भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

७२ तैत्तिरीये आरण्यके

ब्यदे॑^{(२०)}। ^{(२१)}सोम॑पा३ असो॑मपा३ इति॑ निगद॑व्या-
ख्याताः॑^{(२१)} ॥ ७ ॥

व्य॒वदा॒ताह॑ति गर॒गिर॒स्तप॑स उद॒कं तृ॒प्तास॒श्चतु॑ष्पद॒
एक॑ञ्च ॥ अनु० ९ ॥


दिभ्यश्च, 'स्वस्ति' क्षेमोऽस्तु, इतः 'ऊर्ध्वं', सर्वदा 'भेषजं' सर्वानिष्टनिवारणं, 'जिगातु' प्राप्नोतु, स 'नः' अस्मदीयाय, 'द्विपदे' मनुष्याय, च 'शं' सुखमस्तु, 'चतुष्पदे' पशवेऽपि, 'शं' सुखमस्तु ॥

अथ ब्राह्मणवाक्यमुच्यते । ^{(२१)}“सोमपा३ ० व्याख्याताः” ^{(२१)}इति। अथ निगदव्याख्याता इति यदुपक्रान्तं तदत्रोपसंह्रियते । वराहव इत्यादिषु शं चतुष्पद इत्यन्तेषु मन्त्रेषु ये 'सोमपाः', देवाः ये च 'असोमपाः', ते सर्वेप्यभिहिताः, प्लुतिद्वयमाख्यानार्थम् । प्रश्नाख्यानयोरिति सूत्रेण प्रश्नवन्निश्चिताख्यानेपि प्लुतस्य विहितत्वात् । त एते सर्वदेवाः 'निगदव्याख्याताः'। मन्त्रपाठेनैव तदर्थपर्यालोचनायान्तत्तन्महिम्नः प्रतीयमानत्वात् ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥

१ प्रपाठके १० अनुवाकः। ७३

अथ दशमोऽनुवाकः।

(१)स॒हस्र॑वृद॒यं भूमि॑:। प॒रं व्योम॑ स॒हस्र॑वृत्। अ॒श्विना॑ भु॒ज्यू नास॑त्या। वि॒श्वस्य॑ जग॒तस्पती॑(१)। (२)जा॒या भूमि॑: पति॑र्व्योम॑। मि॒थु॒नं ता अ॑तु॒र्य॑थाः। पु॒त्रो बृहस्प॑-


कल्पः। इति सहस्रवृदियमित्यष्टौ संयानीरिरिति। तत्र प्रथमामाह। (१)“सहस्रवृदियं भूमिः • जगतस्पती”(१) इति। 'इयं' दृश्यमाना, 'भूमिः', 'सहस्रवृत्' उपकारकतया सहस्रसङ्ख्यकैः पुरुषैर्ब्रियमाणा प्रार्थ्यमाना भवति, तथा 'परं व्योम' उत्कृष्टं स्वर्गस्थानमपि, 'सहस्रवृत्' सहस्रसङ्ख्याकैर्देवैः प्रार्थ्यमानं भवति। ते एते द्यावापृथिव्यौ 'अश्विनौ' अश्विसदृशौ, यथाऽश्विनौ सर्वेषामुपकुरुतः, एवमेते द्यावापृथिव्यावपोत्यर्थः। कीदृशावश्विनौ, प्राणिनां रोगनिवर्त्तनेन 'भुज्यू' भोगहेतू, 'नासत्या' कदाचिदप्यसत्यरहितौ, अत एव 'विश्वस्य जगतः', 'पती' पालयितारौ ॥

अथ द्वितीयामाह। (१)“जाया भूमिः • स्त्रीपुमम्”(२) इति। पूर्वमन्त्रे द्यावापृथिव्यावश्विरूपेण स्तुते इह तु मिथुनरूपेण स्तूयेते। येयं 'भूमिः', सा 'जाया', जायतेऽस्यां प्राणिजातमिति व्युत्पत्तेः। यत्तु 'व्योम', तत् 'पतिः', देवानां विविधरक्षकत्वेन, पालयतीति पतिः इति व्युत्पत्तिसम्भवात्। द्यावापृथिव्यौ 'ते'

७४ तैत्तिरीये आरण्यके

सो रु॒द्रः। सर॑मा॒ इति॑ स्त्रीपु॒मं<sup>(२)</sup><sup>(३)</sup>शु॒क्रं वा॑म॒न्यद्र॑- ज॒तं वा॑म॒न्यत्। वि॒षुरूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ १ ॥ विश्वा॒ हि मा॒या अ॑व॒थः स्व॑धावन्तौ। भ॒द्रा वां॑ पू॒ष-


उभे 'मिथुनं', यथा भवति तथा 'ऋतुर्यथाः' परस्परं गच्छथः। तुरीगतावितिधातुः। तथासङ्गतयोर्द्यावापृथिव्योरुत्सङ्गवर्ती 'बृहस्पतिः', एकः 'पुत्रः', 'रुद्रः' अग्निः। रुद्रो वा एष यदग्निरिति श्रुतेः। सोऽयमपरः पुत्रः, 'सरमा' वेदिः, सरः सरणमनुष्ठानप्रवृत्तिः सा च मीयते परिच्छिद्यते अनेति 'सरमा', सा च तयोर्दुहिता। 'इति' एवं, 'स्त्रीपुमं' एका स्त्री द्वौ पुमांसाविति अपत्यत्रयं सम्पन्नं ॥

अथ तृतीयामाह। <sup>(३)</sup>"शुक्रं वा ० रातिरस्तु"<sup>(३)</sup> इति। पूर्वत्र द्यावापृथिव्यौ दम्पतिरूपेण स्तुते। इह त्वहोरात्ररूपेण स्तूयेते। हे द्यावापृथिव्यौ 'वां' युवयोर्मध्ये, 'अन्यत्' परं स्वरूपं, 'शुक्रं' शुक्लवर्णं भास्वरमहः। 'अन्यत्' इतरत् स्वरूपं, 'रजतं' निश्यनुष्ठितयागोपलक्षितकृष्णवर्णोपेता रात्रिः, इत्येवं युवां 'विषुरूपे' विलक्षणरूपयुक्ते, 'अहनी' अहोरात्रे, 'स्थः', ते युवां 'द्यौरिव' द्युलोकस्य आदित्य इव, सर्वस्योपकुरुत इति शेषः। हे 'स्वधावन्तौ' अन्नवन्तौ, युवां देवौ 'हि' यस्मात्, 'विश्वा माया' सर्वा अपि मतीः, 'अवथः' रक्षथः। सति ह्यन्ने सर्वेषां बुद्धिः प्रसीदति तस्माद् हे 'पूषणौ' पोषकौ

