भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

२२६ तैत्तिरीये आरण्यके

तच॑ प॒श्येम॑ पि॒तरं॑ च पु॒त्रं⁽१०⁾ ॥ ⁽११⁾यदन्न॑म॒द्म्यनृ॑तेन दे॒वा दा॒स्यन्नदा॑स्यन्नु॒तवा॑ क॒रिष्यन्॑ । यद्दे॒वानां॑ च- क्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॒ प्रति॑ज॒ग्राह॒मग्निर्मा॒ त- स्मा॑दनृ॒णं कृ॑णोतु⁽११⁾ । ⁽१२⁾यदन्न॑म॒द्मि ब॑हु॒धा विरू॑पं वासो॒ हिर॑ण्यमु॒त गा॒मजा॒मविं॑ । यद्दे॒वानां॑ चक्षु॑ष्यागो॒

अथैकादशीमाह । (११)“यदन्नमद्म्यनृतेन • कृणोतु”(११) इति । हे 'देवाः', अहं 'दास्यन्नदास्यन्' प्रत्यर्पणं चिकीर्षुरचिकी- र्षुर्वा, तात्कालिकेन सर्वथा प्रत्यर्पयिष्यामीत्येतादृशेन 'अनृत- वचनेन,' धनमादाय 'यदन्नं', 'अद्मि' भक्षयामि, अथवा कि- ञ्चित्कार्यं परकीयं करिष्यामीत्यनेनानृतेन वचनेन धनमा- दाय तत्कार्यं 'अकरिष्यन्', 'यदन्नमद्मि', 'यत्', अपि 'देवानां', 'चक्षुषि' दृष्टिविषये, मयाकृतं 'आगः', पापं, 'अस्ति', आदित्याभिमुख्येन मूत्रविसर्गादि । तथा च स्मर्यते, प्रत्या- दित्यं प्रत्यनिलं प्रतिगाञ्च प्रतिद्विजं । मेहन्ति ये च पापिष्ठा- स्ते भवन्ति गतायुष इति । 'किञ्च,' 'यदेव' किञ्चिच्छूद्रादिधनं, 'प्रतिजग्राह' प्रतिगृहीतवानस्मि, 'तस्मात्' सर्वस्मादेनसः, विमुच्यायं 'अग्निः', 'अनृणं' ऋणरहितं, करोतु ॥

अथ द्वादशीमाह । (१२)“यदन्नमद्मि • कृणोतु”(१२) इति । 'बहुधा विरूपं' द्रव्यदोषात् कर्तृदोषाद्देशकालदोषादिना वा

२ प्रपाठके ६ अनुवाकः । २२७

अस्ति॒ यद्दे॒व किञ्च॑ प्रतिज॒ग्राह॒मग्नि॒र्मा तस्मा॒दनृ॒णं कृ॑णोतु^{(१९)} । ^{(१२)}यन्म॑या॒ मन॑सा वा॒चा कृतमे॑नः कदा॑चन । सर्व॑स्मात् तस्मा॑न् मेर्डि॒तो मो॒ग्धि॒ त्वꣳ हि वेत्थ॑ य॒थात॒थं^{(१२)}} ॥ २ ॥

च॒रे॒म, पु॒त्रꣳ, षट् च॑ ॥ ६ ॥

बहुप्रकारेण शास्त्रनिषिद्धं, 'यदन्नमद्मि', तथा वस्त्रादीनपि निषिद्धान् स्वीकरोमि । यद्देवानामित्यादि पूर्ववत् ॥

अथ त्रयोदशीमाह । ^{(१२)}“यन्मया ० यथातथं”^{(१२)} इति । 'मया' कर्त्रा । 'कदाचन' इह जन्मनि जन्मान्तरे वा यदा कदाचिदपि, 'मनसा वाचा', वा 'यदेनः कृतं', हे अग्ने अस्माभिः 'ईडितः' स्तुतस्त्वं, मां 'तस्मात् सर्वस्मात्', एनसः 'मोग्धि' मुञ्च, 'हि' यस्मात् कारणात्, हे अग्ने त्वं 'यथातथं', 'वेत्थ' वस्तुनस्तथालमनतिक्रम्य यथातथं यस्य पापस्य यः प्रतीकारस्तस्य तत् सर्वं जानासि, तस्मान्मां पापान्मुञ्च ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥

2 E 2

२२८ तैत्तिरीये आरण्यके

अथ सप्तमोऽनुवाकः ।

(१)वातरशना ह वा ऋष॑यः श्रमणा ऊर्ध्वम॑न्थिनो॑ ब॒भूवु॒स्तान्ऋषयो॒ऽर्थमा॑य॒ꣳस्तेऽनि॑लाय॒मच॑र॒ꣳस्तेऽनु॑प्रविशुः कू॒श्माण्डा॑नि॒ ताꣳस्तेष्व॑न्वविन्द॒ञ्छ्रद्धया॑ च॒ तप॑सा


अथ सप्तमोऽनुवाकः ।

षष्ठेऽनुवाके कूष्माण्डहोमाङ्गमन्त्राः समापिताः । सप्तमे स होमो विधीयते* । तदर्थमाख्यायिकामाह । (१)“वातरशना • तपसा च”(१) इति । पूर्वप्रपाठके ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन्निति त्रिविधा ऋषयो ये आख्याताः, तन्मध्ये ये ‘वातरशनाख्या ऋषयः’, ‘श्रमणाः’ तपस्विनः, ‘ऊर्ध्वमन्थिनः’ ऊर्ध्वरेतसः, ‘बभूवुः’, ‘तान्’ वातरशनाख्यानृषीन्, प्रत्यन्ये केचित् ‘ऋषयः’, ‘अर्थमायन्’ अर्थयितुमागताः, तं वृत्तान्तमादावेवागत्य किमशक्यमेते करिष्यन्ति इति निश्चयसहितास्ते ‘वातरशनाः’, ‘अनिलायं’ कुत्रचिदन्तर्हिताः, ‘अचरन्’ अन्तर्द्धानस्थानं विचार्य योगसामर्थ्यात् सूक्ष्मशरीरा भूत्वा कूष्माण्डाख्यानि मन्त्रवाक्यानि अनुप्रविष्टाः, इतरे तु महर्षयः श्रद्धापूर्वकेन ‘तपसा’, शुद्धचित्ताः† सन्तः


