तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
४४० तैत्तिरीये आरण्यके
थिभि॒श्चर॑न्तं। स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑नः। आवे॑-
'अनिपद्यमानं' विनाशरहितं, अथ वा आदित्यरूपेण पतनर- हितं। तथा 'पथिभिः' नानामार्गैः, 'आ''चरन्तं' 'च' 'परा' 'चरन्तं' 'च' आदित्यरूपः सन्नाभिमुख्येन प्रातःकाले समा- गच्छन्तं, सायङ्काले पराङ्मुखत्वेन गच्छन्तं। 'सः' महावीर आदित्यरूपः, 'सध्रीचीः' एकत्र सहावस्थिता अपि, 'विषू- चीः' नानादेशेषु विभज्य गच्छन्तीरपि प्रजाः सर्वाः, 'वसा- नः' स्वकीयरश्मिभिराच्छादयन् इव वर्त्तते। अथ वा एक- त्रावस्थिताः तत्र तत्र पृथगवस्थिताश्च मरीचिः स्वस्मिन्नाच्छा- दयन् वर्त्तते। 'सः' च 'भुवनेष्वन्तः' सर्वेषु लोकेषु मध्ये, 'आवरीवर्त्ति' पुनःपुनरावर्त्तते। सोऽयं मन्त्र उपरिष्टा- द्व्याख्यास्यते॥
तत्र प्रथमं तावत् प्रवर्ग्यस्य कालं विधत्ते। "शिरो वा एतद्यज्ञस्य। यत् प्रवर्ग्यः। ग्रीवा उपसदः। पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्ति। ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति" इति। (५ प्र०।६ अ०।१ म०)। प्रवर्ग्यस्य यज्ञ-'शिरो'रूपत्वात् 'उपसदां' च यज्ञ-'ग्रीवा'रूपत्वात् उभयोः सामीप्याय 'उप- सदः' अनुष्ठानात्, प्रागेव 'प्रवर्ग्यं' कर्म, अनुतिष्ठेत्। तप्ते घृते पयःप्रक्षेपः प्रवृञ्जनं तद्यस्मिन् कर्मविशेषे विद्यते सोऽयं 'प्र- वर्ग्यः', स कर्मविशेषो यथा सम्पद्यते तथा प्रवृञ्जनं कुर्यादि- त्यक्षरार्थः। प्रवर्ग्योपसदोः सामीप्ये सति यथा लोके ग्रीवायां
४ प्रपाठके ७ अनुवाकः । ४४१
‘शिरः’ प्रतिष्ठितं भवति तथैतत् सम्पद्यते ‘ग्रीवासु’ इति वचन- व्यत्ययः ॥
प्रवर्ग्यस्यावृत्तिं विधत्ते । “त्रिः प्रवृणक्ति । त्रय इमे लो- काः । एभ्य एव लोकेभ्यो यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र०। ६ अ० । २ म०) । उपसदां दिनत्रयेऽनुष्ठेयत्वात् तत्समो- पवर्त्ती प्रवर्ग्योऽपि दिनत्रयेऽनुष्ठेयः तथा सति लोकत्रयार्थं यज्ञशिरः, प्रतिष्ठितं भवति ॥
सायं प्रातश्चेति कालद्वयानुष्ठानं प्रशंसति । “षट् सम्प- द्यन्ते । षड् वा ऋतवः ॥ १ ॥ ऋतुभ्य एव यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र० । ६ अ० । ३ म०) । एकैकस्मिन् दिने कालभेदेन द्विरनुष्ठानात् ‘षट्’ सङ्ख्या सम्पद्यते । तत* ऋतुभ्यः सकाशा- द्यज्ञ-‘शिरः’ सम्पादितं भवति ॥
दिनषट्कपक्षं विधत्ते । “द्वादशकृत्वः प्रवृणक्ति । द्वादश मासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽवरुन्धे” इति । (५ प्र० । ६ अ० । ४ म०) । षट्सु दिनेषु कालद्वयानुष्ठानेन द्वाद- शत्वं ॥
द्वादशसु दिनेष्वनुष्ठानविधिमभिप्रेत्य प्रशंसति । “चतुर्विꣳ- शतिः सम्पद्यन्ते । चतुर्विꣳशतिरर्द्धमासाः । अर्द्धमासेभ्य एव यज्ञस्य शिरोऽवरुन्ध” इति । (५ प्र० । ६ अ० । ५ म०) । द्वाद- शस्वपि दिनेषु कालद्वयानुष्ठानेन ‘चतुर्विंशतिः’ सम्पत्तिः अग्नि- ष्टोमे त्रिष्वेव दिनेषूपसदः अग्निचयन षट्सु दिनेषु अहीने सत्रे
* ऋत इति तै० पु० पाठः ।
३।२
द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्र-
४१२ तैत्तिरीये आरण्यके
द्वादशसु दिनेषु तदनुसारेण प्रवर्ग्यावृत्तिः । एतच्च सूत्र- कारेण सङ्गृहीतं त्र्युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशोपसत्के चतुर्विंशतिकृत्वः इति ॥
