भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

६२ तैत्तिरीये आरण्यके

मु॒ञ्चत्। तमर्जि॑ह्व॒ अस॑श्चत^(१३)। ^(१४)ऊ॒र्ध्वमू॑लम॒वाक्छा॑- खं॑। वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति। न स जा॒तु जनः॑ श्रद्द॒ध्यात्।


हीन एव सन् सङ्कल्पमात्रेण सर्वव्यापारं करोति, तदुभयमभिप्रेत्यायं मन्त्रः प्रवृत्तः। अथवा योगाभ्यासेन चक्षुरादीन्द्रियं निरुद्ध्य नीलपीतादिष्वन्तः सन् मणिमिव स्वयंप्रकाशमात्मानं समाधिना पश्यति। तस्य च दृष्टस्य वस्तुनः स्वस्वरूपत्वेन निश्चयः स्वीकारः। अतोऽङ्गुलिव्यापाररहितोऽपि स्वीकरोतीत्युच्यते। तस्मिन् वस्तुनि स्थैर्यं प्रत्यमुञ्चत् इत्युच्यते। कृतकृत्योऽस्मीत्यादि भाषणं जिह्वया प्रशंसेत्युच्यते॥

अथ द्वितीयामाह। ^(१४)“ऊर्ध्वमूलमवाक्शाखं ० मृत्युर्मा मारयात्”^(१४) इति। लौकिकस्य हि वृक्षस्याधोभागे मूलं ऊर्ध्वभागे शाखाश्च। संसारवृक्षस्य तद्वैपरीत्यम्, ‘ऊर्ध्वं’ सर्वोत्कृष्टं ब्रह्म, ‘मूलं’, ‘अवाञ्चः’ अधमा ब्रह्मादिस्तम्बान्ता देहाः, ‘शाखाः’, अयञ्च संसारो व्रश्चनयोग्यत्वाद्वृक्षः। तत्त्वज्ञानेन हि सोयमज्ञानजन्यो वृक्षः छिद्यते। तमीदृशं ‘वृक्षं’, ‘यः’ पुमान्, गुरुशास्त्रमुखात् ‘वेद’, ‘सः’ जनः, ‘सम्प्रति’ तदानीमेव, ‘न श्रद्दध्यात्’ न विश्वस्यात्। किंविषयोयमविश्वास इति तदुच्यते। ‘जातु’ कदाचिदपि, ‘मृत्युः’, ‘मा मारयात्’ मां हन्यात्, ‘इति’। अयमर्थः, सर्वो ह्यज्ञानेन जन्तुः कदाचिन्मृत्युर्मां मारयिष्यतीति विश्वासं कृत्वैव वर्त्तते, अयन्तु

१ प्रपाठके ११ अनुवाकः। ६३

मृ॒त्युं मा॒र्यादिति॑^(१४) । ^(१५)हसितग्ँ॑ रु॒दितं॑ गी॒तं ॥ ॥ ५ ॥ वीणा॑पणव॒लासि॑तं । मृ॒तं जीव॑ञ्च॒ यत्किञ्चि॑त् । अ॒- ङ्गानि॑ स्वेव॒ विद्धि॒ तत्^(१५) । ^(१६)ऋ॒तृ॒ष्य्ग्ं॑स्तृ॒ष्य॑ध्यायत् ।


ब्रह्मज्ञानी ब्रह्मरूपस्य स्वस्य जन्ममरणभावं निश्चित्य तस्मिन्नेव क्षणे स्वकीयमरणवित्रासं परित्यजति, आत्मनो मरणाभावाद्देहस्य च स्वव्यतिरिक्तत्वान्मृत्योर्न बिभेतीत्यर्थः ॥

अथ तृतीयामाह । ^(१५)“हसितग्ँ रुदितं • अङ्गानि स्वेव विद्धि तत्”^(१५) इति । अत्र शरीरस्यात्मत्वशङ्कां वारयितुं तदीया विकारा उपन्यस्यन्ते । ‘हसितं’ कदाचिन्मुखे हासो दृश्यते, कदाचिद्रोदनं, कदाचिदुत्साहेन गानं, कदाचिद्धस्ते वाद्यमानायाः वीणायाः, कदाचित्पणवस्य मृदङ्गस्य ‘लासितं’ वादनरूपो विनोदः । कदाचिच्छरीरं ‘मृतं’, दृश्यते, कदाचिज्जीवनोपेतम्, एवमन्यदपि ‘यत्किञ्चित्’ विकारजातमस्ति, ‘तत्’ सर्वम्, ‘अङ्गानि स्वेव विद्धि’ यथा हस्तपादाद्यङ्गानि शरीरगतानि, ‘स्वा’शब्देन स्वावयवोऽभिधीयन्ते, यथा वा स्वावयवः शरीरगताः, एवमेता हसितादिविकाराः शरीरादिगताः, न त्वात्मनो योग्याः, इति हे विवेकिन् त्वं विजानीहि ॥

अथ चतुर्थीमाह । ^(१६)“ऋतृष्य्ग्ंस्तृष्यध्यायत् • अचेता यश्च चेतनः”^(१६) इति । अत्र पूर्वोक्तेन हसितादिगुणयुक्तेन शरी-

६४ तैत्तिरीये आरण्यके

अ॒स्माज्जा॒ता मे॑ मि॒थू चरन्॑ । पु॒त्रो निर्ऋ॑त्या वैदे॒हः । अ॒चेता॑ यश्च॑ चेत॒नः^{(१६)} । ^{(१७)}स तं म॒णिम॑विन्दत् । सो॑- ऽन॒ङ्गुलि॒राव॑यत् । सोऽग्री॒वः प्रत्य॑मुञ्चत ॥ ६ ॥

