भारतकोश
संग्रह पर लौटें

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४७

त्रासो मृगाणां वयसां विरावो नृपाङ्कपादप्रतिमा च यत्र ॥ ३ ॥
पुरुषः—यदाज्ञापयति देवः । (इति निष्क्रम्य, पुनः प्रविश्य सहर्षम् ।)
देव पाञ्चालकः प्राप्तः ।
युधिष्ठिरः—त्वरितं प्रवेशय ।
पुरुषः—( निष्क्रम्य, पाञ्चालकेन सह प्रविश्य ।) एष देवः । उपसर्पतु
पाञ्चालक ।
पाञ्चालकः — जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।
युधिष्ठिरः—भद्र पाञ्चालक, कच्चिदासादिता तस्य दुरात्मनः कौरवा-
धमस्य पदवी ?
• मृगाणामिति । यत्र = यस्मिन् स्थाने, मृगाणाम् = हरिणानाम्, त्रासः = भयम्, यत्र
जनस्तिष्ठति ततो भीताः मृगाः पलायन्तेऽतस्तत्र स जनो दुर्योधनो न वेति ज्ञानार्थं
स प्रदेशोऽन्वेषणीय इति भावः । एवमग्रेऽपि । वयसाम् = पक्षिणाम्, विरावः = शब्दः,
नृपाङ्कपादप्रतिमा = नृपस्य अङ्कश्चिह्नं चक्रादयः यस्मिन् स नृपाङ्कः स चासौ पादः
नृपाङ्कपादः तस्य या प्रतिमा प्रतिकृतिः, च ( यत्र तिष्ठेत्ते प्रदेशा विचेयाः ) । उप-
जातिश्छन्दः ॥ ३ ॥
वनप्रदेशादागतं पाञ्चालकं दृष्ट्वा तदागमननिवेदनायाह—देव पाञ्चालकः प्राप्त
इति । देव = राजन्, पाञ्चालकः = तन्नामकदूतविशेषः । अथवा पाञ्चालदेशोत्पन्न कश्चित् ।
त्वरितम् = शीघ्रम्, प्रवेशय, पाञ्चालकमिति शेषः ।
उपसर्पतु = समीपम्, चलतु ।
प्रियम् = मनोरभिलषितम्, आवेदयामि - कथयामि, देव्यै = द्रौपद्यै ।
कच्चिदिति — कच्चिच्छब्दः कामप्रवेदने प्रयुज्यते, कामप्रवेदनम् इष्टप्रश्नः । तस्य
सोये हुए रोगपीडित तथा मदिरापान से उन्मत्त प्राणियों के विषय में अच्छी तरह समझ
लेना । हरिणादिकों के भयभीत होने तथा पक्षियों के कोलाहल से भी अनुमान करना और
जहाँ मत्स्यादिक राजचिह्न पदाङ्क में हों वहाँ भी अन्वेषण कर लेना ॥ ३ ॥
पुरुष—महाराज की आज्ञा शिरोधार्य है ( चला जाता है। पुनः प्रवेश करके प्रसन्नता
के साथ ) महाराज ! पाञ्चालक आ गया ।
युधिष्ठिर—शीघ्र ही उसे लाओ ।
पुरुष—( निकलकर पाञ्चालक के साथ प्रवेश करके ) वह महाराज हैं । पाञ्चालक !
समीप चलिए ।
पाञ्चालक—जय हो महाराज की । महाराज तथा महारानी को सुखसंवाद सुनाने
आया हूँ ।
युधिष्ठिर—सौम्य पाञ्चालक ! कहो क्या उस दुरात्मा कौरवनीच का कहीं पता चला ?

