भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ
४३४तैत्तिरीये आरण्यके

भा॒स्युदी॑चीः। दशो॒र्द्वाभा॑सि सुम॒न॒स्यमा॑नः। स नो॒ रुचं॑ धे॒ह्यहृ॑णीयमानः^(१)। ^(२)अ॒ग्निष्ट्वा॒ वसु॑भिः पुर॒स्ताद्रो॑चयतु गाय॒त्रेण॒ छन्‍द॑सा। स मा॒ रु॑चितो रो॑चय^(२)।

भासि दक्षिणा ० सनो रुचं धेह्यहृणीयमानः”(१) इति। हे महावीर, ‘प्राचीः’ प्राग्दिग्वर्त्तिन्यो ज्वालाः ‘दश’सङ्ख्याका यथा भवन्ति तथा ‘भासि’ त्वं दीप्यसे। एवं दक्षिणादिषु योज्यं। ताभिरेताभिः सर्व्वाभिः ज्वालाभिः सौमनस्यं प्राप्तं, ‘सः’ त्वं, ‘अहृणीयमानः’ केनाप्यहिंस्यमानः सन्, ‘नः’ अस्मदर्थं, ‘रुचं’ ‘धेहि’ तेजो धारय॥

अथ दिग्भेदेन देवताविशेषप्रतिपादकानि पञ्चयजूंषि तत्र प्रथमं यजुराह। ^(२)“अग्निष्ट्वा वसुभिः ० रोचय”^(२) इति। हे महावीर त्वां, पूर्व्वस्यां दिशि ‘वसुभिः’ देवैः, गायत्रीच्छन्दो देवतया च सह ‘अग्निः’ देवः, ‘रोचयतु’ दीपयतु, पुरतः ‘रुचितः’ दीपितः, ‘सः’ त्वं, मां, ‘रोचय’ प्रकाशय॥

अस्मिन् मन्त्रे यदग्नेर्दीपकत्वं तन्मुख्यमेव न तूपचरितं इत्येवकारेण दर्शयति। “अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसेत्याह। अग्निरैवेनं वसुभिः पुरस्ताद्रोचयति गायत्रेण छन्दसा” इति। (५प्र०। ५अ०। १म०)॥

रोचयत्वित्ययं लोट्प्रत्ययो न विध्यर्थः किन्त्वाशीरर्थ इत्येतद्दर्शयति। “स मा रुचितो रोचयेत्याह। आशिषमेवैतामाशास्ते” इति। (५प्र०। ५अ०। २म०)॥

४ प्रपाठके ६ अनुवाकः । ४३५

(१)इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु त्रैष्टु॒भेन॒ छन्द॑सा । स मां रु॒चितो रो॑चय । वरु॑णस्त्वादि॒त्यैः प॒श्चाद्रो॑चयतु जाग॑तेन॒ छन्द॑सा । स मां रु॒चितो रो॑चय ॥ १ ॥

द्यु॒तानस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चयत्वानु॑ष्टुभेन॒ छन्द॑सा । स मां रु॒चितो रो॑चय । बृह॒स्पति॑-


अथ दक्षिणादिदिग्देवताविषयाणि चत्वारि यजूंष्याह । “(१)इन्द्रस्त्वा रुद्रैर्दक्षिणतो ० स मा रुचिता रोचय”(१) इति । पूर्वोक्ताग्निविषययजुरिवैन्द्रादिविषयाणि चत्वारि यजूंषि व्याख्येयानि ॥

एतेषु चतुर्ष्वपि यजुःषूपचारव्यावृत्तित्वेवकारेण लोट्प्रत्ययस्याशिरर्थत्वं च पूर्ववद्दर्शयति । “इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसेत्याह । इन्द्र एवैनं् रुद्रैर्दक्षिणतो रोचयति त्रैष्टुभेन छन्दसा । स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते । वरुणस्त्वादित्यैः पश्चाद्रोचयतु जागतेन छन्दसेत्याह । वरुण एवैनमादित्यैः पश्चाद्रोचयति जागतेन छन्दसा ॥१॥ स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसेत्याह । द्युतान एवैनं मारुतो मरुद्भिरुत्तरतो रोचयत्यानुष्टुभेन छन्दसा । स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रोचयतु पाङ्क्तेन

४३६ तैत्तिरीये आरण्यके

स्त्वा विश्‍वै॑र्दे॒वैरु॒परि॑ष्टाद्रोचयतु पा॒ङ्क्ते॑न॒ छन्द॑सा । स मा रु॒चितो॒ रोच॑य^(३) । ^(४)रो॒चित॒स्त्वं दे॑व घर्म दे॒वेष्व॑सि॑ । रो॒चि॒षी॒या॒हं म॑नु॒ष्ये॑षु^(४) । ^(५)सम्राड्॒ घर्म॑ रु॒चित॒स्त्वं दे॒वेष्वायु॑ष्माꣳस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सि । रु॒चितो॒ऽहं म॑नु॒-

छन्दसेत्याह । बृहस्पतिरेवैनं विश्‍वैर्देवैरुपरिष्टाद्रोचयति पाङ्क्तेन छन्दसा । स मा रुचिता रोचयेत्याह । आशिषमेवैतामाशास्ते” इति ॥ २ ॥ (५प्र०।५अनु०।३म०) ॥

अथ यजुरन्तरमाह । ^(४)“रोचितस्त्वं देव घर्म ० मनुष्येषु^(४)” इति । हे ‘देव’ द्योतमान, ‘घर्म’ महावीर, ‘त्वं’ ‘देवेषु’ मध्ये, ‘रोचितः’ प्रकाशितः, ‘असि’ । अतस्त्वत्प्रसादात् ‘अहं’ अपि ‘मनुष्येषु’ मध्ये, ‘रोचिषीय’ प्रकाशितो भूयासं ॥