१ प्रपाठके १० अनुवाकः । ७५

ण॒ावि॒ह रा॒तिर॑स्तु^(३) । ^(४)वा॒सा॒त्यौ चि॒त्रौ जग॑तो नि॒धानौ॑ । द्यावा॑भूमी चर॑थ॒स्ँ॒ सखा॑यौ । ताव॒श्वि- ना॑ रास॒भाश्वा॒ हवं॑ मे । शु॒भ॒स्पती॒ आगत॒स्ँ॒ सूर्य॑या सह^(४) । ^(५)त्यु॒ग्रोह॑ भु॒ज्युम॑श्विनोदमे॒घे । र॒यिन्न कश्चिन्म-

देवौ, ‘वां’ युवयोः, ‘इह’ कर्मणि, ‘रातिर्भद्राऽस्तु’ अन्नादि- दानं कल्याणं भवतु ॥

अथ चतुर्थीमाह । ^(४)“वासात्यौ ॰ सूर्यया सह”^(४) इति । अहोरात्ररूपेण स्तुतयोः पुनः सखिद्वयरूपेण स्तुतिः क्रियते । हे द्यावापृथिव्यौ ‘द्यावाभूमी’, युवां ‘सखायौ’ सखिद्वयमिव, ‘सञ्चरथः’ सम्भूय वर्त्तेथे । कीदृशौ सखायौ, ‘वासात्यौ’ वस- तिमर्हतः, देवानां मनुष्याणाञ्च निवासं प्रयच्छथ इत्यर्थः । ‘चित्रौ’ विलक्षणभोगप्रदत्वेन नानाविधौ, ‘जगतो निधानौ’ सर्वस्यापि प्राणिजातस्य निधानस्थानीयौ, ‘रासभाश्वा’ रासभौ गर्दभावेवाश्वस्थानीयौ ययोरश्विनोर्देवयोस्तौ रासभाश्वाख्यौ, तथाविधौ ‘अश्विनौ’ अश्विसदृशौ, ‘तौ’ देवौ, युवां ‘शुभ- स्पती’ शोभनस्य कर्मणः पालकौ सन्तौ, ‘सूर्यया’ उषसा, ‘सह’, द्यावापृथिव्या सह ‘हवं’ मदीयं यज्ञं प्रति, ‘आगतं’ आगच्छतं ॥

अथ पञ्चमीमाह । ^(५)“त्युग्रोह ॰ प्रुद्भिरपोदकाभिः”^(५) इति । हे ‘अश्विनौ’, ‘उदमेघे’ उदकसहितमेघे, अवस्थितं

L 2

७६ तैत्तिरीये आरण्यक

मृ॒त्वां अ॒वाहा॑: । तमू॑हथुर्नौ॒भिरा॒त्मन्व॑ती॑भिः । अ॒न्त॒- रि॒क्षप्रुद्भि॒रपो॑दकाभिः^(५) ॥ २ ॥
^(६)ति॒स्रः क्षपा॑स्त्रि॒रहा॑ऽतिव्र॒जद्भिः॑ । नास॑त्या भु॒ज्यु- मूहथुः पत॒ङ्गैः । स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे । त्रि॒भी र-


'भुज्युं' पालकं, 'तं' उदकसङ्घं, 'ऊहथुः' वहथः, सम्पादयथः । कीदृशमुदकसङ्घं, 'नौभिः', तरणीयमिति शेषः । कीदृशीभि- र्नौभिः, 'आत्मन्वतीभिः' दृढस्वरूपयुक्ताभिः, 'अन्तरिक्षप्रुद्भिः' भूमिस्पर्शमन्तरेण जलस्योपर्यन्तरिक्षे प्लवनशीलाभिः, 'अपोद- काभिः' उदकप्रवेशरहिताभिः, निश्छिद्राभिरित्यर्थः । अश्विनो रुदकस्य वहने दृष्टान्तः, 'त्युग्रः' अत्युग्रो मूर्खः, 'कश्चित्' पुमान्, 'ममृवान्' मरणं प्राप्यमाणोऽपि, 'रयिं' धनं, 'न', प्रयच्छति किन्तु 'अवाहाः' आवहत्येव, यद्वा स्वयमेवापहरति । यथा स लुब्धोऽत्यादरेण धनं सम्पादयति, एवमश्विनावप्यादरेण वृष्टिं सम्पादयत इत्यर्थः ॥

अथ षष्ठीमाह । ^(६)“तिस्रः • षडश्वैः”^(६) इति । 'नास- त्या' असत्यभाषणरहितावश्विनौ देवौ, 'तिस्रः क्षपाः' रात्रित्रयं, 'त्रिरहाः' अहस्त्रयञ्च नैरन्तरेण, 'अतिव्रजद्भिः' अतिशयेन गच्छद्भिः, 'पतङ्गैः' पक्षिषदृशैरितस्ततः सञ्चारिभिर्मेघैः, 'भुज्युं' पालकं जलसमूहं, 'ऊहथुः' युवां वहथः । कुत्रदेश इति तदुच्यते । 'आर्द्रस्य' जलपूर्णस्य, 'समुद्रस्य', 'पारे' परभागे,

१ प्रपाठके १० अनुवाकः ॥ ७७

यैः श॒तप॑द्भिः ष॒डश्वैः॑।(६)। (७)स॒वि॒तारं॒ वित॑न्वन्तं॑। अनु॑- ब॒ध्नाति॑ शाम्ब॒रः। आप॑पूर॒ष् शम्ब॑रश्चैव। स॒वि॒ता रे- प॒सो भव॑त्।(७)। (८)त्यꣳ सु॒तृप्तं॑ वि॑दि॒त्वैव॑। ब॒हुसो॑म॒गि- रं व॑शी ॥ ३ ॥


