यः’, च अस्माभिः सह ‘रणे’ युद्धकारी सन्, ‘अभिदासति’ उपक्षपयति† ‘तस्य’ उभयविधस्य, सम्बन्धि ‘किञ्चन’ धनादिकं‡ ‘मोच्छेषि’ अवशिष्टं मा कुरुत, किन्तु सर्वं विनाशयत। यथा ‘प्रक्षायतः’ प्रकर्षेण क्षीयमा- णस्य, दह्यमानस्य, ‘इध्मस्य’ काष्ठस्य, न कोऽप्यंशोऽवशिष्यते तद्वत्॥

अथ त्रयोदशीमाह। (१३)“यो मां द्वेष्टि ० द्वेष्मि ये च

* उदयास्तमयदलौ इति तै० पाठः
† उपक्षयति इति तै० पाठः।
‡ सदनादिकं इति तै० पाठः।

२१६ तैत्तिरीये आरण्यके

चा॒हं द्वेष्मि॒ यश्च॒ मां। सर्वाँ॒स्तान॑ग्ने॒ सन्द्॑ह॒ याँश्चा॒हं द्वेष्मि॒ ये च॒ मां॑⁽१३⁾। ⁽१४⁾यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जन॑:। निन्दा॑द्यो अ॒स्मादिप्सा॑च* सर्वाँ॒स्तान॑ग्ने-

मां''(१३) इति। हे 'जातवेदः', 'यः' शत्रुः, 'मां द्वेष्टि', 'अहञ्च', यं 'द्वेष्मि', द्विविधो द्वेषः प्रत्यचः परोक्षश्च। तत्र प्रत्यक्ष उभय- कर्तृको द्वेष† उदाहृतः, परोक्षमुभयकर्तृकं द्वेषं सूचयितुं यश्चमामिति पुनरुक्तिः। एवञ्च द्वेष्यो द्वेष्टा च, द्वौ प्रत्यक्षौ द्वौ च परोक्षौ 'तान्' चतुर्विधान्, 'सर्वान्', हे 'अग्ने', 'सन्दह' सम्यग्भस्मीकुरु। यौ मुख्यौ द्वेष्टारौ तद्द्वारा तदीया अन्येऽपि द्वेष्या द्वेष्टारश्च ये सन्ति तान् सङ्ग्रहीतुं याँश्चाहमिति पुन- रुक्तिः। तान् सर्व्वांस्य सन्द्हेति पूर्व्वत्रान्वयः॥

अथ चतुर्दशीमाह। (१४)“यो अस्मभ्यं ० तान्मन्मषा कुरु” (१४) इति। शत्रवस्त्रिविधाः, अरातयो द्वेषिणो निन्दकाश्चेति। तत्र दातव्यत्वेन प्राप्तं धनं यो न ददाति सोऽयमरातिः। कार्य्यविघातं यः करोति स द्वेषी। वाग्दौर्ज्जन्यमात्रं यः करोति स निन्दकः। हन्तुकामश्चतुर्थः। तत्र 'यः', 'अस्मभ्यम्', 'अरातीयात्' अरातित्वमिच्छति, 'यश्च जनः', 'नः' अस्मान्,


* अस्मान् दिप्साच्चेति तै० पाठः।
† तत्र प्रत्यक्षः परोक्षश्च उभयकर्तृकः प्रत्यक्ष उभयकर्तृकद्वेष इति तै० पाठः।

२ प्रपाठके ५ अनुवाकः । २१७


षषा कुरु^{(१४)}। ^{(१५)}सꣳशितं॑ मे॒ ब्रह्म॑ सꣳशितं॑ वी॒र्यं॑ बलं॑ ।
सꣳशितं॑ क्ष॒त्रं मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पुरो॒हितः॑^{(१५)}॥
^{(१६)}उदै॑षां बा॒हू अ॑तिर॒मुदै॑र्चा॒ अथो॒ बलं॑ । क्षि॒णोमि॑