अस्मिन् मन्त्रे भागद्वयगतयोरर्थयोः प्रसिद्धिमवलम्ब्याविलम्ब्य हिशब्देनैवकारेण दर्शयति । “रोचितस्त्वं देव घर्म देवेष्वित्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येष्वित्याह । रोचत एवैष मनुष्येषु” इति । (५प्र०।५अनु०।४म०) ॥

अथ यजुरन्तरमाह । ^(५)“सम्राट् घर्म रुचितः ० ब्रह्मवर्चसी भूयासं”^(५) इति । हे ‘घर्म’ महावीर, ‘त्वं’ ‘देवेषु’ मध्ये, बहुगुणयुक्तः ‘असि’, के ते गुणा इति त उच्यन्ते । ‘सम्राट्’ साम्राज्ययुक्तः, ‘रुचितः’ प्रकाशितः, ‘आयुष्मान्’ दीर्घेणायुषा

४ प्रपाठके ६ अनुवाकः। ४३७

ष्ये॒षायु॑ष्मा॒ꣳस्तेज॑स्वी ब्रह्म॑वर्च॒सी भू॑यास॑म्⁽५⁾। ⁽६⁾रुग॑सि। रुचं॑ मयि॑ धेहि॥ मयि॒ रुक्⁽६⁾। ⁽७⁾दश॑ पु॒रस्ता॑द्रोचसे। दश॑ दक्षि॒णा। दश॑ प्र॒त्यङ्। दशोद॑ङ्। दशो॒र्ध्वा भा॑सि

युक्तः, 'तेजस्वी' महत्या कान्त्या युक्तः, 'ब्रह्मवर्चसी' श्रुताध्य- यनसम्पन्नः, तत्प्रसादात् 'अहं' अपि 'मनुष्येषु' मध्ये, रुचि- मत्त्वादिगुणयुक्तो 'भूयासं'॥

अत्रापि द्विशब्दैवकाराभ्यां मन्त्रभागौ पूर्व्वद्व्याचष्टे। “स- म्राट् घर्म रुचितस्त्वं देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चस्यसोत्याह। रुचितो ह्येष देवेष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी। रुचतोऽहं मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह। रुचित एवैष मनुष्येष्वायुष्माꣳस्तेजस्वी ब्रह्मवर्चसी भवति” इति। (५ प्र०। ५ अनु०। ५ म०)॥

अथ यजुरन्तरमाह। ⁽६⁾“रुगसि ० मयि रुक्”⁽६⁾ इति। हे महावीर 'रुगसि' त्वमेव दीप्तिरूपः असि। अतः, 'मयि' 'रुचं' दीप्तिं, 'धेहि' सम्पादय, तदनुग्रहात् 'रुग्' दीप्तिः, 'मयि' तिष्ठत्विति शेषः॥

धेहीत्यस्य लोट्प्रत्ययस्याशिरर्थत्वं दर्शयति। “रुगसि रुचं मयि धेहि मयि रुग्गित्याह। आशिषमेवैतामाशास्ते” इति। (५ प्र०। ५ अनु०। ६ म०)॥

अथ यजुरन्तरमाह। ⁽७⁾“दश पुरस्ताद्रोचसे ० रोचितो घर्मो रुचीय”⁽७⁾ इति। अनुवाकादौ दश प्राचीरिति योऽर्थ

४३८ तैत्तिरीये आरण्यके

सु॒म॒न॒स्यमा॑नः । स न॑ः स॒म्राडिष॒मूर्जं॑ धेहि । वा॒जी वा॒जिने॑ पवस्व । रो॒चि॒तो घ॒र्मो रु॑चीय⁽७⁾ ॥ २ ॥ रोच॑य, धे॒हि, नव॑ च ॥ अनु० ६ ॥

उक्तः सोऽत्रापसंह्रियते । हे महावीर 'पुरस्तात्' पूर्व्वस्यां दिशि, 'दृशे' दीप्तयः, यथा भवन्ति तथा त्वं 'रोचसे' दीप्यसे, एवं दक्षिणादिषु दिक्षु द्रष्टव्यं । अतः 'सुमनस्यमानः' सौमनस्यं प्राप्तः, 'सम्राट्' साम्राज्यं प्राप्तः, 'सः' त्वं, 'नः' अस्माकं, 'इषं' 'ऊर्जं' च 'धेहि' सम्पादय । 'वाजी' समृद्धान्नः, त्वं 'वाजिने' समृद्धान्नाय मह्यं, 'पवस्व' सर्व्वं भोग्यं शोधय । एवमनेन प्रकारेण 'घर्मः' महावीरः, 'रोचितः' अस्माभिः प्रकाशितः, अतः तत्प्रसादादहमपि 'रुचीय' प्रकाशवान् भूयासं ॥

यदुक्तं सूत्रकारेण उपोत्तिष्ठन्नध्वर्युराह* रुचितो घर्म इति तदिदं कालमचितं विधत्ते । “तं यदेतैैर्यजूर्भिररोचयित्वा । रुचितो घर्म इति प्रब्रूयात् । अरोचुकोऽध्वर्युः स्यात् । अरोचुको यजमानः । अथ यदेनमेतैैर्यजूर्भी रोचयित्वा । रुचितो घर्म इति प्राह । रोचुकोऽध्वर्युर्भवति । रोचुको यजमानः” इति ॥ ३ ॥ (५ प्र० । ५ अ० । ७ म०) । 'तं' महावीरं, 'यदेतैः' अनुवाकोक्तैः, 'यजूर्भिः' मन्त्रैः, 'अरोचयित्वा' प्रकाशितमकृत्वा, प्रथमत एव 'घर्मः' महावीरः, 'रुचितः' प्रकाशितः, 'इति' 'प्रब्रूयात्' ।