२४८ वेणीसंहारं नाटकं पाञ्चालकः—न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षण- महापातकप्रधानहेतुरुपलब्धः । युधिष्ठिरः—साधु भद्र, प्रियमावेदितम् । अथ दर्शनगोचरं गतः ? पाञ्चालकः—देव, समरगोचरं पृच्छ । द्रौपदी—( सभयम् । ) कहं समरगोअरो वट्टइ मे णाहो ? ( कथं समर- गोचरो वर्तते मे नाथः ? युधिष्ठिरः— ( साशङ्कम् । ) सत्यं समरगोचरो मे वत्सः— पाञ्चालकः—सत्यम् । किमन्यथा वक्ष्यते महाराजाय । दुरात्मनः=दुष्ट आत्मा अन्तःकरणावच्छिन्नं चैतन्यं यस्य तस्य, पदवी = स्थानम्, आसादिता=प्राप्ता । देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुः=देव्याः द्रौपद्याः यत्केशाम्बराकर्षणं कचवस्त्राकर्षः तदेव महापातकम् महापापं तस्य प्रधानहेतुः । एतस्यैवाज्ञया दुःशासनेन केशवस्त्राकर्षणमकारितीत्ययमेव प्रधानहेतुरिति भावः । उपलब्धः = प्राप्तः । प्रियम् = इष्टम्, आवेदितम् = कथितम् । यदि स न मिलेत्तदा 'दुर्योधनस्य द्वौ जघनं त्रोटयिष्यामी'ति पञ्चमाङ्कपञ्चविंशच्छलोकोक्तप्रतिज्ञापूर्त्यभावे भीमस्य स्वयं प्राणत्यागेन तद्दुःखासह्नादस्माकमपि मृत्युः स्यात्, तच्च नाभूदित्युच्यते प्रियमावेदि- तमिति । दर्शनगोचरम् = दृष्टिविषयम्, गतः = प्राप्तः, दृष्ट इत्यर्थः । समरगोचरम् = सङ्ग्रामविषयम् संग्रामनिहपितविद्यता च याचितमण्डन- न्यायेन । पाञ्चालक—महाराज, उनके पद का चिह्न ही केवल नहीं प्राप्त हुआ है किन्तु महारानी के केशपाश के स्पर्श से जनित पाप का जो प्रधान कारण है वही प्राप्त हो गया । युधिष्ठिर—( प्रसन्नता के साथ पाञ्चालक को हृदय से लगाकर ) साधु सौम्य ! साधु । आपने सुखसंवाद सुनाया है । क्या नेत्र के सामने दिखाई पड़ा ! पाञ्चालक—महाराज, युद्धगोचर पूछिये [ नेत्रगोचर क्या पूछते हैं ! ] द्रौपदी—( भय के साथ ) क्या मेरे स्वामी युद्ध कर रहे हैं । युधिष्ठिर—( सशङ्क भावसे ) सत्य ही क्या मेरा प्रिय अनुज युद्ध कर रहा है ? पाञ्चालक—सत्य ही है । क्या महाराज से असत्य भाषण कहूँगा ?