'धन्वन्' निर्जले मरुदेशे। कीदृशैर्मेघैः, 'त्रिभिः' तत्तद्देशमनु- सृत्योत्तममध्यमाधमभावेन त्रिविधैः, 'रथैः' रथसदृशैः। यथा रथा उपरि महान्तं भारं वहन्ति तथा बहुजलभारवाहिन इत्यर्थः। 'शतपद्भिः' शतसङ्ख्याकाः पदाः जलधाराः पाद- सदृशा येषां तादृशैः, अनन्तधारैरित्यर्थः। 'षडश्वैः' षट्प्रकार- व्याप्तियुक्तैः, उत्तमादीनां त्रयाणामागमनार्थास्तिस्रो व्याप्तयः पुनर्गमनार्थास्तिस्र इत्येवं षड्विधव्याप्तयः ॥

अथ सप्तमीमाह। $^{(७)}$“सवि॒तारं॑ ॰ रेप॑सो भव॒त्”$^{(७)}$ इति। शम्बरमुदकं तस्योदकस्य धारको मेघः 'शाम्बरः', स च 'वित- न्वन्तं' वृष्ट्यर्थं रश्मीन् विस्तारयन्तं, 'सवि॒तारम्' आदित्यम्, 'अनुबध्नाति' स्वानुग्रहार्थमाश्रयति। 'आपपूर' आपशब्दो जल- वाची तेन जलेन पूर्णः, 'शम्बरः' पूर्वोक्तः शाम्बरो मेघो यः सोऽपि, 'अपरेपसः' पापरहितायाः सर्वानुग्राहिकाया वृष्टेः, 'सविता', 'भवदेव' उत्पादयिता भवत्येव ॥

अथाष्टमीमाह। $^{(८)}$“त्यꣳ सु॒तृप्तं॑ ॰ सोमतृत्सुषु”$^{(८)}$ इति। 'सुतृप्तं' सुष्ठु वृष्टियुक्तं, उदकपूर्णमित्यर्थः। 'बहुसोमगिरं' बहवः

७८ तैत्तिरीये आरण्यके

अन्वे॑ति तु॒ग्रो व॑क्रिया॒न्तं । आय॑क्ष्मा॒न्त्सोम॑तृ॒त्सुषु॑^(८) । ^(९)स स॒ङ्ग्रामस्तमो॒द्योतः॑ । वाचो॒ गाः पि॑पाति॒ तत् । स तेजो॑भिः स्तवो॒ऽत्येत्य॒न्ये । रक्षसो॒ऽनन्वि॑ता॒श्च


सोम्या गिरः शब्दास्तनितरूपा यस्यासौ बङ्गोममगीः, बहुविधगर्जनयुक्त इत्यर्थः । तादृशं त्यं पूर्वोक्तं मेघं, 'विदित्वा', 'वशी' स्वाधीनमेघः, 'तुग्रः' आदित्यः, 'तुग्र'शब्दो रश्मिनाम, तद्वांस्तुग्रः । स च 'वक्रियां' वक्रं कुटिलं वृष्टिविमुखं, 'तं' मेघं, 'अन्वेति' वर्षयितुमनुगच्छति । किं कुर्वन्, 'सोमतृत्सुषु आयक्ष्मयान्' सोमेन तृप्यन्तीति सोमतृत्सवो यजमानाः, तेषु निमित्तभूतेषु, वृष्टेरागमनमायः तस्य प्रेरणमायक्षः तत् प्रेरणं यान् अप्राप्नुवन्, आयक्ष्मयान्, वृष्टिं प्रेरयितुमुद्यमं कुर्वन्नित्यर्थः । एतैरष्टभिर्मन्त्रैरिष्टका उपदध्यात् ॥

कल्पः । स सङ्ग्राम इति द्वे इति । तत्र प्रथमामाह । ^(९)“स सङ्ग्रामः * अनन्विताश्च ये”^(९) इति । 'सः' आदित्यः, 'गाः' गवादीन् पशून्, 'तत्' अप्सु उदकं, 'पिपाति' पाययति । कीदृशीर्गाः, 'वाचः' शब्द्यन्तीः, पूर्वमुदकाभावात् तृषार्त्ताः सत्यो जलपानार्थं हम्भारवं कुर्वन्तीत्यर्थः । कीदृशः स आदित्यः, 'सङ्ग्रामः' समूहवाची ग्रामशब्दोऽत्र रश्मिसङ्घमाचष्टे । सम्प्राप्तो ग्रामो रश्मिसङ्घो येनासौ सङ्ग्रामः, रश्मिभिः पूर्ण इत्यर्थः । तमो द्यति खण्डयतीति 'तमोद्यः', अन्यैरश्वैः ऊतो

१ प्रपाठके १० अनुवाकः। ७६

ये^(९) । ^{(१०)}अन्वे॑ति॒ परिवृ॒त्याऽस्त॑: । ए॒वमे॒तौ स्थो॑ अ॒श्वि-
ना॑ । ते ए॒ते द्या॑पृथि॒व्योः । अह॑रह॒र्गर्भं॑ दधाथे^{(१०)}
॥ ४ ॥


रक्षिता धृत इति 'अत्येतः' । अश्वामि द्यावस्यामिरभि नरोमीत्यश्व-
नामस्वत्यशब्द आम्नातः । आदित्यो ह्यश्वैः स्वकीयरथे स्थितः।
'सः' आदित्यः, 'तत्' तदा, 'गोभिः' वृष्ट्या परितुष्टानां प्रा-
णिनां वाग्भिः, 'स्तवा' स्तूयमानः सन्, 'अन्ये' अन्यान् देवान्,
'अत्येति' अतिक्रामति, सर्वदेवाधिकत्वेन भासत इत्यर्थः । ये
च दिव्या जनाः 'रक्षसा' रक्षसो जात्या, 'अनन्विताः' असं-
बद्धाः, देवपक्षपातिभिः सर्वैः स्तूयत इति शेषः ॥

अथ द्वितीयामाह । ^{(१०)}“अन्वेति ० गर्भं दधाथे”^{(१०)}
इति । 'अस्तः' क्षिप्तः, आदित्येन प्रेरितो मेघः, 'परिवृत्य' पुन-
रपि वृष्ट्यर्थं पर्यागत्य, 'अन्वेति' आनुकूल्येन गच्छति, वर्षती-
त्यर्थः । हे 'अश्विना', 'ते एते' यथोक्तवृष्टियुक्ते द्यावापृथिव्यौ
ये विद्येते, तयोः 'एवं' उक्तेन प्रकारेण, उपकुर्वन्तौ 'एतौ' युवां,
'स्थः' वर्त्तेथे । कथमुपकार इति तदेव स्पष्टीक्रियते । 'द्युः-
पृथिव्योः' द्यावापृथिव्योः, 'अहरहः', प्रतिदिनं, 'गर्भं दधाथे'
जलद्वारा तत्तत्प्राण्युत्पत्तिबीजं सम्पादयथः । एवमेताभ्यां
मन्त्राभ्यामिष्टके उपदध्यात् ॥