* अध्वर्युं प्राह इति D चिह्नित पु० पाठः ।

४ प्रपाठके ७ अनुवाकः । ४३६

अथ सप्तमोऽनुवाकः ।

(१)अपश्यं गोपामनिपद्यमानं। आ च परा च प-

तदाध्वर्युयजमानौ दीप्तिरहितौ स्यातां यजुःपाठादूर्द्धं तु नायं दोषः, तस्मादुत्तरकाल एव 'रुचितः' 'घर्म' इति मन्त्रमध्वर्युर्ब्रूयात् ॥ पश्चाद्राचयति जागतेन छन्दसा, स मा रुचिता रोचयेत्याहाशिषमेवैतामाशास्ते, शास्ते, अष्टौ च ॥ इति पञ्चमप्रपाठके ५ अनुवाकः ॥ ५ ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥


अथ सप्तमोऽनुवाकः ।

षष्ठे महावीरअभिमन्त्रणमुक्तं । अथ सप्तमे महावीरावेक्षणमुच्यते । कल्पः । यथा लोकमवस्थाय सर्व्व ऋत्विजो यजमान*श्चाधीयन्तो महावीरमवेक्षन्ते । अपश्यं गोपामिति । एतस्यानुवाकस्यादावेकाञ्चृचमाह । (१)“अपश्यं गोपामनिपद्यमानं ॰ आवरीवर्त्ति भुवनेष्वन्तः”(१) इति । अहं महावीरं 'अपश्यं' दृष्टवानस्मि । कीदृशं 'गोपां' कर्म्मनिष्पादनेन रक्षकं,


* यजमानाश्चाधीयन्तः इति तै० पृ० पाठः ।
2 I

४४० तैत्तिरीये आरण्यके

थिभि॒श्चर॑न्तं। स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑नः। आवे॑-

'अनिपद्यमानं' विनाशरहितं, अथ वा आदित्यरूपेण पतनर- हितं। तथा 'पथिभिः' नानामार्गैः, 'आ''चरन्तं' 'च' 'परा' 'चरन्तं' 'च' आदित्यरूपः सन्नाभिमुख्येन प्रातःकाले समा- गच्छन्तं, सायङ्काले पराङ्मुखत्वेन गच्छन्तं। 'सः' महावीर आदित्यरूपः, 'सध्रीचीः' एकत्र सहावस्थिता अपि, 'विषू- चीः' नानादेशेषु विभज्य गच्छन्तीरपि प्रजाः सर्वाः, 'वसा- नः' स्वकीयरश्मिभिराच्छादयन् इव वर्त्तते। अथ वा एक- त्रावस्थिताः तत्र तत्र पृथगवस्थिताश्च मरीचिः स्वस्मिन्नाच्छा- दयन् वर्त्तते। 'सः' च 'भुवनेष्वन्तः' सर्वेषु लोकेषु मध्ये, 'आवरीवर्त्ति' पुनःपुनरावर्त्तते। सोऽयं मन्त्र उपरिष्टा- द्व्याख्यास्यते॥

तत्र प्रथमं तावत् प्रवर्ग्यस्य कालं विधत्ते। "शिरो वा एतद्यज्ञस्य। यत् प्रवर्ग्यः। ग्रीवा उपसदः। पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति। ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति" इति। (५ प्र०।६ अ०।१ म०)। प्रवर्ग्यस्य यज्ञ-'शिरो'रूपत्वात् 'उपसदां' च यज्ञ-'ग्रीवा'रूपत्वात् उभयोः सामीप्याय 'उप- सदः' अनुष्ठानात्, प्रागेव 'प्रवर्ग्यं' कर्म, अनुतिष्ठेत्। तप्ते घृते पयःप्रक्षेपः प्रवृञ्जनं तद्यस्मिन् कर्मविशेषे विद्यते सोऽयं 'प्र- वर्ग्यः', स कर्मविशेषो यथा सम्पद्यते तथा प्रवृञ्जनं कुर्यादि- त्यक्षरार्थः। प्रवर्ग्योपसदोः सामीप्ये सति यथा लोके ग्रीवायां

४ प्रपाठके ७ अनुवाकः । ४४१

‘शिरः’ प्रतिष्ठितं भवति तथैतत् सम्पद्यते ‘ग्रीवासु’ इति वचन- व्यत्ययः ॥

प्रवर्ग्यस्यावृत्तिं विधत्ते । “त्रिः प्रवृणक्ति । त्रय इमे लो- काः । एभ्य एव लोकेभ्यो यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र०। ६ अ० । २ म०) । उपसदां दिनत्रयेऽनुष्ठेयत्वात् तत्समो- पवर्त्ती प्रवर्ग्योऽपि दिनत्रयेऽनुष्ठेयः तथा सति लोकत्रयार्थं यज्ञशिरः, प्रतिष्ठितं भवति ॥

सायं प्रातश्चेति कालद्वयानुष्ठानं प्रशंसति । “षट् सम्प- द्यन्ते । षड् वा ऋतवः ॥ १ ॥ ऋतुभ्य एव यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र० । ६ अ० । ३ म०) । एकैकस्मिन् दिने कालभेदेन द्विरनुष्ठानात् ‘षट्’ सङ्ख्या सम्पद्यते । तत* ऋतुभ्यः सकाशा- द्यज्ञ-‘शिरः’ सम्पादितं भवति ॥

दिनषट्कपक्षं विधत्ते । “द्वादशकृत्वः प्रवृणक्ति । द्वादश मासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र० । ६ अ० । ४ म०) । षट्सु दिनेषु कालद्वयानुष्ठानेन द्वाद- शत्वं ॥

