तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
| ४२६ | तैत्तिरीये आरण्यके |
|---|
स॒म्मा अ॑सि । वि॒मा अ॑सि । उ॒न्मा अ॑सि । अ॒न्त-
यत्तया परिच्छेत्तुं समर्थोऽस्मि । तथा हे परिधे उदगग्रत्वेन प्राग्दिग्वर्त्ती उत्तरदिग्वर्त्ती* वा त्वं 'प्रमा असि' प्रकर्षेण मातुं समर्थोऽस्मि । तृतीयपञ्चममन्त्रौ प्रथममन्त्रवद्व्याख्येयौ । चतुर्थषष्ठमन्त्रौ द्वितीयमन्त्रवद्व्याख्येयौ । एवं त्रिभिर्मन्त्रैर्विषममङ्गोपेतैरध्वर्युर्दिग्द्वये प्रागग्रान् षट्परिधीन् परिदधाति सममङ्गोपेतैर्मन्त्रैः प्रतिप्रस्थाता दिग्द्वये उदगग्रान् षट्परिधीन् परिदधाति । हे त्रयोदशपरिधे त्वं 'अन्तरिक्षस्य' लोकस्य, 'अन्तर्द्धूः' 'असि' महावीराद् व्यवधानकरः 'असि' । अनेन मन्त्रेणोर्द्ध्वलोकदिग्व्यवधानबुद्ध्या दक्षिणभागेऽध्वर्युरेकं परिधिं परिदध्यात् ॥
तैर्मन्त्रैः परिधेयानां परिधीनां वृक्षविशेषं विधत्ते । "अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवावरुन्द्धे" इति । (५ प्र० । ४ अ० । २७-म०) प्रजापति 'सृष्टस्य' पलायमानस्य, 'अग्नेः' तेजः, 'विकङ्कतं' वृक्षं, प्राविशत् अतो वैकङ्कतपरिधिभिस्तत्तेजः प्राप्नोति ॥
परिधीनां सङ्ख्यां विधत्ते । "द्वादश भवन्ति ॥ ६ ॥ द्वादश मासाः संवत्सरः । संवत्सरमेवावरुन्द्धे" इति । (५ प्र० । ४ अ० ।-२८ म०) ॥
* पश्चिमदिग्वर्त्ती इति तै० पुस्तकपाठः ।
४ प्रपाठके ५ अनुवाकः । ४२७
रि॑क्ष॒स्यान्त॒र्द्धिर॑सि^(१३) । ^(१४)दि॒वं तप॑सस्त्राय॒स्व^(१४) ।
अधिकमेकं* परिधिं विधत्ते । "अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमवरुन्धे" इति । (५ प्र० । ४ अ० । २९ म०) । ज्योतिःशास्त्रविदः कदाचित् कदाचित् सङ्क्रान्तिरहितोऽधिकमासस्त्रयोदशोऽस्तीत्येवमाहुः । त्रयोदशेन परिधिना तन्मासप्राप्तिर्भवति ॥
अन्तर्द्धेरेवं† तात्पर्य्यं दर्शयति । "अन्तरिक्षस्यान्तर्द्धिरसीत्याह व्यावृत्यै" इति । (५ प्र० । ४ अ० । ३० म०) । एतावती महावीरस्य सीमा इत ऊर्द्धमन्तरिक्षलोक इति विभागे‡ व्यावृत्तिः ॥
कल्पः । दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेण पिधाय इति । (१४ मन्त्रः) । महावीरस्योपरि पिधानत्वेन स्थाप्यमान हे रुक्म 'दिवं' द्युलोकं, 'तपसः' वह्नितापात्, 'त्रायस्व' पालय ॥
एतन्मन्त्रसाध्यं रुक्मस्थापनं विधत्ते । "दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्मधि निदधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परिगृह्णाति" इति । (५ प्र० । ४ अ० । ३१ म०) । उपरितनरुक्याव्यवधानेन द्युलोकस्यातिदाहो न
* अधिकमप्येकं इति तै० पुस्तकपाठः ।
† अन्तर्द्धिशब्द इति तै० पुस्तकपाठः ।
‡ विभागा इति तै० पुस्तकपाठः ।
४२८ तैत्तिरीये आरण्यके
^(१५)आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नं । आप्या॑यय हरिवो॒ वर्द्ध॑-
मानः । य॒दा स्तो॒तृभ्यो॒ महि॑गोचा रु॒जासि॑ । भूयि॑ष्ठ-
भाजो॒ अध॑ ते स्याम^(१५) । ^(१६)शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑
अ॒न्यत् । ई ॥
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या
भवति । अपि चोर्द्धाधोगताभ्यां रुक्माभ्यां ‘एनं’ महावीरं,
‘उभयतः’ दृढं ‘परिगृह्णाति’ ॥
कल्पः । आभिर्गीर्भिरिति तिसृभिरभिमन्त्र्येत । तत्र प्रथ-
मामाह । ^(१५)“आभिर्गीर्भैर्यदतो न ऊनं ॰ अध ते स्याम”^(१५)
इति । हे ‘हरिवः*’ अश्वयुक्तेन्द्रत्वेन स्तूयमान महावीर
‘आभिर्गीर्भिः’ अस्मदीयस्तुतिभिः, ‘वर्द्धमानः’ त्वं ‘अतः’ अस्मात्
कर्मणः, ‘ऊनं’ अङ्गं, ‘नः’ अस्मदर्थं, ‘आप्यायय’ अभिवर्द्धय ।