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४६ युधिष्ठिरः — त्रस्तं विनाऽपि विषयादुरुविक्रमस्य चेतो विवेकपरिमन्थरतां प्रयाति । जानामि चोद्यतगदस्य वृकोदरस्य सारं रणेषु भुजयोः परिशङ्कितञ्च ॥ ४ ॥ ( द्रौपदीमवलोक्य । ) अयि सुक्षत्रिये, गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः पुराऽभूदस्माकं नृपसदसि योऽयं परिभवः । अन्वयः — विषयाद् विनाऽपि, त्रस्तम्, मे, चेतः, विवेकपरिमन्थरताम्, प्रयाति, उरुविक्रमस्य, उद्यतगदस्य, च, वृकोदरस्य, सारम्, रणेषु, जानामि, ( तथापि ) परिशङ्कितं, च, ( अस्मि ) ॥ ४ ॥ प्रियत्वादेव भीमस्य विजयः स्यान्न वेत्याशङ्कते चेतो विजयस्तु स्यादेवेत्याह— त्रस्तं विनाऽपीति । विषयात् = त्रासहेतोः, विनाऽपि = अन्तरेणापि, त्रस्तम्=उद्विग्नम्, मे चेतः, विवेकपरिमन्थरताम् = भीमविजयनिर्णये मान्द्यम्, प्रयाति = प्राप्नोति, उद्दि- ग्नस्यावधारणकरणेऽसामर्थ्यादिति भावः । उद्वेगश्च स्वजनत्वात् । उरुविक्रमस्य = बहुपराक्रमिणः, उद्यतगदस्य-उद्यता उत्थापिता गदा येन सः तस्य च, वृकोदरस्य, रणेषु = सङ्ग्रामेषु, सारम्=बलम्, 'सारो बले स्थिरांशे चे'त्यमरः । जानामि तथापि परिशङ्कितः = शङ्काव्याप्तः, भीमस्य विजयः स्यान्न वेति । च अहमिति शेषः । बल- ज्ञाने न मया शङ्कनीयो भीमविजये इति भावः । क्वचित्, रणेष्वित्यत्र भुजयोरिति पाठः । भुजयोः = बाह्वोः, सारं जानामि तथापि परिशङ्कित इति विरुद्धमिदम् । अत्र शङ्काऽभावकारणस्य सारज्ञानस्य सत्त्वेऽपि शङ्कवत्त्वाद् विशेषोक्तिरलंकारः । वसन्ततिलका छन्दः ॥ ४ ॥ अन्वयः — ( हे ) प्रिये, गुरूणाम्, बन्धूनाम्, क्षितिपतिसहस्रस्य, च, पुरः, नृप- सदसि, अस्माकम्, यः, अयम्, परिभवः, पुरा, अभूत्, तस्य, द्वितयम्, अपि, प्रायः, पारम्, गमयति, अद्य, नः, प्राणानाम्, क्षयः, वा, कुरुपतिपशोः, निधनम् ॥ ५ ॥ गुरूणामिति । (हे) प्रिये = द्रौपदि, गुरूणाम् = द्रोणभीष्मादीनाम्, बन्धूनाम् = युधिष्ठिर—पराक्रमी पुरुष का मन बिना किसी कारण के ही भयभीत होकर विचार करने में शिथिल पड़ गया है । गदा उठाकर तय्यार भीमसेन के भुजबल को युद्ध में मैं अच्छी तरह जानता हूँ तो भी मन अनेक प्रकार के संकल्पविकल्प में गोता लगा रहा है ॥ ४ ॥ (द्रौपदी को देखकर ) अयि क्षत्रियप्रवरे ? पूज्यप्रवरों, कुटुम्बियों तथा सहस्रों भूमि- पालों के समक्ष राजसभा में पहिले जो यह हम लोगों का अपमान हुआ है इसके पार दो ही