‘द्वेषते’ कार्यनाशेन* बाधते, ‘यः’, अप्यन्यो जनः, ‘निन्दात्’ दौर्जन्यात् निन्दति । यश्चापरोऽस्मान् ‘दिप्सात्’ दम्भितुं हिंसितुमिच्छेत् । ‘तान्’ ‘सर्वान्’ जनान्, ‘मष्मषा कुरु’ चूर्णन-भस्मीकरणादिजन्यस्य शब्दस्यानुकरणं, मष्मषेति, चूर्णीकृत्य भस्मीकुर्वित्यर्थः ॥

अथ पञ्चदशीमाह । ^{(१५)}“सꣳशितं ० पुरोहितः”^{(१५)} इति । ‘मे’ मदीयं, ‘ब्रह्म’ ब्राह्मण्यं, ‘सꣳशितं’ सम्यक् तीक्ष्णीकृतं, शास्त्रीयमार्गेण† कृतमित्यर्थः । तथा ‘वीर्यं’ इन्द्रियशक्तिः, ‘बलं’ शरीरदर्पः‡ तदुभयं ‘संशितं’ सम्यक् स्वस्य कार्यक्षमं कृतं, तथा ‘यस्य’ क्षत्रस्य राज्ञः, ‘अहं’, ‘पुरोहितः’, ‘अस्मि’, ‘मे’ मदीयं, तत् ‘क्षत्रं’, ‘जिष्णु’ जयनशीलं,§ यथा भवति तथा ‘सꣳशितं’ ॥

अथ षोडशीमाह । ^{(१६)}“उदैषां ० अहं”^{(१६)} इति । ‘एषां’ स्वकीयानां राजब्राह्मणादीनां मध्ये, एकैकस्य ‘बाहू’ ‘उदतिरं’ उत्कर्षेण वर्द्धितवानस्मि । लौकिकोक्तिरियं, लोके हि योऽन्यस्मात् उत्कृष्टो भवति, तं जना एवमाहुः स्वकीयं हस्तमुपरितनं कृतवानिति । ‘वर्चः’ कान्तिः, तामपि ‘उदतिरं’,


* कार्यनाशुनेनेति तै० पाठः ।
† शास्त्रीयमार्गवर्त्तीति तै० पाठः ।
‡ शरीरशक्तिः इति तै० पाठः ।
§ जयशोलमिति तै० पाठः ।

2 D

२१८ तैत्तिरीये आरण्यके

ब्रह्म॑णाऽमि॒त्रानुन॑यामि॒ स्वां ३ अहं^{(१६)} । ^{(१७)}पुनर्मन॑ः पुन॒रायु॑र्म॒ आगा॒त् पुन॒श्चक्षु॑ः पुन॒: श्रोत्रं॑ म॒ आगा॒त् पुन॑: प्रा॒णः पुन॒राकू॑तं म॒ आगा॒त् पुन॑श्चि॒त्तं पुन॑राधी॒तं म॒ आगा॑त् । वै॒श्वा॒न॒रो मेद॑ब्धस्तनू॒पा अव॑बाधतां दु॒रि- तानि॒ विश्वा॑^{(१७)} ॥ ३ ॥

पोष॑ं, दधासि, पुरोहि॑तः, च॒त्वारि॑ च ॥ ५ ॥

'अथो' अपि च, 'बलं' शरीरशक्तिः, तामपि 'उदतिरं' उत्कर्षं प्रापयामि, 'ब्रह्मणा' मन्त्रसामर्थ्येन 'अमित्रान्' शत्रून्, 'चिणोमि' क्षीणान् करोमि । 'स्वान्' स्वकीयान् पुरुषान्, 'अहं', 'उन्नयामि' उत्कर्षं प्रापयामि ॥