* कूष्माण्डाख्यहोममन्त्राः समाम्नाताः । सप्तमे होमविधिरुच्यते इति तै० पाठः ।
† युक्तचित्ता इति तै० पाठः ।

२ प्रपाठके ७ अनुवाकः। २२९

च॒^(१)। ^(१)तान्वृष॑योऽब्रुवन् क॒या नि॒लायं॑ चर॒थेति॑ त ॠ- षी॑नब्रुवन्नमो॑ वोऽस्तु भगवन्तो॒स्मिन्धाम्नि॒ केन॑ वः सप- र्या॒मेति॒ तान्ट॒षयो॑ऽब्रुवन् प॒वित्रं॑नो ब्रूत॒ येना॑रे॒पस॑ स्या- मेति॒ त ए॒तानि॑ सू॒क्तान्य॑पश्यन्^(२)। ^(२)यद्दे॑वा दे॒व हेड॑नं

ध्यानेनान्विष्य ते 'तेषु' कूश्माण्डमन्त्रेषु, अवस्थितान् वातर- शनाख्यान् 'तान्' ऋषीन्, प्रत्यक्षेण किल अपश्यन् ॥

अथ तेषामुभयेषां परस्परसंवादं दर्शयति। ^(१)"तान्वृ- षयः ० सूक्तान्यपश्यन्"^(२) इति। 'तान्' वातरशनान्, 'ऋषयः', इतरे 'अब्रुवन्', हे वातरशनाः 'कया' केन हेतुना, 'निला- यं' निलीय, 'चरथेति', 'ते' च वातरशनाः, तैः पृष्टाः सन्त- स्तानुपचरितुमिदं 'अब्रुवन्', हे 'भगवन्तः' ऐश्वर्यादिषड्गुण- युक्ताः, 'वः' युष्मभ्यं, नमस्कारः 'अस्तु', महात्मानो यूयमस्मदीये 'धाम्नि' समागताः, अतोऽत्र 'केन' साधनेन, युष्मान् परिच- रेमेति ततः 'तान्' वातरशनान्, इतरे 'अब्रुवन्', 'येन' साधनेन, 'अरेपसः' पापरहिताः, 'स्याम', तादृशं 'पवित्रं' शुद्धिकारणं, अस्मभ्यं 'ब्रूतेति', 'ते' वातरशनाः, अप्रया- सेन सहसा शुद्धिप्रदं विचार्य 'एतानि' वक्ष्यमाणानि, 'सूक्ता- नि' तेषां कथनयोग्यानीति निश्चितवन्तः ॥

अथ तदुक्तं प्रयोगक्रमं दर्शयति। ^(२)"यद्देवा ० मोच्यध्व

२३०तैत्तिरीये आरण्यके

यद्दीव्यन् नृ॒णम॒हं ब॒भूवायु॒ष्टे वि॒श्वतो॑ दध॒दित्येतै॒- रा॒ज्यं॑ जुहुत वैश्वान॒राय॒ प्रति॑वेदयाम् इत्युप॑तिष्ठत॒ य- दर्वा॒चीन॒मेनो॑ भ्रूण॒हत्या॑या॒स्तस्मान् मोक्ष्यध्व॒ इति॑^{(३)} ^{(४)}त ए॒तैर॑जुहवु॒स्तेऽरे॒पसो॑ऽभवन्^{(४)} ^{(५)}कर्मा॑दि॒ष्वेते॑- र्जुहुया॑त् पू॒तो दे॑वलो॒कान्त्सम॑श्नुते^{(५)} ॥ ७ ॥*

इति''(३) इति। अनुवाकत्रयेण होमः। चतुर्थानुवाकेनोप- स्थानं। वेदत्रयविद्ब्राह्मणः 'भ्रूणः', तदीयहत्याया अर्वाचीनं यत् पापं, 'तस्मात्' सर्वस्मात्, मुक्ता भविष्यथेति ॥

इतरमहर्षिवृत्तान्तमाह । ^{(४)}“त एतैरजुहवुस्तेऽरेपसो- ऽभवन्”^{(४)} इति। 'अरेपसः' पापरहिताः ॥

इदानीं विधत्ते । ^{(५)}“कर्मादिष्वेतेः०समश्नुते”^{(५)} इति। प्रारप्स्यमाणकर्मप्रारम्भेषु कूष्माण्डहोमेन पूतस्य देवलोकप्राप्ति- र्भवति ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥


* मदृष्टपुस्तकत्रयेषु दशतिसङ्ख्यायिका रेखा न सन्ति । प्रतीक-सङ्ग्रहोऽपि नास्ति।

२ प्रपाठके ८ अनुवाकः। २३१

अथाष्टमोऽनुवाकः।

(१)कू॒ष्मा॒ण्डैर्जु॑हुया॒द्यो पू॒त इ॑व॒ मन्ये॑त(१) (२)यथा॑- स्ते॒नो यथा॑ भ्रू॒णहैवमे॒ष भ॑वति॒ योऽयो॑नौ॒ रेतः॑ सि॒ञ्चति॑(२) (३)यद॒र्वाची॑न॒मेनो॑ भ्रू॒ण॒हत्या॑या॒स्तस्मा॑न्