‘यदा’ यस्मिन् काले, ‘स्तोतृभ्यः’ स्तोत्रानुग्रहार्थं, ‘महिगोचा’
महतो मेघान्, ‘रुजासि’ भग्नान् करोषि, ‘अध’ तदा, वयं
‘ते’ तवानुग्रहात्, ‘भूयिष्ठभाजः’ ‘स्याम’ प्रभूतधनानां
लब्धारो भूयास्म
अथ द्वितीयामाह । ^(१६)“शुक्रन्ते ॰ पूषन्निह रातिर-
स्तु”^(१६) इति । हे ‘पूषन्’ पोषक महावीर आदित्यत्वेन स्तूय-
मान, ‘ते’ तव, ‘शुक्रं’ शुद्धं स्वरूपं, ‘अन्यत्’ अनेकप्रकारं,
* हरिवन् इति तै० पुस्तकपाठः ।
४ प्रपाठके ५ अनुवाकः । ४२६
अर्व॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु^(१६) । ^(१७)अर्ह॑न् बिभर्षि सायक॑ानि॒ धन्व॑ । अर्ह॑न्निष्॒कं य॑ज॒तं वि॒श्वरू॑पं । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मद्भु॑वं । न वा
उदयकाले रक्तवर्णं रूपमन्यत् । मध्याह्नकाले श्वेतवर्णं रूपमन्यत् । इत्येवमनेकप्रकारत्वं तथा 'ते' तव, 'यजतं' पूजनमपि 'अन्यत्' । प्रातःकाले मित्रस्य चर्षणी धृत इत्यादिभिर्मन्त्रैः पूज्यसे । मध्याह्ने आसत्येनेत्यादिभिः तथाविधया निष्पादिते 'अहनी', अपि 'विषुरूपे' नानारूपे, अहःशब्दः छत्रिन्यायेन रात्रिमप्युपलक्षयति अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वं एवं विचित्रकार्य्यकृदपि त्वं 'द्यौरिवासि' आकाशं यथैकरूपं तद्वत् त्वमपि सर्व्वत्र पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते प्रमीयन्ते पदार्था आभिश्चिचवृत्तिभिस्ताश्चित्तवृत्तयः 'मायाः' कव्यदानवाचिना स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे 'स्वधावः' अन्नवन्, 'विश्वा' 'हि' 'मायाः' सर्व्वा अप्यस्मदीयचित्तवृत्तीः, 'अवसि' रक्षसि, हे 'पूषन्' 'ते' तव, 'राति' 'भद्रा' 'अस्तु' फलप्रदानं समीचीनं भवतु ॥
अथ तृतीयामाह । ^(१७)“अर्हन्॒ बिभर्षि सायकानि धन्व ० ओजीयो रुद्र त्वदस्ति”^(१७) इति । हे 'रुद्र' महावीर रुद्रत्वेन स्तूयमान, 'अर्हन्' योग्यः सन्, 'सायकानि' बाणान्, 'धन्व' धनुश्च, 'बिभर्षि' हस्तयोर्धारयसि । तथैव 'अर्हन्' योग्यः सन्, 'यजतं' पूजासाधनं, 'विश्वरूपं' नानाविधं, 'निष्कं' आभरणं,
४३० तैत्तिरीये आरण्यके
ओजी॑यो रुद्र त्वद॑स्ति⁽१७⁾। ⁽१८⁾गाय॒त्रम॑सि। त्रैष्टुभम॑- सि। जा॑गतमसि⁽१८⁾॥ ⁽१९⁾मधु॒ मधु॒ मधु॑⁽१९⁾॥ ७॥ अ॒न॒क्तु॒, असा॑दी॒त्, उत्त॑रतः॒, पा॒हि, प्रतिमा, अं॒सि, यज॒तन्त्रं॑, अ॒न्यत्, जाग॑तम॒सि, एक॑ञ्च॥ अनु० ५॥
‘बिभर्षि’ कर्णकण्ठहस्तादौ धारयसि। तथैव ‘अर्हन्’ योग्यः सन्, ‘अब्भुवं’ अब्वादिभ्यः पञ्चभूतेभ्यः उत्पन्नं, ‘इदं’ जगत्, ‘दयसे’ पालयसि, अतो हे ‘रुद्र’ ‘त्वत्’ ‘ओजीयः’ त्वत्तो बलवद्वस्तु किमपि ‘न’ एव, ‘अस्ति’॥
एतन्महावीरस्य सायकादिधारणासम्भवमाशङ्क्य स्तुतित्वेन परिहरति। “अर्हन् बिभर्षि सायकानि धन्वेत्याह॥१०॥ स्तौत्येवैनमेतत्” इति। (५ प्र०।४ अ०।३२ म०)। अनेनैव न्यायेन पूर्वोक्तमन्त्रद्वयार्थासम्भवशङ्कापि परिहर्त्तव्या। एवमुत्तरयो- रपि योज्यं॥
कल्पः। धवित्राण्यादत्ते गायत्रमसीति प्रथमं त्रैष्टुभमसीति द्वितीयं जागतमसीति तृतीयमिति। (१८ मन्त्रः)। वायुना ज्वालोत्पादकं व्यजनं धवित्रं हे प्रथमधवित्र त्वं ‘गायत्रमसि’ गायत्रीच्छन्दोदेवतारूपमसि॥
एतैर्मन्त्रैः साध्यमादानं विधत्ते। “गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्यादत्ते। छन्दोभिरेवैनान्यादत्ते” इति। (५ प्र०।४ अ०।३३ म०)। गायत्र्यादिशब्दैर्महावीरस्य व्यवहार- च्छन्दोदेवताभिरादानसिद्ध्यर्थो द्रष्टव्यः॥
४ प्रपाठके ५ अनुवाकः । ४३१
