वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
चतुर्थोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६७
अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा
घ्रातस्ताभ्यां शिरसि विनतोऽहं च दुःशासनश्च ।
तस्मिन्वाले प्रसभमरिणा प्रापिते तामवस्थां
पार्श्वं पित्रोरपगतघृणः किन्नु वक्ष्यामि गत्वा ॥ १५ ॥
तथाप्यवश्य वन्दनीयौ गुरू । ( इति निष्क्रान्तौ )
इति चतुर्थोऽङ्कः ।
अन्वयः- आवाम्, अद्यैव, तातम्, अम्बाम्, च, दृष्ट्वा, रणम्, उपगतौ, ताभ्याम्,
विनतः, अहम्, च, दुःशासनः, च, शिरसि घ्रातः, अरिणा, ताम्, अवस्थाम्, तस्मिन्,
वाले, प्रसभम्, प्रापिते, ( सति ) पित्रोः, पार्श्वम्, गत्वा, अपगतघृणः, किन्नु,
वक्ष्यामि ॥ १५ ॥
अद्यैवावामिति । आवां = दुर्योधनदुःशासनौ, अद्यैव, तातं = पितरम्, अम्बां =
गान्धारीम्, च दृष्ट्वा, रणं = संग्रामम्, उपगतौ = प्राप्तौ, ताभ्यां = मातापितृभ्याम्,
विनतः = नम्रः, अहं, दुःशासनश्च शिरसि = मस्तकावच्छेदेन, अवच्छेदे सप्तमी ।
घ्रातः, अरिणा = भीमेन, ताम् = हृद्दिदारणपूर्वकमरणरूपाम्, अवस्थां = दशाम्,
तस्मिन् = दुःशासने, बाले, प्रसभं = बलात् प्रापिते, सति, पित्रोः = मातापित्रोः,
पार्श्व = समीपम्, गत्वा, अपगतघृणः = निर्लज्जः, सन् किं नु वक्ष्यामि = दुःशासन-
विनाशन एकोऽहं गतः किं कथयिष्यामीत्यर्थः । मन्दाक्रान्ता छन्दः ॥ १५ ॥
इति प्रबोधिनीव्याख्यायां चतुर्थोऽङ्कः ।
आज ही हम दोनों [ दुर्योधन और दुश्शासन ] माता-पिता का दर्शन करके युद्ध में
गये थे । और उन लोगों के द्वारा प्रणत होते समय मेरा और दुश्शासन का शिर सूँघा
गया था । हठात् शत्रु ने उस बालक को [ दुश्शासन को ] उस दशा में पहुँचा दिया
[ वध कर डाला ] फिर निर्लज्ज होकर माता-पिता के समीप जाकर क्या कहूँगा । अर्थात्
बच्चे का वध कर कौन सा मुख लेकर उनके समीप जाऊँ ॥ १५ ॥
तो भी गुरुजनों को प्रणाम अवश्य करना चाहिए ।
( यह कह कर चले जाते हैं )
चतुर्थ अङ्क समाप्त ॥
अथ पञ्चमोऽङ्कः ( ततः प्रविशति रथयानेन गान्धारी संजयः धृतराष्ट्रश्च ।) धृतराष्ट्रः—वत्स संजय, कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैक- शेषप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा । गान्धारी—जाद, जइ सच्चं जीववि मे वच्छो ता कधेहि कस्सि देसे वट्टदि । ( जात, यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते ।) संजयः—नन्वेष महाराज एक एवं न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । गान्धारी—(सकरुणम् ।) जाद, एआइ त्ति भणासि । किं णु वखु सम्पंदं भादुसदं से पास्से भविस्सदि । ( जात, एकाकीति भणसि किं नु खलु साम्प्रतं भ्रातृशतमस्य पार्श्वे भविष्यति ।) करोति दृष्टं तमसां विनाशं ददाति तुष्टश्च समीहितं तत् । मदीयविज्ञानसमृद्धिबीजं भजाम्यहं श्रीगुरुपादयुग्मम् ॥ १ ॥ गान्धारी = दुर्योधनस्य माता, उद्देशे = स्थाने, कुरुकुलकाननैकशेषप्रवालः = कुरुकुलं काननं वनम् इव तस्मिन् एकशेषः एकमात्रमवशिष्टः प्रवालः अङ्कुरः सः, वत्सः = पुत्रः ‘वत्सः पुत्रादिर्वर्षयोः । तर्णके नोरसि क्लीबम्'इति मेदिनी । कच्चिदिति - कच्चिदितीष्टप्रश्ने प्रयुज्यते । 'कच्चित्कामप्रवेदने' इत्यमरः । इष्टप्रश्नः कामप्रवेदनम् । जात इति-जात इति पुत्रस्थानीयस्य पुत्रस्य वा सम्बोधने प्रयुज्यते । न्यग्रोधच्छायायां = वटच्छायायाम् 'न्यग्रोधो बहुपादष्टः' इत्यमरः । सञ्जयेन यदुक्तम् एक एव तिष्ठतीति तत्र गान्धारी आह एकाकीति किं भणसि, भ्रातृशतस्य विनाशात् कथं सद्वितीयस्तिष्ठत्विति भावः । ( रथ पर बैठकर संजय के साथ धृतराष्ट्र और गान्धारी का प्रवेश ) धृतराष्ट्र-बेटा संजय ! कहो कहो, वत्स दुर्योधन, जो कुरुवंशरूपी अरण्यानी का एकमात्र बिरवा शेष रह गया है, किस स्थान पर है ? जीवित है अथवा नहीं। गान्धारी-सुत [ संजय ] ! यदि सत्य ही मेरा बछवा जीवित है तो बतलाओ, वह किस स्थान में है ? संजय-यह महाराज [ सामने ] अकेले ही वट की छाया में बैठे हुए हैं। गान्धारी-(करुणा के साथ) पुत्र ! क्या कहते हो "अकेले ?" क्यों सौ भाई उसके समीप होंगे ? [ कैसे सम्भव हैं ] ।
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् १६६ संजयः—तात, अम्ब, अवतरतं स्वैरं रथात् । ( उभाववतरणं नाटयतः । ) ( ततः प्रविशति सब्रीडमुपविष्टो दुर्योधनः । ) संजयः — ( उपसृत्य । ) विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः । किं न पश्यति महाराजः । ( दुर्योधनो वैलक्ष्यं नाटयति । ) धृतराष्ट्रः - शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः । अवतरनम् = अवतीर्णौ भवतम् युवाम् । स्वैरम् = शनैः । सब्रीडम् = सलज्जम् । वैलक्ष्यं = लज्जाम् ! अन्वयः - कङ्कटे उन्मोचिते. कङ्कवदनैः शल्यानि व्यपनीय, व्रणपट्टकेषु, शनकैः बद्धेषु कर्णे. कृतोपाश्रयः निर्जितशत्रूवान् नरपतीन्, लीलया, दूरात्, आलोकयन्, भवान्, पापेन मया ( हे ) पुत्रक, (त्वया) वेदना, सह्या, इति, न, पृष्टः ॥ १ ॥ शल्यानीति । कङ्कटे = कवचे, उन्मोचिते = शरीराद्विसारिते, कंकवदनैः=कङ्कस्य लोहपृष्ठनामकपक्षिविशेषस्य वदनं मुखमिव मुखं येषां तैः शल्यनिष्कासकयन्त्र- विशेषैः, शल्यानि = बाणाग्रशकलानि, व्यपनीय = निःसार्य उद्धृत्येत्यर्थः । व्रण- पट्टकेषु = व्रणजन्यपीडानाशकौषधिलिप्तवस्त्रेषु, पट्टी इति प्रसिद्धः । शनकैः = स्थिरेण, 'अव्ययसर्वनाम्नामि' त्यव्ययत्वादकच् प्रत्ययः । बद्धेषु, सत्सु । कर्णे=राधा- संजय-पिता जी और माता जी ! रथ से धीरे-धीरे उतरिये । ( दोनों रथ से उतरने का अभिनय करते हैं ) ( पुनः लज्जा में पड़े हुए दुर्योधन का प्रवेश ) संजय-( समीप जाकर ) महाराज की विजय हो । यह पिता जी माता जी के साथ आए हुए हैं । क्या महाराज नहीं देख रहे हैं ? ( दुर्योधन लज्जित हो जाता है ) धृतराष्ट्र - कवच को अङ्गों से हटा देने पर कङ्क [ गीध ] नामक पक्षी के मुखसदृश मुख वाले यन्त्रों से बाण की गाँसियों को निकाल कर छतों ( घाव ) पर सावधानी से पट्टी बाँध
२०० वेणीसंहारं नाटकं दूरान्निर्जितशत्रवान्नरपतीनालोकयंल्लीलया, सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥ १ ॥ ( धृतराष्ट्र गान्धारी च स्पर्शेनोपेत्यालिङ्गतः । ) गान्धारी—बच्च, अदिगाढप्पहारवेअणापज्जा उलस्य अम्हेसु सण्णि- हिदेसु वि ण प्पसरदि दे वाणी । ( वत्स, अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रसरति ते वाणी । ) धृतराष्ट्रः—वत्स दुर्योधन, किमश्रुतपूर्वः संप्रति मय्यप्ययमव्याहारः । सुते, कृतापाश्रयः = कृतः अपाश्रयः आधारः येन सः, अपशब्देन यतो दुष्टाश्रयः कृतः अतस्त्वेदृशी दशा सञ्जातेति ध्वनितम् । निर्जितशात्रवान् = विजितशत्रून्, 'शात्रव' इति स्वार्थेऽण् प्रत्ययः । लीलया = तिरस्कारेण, आलोकयन् = पश्यन्, भवान्, अस्य पृष्ट इत्यनेनान्वयः पापेन = पापवता, सुतशतवधहेतुत्वेन पापवत्त्वम् । मया = धृतराष्ट्रेण, न पृष्टः किं न पृष्ट ? इत्याह— सह्येति । पुत्रक = हे अनुकम्पितपुत्र, दुःखित्वादनुकम्पार्ह इति भावः । वेदना = दुःखम् सह्या = ह्य = सहनयोग्या इति । पृष्ट इत्यस्येदं मुख्यं कर्म भवच्छब्दश्च गौणकर्म, गौणे कर्मणि दुहादेरित्यभियुक्तोक्त्या गौणकर्मणि प्रत्ययाद् भवच्छन्दात्प्रथमा । सति सहायकादौ तव दुःखन्निवृत्तावपि मम पुत्रवधजन्यदुःखस्य मत्त्वान्न मया सह्य किन्तु त्वयैवेति भावः । अत्र यदुक्तं युद्धादित्यादि तत्वमित्यन्तं तद्युक्तं दुःखन्निवृत्तिकारणोपन्यासवैयर्थ्यात्तेरिति मैथिलाः । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ अतिगाढप्रहारवेदनापर्याकुलस्य = अतिगाढं भृशं यः प्रहारः तेन या वेदना दुःखं तया तथा समन्तात् आकुलस्य, ते = दुर्योधनस्य, अस्मासु, सन्निहितेषु = समीप- स्थेषु, अपि, वाणी न प्रसरति = बहिरागच्छति । अव्याहारः = अनुक्तिः, अवचनमित्यर्थः । 'व्याहार उक्तिलपितम्'त्यमरः । चुकने पर कर्ण पर अवलम्बित होकर अर्थात् कर्ण का आश्रय लेकर शत्रुओं पर विजय प्राप्त करनेवाले राजाओं को प्रेमपूर्वक नेत्रों से देखते हुए 'हे बेटा ! क्या व्यथा सहन करने योग्य है ? इस प्रकार मुझ पापी से पूछे नहीं गए ॥ १ ॥ ( धृतराष्ट्र और गान्धारी, टटोलते टटोलते समीप आकर [दुर्योधन का] आलिङ्गन करते हैं ।] गान्धारी — अत्यधिक आघात की व्यथा से व्याकुल तुम्हारे मुख से हमलोगों के समीप में रहने पर भी शब्द नहीं निकल रहा है । धृतराष्ट्र — पुत्र दुर्योधन ! क्या मेरे होते हुए भी यह आज अभूतपूर्व मौन !
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०१
गान्धारी-वच्छ जइ तुमं वि अम्हे णालवसि ता किं सपंदं वच्छो
दुस्सासणो आलवदि अह दुम्मरिसणो वा अण्णो वा । ( इति रोदिति । )
( वत्स, यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपत्यथ दुर्मर्षणो
वान्ये वा । )
दुर्योधनः-
जातोऽहमप्रतिकृतानुजनाशदर्शी
तातस्य बाष्पपयसां तव चाम्ब हेतुः ।
दुर्जातमत्र विमले भरतान्वये वः
किं मां सुतक्षयकरं सुत इत्यवैषि ॥ २ ॥
गान्धारी-जाद, अलं परिदेविदेण । तुमं वि दाव एक्का इमस्स
अन्धजुअलस्स मग्गोवदेसणो । ता चिरं जीव । किं मे रज्जेण जएण
------------------------------------------------------------------------------------------
दुर्मर्षणः = दुःशासनानुजः । तेषामभावेन त्वयैवालपनीया वयमिति भावः ।
अन्वयः- अहम् अप्रतिकृतानुजनाशदर्शी, पापः, ( हे ) अम्ब ! तव, तातस्य,
च, बाष्पपयसाम्, हेतुः ( अस्मि ) अत्र, विमले, अपि, भरतान्वये, दुर्जातम्, वः,
सुतक्षयकरम्, माम् किम्, सुत, इति, अवैषि ॥ २ ॥
जात इति । अहं = दुर्योधनः, अप्रतिकृतानुजनशदर्शी = अप्रतिकृतं प्रतिक्रियार-
हितम् अनुजानां कनिष्ठभ्रातृणांक्षयं द्रष्टुं शीलम् अस्य सः, अत एव पापः = दुराचारी,
(हे) अम्ब = मातः, तव, तातस्य = पितुः, च बाष्पपयसाम् = अश्रुजलानाम्, हेतुः =
कारणम्, अस्मीति शेषः । अत्र = अस्मिन्, विमले = विशुद्धे, अपि भरतान्वये =
भरतकुले, दुर्जातं = दुष्टोत्पन्नम्, वः = युष्माकं, सुतक्षयकरं = पुत्रक्षयकारणम् मां =
दुर्योधनम्, किम्, किमिति प्रश्ने । सुतः, पुत्रः, इति, अवैषि = जानासि, त्वमिति
शेषः । नाहं पुत्रयोग्य इति भावः । वसन्ततिलका छन्दः । २ ॥
गान्धारी-बेटा ! यदि तुम भी हम लोगों से भाषण न करोगे तो क्या अब पुत्र
दुश्शासन अथवा दुर्मर्षण अथवा और कोई अन्य वार्तालाप करेगा ?