विकल्पितं पक्षान्तरं विधत्ते । "अथो खलु । सकृदेव प्रवृ- ञ्ज्यः । एकँ हि शिरः" ॥ २ ॥ इति । (५ प्र० । ६ अ० । ६ म०) । पक्षान्तरोपन्यासाय 'अथो' शब्दः शिरस एकत्वात् तत्स्था- नीयः प्रवर्ग्यः सकृदेवानुष्ठेयो न त्वावर्त्त्येति केषाञ्चित् पक्षः । एतच्च सूत्रकारेण विस्पष्टमुदाहृतं । सुत्यायां प्रवृञ्जनमेके समामनन्ति । तत्र मीमांसा यदा पुरस्तादरुणः स्यात् अथ प्रवृञ्ज्य उपकालं उपव्युषं समयास्तमिषित उदितानुदित उदि- ते वा प्रातःसङ्गवे मध्यन्दिने वा पवमाने सुत आग्नीध्रागारे प्रवृञ्ज्यः सकृदेव प्रवृञ्ज्य इति विज्ञायत इति ॥
प्रवर्ग्यस्याग्निष्टोमसम्वन्धं विधत्ते । "अग्निष्टोमे प्रवृणक्ति । एतावान् वै यज्ञः । यावानग्निष्टोमः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति" इति । (५ प्र० । ६ अ० । ७ म०) । यावन्तः सोमयागाः सन्ति तेषु सर्वेषु 'अग्निष्टोमः' सञ्चारी अतः सर्व्व- यज्ञात्मकः तत्रानुष्ठिते सति कृत्स्नेऽपि यज्ञे 'शिरः' प्रतिष्ठितं भवति । अनारभ्याधीतस्य प्रवर्ग्यस्य यद्यपि पुरस्तादुपसदामि- तिवाक्येनैव प्रकृतिभूताग्निष्टोमसम्बन्धः, प्राप्तः, तथापि शाखा- न्तरगतं न प्रथमयज्ञे प्रवृञ्ज्यादिति निषेधमपोद्य प्रतिप्रस- वार्थं पुनर्विधानं, निषेधस्त्वतिरात्रेऽपि चरितार्थो भविष्यति तस्यापि विकल्पितप्रथमयज्ञत्वात् , तथा चापस्तम्ब आह ।
४ प्रपाठके ७ अनुवाकः । ४४३
अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पूर्व्वं समामनन्तीति ॥
पुरस्तादुपसदामितिवाक्येनोक्तोऽप्युपमङ्गावात् पूर्व्वं प्रवर्ग्य- स्यापि प्राप्तौ निषेधयति । “नोक्थे प्रवृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थे प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्द्दहेत्” इति । (५ प्र० । ६ अ० । ८ म०) । एह्योषु ब्रवाणीत्यादोतिशस्त्रा- ण्यत्रोक्थशब्देनाभिधीयन्ते तान्यर्हतीत्युक्थ्यः क्रतुः तत्र प्रवृञ्ज- नेनोक्थशस्त्रसाध्याः ‘प्रजाः’ ‘पशवः’ च दह्येयुः, तस्मात् तत्र, ‘न’ ‘प्रवृञ्ज्यात्’ ॥
उक्थ्यविशेषे प्रतिप्रसवं विधत्ते । “विश्वजिति सर्व्वपृष्ठे प्रवृ- णक्ति ॥ ३ ॥ पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वावरुन्धे” इति । (५ प्र० । ६ अ० । ९ म०) । रथन्तरबृहद्वैरूपवैराजशाक्कररैवतसामसाध्यानि पृष्ठस्तोत्राणि सर्व्वाण्यपि यस्मिन् विश्वजिद्यागे विद्यन्ते । सोऽयं सर्व्वपृष्ठः, यद्यपि विश्वजिदुक्थ्यसंस्थो नात्र प्रसिद्धः तथापि शाखा- न्तरे तत्सद्भावमभिप्रेत्य नोक्थे ‘प्रवृञ्ज्यादिति निषेधं वार- यितुं पुनर्विधिः सर्व्वत्र पृष्ठस्तोत्राणि, ‘अच्युतं’ न च्युतमपि दोषं । ‘च्यावयन्ति’ विनाशयन्ति, अत्रापि पृष्ठस्तोत्रैरेव ‘अच्युतं’ निषेधप्रयुक्तं प्रवलमपि दोषं, ‘च्यावयित्वा’ प्रवर्ग्यफलमपि प्राप्नोति ॥
तदेवं बुद्धिस्थं प्रवर्ग्यविधिविचारं परिसमाप्य प्रकृतस्यैव मन्त्रस्य प्रथमपादे पूर्व्वभागं* व्याचष्टे । “अपश्यं गोपामित्याह ।
* पूर्व्वपादं इति तै० पु० पाठः ।
| ४४४ | तैत्तिरीये आरण्यके |
|---|
प्राणो वै गोपाः। प्राणमेव प्रजासु विघातयति" इति। (५प्र०।६अ०।१०म०)। 'प्राणः' हि खावस्थानेन* शरीराणि गोपायतीति 'गोपाः' मन्त्रे च प्राणेन स्तुतिमभिप्रेत्य महावीरे गोपाशब्दः प्रयुक्तः, अतो गोपामपश्यमित्युक्ते सति सर्व्वासु 'प्रजासु' 'प्राणमेव' प्रसारितवान् भवति ॥
आदित्यरूपेण स्तुतिमभिप्रेत्य पुनरपि व्याचष्टे । “अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते” इति । (५प्र०। ६अ०।११म०) । ‘आदित्यः' ह्युदयेन प्रकाशं कृत्वा, सर्व्वाः ‘प्रजाः’ गोपायतीति 'गोपाः', तद्रूपत्वेन स्तुतत्वात् महावीरः 'गोपाः' । एतत्पाठेन यजमानमेव 'प्रजानां' 'गोप्तारं' करोति ॥