अथाष्टमोऽनुवाकः।

सप्तमे कूष्माण्डहोमः कर्मादिषु विहितः। अष्टमे दीक्षादिकं विधीयते। तत्रादौ कर्मादिव्यतिरिक्तस्थले होमं विधत्ते। (१)“कूष्माण्डैः • इव मन्येत”(१) इति। ‘यः’ पुमान्, सन्दिग्धेन पापेन स्वस्य पूतत्वं नास्तीति मनसि शङ्कते स पुमान् कूष्माण्डहोमेन पूतो भवति॥

अथ महापातकसमस्य पापस्य निवृत्त्यर्थं होमं विधत्ते। (२)“यथास्तेनः • रेतः सिञ्चति”(२) इति। ‘अयोनौ’ प्रतिषिद्धयोनौ, ‘यो रेतः सिञ्चति’, ‘एषः’ सुवर्णस्तेयकारिणा* भ्रूणहत्याकारिणा च समो भवति, सोऽपि ‘कूष्माण्डैर्जुहुयात्’॥

तेनोक्तेन होमेन यथोक्तपापनिवृत्तिं दर्शयति। (३)“यद॒र्वाचीनं • मुच्यते”(३) इति। भ्रूणहत्यासमस्यापि मुख्यभ्रूणहत्याया अर्वाचीनत्वात्तेन होमेन निवृत्तिर्युज्यते॥

* सुवर्णहारिणा इति तै० पाठः

२१२ तैत्तिरीये आरण्यके

मु॒च्यते^{(३)} । ^{(४)}या॒वदे॑नो दी॒क्षामु॒पैति॑ दी॒क्षित॑ ए॒तैः सं॒ततिं॑ जु॒होति^{(४)} । ^{(५)}सं॒व॒त्स॒रं दी॑क्षि॒तो भ॑वति संवत्स॒रादे॒वात्मा॑नं॑ पुनीते^{(५)} । ^{(६)}मासं॑ दीक्षि॒तो भ॑वति॒ यो मासः॒ स सं॑वत्स॒रः सं॑वत्स॒रादे॒वात्मा॑नं॑ पुनीते॒ चतु॑र्विꣳश- तिꣳ रात्री॒र्दीक्षि॑तो भ॑वति॒ चतु॑र्विꣳशतिरर्धमा॒साः सं॑वत्स॒रः सं॑वत्स॒रादे॒वात्मा॑नं॑ पुनीते॒ द्वाद॑श रात्री॒-


तेन भ्रूणहत्याया अर्वाचीनानामपि तारतम्योपेतत्वात् क- थमेकेन होमेन* निवृत्तिरित्याशङ्क्य दीक्षातारतम्येनेत्युत्तरं दर्शयति । ^{(४)}“यावदेनः ० जुहोति”^{(४)} इति । अल्पं महद्वा ‘या- वदेनः’, भवति तदनुसारेणाल्पां महतीं वा ‘दीक्षां’, कृत्वा त- स्तैनस उपचिते काले प्रतिदिनं ‘जुहोति’, तत्र तारतम्येन षड्भेदाः^\dagger ॥

तत्र प्रथमं दीक्षाभेदं दर्शयति । ^{(५)}“संवत्सरं ० पुनीते” ^{(५)} इति । न मांसमश्नीयादिति नियमाचरणं दीक्षायाः, ‘ पापाधिक्ये सति ‘संवत्सरं दीक्षितः’, भूत्वा तस्मिन् संवत्सरे प्रतिदिनं जुहुयात् । तया संवत्सरदीक्षया स्वात्मानं शोधयति ॥

पापह्रासानुसारेण दीक्षायाः पक्षान्तराणि विधत्ते । ^{(६)}“मासं दीक्षितः ० पुनीते”^{(६)} इति । पापबाहुल्ये सति संवत्सरनियमेन


* कथमेकविधहोमेन इति तै० पाठः ।
\dagger षड्विधा दीक्षाः इति तै० पाठः ।

२ प्रपाठके ८ अनुवाकः । २३३

दी॒क्षि॒तो भ॑वति द्वाद॑श॒ मासा॑: संवत्स॒रः सं॑वत्स॒रा- दे॒वात्मानं॑ पुनी॒ते षड्रा॒त्रीर्दीक्षितो॑ भवति॒ षड्वा ऋ॒त- व॑: संवत्स॒रः सं॑वत्स॒रादे॒वात्मानं॑ पुनीते तिस्रो रा॒त्री- र्दीक्षितो भवति त्रिप॑दा गाय॒त्री गा॑य॒त्र्या ए॒वात्मानं॑ पुनीते॑^(६) । ^(७)नमा॒ꣳसम॑श्नीया॒न्न स्त्रिय॑मुपे॒यान्नोप॑री- सीत जुगु॑प्सेता॒नृता॑त्^(७) । ^(८)पयो॑ ब्रा॒ह्म॒णस्य॑ व्र॒तं य॑- वा॒गूरा॑ज॒न्य॑स्यामि॒क्षा वैश्य॑स्य^(८) । ^(९)अथो॑ सौम्ये-


या शुद्धिः पापाल्पत्वे सा शुद्धिर्मासमात्रेण समाप्यते । एव- मुत्तरेष्वपि । अतः सर्वेषां संवत्सरसाम्यं । गायत्रोपादानं चित्वसाम्येन त्रिरात्रदीक्षाया गायत्रीत्वात् तयैव शुद्धिर्भवति ॥