द्वादशसु दिनेष्वनुष्ठानविधिमभिप्रेत्य प्रशंसति । “चतुर्विꣳ- शतिः सम्पद्यन्ते । चतुर्विꣳशतिरर्द्धमासाः । अर्द्धमासेभ्य एव यज्ञस्य शिरोऽवरुन्ध” इति । (५ प्र० । ६ अ० । ५ म०) । द्वाद- शस्वपि दिनेषु कालद्वयानुष्ठानेन ‘चतुर्विंशतिः’ सम्पत्तिः अग्नि- ष्टोमे त्रिष्वेव दिनेषूपसदः अग्निचयन षट्सु दिनेषु अहीने सत्रे


* ऋत इति तै० पु० पाठः ।

३।२

द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्र-

४१२ तैत्तिरीये आरण्यके

द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्र- कारेण सङ्गृहीतं त्र्युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशोपसत्के चतुर्विंशतिकृत्वः इति ॥

विकल्पितं पक्षान्तरं विधत्ते । "अथो खलु । सकृदेव प्रवृ- ञ्ज्यः । एकँ हि शिरः" ॥ २ ॥ इति । (५ प्र० । ६ अ० । ६ म०) । पक्षान्तरोपन्यासाय 'अथो' शब्दः शिरस एकत्वात् तत्स्था- नीयः प्रवर्ग्यः सकृदेवानुष्ठेयो न त्वावर्त्त्येति केषाञ्चित् पक्षः । एतच्च सूत्रकारेण विस्पष्टमुदाहृतं । सुत्यायां प्रवृञ्जनमेके समामनन्ति । तत्र मीमांसा यदा पुरस्तादरुणः स्यात् अथ प्रवृञ्ज्य उपकालं उपव्युषं समयास्तमिषित उदितानुदित उदि- ते वा प्रातःसङ्गवे मध्यन्दिने वा पवमाने सुत आग्नीध्रागारे प्रवृञ्ज्यः सकृदेव प्रवृञ्ज्य इति विज्ञायत इति ॥

प्रवर्ग्यस्याग्निष्टोमसम्वन्धं विधत्ते । "अग्निष्टोमे प्रवृणक्ति । एतावान् वै यज्ञः । यावानग्निष्टोमः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति" इति । (५ प्र० । ६ अ० । ७ म०) । यावन्तः सोमयागाः सन्ति तेषु सर्वेषु 'अग्निष्टोमः' सञ्चारी अतः सर्व्व- यज्ञात्मकः तत्रानुष्ठिते सति कृत्स्नेऽपि यज्ञे 'शिरः' प्रतिष्ठितं भवति । अनारभ्याधीतस्य प्रवर्ग्यस्य यद्यपि पुरस्तादुपसदामि- तिवाक्येनैव प्रकृतिभूताग्निष्टोमसम्बन्धः, प्राप्तः, तथापि शाखा- न्तरगतं न प्रथमयज्ञे प्रवृञ्ज्यादिति निषेधमपोद्य प्रतिप्रस- वार्थं पुनर्विधानं, निषेधस्त्वतिरात्रेऽपि चरितार्थो भविष्यति तस्यापि विकल्पितप्रथमयज्ञत्वात् , तथा चापस्तम्ब आह ।

४ प्रपाठके ७ अनुवाकः । ४४३

अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पूर्व्वं समामनन्तीति ॥

पुरस्तादुपसदामितिवाक्येनोक्तोऽप्युपमङ्गावात् पूर्व्वं प्रवर्ग्य- स्यापि प्राप्तौ निषेधयति । “नोक्थे प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थे प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्द्दहेत्” इति । (५ प्र० । ६ अ० । ८ म०) । एह्योषु ब्रवाणीत्यादोतिशस्त्रा- ण्यत्रोक्थशब्देनाभिधीयन्ते तान्यर्हतीत्युक्थ्यः क्रतुः तत्र प्रवृञ्ज- नेनोक्थशस्त्रसाध्याः ‘प्रजाः’ ‘पशवः’ च दह्येयुः, तस्मात् तत्र, ‘न’ ‘प्रवृञ्ज्यात्’ ॥

उक्थ्यविशेषे प्रतिप्रसवं विधत्ते । “विश्वजिति सर्व्वपृष्ठे प्रवृ- णक्ति ॥ ३ ॥ पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वावरुन्धे” इति । (५ प्र० । ६ अ० । ९ म०) । रथन्तरबृहद्वैरूपवैराजशाक्कररैवतसामसाध्यानि पृष्ठस्तोत्राणि सर्व्वाण्यपि यस्मिन् विश्वजिद्यागे विद्यन्ते । सोऽयं सर्व्वपृष्ठः, यद्यपि विश्वजिदुक्थ्यसंस्थो नात्र प्रसिद्धः तथापि शाखा- न्तरे तत्सद्भावमभिप्रेत्य नोक्थे ‘प्रवृञ्ज्यादिति निषेधं वार- यितुं पुनर्विधिः सर्व्वत्र पृष्ठस्तोत्राणि, ‘अच्युतं’ न च्युतमपि दोषं । ‘च्यावयन्ति’ विनाशयन्ति, अत्रापि पृष्ठस्तोत्रैरेव ‘अच्युतं’ निषेधप्रयुक्तं प्रवलमपि दोषं, ‘च्यावयित्वा’ प्रवर्ग्यफलमपि प्राप्नोति ॥

तदेवं बुद्धिस्थं प्रवर्ग्यविधिविचारं परिसमाप्य प्रकृतस्यैव मन्त्रस्य प्रथमपादे पूर्व्वभागं* व्याचष्टे । “अपश्यं गोपामित्याह ।

* पूर्व्वपादं इति तै० पु० पाठः ।

४४४तैत्तिरीये आरण्यके

प्राणो वै गोपाः। प्राणमेव प्रजासु विघातयति" इति। (५प्र०।६अ०।१०म०)। 'प्राणः' हि खावस्थानेन* शरीराणि गोपायतीति 'गोपाः' मन्त्रे च प्राणेन स्तुतिमभिप्रेत्य महावीरे गोपाशब्दः प्रयुक्तः, अतो गोपामपश्यमित्युक्ते सति सर्व्वासु 'प्रजासु' 'प्राणमेव' प्रसारितवान् भवति ॥