२५० · वेणीसंहारं नाटकं प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति क्षय प्राणानां नः कुरुपतिपशोर्वाऽद्य निधनम् ॥ ५ ॥ अथवा कृतं सन्देहेन । नूनं तेनाऽद्य वीरेण प्रतिज्ञाभङ्गभीरुणा । बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ ६ ॥ बान्धवानाम्, क्षितिपतिसहस्रस्य = सहस्रसंख्याकपृथ्वीपतीनाम्, पुरः = अग्रे, एतेन श्रेष्ठजनादीनामग्रे परिभवोऽतीवदुःखजनक इति सूचितम् । नृपसदसि = राजसभायाम्, न तु साधारणस्थान इत्यर्थः । अस्माकम्, ननु एकस्य यः, अयम् = सर्वजनवेद्यः, परिभवः == स्त्रीकेशवस्त्राकर्षणरूपोऽनादरः, पुरा = प्राक् द्यूते पराजयोत्तरकाले, अभूत् । तस्य द्वितयम् = उभयम्, अपि, अपिरत्र एवार्थे । द्वितयमेवेत्यर्थः । प्रायः = बाहुल्येन, पारम् = अन्तम्, प्रतिक्रियामिति यावत् । गमयति = प्रापयिष्यति, किमाकारमुभय- मित्याह - क्षयः प्राणानामिति । अद्य, नः = अस्माकम्, प्राणानाम्, क्षयः == विनाशः । अस्माकं मरणमित्यर्थः । वा = अथवा, कुरुपतिपशोः = कुरुपतिः दुर्योधनः पशुरिव तस्य, निधनम् = विनाशः, मरणमित्यर्थः । अद्य भीमेन दुर्योधनस्य विनाशः स्यादथवा भीमो द्वितीयप्रतिज्ञापूर्त्यर्थं स्वयमेव मरिष्यति तया च तदभावे वयमपि प्राणान् त्यक्ष्याम इति भाव । क्षयः प्राणानां न इत्युत्तरं कुरुपतिनिधनस्य कथनात्तस्यैव मरणं स्यान्नचास्माकमिति ध्वनितम् । अत्र भूतपूर्वस्य परिभवस्य अयमिति प्रत्यक्ष- विषयबोधकशब्देन निर्देशात्भाविकमलंकारः । शिखरिणी छन्दः । ५ ॥ यत्कुरुपतिमरणं ध्वनितं तदेव शब्देनाह — अथवा कृतमिति । अन्वयः — प्रतिज्ञाभङ्गभीरुणा, तेन, अद्य, ते, केशपाशः, अस्य, आकर्षणक्षमः, स च, नूनम्, बध्यते ॥ ६ ॥ नूनमिति । प्रतिज्ञाभङ्गभीरुणा = तव केशपाशस्याऽऽबन्धने दुर्योधनस्यवधे च तस्य प्रतिज्ञाभङ्गः स्यादतस्तस्माद्भीरुः तेन, वीरेण, ते = तव, केशपाशः = कचकलापः, अस्य = केशपाशस्य, आकर्षणक्षमः = आकर्षणे प्रभुः, कारणमित्यर्थः । स = दुर्योधनः, च, अद्य, नूनम् = निश्चयम् इदं - क्रियाविशेषणम् । बध्यते = संयम्यते, अव च हन्यते । बध्यत इति बन्धनार्थकबन्धधातोः, हिंसार्थकवधधातोश्च निष्पाद्य तन्त्रेण बातें हमलोगों को पहुँचा सकती है—हम लोगों के प्राणों का अवसान या पशुतुल्य [ जड- मति ] कौरवनरेश [ सुयोधन ] का आज ही मरण ॥ ५ ॥ अथवा शङ्का का अवसर ही क्या ? आज निश्चय है कि प्रतिज्ञा के खण्डित होने के भय से वह वीर [ भीमसेन ] तुम्हारे इस केशकलाप को और उसके आकृष्ट करने में समर्थ [ दुर्योधन ] को भी बाँधेगा ॥ ६ ॥

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५१ पाञ्चालक, कथय कथय, कथमुपलब्धः स दुरात्मा कस्मिन्नुद्देशे किं वाऽधुना प्रवृत्तमिति । द्रौपदी-भद्द, कहेहि । कहेहि । ( भद्र कथय, कथय । ) पाञ्चालकः- शृणोतु देवो देवि च । अस्तीह देवेन हते मद्राधिपतौ शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलप्रविष्टे सेनापतिनिधननिरा- क्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवलिगतविचित्र- पराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु निर्देशः । तव केशबन्धनं दुर्योधनवधश्च स्यादिति भावः । अत्र द्वयोः प्रस्तुतयोर्वध्यत इति क्रियायामन्वयात् तुल्ययोगिताऽलङ्कारः तथा हेतोः पदार्थगतत्वेन काव्यलिङ्गञ्च । अनुष्टुप् छन्दः । उपलब्धः प्राप्तः, उद्देशे=स्थाने, प्रवृत्तम्=आरब्धम्, इति इदं कथयेत्यस्य कर्म । देवः = युधिष्ठिरः, देवी = द्रौपदी, च शृणोत्वित्यस्य प्रत्येकमन्वयः । किं शृणोतु इत्याह = अस्तीहेति । इह = भवदुक्तप्रश्नविषये, अस्ति, इदमिति शेषः । तस्यार्थः- वक्ष्यमाणं वाक्यम् । मद्राधिपतौ = मद्रदेशराजे, शल्ये हते, ( सति ) गान्धारराज- कुलशलभे=गान्धारदेशस्य यो राजा तस्य यत्कुलं तदेव शलभः पतङ्गः अग्निमभि- मुखीकृत्य पतनेच्छुः जन्तुविशेषः तस्मिन् । सहदेवशस्त्रानलप्रविष्टे = सहदेवस्य शस्त्रम् अनलः अग्निः तत्र प्रविष्टे ( सति ) दुर्योधनमातुलशकुनौ सहदेवेन हते सतीत्यर्थः । सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु = सेनापतेः शल्यस्य निधनेन मरणेन ये निराक्रन्दविरलयोधाः निस्तब्धस्वल्पभटाः तैः उज्झितासु त्यक्तासु, समरभूमिषु = सङ्ग्रामस्थानेषु, रिपुबलपराजयोद्धतदलितविचित्रपराक्रमा- सादितविमुखारातिचक्रासु = रिपुबलपराजयेन उद्धतम् अयथायोग्यम् तद् वलिगतम् गतिविशेषः तच्च, विचित्रपराक्रमश्च, ताभ्याम् आसादितम् आक्रान्तम् विमुखाराति- चक्रम् पराङ्मुखशत्रुसमूहः याभिः (कर्त्रीभिः) तासु, युष्मत्सेनासु इत्य- न्वयः । धृष्टद्युम्नाधिष्ठितासु = द्रुपदपुत्राधिकृतासु, युष्मत्सेनासु, कृपकृतवर्मा- श्वत्थामसु, प्रनष्टेषु = अदर्शनं गतेषु, पलायितेष्विति यावत् । कुमारवृकोदरस्य, पाञ्चालक ? कहो कहो किस प्रकार और किस स्थान पर वह पापमति [ दुर्योधन ] पाया गया और अब क्या कर रहा है ! द्रौपदी-सौम्य ! कहिए, कहिए । पाञ्चालक-सुनिये महाराज और महारानी ? आपके द्वारा मद्रनरेश शल्य के वध हो जाने पर, गान्धार के राजकुल में फतिङ्गे के समान शकुनि के सहदेव के शस्त्ररूपी अग्नि में

२५२ वेणीसंहारं नाटकं अनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः । युधिष्ठिरः-ततस्ततः । द्रौपदी-अयि, परदो कहेहि । ( अयि, परतः कथय । ) पाञ्चालकः-अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधि- ष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमा- रब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निःश्वसति कुमारे वीभत्सौ जलधरसमयनिशासञ्चारित- तथा दारुणाम् = अद्य दुर्योधनवधाभावे निजवधरूपाम्, प्रतिज्ञाम्, उपलभ्य = ज्ञात्वा सः, दुरात्मा = दुष्टान्तःकरणः, कौरवाधमः = कुरुकुलेषु नीचः, क्वापि = कस्मिंश्चि- त्स्थाने, प्रलीनः = प्रछन्नः ( इति ) न, ज्ञायते इत्यन्वयः । परतः = अग्रे । अवधत्ताम् = अवधानं दत्ताम्, सावधानतया शृणोत्वित्यर्थः, देवीदेवौ शृणुता- मित्यर्थः । वासुदेवेन=कृष्णेन, अधिष्ठितम् = अध्यासितम्, एकरथम्, आरूढौ = व्याप्तौ समन्तात् = सम्यक्, समन्तपञ्चकम् = देशविशेषम्, पर्यटितुम् = भ्रमितुम् ,आरब्धौ, तम् = दुर्योधनम्, अनासादितवन्तौ = अप्राप्तवन्तौ, च पर्यटनेनापि न प्राप्तावित्यर्थः । अनन्तरम् = दुर्योधनाप्राप्त्युत्तरकाले, मादृशे = कार्यसमर्थे भृत्यवर्गे = अनुचरस- मुदाये दैवं = भाग्यम्, अनुशोचति = चिन्तयति, शतृप्रत्ययान्तोऽयम् । एवमग्रेऽपि । सति, कुमारे वीभत्सौ=राजपुत्रार्जुने, दीर्घम्, उष्णम् च, यथा स्यात्तथा, निःश्वसति= श्वासं गृह्णति, श्वासप्रश्वासौ कुर्वति सतीत्यर्थः । वृकोदरे = भीमे, जलधरसमयनिशा- संचारिततडित्प्रकरपिङ्गलैः = जलधरसमयस्य वर्षाकालस्य या निशा रात्रिः तस्यां प्रवेश करके जल जाने पर, सेनापतियों के मारे जाने पर तथा बचे हुए योद्धाओं के धीरे [चुके] मे समर भूमि का परित्याग कर देने पर जब शत्रुसैन्य के पराजित होने से उद्धत चेष्टा तथा प्रशंसनीय पराक्रम के साथ युद्धपराङ्मुख शत्रुसमूहों को बगल में आपकी सेना के वीर पकड़ रहे थे तथा कृप, कृतवर्मा और अश्वत्थामा कहीं इधर उधर छिपे हुए थे, उस समय दुष्ट तथा कौरवनीच दुर्योधन कुमार भीमसेन की भीषण प्रतिज्ञा को, जो आज ही पूर्ण होने को है सुनकर नहीं जाना गया कि कहाँ गुप्त रूप से छिपा हुआ है ? युधिष्ठिर-तो फिर क्या हुआ ? द्रौपदी-अयि ! आगे कहो । पाञ्चालक-ध्यान दीजिए महाराज और महारानी ! इसके अन्तर भगवान् वासुदेव

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५३ तडित्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किञ्चनकारितामधिक्सि- पति विधैर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांस- भारःप्रत्यग्रविशसितमृगलोहितलोहितचरणनिवसनस्त्वरमाणोऽन्तिकमुपेत्य पुरुषः परुषश्वासग्रस्तार्द्धश्रुतवर्णानुमेयपदया वाचा कथितवान्-'देव कुमार, याः सञ्चारिताः ताडिताः तासां प्रकरः विद्युत्समुदाय इत्यर्थः । तद्वत्पिङ्गलैः कपिशैः 'कडारः कपिशः पिङ्कपिङ्गो कद्रु पिङ्गलो' इत्यमरः । कटाक्षैः=अपाङ्गदर्शनैः गदाम्, आदीपयति = ज्वलयति, गदामधिककान्तिमतो कुर्वति सतीत्यर्थः । विधेः = दैवस्य, यत्किञ्चनकारिता = यत्किञ्चन 、 अन्यदेव तत्कर्तुं शीलमस्य स यत्किञ्चनकारी अकार्यविधायकः तस्य भावः ताम्, असम्भाव्यकारितामित्यर्थः । अधिक्षिपति= निन्दति सति । कुमारस्य, मारुतेः = मरुतस्यापत्यं मारुतिः तस्य भीमस्य अत इञ्, स्त्रीषु प्रत्ययः । मरुतशब्दोऽदन्तोऽप्यस्ति 'मरुतः स्पर्शनः प्राणः समीरो मरुद्, इति विक्रमादित्यकोशात् । संविदितः = परिचितः, अथवा संविदितं वृत्तान्त- ज्ञानम्, भावे क्तः तदस्ति अस्येति । 