अथ नियमान् विधत्ते । ^(७)“नमाꣳसमश्नीयात् ॰ जुगु- प्सेतानृतात्”^(७) इति । ‘उपरि’ खट्वादा । स्पष्टमन्यत् ॥

अथ वर्णभेदेन दीक्षादिनेषु* भोजनद्रव्यविशेषं विधत्ते । ^(८)“पयो ब्राह्मणस्य ॰ वैश्यस्य”^(८) इति । ‘व्रतं’ भोजनमि- त्यर्थः ॥

तदेतद्व्रतं प्रशंसति । ^(९)“अथो सौम्ये ॰ ब्रूयात्”^(९) इति । अपि च न केवलं कूष्माण्डहोमकर्मण्येवैतद्व्रतं, किन्तु


* अथ जातिभेदेन दीक्षादिवसेषु इति तै० पाठः
2 F

२३४तैत्तिरीये आरण्यके

प्य॑ध्व॒र ए॒तद्व्र॒तं ब्रू॑यात्⁽९⁾ । ⁽१०⁾यदि॑ मन्येतोप॒दस्या॒मीत्यो॑द॒नं धा॒नाः सक्तून् घृ॒तमित्यनु॑व्रतयेदा॒त्मनो॑- ऽनु॑पदासाय⁽१०⁾ ॥ ८ ॥


सोमयागेऽपि 'एतत्', एव दीक्षा 'व्रतं',* कर्त्तव्यमित्येव 'ब्रूयात्' । यस्मान् महत्यपि यज्ञे व्रतमिदमपेक्षितं तस्मा- दिदं प्रशस्तं ॥

अशक्तं प्रति कञ्चिद्विशेषं विधत्ते । (१०)“यदि मन्येत ॰ आत्मनोऽनुपदासाय”(१०) इति । दीक्षितो यथोक्तव्रतेन 'उप- दस्यामि' उपक्षीणे भवामि, इति 'यदि मन्येत', तदानीं यथोक्तदीक्षादिव्रतमनुशरीरस्योपचयपरिहारार्थमोदनादिकं यत्किञ्चित् 'अनुव्रतयेत्' भुञ्जीत, 'धानाः' भृष्टयवतण्डुलाः, 'सक्तवः' तत्पिष्टानि, 'इति'शब्देन ईदृशमन्यदपि विव- क्ष्यते ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥


* सोमयागेऽप्येतद्व्रतं दीक्षान्तमिति तै० पाठः ।

२ प्रपाठके ९ अनुवाकः । २३५

अथ नवमोऽनुवाकः ।

(१)अजा॒न् ह॒ वै पृश्नीँ॒स्तप॑स्यमा॒नान् ब्रह्म॑ स्व॒यं स्व॑य॒म्भ्वभ्या॑न॒र्षत् तदृष॑योऽभवंस्तदृषी॑णा॒मृषि॒त्वन्तां दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञका॑मास्त ए॒तं ब्रह्म॑य॒ज्ञम॑पश्यन्त-


अथ नवमोऽनुवाक ।

अस्य प्रपाठकस्य स्वाध्यायब्राह्मणमिति समाख्यानात् स्वाध्याय एवात्र प्राधान्येन विधेयः । तस्मिंश्च शुद्धः पुमानधिकारी । अतः शुद्धिहेतून् यज्ञोपवीतसन्ध्यावन्दनकूष्माण्डहोमानभिधाय स्वाध्यायं विधातुमुपाख्यानमाह । (१)“अजान् ॰ तेनायजन्त”(१) इति । कल्पादावेव ब्रह्मणा सृष्टाः न ह्यस्मदादिवत् कल्पमध्ये पुनः पुनर्जायन्ते तस्मात् ‘अजाः’ । ते च ‘पृश्नयः’ शुक्लाः, स्वरूपेणैव निर्मलाः सन्तोऽपि, पुनस्तप आचरन् । तदीयेन तपसा तुष्टं ‘स्वयम्भू’, ‘ब्रह्म’ जगत्कारणत्वेन स्वतः सिद्धं परब्रह्मवस्तु, काञ्चिन्मूर्त्तिं धृत्वा ‘तपस्यमानान्’, तानृषीननुग्रहीतुं* ‘अभ्यानर्षत्’ आभिमुख्येन प्रत्यक्षमगच्छत् । ततस्ते मुनयः ऋषिधात्वर्थविषयत्वात् ‘ऋषयोऽभवन्’ । तस्मादन्येषामपि ‘ऋषीणां’, अनयैव व्युत्पत्त्या ‘ऋषित्वं’, सम्पन्नं । ततस्ते मुनयः सर्वकामप्रदं कञ्चिद्यज्ञं कामयमानाः स्वयम्भू ब्रह्मरूपां ‘तां देवतां’, उपासितवन्तः† । तद्देवतानुग्रहात्ते


* अनुग्रहहेतोरिति तै० पाठः । † उपस्थितवन्त इति तै० पाठः ।
2 F 2

२३६तैत्तिरीये आरण्यके

माह॑र॒न्तेना॑यजन्त^(१)। ^(२)यद‍ृचो॒ऽध्यगी॑षत॒ ताः पय॑ आ॒हुत॑यो दे॒वाना॑मभव॒न्यद्यजूं॑षि घृ॒ताहु॑तयो॒ यत्साम॑ानि॒ सोमा॑हुतयो॒ यदथ॑र्वाङ्गिर॒सो मध्वा॑हुतयो॒ यद्ब्रा॑ह्म॒णानी॑तिहा॒सान् पु॑रा॒णानि॑ क॒ल्पान् गाथा॑ नारा-