रादिना सह चिदात्मनस्तादात्म्याध्यासो वर्ण्यते । अयञ्चिदात्मा स्वयम् 'अतृष्यन्', एव तृष्यन् तृषां प्राप्नोति, तृषाया जडधर्मत्वेन स्वस्मिन्नसम्भवेऽपि जडतादात्म्यभ्रमेण तृषां प्राप्नोतीव लक्ष्यते । तथा 'अध्यायत्' ध्यायतीव, स्वयं ध्यानरहितोऽपि ध्यानयुक्तेन मनसा सह तादात्म्यभ्रमात् स्वयं ध्यायतीव लक्ष्यते । 'अस्मात्' दृश्याज्जडदेहात्, 'जाताः', हसितादिविकाराः, 'मे' मदीयाः, इति भ्रान्त्या ध्यायतीति शेषः । 'मिथू'शब्दो मिथः-शब्दपर्यायः सन् चिज्जडयोः परस्परमेलनं ब्रूते, तेन मेलनेन 'चरन्', मदीयमिति वृथाभिमन्यते । कोऽसावेवमभिमन्यते इति तदुच्यते । 'निर्ऋत्याः' निर्ऋतिप्रतिकूलाया मायायाः, 'पुत्रः' अहङ्कारः, विदेहस्य शरीररहितस्य चिदात्मनः सम्बन्धो 'वैदेहः' चैतन्यच्छायायुक्त इत्यर्थः । तदेव स्पष्टीक्रियते । 'यः' अहङ्कारः, 'अचेताः' स्वयमचेतनः सन्, 'चेतनश्च' चैतन्यच्छायायोगेन चेतनोऽपि भवति, तादृशः पदार्थः । देहेन्द्रियादिधर्मान्नात्मन्यारोप्य तदारोपेण सुखज्ञानादिधर्मा आत्मनि प्रतिभासन्ते ॥

अथ पञ्चमीमाह । ^{(१७)}"स तं मणिमविन्दत् ॰ अमुञ्चत" ^{(१७)} इति । यः पूर्वोक्तचेतनाचेतनयोरन्योन्यतादात्म्याध्यासेन

१ प्रपाठके ११ अनुवाकः । ६५

सोऽजि॑ह्वो अ॒स॑स्रंसत्^(१७) । ^((१८))नैतमृषिं वि॒दित्वा न॑ग॒रं प्र॒विशे॑त् । यदि॑ प्र॒विशे॑त् । मि॒थौ च॒रित्वा प्र॒विशे॑त् । तत्सम्भव॑स्य व्र॒तं^(१८) । ^((१९))आ॒ तम॑ग्ने॒ रथं॑ ति॒ष्ठ ।


निष्पन्नः संसारी, 'सः', एव, 'तं मणिं', अतीते अन्धो मणिमित्यादि मन्त्रे प्रोक्तं मण्याद्युपलक्षितमाभरणं चक्षुषा दृष्टवान् । 'सः', एव स्वतोऽङ्गुलिरहितोऽपि देहतादात्म्याध्यासेन तदीयैरङ्गुलिभिः 'आवयत्' स्वीकृतवान् । तथा स्वतः ग्रीवारहितोपि शरीरगतायां ग्रीवायां 'प्रत्यमुञ्चत्' । तथा स एव स्वतः जिह्वारहितोपि शरीरगतया जिह्वया 'असस्रंसत्' प्रशंसां कृतवान् ॥

अथ ब्राह्मणमाह । ^((१८))"नैतमृषिं ० सम्भवस्य व्रतं"^((१८)) इति । 'एतमृषिं' पूर्वोक्तं विवेकप्रतिपादकं मन्त्रसङ्घं, 'विदित्वा' मन्त्रप्रतिपाद्यं परमार्थतत्त्वमवगत्य, 'नगरं' जनसम्मदयुक्तं, 'न प्रविशेत्', यद्वा नगरोपलक्षितं देहं न प्रविशेत्, देहे तादात्म्यभ्रमं न कुर्यादित्यर्थः । 'यदि' कथञ्चित् पूर्ववासनाबलात्, 'प्रविशेत्' देहे तादात्म्यबुद्धिं कुर्यात्, तदानीं 'मिथौ चरित्वा' शास्त्रार्थपर्यालोचनया मिथ्येदमिति निश्चित्य, 'प्रविशेत्' तादात्म्यभ्रमरहितेन देहेन प्रारब्धभोगाय लोकव्यवहारं कुर्यात् । 'तत्' एतत्, सम्भवनाम्न ऋषेः 'व्रतं' आचारः, स ह्येवमाचरितवान् ॥

कल्पः । आतमग्ने रथमिति तिस्र इति । तत्र प्रथमामाह ।

६६ तैत्तिरीये आरण्यके

०एका॑श्वमेक॒योज॑नं । एकच॒क्रमेकधुरं॑ । वा॒तभ्रा॑जिग॒तिं वि॑भो^{(१९)}। ^{(२०)}न॒ रि॑ष्यति॒ न व्य॑थते ॥ ७ ॥
नास्या॑क्षो यातु॒ सज्ज॑ति । यच्छ्वे॒तान् रोहि॑ताँश्चा-


^{(१९)}“आतमग्ने ० वातभ्राजिगतिं विभो”^{(१९)} इति। हे ‘अग्ने’ आरुणकेतुक, इह कर्म्मण्यागमनाय ‘तं’ तादृशं, ‘रथं’, ‘आतिष्ठ’ आरोह। कीदृशं, ‘एकाश्वं’ एक एव प्रबलोऽश्वः तं वहति, ‘एकयोजनं’ निमिषमात्रेण योजनरूपं गच्छति, ‘एकचक्रं’ लौकिकरथवच्चक्रद्वयं नापेक्षते किन्त्वेकचक्रेण वर्त्तते, ‘एकधुरं’ अश्वस्यैकत्वात् तद्योजनाय धूरप्येकैव, ‘वातभ्राजिगतिं’ भ्राजिशब्दोऽपि गमनवाची, वातस्य भ्राजिर्वातभ्राजिः तद्गतिर्यस्यासौ वातभ्राजिगतिः तादृशं, यथोक्तरथस्यालौकिकत्वेन गमनायाचिन्त्यशक्तिमग्नेर्द्योतयितुं विभुशब्देन सम्बोधनं ॥