दुर्योधन-
मातः ! प्रतिकार न करके भाइयों का नाश देखता हुआ मैं पिता के और आपके
अश्रुजलवर्षण का कारण हुआ । इस निष्कलङ्क भरतवंश में आप लोगों का मैं दुष्ट पुत्र हूँ,
पुत्रों का नाश करने वाले मुझको क्या आप लोग पुत्र करके मानते हैं ॥ २ ॥
गान्धारी-पुत्र ! अब अधिक विलाप करने की आवश्यकता नहीं । तुम्ही एक इन
२०२ वेणीसंहारं नाटकं
गा। (जात, अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्ययुगलस्य मार्गोपदेशक
तच्चिरं जीव । किं मे राज्येन जयेन वा ।)
दुर्योधनः -
मात: ! किमप्यसदृशं कृपणं वचस्ते
सुक्षत्रिया क्व भवती क्व च दीनतैषा ।
निर्वत्सले ! सुतशतस्य विपत्तिमेतां
त्वं नानुचिन्तयसि रक्षसि मामयोग्यम् ॥ ३ ॥
परिदेवितेन विलापेन, भावे क्तः । 'विलाप परिदेवनमि'त्यमरः । अन्धयुग-
लस्य = अन्धद्वयस्य मातापित्रोरित्यर्थः ।
अन्वयः-(हे) मातः, ते, किमपि, असदृशम्, कृपणम्, वचः, सुक्षत्रिया,
भवती, क्व, एषा, दीनता, च, क्व, (हे) निर्वत्सले, सुतशतस्य, एताम्, विपत्तिम्,
त्वम्, न, अनुचिन्तयसि, अयोग्यम्, माम्, रक्षसि ॥ ३ ॥
दुःखेन कातरहृदयां मातरं प्रत्याह - मातः किमपीति ।
हे मातः ! ते = तव, किमपि = अवाच्यम्, असदृशम् = अयोग्यम्, कृपणं =
कातरम्, वचः = पूर्वोक्तं वाक्यम् । अस्तीति शेषः । सुक्षत्रिया = उत्तमक्षत्रियकुलो-
त्पन्ना, भवती = माता क्व, एषा दीनता = कातर्यम्, च क्व । उभयमत्यन्तं विरुद्ध-
मिति भावः । निर्वत्सले = वात्सल्यरहिते, हे स्नेहशून्ये इत्यर्थः । निर्वत्सल इत्यत्र
वत्सल इति भावप्रधाननिर्देशः, तथा च वत्सकः वात्सल्यम् स निर्गतः यस्याः ।
एकोनशतपुत्रवधे तत्प्रतीकारार्थमुद्यतं मां युद्धान्निवर्तयन्त्या वात्सल्यशून्यत्वं तवेति
भावः । एतां = मरणरूभाम्, अनुचिन्तयसि = शोचसि, अयोग्यं = पुत्रधर्मशून्यम्,
मां = दुर्योधनम्, रक्षसि । वसन्ततिलका छन्दः ॥ ३ ॥
दोनों अन्धों के पथप्रदर्शक (लकड़ी) हो । अतः दीर्घजीवी होओ । मुझे राज्य से अथवा
विजय-लाभ से क्या प्रयोजन ?
दुर्योधन-
मातः ! यह कायरतापूर्ण वचन आपके मुख से निकलने योग्य नहीं ? कहाँ उच्च क्षत्रिय-
वंश की पुत्री तथा राजमहिषी और यह दैन्य [कातर] वचन कहाँ [अर्थात् वीरपुत्री,
वीरपत्नी और वीरमाता के मुख से इस प्रकार की कायरता से पूर्ण वाक्य कभी नहीं
निकलने चाहिए] अयि पुत्रस्नेहविह्वले ! अपने सौ पुत्रों की विपत्ति का अनुस्मरण नहीं
कर रही हो और मुझ अयोग्य की रक्षा चाहती हो ॥ ३ ॥
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०३
नूनं विचेष्टितमिदं सुतशोकस्य ।
संजयः—महाराज, किं वाऽयं लोकवादो वितथः 'न घटस्य कूपपतनेः
रज्जुस्तत्रैव प्रक्षेपव्या' इति ।
दुर्योधनः—अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ॥
( इति रोदिति ।)
धृतराष्ट्रः—( दुर्योधनं परिष्वज्य ।) वत्स, समाश्वसिहि । समाश्वासय-
चास्मानिमामर्तिदीनां मातरं च ।
दुर्योधनः—तात, दुर्लभः समाश्वास इदानीं युष्माकम् । किंतु—
कुन्त्या सह युवामद्य मया निहतपुत्रया ।
नूनमिति—सुतशोकवशादिदं कथयसि त्वमिति भावः ।
लोकवादः = लौकिकोक्तिः, आभाणकमित्यर्थः । वितथः = असत्यः किम् ।
आभाणकमेवाह—न घटस्येति । अधिकस्य विनाशे सति विनाशावशिष्टस्यापि
विनाशकरणमयुक्तमिति भावः ।
अपुष्कलम् = अपर्याप्तम्, अयुक्तमित्यर्थः । इदं = पूर्वोक्ताभाणकम्, उपक्रिय-
माणाभावे = उपकारविषयस्याभावे, उपकरणेन = साधनेन किम्, व्यर्थमित्यर्थः ।
परिष्वज्य—आलिङ्ग्य ।
अन्वयः—अद्य, मया, निहतपुत्रया, कुन्त्या, सह, शोकेऽपि, विराजमानौ, युवाम्,
तनयान्, अनुशोचतम् ॥ ४ ॥
कुन्त्येति, अद्य, मया = दुर्योधनेन, निहतपुत्रया = निहताः पुत्राः यस्याः तया,
साकाङ्क्षत्वेऽपि शरैः शातितपत्र इतिवत्समासः । कुन्त्या = युधिष्ठिरमात्रा, सह,
अवश्य पुत्रशोक का यह कार्य है।
संजय—महाराज ! 'घड़े के कुएँ में गिर जाने पर रस्सी वहीं नहीं फेंक देनी चाहिए'
यह लोकोक्ति असत्य है क्या ?
दुर्योधन—यह युक्त नहीं । उपयोग में लानेवाला नहीं होगा तो उपयोगी वस्तुओंकी
क्या उपयोगिता ? ( यह कहकर रोता है )
धृतराष्ट्र—( दुर्योधन का आलिङ्गन करके ) पुत्र ! धैर्य धारण करो। हम लोगों को
और अपनी असहाय माता को भी धैर्य बँधाओ ।
दुर्योधन—पिता जी इस समय आप लोगोंको धैर्य बँधाना टेढ़ी-खीर [ कठिन ]'है।
आज मैं कुन्ती के पुत्रों का वध कर डालता हूँ फिर आप दोनों शोक में भी उसके
साथ बैठकर अपने मृतक पुत्रों के लिए शोक मनाइए [ अर्थात् अबतक तो उसके कोई पुत्र
२०४ वेणीसंहारं नाटकं विराजमानौ शोकेऽपि तनयाननुशोचतम् ॥ ४ ॥ गान्धारी — जाद, एदं एव्व सम्पदं प्पभूदं जं तुमं वि दाव एक्को णाणु सोचिदव्वो । ता जाद, प्पसीद । एसो दे सीसञ्जली । णिवट्टीअदु सम- रब्वावारादो । अपच्छिमं करेहि पिदुणो वअणम् । ( जात, एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको नानुशोचितव्यः । तज्जात, प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापारात् । अपश्चिमं कुरु पितुर्वचनम् । ) धृतराष्ट्रः—वत्स, शृणु वचनं तवाम्बाया मम च निहताशेषबन्धु- वर्गस्य । पश्य— दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ शोकेऽपि = दुःखे सत्यपि, विराजमानौ = शोभमानौ ( सन्तौ ) अथवा दुःखेऽपि स्थितौ कुन्त्या अपि पुत्रविनाशादिति भावः । युवाम् = मातापितरौ, तनयान् = पुत्रान्, अनुशोचतं = चिन्तयतम् । यथा कुन्तीपुत्रेण तव पुत्रा हतास्तथैव त्वत्पुत्रेण मया कुन्तीपुत्रा हता भविष्यन्तीति भावः । अत्र सहोक्तिरलङ्कारः । अनुष्टुप् छंदः ॥ एतदेव, प्रभूतं = प्रचुरम्, अत्यन्तमित्यर्थः । साम्प्रतं = युक्तम्, 'युक्तं द्वे साम्प्रतं स्थान' इत्यमरः । युक्तमित्याह — यत्त्वमपीति । शीर्षाञ्जलिः = प्रणामः, अनुनय इत्यर्थः । विनय इति यावत् । पितुर्वचनम्, अपश्चिमं = अनुलङ्घ्यम्, कुरु । अन्वयः—ययोः, बलेन, दायादाः, न, गणिताः, तौ, द्रोणभीष्मौ, हतौ, कर्णस्य आत्मजम्, ( कर्णस्य ) अग्रत शमयतः फाल्गुनात्, जगत्, भीतम्, मे वत्सानाम्, निधनेन रिपु अधुना, त्वयि, शेषप्रतिज्ञः, ( अतः ) वैरिषु, मानम्, मुञ्च, ( हे ) तात, इमो, अन्धौ, पितरौ, पालय ॥ ५ ॥ शत्रुपराजयं न कर्तुं शक्नोपित्वमित्याह — दायादा इति । मरे नहीं हैं आपके बहुत से पुत्र मर चुके हैं इससे वह आप लोगों को देखकर प्रसन्न होती है। अब उसके पुत्रों का आज वध करके आप लोगों के समान ही उसे दुःखी बना देता हूँ फिर आप लोग उसके साथ अपने पुत्रों के लिए शोक कीजिए ] ॥ ४ ॥ गान्धारी—पुत्र, इस समय यही अतुलसम्पत्ति है जो कि तुम्हारे एक के विषय में अनुताप नहीं करना है। अतः पुत्र ! प्रसन्न हो । यह तुम्हारे शिर पर मैं हाथ रखती हूँ । [ अर्थात् तुम्हें मेरी सौगन्ध ] युद्ध से विमुख हो जाओ । पिता के निर्देश [ आज्ञा ] की अवहेलना न करो ? धृतराष्ट्र—बेटा ! मेरी और अपने माता की, जिनके सम्पूर्ण परिवार का सत्यानाश हो गया, बात सुनो देखो— जिन दो (भीष्म और द्रोण) के आधार पर तुमने शत्रुओं (पाण्डवों) को तृण समा
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०५ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् । वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥ ५ ॥ दुर्योधनः—समयात्प्रतिनिबृत्य किं मया कर्तव्यम् । गान्धारी—जाद, जं पिदा द विउरो वा भणदि । ( जात, यत्पिता ते विदुरो वा भणति । ) संजयः—देव, एवमिदम् ! ययोः = द्रोणभीष्मयोः, बलेन = शक्त्या, दायादाः = बान्धवाः, युधिष्ठिरादयः, 'दायादौ सुतबान्धवौ' इत्यमरः । न, गणिताः, तिरस्कृता इत्यर्थः । तौ द्रोणभीष्मौ हतौ । तथा च तव युद्धावतरणं न युक्तं सहायकाभावादित्याशयः । कर्णबलेन जयः स्यादित्यपि न सम्भवतीत्याह—कर्णस्येति । आत्मजं पुत्रम्, वृषसेनम्, अग्रतः, कर्णस्येत्यस्यात्राप्यन्वयः । तथा च कर्णस्याग्र एव, शमग्रतः = विनाशयतः, फाल्गु- नात् = अर्जुनात्, जगत्, भीतं = त्रस्तम्, येन कर्णेन स्वपुत्ररक्षणमपि नाकारि, तस्य = साहाय्येन जयासंभव इति भावः, मे=मम, वत्सानाम् = एकोनशतसंख्याक पुत्राणाम् निधनेन = मरणेन, रिपुः = भीमः, अधुना, त्वयि, शेषप्रतिज्ञः अस्तीति शेषः । भीमस्य प्रतिज्ञाऽऽसीद्यद् धृतराष्ट्रस्य पुत्रशतं हनिष्यामीति तत्रान्येषां पुत्राणां वधेन त्वमेव प्रतिज्ञाविषयाऽवशिष्टोऽसि तादृशफाल्गुनसाहाय्येन भीमस्य प्रतिज्ञापूर्तौ न कोऽपि संशयः, तथा च तव संग्रामावतरणं न युक्तमिति भावः । ( अतः ) वैरिषु, मानम् = अहङ्कारम्, मुञ्च = त्यज, ( हे ) तात, इमौ अन्धौ = नेत्रविहीनौ, पितरौ पालय । यद्यपि मातुः गान्धार्या नेत्रे आस्तां तथापि पत्युरान्ध्येन गान्धार्यापि पाति- व्रत्यरक्षणार्थं नेत्रे वस्त्रेण आच्छाने अकारिषताम्, अत उच्यते-पितरावन्धाविति । शार्दूलविक्रीडितं छन्दः ॥ ५ ॥ प्रतिनिबृत्य = परावृत्य सङ्ग्रामं त्यक्त्वेत्यर्थः । भी नहीं समझा वे द्रोणाचार्य और भीष्म मार डाले गए। सब लोगों के नेत्र के सामने कर्णपुत्र वृषसेन की हत्या करते हुए अर्जुन से संसार कम्पित हो गया मेरे पुत्रों के संहार से यह शत्रु केवल तुम्हारे लिए अवशिष्ट प्रतिज्ञ है (अर्थात् शत्रु ने अपनी सम्पूर्ण प्रतिज्ञायें पूर्ण कर लीं। केवल तुम्हारे विषय में की गई प्रतिज्ञा अवशिष्ट है) शत्रुविषयक अभिमान का परित्याग करो और अपने इन नेत्रविहीन माता-पिता का पालन करो ॥ ५ ॥ दुर्योधन—युद्ध से विमुख होकर मुझे क्या करना होगा ? गान्धारी—जो तुम्हारे पिता और विदुर कहें। संजय—महाराज ! ऐसा करना चाहिए।
२०६ वेणीसंहारं नाटकं दुर्योधनः—संजय, अद्याप्युपदेष्टव्यमस्ति । संजयः —देव, यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम्। दुर्योधनः — (सक्रोधम् ) शृणुमस्तावद्भवत एव प्रज्ञावतोऽस्मान्प्रति प्रतिरूपमुपदेशम् । धृतराष्ट्रः—वत्स युक्तवादिनि संजये किमत्र क्रोधेन । यदि प्रकृतिमाप- द्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् । दुर्योधनः—कथयतु तातः । धृतराष्ट्रः—वत्स, किं विस्तरेण । संघत्तां भवानीदानीमपि युधिष्ठिरमी- प्सितपणबन्धेन । दुर्योधनः—तात, तनयस्नेहवैकल्यादम्बा बालिशत्वेन संजयश्च काम- मेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाश- प्रज्ञावताम्, उपदेष्टव्यभूमिः, विजिगीषुरित्यन्वयः । प्रज्ञावतामिति तव्यप्रत्यययोगे "कृत्यानां कर्तरि वे"ति कर्तरि षष्ठी । प्रतिरूपं = योग्यम् । अनुरूपमित्यपि क्वचित्पाठः । सन्धत्तां = सन्धिं कुरुताम्, इदं युधिष्ठिरमित्येनान्वेति । ईप्सितपणबन्धेन = अभिलषितमूल्यनिबन्धनेन इन्द्रप्रस्थादिपञ्चग्रामदानेन, अर्धराज्यप्रदानेन वेत्यर्थः । तनयस्नेहवैकल्यात् = पुत्रस्नेहव्याकुलत्वात्, अस्य ब्रवीत्वित्यनेनान्वयः । बालिश- दुर्योधन—संजय ! क्या अब भी उपदेश देना शेष रह गया है ? संजय—महाराज ! विजयाभिलाषी जब तक जीवित है तब तक बुद्धिमानों के उपदेश के पात्र हैं । दुर्योधन—अच्छा, आप जैसे ही प्रज्ञाशील व्यक्ति का अपने लोगों के प्रति अनुकूल- उपदेश सुनूँ । धृतराष्ट्र—संजय का कहना उचित ही होता है । इसमें क्रोध से क्या प्रयोजन ? यदि क्रोध छोड़कर शान्त हो जाओ तो मैं ही तुमसे कहता हूँ । सुनो ? दुर्योधन—कहिए, पिताजी ! धृतराष्ट्र—पुत्र ! विस्तार से क्या प्रयोजन ? अब भी तुम युधिष्ठिराभिलषित सन्धि- नियम पर सन्धि कर लो । दुर्योधन—पिताजी ! पुत्रप्रेम की विकलता से माता और मूर्खता के कारण संजय भले इस प्रकार उपदेश दें । आपको भी इस प्रकार का भ्रम ? अथवा पुत्रनाश से उत्पन्न होने