मुनयः 'एतं' वक्ष्यमाणं, 'ब्रह्मयज्ञं', सर्वकामहेतुं 'अपश्यन्' दृष्ट्वा च, 'तं' यज्ञं, 'आहरन्' अनुष्ठितवन्तः । 'तेन' यज्ञेन, देवानपूजयन्त ॥

ब्रह्म वेदः तस्या*ध्ययनमेव सम्पादितं । न तु यज्ञत्वमिति †मतिं वारयितुं तचाङ्गतः सम्पादयति । ^(२)“यद‍ृचोऽध्यगीषत ० सायुज्यमृषयोऽगच्छन्”^(२) इति । पादबद्धमन्त्राः 'ऋचः', 'ता अध्यगीषत' ये ते ऋषयोऽधीतवन्त इति यदस्ति ता अध्ययनक्रियाः, 'देवानां', क्षीरद्रव्याऽऽहुतयः 'अभवन्', तदाहुत्या या तुष्टिः सा तेषामृगध्ययनेन सम्पन्ना । एतदन्यत्रापि योज्यं‡ । अथर्वाङ्गिरोभिश्च दृष्टा मन्त्राः 'अथर्वाङ्गिरसः' । 'ब्राह्मणानि' कर्मचोदना, वायव्यꣳ श्‍वेतमालभेतेत्यादयः । 'इतिहासाः' महाभारतादयः§ । देवा सुराः संयत्ता आसन् इत्यादयः । आत्मा वा इदमेक एवाग्र आसीन्नैवेह किञ्चनाग्र


* ब्रह्मयज्ञस्या- इति तै० पाठः ।
† शङ्कानिवारयितुमिति तै० पाठः ।
‡ एवमुत्तरत्रापि योज्यमिति तै० पाठः ।
§ ब्रह्माख्यादिनियमा इति तै० पाठः ।

२ प्रपाठके ९ अनुवाकः । २३७

शꣳसो॒ मैदाहुतयो॑ दे॒वाना॑मभव॒न्ताभिः॒ क्षुधं॑ पा॒प्मान॒- मपा॑घ्नन्नप॑हतपाप्मानो दे॒वाः स्व॒र्गं लो॒कमा॑यन्॒ ब्रह्म॑- णः सायु॑ज्यमृषयोऽगच्छन्^(१) ॥ ९ ॥

इत्यादीनि सृष्ट्यादिप्रतिपादकानि* ‘पुराणानि’ । ‘कल्पाः’ कल्पसूत्राणि प्रयोगप्रतिपादकानि । ‘गाथाः’ गायति† चोदिता मन्त्रविशेषाः, योस्य कौष्ठ्येत्यादयः । यमगाथाभिः परिगाय- तीति विधानात् । ‘नाराशंसीः’ नाराशंस्यः, होता यद्यन्व- राशंसीमित्याद्याः । ब्राह्मणान्तपठितानामपि पुनरुक्तिः फला- तिशयद्योतनार्थं । ‘मेदाहुतयः’ मांसाहुतयः, ‘ताभिः’ आहु- तिभिः, देवाः क्षुद्रूपं ‘पाप्मानं’, विनाशितवन्तः । स्वाध्याय- जन्यतृप्त्या‡ क्षुधं विस्मृतवन्तः ततः क्षुद्रूपपापरहिताः ‘देवाः’, सुखमनुभवितुं ‘स्वर्गं’, गताः । ‘ऋषयः’ च पूर्वोक्ता, अध्यय- नेन ब्रह्मयज्ञेन जगत्कारणस्य ‘ब्रह्मणः’,§ ‘सायुज्यं’, प्राप्ताः । ब्रह्मज्ञानोत्पादनद्वारा मुक्तिहेतुत्वं ब्रह्मयज्ञस्य युक्तं । अतएव ज्ञानसाधनेषु प्राथम्येन वेदानुवचने वाजसनेयिनः समामन- न्ति, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दा- नेन न तपसा नाशकेनेति ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके द्वितीयप्रपाठके नवमोऽनुवाकः ॥ ९ ॥


* इदं वा अग्रे नैव किञ्चनासीदित्यादिसृष्टिप्रतिपादकानि इति [तै० पाठः ।
† गायन्ति इति तै० पाठः ।
‡ स्वाध्यायस्वस्तिजन्यतृप्त्या इति तै० पाठः ।
§ परब्रह्मण इति तै० पाठः ।

२१८ तैत्तिरीये आरण्यके

अथ दशमोऽनुवाकः ।

(१)प॒ञ्च वा ए॒ते म॑हाय॒ज्ञाः संत॑ति प्र॒तायं॑न्ते॒ सत॑ति॒ सन्ति॑ष्ठन्ते देवय॒ज्ञः पि॑तृय॒ज्ञो भू॒तय॒ज्ञो मं॑नुष्यय॒ज्ञो ब्रह्म॑य॒ज्ञ इति॑(१) । (२)यद॒ग्नौ जुहोत्यपि॑ स॒मिधं॒ तद्दे॑व

अथ दशमोऽनुवाकः ।

नवमे ब्रह्मयज्ञविधिप्रस्तावार्थमुपाख्यानमुक्तं । इदानीं तद्विधिप्रसङ्गेन पञ्च महायज्ञान् विधत्ते । (१)“पञ्च वा ॰ ब्रह्मयज्ञ इति”(१) इति । एवं* यज्ञानां पाठतः पञ्चत्वं† । न तु स्वरूपविस्तारेण । ‘सतति’ सततं दिने दिने, ‘प्रतायन्ते’ अनुष्ठीयन्ते‡ ‘सतति’ प्रतिदिनं, ‘सन्तिष्ठन्ते’ समाप्यन्ते, यस्मिन् दिन उपक्रमस्तस्मिन्नेव दिने तत्समाप्तिः न तु यज्ञान्तरवद्दिनान्तरापेक्षा । देवयज्ञ इत्यादीनि तेषां नामानि ॥