अथ द्वितीयामाह। ^{(२०)}“नरिष्यति न ० युक्ताधितिष्ठति”^{(२०)} इति। अयमेकचक्रो रथो ‘न रिष्यति’ न विनश्यति, ‘न व्यथते’ निषीदति इतस्ततस्खलति, ‘अस्य’ रथस्य, ‘अक्षः’, ‘यातु’ याने गमनवेलायां, ‘न सज्जति’ क्वापि पाषाणवृक्षादौ सक्तो न भवति, ‘यत्’ यस्मात् कारणात्, अयमग्निः ‘श्वेतान् रोहितांश्च’, प्रसिद्धान् प्रबलान् अश्वान् पर्यायेणास्मिन् ‘रथे युक्ता’, तं रथं ‘अधितिष्ठति’, तस्मादश्वसामर्थ्यात् रथस्य न कोऽपि बाध इत्यर्थः ॥

१ प्रपाठके ११ अनुवाकः । ६७

म्नेः । रथे॑ यु॒क्त्वाधितिष्ठ॑ति^(२०) । ^(२१)एक॑या च द॒शभि॑श्च॒ स्वभू॑ते । द्वाभ्या॑मि॒ष्टये वि॒ꣳश॒त्या च॑ । ति॒सृभि॑श्च वहसे त्रि॒ꣳशता॑ च । नि॒युद्भि॑र्वायवि॒ह ता वि॑मुञ्च^(२१) ॥ ७ ॥

तत॑क्षुः, धीमहि, नाम॑ मे, चि॒केत, गी॒तं, प्रत्य॑मुञ्चत्, व्य॑थते, सप्त च॑ ॥ अनु० ११ ॥


अथ तृतीयामाह । ^(२१)"एकया च ० विमुञ्च"^(२१) इति । नियुच्छब्दो वायुसम्बन्धिनोरश्वयोषित आचष्टे । हे वायो 'इष्टये' अस्मत्सम्बन्धियागार्थं, 'स्वभूते' स्वाधीने रथे, एकादिसङ्ख्यायुक्ताभिः 'नियुद्भिः', तं रथं योजयित्वा, 'वहसे' अस्मत्समीपं प्रापयसि, अश्वादिविषयाः षट्प्रकाराः सङ्ख्याविकल्पिताः । हे 'वायो', 'इह', आगत्य 'ताः' नियुतः, 'विमुञ्च' ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥

६८ तैत्तिरीये आरण्यक

अथ द्वादशोऽनुवाकः।

$^{(१)}$आत॑नुष्व॒ प्रत॑नुष्व। उद्ध॒माध॑म्॒ सन्ध॑म्। आ॒दि॒त्ये च॑न्द्रव॒र्णाना॑म्। गर्भ॑माधे॑हि॒ यः पुमा॑न्$^{(१)}$। *$^{(२)}$इ॒तः सि॒क्तःँ सूर्य॑गतम्। च॒न्द्रम॑से॒ रसं॑ कृधि। वाराद॒ञ्जन॑-

कल्पः। आतनुष्वेति चतस्र इति। तत्र प्रथमामाह।
$^{(१)}$“आतनुष्व ॰ यः पुमान्”$^{(१)}$ इति। हे इन्द्र त्वं ‘आतनुष्व’ समन्तादात्मानं विस्तारय, स्वरूपं प्रदर्श्य सर्वाननुगृहाण। ‘प्रतनुष्व’ प्रकर्षेण क्रतुषु स्वात्मानं विस्तारय, क्रतुष्वागत्य सन्निहितो भव। ‘उद्धम’ उत्कर्षेण शब्दय, अहमागत इत्येवमुच्चैः कथय। ‘आधम’ आभिमुख्येन शब्दय। ‘सन्धम’ सम्यगानुकूल्येन शब्दय, ततस्त्वं ‘चन्द्रवर्णानां’ हिरण्यवर्णानामपां, ‘गर्भमादित्ये धेहि’ आदित्यरश्मिषु जलं सङ्गृहाणेत्यर्थः। ‘यः’ त्वं, ‘पुमान्’ पुंस्त्वशक्तियुक्तः, स तं ‘गर्भमाधेहि’ ॥

अथ द्वितीयामाह। $^{(२)}$“इतः सिक्तं ॰ रुद्र उच्यते”$^{(२)}$ इति। ‘इतः’ कर्मणः सकाशात्, ‘सिक्तं’ आज्याद्याहुतिद्रव्यं, ‘सूर्यगतं’, कृत्वा ‘चन्द्रमसे’ चन्द्रवृद्ध्यर्थं, ‘रसं’, ‘कृधि’ कुरु, अग्नौ प्रक्षिप्तं द्रव्यमादित्यं प्राप्य जलं भूत्वा दिवि चन्द्रं भूमावोषधीश्चाभिवर्धयति, तत् सर्वमिन्द्र त्वं कुरु। ततः ‘वारादं’ वरणीयस्य फलस्यासमन्ताद्दातारं, ‘अग्निं’ आरुणकेतुक रूपं, ‘अग्रे’ अस्माकं पुरतः, ‘जनय’ उत्पादय, ‘यः’ अग्निः, ‘एको


* B चिह्नितपुस्तके इतःशब्दपूर्व्वं तद्यः इति पाठः

१ प्रपाठके १२ अनुवाकः । ६६

याग्रेऽग्निं । य एको॑ रु॒द्र उ॑च्यते॒(२) । ^{(३)}अ॒स॒ङ्ख्याताः॑ स॒-
हस्रा॑णि । स्मर्य॑ते॒ न च॑ दृश्य॑ते ॥ १ ॥
ए॒वमे॒तन्निबो॑धत^{(३)} । ^{(४)}आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒हि म॒यूर॑रोमभिः । मा त्वा केचि॒न्त्ये॑मु॒रिन् पा॒-
शिनः॑ । द॒धन्वे॑व॒ ता ई॑हि^{(४)}। ^{(५)}आ म॒न्द्रैरि॑न्द्र॒ हरि॑-

रुद्रः', इति सर्वत्र 'उच्यते' । तथा चान्यत्राम्नातं, एक एव रुद्रो न द्वितीयाऽवतस्थ इति । रुद्रो वा एष यदग्निरिति च ॥