आदित्यरूपेण स्तुतिमभिप्रेत्य पुनरपि व्याचष्टे । “अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते” इति । (५प्र०। ६अ०।११म०) । ‘आदित्यः' ह्युदयेन प्रकाशं कृत्वा, सर्व्वाः ‘प्रजाः’ गोपायतीति 'गोपाः', तद्रूपत्वेन स्तुतत्वात् महावीरः 'गोपाः' । एतत्पाठेन यजमानमेव 'प्रजानां' 'गोप्तारं' करोति ॥

प्रथमपादस्योत्तरभागोक्तादित्यरूपेणावस्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध इति दर्शयति । “अनिपद्यमानमित्याह ॥ ४ ॥ न ह्येष निपद्यते” इति । (५प्र०।६अ०। १२म०) ॥

द्वितीयपादोक्तं नानामार्गैरादित्यस्यागमनं परागमनञ्च प्रसिद्धमिति दर्शयति । “आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येष परा च पथिभिश्चरति” इति। (५प्र०। ६अ०।१३म०) ॥

यदायमादित्य उदयं प्राप्तः सर्व्वाः प्रजा अभितो विशेषेण

* खावयवस्थानि इति तै० पु० पाठः ।

४ प्रपाठके ७ अनुवाकः । ४४५

रोव॑र्त्ति॒ भुव॑नेष्व॒न्तः॑।(१) । (२)अ॒त्र प्रावी॒ः । मधु॑माध्वीभ्यां॒ मधु॑माधूचीभ्यां॑ । अनु॑ वां देव॒वीत॑ये(२) । (३)सम॒-

पश्यति । तदानीं स्वेन सह वर्त्तमाना दूरे विविधं प्रसृताश्च मरीचीः वस्त्रवद्वसानो वर्त्तत इत्येतत् प्रसिद्धमित्येतादृशं तृतीयपादाभिप्रायं दर्शयति । “स सध्रीचीः स विषूचीर्व्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभिविप- श्यति” इति । (५ प्र० । ६ अ० । १४ म०) ॥

चतुर्थपादोक्ता भुवनमध्ये सूर्य्यस्यावृत्तिः प्रसिद्धेति दर्शय- ति । “आवरीवर्त्ति भुवनेष्वन्तरित्याह । आह्येष वरीवर्त्ति भुवनेष्वन्तः” इति । (५ प्र० । ६ अ० । १५ म०) ॥

अथ वसन्तर्त्तरूपेण स्तावकं मन्त्रमाह । (२)“अत्र प्रावीः ० अनु वां देववीतये”(२) इति। हे महावीर ‘अत्र’ अस्मिन् कर्म्मणि, ‘मधुमाध्वीभ्यां’ सहितस्त्वं ‘प्रावीः’ अस्मान् प्रकर्षेण रक्षित- वानसि, ‘मधु’शब्दा वसन्तावयवचैत्रमासाभिमानिदेवमाचष्टे । ‘माध्वी’ शब्दस्तत्पत्नीं । तथा द्वितीयो ‘मधु’शब्दः वसन्तावयव- वैशाखमासाभिमानिदेवमाचष्टे, ‘माधूची’शब्दस्तत्पत्नीं ताभ्यां सहितस्त्वं प्रावीरित्यन्वयः । ‘वां’ वसन्तदेवौ युवां, ‘अनु’सृत्य, ‘देववीतये’ देवप्राप्त्यर्थं, महावीरमवेक्षते इति शेषः ॥

मन्त्रस्य वसन्तर्त्तूपरतां दर्शयति । “अत्र प्रावीर्मधुमाध्वी- भ्यां मधुमाधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्प-

४१६ तैत्तिरीये आरण्यके

ग्निर॒ग्निना॑गतः॑। सं दे॒वेन॑ सवि॒त्रा। संꣳ॒सूर्य्ये॑ण रोच- ते(२) ॥ १ ॥

यति" इति। (५ प्र०। ६ अनु०। १६ म०)। 'अस्मै' यजमानार्थं, वसन्तसम्बन्धिनावृतववयवौ चैत्रवैशाखमासौ खोचितभोगप्रदा- नसमर्थौ करोति ॥

अथ ग्रीष्मर्त्तुरूपेण स्तावकं मन्त्रमाह। (२)"समग्निरग्निना- गत • संꣳसूर्य्येण रोचते"(२) इति। अग्निशब्दाभ्यामत्युष्णौ ग्रीष्मावयवौ ज्येष्ठाषाढमासौ विवक्षितौ। तत्रैक 'अग्निः' ज्येष्ठ- मासरूपः, द्वितीयेन 'अग्निना' आषाढमासरूपेण, 'सं' 'गतः' अभूत्, तदुभयमासवर्त्तिनावादित्यो सवितृसूर्य्यशब्दाभ्यां विव- क्ष्येते। अयं महावीराख्यो देवो ज्येष्ठमासे 'सवित्रा' 'सं' 'गतः' आषाढमासे 'सूर्य्येण' 'सं'-गत्य 'रोचते' ॥

अस्य मन्त्रस्य ग्रीष्मर्त्तुपरतां दर्शयति। "समग्निरग्निनाग- तेत्याह ॥ ५ ॥ ग्रैष्मावेवास्मा ऋतू कल्पयति" इति। (५ प्र०। ६ अनु०। १७ म०)। वसन्तवाक्यवद्व्याख्येयं ॥

तस्यैव* मन्त्रस्यार्थान्तरं दर्शयति। "समग्निरग्निनागतेत्याह। अग्निर्ह्यैवैषोऽग्निना सङ्गच्छते" इति। (५ प्र०। ६ अनु०। १८ म०)। 'एषः' महावीररूपः, 'अग्निः' आदित्यरूपेण 'अग्निना' सङ्ग- च्छते, इत्ययमर्थः प्रसिद्धः ॥