तत्र देवयज्ञस्य लक्षणमाह । (२)“यदग्नौ ॰ सन्तिष्ठते”(२) इति । ‘तत्’ पुरोडाशादिहविः,§ मुख्यं तदलाभे ‘समिधं’,


* एषामिति तै० पाठः ।
† यज्ञानां फलतो महत्त्वमिति तै० पाठः ।
‡ अनुतिष्ठन्ते इति तै० पाठः ।
§ घृतपुरोडाशादिहविरिति तै० पाठः ।

२ प्रपाठके १० अनुवाकः । २३६


य॒ज्ञः सन्ति॑ष्ठते^(२) । ^(३)यत् पि॒तृभ्य॑: स्व॒धाक॒रोत्यप्य॒प- स्तत्पि॑तृय॒ज्ञः सन्ति॑ष्ठते^(३) । ^(४)यद्भू॒तेभ्यो॒ बलिं॑ꣳ हर॑ति तद्भू॑तय॒ज्ञः सन्ति॑ष्ठते^(४) । ^(५)यद्ब्राह्म॑णेभ्योन्नं॒ ददा॑ति तन्म॑- नुष्यय॒ज्ञः सन्ति॑ष्ठते^(५) । ^(६)यत्स्वा॒ध्याय॑मधीयी॒तैका॑मप्यृ॒चं


अपि 'अग्नौ', देवानुद्दिश्य 'जुहोति', इति 'यत्', सोयं 'देवयज्ञः', स च सकृद्धोममात्रेण समाप्यते* ॥

पितृयज्ञस्य लक्षणमाह । ^(३)"यत् पितृभ्यो ० सन्तिष्ठते"^(३) इति । तत्र पिण्डदानासम्भवे† जलमात्रमपि पितृभ्यः स्वधा- स्त्विति स्वधाशब्देन 'यत्', ददाति सोऽयं 'पितृयज्ञः', तावतैव समाप्यते ॥

भूतयज्ञस्य लक्षणमाह । ^(४)"यद्भूतेभ्यो ० सन्तिष्ठते"^(४) इति । वैश्वदेवानुष्ठानादूर्ध्वं बहिर्देशे वायसादिभ्यः 'भूतेभ्यः', 'यत्', बलिप्रदानं सोऽयं 'भूतयज्ञः', तावतैव समाप्यते ॥

मनुष्ययज्ञस्य लक्षणमाह । ^(५)"यद्ब्राह्मणेभ्योन्नं ० मनुष्ययज्ञः सन्तिष्ठते"^(५) इति । वैश्वदेवाद्दूर्ध्वं हन्तकारार्थान्न‡व्यतिरिक्त- मन्नं अतिथिभ्यस्खवरेभ्यः 'ब्राह्मणेभ्यः', 'यत्', दीयते स 'मनुष्ययज्ञः', तावतैव समाप्यते ॥


* सन्तिष्ठते इति तै० पाठः ।
† श्राद्धपिण्डदानाभावेऽपि इति तै० पाठः ।
‡ चतुर्थान्न इति तै० पाठः ।

२४० तैत्तिरीये आरण्यके

यजु॑: साम॑ वा॒ तद्ब्र॑ह्मय॒ज्ञः संति॑ष्ठते⁽६⁾। ⁽७⁾यदह॒चोऽधी॑ते॒ पय॑सः कू॒ल्या अ॑स्य पि॒तॄन् स्व॒धा अ॒भिव॑हन्ति॒ यद्य- जूꣳ॑षि घृ॒तस्य॑ कू॒ल्या यत्सामा॑नि॒ सोम॑ एभ्यः पवते॒ यदथ॑र्वाङ्गिर॒सो मधो॑: कू॒ल्या यद्ब्राह्म॑णा॒नीति॑हा॒सान् पु॒राणा॑नि क॒ल्पान् गाथा॑ नारा॒शꣳसी॒र्मेद॑सः कू॒ल्या अ॑स्य पि॒तॄन् स्व॒धा अ॒भिव॑हन्ति⁽७⁾। ⁽८⁾यदह॒चोऽधी॑ते


ब्रह्मयज्ञस्य लक्षणमाह । (६)“यत् स्वाध्यायं ० ब्रह्मयज्ञः संतिष्ठते”(६) इति । स्वस्यसाधारणेन पितृपितामहादिपर- म्परया प्राप्ता वेदशाखा 'स्वाध्यायः'। तत्र विद्यमानमृगा- दीनामन्यतममेकमपि वाक्यमधीयीत इति 'यत्', सोऽयं 'ब्रह्मयज्ञः', तावतैव समाप्यते ॥

तत्र विशेषाकारेणाध्ययनं पृथक् पृथक् प्रशंसति । (७)“य- दृचोऽधीते ० अभिवहन्ति”(७) इति । कूलमर्हन्तीति 'कूल्याः' महानद्यः, ऋगध्ययनेन क्षीरपूर्णा महानद्यः स्वधाकारेण दत्तं हविर्भूत्वा 'पितॄन्', अभिलक्ष्य 'प्रवहन्ति'। तथा यजु- रध्ययनेन घृतपूर्णा महानदीप्रवाहः सामाध्ययनादिभ्यः पितृभ्यः सोमो धारया युक्तः 'पवते' प्रवहति, एवमथर्वाङ्गि- रसामध्ययनेन मधुपूर्णा नद्यः 'प्रवहन्ति' ॥