अतः परं ब्राह्मणवाक्यमुच्यते । तत्र द्यावापृथिव्यो बहुधा

८० तैत्तिरीये आरण्यके

(११)तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे । पृ॒थि॒व्या अह॑: । दि॒वो रात्रि॑: । ता अ॑विसृ॒ष्टौ । दम्प॑ती ए॒व भ॑वतः^(११) ।
(१२)तयो॑रे॒तौ व॒त्सौ । अ॒ग्निश्चा॑दि॒त्यश्च॑ । रा॒त्रेर्वत्स॑: । श्वे॒त आ॑दि॒त्यः । अ॒ह्नो॒ग्निः ॥ ५ ॥
ता॒म्रो अ॑रु॒णः । ता अ॑विसृ॒ष्टौ । दम्प॑ती ए॒व भ॑वतः^(१२) ।


प्रशंस्येते । तत्रैकां प्रशंसामाह । ^(११)“तयोरेतौ ० एव भवतः” ^(११)इति । ‘तयोः’ द्यावापृथिव्योः, ‘एतौ’ अहोरात्ररूपौ कालौ, वत्सस्थानीयौ, तत्रोत्पन्नत्वात् । तयोर्मध्ये ‘पृथिव्याः’ गोस्थानीयायाः, ‘अहः’, वत्सस्थानीयं, ‘दिवः’, च ‘रात्रिः’, च वत्सस्थानीया । प्रशंसारूपत्वान्नच विभागे कारणमन्वेष्टव्यं । ‘तौ’ एतावहोरात्ररूपौ वत्सौ, परस्परम् ‘अविसृष्टौ दम्पती एव भवतः’ इति ॥

अथ द्वितीयां प्रशंसामाह । ^(१२)“तयोरेतौ ० एव भवतः” ^(१२) इति । ‘तयोः’ द्यावापृथिव्योः, यौ वत्सौ अहोरात्ररूपौ पूर्वमुक्तौ, तयोरहोरात्रयोरग्न्यादित्यो वत्सौ, योयं ‘श्वेत आदित्यः’, रात्रेर्वत्सस्थानीयः, रात्रेः परभागे तदाविर्भावात् । योयं ‘ताम्रो अरुणः’, च अग्नी ईषद्रक्तस्ताम्रः, अत्यन्तरक्तः अरुणः, सोयमह्नो वत्सस्थानीयः, अह्नि पाकार्थ्यमग्निः प्राणिभिः प्रज्वाल्यते । अन्यत् पूर्ववत् ॥

१ प्रपाठके १० अनुवाकः । ८२

(१३)तयो॑रे॒तौ व॒त्सौ । वृ॒त्रश्च॑ वैद्यु॒तश्च॑ । अ॒ग्नेर्वृ॒त्रः । वै॒द्यु॒त आ॑दि॒त्यस्य॑ । ता अ॑वि॑स्र॒ष्टौ* । दम्प॑ती ए॒व भ॑वतः(१३) । (१४)तयो॑रे॒तौ व॒त्सौ ॥ ६ ॥ उ॒ष्मा च॑ नी॒हार॑श्च । वृ॒त्रस्यो॒ष्मा । वै॒द्यु॒तस्य॑ नी॒हारः॑ । तौ तावे॒व प्र॑तिपद्येते(१४) । (१५)सेयग्ँ रात्र्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ सं॑वसति । तस्या॒ वा ए॒तदु॒ल्बण॑म् । यद्रात्रौ॑ र॒श्मयः॑ ।


तृतीयां प्रशंसामाह । (१३)“तयोरेतौ ० एव भवतः”(१३) इति । ‘तयोः’ अग्न्यादित्ययोः, ‘वृत्रः’ आवरको धूमः, ‘वैद्युतः’ आतपः । अन्यत् पूर्ववत् ॥

अथ चतुर्थीं प्रशंसामाह। (१४)“तयोरेतौ ० प्रतिपद्येते”(१४) इति । ‘तयोः’ वृत्रवैद्युतयोः, ‘वृत्रस्य’ आवरकस्य धूमस्य, ‘ऊष्मा’, वत्सस्थानीयः । सति हि धूमे अत्रेोष्मा भवति । उष्णत्वमूष्मा । ‘वैद्युतस्य’ आतपस्य, ‘नीहारः’, वत्सस्थानीयः । नीहारो हिमवान् । ‘तौ’ ऊष्मनीहारौ, ‘तावेव’ स्वकारणभूतौ वृत्रवैद्युतावेव, ‘प्रतिपद्येते’, कारणयोरेव लीयेते न तु कार्यान्तरं जनयतः । एवं साक्षात्परम्परया च द्यावापृथिव्यौ प्रशस्ते ॥

अथ रात्रिं तद्वत्समादित्यञ्च विशेषेण प्रशंसति । (१५)“सेयग्ँ रात्री गर्भिणी ० एवमेतस्या उल्बणं”(१५) इति । येयं रात्रिरादित्यवत्सस्य समाह्रत्वेन निरूपिता, ‘सेयं रात्रिः’, गर्भरूपमादित्यं धारयन्ती तेनादित्येन ‘पुत्रेण’, सह निवसति ।


*अनिसृष्टाविति B पुस्तकपाठम् ।

८२ तैत्तिरीये आरण्यके

य॒था गोर्गर्भ‍िण्या॒ उल्बं॑ । ए॒वमे॒तस्या॑ उल्बं॑(१५) । (१६)प्र॒ज॒यि॒ष्णुः प्र॒जया॑ च प॒शुभि॑श्च भ॒वति॑ । य ए॒वं वेद॑ । ए॒तमुद्य॑न्तमपि॒ यंत॑ञ्चेति॑ । आ॒दि॒त्यः पु॒ण्य॑स्य व॒त्सः(१६) । (१७)अथ॑ प॒वित्रा॒ङ्गिर॑सः(१७) ॥ ७ ॥