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०७ जन्मा हृदयज्वरः । अन्यच्च । तात, अस्खलितभ्रातृशतोऽहं यदा तदाऽनव- धारितवासुदेवसामोपन्यासः, संप्रति हि दृष्टपितामहाचार्यानुजराजचक्र- विपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः सन्धिम् । अन्यच्च । नयवेदिन्संजय, हीयमानाः किल रिपोर्नृपाः संदधते परान् । दुःशासने हतेऽहीनाः सानुजाः पाण्डवाः कथम् ॥ ६ ॥ त्वेन = मूर्खताया 'बालिशस्तु शिशौ मूर्खे' इति मेदिनी । व्यामोहः = वैचित्यम् । अस्खलितभ्रातृशतः = अस्खलितम् अविनष्टं भ्रातृशतं यस्य सः, अवधीरितासुदेव- सामोपन्यासः = अवधीरितः तिरस्कृतः वासुदेवसामोपन्यासः कृष्णकृतशान्तिस्थापनं येन सः, आसमिति क्रियापदशेषः । उदात्तपुरुषव्रीडावहं = महापुरुषलज्जाकरम्, 'उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपी'ति हैमः । असुखावसानम् = असुखम् दुःखम् अवसाने अन्ते यस्य तम् । अन्वयः - रिपोः हीयमानाः, नृपाः' परान्, संदधते, किल, सानुजाः, ( रिपोः ) अहीनाः, पाण्डवाः, दुःशासने, हते, कथम् ( सन्दधते ), ॥ ६ ॥ सम्प्रति सन्धिः सम्भवत्यपि नेत्याह - हीयमानाः किलेति । रिपोः = शत्रो, हीयमानाः = क्षीयमाणाः, नृपाः किल परान् = शत्रुम्, सन्दधते = सन्धिं कुर्वते, किल, सानुजाः 'अत एव रिपोः अहीनाः, पाण्डवाः, दुःशासने हते हीनं, माम् कथं, सन्दधते ? पाण्डवानां सबलत्वान्मम दुर्बलत्वान्नीतिविरुद्धः सन्धिः कथं स्यादिति भावः । अत्र काव्यलिङ्गमलङ्कारः । अनुष्टुप् छन्दः ॥ ६ ॥ वाला हृदयज्वर होता ही है । और भी पिताजी ! जब मैं सौ भाइयों से था उस समय तो वासुदेव [कृष्ण] के शान्ति के उपदेश पर मेरा ध्यान नहीं गया, अब इस समय पितामह [भीष्म], आचार्य [ द्रोण ], कनिष्ठ भ्राता तथा राजन्यमण्डल की विपत्तियों को देखकर अपने केवल शरीर के स्नेह से उदार पुरुषों के लिए लज्जाजनक तथा दुःखान्त सन्धि को पाण्डवों के साथ दुर्योधन किस प्रकार करेगा ? और भी नीतिविशारद संजय । शत्रु की अपेक्षा न्यूनशक्तिवाले राजा लोग शत्रुओं से सन्धि करते हैं। दुःशासन के वधोपरान्त पाण्डव अपने भाइयों के साथ हैं उनमें किसी तरह की न्यूनता नहीं है फिर किस प्रकार वे सन्धि कर सकते हैं । [ अर्थात इस समय मेरे कुटुम्बियों का संहार हो गया है अतः मेरी शक्ति न्यून है, पाण्डवों के भाइयों में से किसी का मरण नहीं हुआ है अतः उनकी शक्ति पूरी है फिर युधिष्ठिर मेरी सन्धि को किस प्रकार स्वीकार कर सकते हैं ? ] ॥ ६ ॥
२०८ वेणीसंहारं नाटकं धृतराष्ट्रः—वत्स, एवं गतेऽपि मत्प्रार्थनया न किञ्चिन्न करोति युधि- ष्ठिरः । अन्यच्च सर्वमेवापकृतं नानुमन्यते । दुर्योधनः—कथमिव । धृतराष्ट्रः—वत्स, श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातु- र्विपत्तौ प्राणान् धारयामीति । बहुच्छलत्वात्संग्रामस्यानुजनाशमाशङ्क- मानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् । संजयः—एवमिदम् । गान्धारी—जाद, उवपत्तियुत्तं पडिवज्जस्स पिदुणो वअणम् । ( जात, उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् । ) दुर्योधनः—तात, अम्ब, संजय, एकेनापि विनाऽनुजेन मरणं पार्थः प्रतिज्ञातवान् । न किञ्चन्नेति—नद्वयेन करणस्य निश्चयः सूच्यते । अपकृतम् = अपकारम् । विपत्तौ = मरणे, सज्जः = सन्नद्धः, संधातुं = सन्धिं कर्तुम् । उपपत्तियुक्तं = युक्तिसहितम्, पितुः, वचनम् प्रतिपद्यस्व = जानीहीत्यन्वयः । अन्वयः—पार्थः, एकेन, अपि, अनुजेन, विना, मरणम्, प्रतिज्ञातवान् दुर्यो- धनः, भ्रातॄणाम् शते ( अपि ) निहते, जीवितुम्, विषहते, दुश्शासनशोणिताननम्, अरिम्, गदाकोटिना, भिन्नम् तम् भीमम्, दिक्षु, न, विक्षिपामि, कृपणः, अहम्, सन्धिम् विदध्याम् ॥ ७ ॥ एवं स्थिते न मया सन्धिः कार्या इत्याह — एकेनापीति । धृतराष्ट्र—इस प्रकार की अवस्था में प्राप्त होने पर भी मेरी प्रार्थना से युधिष्ठिर कुछ नहीं करेंगे ऐसा नहीं किन्तु अवश्य मेरी बात मानेंगे । दूसरी बात यह है कि युधिष्ठिर किए गए अपकारों पर ध्यान नहीं देते । दुर्योधन—किस प्रकार से ? धृतराष्ट्र—पुत्र युधिष्ठिर की प्रतिज्ञा सुनो—'मैं एक भी भ्राता के ऊपर संकट पड़ने पर जीवित नहीं रह सकूँगा, युद्ध में छल और कपटों की बहुलता रहती है अतः भ्राताओं के नाश की आशङ्का से युधिष्ठिर अभी तुम्हें अच्छा लगे तभी सन्धि के लिए उद्यत हैं । संजय—है तो ऐसा ही । गान्धारी—पुत्र ! युक्तियुक्त पिता के वचन को स्वीकार कर लो । दुर्योधन—पिता, माता और संजय ! एक भी कनिष्ठ भ्राता की मृत्यु हुए बिना ही युधिष्ठिर ने मरण की प्रतिज्ञा की है.