प्रथमपादस्योत्तरभागोक्तादित्यरूपेणावस्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध इति दर्शयति । “अनिपद्यमानमित्याह ॥ ४ ॥ न ह्येष निपद्यते” इति । (५प्र०।६अ०। १२म०) ॥
द्वितीयपादोक्तं नानामार्गैरादित्यस्यागमनं परागमनञ्च प्रसिद्धमिति दर्शयति । “आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येष परा च पथिभिश्चरति” इति। (५प्र०। ६अ०।१३म०) ॥
यदायमादित्य उदयं प्राप्तः सर्व्वाः प्रजा अभितो विशेषेण
* खावयवस्थानि इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४४५
रोव॑र्त्ति॒ भुव॑नेष्व॒न्तः॑।(१) । (२)अ॒त्र प्रावी॒ः । मधु॑माध्वीभ्यां॒ मधु॑माधूचीभ्यां॑ । अनु॑ वां देव॒वीत॑ये(२) । (३)सम॒-
पश्यति । तदानीं स्वेन सह वर्त्तमाना दूरे विविधं प्रसृताश्च मरीचीः वस्त्रवद्वसानो वर्त्तत इत्येतत् प्रसिद्धमित्येतादृशं तृतीयपादाभिप्रायं दर्शयति । “स सध्रीचीः स विषूचीर्व्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभिविप- श्यति” इति । (५ प्र० । ६ अ० । १४ म०) ॥
चतुर्थपादोक्ता भुवनमध्ये सूर्य्यस्यावृत्तिः प्रसिद्धेति दर्शय- ति । “आवरीवर्त्ति भुवनेष्वन्तरित्याह । आह्येष वरीवर्त्ति भुवनेष्वन्तः” इति । (५ प्र० । ६ अ० । १५ म०) ॥
अथ वसन्तर्त्तरूपेण स्तावकं मन्त्रमाह । (२)“अत्र प्रावीः ० अनु वां देववीतये”(२) इति। हे महावीर ‘अत्र’ अस्मिन् कर्म्मणि, ‘मधुमाध्वीभ्यां’ सहितस्त्वं ‘प्रावीः’ अस्मान् प्रकर्षेण रक्षित- वानसि, ‘मधु’शब्दा वसन्तावयवचैत्रमासाभिमानिदेवमाचष्टे । ‘माध्वी’ शब्दस्तत्पत्नीं । तथा द्वितीयो ‘मधु’शब्दः वसन्तावयव- वैशाखमासाभिमानिदेवमाचष्टे, ‘माधूची’शब्दस्तत्पत्नीं ताभ्यां सहितस्त्वं प्रावीरित्यन्वयः । ‘वां’ वसन्तदेवौ युवां, ‘अनु’सृत्य, ‘देववीतये’ देवप्राप्त्यर्थं, महावीरमवेक्षते इति शेषः ॥
मन्त्रस्य वसन्तर्त्तूपरतां दर्शयति । “अत्र प्रावीर्मधुमाध्वी- भ्यां मधुमाधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्प-
४१६ तैत्तिरीये आरण्यके
ग्निर॒ग्निना॑गतः॑। सं दे॒वेन॑ सवि॒त्रा। संꣳ॒सूर्य्ये॑ण रोच- ते(२) ॥ १ ॥
यति" इति। (५ प्र०। ६ अनु०। १६ म०)। 'अस्मै' यजमानार्थं, वसन्तसम्बन्धिनावृतववयवौ चैत्रवैशाखमासौ खोचितभोगप्रदा- नसमर्थौ करोति ॥
अथ ग्रीष्मर्त्तुरूपेण स्तावकं मन्त्रमाह। (२)"समग्निरग्निना- गत • संꣳसूर्य्येण रोचते"(२) इति। अग्निशब्दाभ्यामत्युष्णौ ग्रीष्मावयवौ ज्येष्ठाषाढमासौ विवक्षितौ। तत्रैक 'अग्निः' ज्येष्ठ- मासरूपः, द्वितीयेन 'अग्निना' आषाढमासरूपेण, 'सं' 'गतः' अभूत्, तदुभयमासवर्त्तिनावादित्यो सवितृसूर्य्यशब्दाभ्यां विव- क्ष्येते। अयं महावीराख्यो देवो ज्येष्ठमासे 'सवित्रा' 'सं' 'गतः' आषाढमासे 'सूर्य्येण' 'सं'-गत्य 'रोचते' ॥
अस्य मन्त्रस्य ग्रीष्मर्त्तुपरतां दर्शयति। "समग्निरग्निनाग- तेत्याह ॥ ५ ॥ ग्रैष्मावेवास्मा ऋतू कल्पयति" इति। (५ प्र०। ६ अनु०। १७ म०)। वसन्तवाक्यवद्व्याख्येयं ॥
तस्यैव* मन्त्रस्यार्थान्तरं दर्शयति। "समग्निरग्निनागतेत्याह। अग्निर्ह्यैवैषोऽग्निना सङ्गच्छते" इति। (५ प्र०। ६ अनु०। १८ म०)। 'एषः' महावीररूपः, 'अग्निः' आदित्यरूपेण 'अग्निना' सङ्ग- च्छते, इत्ययमर्थः प्रसिद्धः ॥
* अस्यैव इति तै० पु० पाठः
४ प्रपाठके ७ अनुवाकः। ४४७
(४)स्वाहा॒ सम॒ग्निस्तप॑सा गतः। सं दे॒वेन॑ सवि॒त्रा। सᳵ सूर्य्ये॑णारोचिष्ट(४)। (५)ध॒र्त्ता दि॒वो विभा॑सि रज॑सः। पृ॒थि॒व्या॒ ध॒र्त्ता। उ॒रोर॒न्तरि॑क्षस्य ध॒र्त्ता। ध॒र्त्ता दे॒वो दे॒-