अथ तृतीयामाह । ^{(३)}"असङ्ख्याताः ० निबोधत"^{(२)} इति । एकस्य रुद्रस्य मूर्त्तीनां 'सहस्राणि' 'असङ्ख्याताः' असङ्ख्यातानि, गणयितुं न शक्यन्ते । स च रुद्रः स्वयं 'स्मर्य्यते' श्रुतिदृङ्मुखादवगत्य स्मतुं शक्यते, स रुद्रो न द्रष्टुं शक्यः । 'एतं' रुद्रमग्निं, 'एवं' उक्तप्रकारेण, 'निबोधत' हे यजमाना अवगच्छत ॥

अथ चतुर्थीमाह । ^{(४)}"आ मन्द्रैरिन्द्र हरिभिः ० दधन्वेव ता इहि"^{(४)} इति । हे 'इन्द्र', 'मन्द्रैः' मदनीयैर्हर्षहेतुभिः, 'मयूररोमभिः' मयूरसदृशवर्णरोमयुक्तैः, 'हरिभिः' अश्वैः, 'आयाहि' अस्मिन् कर्म्मण्यागच्छ । आयान्तं त्वां 'केचित्' अपि जनाः, 'मा न्येमुः' मा नियमयन्तु, प्रतिबन्धं मा कुर्वन्वित्यर्थः । 'पाशिन इत्' अश्वानां पाशधारिणः सारथयोपि, 'न न्येमुः' नियमनं विलम्बरूपं न कुर्वन्तु, 'दधन्वेव' सर्वाभिमतानां दातेव, 'ता इहि' 'ता' अस्मद्युक्तभुवः 'इहि' गच्छ ॥

०२

१०० तैत्तिरीये आरण्यके

भिः । या॒मि म॒यूर॑रोमभिः । मा मा केचिन्॒न्येमु॑रि॒न्न पा॒शिनः । नि॒धन्वे॑व॒ ताँ॒३ इ॑मि⁽५⁾ । ⁽६⁾अणुभिश्च म॒हद्भि॑श्च ॥ २ ॥

नि॒घृषै॑रस॒मायु॑तैः । कालै॑र्हरि॒त्वमाप॑न्नैः । इन्द्रा॑- या॒हि स॒हस्र॑युक्⁽६⁾ । ⁽७⁾अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः

कल्पः । आमन्द्रैरित्येकां यजमान उपदध्यात् । पाठस्तु । ⁽५⁾"आ मन्द्रैरिन्द्र हरिभिः ० निधन्वेव तां३ इमि"⁽५⁾ इति । इत्ययं* शब्दः प्रथमैकवचनमुपलक्षयति तस्मादहमित्यर्थः सम्प- द्यते । मन्द्रैरित्यादि पूर्ववद्योजनीयं । हे 'इन्द्र', त्वया सहाह- मपि त्वदीये लोके 'यामि' गच्छामि, त्वामिव मामपि जनाः 'पाशिनः', मां 'मा', प्रतिबध्नन्तु ततोऽहं 'निधन्वेव' निधान- वानिव लब्धनिधिरिव तुष्टः सन्, 'तान्' उत्तमलोकान्, 'इमि' एमि, प्राप्नुवानि ॥

कल्पः । अणुभिश्चेति द्वे इति । तत्र प्रथमामाह । ⁽६⁾"अणु- भिश्च ० सहस्रयुक्"⁽६⁾ इति । हे 'इन्द्र', त्वं 'कालैः' कालविशेषैः सह, 'आयाहि' आगच्छ । कीदृशैः कालैः, 'अणुभिश्च' क्षण- मुहूर्त्ताद्याकारेण सूक्ष्मरूपैः, 'महद्भिश्च' संवत्सरयुगादिरूपेण प्रौढैरपि, 'निघृष्वैः' नितरां दीप्यमानैः, यद्यपि कालस्य नो- रूपत्वान्नास्ति दीप्तिः, तथापि तदभिमानिनां देवानां अस्त्येव दीप्तिः । 'असमायुतैः' परस्परमसङ्गतैः, न ह्येकस्मिन् काले


* इत्ययमित्यत्र भाष्योद्धृत इतिशब्दो मूले न दृश्यते ।

१ प्रपाठके १२ अनुवाकः । २०१

श्वेत॑सिकद्रुक॒: । सं॒व॒त्स॒रो वि॒षूवर्णे॑: । नित्या॒स्तेनु॑च- रा॒स्तव॑^{(७)} । ^{(८)}सुब्र॒ह्म॒ण्यो३॑ सुब्र॒ह्म॒ण्यो३॑ सुब्र॒ह्म॒ण्यो॑ । इन्द्राग॑च्छ॒ हरि॑व॒ आग॑च्छ मेधातिथेः । मेष॒ वृषणश्वस्य॑ मेने॒ ॥ ३ ॥


वर्त्तमाने कालान्तरं सह प्रवर्त्तन्ते । ‘हरित्वमापन्नैः’ हरिनामक- त्वदीयाश्वत्वं प्राप्तैः, कालाभिमानिदेवा एव तवाश्वा इत्यर्थः । कीदृश इन्द्रः, ‘सहस्रयुक्’ अर्चिस्सहस्रेण युक्तः ॥

अथ द्वितीयामाह । ^{(७)}“अग्निर्विभ्राष्टिवसनः ० नित्यास्ते- नुचरास्तव”^{(७)} इति । हे इन्द्र ‘अग्निः’ ‘वायुः’ ‘संवत्सरः’, ये त्रयः सन्ति ते त्रयोपि ‘तव नित्या अनुचराः’, कदाचिदप्यनपायिनो नित्याः । कीदृशोऽग्निः, ‘विभ्राष्टिवसनः’ विशेषेण भ्राजमान- वसनयुक्तः । कीदृशो वायुः, ‘श्वेतसिकद्रुकः’ श्वेतानां सिकतानां द्रोग्धा, तदेतदुपलक्षणं, नानाविधां धूलिमुत्पादयतीत्यर्थः । कीदृशः संवत्सरः, ‘विषूवर्णैः’ नानाविधैर्वर्णैर्युक्तः । वसन्ताद्यृतु- भेदाः पूर्वमेवोक्ताः ॥