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २०९ भ्रातॄणां निहते शते विषहते दुर्योधनो जीवितुम् । तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिना भीमं दिक्षु न विक्षिपामि कृपणः सन्धिं विदध्यामहम् ॥ ७ ॥ गान्धारी—हा जाद दुस्सासण, हा मदङ्कदुल्ललिद, हा जुअराअ अस्सुदपुव्वा क्खु कस्स वि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणी हंद गन्धारी, दुक्खसदं पसूदा ण उण सुदसदम् । ( हा जात दुःशासन, हा युवराज, अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हन्त गान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतम् । ) ( सर्वे रुदन्ति । ) संजयः—( बाष्पमुत्सृज्य । ) तात, अम्ब, प्रतिबोधयितुं महाराजमिमां पार्थः = पृथापुत्रो युधिष्ठिरः, एकेन, अपि अनुजेन = भ्रात्रा, विना एकस्य भ्रातुर्मरण इत्यर्थः । मरणम् = स्वमृत्युम् प्रतिज्ञातवान् । युधिष्ठिरस्येयं प्रतिज्ञाऽऽ- सीद् यदेकस्यापि भ्रातुर्मरणेऽहं न प्राणान् धारयिष्यामीति । दुर्योधनः, भ्रातॄणाम् शते, ( अपि ) निहते, जीवितुम्, विषहते = शक्नोति समर्थोऽस्तीत्यर्थः । अनुचित- मिदमिति भावः । दुःशासनशोणिताशनम् = दुःशासनरुधिरपायिनम् अरिम्, गदा- कोटिना = गदाग्रेण, भिन्नम् = विदीर्णम्, तम् = आततायिनम् भीमम्, दिक्षु = दिशाम्, न, विक्षिपामि, किन्तु विक्षिपाम्येव । कृपणः = कदर्यः, ( सन् ), अहम् सन्धिम्, विदध्याम् = कुर्याम्, न कुर्यामिति भावः । भीमविनाश एव श्रेयान् न पुनः सन्धि- रिति भावः । अत्र यमकं शब्दालङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ ७ ॥ ईदृशी = जीवन इव दुःशासनस्य वक्षसो रुधिरपानरूपा । महाराजं = दुर्योधनम्, प्रतिबोधयितुम् = आश्वासयितुम्, इमाम् भूमि = युद्ध- और सौ भ्राताओं के मृत्यु के मुखमें चले जाने पर भी दुर्योधन जीवित रहना चाहता है । दुःशासन के रक्त पीने वाले उस शत्रु भीम को दिक्पालों के लिए [ यदि ] मैं बलि नहीं बनाता [ तो फिर ] बेचारा बनकर सन्धि करूँगा [ अर्थात् भीम के वध से मेरा मनोरथ सिद्ध होगा न कि सन्धि करने से ] ॥ ७ ॥ गान्धारी—हाय बेटा दुःशासन, हाय मेरी गोद के लाल, हाय युवराज ! संसार में इस प्रकार की विपत्ति किसी भी व्यक्ति पर आज तक नहीं सुनो गई । हाय सौ वीरों को जन्माने वाली गान्धारी तुम्हें धिक्कार है । तूने सौ तरह की विपत्तियों को उत्पन्न किया न कि सौ पुत्रों को । (सब रोते हैं) संजय—(आँसू पोंछता हुआ ) पिता जी और माता जी ! आप लोग महाराज को १४ दे०
२१० वेणीसंहार नाटकं भूमिं युवामागतौ । तदात्माऽपि तावत्संस्तभ्यताम् । धृतराष्ट्रः—वत्स दुर्योधन, एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानबन्धमरिषु त्वदेकशेषजीविताम्बनेयं तपस्विनी गान्धारी कमव- लम्बतां शरणमहं च । दुर्योधनः—श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् । कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः । स्थानम्, युवां = गान्धारीधृतराष्ट्रौ आगतौ । संस्तभ्यतां—स्थिरीक्रियताम् अवल- म्ब्यताम् प्रतिबोध्यमानस्याग्रे स्वयमेव यदि धैर्यच्युतः स्यात्तदा प्रतिबोध्यमानो जनोऽतीव विह्वलः स्यादतः साम्प्रतं युवयोर्विलापो न युक्त इति भावः । विमुखेषु=विपरीतेषु प्रतिकूलेष्वित्यर्थः । भागधेयेषु = भाग्येषु (सत्सु) अरिषु= शत्रुपु, मानबन्धम् = अहङ्कारग्रन्थिम् अमुञ्चति, च त्वयि, त्वदेकशेषजीवितावल- म्बना=त्वम् एकः शेषः अवशिष्टः जीवितावलम्बनम् प्राणाधारः यस्याः सा । शरणम्= रक्षितारम्, 'शरणं गृहरक्षित्रोः' इत्यमरः । अन्वयः—कलितभुवनाः, भुक्तैश्वर्याः, तिरस्कृतविद्विषः, प्रणतशिरसाम्, राज्ञाम्, चूडासहस्रकृतार्चनाः, अरीन्, अभिमुखम्, घ्नन्तः, सङ्ख्ये, शतम्, आत्मजाः, हताः, अम्बया, सहितः, तातः, सगरेण ऊढाम्, धुरम् वहतु ॥ ८ ॥ धैर्यमेव शरणमित्याह-कलितभुवना इति । कलितभुवनाः=कलितम् आयत्तीकृतं भुवनं लोकः यैः ते, भुक्तैश्वर्याः = प्राप्तैश्वर्यभोगाः तिरस्कृतविद्विषः = अवमानित- शत्रवः, प्रणतशिरसाम् = नतमस्तकानाम्, राज्ञाम्, चूडासहस्रकृतार्चनाः = चूडा- आश्वासित करने के लिए यहाँ पर आये हैं अतः पहले अपने को तो आश्वासन दीजिये । धृतराष्ट्र-पुत्र दुर्योधन ! इस प्रकार से विधाता के वाम होने पर और तुम्हारे शत्रु- विषयक स्वाभाविक अभिमान के परित्याग न करने पर तपस्विनी गान्धारी, जिसके लिए केवल तुम्हीं एक जीवनाधार बच गए हो, किसका आधार ले और मैं भी किसकी शरण में जाऊँ ? दुर्योधन-सुनिए जो करने का समय उपस्थित है- [आपके] शतसंख्याकपुत्र, जिन्होंने भूमण्डल का शासन किया है; सम्पत्तियों का उपभोग कर लिया है शत्रुओं को तृण-समान भी नहीं समझा है, नतमस्तक राजाओं के सहस्रों मस्तकों से पूजित होते हुए और सम्मुख आए शत्रुओं का संहार करते हुए
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २११ अभिमुखमरीन्संख्ये घ्नन्तो हताः शतमात्मजा वहतु सगरेणोढां तातो धुरं सहितोऽम्बया ॥ ८ ॥ विपर्यये त्वस्याविपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् । ( नेपथ्ये महान्कलकलः । ) गान्धारी - ( आकर्ण्य । सभयम् ! ) जाद, कहिं एदं हाहाकारमिस्सं तूर- रसिदं सुणोअदि । ( जात, कुत्रैतत् हाहाकारमिश्रं तूर्यरसितं श्रूयते । ) संजयः - अम्ब, भूमिरियमेवंविधानां भीरुजनत्रासजननी महानिना- दानाम् । सहस्रैः शिखासह्त्रैः कृतम् अर्चनं येषाम् ते, अरीन् = शत्रून्, अभिमुखम् = सम्मु- खम्, घ्नन्तः, = हिंसन्तः, सङ्ख्ये = रणे, शतम् आत्मजाः = पुत्राः, हता, अत एता- दृशकृतकृत्यपुत्रमरणेन न धैर्यत्यागः कार्य इति भावः । तत्र दृष्टान्तमुद्रया धैर्येण- राज्यभारग्रहणं कार्यमित्याह वहतु सगरेणेति । अम्बया, सहितः, तातः = पिता, सगरेण = सगरनामकसूर्यवंशीयनृपेण ऊढाम् , धुरम् = भारम् वहतु । यथा सगरना- मकनृपः कपिलक्रोधेन षष्टिसहस्रपुत्राणां विनाशेऽपि धैर्यमालम्ब्य चिरं राज्यं चकार तथैव तातो राज्यं करोत्विति भावः । अत्र निदर्शनालङ्कारः । हरिणी छन्दः ॥ ८ ॥ रसितम् = शब्दः । एवंविधानाम् = हाहाकारादिमिश्राणाम्, महानिनादानाम्, भीरुजनत्रास- युद्ध में समाप्त हो गए हैं । (अब) पिता जी (आप) माता जी के साथ सगर के द्वारा वहन किए हुए भार को वहन करें अर्थात् जिस प्रकार पृथ्वीमण्डल का शासन करते हुए, विविध प्रकार के ऐश्वर्यों का उपयोग करते हुए, शत्रुओं को पराजित करते हुए और राजन्यवर्ग से पूजित होते हुये सगर के साठ हजार पुत्र कपिल की शापज्वालारूपी युद्ध में विदग्ध होकर समाप्त हो गये । उपरान्त राजा सगर ने ही पृथ्वी के शासन का भार उठाया था वही भार अब आप उठायें । आपके पुत्रों में और सगर के पुत्रों में कोई भेद नहीं, बल और पुरुषार्थ में कोई भी किसी से न्यून नहीं है बस न्यूनता यही है कि सगर के साठ हजार पुत्र थे आपके सौ ही पुत्र हैं ॥ ८ ॥ इसके विपरीत करने से राजा के क्षत्रियधर्म की मर्यादा नहीं रह जायगी । गान्धारी- (सुनकर भयभीत होती हुई ) पुत्र ! यह हाहाकार त्राहि त्राहि की पुकार के साथ रणभेरी का नाद कहाँ से सुनाई पड़ रहा है । संजय-माताजी, यह तो भीरुलोगों को भय उत्पन्न करने वाले इस प्रकार के भीषण निर्घोषों का स्थान ही है ।
२१२ वेणीसंहारं नाटकं धृतराष्ट्रः-वत्स सञ्जय, ज्ञायतामति भैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् । दुर्योधनः-तात प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किञ्चिदत्याहितं न श्रावयति तावदेवाज्ञापय मां सङ्ग्रामावतरणाय । गान्धारी-जाद, मुहुत्तं दाव मं मन्दभाइणीं समस्ससिहि । (जात, मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।) धृतराष्ट्रः-वत्स, यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रती- घातोपायश्चिन्त्यताम् । दुर्योधनः - प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः जननी = भीतजनोद्वेगोत्पादिका, इयम्, भूमिरित्यन्वयः । क्वचित्तु अभूमिरियमेवं- विधानां भीरुजनानामिति पाठः । तत्र अभूमिः = अस्थानम् । कारणेनेति-महत्कारणमस्य भवेदित्यर्थः । भवितव्यमिति भावे तव्यप्रत्ययः । पराङ्मुखम् = विपरीतम् अनिष्टकारकमित्यर्थः । अत्याहितम् = महाभीतिः अनर्थमित्यर्थः । 'अत्याहितं महाभीति'रित्यमरः । रहः प्रतिघातोपायः = 'एकान्ते विनाशोपायः छद्मना हन्यतामित्यर्थः । अन्वयः - मम, प्रत्यक्षम्, हतबान्धवाः, परे, रहः, हन्तुम्, योग्याः, न, इह, रणे, यत्, कृतम्, (कर्म] तैः, प्रकाश्यम्, न (भवति) तेन, कृतेन, किं वा, (हे) मात:, अहम् , भवतीसुतक्षयकरः, एकः, अरयः, कियन्तः केवलम्, दैवम्, साम्यम् एतु, अधुना मेदिनी, निष्पाण्डवा, (भविष्यति) ॥ ९ ॥ वीरजनयोग्योऽयं विचारो नेत्याह-प्रत्यक्षमिति । धृतराष्ट्र-बेटा संजय ! अत्यन्त प्रचण्ड तथा शीघ्रता से बढ़ते चले आते हुए हाहाकार का पता लगाओ । इसमें कोई प्रधान कारण अवश्य होगा । दुर्योधन-पिताजी; क्षमा कीजिए विधाता हम लोगों के विपरीत अवश्य है । जब तक और कोई दूसरी विपत्ति नहीं श्रुतिगोचर होती तब तक ही मुझे युद्ध में उतरने के लिए आज्ञा प्रदान कीजिए । गान्धारी-क्षण मात्र तो मुझ अभागिनी को आश्वासित करो ? धृतराष्ट्र-पुत्र ! यद्यपि तुमने, युद्ध का विचार दृढ़ कर लिया है तथापि गुप्त रूप से शत्रुविनाश का उपाय सोचते रहो । दुर्योधन-मेरे कुटुम्ब का वध प्रत्यक्ष रूप से किया गया है अतः अप्रत्यक्ष रूप से शत्रुओं
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१३ किं वा तेन कृतेन तैरिह कृतं यन्न प्रकाश्यं रणे । गान्धारी—जाद, एआइ तमम् । को दे सहाअत्तणं करिस्सदि । ( जात, एकाकी त्वम् । कस्ते साहाय्यं करिष्यति । ) एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः । साम्यं केवलमेतु दैवमद्यना निष्पाण्डवा मेदिनी ॥ ९ ॥ ( नेपथ्ये । कलकलानन्तरम् । ) भो भो योधाः, निवेदयन्तु भवन्तः कौरवेश्वराय, इदं महत्कदनं मम, प्रत्यक्षम् = समक्षम्, हतबान्धवाः = हताः बान्धवा येः, ते, परे = शत्रवः, रहः=विविक्ते, हन्तुम्, योग्याः, न, प्रत्यक्षमपकारकर्तुः प्रत्यक्षमेवापकारः कर्त्तव्य इति नीतिः । इह = जगति, रणे यत्, कृतम्, ( कर्म ) तैः = शत्रुभिः, प्रकाश्यम् = ज्ञाप्यम् ख्यापनीयम् न, भवतीति शेषः । तेन, कृतेन, कर्मणा, किं वा, न किमपी- त्यर्थः । तदेव कर्म करणीयं यच्छत्रुभिरपि प्रशंसनीयं भवेदिति भावः । तत्र वचन- मध्य एव गान्धारी आह—जातेति । सहायकाभावादेवं न करणीयमिति भावः । पुनदुर्योधनस्त्वाह—एकोऽहमिति । ( हे ) मातः । अहम्, भवतीसुतक्षयकरः, पुत्र- विनाशे हेतुत्वादिति भावः । अत एव एकः = असहायः तथा च असहायोऽहं किमपि कतुं न शक्नोमि तथापि भाग्यमेव सहायकं स्यादित्युच्यते साम्यमिति । ( जगतत्रय- क्षयकर इति पाठस्तु भ्रान्तिमत्तः साम्यं केवलमित्यादेरसङ्गत्वपत्तेः, न हि लोकत्रय- क्षये समर्थः दैवमपेक्षेत स्वयमेव तस्य बलवत्त्वादिति ध्येयम् । ) अरयः = शत्रवः, कियन्तः, केवलम्, दैवम् = भाग्यम्, साम्यम् = समताम्, एतु = प्राप्नोतु, अधुना, मेदिनी = पृथ्वी, निष्पाण्डवा = पाण्डवरहिता, भविष्यतीति शेषः । मत्कर्तृकपाण्डव- हननादिति भावः । शार्दूलविक्रीडितं छन्दः ॥ ९ ॥ कदनम् = भीषणम्, भयावहमित्यर्थः 'कदनं भीषणे पापे' इति विश्वः । अप्रिय- का वध करने के लिए मेरा रथ समर्थ नहीं है । उनकी ( शत्रुओं की ) भाँति सङ्ग्राम में प्रच्छन्नता से जो कार्य नहीं किया तो उस कार्य करने से क्या प्रयोजन ? । गान्धारी—पुत्र ! तुम निस्सहाय हो कौन तुम्हारी सहायता करेगा ? दुर्योधन—माताजी ! आपके पुत्रों का विनाश कराने वाला मैं एक हूँ, विपक्षी ( शत्रु ) कितने हैं (अर्थात् अधिक हैं) इस समय केवल विधाता दोनों के समान हो जाय तो बस, वसुन्धरा को पाण्डवों से शून्य समझना चाहिए ॥ ९ ॥ ( नेपथ्य में कलकलध्वनि के पश्चात् ) अरे अरे शूरवीरो ! आप लोग कौरवनरेश से निवेदन कर दीजिए कि यह महान् अनर्थ