कल्पः । तैरेनं त्रिरूर्द्धमुपवीजयतीति मधु मध्विति तृतीये मधुशब्दो मन्त्रशेषः । (१६ मन्त्रः) । हे धवित्रत्रय 'मधु' समी- चीनं ज्वालोत्पादनं यथा भवति तथा वायुं कुर्व्विति शेषः ॥
एतन्मन्त्रसाध्यां क्रियां विधत्ते । “मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति” इति । (५ प्र० ।- ४ अ० । ३४ म०) । समीचीनवायुरूपत्वात् प्राणस्य मधुत्वं ॥
यदुक्तं सूत्रकारेण । तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमा- ग्नीध्रायाग्नीध्रप्रथमास्तिः प्रदक्षिणमूर्द्धं धून्वन्तः परियन्तीति । तदिदं विधत्ते । “त्रिः परियन्ति । त्रिवृद्धिप्राणः” इति । (५ प्र० । ४ अ० । ३५ म०) । प्राणापानव्यानाख्यवृत्तिभेदात् प्राणस्य त्रैगुण्यं प्रदक्षिणत्रयेण सिध्यति ॥
तमेव विधिमनूद्य पुनः प्रशंसति । “त्रिः परियन्ति । व्या- वृद्धियज्ञः ॥ ११ ॥ अथो रक्षसामपहत्यै” इति । (५ प्र० । ४- अ० । ३६ म०) । सवनत्रयानुष्ठानेन यज्ञस्यावृत्तिन्त्रयं* । अपि च प्रदक्षिणत्रयेण रक्षांस्यपहन्यन्ते ॥
यदुक्तं सूत्रकारेण । अध्वर्य्युप्रथमा अनभिधून्वन्तः त्रिः परियन्तीति । तदिदं विधत्ते । “त्रिः पुनः परियन्ति । षट्- सम्पद्यन्ते । षड् वा ऋतवः । ऋतुष्वेव प्रतितिष्ठन्ति” इति । (५ प्र० । ४ अ० । ३७ म०) । पूर्वोक्ताः प्रदक्षिणावृत्तयस्तिस्र एताश्च विपरीतावृत्तयस्तिस्र इत्येवं षट्सम्पत्तिः ॥
चतुर्थावृत्तिं निषेधति । “यो वै घर्मस्य प्रियान्तन्व॒मा-
* त्रयत्वं इति तै० पु० पाठः ।
3 H
४३२ तैत्तिरीये आरण्यके
क्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियांस्तनुवमा- क्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताᳪ ह वा अस्योग्र- देवो राजनिराचक्राम ॥ १९ ॥ ततो वै स दुश्चर्माभवत् । तस्मात् त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपी- थाय । प्राणा वै धवित्राणि” इति । (५ प्र० । ४ अ० । ३८ म०) । ‘घर्मस्य’ महावीरस्य, प्रियशरीराक्रमणे त्वग्दोषः स्यात्, ‘यः’ पुमान्, अपेक्षितं प्रदक्षिणत्रयं कृत्वा ततश्चतुर्थं प्रदक्षिणमनपे- क्षितमपि कुर्य्यात् । ‘सः’ एव प्रियशरीरं ‘आक्रामति’ इति । त्वग्दोषं ‘सः’ प्राप्नुयात् । न चैतद्वार्त्तामात्रं किन्तु कश्चित् ‘रा- जनि’ नामकः पुरुषः, ‘उग्रदेवः’ । उग्राणामृत्विजां शास्त्रा- र्थमुल्लङ्घयतां स्वामी सन् कदाचिदेतां प्रियतनूं ‘आचक्राम’ । ‘ततः’ अपराधात्, कुष्ठरोगवानभूत् । अतः स्वदेहरक्षार्थं चतुर्थावृत्तिं न कुर्य्यात् । धवित्राणि प्रशंसति प्राणा इति ॥
यदुक्तं सूत्रकारेण । तमभिमुखाः पर्युपविशन्ते पुरस्ताद- ध्वर्य्युः दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽव्यतिषङ्गमूर्द्ध्वं धुन्वन्त इति । तत्र धवित्रदण्डानां यः परस्परसंश्लेषाभावः तमिमं विधत्ते । “अव्यतिषङ्गं धुन्वन्ति । प्राणानामव्यतिषङ्गाय क्लृप्त्यै” इति । (५ प्र० । ४ अ० । ३९ म०) । प्राणादिवृत्तीनां साङ्कर्य्य- परिहारेण स्वव्यापारसामर्थ्यार्थो धवित्राणामयमव्यतिषङ्गः ॥
तमभिमुखाः पर्युपविशन्तीति यदुक्तं तद्विधत्ते । “विनिषद्य धुन्वन्ति । दिक्ष्वेव प्रतितिष्ठन्ति” इति । (५ प्र० । ४ अ० । ४० म०) । पुरस्तादध्वर्य्युरित्याद्यभिधानात् ‘दिक्षु’ प्रतिष्ठा ॥
४ प्रपाठके ६ अनुवाकः । ४३३
अथ षष्ठोऽनुवाकः ।
^(१)दश॒ प्राची॑र्द॒श भा॑सि दक्षि॒णा । दश॑ प्र॒तीची॑र्द॒श
ऊर्द्धाभिमुखत्वेन वायुत्पादनं विधत्ते । “उर्द्धं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै” इति । (५ प्र० । ४ अ० । ४१ म०) । स्वर्गस्योर्द्धवर्त्तित्वादूर्द्धधूननेन तत्प्राप्तिः ॥