पुनरपि ग्रीष्मर्तुरूपेणैव स्तावकं मन्त्रान्तरमाह। (४)“स्वाहा समग्निस्तपसा गतः ० सᳵ सूर्य्येणारोचिष्ट”(४) इति। ‘स्वाहा’ शब्दो निपातत्वादनेकार्थः, अग्निवदुष्णरूपो ज्येष्ठमासः ‘तपसा’ तापयुक्तेन आषाढमासेन, ‘स्वाहा’ सुष्ठु, समागतः’ ‘सं’ ‘गतः’ अभूत्, ‘सं’ ‘देवेन’ इत्यादि पूर्व्ववत् ॥
अस्य मन्त्रस्य पूर्व्वमन्त्रेण सह समानार्थतां दर्शयति। “स्वाहा समग्निस्तपसा गतेत्याह। पूर्व्वमेवोदितं। उत्तरेणा-भिष्टृणाति” इति। (५ प्र०। ६ अ०। १६ म०)। ग्रीष्मविषयत्वं पूर्व्वस्मिन् मन्त्रेऽभिहितमेव ग्रीष्ममुत्तरमन्त्रेणापि* श्रुतिर्ब्रूते ॥
अथ वर्षर्तुरूपेण स्तावकं मन्त्रमाह। (५)“धर्त्ता दिवो विभासि रजसः ० अमर्त्यस्तपोजाः”(५) इति। हे महावीर वर्षर्तुरूपेण ‘दिवः’ द्युलोकस्य, ‘रजसः’ मेघादिरञ्जनोपेतस्य, ‘धर्त्ता’ धारकः, ‘विभासि’ प्रकाशसे। तथा ओषधोजननेन ‘पृथिव्याः’ अपि ‘धर्त्ता’ स्वकीयवृष्टिप्रसारणेन, ‘उरोः’ विस्ती-र्णस्य, ‘अन्तरिक्षस्य’ अपि ‘धर्त्ता’ हविर्द्वारेणोपकारकत्वात्, ‘देवानां’ अपि ‘धर्त्ता’ पोषकः, ‘देवः’ अतएव ‘अमर्त्यः’
* मन्त्रेणाभिगृह्णातीति ब्रूते इति तै० पु० पाठः।
३ K
४४८ तैत्तिरीये आरण्यके
वानां॑ । अम॑र्त्यस्तपो॒जाः॑(५) । ⁽६⁾हृ॒दे त्वा॒ मन॑से त्वा । दि॒वे त्वा॒ सूर्य्या॑य त्वा ॥ २ ॥ ऊ॒र्द्धमि॒ममध्व॑रं कृ॑धि । दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ⁽६⁾ ।
मरणरहितः, दीक्षादिरूपेण तपसा जायते सिध्यतीति ‘तपोजाः’॥
अस्य मन्त्रस्य वर्षर्त्तूपरतां दर्शयति । “धर्त्ता दिवो विभासि रजसः पृथिव्या इत्याह । वार्षिकावेवास्मा ऋतू कल्पयति” इति । (५ प्र०। ६ अ०। २० म०) । वसन्तमन्त्रवद्व्याख्येयं ॥
शारदर्त्तू*रूपेण स्तावकमन्त्रमाह । ⁽६⁾“हृदे त्वा मनसे त्वा • दिवि देवेषु होत्रा यच्छ”⁽६⁾ इति । हे महावीर त्वां, ‘हृदे’ हृदयार्थमवेक्ष इति शेषः । ‘मनसे’ मनोऽर्थं त्वामवेक्षे, अत्र हृन्मनःशब्दाभ्यां अनुकूलभोगार्थत्वेन चिन्त्यमानावान्तरयुजकार्त्तिकमासावुपलक्ष्येते तन्मासद्वयोचितभोगसिद्धार्थमित्यर्थः, तथा ‘दिवे’ द्युलोकप्राप्त्यर्थं, ‘सूर्य्याय’ सूर्य्यप्राप्त्यर्थञ्च त्वामवेक्षे, ‘इमं’ अस्मदीयं, ‘अध्वरं’ यागं, ‘ऊर्द्धं कृधि’ उन्नतं कुरु, ‘होत्राः’ इमा होमक्रियाः, ‘दिवि’ द्युलोके, ‘देवेषु’ मध्ये, ‘यच्छ’ देहि कथय, इत्यर्थः ॥
अस्य मन्त्रस्य शारदर्त्तूपरतां दर्शयति । “हृदे त्वा मनसे लेत्याह । शारदावेवास्मा ऋतू कल्पयति” इति ॥ ६ ॥ (५ प्र०। ६ अ०। २१ म०) । वसन्तवाक्यवद्व्याख्येयं ॥
* शरदृतु इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४४६
$^{(७)}$विश्वा॑सां भुवां पते । विश्व॑स्य भुवनस्पते । विश्व॑स्य मनसस्पते । विश्व॑स्य वचसस्पते । विश्व॑स्य तपसस्पते॑ । विश्व॑स्य ब्रह्मणस्पते$^{(७)}$। $^{(८)}$दे॒व॒स्रूस्त्वं दे॑व घर्म दे॒वान् पा॑हि$^{(८)}$। $^{(९)}$तपो॒जां वाच॑म॒न्मे निय॑च्छ दे॒वायुव॑म्$^{(९)}$॥ ३ ॥
मन्त्रचरमभागेन सर्वेषां लोकानां होमक्रियाभिसम्बन्धं* दर्शयति । “दिवि देवेषु वाचा यच्छत्याह । होत्राभिरेवैनाँल्लोकान्त्सन्दधाति” इति । (५ प्र० । ६ अ० । २२ म०) ॥
अथ हेमन्तर्त्तुरूपेण स्तावकं मन्त्रमाह । $^{(७)}$“विश्वासां भुवां पते ॰ विश्वस्य ब्रह्मणस्पते”$^{(७)}$ इति । जम्बूद्वीपादया या भुवः तासां ‘भुवां’ ‘विश्वासां’ सर्व्वासां, हे ‘पते’ पालक, हेमन्तर्त्तुरूप महावीर त्वामवेक्षे इति शेषः । ‘भुवनः’ भुवनस्य लोकजातस्य, ‘मनसः’ अन्तःकरणजातस्य, ‘वचसः’ वाक्यजातस्य, ‘तपसः’ तपोजातस्य, ‘ब्रह्मणः’ वेदजातस्य, ‘पते’ पालक, त्वामवेक्षे ॥