कल्पः । सुब्रह्मण्योमित्येकामिति । पाठस्तु । ^{(८)}“सुब्रह्मण्यो३ ० गौतम ब्रुवाण”^{(८)} इति । शोभनं ब्रह्म सुब्रह्म वेदः तस्मै हितः ‘सुब्रह्मण्यः’ इन्द्रः, ‘ॐ’, इति सम्बोधनार्थः । हे सुब्रह्मण्येति त्रिर्भिधानमादरार्थं । तद्गुणकथनेन स्तुत्यर्थमिन्द्रादिपदैः सम्बोधनं । हे ‘इन्द्र’ परमैश्वर्ययुक्त, इह कर्मणि ‘आगच्छ’,

१०२ तैत्तिरीये आरण्यके

गौरा॒वस्कन्दि॒न्नह॑ल्यायै जा॒र। कौशि॒कब्रा॑ह्म॒ण गौ॑तमब्रुवा॒ण^(८)। ^(९)अरु॑णाश्चा इ॒हाग॑ताः। वस॑वः पृथि-


‘हरिवः’ हरिनामकावश्वावस्य विद्येते इति हरिवान् तस्य सम्बोधनं, शुक्लकृष्णपक्षदेवावेव तदीयाश्वत्वं प्राप्य हरिशब्देनोच्येते, तादृश हे हरिवः, इह कर्मणि ‘आगच्छ’। ‘मेधातिथेः’ मेधातिथिर्नामकः कश्चिदृषिः कण्वस्य पुत्रः तत्सम्बन्धिन्, हे ‘मेष’ रूप, वृषणश्वो नाम कश्चिन्मुनिः तस्य सम्बन्धिनी या मेनकाख्या दुहिता तां मन्यमाने तस्मिन्नर्थे ‘वृषणश्वस्य मेने’, इति सम्बुध्यन्तं प्रयुक्तं। ‘गौरावस्कन्दिन्’ गौरमृगो भूत्वा यागमध्ये समागत्य सोमं पीत्वा हे विनाशक। तदेतत् सर्वं शाखान्तरब्राह्मणे समाम्नातं, हरिव आगच्छेति पूर्वपक्षावपरपक्षौ वा इन्द्रस्य अश्वौ ताभ्यां ह्येष सर्वं चरतीति मेधातिथेर्मेषेति मेधातिथिं काण्वायनं मेषो भूत्वा जहार। वृषणश्वस्य मेन इति वृषणश्वस्य मेनका नाम दुहिता तामिन्द्रश्चकमे गौरावस्कन्दिन्निति गौरमृगो भूत्वा राजानं पिब हीति । ‘अहल्यायै जार’ अहल्या गौतमस्य भार्या तस्य इन्द्रो जार इति पुराणे प्रसिद्धं, ‘कौशिकब्राह्मण’ कौशिकनामा कश्चिन्महर्षिः तस्य समीपे ब्राह्मणवेषेण समागतवान्, ‘गौतमब्रुवाण’ गौतमो महर्षिः तं प्रसादयितुं स्तुतिं कृतवान्, तथाविध हे इन्द्र आगच्छेत्यन्वयः ॥

कल्पः। अरुणाश्वा इति चतस्र इति । तत्र प्रथमामाह ।

१ प्रपाठके १२ अनुवाकः। १०३

विक्ष॑ितः । अ॒ष्टौ दिग्वा॑ससो॒ऽग्नय॑ः । अ॒ग्निश्च॑ जातवे॑- दा॒श्चेत्ये॒ते(९) । ।(१०)ता॒म्राश्वा॑स्ता॒म्रर॑थाः । ता॒म्रव॑र्णास्त- था॒सिता॑ः । द॒ण्डह॑स्ताः खाद॒ग्दतः॑ । इ॒तो रु॒द्राः प॑- रा॒ङ्गताः॑ ॥ ४ ॥ उक्तँस्थानं प्रमाणञ्च पुर॒ इत(१०) । ।(११)बृहस्पति॑श्च


(९)“अरुणाश्वाः • जातवेदाश्चेत्येते”(९) इति । ‘अष्टावग्नयः’, ‘इह’ कर्मणि, ‘आगताः’ । कीदृशाः, ‘अरुणाश्वाः’ अरुणवर्णैरश्वै- र्युक्ताः, ‘वसवः’ जगतोनिवासहेतवः, ‘पृथिविक्षितः’ भूमि- वासिनः, ‘दिग्वाससः’ दिश एतेषामग्नीनां वासांसि । केतेऽष्टा- वग्नय इति तदुच्यते, ‘अग्निश्च जातवेदाश्च’, ‘इति’ एतस्मिन् मन्त्रे’ ये पूर्वमभिहिताः ‘एते’ अग्नयः, वेदितव्याः ॥

अथ द्वितीयामाह । (१०)“ताम्राश्वाः • पुर इत”(१०) इति । ये ‘रुद्राः’, सन्ति ते ‘इतः’ स्थानात् पृथिवीरूपात्, ‘परां’ दिवं, ‘गताः’ । कीदृशा रुद्राः, ताम्रवर्णैरश्वैरथैश्च युक्ताः, स्वयञ्च ‘तथा’, ‘ताम्रवर्णाः’, ‘असिताः’ ईषदपि सितं श्वैत्यं येषां नास्ति ते तादृशाः, ‘दण्डहस्ताः’ गदापाणयः, ‘खादग्दतः’ खादयन्तो भक्षयन्तो दन्ता येषां तादृशाः, एवम्बिधा हे रुद्रा युष्माकं ‘स्थानं’, ‘उक्तं’ शास्त्रेषु प्रसिद्धं, तथा तस्य स्थानस्य ‘प्रमाणञ्च’ इयत्तानिश्चयः शास्त्रसिद्धः, तस्मात् ‘पुरः’ भव- दीयाः पुरोः, ‘इत’ गच्छतः ॥

१०४ | तैत्तिरीये आरण्यके

·स॒वि॒ता । वि॒श्वरू॑पैरि॒हाग॑तां । रथे॑नोदक॒वर्त्म॑ना ।
अ॒प्सृ॒षा इति॒ तद्द्वयोः॑।(११) । (१२)उ॒क्तो वेषो॑ वासा॑ꣳसि-
च । काला॒वय॑वानामि॒तः प्रती॒च्या । वा॒सा॒त्या इत्य्-