सर्व्वासु दिक्षु धूननं विधत्ते । “सर्व्वतो धून्वन्ति । तस्मादयग्ँ सर्व्वतः पवते” इति ॥ १३ ॥ (५ प्र० । ४ अ० । ४२ म०) । यस्मान् महावीरस्य सर्व्वासु दिक्षु वायुमुत्पादयन्ति तस्माल्लोकेऽप्ययं वायुः सर्व्वासु दिक्षु सञ्चरति ॥ दधाति, इवान्वाह, यज्ञस्य, आह, एष, उपरिष्टादाशीरन्यः, व्याख्यापयन्ति, रश्मयः, भवन्ति, धन्वेत्याह, यज्ञः, चक्राम, समष्ट्यै, देँ च ॥ इति पञ्चमप्रपाठके ४ अनुवाकः ॥ ४ ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अथ षष्ठोऽनुवाकः ।
पञ्चमे महावीरस्थापनमुक्तं । षष्ठे तस्याभिमन्त्रणमुच्यते । कल्पः । अध्वर्य्युर्महावीरमभिमन्त्रयते । दश प्राचीर्दश भासि दक्षिणेत्यनुवाकेनेति। तत्रादावेकामृचमाह । “(१)दश प्राचीर्दश
३ H २
| ४३४ | तैत्तिरीये आरण्यके |
|---|
भा॒स्युदी॑चीः। दशो॒र्द्वाभा॑सि सुम॒न॒स्यमा॑नः। स नो॒ रुचं॑ धे॒ह्यहृ॑णीयमानः^(१)। ^(२)अ॒ग्निष्ट्वा॒ वसु॑भिः पुर॒स्ताद्रो॑चयतु गाय॒त्रेण॒ छन्द॑सा। स मा॒ रु॑चितो रो॑चय^(२)।
भासि दक्षिणा ० सनो रुचं धेह्यहृणीयमानः”(१) इति। हे महावीर, ‘प्राचीः’ प्राग्दिग्वर्त्तिन्यो ज्वालाः ‘दश’सङ्ख्याका यथा भवन्ति तथा ‘भासि’ त्वं दीप्यसे। एवं दक्षिणादिषु योज्यं। ताभिरेताभिः सर्व्वाभिः ज्वालाभिः सौमनस्यं प्राप्तं, ‘सः’ त्वं, ‘अहृणीयमानः’ केनाप्यहिंस्यमानः सन्, ‘नः’ अस्मदर्थं, ‘रुचं’ ‘धेहि’ तेजो धारय॥
अथ दिग्भेदेन देवताविशेषप्रतिपादकानि पञ्चयजूंषि तत्र प्रथमं यजुराह। ^(२)“अग्निष्ट्वा वसुभिः ० रोचय”^(२) इति। हे महावीर त्वां, पूर्व्वस्यां दिशि ‘वसुभिः’ देवैः, गायत्रीच्छन्दो देवतया च सह ‘अग्निः’ देवः, ‘रोचयतु’ दीपयतु, पुरतः ‘रुचितः’ दीपितः, ‘सः’ त्वं, मां, ‘रोचय’ प्रकाशय॥
अस्मिन् मन्त्रे यदग्नेर्दीपकत्वं तन्मुख्यमेव न तूपचरितं इत्येवकारेण दर्शयति। “अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसेत्याह। अग्निरैवेनं वसुभिः पुरस्ताद्रोचयति गायत्रेण छन्दसा” इति। (५प्र०। ५अ०। १म०)॥
रोचयत्वित्ययं लोट्प्रत्ययो न विध्यर्थः किन्त्वाशीरर्थ इत्येतद्दर्शयति। “स मा रुचितो रोचयेत्याह। आशिषमेवैतामाशास्ते” इति। (५प्र०। ५अ०। २म०)॥
४ प्रपाठके ६ अनुवाकः । ४३५
(१)इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु त्रैष्टु॒भेन॒ छन्द॑सा । स मां रु॒चितो रो॑चय । वरु॑णस्त्वादि॒त्यैः प॒श्चाद्रो॑चयतु जाग॑तेन॒ छन्द॑सा । स मां रु॒चितो रो॑चय ॥ १ ॥
द्यु॒तानस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चयत्वानु॑ष्टुभेन॒ छन्द॑सा । स मां रु॒चितो रो॑चय । बृह॒स्पति॑-
अथ दक्षिणादिदिग्देवताविषयाणि चत्वारि यजूंष्याह । “(१)इन्द्रस्त्वा रुद्रैर्दक्षिणतो ० स मा रुचिता रोचय”(१) इति । पूर्वोक्ताग्निविषययजुरिवैन्द्रादिविषयाणि चत्वारि यजूंषि व्याख्येयानि ॥
एतेषु चतुर्ष्वपि यजुःषूपचारव्यावृत्तित्वेवकारेण लोट्प्रत्ययस्याशिरर्थत्वं च पूर्ववद्दर्शयति । “इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसेत्याह । इन्द्र एवैनं् रुद्रैर्दक्षिणतो रोचयति त्रैष्टुभेन छन्दसा । स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते । वरुणस्त्वादित्यैः पश्चाद्रोचयतु जागतेन छन्दसेत्याह । वरुण एवैनमादित्यैः पश्चाद्रोचयति जागतेन छन्दसा ॥१॥ स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसेत्याह । द्युतान एवैनं मारुतो मरुद्भिरुत्तरतो रोचयत्यानुष्टुभेन छन्दसा । स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रोचयतु पाङ्क्तेन
४३६ तैत्तिरीये आरण्यके