ब्राह्मणाध्ययनेन मांससम्बन्धि नीरसप्रवाहः पितृस्तृप्त्या

२ प्रपाठके १० अनुवाकः । २४१

पय॑ आहुतिभिरेव तद्दे॒वाꣳस्त॑र्पयति॒ यद्यजूं॑ꣳषि घृ- ताहु॑तिभि॒र्यत्सामा॑नि॒ सोमा॑हुतिभि॒र्यद॑थर्वाङ्गिर॒सो मध्वा॑हुतिभि॒र्यद्ब्राह्म॑णा॒नीति॑हासा॒न् पुरा॑णा॒नि क- ल्पा॒न् गाथा॑ नारा॒शꣳसी॒र्मेदा॑हुतिभिरे॒व तद्दे॒वाꣳस्त॑- र्पयति॒ त ए॑नं तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑- सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति^(८) ॥ १० ॥


ब्रह्मयज्ञं प्रशंस्य देवतृप्त्यापि प्रशंसति । ^{(८)}“यदृचोधीते ० तर्पयन्ति”^{(८)} इति । ऋगध्ययनं यदस्ति तेन क्षीराहुतिसमाना देवानां तृप्तिर्भवति । एवमुत्तरत्रापि योज्यं । ‘ते’ देवाः, ‘तृप्ताः’, सन्तः ‘एनं’ यजमानं, आयुरादिभिः ‘तर्पयन्ति’ ‘तेजः’ शरीरकान्तिः, ‘वर्चः’ बलं ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥


२ G

२४२तैत्तिरीये आरण्यके

अथ एकादशोऽनुवाकः।

(१)ब्रह्म॑य॒ज्ञेन॑ य॒क्ष्यमा॑णः प्राच्यां दिशि ग्रामा॒दच्छ॑दि-
दर्श उदीच्यां॑ प्रागु॒दीच्यां वोदि॑त आ॒दि॒त्ये द॑क्षिणत
उप॑वीत्योपवि॒श्य हस्ता॑वव॒निज्‍य॑ त्रिराचा॑मेद्द्विः परि॑-
मृज्य॒ सकृ॑दुप॒स्पृश्य॒ शिर॑श्चक्षुषी नासि॑के॒ श्रोत्रे॒ हृद॑य-
मालभ्य॑^(१) ^(२)यत्त्रिराचा॑म॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः॑
परि॑मृज॑ति॒ तेन॒ यजूं॑षि॒ यत्स॒कृदुप॑स्पृश॑ति॒ तेन॒ सा-
मा॑नि॒ यत्स॒व्यं पा॒णिं पादौ प्रोक्ष॑ति॒ यच्छिर॑श्चक्षुषी ना-


अथ एकादशोऽनुवाकः।

दशमे ब्रह्मयज्ञोऽभिहितः। एकादशे तत्प्रयोगोऽभिधी-
यते। (१)“ब्रह्मयज्ञेन ० हृदयमालभ्य”(१) इति। यः पुमान्
ब्रह्मयज्ञं करिष्यति सोऽयं 'ग्रामात्', प्राचीमुदीचीं ऐशानीं वा-
दिशं गच्छेत्*। गृहस्योपरि आच्छादनार्थानि तृणकटादीनि
छर्दीषि यावति दूरे तानि न दृश्यन्ते तावद्दूरम् 'अच्छदिद्दर्शः',
तत्र गत्वा सूर्ये अभ्युदिते सति प्रथमानुवाकोक्तप्रकारेण यज्ञो-
पवीतं कृत्वा† शुद्धप्रदेशे 'उपविश्य', हस्तद्वयं पूर्वं शुद्धमप्ये-
तदङ्गत्वेन पुनः प्रक्षाल्योदकं त्रिः पिबेत्‡ 'द्विः परिमृज्य',


* गच्छन् इति तै० पाठः।
† गृहीत्वा इति तै० पाठः।
‡ ततः चोष्ठौ इत्यधिकः तै० पाठः।

२ प्रपाठके ११ अनुवाकः। २४३

सिके॒ श्रोत्रे॒ हृद॑य॒माल॑भते॒ तेना॑थर्वाङ्गि॒रसौ ब्रा॑ह्म॒णा-
नी॑तिहा॒सान् पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराश॒ꣳसीः
प्रीणाति॑^(२) ।^(२)दर्भाणां॑ मह॒दुप॑स्ती॒र्योपस्थं॑ कृ॒त्वा प्राङ्-


शुद्ध्यर्थमुदकेन तदा हस्तं प्रक्षालयेत्, तत ओष्ठौ 'सकृदुपस्पृश्य', शिरःप्रभृतीन् हृदयपर्यन्तानवयवान् क्रमेण स्पृष्ट्वा दर्भाणां महदित्यादिना वक्ष्यमाणेन सहान्वयः ॥

अथाचमनादीन् प्रशंसति । ^(१)“यत् त्रिराचामति ० प्रीणाति”^(२) इति । अत्र सव्यपाणिपादयोः प्रोक्षणकथनादेव*, प्रोक्षणविधिरुन्नेतव्यः ॥