स्थो, पौद॑काभि, वैशी, दधाथे, अ॒ग्नि, स्तयौरे॑ता, व॒त्सौ, भ॒वति॑ च॒त्वारि॑ च ॥ अनु० १० ॥

अत एव रात्रावादित्यो नास्माभिर्दृश्यते । आदित्यस्य रश्मय उल्बणस्थानीयाः। 'यथा', लोके, 'गर्भिण्या गोः', उल्बो गर्भेण सहार्न्तवर्त्तते । 'एवं', आदित्यस्य 'रश्मयः', अपि 'रात्रौ', आदित्येन सहावस्थितत्वान्नास्माभिर्दृश्यन्ते ॥

यथोक्तरात्रादित्ययोर्वेदनं प्रशंसति । (१६)“प्रजयिष्णुः पुण्यस्य वत्सः”(१६) इति । 'यः', रात्रिमाहात्म्यं, 'वेद', सोयं प्रजापशूत्पादकः, 'भवति', । आदित्यमहिमावेदनात् उदयास्तमययुक्तमादित्यं प्राप्नोति । उदयस्थानेऽस्तमयस्थाने च स्वेच्छया गन्तुं समर्थो भवति, किन्त्वादित्यवत्, 'पुण्यस्य वत्सः' धर्मदेवतापुत्रः, भवति ॥

वक्ष्यमाणानुवाकतात्पर्यं सङ्गृह्य दर्शयति । (१७)“अथ पवित्राङ्गिरसः”(१७)इति । संयानीष्टकामन्त्रकथनादनन्तरं पवित्रभूता अङ्गिरोनामाङ्किता इष्टकामन्त्रा वक्ष्यन्त इति शेषः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥

एकादशोऽनुवाकः ।

१ प्रपाठके ११ अनुवाकः । ८३

एकादशोऽनुवाकः ।

⁽१⁾पवि॑त्रवन्तः परि॒ वाज॑मासते । पि॒तैषां॑ प्र॒त्नो अ॒- भिर॑क्षति व्र॒तं । म॒हः स॑मु॒द्रं वरु॑णस्ति॒रोद॑धे । धीरा॑ इच्छेकुर्धरु॑णेष्वार॒भं⁽१⁾ । ⁽२⁾प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑णस्पते॒ ।


कल्पः । पवित्रवन्तः, पवित्रन्ते, ब्रह्मा देवानां, असतः सत्, इति चतस्रः पवित्रवत्य उत्तरस्मिन्निति । तत्र प्रथमामाह । (१)“पवित्रवन्तः ० धरुणेष्वारभं”(१) इति । ‘पवित्रवन्तः’ दशापवित्रयुक्ता ऋत्विग्यजमानाः, ‘वाजं’ अन्नं, ‘पर्यासते’ परितः सेवन्ते । अन्नमुद्दिश्य सोमयागं कुर्वन्तीत्यर्थः । ‘एषां’ सोमयाजिनां, ‘पिता’ पालकः, ‘प्रत्नः’ पुरातनो ब्रह्मा, ‘व्रतं’ एतत्कर्म, ‘अभिरक्षति’, । ‘महः’ महाप्रौढं, ‘समुद्रं’ समुद्रस्य सदृशमन्तरिक्षं, ‘वरुणः’ जलाधिपतिर्देवः, ‘तिरोदधे’ कर्मफलत्वेन वृष्टिं दातुं मेघैराच्छादयति । ‘धीरा इत्’ बुद्धिमन्त एव, ‘धरुणेषु’ अग्निधारकेषु यागगृहेषु, ‘आरभं’ आरब्धुं, ‘शेकुः’ शक्ताः ॥

अथ द्वितीयामाह । (२)“पवित्रन्ते ० तत्समाश्नत”(२) इति । हे ‘ब्रह्मणस्पते’ अन्नस्य मन्त्रस्य वा पालक सोम, ‘ते’ त्वदर्थं, ‘पवित्रं’ शोधकम्, इदं दशापवित्रं, ‘विततं’ विस्तारितं, ‘प्रभुः’ तेन पवित्रेण शोधितत्वात् त्वं कर्मणे समर्थः,

M 2

८४ तैत्तिरीये आरण्यके

प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: । अत॑प्ततनू॒र्न तदामो॑ अ॒श्नुते । शृ॒तास॒ इद्वह॑न्त॒स्तत्स॑माश॒त⁽२⁾ । ⁽३⁾ब्र॒ह्मा दे॒- वानां॑⁽३⁾ । ⁽४⁾अ॒सतः॒ सद्ये तत॑क्षुः ॥ १ ॥


सन्, 'विश्वतः' सर्वतः, 'गात्राणि' यज्ञाङ्गानि, 'पर्येषि' व्या- प्नोषि । पवित्रेणाशोधितस्य यज्ञाङ्गत्वं नास्ति शोधितस्य तु सोमस्य यज्ञाङ्गत्वमस्तीत्यत्र हविरन्तरं दृष्टान्तत्वेनोपन्यस्यते । 'अतप्ततनूः' अतप्ता तनूः स्वरूपं यस्य पुरोडाशादेः सोऽयं अतप्ततनूः तादृशः पुरोडाशः, 'आमः' अपक्वः सन्, 'तत्' यज्ञाङ्गत्वं 'नाश्नुते' न व्याप्नोति । यो विदग्धः स नैर्ऋतो यो- ऽशृतः स रौद्र इति श्रुतेः । 'शृतास इत्' पक्वा एव पुरो- डाशादयः, 'वहन्तः' यज्ञं निर्वहन्तः, 'तत्' यज्ञाङ्गत्वं, 'समा- शत' सम्यक् प्राप्तवन्तः । यः शृतः स देव इति श्रुतेः । अपक्वस्य पुरोडाशादेर्यज्ञाङ्गत्वं यथा नास्ति, पक्वस्य तु यथा विद्यते, तथा पवित्रेणाशोधितस्य सोमस्य यज्ञाङ्गत्वं नास्ति, शोधितस्य तु विद्यत इत्यभिप्रायः ॥