अथ तृतीयामाह । (११)“बृहस्पतिश्च ० इति तद्द्वयोः” (११) इति । योऽयं ‘बृहस्पतिः’, यश्च ‘सविता’, तावुभौ ‘विश्वरूपैः’ नानाविधरूपैरश्वैः, ‘इह’ कर्मणि, ‘आगतां’ आगच्छतां, केन साधनेन, ‘उदकवर्त्मना रथेन’ उदकस्येव वर्त्म मार्गो यस्य रथस्य सोऽयमुदकवर्त्मा, यथा वृष्टिजलस्यान्तरिक्षमेव मार्गः एवमेतदीयरथस्याप्यन्तरिक्षमेव मार्गः। कीदृशावेतौ, ‘अप्सृषा’ अपांसनितारौ, ‘इति’ एवमुक्तप्रकारेण, ‘द्वयोः’ सवितृबृहस्पत्योरुभयोः, ‘तत्’ स्वरूपं, उक्तमिति शेषः ॥

एवं त्रयो मन्त्रा उक्ताः, चतुर्थस्तु उपरिष्टादुदाहरिष्यते । (१२)“उक्तो वेषो ० तस्यैषा भवति”(१२) इति । ‘कालावयवानां’ वसन्ताद्यृतूनां, ‘इतः’ अस्मादनुवाकात्, प्रतीच्येष्वतीतेष्वनुवाकेषु साकं जानामित्यादिषु, ‘वेषः’ आकारविशेषः, ‘उक्तः’, ‘वासांसि च’ वस्त्राण्यप्युक्तानि। ऋतुर्ऋतुनाऽनुद्यमानः। विमनादाभिधावाः षष्टिश्च त्रिंशका वल्गा इत्यादिना यत् स्वरूपमृतूनामभिहितं सोऽयं वेष इत्युच्यते । सारागवस्त्रैर्जरदपचः वसन्तो वसुभिः सहेत्यादिना वस्त्राण्युक्तानि । तथा वासात्या चित्रा इत्यादिनाऽश्विनोर्देवयोर्वेष उक्तः ।

१ प्रपाठके १२ अनुवाकः। १०५

श्विनोः । कोन्तरिक्षे॒ शब्दं॑ करोतीति॑ । वासिष्ठो रौ-
हिणो मीमा॑सां चक्रे । तस्यै॒षा भव॑ति^(१२) । ^(१३)वा॒श्रेव॑
वि॒द्युदि॑ति^(१३) । ^(१४)ब्रह्म॑ण उद॒रण॑मसि । ब्रह्म॑ण उदी-


यद्यप्येतद्ब्राह्मणं न सन्निहितमन्त्रोपयुक्तं तथाप्युक्तं स्थानमिति
वचनेन बुद्धिस्थमर्थं प्रसङ्गात् ब्रूते । अथ चतुर्थमन्त्रोदाहर-
णार्थमिदमुच्यते । ‘वासिष्ठः’ वसिष्ठगोत्रोत्पन्नः, ‘रौहिणः’
रोहिणाख्यस्य मुनेः पुत्रः, सोऽयमाकाशे कञ्चिद्ध्वनिं श्रुत्वा
‘मीमांसां चक्रे’ विचारितवान्, किमिति को नामान्तरिक्षे
शब्दं करोति, न ह्यूर्द्धमवलोक्यमाने कश्चिदपि पुमानुपलभ्यते,
शब्दश्च भेरीवादनादप्यधिकः श्रूयते, तस्माद्विस्मयं प्राप्तस्य को
नाम शब्दकर्त्तेति विचारः । ‘तस्य’ विचारस्य, ‘एषा’ निर्णय-
वादिनी काचिदृग्, विद्यते ॥

तस्या ऋचः प्रतीकं दर्शयति । ^(१३)“वाश्रेव विद्युदिति”^(१३)
इति । वाश्रेव विद्युन्मिमातीत्ययं मन्त्रोऽग्निना रयिमश्नवदि-
त्यनुवाके व्याख्यातः । ‘वाश्रा’ वासनशीला, गौर्यथावत्सं प्रति
शब्दं करोति एवमियं ‘विद्युत्’ सूर्य्यतेजोरूपमेघवर्त्तिनी, ‘मि-
माति’ शब्दं निर्म्मिमीते इत्यर्थः ॥

कल्पः । ब्रह्मण उदरणमसीति चतस्रो ब्रह्मसदना इति ।
पाठस्तु । ^(१४)“ब्रह्मण उदरणमसि • उपस्तरणमसि”^(१४)
इति । हे इष्टके त्वं ‘ब्रह्मणः’ हिरण्यगर्भस्य, ‘उदरणं’ उद्घो-

१०६तैत्तिरीये आरण्यके

रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि^(१४) ॥ ५ ॥

दृश्य॑ते, च, मे॒ने, प॒रा॑ङ्गताः, चक्रे॒, षट् च॑ ॥ अनु० १२ ॥


अथ त्रयोदशोऽनुवाकः ।

*(१)अ॒ष्टयो॑नीम॒ष्टपु॑त्रां । अ॒ष्टप॑त्नीमि॒मां म॒हीम् ।
अ॒हं वेद॒ न मे॑ मृ॒त्युः । न चामृ॑त्यु॒रघा॒हरत्^(१) । (२)अ॒ष्ट-


रणत्वहेतुरसि । 'उदीर्णं' उदीर्णत्वहेतुरसि । उदीर्णत्वं लोभराहित्यं । उदीर्णत्वं गुणान्तरैरन्येभ्य आधिक्यं । 'आस्तरणं' आसनं । 'उपस्तरणं' उपर्याच्छादनं । एतैश्चतुर्भिर्यजुर्मन्त्रैश्चतस्र इष्टका उपरि दध्यात् ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुराण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥


अथ त्रयोदशोऽनुवाकः ।

कल्पः । अष्टयोनीमित्यष्टौ दिश्या इति । तत्र प्रथमामाह । (१)“अष्टयोनी ० मृत्युरघाहरत्^(१) इति । अष्टौ अष्टसंख्याकानि मूलप्रकृतिसहितानि महदहंकारपञ्चतन्मात्ररू-