अथ सप्तदशीमाह । ^{(१७)}“पुनर्मनः • दुरितानि विश्वा” ^{(१७)} इति । मनःप्राणादीनां पापेन योपचयः प्राप्तः तस्य पापस्यानेन कर्मणा विनाशितत्वात् मे 'मनः', 'पुनः', अपि 'आगात्' अस्मिन् शरीरे समागच्छतु । एवमायुरादयोऽपि समागच्छन्तु । 'आकृतं' सङ्कल्पितं कार्यं । 'चित्तं' मनोज्ञन्यं ज्ञानं । 'आधीतं' साकल्येन पठितो वेदः । एतेषां सर्वेषामगमनार्थं 'वैश्वानरो 'मे', 'विश्वा' सर्वाणि, 'दुरितानि', 'अवबाधतां' विनाशयतु । कीदृशो वैश्वानरः, 'अदब्धः' केनाप्यहिंसितः, 'तनूपाः' मदीयशरीरपालकः ॥

इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥

२ प्रपाठके ६ अनुवाकः । २१६

अथ षष्ठोऽनुवाकः ।

(१)वै॒श्वा॒न॒राय॑ प्रतिवे॒दया॑मो॒ यदी॑न्तृण॒ꣳ सङ्गरो॑ दे॒वता॑सु । स ए॒तान् पाशा॑न् प्रमु॒चन् प्रवे॑द् स नो॑ मुञ्चातु दुरि॒तादव॑द्यात्^(१) । ^(२)वै॒श्वा॒न॒रः प॑वयान्नः प॒वित्रे॑-


अथ षष्ठोऽनुवाकः ।

अथ षष्ठानुवाकोक्तासु ऋक्षु प्रथममाह* । (१)“वैश्वानराय ० दुरितादवद्यात्”^(१) इति । ‘यदोन्तृणं’ यदेव प्रसिद्धमृणं, ‘देवतासु’ ‘सङ्गरः’ प्रतिज्ञारूपेण श्रुत्या सम्पादितः सङ्गरशब्दः प्रतिज्ञावाची । प्रतिज्ञा चैवं श्रूयते । त्रिभिर्ऋणैर् वा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । तदेतदृणं त्रिविधं ‘वैश्वानराय’ अस्मत्स्वामिने, ‘प्रतिवेदयामः’ विज्ञापयामः । तत्र देवताशब्देन ऋषयः पितरश्चोपलक्षिताः, ‘सः’ वैश्वानरः, ‘एतान्’ ऋणत्रयरूपान्, ‘पाशान्’, ‘प्रमुचन्’ प्रमोक्तुं, ‘प्रवेद’ प्रकर्षेण जानाति । ‘सः’ अभिज्ञो वैश्वानरः, ‘नः’ अस्मान्, ‘दुरितात्’ परलोकविरोधिनः पापात्, ‘अवद्यात्’, इह लोके निन्दादोषाच्च ‘मुञ्चतु’ मुक्तान् करोतु ॥

अथ द्वितीयामाह । (२)“वैश्वानरः ० सुवामि”^(२) इति । ‘वैश्वानरः’, देवः, ‘नः’ अस्मान्, ‘पवित्रैः’ शुद्धिहेतुभिः


* षष्ठानुवाके प्रथममाहेति तै० पाठः ।
2 D 2

२२० तैत्तिरीये आरण्यके

यत् स॒ङ्गर॑म॒भिधा॒वाम्याशां॑ । अना॑जान॒न् मन॑सा या- च॑मानो॒ यच्चै॑नो॒ अव॒ तत् सु॑वामि^(१)। ^(२)अ॒मी ये सु॒भगे॑ दि॒वि विचृ॑तौ॒ नाम॒ तार॑के । प्रेहा॒मृत॑स्य यच्छतामे-

होमादिभिः, 'पवयात्' शोधयतु । 'यत्' येन शोधनेन, 'सङ्गरं' श्रुत्युक्तां प्रतिज्ञामृणचयरूपां, 'आशां' मयापि प्रत्य- र्पणीयत्वेन शासनीयां, 'अभिधावामि' आभिमुख्येन शीघ्रं प्राप्नोमि, *तादृशं प्रपातनं* कुर्यादित्यर्थः । 'अनाजानन्' ऋणनिर्मोचनोपायान् सर्वान् अपि अजानन्, 'मनसा याच- मानः' अनृणो भूयासमिति सर्वदा प्रार्थयमानोऽस्मि । 'अत्र' उपायापरिज्ञाने, 'यत्' 'एनः' पापं, अस्ति तत् पापं 'अव- सुवामि' वैश्वानरप्रसादेन विनाशयामि ॥