स्त्वा विश्वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयतु पा॒ङ्क्ते॑न॒ छन्द॑सा । स मा रु॒चितो॒ रोच॑य^(३) । ^(४)रो॒चित॒स्त्वं दे॑व घर्म दे॒वेष्व॑सि॑ । रो॒चि॒षी॒या॒हं म॑नु॒ष्ये॑षु^(४) । ^(५)सम्राड्॒ घर्म॑ रु॒चित॒स्त्वं दे॒वेष्वायु॑ष्माꣳस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सि । रु॒चितो॒ऽहं म॑नु॒-
छन्दसेत्याह । बृहस्पतिरेवैनं विश्वैर्देवैरुपरिष्टाद्रोचयति पाङ्क्तेन छन्दसा । स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते” इति ॥ २ ॥ (५प्र०।५अनु०।३म०) ॥
अथ यजुरन्तरमाह । ^(४)“रोचितस्त्वं देव घर्म ० मनुष्येषु^(४)” इति । हे ‘देव’ द्योतमान, ‘घर्म’ महावीर, ‘त्वं’ ‘देवेषु’ मध्ये, ‘रोचितः’ प्रकाशितः, ‘असि’ । अतस्त्वत्प्रसादात् ‘अहं’ अपि ‘मनुष्येषु’ मध्ये, ‘रोचिषीय’ प्रकाशितो भूयासं ॥
अस्मिन् मन्त्रे भागद्वयगतयोरर्थयोः प्रसिद्धिमवलम्ब्याविलम्ब्य हिशब्देनैवकारेण दर्शयति । “रोचितस्त्वं देव घर्म देवेष्वित्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येष्वित्याह । रोचत एवैष मनुष्येषु” इति । (५प्र०।५अनु०।४म०) ॥
अथ यजुरन्तरमाह । ^(५)“सम्राट् घर्म रुचितः ० ब्रह्मवर्चसी भूयासं”^(५) इति । हे ‘घर्म’ महावीर, ‘त्वं’ ‘देवेषु’ मध्ये, बहुगुणयुक्तः ‘असि’, के ते गुणा इति त उच्यन्ते । ‘सम्राट्’ साम्राज्ययुक्तः, ‘रुचितः’ प्रकाशितः, ‘आयुष्मान्’ दीर्घेणायुषा
४ प्रपाठके ६ अनुवाकः। ४३७
ष्ये॒षायु॑ष्मा॒ꣳस्तेज॑स्वी ब्रह्म॑वर्च॒सी भू॑यास॑म्⁽५⁾। ⁽६⁾रुग॑सि। रुचं॑ मयि॑ धेहि॥ मयि॒ रुक्⁽६⁾। ⁽७⁾दश॑ पु॒रस्ता॑द्रोचसे। दश॑ दक्षि॒णा। दश॑ प्र॒त्यङ्। दशोद॑ङ्। दशो॒र्ध्वा भा॑सि
युक्तः, 'तेजस्वी' महत्या कान्त्या युक्तः, 'ब्रह्मवर्चसी' श्रुताध्य- यनसम्पन्नः, तत्प्रसादात् 'अहं' अपि 'मनुष्येषु' मध्ये, रुचि- मत्त्वादिगुणयुक्तो 'भूयासं'॥
अत्रापि द्विशब्दैवकाराभ्यां मन्त्रभागौ पूर्व्वद्व्याचष्टे। “स- म्राट् घर्म रुचितस्त्वं देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चस्यसोत्याह। रुचितो ह्येष देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी। रुचतोऽहं मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह। रुचित एवैष मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भवति” इति। (५ प्र०। ५ अनु०। ५ म०)॥
अथ यजुरन्तरमाह। ⁽६⁾“रुगसि ० मयि रुक्”⁽६⁾ इति। हे महावीर 'रुगसि' त्वमेव दीप्तिरूपः असि। अतः, 'मयि' 'रुचं' दीप्तिं, 'धेहि' सम्पादय, तदनुग्रहात् 'रुग्' दीप्तिः, 'मयि' तिष्ठत्विति शेषः॥
धेहीत्यस्य लोट्प्रत्ययस्याशिरर्थत्वं दर्शयति। “रुगसि रुचं मयि धेहि मयि रुग्गित्याह। आशिषमेवैतामाशास्ते” इति। (५ प्र०। ५ अनु०। ६ म०)॥
अथ यजुरन्तरमाह। ⁽७⁾“दश पुरस्ताद्रोचसे ० रोचितो घर्मो रुचीय”⁽७⁾ इति। अनुवाकादौ दश प्राचीरिति योऽर्थ
४३८ तैत्तिरीये आरण्यके
सु॒म॒न॒स्यमा॑नः । स न॑ः स॒म्राडिष॒मूर्जं॑ धेहि । वा॒जी वा॒जिने॑ पवस्व । रो॒चि॒तो घ॒र्मो रु॑चीय⁽७⁾ ॥ २ ॥ रोच॑य, धे॒हि, नव॑ च ॥ अनु० ६ ॥
उक्तः सोऽत्रापसंह्रियते । हे महावीर 'पुरस्तात्' पूर्व्वस्यां दिशि, 'दृशे' दीप्तयः, यथा भवन्ति तथा त्वं 'रोचसे' दीप्यसे, एवं दक्षिणादिषु दिक्षु द्रष्टव्यं । अतः 'सुमनस्यमानः' सौमनस्यं प्राप्तः, 'सम्राट्' साम्राज्यं प्राप्तः, 'सः' त्वं, 'नः' अस्माकं, 'इषं' 'ऊर्जं' च 'धेहि' सम्पादय । 'वाजी' समृद्धान्नः, त्वं 'वाजिने' समृद्धान्नाय मह्यं, 'पवस्व' सर्व्वं भोग्यं शोधय । एवमनेन प्रकारेण 'घर्मः' महावीरः, 'रोचितः' अस्माभिः प्रकाशितः, अतः तत्प्रसादादहमपि 'रुचीय' प्रकाशवान् भूयासं ॥