अस्य मन्त्रस्य हेमन्तर्त्तुपरतां दर्शयति । “विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा एतौ कल्पयति” इति । (५ प्र० । ६ अ० । २३ म०) । वसन्तवाक्यवद्व्याख्येयं ॥
शैशिरर्त्तुरूपेण स्तावकं मन्त्रमाह । $^{(८)}$“देवस्रूस्त्वं देव घर्म देवान् पाहि”$^{(८)}$ इति । हे ‘घर्म’ प्रवर्ग्ग्य, ‘देव’ शैशिरर्त्तुरूप,
* सम्बन्धसिद्धिं इति तै० पु० पाठः
3 K 2
४५० तैत्तिरीये आरण्यके
(१०)गर्भोँ दे॒वानां॑(१०)। (११)पि॒ता म॑ती॒नां(११)। (१२)पति॑:
‘देवश्रूः’ देवेषु श्रूयमाणः, ‘त्वं’ ‘देवान्’, हविःप्रदानेन ‘पाहि’ रक्ष॥
अस्य मन्त्रस्य शैशिरर्त्तुपरतां दर्शयति। “देवश्रूस्त्वं देव घर्म देवान् पाहीत्याह। शैशिरावेवास्मा ऋतू कल्पयति” इति। (५ प्र०। ६ अ०। २४ मं०)। वसन्तवाक्यवद्व्याख्येयं॥
अथ बहूनि वाक्यानि नानाविधगुणैः स्तावकान्युच्यन्ते। तत्रैकवाक्यमाह। (९)“तपोजां वाचमस्मे नियच्छ देवायुवं”(९) इति। हे महावीर ‘अस्मे’ अस्मभ्यं, ‘तपोजां’ तपस उत्पन्नां, ‘देवायुवं’ देवान् इच्छन्तीं, ‘वाचं’ मन्त्ररूपां, ‘नियच्छ’ नितरां देहि, ‘तपोजां’ इत्यनेन यज्ञयोग्या मन्त्ररूपा वाग् विवक्ष्यते॥
तस्यास्तपस्विना पुरुषेण लभ्यमानत्वादित्येतद्दर्शयति। “तपोजां वाचमस्मे नियच्छ देवायुवमित्याह। या वै मेध्या वाक्। सा तपोजाः। तामेवावरुन्धे” इति॥ ७॥ (५ प्र०। ६ अ०। २५ मं०)॥
वाक्यान्तरमाह। (१०)“गर्भो देवानां”(१०) इति। अयं महावीरः ‘देवानां’ सम्बन्धी ‘गर्भ’-रूपः देवैरपेक्षितस्य हविषोऽत्र गर्भरूपेणावस्थानात्॥
मन्त्रार्थस्य प्रसिद्धिं दर्शयति। “गर्भो देवानामित्याह। गर्भो ह्येष देवानां” इति। (५ प्र०। ६ अ०। २६ मं०)॥
वाक्यान्तरमाह। (११)“पिता मतीनां”(११) इति। देवैर्हविःप्रदानार्थं तदा तदा मन्यन्त इति मतयः प्रजास्तासां
४ प्रपाठके ७ अनुवाकः। ४५१
प्र॒जानां॑(१२) । (१३)म॒तिः क॒वीनां॑(१३) । (१४)सं दे॒वो दे॒वेन॑ सवि॒त्राय॑तिष्ट । सᳵ सूर्य्ये॑णारुक्त(१४) । (१५)आयु॑र्दास्त्व-
प्रजानां मातुं,* महावीरः फलदानेन पालकत्वात् 'पिता' ॥ मतिशब्देन प्रजाविवक्षां दर्शयति। "पिता मतीनामित्याह१ प्रजा वै मतयः। तासामेष एव पिता। यत् प्रवर्ग्ग्यः। तस्मादे- वमाह" इति। (५प्र०।६अ०।२७म०) ॥० वाक्यान्तरमाह। (१२)“पतिः प्रजानां”(१२) इति। अयं महावीरः पूर्वोक्तरीत्या पालकत्वात् 'प्रजानां' स्वामी ॥ अस्य वाक्यास्यार्थे प्रसिद्धं दर्शयति। "पतिः प्रजानामि- त्याह। पतिर्ह्येष प्रजानां" इति। (५प्र०।६अ०।२८म०) ॥ वाक्यान्तरमाह। (१३)“मतिः कवीनां”(१३) इति। ये कवयः शास्त्रार्थाभिज्ञाः, तेषामभिज्ञानसाधनबुद्धिरूपोऽयं महावीरः, अनेन कर्म्मण्यनुष्ठिते तेन सुकृतेन प्रजोदयात्॥ अस्मिन्नर्थे प्रसिद्धं दर्शयति। "मतिः कवीनामित्याह। ॥ ८ ॥ मतिर्ह्येष कवीनां" इति। (५प्र०।६अ०।२६म०) ॥ वाक्यान्तरमाह। (१४)“सं देवो देवेन सवित्रायतिष्ट। सᳵ सूर्य्येणारुक्त”(१४)इति। अयं महावीरः 'देवः' 'देवेन' 'सवित्रा' 'सं'युज्य, 'अयतिष्ट' यजमानमनुग्रहीतुं प्रयत्नं कृतवान्। तथा 'सूर्य्येण' 'सᳵ'युज्य, 'आरुक्त' दीप्तवान्॥
* अयं इति तै० पु० पाठः।
| ४५२ | तैत्तिरीये आरण्यके |
|---|
म॒स्मभ्यं॑ घ॒र्म॒ वर्चो॑ दा॒ अ॑सि॑^{(१५)}। ^{(१६)}पि॒ता नो॑ऽसि पि॒ता नो॑ बोध^{(१६)}। ^{(१७)}आ॒यु॒र्द्धास्त॒नू॒धाः प॑यो॒धाः। व॒र्चो॒दा व॑रिवो॒दा द्र॑विणो॒दाः॥ ४ ॥
• अत्र देवशब्दद्वयेन आदित्यमहावीरौ विवक्षिताविति दर्शयति। “सᳵ देवो देवेन॑ सविचायतिष्ठ सᳵ सूर्य्येणारुक्तेत्याह। अमुञ्चैवादित्यं प्रवर्ग्र्यञ्च सᳵ शास्ति” इति। (५ प्र०। ६ अ०। ३० म०)। सम्यक् कथयतीत्यर्थः॥