हृदयस्पर्शनोत्तरभाविकर्त्तव्यं विधत्ते । ^(२)“दर्भाणां ० कुरुते”^(१) इति । ‘दर्भाणां’, सम्बन्धि ‘महत्’ प्रभूतं, यथा भवति तथाऽऽसनं ‘आस्तीर्य’, तस्योपरि ‘उपस्थं कृत्वा’, उपस्थशब्द आसनविशेषं ब्रूते, आकुञ्चितस्य सव्यजानुन उपरि दक्षिणपादप्रक्षेपे सति यत् सुखावस्थानं भवति तत् कृत्वा । प्राङ्मुखः ‘आसीनः’, स्वकीयां शाखामधीयानः† दर्भाणामपांरसत्वमन्यत्राम्नातं, तासां यन्मेध्यं यज्ञियꣳ सदेवमासीत्, तदपोदक्रामत् ते दर्भा अभवन्निति । ‘ओषधीनां’, मध्ये शुद्धिहेतुत्वात् तत्सारत्वं ततो दर्भासनत्वादधीयानं‡ ‘ब्रह्म सरसं’, भवति ॥

* प्रशंसाबलादेवेति तै० पाठः । † शाखामधीयीत इति तै० पाठः
‡ शुद्धिहेतुत्वादपारक्यं तदर्भासनेऽधीयमानमिति तै० पाठः ।
2 G 2

२४४तैत्तिरीय आरण्यके

सोंनः स्वाध्या॒यमधी॑यी॒तापां वा ए॒ष ओष॑धीना॒ꣳ
रसो॒ यद्दर्भाः सर॑समे॒व ब्रह्म॑ कुरुते^{(३)} ^{(४)}दक्षि॑णोत्त॒रौ
पाणी॒ पादौ॑ कृ॒त्वा सप॑वित्रा॒वोमिति॑ प्रति॑पद्यत ए॒त-

अत्रोपक्रमे कञ्चिद्विशेषं विधत्ते । ^{(४)}“दक्षिणोत्तराँ • परममक्षरं”^{(४)} इति । दक्षिणः पाणिरुत्तरो ययोस्तौ ‘दक्षिणोत्तरौ’ वामं पाणिं दक्षिणजानुन ऊर्ध्वमुत्तानं कृत्वा तस्योपरि दक्षिणहस्तमवाञ्चं कुर्यात्, तादृशौ च* ‘पाणी’, पवित्रयुक्तौ कार्यौ†, तथा दक्षिणपादोऽपि वामपादस्योपरिस्थापनीयः । एवं कृत्वा ‘ॐमिति’ प्रणवोच्चारणेनोपक्रमं कुर्यात्, योऽयमोमित्येवं रूपो यजुर्मन्त्रः स ‘त्रयीं विद्यां’, ‘प्रति’ वेदत्रयस्य प्रतिनिधिरूपः अतएव प्रणवगतानामकारोकारमकारमात्राणां‡ । वेदत्रयरूपेणाध्ययनं§ आथर्वणिका आममन्ति, तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः, स ऋग्भि ऋग्वेदोऽथ द्वितीयान्तरिक्षं॥ स उकारः, स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः, स मकारः, स सामभिः सामवेदैरिति । किञ्च ‘एषा’ प्रणवरूपा, सर्वा ‘वाक्’, अपि । अतएव छन्दोगा आमनन्ति, तद्यथा शङ्कुना सर्वाणि पर्णानि


* तावुभौ चेति तै० पाठः ।
† ‘कृत्वा’, इति तै० पाठः ।
‡ प्रणवगताकारोकारमकारार्द्धमात्राणां इति तै० पाठः ।
§ रूपत्वेन ध्यानं इति तै० पाठः ।
॥ स ऋग्भिर्यद्यन्तरिक्षं इति तै० पाठः ।

२ प्रपाठके ११ अनुवाकः। २१५

द्वे यजु॑स्त्र॒यीं वि॒द्यां प्रत्ये॒षा वागे॒तत् प॑र॒मम॒क्षरं॑^{(४)} ^{(५)}तदे॒तदृचा॒भ्युक्तं॑^{(५)} ^{(६)}ऋचो॒ अक्ष॑रे पर॒मे व्यो॑मन् य-


संतृणान्येवमोङ्कारेण सर्वा वाक् संतृणेति अश्वत्थपर्णेषु दृश्य- मानास्तन्तुदृष्टावयवाः शङ्कवः, तैर्यथा कृत्स्नानि पर्णानि व्याप्तानि, तद्वदोङ्कारेण सर्वा अपि वाग्व्याप्ता। ऐतरेयास्तु प्रणवादेरकारस्यैव सर्ववाग्व्याप्तिमामनन्ति। अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवतीति। अतएव मातृकामन्त्रे सर्वानपि ककारादीन् वर्णानकारशिर- स्कानेव* पठन्ति। यस्माद्युक्तं प्रणवस्य सर्वात्मकत्वं, किञ्चैतत् प्रणवस्वरूपमुत्कृष्टमक्षरमविनश्वरं सर्ववेदान्तवेद्यं परब्रह्म वस्तु। अतएव पिप्पलादशाखायामधीयते, एतद्वै सत्यकामं परं चापरञ्च ब्रह्म यदोङ्कार इति। कठाश्च पठन्ति, एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परमिति। तस्मात् प्रणवेनैव स्वाध्यायप्रा- रम्भो युक्तः॥

प्रणवं प्रशंस्यापरामृचमवतारयति। ^{(५)}“तदेतदृचाभ्युक्तं”^{(५)} इति। ‘तदेतत्’ परब्रह्मस्वरूपं प्रणवाक्षरं, कयाचित् ‘ऋचा’, स्पष्टम्, ‘उक्तं’॥

तामृचं दर्शयति। ^{(६)}“ऋचो अक्षरे ० समासते इति”^{(६)} इति। या एताः ‘ऋचः’, ताः सर्वाः ‘परमे’ उत्कृष्टे, ‘व्योमन्’


* षकारादिशिरस्कानिति तै० पाठः।