* अस्यैव इति तै० पु० पाठः

४ प्रपाठके ७ अनुवाकः। ४४७

(४)स्वाहा॒ सम॒ग्निस्तप॑सा गतः। सं दे॒वेन॑ सवि॒त्रा। सᳵ सूर्य्ये॑णारोचिष्ट(४)। (५)ध॒र्त्ता दि॒वो विभा॑सि रज॑सः। पृ॒थि॒व्या॒ ध॒र्त्ता। उ॒रोर॒न्तरि॑क्षस्य ध॒र्त्ता। ध॒र्त्ता दे॒वो दे॒-

पुनरपि ग्रीष्मर्तुरूपेणैव स्तावकं मन्त्रान्तरमाह। (४)“स्वाहा समग्निस्तपसा गतः ० सᳵ सूर्य्येणारोचिष्ट”(४) इति। ‘स्वाहा’ शब्दो निपातत्वादनेकार्थः, अग्निवदुष्णरूपो ज्येष्ठमासः ‘तपसा’ तापयुक्तेन आषाढमासेन, ‘स्वाहा’ सुष्ठु, समागतः’ ‘सं’ ‘गतः’ अभूत्, ‘सं’ ‘देवेन’ इत्यादि पूर्व्ववत् ॥

अस्य मन्त्रस्य पूर्व्वमन्त्रेण सह समानार्थतां दर्शयति। “स्वाहा समग्निस्तपसा गतेत्याह। पूर्व्वमेवोदितं। उत्तरेणा-भिष्टृणाति” इति। (५ प्र०। ६ अ०। १६ म०)। ग्रीष्मविषयत्वं पूर्व्वस्मिन् मन्त्रेऽभिहितमेव ग्रीष्ममुत्तरमन्त्रेणापि* श्रुतिर्ब्रूते ॥

अथ वर्षर्तुरूपेण स्तावकं मन्त्रमाह। (५)“धर्त्ता दिवो विभासि रजसः ० अमर्त्यस्तपोजाः”(५) इति। हे महावीर वर्षर्तुरूपेण ‘दिवः’ द्युलोकस्य, ‘रजसः’ मेघादिरञ्जनोपेतस्य, ‘धर्त्ता’ धारकः, ‘विभासि’ प्रकाशसे। तथा ओषधोजननेन ‘पृथिव्याः’ अपि ‘धर्त्ता’ स्वकीयवृष्टिप्रसारणेन, ‘उरोः’ विस्ती-र्णस्य, ‘अन्तरिक्षस्य’ अपि ‘धर्त्ता’ हविर्द्वारेणोपकारकत्वात्, ‘देवानां’ अपि ‘धर्त्ता’ पोषकः, ‘देवः’ अतएव ‘अमर्त्यः’


* मन्त्रेणाभिगृह्णातीति ब्रूते इति तै० पु० पाठः।
३ K

४४८ तैत्तिरीये आरण्यके

वानां॑ । अम॑र्त्यस्तपो॒जाः॑(५) । ⁽६⁾हृ॒दे त्वा॒ मन॑से त्वा । दि॒वे त्वा॒ सूर्य्या॑य त्वा ॥ २ ॥ ऊ॒र्द्धमि॒ममध्व॑रं कृ॑धि । दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ⁽६⁾ ।

मरणरहितः, दीक्षादिरूपेण तपसा जायते सिध्यतीति ‘तपोजाः’॥

अस्य मन्त्रस्य वर्षर्त्तूपरतां दर्शयति । “धर्त्ता दिवो विभासि रजसः पृथिव्या इत्याह । वार्षिकावेवास्मा ऋतू कल्पयति” इति । (५ प्र०। ६ अ०। २० म०) । वसन्तमन्त्रवद्व्याख्येयं ॥

शारदर्त्तू*रूपेण स्तावकमन्त्रमाह । ⁽६⁾“हृदे त्वा मनसे त्वा • दिवि देवेषु होत्रा यच्छ”⁽६⁾ इति । हे महावीर त्वां, ‘हृदे’ हृदयार्थमवेक्ष इति शेषः । ‘मनसे’ मनोऽर्थं त्वामवेक्षे, अत्र हृन्मनःशब्दाभ्यां अनुकूलभोगार्थत्वेन चिन्त्यमानावान्तरयुजकार्त्तिकमासावुपलक्ष्येते तन्मासद्वयोचितभोगसिद्धार्थमित्यर्थः, तथा ‘दिवे’ द्युलोकप्राप्त्यर्थं, ‘सूर्य्याय’ सूर्य्यप्राप्त्यर्थञ्च त्वामवेक्षे, ‘इमं’ अस्मदीयं, ‘अध्वरं’ यागं, ‘ऊर्द्धं कृधि’ उन्नतं कुरु, ‘होत्राः’ इमा होमक्रियाः, ‘दिवि’ द्युलोके, ‘देवेषु’ मध्ये, ‘यच्छ’ देहि कथय, इत्यर्थः ॥

अस्य मन्त्रस्य शारदर्त्तूपरतां दर्शयति । “हृदे त्वा मनसे लेत्याह । शारदावेवास्मा ऋतू कल्पयति” इति ॥ ६ ॥ (५ प्र०। ६ अ०। २१ म०) । वसन्तवाक्यवद्व्याख्येयं ॥