* B चिह्नितपुस्तके “अपक्रामन्तुगर्भिण्यः” इत्यधिकः पाठः ।

१ प्रपाठके १३ अनुवाकः । १०७

यौ॒न्य॑ष्टपु॒त्रं । अ॒ष्टप॑दीद॒मन्तरि॑क्षं । अ॒हं वे॑द॒ न मे॑ मृ॒त्युः । न चामृ॑त्यु॒रघा॑हरत्^(१) । ^(२)अ॒ष्टयो॑नीम॒ष्टपु॑त्रां । अ॒ष्टप॑त्नीम॒मूं दिव॑म् ॥ १ ॥

अ॒हं वे॑द॒ न मे॑ मृ॒त्युः । न चामृ॑त्यु॒रघा॑हरत्^(३) । ^(४)सु॒त्रामा॑णं^(४) ^(५)म॒हीमू॒षु^(५)। ^(६)अदि॑ति॒र्द्यौरदि॑ति॒रन्तरि॑क्षं।


पाणि तत्त्वानि योनयः कारणानि यस्याः पृथिव्याः सेयं 'अष्टयोनी', तां । अष्टसङ्ख्याका वक्ष्यमाणा मित्रावरुणादयः पुत्रा यस्याः पृथिव्याः सेयं 'अष्टपुत्रा', तां । अष्टसङ्ख्याका इन्द्रादयो दिग्वर्त्तिनः पतयः पालका यस्याः पृथिव्याः सेयं 'अष्टपत्नी', तां । तथोक्तगुणयुक्तां 'इमां महीं' पृथिवीं, 'अहं' मन्त्रद्रष्टा, 'वेद' जानामि, अतो ज्ञानप्रभावेन 'मे मृत्युः', नास्ति, किन्त्वतो मुक्त एव भविष्यामीति शेषः । किञ्च 'अमृत्युः' परममृत्योरन्योऽपमृत्युरित्यर्थः । सः 'अघः' पापानि दुःखानि, 'न चाहरत्' ज्ञानप्रभावादेव नैव सम्पादयिष्यति ॥

अथ द्वितीयातृतीयाञ्चाह । ^(२)“अष्टयोन्यष्टपुत्रं ० न चामृत्युरघाहरत्”^(१) इति । 'अष्टपत्' अष्टपतिः, अष्टसङ्ख्याकाः पालका इत्यर्थः । अन्यत् पूर्ववत् ॥

अथ चतुर्थपञ्चममन्त्रयोः प्रतीके दर्शयति । ^(४)“सुत्रामाणं महीमूषु”^(५) इति । सुत्रामाणं पृथिवीद्यामित्येके।

N 2

१०८ तैत्तिरीये आरण्यके

अदि॑तिर्माता स पि॒ता स पु॒त्रः। विश्‍वे॑ दे॒वा अदि॑तिः प- ञ्चजनाः॑। अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्^{(६)}। ^{(७)}अ॒ष्टौ पु- त्रासो॑ अदि॑तेः। ये जा॒तास्त॒न्व॑: परि॑। दे॒वां३ उपप्रै॑त् स॒प्तभि॑: ॥ २ ॥


मन्त्रः। महीमूषु मातरमित्यपरो मन्त्रः। एतौ चोभौ वैश्वा- नरो न ऊत्येत्यनुवाके व्याख्यातौ ॥

अथ षष्ठोमाह। ^{(६)}“अदितिर्द्यौः ० मदितिर्जनित्वं”^{(६)}इति। अदितिशब्दवाच्यदेवता सर्वात्मकत्वेन स्तूयते। ‘माता’ पृथि- वी, अतो लोकत्रयात्मिकांशः देवताविशेषोदित्याख्यः, सर्वस्य जगतः ‘पिता’, ‘सः’, एव ‘पुत्रः’, च। ये ‘विश्वे देवाः’ सर्वेऽपि देवाः, ये च ‘पञ्चजनाः’ निषादपञ्चमा ब्राह्मणक्षत्रियवैश्य- शूद्राः ते सर्वेऽपि, ‘अदितिः’, एव ‘जातं’ यत् पूर्वमुत्पन्नं जगत्, ‘जनित्वं’ जननरूपो व्यापारः तत् सर्वमपि ‘अदितिः’, एव ॥

अथ सप्तमीमाह। ^{(७)}“अष्टौ पुत्रा ० मार्ताण्डमास्यत्”^{(७)} इति। ‘अदितेः’ देवतायाः, ‘अष्टौ पुत्रासः’ अष्टसङ्ख्याकाः पुत्रा विद्यन्ते, ‘ये’ पुत्राः, ‘तन्वःपरि’ शरीरस्योपरि जाताः, औ- रसा इत्यर्थः। तेषां मध्ये ‘सप्तभिः’, पुत्रैः सह ‘देवान्’, ‘उपप्रैत्’ समीपे प्राप्तवती, ‘मार्ताण्डं’, अष्टमं पुत्रं ‘परास्यत्’ पराकृतवती। तमेकं परित्यज्यान्यैरेव सप्तभिः सह देवलोकं गता ॥

१ प्रपाठके १३ अनुवाकः ॥ १०६

प॒रा॑ मा॒र्ता॒ण्डमास्य॑त्⁽७⁾। ⁽८⁾स॒प्तभिः॑ पु॒त्रैरदि॑तिः। उ॒- पप्रै॑त् पूर्व्यं॑ यु॒गं। प्र॒जायै॑ मृ॒त्यवे॒ त॑त्। प॒रा॒ मार्ता॑- ण्डमाभ॑र॒दिति॑⁽८⁾। ⁽९⁾ताननुक्र॑मिष्यामः⁽९⁾। ⁽१०⁾मि॒त्रश्च॒