२१४ वेणीसंहार नाटकं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्य- मिदानीम् । तथा हि— त्यक्तप्राजनरश्मिरङ्किततनुः पार्थारङ्कितैर्मार्गणै- र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः । वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां शून्येनेव रथेन याति शिविरं शल्यः कुरूञ्छल्ययन् ॥ १० ॥ श्रवणपराङ्मुखतया=कर्णवधश्रवणविमुखतया, अलम् = व्यर्थम् । अन्वयः - पार्थारङ्कितैः, मार्गणैः अङ्किततनुः त्यक्तप्राजनरश्मिः स्यन्दनवर्त्मनाम्, परिचयात्, वाहैः, शनैः आकृष्यमाणः, अङ्गपतेः वार्ताम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः आवेदयन, कुरून्, शल्ययन, शून्येनेव, एव, रथेन, शल्यः, शिविरम्, याति ॥ १० ॥ अस्पष्टोक्त्या कर्णवधमाह—त्यक्तप्राजनेति । पार्थारङ्कितैः-अर्जुननामाङ्कितैः, मार्गणैः=शरैः, 'कलम्बमार्गणशराः' इत्यमरः, अङ्किततनुः=चिह्नितशरीरः बहुभिः क्रियमाणे युद्धे कस्येमे शरा इति संशयनिवार णार्थं योद्धा स्वशरे स्वनामाङ्कनं करोतीति युद्धरीतिः । त्यक्तप्राजनरश्मिः = त्यक्तौ प्राजनरश्मी वृषभप्रेरकडण्डप्रग्रहौ येन सः, तथापि स्यन्दनवर्त्मनाम् = रथमार्गाणाम् परिचयात्, वाहैः = अश्वैः, शनैः आकृष्यमाणः=नीयमानः यद्यपि शल्योऽश्वान्न सञ्चालयति तथापि अश्वः येन मार्गेण गच्छति संस्कारवशात्तेनैव मार्गेणा प्रेर्यमाणो- प्यागच्छति । स्वभावान्नतेनैव मार्गेणागच्छतीत्याशयः । अङ्गपतेः = कर्णस्य, वार्ताम्= वृत्तान्तम्, पृच्छताम्, ( जनानाम् ) विलोचनजलैः अश्रुभिः, आवेदयन=ज्ञापयन् कर्णो मृत इत्यश्रुभिरेव कथयन्निति भावः । कुरून दुर्योधनादीन्, शल्ययन् = शङ्कुजयदुःखमिव दुःखं प्रापयन्, शून्येने-कर्णरहितेन, एव, रथेन, शल्यः=साम्प्र- तिक, कर्णसारथिः शिविरम् = सैन्यनिवासस्थानम्, याति । अत्र यमकमलङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ १० ॥ हो गया । अप्रिय संवादों के सुनने में उपेक्षा करने की आवश्यकता नहीं क्योंकि समयानुसार अब उपाय तो करना ही होगा । क्योंकि— शल्य ने ( घोड़े के ) कोड़े और रास ( लगाम ) को छोड़ दिया है । अर्जुन-नामाङ्कित शरों से उसका शरीर चिह्नित हो गया है । रथ घोड़ों के द्वारा उसके मार्गों का परिचय होने के कारण धीरे-धीरे खींचा जा रहा है । वह आँसुओं से समाचार को बतलाता हुआ तथा कौरवों के हृदय में काँटे चुभोता हुआ ओछा ही रथ पर बैठकर सेना-शिविर को जा रहा है ॥ १०॥
पञ्चमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २१५ दुर्योधनः — ( श्रुत्वा । साशङ्कम् ।) आः, केनेदमविस्पष्टमशनिपातदारुण- मुद्घोषितम् । कः कोऽत्र भोः । ( प्रविश्य संभ्रान्तः । ) सूतः —हा, हताः स्मः ( इत्यात्मानं पातयति ।) दुर्योधनः —अयि, कथय । धृतराष्ट्रसंजयौ —कथ्यतां कथ्यताम् । सूतः —आयुष्मन्, किमन्यत् । शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघोऽयम् । शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ११ ॥ अशनिपातदारुणम् = वज्रनिपातवद्भयावहम्, दारुणो 'रसभेदे ना त्रिषु तु स्याद्भयावहे' इति विश्वः । उद्घोषितम् = शब्दितम् । अन्वयः—शल्येन, प्रविशता, यथा, जनौघः, मूर्च्छितः ( भवति ) ( तथा ) मनोरथम् इव, शून्यम्, कर्णस्य, रथम्, अधिरूढेन, शल्येन, अयम्, जनौघः, मूर्च्छितः, ( अस्ति ) ॥ ११ ॥ शल्येनेति । शल्येन = शङ्कुनामकास्त्रविशेषेण 'वर्छा' इति ख्यातेन, प्रविशता । जनौघोऽयमित्यादिः । यथा, जनौघो मूर्च्छितः, भवतीति शेषः । तथा मनोरथम्, इव, शून्यम्, कर्णस्य रथम्, अधिरूढेन = आरूढेन शल्येन = शल्यनामकनृपेण सारथीभूतेन, अयम्, जनौघः = मदीयसैन्यम्, मूर्च्छितः, अस्तीति शेषः । यमकं पूर्णोपमा चालङ्कारः । आर्या छन्दः ॥ ११ ॥ दुर्योधन—( सुनकर शङ्का के साथ ) अरे ! यह वज्रपात सदृश दुःसह उद्घोष अव्यक्त रूप से किसने किया है ? कौन है; कोई यहाँ पर है ? ( प्रवेश करके व्याकुलाहट के साथ ) सूत—हाय ! हम लोग मर गए !! ( यह कह कर अपने को गिरा देता है ) . दुर्योधन—अरे ! कहो ! कहो । धृतराष्ट्र और संजय—कहो ! कहो ? सूत—चिरञ्जीविन् ! दूसरा क्या......? जिस प्रकार प्रविष्ट होने वाले बाणों की नोक से जनसमूह मूर्च्छित हो जाता है उसी प्रकार मनोरथ की भाँति शून्य कर्ण के रथ पर बैठकर प्रवेश करते हुए शल्य ने जनसमूह को मूर्च्छित कर दिया है अर्थात् शल्य को अकेला कर्ण के रथ पर बैठकर आते हुए देख कर लोग कर्ण की मृत्यु की शङ्का करके व्याकुल हो रहे हैं ॥ ११ ॥
२१६ वेणीसंहारं नाटकं दुर्योधनः- हा वयस्य कर्ण ( इति मोहमुपगतः । ) गान्धारी-जाद, समस्सस समस्सस । (जात, समाश्वसिहि । समाश्वसिहि ।) संजयः- समाश्वसितु देवः । धृतराष्ट्रः- भो कष्टं कष्टम्- भीष्मे द्रोणे च निहते य आसीदवलम्बनम् । वत्सस्य च सुहृच्छूरो राधेयः सोऽप्ययं गतः ॥ १२ ॥ वत्स, समाश्वसिहि समाश्वसिहि । ननु भो हतविधे, अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः शोच्यां दशामुपगतः सह भार्ययाऽहम् । अन्वयः - भीष्मे, द्रोणे, च निहते, यः, वत्सस्य, सुहृद् शूरः च, अवलम्बनम्, आसीत्, सः, राधेयः, अप्ययम् गतः ॥ १२ ॥ भीष्म इति । भीष्मे, द्रोणे, च, निहते, एतादृशवीरयोर्निपातेऽपि आसीदाशा यत् कर्णो विजेत्ता स्यात्सोऽपि नास्तीत्याह-य आसीदिति । यः, वत्सस्य = पुत्रस्य सुहृत् शूरः, च राधेयः = कर्णः, अवलम्बनम् = आश्रयः आसीत्, स. = कर्णः, अप्ययम् = विनाशम् गतः । अनुष्टुप् छन्दः ॥ १२ ॥ हतविधे = दुर्देव, 'विधिर्विधाने दैवेऽपि' इत्यमरः । अन्वयः - अनुभूतशतपुत्रविपत्तिदुखः, अन्धः, अहम्, भार्यया, सह, शोच्याम्, दशाम्, उपगतः, अशेषितसुहृद्गुरुबन्धुवर्गे, अस्मिन्, दुर्योधने, अपि, भवता, हि, निराशः, कृतः ॥ १३ ॥ अन्धोऽनुभूतेति । अनुभूतशतपुत्रविपत्तिदुःखः = अनुभूतं शतपुत्राणां विपत्ति- दुःखं विनाशजन्यशोको येन सः, भार्यया = स्त्रिया गान्धार्या, सह, अन्धः अहम्, शोच्याम् = शोचनीयाम् दशाम्, उपगतः = प्राप्तः । तथापि तव सन्तोषो न जातो दुर्योधन-हाय ! मित्र कर्ण ! (ऐसा कहकर मूर्च्छित हो जाता है) गान्धारी-बेटा ! धैर्य धारण करो, धैर्य धारण करो । संजय-महाराज ! धैर्य रखिये, धैर्य रखिये । धृतराष्ट्र-विपत्ति ! विपत्ति !! भीष्म और द्रोण के मारे जाने के पश्चात् मेरे पुत्र का परम मित्र, वीर कर्ण जो सहायक था वह भी अब समाप्त हो गया ॥ १२ ॥ पुत्र ! धैर्य धारण करो । अरे क्रूर विधाता ! तुमने मुझ अन्धे को, जो सौ पुत्रों के नाश से दुःखित है तथा धर्मपत्नी के साथ