अथ तृतीयामाह । ^(१)“अमी ये ० तद्वद्धकमोचनं”^(१) इति । 'दिवि' आकाशे, 'विचृतौ नाम' विचृन्नामयुक्ते, द्वे 'ता- रके' लोके मघाशब्देन व्यवह्रियमाणे, 'सुभगे' सौभाग्ययुक्ते, 'अमी' अमू प्रत्यक्षेणास्माभिर्दृश्यमाने ये विद्येते ते उभे, 'इह' कर्मणि, 'अमृतस्य' ऋणापाकरणरूपममृतं सुखं, 'प्रय- च्छतां', 'एतत्' तारकाभ्यां दत्तममृतं सुखं, बद्धकस्य मम मोचनं ऋणमोचनसाधनं, ऋणचयेन यो बद्धः स एव वा


* तादृशं पावनमिति तै० पाठः

२ प्रपाठके ६ अनुवाकः । २२१

तद॑ङ्क॒मोच॑नं^(३) । ⁽४⁾विजि॑हीर्ष॒ लोका॒न् कृ॑धि॒ बन्धा॒न्मुञ्चा॑सि॒ बद्ध॑कं । योने॑रि॒व प्रच्यु॑तो॒ गर्भः॒ सर्वा॒न् पथो॒ अनु॑ष्व^(४) । ⁽५⁾स प्र॑जा॒नन् प्रति॑गृह्णीत वि॒द्वान् प्र॒जाप॑-

अत्यन्तकुत्सितत्वाद्वद्धुक इत्युच्यते। पितृदेवताकाभ्यां मघाभ्यां तारकाभ्याममवृत्यादिप्रकाशनेन तस्मादृणत्रयात् मुक्तो भवामीत्यभिप्रायः॥

अथ चतुर्थीमाह। ⁽४⁾“विजिहीर्ष लोकान् ० अनुष्व”⁽४⁾ इति। अत्र मन्त्रद्रष्टा कश्चिदृषिरधमर्णं सम्बोध्य ब्रूते। हे अधमर्ण ‘विजिहीर्ष’ विहर्तुमिच्छ, पारतन्त्र्यराहित्येन सुखसञ्चारो विहारः, तत्सिद्धार्थं ‘लोकान् कृधि’ पुण्यानुष्ठानेनोत्तमलोकान् सम्पादय, ‘बद्धकं’ ऋणेन कुत्सितेन बद्धं आत्मानं, ‘बन्धात्’ ऋणत्रयरूपात्, ‘मुञ्चासि’ मुक्तं कुरु। बन्धाद्विमोके दृष्टान्तः। ‘योनेः प्रच्युतो गर्भ इव’ उदरमध्ये सर्वावयवसङ्कोचेन निर्बध्यमानो गर्भो योनेर्बहिः पतितो यथा निर्बन्धात् मुक्तो भवति। तद्वत् तदृणत्रयात् मुक्तस्त्वं ‘सर्वान्’, ‘पथः’ पुण्यलोकमार्गान् ‘अनुष्व’ संवस्वेत्यर्थः॥

अथ पञ्चमीमाह। ⁽५⁾“स प्रजानन् ० तन्तुमनुसञ्चरेम”⁽५⁾ इति। ‘सः’ ‘प्रजापतिः’, अस्माभिर्दत्तं हविः ‘प्रतिगृह्णीत’ प्रतिगृह्णीत, स्वीकरोतु। कीदृशः प्रजापतिः। ‘ऋतस्य प्रथमजाः’ सत्यस्य परब्रह्मणः प्रथमः पुत्रः। किं कुर्वन्, ‘प्रजानन्’ अस्मत्-