यदुक्तं सूत्रकारेण उपोत्तिष्ठन्नध्वर्युराह* रुचितो घर्म इति तदिदं कालमचितं विधत्ते । “तं यदेतैैर्यजूर्भिररोचयित्वा । रुचितो घर्म इति प्रब्रूयात् । अरोचुकोऽध्वर्युः स्यात् । अरोचुको यजमानः । अथ यदेनमेतैैर्यजूर्भी रोचयित्वा । रुचितो घर्म इति प्राह । रोचुकोऽध्वर्युर्भवति । रोचुको यजमानः” इति ॥ ३ ॥ (५ प्र० । ५ अ० । ७ म०) । 'तं' महावीरं, 'यदेतैः' अनुवाकोक्तैः, 'यजूर्भिः' मन्त्रैः, 'अरोचयित्वा' प्रकाशितमकृत्वा, प्रथमत एव 'घर्मः' महावीरः, 'रुचितः' प्रकाशितः, 'इति' 'प्रब्रूयात्' ।
* अध्वर्युं प्राह इति D चिह्नित पु० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४३६
अथ सप्तमोऽनुवाकः ।
(१)अपश्यं गोपामनिपद्यमानं। आ च परा च प-
तदाध्वर्युयजमानौ दीप्तिरहितौ स्यातां यजुःपाठादूर्द्धं तु नायं दोषः, तस्मादुत्तरकाल एव 'रुचितः' 'घर्म' इति मन्त्रमध्वर्युर्ब्रूयात् ॥ पश्चाद्राचयति जागतेन छन्दसा, स मा रुचिता रोचयेत्याहाशिषमेवैतामाशास्ते, शास्ते, अष्टौ च ॥ इति पञ्चमप्रपाठके ५ अनुवाकः ॥ ५ ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ सप्तमोऽनुवाकः ।
षष्ठे महावीरअभिमन्त्रणमुक्तं । अथ सप्तमे महावीरावेक्षणमुच्यते । कल्पः । यथा लोकमवस्थाय सर्व्व ऋत्विजो यजमान*श्चाधीयन्तो महावीरमवेक्षन्ते । अपश्यं गोपामिति । एतस्यानुवाकस्यादावेकाञ्चृचमाह । (१)“अपश्यं गोपामनिपद्यमानं ॰ आवरीवर्त्ति भुवनेष्वन्तः”(१) इति । अहं महावीरं 'अपश्यं' दृष्टवानस्मि । कीदृशं 'गोपां' कर्म्मनिष्पादनेन रक्षकं,
* यजमानाश्चाधीयन्तः इति तै० पृ० पाठः ।
2 I
४४० तैत्तिरीये आरण्यके
थिभि॒श्चर॑न्तं। स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑नः। आवे॑-
'अनिपद्यमानं' विनाशरहितं, अथ वा आदित्यरूपेण पतनर- हितं। तथा 'पथिभिः' नानामार्गैः, 'आ''चरन्तं' 'च' 'परा' 'चरन्तं' 'च' आदित्यरूपः सन्नाभिमुख्येन प्रातःकाले समा- गच्छन्तं, सायङ्काले पराङ्मुखत्वेन गच्छन्तं। 'सः' महावीर आदित्यरूपः, 'सध्रीचीः' एकत्र सहावस्थिता अपि, 'विषू- चीः' नानादेशेषु विभज्य गच्छन्तीरपि प्रजाः सर्वाः, 'वसा- नः' स्वकीयरश्मिभिराच्छादयन् इव वर्त्तते। अथ वा एक- त्रावस्थिताः तत्र तत्र पृथगवस्थिताश्च मरीचिः स्वस्मिन्नाच्छा- दयन् वर्त्तते। 'सः' च 'भुवनेष्वन्तः' सर्वेषु लोकेषु मध्ये, 'आवरीवर्त्ति' पुनःपुनरावर्त्तते। सोऽयं मन्त्र उपरिष्टा- द्व्याख्यास्यते॥
तत्र प्रथमं तावत् प्रवर्ग्यस्य कालं विधत्ते। "शिरो वा एतद्यज्ञस्य। यत् प्रवर्ग्यः। ग्रीवा उपसदः। पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति। ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति" इति। (५ प्र०।६ अ०।१ म०)। प्रवर्ग्यस्य यज्ञ-'शिरो'रूपत्वात् 'उपसदां' च यज्ञ-'ग्रीवा'रूपत्वात् उभयोः सामीप्याय 'उप- सदः' अनुष्ठानात्, प्रागेव 'प्रवर्ग्यं' कर्म, अनुतिष्ठेत्। तप्ते घृते पयःप्रक्षेपः प्रवृञ्जनं तद्यस्मिन् कर्मविशेषे विद्यते सोऽयं 'प्र- वर्ग्यः', स कर्मविशेषो यथा सम्पद्यते तथा प्रवृञ्जनं कुर्यादि- त्यक्षरार्थः। प्रवर्ग्योपसदोः सामीप्ये सति यथा लोके ग्रीवायां
४ प्रपाठके ७ अनुवाकः । ४४१
‘शिरः’ प्रतिष्ठितं भवति तथैतत् सम्पद्यते ‘ग्रीवासु’ इति वचन- व्यत्ययः ॥
प्रवर्ग्यस्यावृत्तिं विधत्ते । “त्रिः प्रवृणक्ति । त्रय इमे लो- काः । एभ्य एव लोकेभ्यो यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र०। ६ अ० । २ म०) । उपसदां दिनत्रयेऽनुष्ठेयत्वात् तत्समो- पवर्त्ती प्रवर्ग्योऽपि दिनत्रयेऽनुष्ठेयः तथा सति लोकत्रयार्थं यज्ञशिरः, प्रतिष्ठितं भवति ॥