वाक्यान्तरमाह। ^{(१५)}“आयुर्दास्त्वमस्मभ्यं घर्म वर्चो दा असि”^{(१५)} इति। हे ‘घर्म’ महावीर, ‘त्वं’ ‘अस्मभ्यं’ ‘आयु’ स्तेजसोः* प्रदाता ‘असि’॥
अस्य वाक्यस्यायुःपरतां दर्शयति। “आयुर्दास्त्वमस्मभ्यं घर्म वर्चो दा असीत्याह। आशिषमेवैतामाशास्ते” इति। (५ प्र० ६ अ०। ३१ म०) ॥
वाक्यान्तरमाह। ^{(१६)}“पिता नोऽसि पिता नो बोध”^{(१६)} इति। हे महावीर ‘नः’ अस्माकं, पालकत्वात् ‘पिता’ ‘असि’। अतः ‘पिता’ जनक, एव भूत्वा ‘नः’ अस्मान्, ‘बोध’ इदं इदं कुर्व्विति सन्मार्गं बोधय॥
महावीरे प्रवृत्तस्योत्तरकर्त्तव्यताया बुध्यमानत्वात् बोधकत्वमस्यावश्यमस्तीत्येतद्दर्शयति। “पिता नोऽसि पिता नो
* वर्चसेः, इति तै० पु० पाठः।
४ प्रपाठके ७ अनुवाकः । ४५३
अ॒न्तरि॑क्षप्र॒ उरोर्वरी॑यान् । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिँᳵसीः^(१७) । ^(१८)त्वम॑ग्ने गृह॒पति॒र्विशा॑मसि । विश्वा॑सां मानु॑षीणां । श॒तं पू॒र्भिर्य्यविष्ठ पा॒ह्यंह॑सः । समे॒द्धा-रँᳵ श॒तंᳵ हिमो॑ः । तन्द्राविणंᳵ हार्दि॒वानं॑ । इ॒हैव रा-
बोधेत्याह । बोधयत्येवैनम्” इति । (५ प्र० । ६ अ० ० २२ म०) ॥
वाक्यान्तराण्याह । (१७)“आयुर्द्धास्तनूधाः पयोधाः ० अशी-महि त्वा मा मा हिंसीः”(१७) इति । अयं महावीरो दीर्घ-मायुः शरीरपाटवं* क्षीरसम्पदञ्च सम्पादयति । तथा कान्तिं पूजां धनञ्च प्रयच्छति । अन्तरिक्षं खोत्पन्नया ज्वालया प्रति-पूरयतीति ‘अन्तरिक्षप्रः’ अतएव ‘उरोः’ विशालादपि वस्तु-नः । ‘वरीयान्’ अतिशयेन विवृत्तः†, तादृश हे महावीर त्वां, ‘अशीमहि’ प्राप्नुयाम, प्राप्नुवन्तं मां, ‘मा’ ‘हिंसीः’ हिंसितं मा कुरु ॥
अथाग्निरूपेण स्तुत्यै‡ काञ्चिद्देवतामाह । (१८)“त्वमग्ने गृह-पतिर्विशामसि ० इहैव रातयः सन्तु(१८) इति । हे ‘अग्ने’ ‘त्वं’ ‘मानुषीणां’ मनुष्यजातियुक्तानां, ‘विश्वासां’ सर्व्वासाम्, ‘विशां’ प्रजानां, ‘गृहपतिः’ ‘असि’ गृहस्वामी, भवसि । हे ‘यविष्ठ’
* शरीरपोषकम् इति तै० पु० पाठः ।
† विस्तृतः इति तै० पु० पाठः । विवृतः इति D चिह्नितपुस्तकपाठः ।
‡ स्तुतामेकां ऋचमाह इति तै० पु० पाठः ।
४५४ तैत्तिरीये आरण्यके
तय॑ः सन्तु^{(१८)} । ^{(१९)}त्वष्ट्री॑मती ते सपेय । सुरे॒ता रेतो॒ दधा॑ना ॥ वी॒रं वि॑देय॒ तव॑ स॒न्दृशि॑ । माहꣳ रा॒यस्पो॒षे॑ण॒ वियो॑षं^{(१९)} ॥ ५ ॥
रोच॑ते, सूर्य्या॑य त्वा, दे॒वायुवं॑, द्रवि॒णो दाः॑, दधा॑ना, द्वे च॑ ॥ अनु० ७ ॥
युवतम, 'पूर्भिः' धनादीनां पूरणैः, 'शतं' शतसम्वत्सरमायुः, 'पाहि' रक्ष । तथा 'शतꣳ हिमाः' शतसंवत्सरान्, 'समेद्धारं' सम्यगभिवृद्धियुक्तं, मां, 'अंहसः' 'पाहि' पापात् रक्ष । कीदृशं मां, 'तन्द्राविणं' तत्पालनात् पूर्व्वं तन्द्रियुक्तं कर्मण्यलसं, 'हार्दिवानं' तत्पालनादूर्द्ध्वं हृदयगतकर्मोत्साहवन्तं, 'रातयः' तदीयानि फलदानानि, 'इहैव' अस्मिन्नेव कर्माणि, 'सन्तु' ॥
कल्पः । अनुवाकशेषं तु परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति । त्वष्ट्रीमती ते सपेयेति । पाठस्तु । ^{(१९)}“त्वष्ट्रीमती ते सपेय • माहꣳरायस्पोषेण वियेषम्”^{(१९)} इति । हे महावीर, 'ते' तव, प्रसादात् 'अहं', पत्नी 'त्वष्ट्रीमती' सिक्ते रेतसि रूपाणां विकर्त्ता त्वष्टृशब्देन* युक्ता सती 'सपेय' पत्या सङ्गच्छेय । ततः सङ्गमादूर्द्ध्वं 'सुरेताः' शोभनेन पुत्रोत्पादनेन रेतसा युक्ता सती, 'रेतो दधाना' तादृशमेव पतिसम्बद्धं रेतो धारयन्ती, 'तव' 'संदृशि' त्वदीयकटाक्षे सति । 'वीरं' 'विदेय' कर्म्माणि
* त्वष्ट्रा देवेन इति तै० पृ० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४५५