अथ तृतीयमन्त्रप्रतीकं दर्शयति । ⁽२⁾"ब्रह्मा देवानां"⁽२⁾ इति । ब्रह्मा देवानां पदवीः कवीनामित्ययं मन्त्रः त्वमग्ने बृहद्वय इत्यनुवाके व्याख्यातः ॥

अथ चतुर्थमन्त्रमाह । ⁽४⁾"असतः ॰ शङ्कुतोऽवमन्"⁽४⁾ इति । असच्छब्देन जगत्कारणमव्यक्तावस्थापन्नमुच्यते । सच्छब्देन व्य-

१ प्रपाठके ११ अनुवाकः । ८५

ऋष॑यः स॒प्तार्चि॑षश्च॒ यत् । सर्वे॑ च॒यो अग॑स्त्यश्च । न- क्ष॑त्रैः शङ्कृ॑तोऽवसन्^(४) । ^(५)अथ॑ सवि॒तुः श्यावाश्वस्या-

ऋदशापन्नं जगत् । 'ये', 'सप्तर्षयः' मरीचिवसिष्ठप्रमुखाः, तन्मध्ये मुख्यः 'अर्चिश्च', 'यत्' यः, विद्यते ते 'सर्वे', 'असत:' जगत्कार- णादव्यक्तात् सकाशात्, 'सत्' व्यक्तं जगत्, 'ततक्षुः' रक्षणोपल- क्षितं निष्पादनं कृतवन्तः । एते हि पूर्वस्मिन् कल्पे सृष्ट्यधिका- रार्थं तपस्तप्त्वा वर्तमानकल्पे जगत्कारणादव्यक्तात् सकाशात् स्वस्वाधिकारोचितं व्यक्तं जगदुत्पादितवन्तः। अव्यक्ताद्व्यक्तमुत्प- न्नमित्ययमर्थ उपनिषद्याम्नायते। असद्वा इदमग्र आसीत्, ततो वै सदजायतेति । एवं सति सप्तर्षिवद्ये पुरुषाः अस्मिन् जन्मन्यारुणकेतुकमग्निं चिन्वन्ति, ते सर्वेऽप्यागामिजन्मनि अ- गस्त्यसमानाश्च भवन्ति । किञ्चैते कर्मानुष्ठातारः 'नक्षत्रैः' दिवि भासमानैः सह, 'शङ्कृतोऽवसन्' सर्वप्राणिनां सुखका- रिणो वसन्ति, द्युलोके नक्षत्ररूपेणोत्पद्यन्त इत्यर्थः । तथा चान्यत्राम्नायते । यो वा इह जयते अमुं स लोकं नक्षत्रे। तन्नक्षत्राणां नक्षत्रत्वमिति। एतैश्चतुर्भिर्मन्त्रैरुपदध्यात् ॥

अथैकं ब्राह्मणवाक्यमाह । ^(५)अथ सवितुः ० अर्वर्तिकामस्य''(५) इति । पूर्वमथ पवित्राङ्गिरमेति अङ्गिरोनाम्नो महर्षेः सम्बन्धिन इष्टकामन्त्रान् प्रतिज्ञाय ते दर्शिताः 'अथ' तेभ्योऽनन्तरं, 'श्यावाश्वस्य' श्यावाश्वनाम्नः कस्यचिन्महर्षेः, सम्ब-

८६ तैत्तिरीये आरण्यके

वर्ति॑कामस्य^(५) । ^(६)अ॒मी य ऋक्षा॒ निहि॑तास उच्चा । नक्तं॒ ददृ॑शे॒ कुह॑चिद्दि॒वेयु॑: । अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति^(६) । ^(७)तत् स॑वि॒तुर्वरे॑ण्यं । भर्गो॑ दे॒वस्य॑ धीमहि ॥ २ ॥


न्विन दृष्टकामन्त्रा उच्यन्त इति शेषः । कीदृशस्य, ‘सवितुः’ प्रेरकस्य, मन्त्रसम्प्रदायप्रवर्तकस्येत्यर्थः । ‘अवर्तिकामस्य’ वर्त्तिर्वर्तनं लोकव्यवहारे साधनं धनं तद्राहित्यमवर्तिर्दारिद्र्यं तेन वैराग्यमुपलक्ष्यते, अतो वैराग्यकामस्येत्युक्तं भवति ॥

कल्पः । अमी य इति सप्त मध्य इति । तत्र प्रथमामाह । (६)“अमी य • नक्तमेति”(६) इति । ‘ऋक्षाः’ नक्षत्रविशेषाः, ‘अमी’ अस्माभिर्दृश्यमानाः, ‘उच्चा’ उच्चस्थाने दिवि, ‘निहिताः’ प्रजापतिनावस्थापिताः, ते नक्षत्रविशेषाः, ‘नक्तं’ रात्रौ, ‘ददृशे’ विस्पष्टं दृश्यन्ते, ‘दिवा’ अहनि, ‘कुहचित्’ क्वापि गताः, अस्माभिर्न दृश्यन्त इत्यर्थः । ‘वरुणस्य’ नक्षत्रज्योतिषामावरकस्य सौर्यतेजसः, ‘व्रतानि अदब्धानि’ व्यापाराः केनाप्यहिंसिताः । तस्मात् तेजोऽन्तराभिभावकस्य भावस्य सूर्यतेजसः केनाप्यहिंसितत्वादहनि तेनाभिभूतानि नक्षत्राणि न भासन्त इत्यर्थः । ‘चन्द्रमाः’, तु ‘विचाकशत्’ विशेषेण प्रकाशमानं, ‘नक्षत्रम्’, ‘एति’ प्राप्नोति, न तु सूर्यवन्नक्षत्राण्यभिभवति । तस्माद्रात्रौ दृश्यन्त इत्यर्थः ॥

१ प्रपाठके ११ अनुवाकः। ८७

धियो॒ यो न॑ः प्रचो॒दया॑त्⁽७⁾ । ⁽८⁾तत् स॑वि॒तुर्वृ॑णीम- हे । व॒यं दे॒वस्य॑ भो॒जन॑म् । श्रेष्ठ॑ꣳ सर्व॒धात॑मम् । तुरं॒ भ- ग॑स्य धीमहि⁽८⁾ । ⁽९⁾अपा॑गूह॒त् सवि॒ता तृ॒भीन्॑ । सर्वा॑न्