सायं प्रातश्चेति कालद्वयानुष्ठानं प्रशंसति । “षट् सम्प- द्यन्ते । षड् वा ऋतवः ॥ १ ॥ ऋतुभ्य एव यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र० । ६ अ० । ३ म०) । एकैकस्मिन् दिने कालभेदेन द्विरनुष्ठानात् ‘षट्’ सङ्ख्या सम्पद्यते । तत* ऋतुभ्यः सकाशा- द्यज्ञ-‘शिरः’ सम्पादितं भवति ॥
दिनषट्कपक्षं विधत्ते । “द्वादशकृत्वः प्रवृणक्ति । द्वादश मासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र० । ६ अ० । ४ म०) । षट्सु दिनेषु कालद्वयानुष्ठानेन द्वाद- शत्वं ॥
द्वादशसु दिनेष्वनुष्ठानविधिमभिप्रेत्य प्रशंसति । “चतुर्विꣳ- शतिः सम्पद्यन्ते । चतुर्विꣳशतिरर्द्धमासाः । अर्द्धमासेभ्य एव यज्ञस्य शिरोऽवरुन्ध” इति । (५ प्र० । ६ अ० । ५ म०) । द्वाद- शस्वपि दिनेषु कालद्वयानुष्ठानेन ‘चतुर्विंशतिः’ सम्पत्तिः अग्नि- ष्टोमे त्रिष्वेव दिनेषूपसदः अग्निचयन षट्सु दिनेषु अहीने सत्रे
* ऋत इति तै० पु० पाठः ।
३।२
द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्र-
४१२ तैत्तिरीये आरण्यके
द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्र- कारेण सङ्गृहीतं त्र्युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशोपसत्के चतुर्विंशतिकृत्वः इति ॥
विकल्पितं पक्षान्तरं विधत्ते । "अथो खलु । सकृदेव प्रवृ- ञ्ज्यः । एकँ हि शिरः" ॥ २ ॥ इति । (५ प्र० । ६ अ० । ६ म०) । पक्षान्तरोपन्यासाय 'अथो' शब्दः शिरस एकत्वात् तत्स्था- नीयः प्रवर्ग्यः सकृदेवानुष्ठेयो न त्वावर्त्त्येति केषाञ्चित् पक्षः । एतच्च सूत्रकारेण विस्पष्टमुदाहृतं । सुत्यायां प्रवृञ्जनमेके समामनन्ति । तत्र मीमांसा यदा पुरस्तादरुणः स्यात् अथ प्रवृञ्ज्य उपकालं उपव्युषं समयास्तमिषित उदितानुदित उदि- ते वा प्रातःसङ्गवे मध्यन्दिने वा पवमाने सुत आग्नीध्रागारे प्रवृञ्ज्यः सकृदेव प्रवृञ्ज्य इति विज्ञायत इति ॥
प्रवर्ग्यस्याग्निष्टोमसम्वन्धं विधत्ते । "अग्निष्टोमे प्रवृणक्ति । एतावान् वै यज्ञः । यावानग्निष्टोमः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति" इति । (५ प्र० । ६ अ० । ७ म०) । यावन्तः सोमयागाः सन्ति तेषु सर्वेषु 'अग्निष्टोमः' सञ्चारी अतः सर्व्व- यज्ञात्मकः तत्रानुष्ठिते सति कृत्स्नेऽपि यज्ञे 'शिरः' प्रतिष्ठितं भवति । अनारभ्याधीतस्य प्रवर्ग्यस्य यद्यपि पुरस्तादुपसदामि- तिवाक्येनैव प्रकृतिभूताग्निष्टोमसम्बन्धः, प्राप्तः, तथापि शाखा- न्तरगतं न प्रथमयज्ञे प्रवृञ्ज्यादिति निषेधमपोद्य प्रतिप्रस- वार्थं पुनर्विधानं, निषेधस्त्वतिरात्रेऽपि चरितार्थो भविष्यति तस्यापि विकल्पितप्रथमयज्ञत्वात् , तथा चापस्तम्ब आह ।
४ प्रपाठके ७ अनुवाकः । ४४३
अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पूर्व्वं समामनन्तीति ॥
पुरस्तादुपसदामितिवाक्येनोक्तोऽप्युपमङ्गावात् पूर्व्वं प्रवर्ग्य- स्यापि प्राप्तौ निषेधयति । “नोक्थे प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थे प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्द्दहेत्” इति । (५ प्र० । ६ अ० । ८ म०) । एह्योषु ब्रवाणीत्यादोतिशस्त्रा- ण्यत्रोक्थशब्देनाभिधीयन्ते तान्यर्हतीत्युक्थ्यः क्रतुः तत्र प्रवृञ्ज- नेनोक्थशस्त्रसाध्याः ‘प्रजाः’ ‘पशवः’ च दह्येयुः, तस्मात् तत्र, ‘न’ ‘प्रवृञ्ज्यात्’ ॥