शूरं पुत्रं, लभेय । ‘अहं’ तत्प्रसादात् ‘रायस्पोषेण’ धन- पुष्ट्या, ‘मा वियोषं’ वियुक्ता मा भुवं ॥
अस्मिन्ननुवाके मन्त्रसङ्ख्यां दर्शयति । “नववैतेऽवकाशा भवन्ति । पत्नियै दशमः । नव वै पुरुषे प्राणाः ॥६॥ नाभि- र्दशमी । प्राणानेव यजमाने दधाति । अथो दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे” इति । (५प्र०।६अ०। ३३म०) । अवकाश्यन्तेऽर्थम्प्रकाशयन्त इति ‘अवकाशाः’ मन्त्राः । ते चात्र ‘नव’-सङ्ख्याका* ऋत्विजां ‘भवन्ति’ । अपस्रं गोपासि- त्येको मन्त्रः, अच प्रावोरित्याद्या ऋतुविषयाः षएमन्त्राः†, तपोजामित्यादि मा मा हिंसीरित्यन्तं वाक्यजातमेको मन्त्रः, त्वमग्न इत्यादिको रात्रयः मन्विन्त्यन्तिको मन्त्र‡ एकः, एवं नवसङ्ख्याकाः । त्वष्टीमतीत्यादिकः पत्न्याः§ ‘दशमः’ मन्त्रः । पुरुषशरीरेऽपि छिद्रगताः ‘प्राणाः’ ‘नव’-सङ्ख्याकाः तदपेक्षया ‘नाभिर्दशमी’ अतो मन्त्रगतसङ्ख्यासाम्यात् ‘यजमाने’ ‘प्रा- णानेव’ सुस्थिरान्॥ करोति । अपि च ‘विराट्’ द्वारा ‘अन्नं’ अपि प्राप्नोति ॥
एतैर्मन्त्रैः सार्द्धं महावीरावेक्षणं विधत्ते । “यज्ञस्य शिरो- ऽच्छिद्यत । तद्देवा होताचभिः प्रत्यदधुः । ऋत्विजोऽवेक्षन्ते ।
* नवसङ्ख्याका भवन्ति इति D चिह्नितपु० पाठः ।
† परे मन्त्राः इति D चिह्नितपु० पाठः ।
‡ सन्वित्येको मन्त्रः इति तै० पु० पाठः ।
§ पत्न्यै इति D चिह्नितपु० पाठः ।
॥ सुस्थितान् इति D चिह्नितपु० पाठः ।
3 L
४५६ | तैत्तिरीये आरण्यके
एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति ॥ ॥१०॥ इति । (५ प्र०।६ अ०।३४ म०) । यदा धनुःकोट्या यज्ञपुरुषस्य, 'शिरः' छिन्नं तदा 'देवाः' तत् 'शिरः' 'होत्राभिः' यज्ञशरीरे प्रतिष्ठितवन्तः होमनिष्पादिका ऋत्विजां याः प्रत्यवेक्षणादि*क्रियाः, 'एताः' एव 'होत्राः' तस्मादृत्त्विजामवे- क्षणेन 'होत्राभिरेव' 'यज्ञस्य शिरः' प्रतिष्ठितं भवति ॥
अग्निश्रेष्ठ्यादिमन्त्रैरुपस्थानादूर्द्धकालीनत्वमवेक्षणस्य विध- त्ते । "रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत । प्रजानाग् सृष्ट्यै†" इति । (५ प्र०।६ अ०।३५ म०) । रुचिधात्वर्थ- प्रतिपादकैः अग्निश्रेष्ठ्यादिकैर्मन्त्रैरभिमन्त्रितो महावीरो रु- चितः तादृशं पश्चादवेक्षेरन्, पुरा 'प्रजापतिः' प्रवर्यात्, 'रुचि- तात्' एव 'प्रजाः' सृष्टवान्, अतोऽचापि 'सृष्ट्यै' तद्भवति ॥
पूर्वोक्तमेवानूद्य पुनः प्रशंसति । "रुचितमवेक्षन्ते । रुचि- ताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा वर्द्धन्ते" इति । (५ प्र०।६ अ०।३६ म०) पूर्वोक्तात् 'रुचितात्' प्रवर्यादेव कर्मानुष्ठानद्वारादित्यप्राप्त्या मेघः 'वर्षति' अतोऽचापि रुचिता- वेक्षणे 'पर्जन्यः' वर्षणशीलः, 'भवति', 'प्रजाः' च सम्यग्वर्द्धन्ते ॥
पुनरपि प्रकारान्तरेण प्रशंसति । "रुचितमवेक्षन्ते । रुचि- तं वै ब्रह्मवर्चसं । ब्रह्मवर्चसिनो भवन्ति" ॥११॥ इति । (५ प्र०। ६ अ०।३७ म०) । 'ब्रह्मवर्चसं' श्रुताध्ययनसम्पत्तिः, 'रुचितं'
* अवेक्षणादि इति तै० पु० पाठः † सृष्ट्यैतत् इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः। ४५७
विद्वत्सभायां प्रकाशितं, भवति। अतो हवितावेक्षणेन ब्रह्मवर्चसयुक्ताः 'भवन्ति' ॥
अवेक्षणे पूर्व्वोक्तमन्त्रान् विधत्ते । “अधीयन्तोऽवेक्षन्ते । सर्व्वमायुर्य्यन्ति” इति । (५ प्र० । ६ अ० । ३८ म०) । 'अधीयन्तः' अपश्यं गोपामित्यादिमन्त्रान् पठन्तः, ऋत्विजोऽवेक्षेरन्, ततो* मन्त्रसामर्थ्यात् सर्व्वायुःप्राप्तिः ॥