अथ द्वितीयामाह । ⁽७⁾“तत् सवितुर्वरेण्यं ॰ प्रचोदयात्” ⁽७⁾ इति । ‘वरेण्यं’ वरणीयं श्रेष्ठं, ‘सवितुः’ प्रेरकस्य सूर्यस्य, ‘तत्’ प्रसिद्धं, ‘भर्गः’ तेजः, ‘धीमहि’ ध्यायामः, ‘यः’ सविता, ‘नः’ अस्माकं, ‘धियः’ बुद्धीः, ‘प्रचोदयात्’ प्रकर्षेण प्रेरयति, तस्य सवितुरिति पूर्वत्रान्वयः ॥

अथ तृतीयामाह । ⁽८⁾“तत् सवितुः ॰ भगस्य धीमहि”⁽८⁾ इति । ‘वयं’ यजमानाः, ‘सवितुर्देवस्य’, ‘तत्’ तेजः, ‘वृणीमहे’ प्रार्थयामहे । कीदृशन्तेजः, ‘भोजनं’ भोगसाधनं, ‘श्रेष्ठं’ अतिशयेन प्रशस्तं, ‘सर्वधातमं’ सर्वस्य जगतोऽतिशयेन धारयितं, ‘तुरं’ तूर्णं, ‘भगस्य’ सौभाग्ययुक्तस्यादित्यस्य, ‘धीमहि’ तत्तेजो ध्यायामः ॥

अथ चतुर्थीमाह । ⁽९⁾“अपागूहत् ॰ भविष्यामः”⁽९⁾ इति । ‘सविता’ सूर्यनक्षत्रप्रकाशावरणेनान्ध्यापादकान् ‘सर्वान्’, ‘तृभीन्’ रश्मीन्, ‘दिवः’ अन्तरिक्षात् सकाशात्, ‘अपागूहत्’ ‘अवगूहति’ रात्रौ गुप्तत्वेन स्थापयति । तस्मात् कारणात् ‘तानि’ नक्षत्रज्योतींषि, ‘नक्तं’ रात्रौ, ‘दृशे’ दर्शनीयानि, ‘अभवन्’ योग्या भवन्ति । अयमर्थः । अहनि सूर्यरश्मिष्वाविर्भूतेषु तैरभिभू-

८८ तैत्तिरीये आरण्यके

दि॒वा अन्धं॑सः । नक्तं॒ तान्य॑भवन् दृ॒शे । अ॒स्थ्य॒स्थ्ना स-
म्ं॑विष्यामः^(९) । ^{(१०)}ना॒म ना॒मैव ना॑म मे॑ ॥ ३ ॥
नपुं॑सकं॒ पुमां॒ꣳ॒ स्त्र्य॑स्मि । स्थाव॑रोऽस्म्यथ ज॒ङ्गम॑: ।

तत्रान्नक्षत्रज्योतींष्यन्धानि भवन्ति, प्रकाशरहितानि भवन्ति,
रात्रौ तु सूर्य्यः स्वकीयान् रश्मीनुपसंहरति, अत आच्छा-
दकाभावान्नक्षत्रज्योतींषि प्रकाशन्त इति । अहनि नक्षत्र-
ज्योतिषामभावे दृष्टान्त उच्यते । यथा वयं 'अस्थि' शरीरगतं,
'अस्थ्ना' असृजा रक्तेन, 'सम्भविष्यामः', एवमिदमपि द्रष्टव्यं ॥
अथ पञ्चमोमाह । ^{(१०)}"नाम नामैव ० यजे यन्नि यन्नाहे
च"^{(१०)} इति । यथा पूर्व्वेषु मन्त्रेषु सूर्यनक्षत्रादिरूपेण दृष्टकां
स्तोतुं तत्तद्वसुमाहिमा वर्णितः । एवमत्रापि परमात्मरूपेण
स्तोतुं परमात्मनः सर्वात्म्यमुच्यते । तदेतन्मन्त्रद्रष्टुर्ब्रह्मविदो
वचनं । अत्राद्यौ द्वौ नामशब्दौ नकारान्तौ नामधेयमाच-
क्षाते । तृतीयो नामशब्दः प्रसिद्धवाचकमव्ययं । तत्र ब्रह्मवि-
त्पुमान् स्वानुभवं प्रकटयति । 'मे' मम ब्रह्मात्मभूतस्य, पूर्व्वम-
ज्ञानदशायां देवो मनुष्यो गौरश्व इत्येवं तत्तज्जन्मसु यत्
'नाम', व्यवह्रियते तत् सर्वं 'नामैव' नामशब्दमात्रमेव खलु,
नतु तत्र परस्परविलक्षणः कश्चिदर्थोऽस्ति । अत एव छन्दोगा
उपनिषद्येवमामनन्ति, वाचारम्भणं विकारो नामधेयमिति ।
योऽयं विकारः शरीरादिर्दृश्यते स सर्वोऽपि वाङ्निष्पाद्यं नाम-

१ प्रपाठके ११ अनुवाकः ॥ ८६

यजे॒ यक्षि॒ यष्टा॒हे च॑⁽१०⁾ । ⁽११⁾मया॑ भू॒तान्य॑यक्षत । प॒शवो॒ मम॑ भू॒तानि॑ । अनुबन्ध्योऽस्म्य॒हं विभुः॑⁽११⁾ ।

मात्रमेव न तु वास्तवः कश्चिद्विकारोऽस्तीति तस्यार्थः । देवतिर्यङ्मनुष्यादिशरीरभेदस्य तत्तन्नामव्यतिरेकेण वास्तवत्वाभावे सति किं तद्वास्तवं स्वरूपमिति चेत् तदुच्यते, सर्वेष्वपि वस्तुषु यदनुगतं सर्वाधिष्ठानकारणरूपं ब्रह्म तदेव ब्रह्मविदो वास्तवं स्वरूपमित्यभिधीयते । लोके यत् 'नपुंसकं' शरीरं, यश्च 'पुमान्', या च 'स्त्री', तत् सर्वमहमेव 'अस्मि' । यश्च 'स्थावरः' वृक्षादिः, योऽपि 'जङ्गमः' मनुष्यपश्वादिः, तदुभयमप्यहमेव 'अस्मि' । तथा वर्त्तमानयजमानरूपेण 'यजे' याजनं करोमि, अतीतयजमानरूपेण 'यक्षि' यागं कृतवानस्मि, भविष्यद्यजमानरूपेण 'यष्टा' यागं करिष्यामि । सर्ववस्तुष्वनुगतं सच्चिदानन्दरूपमेकाकारं यद्ब्रह्म वस्तु तदेवाहमित्येवं स्वानुभावो मन्त्रदर्शिना प्रकटीकृतः ॥