'अर्श आदिभ्य इत्यच्', विदितवृत्तान्त इत्यर्थः । अस्मिन्पक्षे मारुतेरित्यस्याग्रिमेणान्तिकमित्येनेनान्वयः । उज्झितमांसभारः=उज्झितः त्यक्तः मांसभारः येन सः, भूमौ स्थापितमांसभार इत्यर्थः । प्रत्यग्रविशसितमृग- लोहितलोहितचरणनिवसनः = प्रत्यग्रं नूतनं विशसितः मारितो यो मृगः तस्य यल्लोहितं रक्तम् रुधिरमित्यर्थः तेन लोहितौ रक्तौ चरणनिवसनौ पादवस्त्रे यस्य सः 'लोहितो मङ्गले नदे । वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने । 'गोशीर्षे रुधिरे युद्धे' इति हेमः । त्वरमाणः = त्वरयाऽऽगच्छन्, कश्चित्, पुरुष. व्याध इत्यर्थः । अन्तिकम् = समीपम्, उपेत्य=आगत्य, परुषश्वासग्रस्तार्द्धश्रुतवर्णानुमेयपदया = परुषो रूक्षो यः श्वासः तेन ग्रस्ताः व्याप्ता अतएव अर्द्धश्रुता अस्पष्टमाकर्णिता ये वर्णा अक्षराणि तैरनुमेयानि ज्ञातव्यानि पदानि यस्यां तया, वाचा=वाण्या, कथितवान् । कि के सारथ्यि में एक ही रथ पर बैठे हुए कुमार भीमसेन और अर्जुन दोनों समन्तपञ्चक के चारों ओर भ्रमण करने लगे और उसे ( दुर्योधनको ) प्राप्त भी न किए । इसके अनन्तर जब हमारे जैसे दासों का समूह भाग्य को धिक्कार रहा था, कुमार अर्जुन लम्बी और गरम- गरम सांस ले रहे थे, वर्षाकाल की रात्रि में चमकने वाली विजलियों के समूह की भाँति पीले वर्ण के कटाक्षों से कुमार भीमसेन अपनी गदा को प्रकाशित कर रहे थे, और भगवान् नारायण (श्रीकृष्ण) भाग्य की स्वेच्छाचारिता की निन्दा कर रहे थे इसी बीच में भीमसेन का परिचित कोई व्याध, जिसका पैर और वस्त्र तुरन्त के निहत किए गये हरिनों के रक्त से रञ्जित हो रहा था, अपने शिर के मांसभार को उतार कर, अत्यन्त शीघ्रता में समीप आकर रूक्ष श्वासवेग से लुप्त अत एव आधे ही वर्ण के श्रवण से सम्पूर्ण पद का

२५४ वेणीसंहारं नाटकं अस्मिन्महतोऽस्य सरसस्तोरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे । तयोरेका- स्थलमुत्तीर्णा न द्वितीया । 'परत्र कुमार प्रमाणम्' इति । ततः ससम्भ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य गत्वा च सरस्तीरं परिज्ञायमानसुयो- धनपदलाञ्छना पदवीमासाद्य भगवता वासुदेवेनोक्तम्-'भो वीर वृकोदर, जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्नूनं तेन त्वद्भयात्स- रसीमेनामधिशायितेन भवितव्यम् ।' एतच्च वचनमुपश्रुत्य बलानुजस्य कथितवानित्याह-देवकुमार इति । महतः अस्य, सरसः = सरस्याः, अस्मिन्, तीरे = तटे द्वे, पदपद्धती = एकपद्यौ, समवतीर्णपदप्रतिबिम्बे = समवतीर्णः स्थितः पदप्रतिबिम्बः चरणप्रतिकृतिः ययोः ते वर्तेत इति शेषः । स्थलम् = जलादुपरिभूमिम्, उत्तीर्णा = प्रत्यागता, न, द्वितीया, द्वौ पुरुषौ जलं प्रति गतौ तयोरेकः