पत्न्याः कञ्चिद्विशेषं विधत्ते । “न पत्न्यवेक्षेत । यत् पत्न्यवेक्षेत । प्रजायेत । प्रजां त्वस्यै निर्द्दहेत् । यन्नावेक्षेत । न प्रजायेत । नास्यै प्रजां निर्द्दहेत् । तिरस्कृत्य यजुर्व्वाचयति ॥ प्रजायते । नास्यै प्रजां निर्द्दहति” इति । (५ प्र० । ६ अ० । ३९ - म०) । अत्रायं विचारः, किं 'पत्न्यवेक्षेत', 'न' वेति अवेक्षणपक्षे प्रजोत्पत्तिलक्षणे गुणे सत्यपि तदीयां 'प्रजां' महावीरः 'निर्द्दहेत्' इत्येष महान् दोषः, अतः 'नावेक्षेत' इत्येकः पक्षः । अनवेक्षणपक्षे निर्द्दाहाभावेऽपि प्रजोत्पत्तिः 'न' स्यादित्यन्यो दोषः, अतो दोषद्वयनिवृत्तये पत्नीं केनचिद्व्यवधानेन 'तिरस्कृत्य' 'लष्ट्रीमती' इति मन्त्रं पठेत् ॥
तस्मिन् मन्त्रे सपेयेत्यस्य तात्पर्य्यं दर्शयति । “लष्ट्रीमती ते सपेयेत्याह । सपादिव प्रजाः प्रजायन्ते” ॥ १२॥ इति । (५ प्र० । ६ अ० । ४० म०) । स्त्रीपुरुषयोः समवायात् प्रजोत्पत्तिः प्रसिद्धा तस्मात् 'सपेय' इत्युच्यते ॥
ऋतवः, हि शिरः, सर्व्वपृष्ठे प्रव्रणक्ति, अनिपद्यमानजि-
* अतो इति तै० पु० पाठः ।
3 L 2
४५८ तैत्तिरीये आरण्यके
त्याह, गतेत्याह, शारदावेवास्मा ऋतू कल्पयति, रुन्धे, कवी- नामित्याह, प्राणाः, प्रतिदधाति, भवन्ति, वाचयति, चत्वारि च ॥ इति ५ प्रपाठके ६ अनुवाकः ॥
अत्र मीमांसा । तृतीयाध्यायस्य तृतीयपादे चिन्तितम् ।
न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत ।
प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याद्ययज्ञता ॥
प्रवृणक्त्युपसद्द्भ्यः प्रागिति वाक्यात् क्रतोर्विधेः ।
आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः ॥
ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते । न प्रथमयज्ञे प्रवृञ्ज्यादिति सोऽयं निषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यो न तु तदीयप्रथमप्रयोगे । कुतः । एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम इति। तस्य प्रथमयज्ञत्वाभिधानादिति चेत् । मैवं । पुरस्तादुपसदां प्रवर्ग्यं प्रवृणक्तीति* वाक्येन क्रतौ प्रवर्ग्यस्य विहितत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादयं निर्णयः, तथा सति प्रतिषेधवाक्ये प्रथमशब्देन प्रयोगपरत्वनिर्णयात् प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः तत्सम्बन्धाद्वस्तुषूपचर्य्यन्ते । प्रथममध्येतव्यत्वात् प्रथमकाण्डं, तदनन्तरमध्येतव्यत्वाद्वितीयकाण्डं, एवमादावुत्पन्नत्वात् प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्वितीयः पुत्रः । तथापि† प्रयोगक्रियाया
* प्रवृणक्तीति D चिह्नितपु० पाठः।
† तथा सति इति तै० पु० पाठः ।
४ प्रपाठके ७ अनुवाकः । ४५६
आवृत्तिविशेषेऽपि* प्रथमशब्दो मुख्यः तदा-†वृत्तिविशेषतया यज्ञशब्दो लाक्षणिकः, तत्पक्षे क्रतौ मुख्यो यज्ञशब्दः प्रयोगे‡ लाक्षणिकः स्यादितिचेत् । बाढं । तथाप्यसञ्जातविरोधिनि लाक्षणिकत्वकल्पनात् कामं§मुत्तरपदे तत्कल्पनं तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यस्य निषेधः । न तु सप्तमसंख्यायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः तत्रायं निषेधः पर्य्यवस्यति । विधिश्च तत्र श्रूयते । अग्निष्टोमे प्रवृणक्तीति । एवं तर्ह्यधिकारि॥भेदेन विधिनिषेधयोर्व्यवस्थास्तु । तथा च श्रूयते । कामन्तु योऽनूचानः स्यात् तस्य प्रवृञ्ज्यादिति तस्मादनूचानव्यतिरिक्तप्रथमप्रयोगएवायं निषेधः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
* आवृत्तिर्द्वितीयेऽपि इति D चिह्नितपु० पाठः ।
† तथा इति तै० पु० पाठः ।
‡ प्रयोगे इति तै० पु० पाठः ।
§ वरं इति तै० पु० पाठः ।
॥ अधिकार इति D चिह्नितपु० पाठः ।