अथाष्टमीमाह। ⁽८⁾"सप्तभिः ० मार्ताण्डमाभरदिति"⁽८⁾ इति। अस्यामृच्यदितिदेवतायाः सप्तपुत्रस्वीकारे मार्ताण्डपरित्यागे च कारणमुच्यते। इयं 'अदितिः', देवी 'सप्तभिः पुत्रैः', निमित्तभूतैस्तदुत्पादनार्थं 'पूर्व्यं युगं' तदुत्पत्तेः पूर्वकालीनं पतिसंयोगं, 'प्रजायै' प्रजोत्पत्त्यर्थं, 'उपप्रैत्' प्रीतिपूर्वकं प्राप्तवती। एतेषु सप्तसु पुत्रेषूत्पन्नेषु तद्वारा प्रजावृद्धिर्भवतीत्यभिप्रेत्य तैः सह देवलोके गमनं। मार्त्ताण्डाख्यमष्टमं पुत्रं 'पराभरत्' परित्यक्तवतीति यत् तत् 'मृत्यवे' मृत्युनिमित्तं, मार्त्ताण्डो हि मृत्योरेव हेतुर्न प्रजाभिवृद्धेः। मार्त्ताण्डो ह्यादित्यः, स चाण्डभेदेनोत्पद्यते। तथा हि छन्दोगास्तदाण्डं निरवर्त्तत। तत् संवत्सरस्य मात्रामदायत। तन्निरभिद्यतेत्युपक्रम्यान्ते समामनन्ति। अथ यत् तदजायत सोऽसावादित्य इति। शब्दनिर्वचनमपि तादृशमेव। मृतमण्डं यदीयजन्मना स मार्त्ताण्ड इति। तथा च स्मर्य्यते। मृतेऽण्डे जायते यस्मान्मार्त्ताण्डः स उदाहृत इति। अतोयं मृत्यवे मृत्युप्रीत्यर्थमेवोपयुज्यते। न त्वभिवृद्ध्यर्थमित्यदितेस्तत्परित्यागो युक्तः। 'इति'शब्दो मन्त्रसमाप्तिद्योतनार्थः॥

११० तैत्तिरीये आरण्यके

वरु॑णश्च । धा॒ता चार्य॒मा च॑ । अं॒शश्च॒ भग॑श्च । इ- न्द्र॑श्च विव॒स्वाँश्चेत्ये॒ते^(१०)। ^(११)हिर॑ण्यगर्भो ह॒ꣳसः शुचि॑-


अथ ब्राह्मणवाक्यमुच्यते । ^{(९)}“ताननुक्रमिष्यामः”^{(९)} इति। अष्टपुत्रमिति ये पुत्राः सूचिताः ‘तान्’ पुत्रान्, ‘अनु’क्रमेण, वक्ष्यामः ॥

कल्पः । मित्रश्च वरुणश्चेत्यष्टौ दिश्या इति । पाठस्तु । ^{(१०)}मित्रश्च ॰ विवस्वाँश्चेत्येते”^{(१०)} इति । मित्रादिनामान्ये- वात्र मन्त्राः । मित्रस्त्या देवतयाऽङ्गिरस्वदित्युपधानं द्रष्टव्यं । ‘इत्येते’ मित्रवरुणादयोऽष्टौ पुत्रा उक्ताः ॥

अथ मन्त्रचतुष्टयस्य प्रतीकानि दर्शयति । ^{(११)}“हिरण्य- गर्भो ॰ तदित्पदमिति”^{(११)} इति । हिरण्यगर्भ इत्ययं मन्त्र ऊर्ध्वा अस्येत्यनुवाके व्याख्यातः । हंसः शुचिषदित्ययं मन्त्र इन्द्रस्य वज्रोसीत्यनुवाके व्याख्यातः । ब्रह्मजज्ञानमित्ययं मन्त्रो- भ्यक्तादिश्या इत्यनुवाके व्याख्यातः । तदित्पदमित्ययं मन्त्र उदस्थाषीत् सवितेत्यनुवाके व्याख्यातः । तत्र हिरण्यगर्भ इति मन्त्रो हिरण्मयपुरुषोपधानार्थः । हंसः शुचिषदिति मन्त्रः पुष्करपर्णोपधानार्थः । ब्रह्मजज्ञानमिति मन्त्रोरुकोपधानार्थः। तदित्पदमिति मन्त्रः कूर्मोपधानार्थः । एतदेवाभिप्रेत्य कल्पे निहितं । पुष्करपर्णं हिरण्मयं पुरुषं कूर्ममिति । ‘इति’शब्दः प्रतीकसमाप्त्यर्थः ॥

१ प्रपाठके १४ अनुवाकः। १११

षत्। ब्रह्म॑जज्ञा॒नं तदि॒त्यद॒मिति॑।⁽११⁾। ⁽१२⁾गर्भः प्रा॑जा-
प॒त्यः॑। अथ॒ पुरु॑षः स॒प्तपु॑रुषः⁽१२⁾ ॥ ३ ॥
अ॒मूर्न्दिवँ॑, स॒प्तभि॑ः, ए॒ते, च॒त्वारि॑ च ॥ अनु०१२॥


अथ चतुर्दशोऽनुवाकः।

*(१)योऽसौ॒ तप॒न्नुदे॑ति॑। स सर्वे॑षां भू॒तानां॑ प्रा॒णाना॒-
दायोदे॑ति। मा मे॑ प्र॒जाया॒ मा प॑शू॒नां॑। मा मम॑ प्रा-


अथ ब्राह्मणमुच्यते। ⁽१२⁾“गर्भः प्राजापत्यः ० सप्तपुरुषः” ⁽१२⁾इति। प्रजापतेरयं 'प्राजापत्यः', तादृशः 'गर्भः', पूर्वमुक्तः, हिरण्यगर्भ इति मन्त्रे प्राजापत्यगर्भाभिधानात्। 'अथ' अनन्तरं, उत्तरेणानुवाकेन 'पुरुषः' आदित्याख्यः, प्रतिपाद्यते। स च कीदृशः, 'सप्तपुरुषः' सप्तपुरुषाः किङ्करस्थानीयाः नक्षत्रमासार्द्धमासर्तुसंवत्सराहोरात्राख्यपुरुषा यस्यासौ सप्तपुरुषः ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥


अथ चतुर्दशोऽनुवाकः।

योऽसावित्यनुवाकस्योपधाने विनियोगदर्शनाल्लिङ्गानुसारेणायुष्काम एतेनादित्यमुपतिष्ठेत्। तस्मिन्ननुवाके प्रथमं मन्त्र-


* B चिह्नितपुस्तके “यथाख्यानं गर्भिण्यः” इत्यतिरिक्तः पाठः।