उक्थ्यविशेषे प्रतिप्रसवं विधत्ते । “विश्वजिति सर्व्वपृष्ठे प्रवृ- णक्ति ॥ ३ ॥ पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वावरुन्धे” इति । (५ प्र० । ६ अ० । ९ म०) । रथन्तरबृहद्वैरूपवैराजशाक्कररैवतसामसाध्यानि पृष्ठस्तोत्राणि सर्व्वाण्यपि यस्मिन् विश्वजिद्यागे विद्यन्ते । सोऽयं सर्व्वपृष्ठः, यद्यपि विश्वजिदुक्थ्यसंस्थो नात्र प्रसिद्धः तथापि शाखा- न्तरे तत्सद्भावमभिप्रेत्य नोक्थे ‘प्रवृञ्ज्यादिति निषेधं वार- यितुं पुनर्विधिः सर्व्वत्र पृष्ठस्तोत्राणि, ‘अच्युतं’ न च्युतमपि दोषं । ‘च्यावयन्ति’ विनाशयन्ति, अत्रापि पृष्ठस्तोत्रैरेव ‘अच्युतं’ निषेधप्रयुक्तं प्रवलमपि दोषं, ‘च्यावयित्वा’ प्रवर्ग्यफलमपि प्राप्नोति ॥
तदेवं बुद्धिस्थं प्रवर्ग्यविधिविचारं परिसमाप्य प्रकृतस्यैव मन्त्रस्य प्रथमपादे पूर्व्वभागं* व्याचष्टे । “अपश्यं गोपामित्याह ।
* पूर्व्वपादं इति तै० पु० पाठः ।
| ४४४ | तैत्तिरीये आरण्यके |
|---|
प्राणो वै गोपाः। प्राणमेव प्रजासु विघातयति" इति। (५प्र०।६अ०।१०म०)। 'प्राणः' हि खावस्थानेन* शरीराणि गोपायतीति 'गोपाः' मन्त्रे च प्राणेन स्तुतिमभिप्रेत्य महावीरे गोपाशब्दः प्रयुक्तः, अतो गोपामपश्यमित्युक्ते सति सर्व्वासु 'प्रजासु' 'प्राणमेव' प्रसारितवान् भवति ॥
आदित्यरूपेण स्तुतिमभिप्रेत्य पुनरपि व्याचष्टे । “अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते” इति । (५प्र०। ६अ०।११म०) । ‘आदित्यः' ह्युदयेन प्रकाशं कृत्वा, सर्व्वाः ‘प्रजाः’ गोपायतीति 'गोपाः', तद्रूपत्वेन स्तुतत्वात् महावीरः 'गोपाः' । एतत्पाठेन यजमानमेव 'प्रजानां' 'गोप्तारं' करोति ॥
प्रथमपादस्योत्तरभागोक्तादित्यरूपेणावस्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध इति दर्शयति । “अनिपद्यमानमित्याह ॥ ४ ॥ न ह्येष निपद्यते” इति । (५प्र०।६अ०। १२म०) ॥
द्वितीयपादोक्तं नानामार्गैरादित्यस्यागमनं परागमनञ्च प्रसिद्धमिति दर्शयति । “आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येष परा च पथिभिश्चरति” इति। (५प्र०। ६अ०।१३म०) ॥
यदायमादित्य उदयं प्राप्तः सर्व्वाः प्रजा अभितो विशेषेण
* खावयवस्थानि इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४४५
रोव॑र्त्ति॒ भुव॑नेष्व॒न्तः॑।(१) । (२)अ॒त्र प्रावी॒ः । मधु॑माध्वीभ्यां॒ मधु॑माधूचीभ्यां॑ । अनु॑ वां देव॒वीत॑ये(२) । (३)सम॒-
पश्यति । तदानीं स्वेन सह वर्त्तमाना दूरे विविधं प्रसृताश्च मरीचीः वस्त्रवद्वसानो वर्त्तत इत्येतत् प्रसिद्धमित्येतादृशं तृतीयपादाभिप्रायं दर्शयति । “स सध्रीचीः स विषूचीर्व्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभिविप- श्यति” इति । (५ प्र० । ६ अ० । १४ म०) ॥
चतुर्थपादोक्ता भुवनमध्ये सूर्य्यस्यावृत्तिः प्रसिद्धेति दर्शय- ति । “आवरीवर्त्ति भुवनेष्वन्तरित्याह । आह्येष वरीवर्त्ति भुवनेष्वन्तः” इति । (५ प्र० । ६ अ० । १५ म०) ॥
अथ वसन्तर्त्तरूपेण स्तावकं मन्त्रमाह । (२)“अत्र प्रावीः ० अनु वां देववीतये”(२) इति। हे महावीर ‘अत्र’ अस्मिन् कर्म्मणि, ‘मधुमाध्वीभ्यां’ सहितस्त्वं ‘प्रावीः’ अस्मान् प्रकर्षेण रक्षित- वानसि, ‘मधु’शब्दा वसन्तावयवचैत्रमासाभिमानिदेवमाचष्टे । ‘माध्वी’ शब्दस्तत्पत्नीं । तथा द्वितीयो ‘मधु’शब्दः वसन्तावयव- वैशाखमासाभिमानिदेवमाचष्टे, ‘माधूची’शब्दस्तत्पत्नीं ताभ्यां सहितस्त्वं प्रावीरित्यन्वयः । ‘वां’ वसन्तदेवौ युवां, ‘अनु’सृत्य, ‘देववीतये’ देवप्राप्त्यर्थं, महावीरमवेक्षते इति शेषः ॥
मन्त्रस्य वसन्तर्त्तूपरतां दर्शयति । “अत्र प्रावीर्मधुमाध्वी- भ्यां मधुमाधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्प-