* शरदृतु इति तै० पु० पाठः ।

४ प्रपाठके ७ अनुवाकः । ४४६

$^{(७)}$विश्वा॑सां भुवां पते । विश्व॑स्य भुवनस्पते । विश्व॑स्य मनसस्पते । विश्व॑स्य वचसस्पते । विश्व॑स्य तपसस्पते॑ । विश्व॑स्य ब्रह्मणस्पते$^{(७)}$। $^{(८)}$दे॒व॒स्रूस्त्वं दे॑व घर्म दे॒वान् पा॑हि$^{(८)}$। $^{(९)}$तपो॒जां वाच॑म॒न्मे निय॑च्छ दे॒वायुव॑म्$^{(९)}$॥ ३ ॥

मन्त्रचरमभागेन सर्वेषां लोकानां होमक्रियाभिसम्बन्धं* दर्शयति । “दिवि देवेषु वाचा यच्छत्याह । होत्राभिरेवैनाँल्लोकान्त्सन्दधाति” इति । (५ प्र० । ६ अ० । २२ म०) ॥

अथ हेमन्तर्त्तुरूपेण स्तावकं मन्त्रमाह । $^{(७)}$“विश्वासां भुवां पते ॰ विश्वस्य ब्रह्मणस्पते”$^{(७)}$ इति । जम्बूद्वीपादया या भुवः तासां ‘भुवां’ ‘विश्वासां’ सर्व्वासां, हे ‘पते’ पालक, हेमन्तर्त्तुरूप महावीर त्वामवेक्षे इति शेषः । ‘भुवनः’ भुवनस्य लोकजातस्य, ‘मनसः’ अन्तःकरणजातस्य, ‘वचसः’ वाक्यजातस्य, ‘तपसः’ तपोजातस्य, ‘ब्रह्मणः’ वेदजातस्य, ‘पते’ पालक, त्वामवेक्षे ॥

अस्य मन्त्रस्य हेमन्तर्त्तुपरतां दर्शयति । “विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा एतौ कल्पयति” इति । (५ प्र० । ६ अ० । २३ म०) । वसन्तवाक्यवद्व्याख्येयं ॥

शैशिरर्त्तुरूपेण स्तावकं मन्त्रमाह । $^{(८)}$“देवस्रूस्त्वं देव घर्म देवान् पाहि”$^{(८)}$ इति । हे ‘घर्म’ प्रवर्ग्ग्य, ‘देव’ शैशिरर्त्तुरूप,


* सम्बन्धसिद्धिं इति तै० पु० पाठः
3 K 2

४५० तैत्तिरीये आरण्यके

(१०)गर्भोँ दे॒वानां॑(१०)। (११)पि॒ता म॑ती॒नां(११)। (१२)पति॑:

‘देवश्रूः’ देवेषु श्रूयमाणः, ‘त्वं’ ‘देवान्’, हविःप्रदानेन ‘पाहि’ रक्ष॥

अस्य मन्त्रस्य शैशिरर्त्तुपरतां दर्शयति। “देवश्रूस्त्वं देव घर्म देवान् पाहीत्याह। शैशिरावेवास्मा ऋतू कल्पयति” इति। (५ प्र०। ६ अ०। २४ मं०)। वसन्तवाक्यवद्व्याख्येयं॥

अथ बहूनि वाक्यानि नानाविधगुणैः स्तावकान्युच्यन्ते। तत्रैकवाक्यमाह। (९)“तपोजां वाचमस्मे नियच्छ देवायुवं”(९) इति। हे महावीर ‘अस्मे’ अस्मभ्यं, ‘तपोजां’ तपस उत्पन्नां, ‘देवायुवं’ देवान् इच्छन्तीं, ‘वाचं’ मन्त्ररूपां, ‘नियच्छ’ नितरां देहि, ‘तपोजां’ इत्यनेन यज्ञयोग्या मन्त्ररूपा वाग् विवक्ष्यते॥

तस्यास्तपस्विना पुरुषेण लभ्यमानत्वादित्येतद्दर्शयति। “तपोजां वाचमस्मे नियच्छ देवायुवमित्याह। या वै मेध्या वाक्। सा तपोजाः। तामेवावरुन्धे” इति॥ ७॥ (५ प्र०। ६ अ०। २५ मं०)॥

वाक्यान्तरमाह। (१०)“गर्भो देवानां”(१०) इति। अयं महावीरः ‘देवानां’ सम्बन्धी ‘गर्भ’-रूपः देवैरपेक्षितस्य हविषोऽत्र गर्भरूपेणावस्थानात्॥

मन्त्रार्थस्य प्रसिद्धिं दर्शयति। “गर्भो देवानामित्याह। गर्भो ह्येष देवानां” इति। (५ प्र०। ६ अ०। २६ मं०)॥

वाक्यान्तरमाह। (११)“पिता मतीनां”(११) इति। देवैर्हविःप्रदानार्थं तदा तदा मन्यन्त इति मतयः प्रजास्तासां

४ प्रपाठके ७ अनुवाकः। ४५१

प्र॒जानां॑(१२) । (१३)म॒तिः क॒वीनां॑(१३) । (१४)सं दे॒वो दे॒वेन॑ सवि॒त्राय॑तिष्ट । सᳵ सूर्य्ये॑णारुक्त(१४) । (१५)आयु॑र्दास्त्व-