अथ षष्ठीमाह । ⁽११⁾"मया भूतानि ० अनुबन्ध्योऽस्म्यहं विभुः"⁽११⁾ इति । 'मया' मद्रूपेणैव, 'भूतानि' सर्वे प्राणिनः, 'अयक्षत' यागं कृतवन्तः, अहमेव यजमानशरीरेषु जीवरूपेण प्रविश्य तत्तं यागमकार्षमित्यर्थः । 'मम भूतानि' मया सृष्टत्वेन मदीयानि पृथिव्यादीनि पञ्च भूतानि, 'पशवः' द्विपादैश्चतुष्पादैः सम्पन्नाः, 'अहं', ब्रह्मचैतन्यरूपेण 'विभुः' व्याप्त एव सन्, 'अनुबन्ध्योऽस्मि' तत्तच्छरीरेषु प्रविश्य तदात्मत्वाभिमानं कृत्वा अनुबन्ध्यवान् सम्बन्धवानस्मि ॥

६० तैत्तिरीये आरण्यके

(२१)स्त्रिय॑: स॒तीः । ता उ॑ मे पुं॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्न विचे॑तद॒न्धः । क॒विर्यः पु॒त्रः स इ॒माः चि॑केत ॥ ४ ॥

अथ सप्तमीमाह । (१९)“स्त्रियः सतीः ० सवितुः पितासत्”(१२) इति । या लोकप्रसिद्धाः 'स्त्रियः', 'सतीः' सद्रूपाः, गुरुकटाक्षेण सदेव सोम्येदमग्र आसीदित्यादिश्रुत्युक्तं सद्वस्तुबुद्ध्वा तदनुभवेन तद्रूपा वर्त्तन्ते । 'ता उ' ता अपि स्त्रियः, 'मे', मते 'पुंस आहुः' ब्रह्मविदः पुरुषान् कथयन्ति । यद्यपि शरीरे स्तनवृद्ध्यादि स्त्रीलक्षणं दृश्यते, तथापि पुरुषस्योचितं तत्त्वज्ञानमस्तीति पुरुषलक्षणसद्भावात् पुरुषत्वं तासामभिज्ञाः कथयन्ति । ये तु ते तु शरीरे श्मश्रुप्रभृतिभिः पुरुषलक्षणैर्युक्ता अपि पुरुषस्योचितं तत्त्वज्ञानं न सम्पादयन्ति, ते स्त्रीणामुचितेन मोहेनोपेतत्वात् स्त्रिय एवेत्यभिप्रायः । यथा स्त्रीपुरुषविभागो लोकविपरीतः, एवमक्षानक्षविभागोऽपि द्रष्टव्यः । 'अक्षण्वान्' चक्षुरिन्द्रिययुक्तः, 'पश्यन्' नीलपीतादिरूपं पश्यन्नपि, 'न विचेत्' विवेकेन सद्वस्तुतत्त्वं न जानाति चेत्, सोयम् 'अन्धः', एव । मांसदृष्टिरहितोऽपि स्वरूपतत्त्वाभिज्ञश्चेत् सोयं चक्षुष्मानैवेत्यपि द्रष्टव्यं । यथायमलौकिकाक्षानक्षविभागः, एवं पितृपुत्रविभागोप्यलौकिकः कश्चिद्द्रष्टव्यः । लोके यत्र पिता न जानाति, पुत्रस्तु 'कविः' वेदशास्त्रपारङ्गतः, तत्र 'स पुत्रः', 'इमाः' एतानि दृश्यमानानि सर्वाणि भूतानि, विवेकेन स्वात्मत्वेन जानाति,

१ प्रपाठके ११ अनुवाकः। ६१

य॒स्ता वि॑जा॒नात्स॑वि॒तुः पि॒ता सं॑त्^(१२)। ^(१३)अ॒न्धो. म॒णिम॑विन्दत्। तम॑नङ्गु॒लिरा॑वयत्। अ॒ग्री॒वः प्रत्य॑-


तदानीं 'यः' पुत्रः, 'ता विजानात्' तानि सर्वाणि भूतानि स्वात्मतया जानाति, स पुत्रः 'सवितुः' उत्पादकस्यापि, 'पिता सन्' पिता भवति, ज्ञानोपदेशेन पालयितुं समर्थत्वात् । किं बहुना तत्त्वज्ञानमेव प्रशस्तम्, अज्ञानं निकृष्टमिति तात्पर्यार्थः॥

कल्पः। अन्धो मणिमिति पञ्च वैश्वदेव उत्तरा इति। तत्र प्रथमामाह। ^(१३)“अन्धो मणिं ० तमजिह्वा असश्चत”^(१३) इति। लोके हि पुरुषश्चक्षुषा मणिं दृष्ट्वा तमङ्गुलिभिरादाय ग्रीवायां प्रतिमुच्य जिह्वया प्रशंसति, चिद्रूप आत्मा तु चक्षुरङ्गुलिग्रीवा- जिह्नावर्जित एव सन् अचिन्त्यशक्तित्वात्तान् सर्वान् व्यापारान् करोति। तथाच श्वेताश्वतरा बाह्यसाधनरहितस्यैव सर्वव्या- पारकर्तृत्वमामनन्ति, अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण इति। आत्मा ह्युपाधिभेदाद्विविधः, जीव ईश्व- रश्चेति। तथाच सिद्धान्तरहस्याभिज्ञा आहुः, कार्योपाधि- रयं जीवः कारणोपाधिरीश्वर इति। कार्यं देहेन्द्रियादि- सङ्घातरूपं, कारणमचिन्त्यशक्तिः, तत्र कार्योपाधिर्जीवः स्वतो निरुपाधित्वेन सर्वसाधनशून्य एव सन् अज्ञानेन देहेन्द्रिय- तादात्म्यं स्वस्मिन्नारोप्य भ्रान्त्या सर्वमिदं करोतीति लक्ष्यते, ईश्वरस्तु भ्रान्तिरहितोऽप्यचिन्त्यशक्तियुक्तत्वाच्चक्षुरादिसाधन-

N 2