प्रजानां मातुं,* महावीरः फलदानेन पालकत्वात् 'पिता' ॥ मतिशब्देन प्रजाविवक्षां दर्शयति। "पिता मतीनामित्याह१ प्रजा वै मतयः। तासामेष एव पिता। यत् प्रवर्ग्ग्यः। तस्मादे- वमाह" इति। (५प्र०।६अ०।२७म०) ॥० वाक्यान्तरमाह। (१२)“पतिः प्रजानां”(१२) इति। अयं महावीरः पूर्वोक्तरीत्या पालकत्वात् 'प्रजानां' स्वामी ॥ अस्य वाक्यास्यार्थे प्रसिद्धं दर्शयति। "पतिः प्रजानामि- त्याह। पतिर्ह्येष प्रजानां" इति। (५प्र०।६अ०।२८म०) ॥ वाक्यान्तरमाह। (१३)“मतिः कवीनां”(१३) इति। ये कवयः शास्त्रार्थाभिज्ञाः, तेषामभिज्ञानसाधनबुद्धिरूपोऽयं महावीरः, अनेन कर्म्मण्यनुष्ठिते तेन सुकृतेन प्रजोदयात्॥ अस्मिन्नर्थे प्रसिद्धं दर्शयति। "मतिः कवीनामित्याह। ॥ ८ ॥ मतिर्ह्येष कवीनां" इति। (५प्र०।६अ०।२६म०) ॥ वाक्यान्तरमाह। (१४)“सं देवो देवेन सवित्रायतिष्ट। सᳵ सूर्य्येणारुक्त”(१४)इति। अयं महावीरः 'देवः' 'देवेन' 'सवित्रा' 'सं'युज्य, 'अयतिष्ट' यजमानमनुग्रहीतुं प्रयत्नं कृतवान्। तथा 'सूर्य्येण' 'सᳵ'युज्य, 'आरुक्त' दीप्तवान्॥


* अयं इति तै० पु० पाठः।

४५२तैत्तिरीये आरण्यके

म॒स्मभ्यं॑ घ॒र्म॒ वर्चो॑ दा॒ अ॑सि॑^{(१५)}। ^{(१६)}पि॒ता नो॑ऽसि पि॒ता नो॑ बोध^{(१६)}। ^{(१७)}आ॒यु॒र्द्धास्त॒नू॒धाः प॑यो॒धाः। व॒र्चो॒दा व॑रिवो॒दा द्र॑विणो॒दाः॥ ४ ॥

• अत्र देवशब्दद्वयेन आदित्यमहावीरौ विवक्षिताविति दर्शयति। “सᳵ देवो देवेन॑ सविचायतिष्ठ सᳵ सूर्य्येणारुक्तेत्याह। अमुञ्चैवादित्यं प्रवर्ग्र्यञ्च सᳵ शास्ति” इति। (५ प्र०। ६ अ०। ३० म०)। सम्यक् कथयतीत्यर्थः॥

वाक्यान्तरमाह। ^{(१५)}“आयुर्दास्त्वमस्मभ्यं घर्म वर्चो दा असि”^{(१५)} इति। हे ‘घर्म’ महावीर, ‘त्वं’ ‘अस्मभ्यं’ ‘आयु’ स्तेजसोः* प्रदाता ‘असि’॥

अस्य वाक्यस्यायुःपरतां दर्शयति। “आयुर्दास्त्वमस्मभ्यं घर्म वर्चो दा असीत्याह। आशिषमेवैतामाशास्ते” इति। (५ प्र० ६ अ०। ३१ म०) ॥

वाक्यान्तरमाह। ^{(१६)}“पिता नोऽसि पिता नो बोध”^{(१६)} इति। हे महावीर ‘नः’ अस्माकं, पालकत्वात् ‘पिता’ ‘असि’। अतः ‘पिता’ जनक, एव भूत्वा ‘नः’ अस्मान्, ‘बोध’ इदं इदं कुर्व्विति सन्मार्गं बोधय॥

महावीरे प्रवृत्तस्योत्तरकर्त्तव्यताया बुध्यमानत्वात् बोधकत्वमस्यावश्यमस्तीत्येतद्दर्शयति। “पिता नोऽसि पिता नो


* वर्चसेः, इति तै० पु० पाठः।

४ प्रपाठके ७ अनुवाकः । ४५३

अ॒न्तरि॑क्षप्र॒ उरोर्वरी॑यान् । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिँᳵसीः^(१७) । ^(१८)त्वम॑ग्ने गृह॒पति॒र्विशा॑मसि । विश्वा॑सां मानु॑षीणां । श॒तं पू॒र्भिर्य्यविष्ठ पा॒ह्यंह॑सः । समे॒द्धा-रँᳵ श॒तंᳵ हिमो॑ः । तन्द्राविणंᳵ हार्दि॒वानं॑ । इ॒हैव रा-

बोधेत्याह । बोधयत्येवैनम्” इति । (५ प्र० । ६ अ० ० २२ म०) ॥

वाक्यान्तराण्याह । (१७)“आयुर्द्धास्तनूधाः पयोधाः ० अशी-महि त्वा मा मा हिंसीः”(१७) इति । अयं महावीरो दीर्घ-मायुः शरीरपाटवं* क्षीरसम्पदञ्च सम्पादयति । तथा कान्तिं पूजां धनञ्च प्रयच्छति । अन्तरिक्षं खोत्पन्नया ज्वालया प्रति-पूरयतीति ‘अन्तरिक्षप्रः’ अतएव ‘उरोः’ विशालादपि वस्तु-नः । ‘वरीयान्’ अतिशयेन विवृत्तः†, तादृश हे महावीर त्वां, ‘अशीमहि’ प्राप्नुयाम, प्राप्नुवन्तं मां, ‘मा’ ‘हिंसीः’ हिंसितं मा कुरु ॥

अथाग्निरूपेण स्तुत्यै‡ काञ्चिद्देवतामाह । (१८)“त्वमग्ने गृह-पतिर्विशामसि ० इहैव रातयः सन्तु(१८) इति । हे ‘अग्ने’ ‘त्वं’ ‘मानुषीणां’ मनुष्यजातियुक्तानां, ‘विश्वासां’ सर्व्वासाम्, ‘विशां’ प्रजानां, ‘गृहपतिः’ ‘असि’ गृहस्वामी, भवसि । हे ‘यविष्ठ’


* शरीरपोषकम् इति तै० पु० पाठः ।
† विस्तृतः इति तै० पु० पाठः । विवृतः इति D चिह्नितपुस्तकपाठः ।
‡ स्तुतामेकां ऋचमाह इति तै० पु० पाठः ।