पुनः समागतो द्वितीयो नेति विज्ञायते दुर्योधनो जले वर्तत इति भावः जलमुत्तीर्णा, इति पाठे एको जले प्रविवेश द्वितीयो नेति भावः परत्र = अग्रे, यत्र दुर्योधनो वर्तते न वेति- विषय इत्यर्थः । कुमारः = भवान् भीमः, एव, प्रमाणम् = प्रमात्मकज्ञानजनकम् । दुर्योधनस्थितिविषयनिश्चयो भवद्भिरवे कर्तुं शक्यत इति भावः । इति, एतत्पर्यन्तं कथितवानित्यस्य कर्म । ततः = व्याघवचनश्रवणानन्तरम्, ससंभ्रमम् = सोद्वेगम्, वयम्, सर्वे, प्रस्थिताः, तम् = व्याधम्, एव, पुरस्कृत्य = अग्रे कृत्वा, अस्य, प्रस्थिता इत्यनेनान्वयः । परि- ज्ञायमानसुयोधनपदलाञ्छिनाम् = सुयोधनपदस्य लांछितम् लांछनं भावे क्तप्रत्ययः चक्रपद्मादिचिह्नम् तत्परिज्ञायमानं यस्याम् ताम्, चक्रपद्मादिचिह्नयुक्तपदचिह्निता- मित्यर्थः । पदवीम् = मार्गम्, आसाद्य = प्राप्य । वासुदेवेन = कृष्णेन, उक्तम् । किमुक्तमित्याह = भो वृकोदरेति । सलिलस्तम्भनीम् = सलिलं स्तंभ्यतेऽनयेति सलि- लस्तम्भनी ताम् । करणे ल्युट् ततः टिड्ढाणञ्त्रि'नि ङीप् । एनाम्, सरसीम्, अधि- शायितेन = सुप्तेन, अधिशीङ्स्थासां कर्मेति सरसीत्यस्य कर्मसंज्ञाऽतो द्वितीया । बलानुजस्य = बलस्य बलभद्रस्य अनुजः कृष्णः तस्य, एतच्च, वचनम्, उपश्रुत्य = अनुमान कर लेने योग्य वाणी में कहा 'इस समीपस्थ विशाल सरोवर के तट पर युग्म मनुष्यों के चरणों के उतरने के चिह्न दृष्टिगोचर हो रहे हैं । उनमें से एक पदपद्धति स्थल की ओर आई है परन्तु दूसरी नहीं । इसके आगे कुमार ही समझ लें इसे सुनकर बड़ी आतुरता से हम सब लोग उसे आगे करके चल दिये वहाँ जाकर 'झील' (तालाब) के तट पर, अङ्कित पदचिह्न को, जिसमें सुयोधन के पद के चिह्न स्पष्ट रूप से दृष्टिगोचर हो रहे थे, देखकर भगवान् वासुदेव ने कहा, 'वृकोदर ! जलस्तम्भनी विद्या को सुयोधन जानता है अतः उसने तुम्हारे भय से अवश्य इस तालाब का आश्रय लिया होगा'

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५५ सकलदिक्प्रपूरितातिरिक्तमुद्भ्रान्तसलिलचारिचक्रं त्रासोद्धतनक्रमा- लोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम्—अरे रे वृथाप्रख्यापितालीकपौरुषाभिमानिन्, पाञ्चालराजतनयाकेशाम्बरा- कर्षणमहापाकिन्, जन्मेन्दोर्विमले कुले व्यपदिशस्यद्यापि धत्से गदां आकर्ण्य, इत्यन्वयः। सकलदिक्प्रपूरितेत्यादिविशेषणानि सरःसलिले गर्जने च प्रत्येक- मनुयान्ति तथाहि- सरःसलिलपक्षे—सकलदिक्प्रपूरितातिरिक्तम् = सकलानां दिशां यत्प्रपूरितं प्रभरणं तस्माद् अतिरिक्तम् समधिकम्, एतावन्ति तत्र जलानि सन्ति येषां निखिलदिशां भरणेनापि निःशेषो न स्यात्. एतेनातिगाम्भीर्यं द्योतितम्। गर्जन- पक्षे-सकला दिशः प्रपूरिता येन तत् सकलदिक्प्रपूरितं तस्मादतिरिक्तम् अवशिष्टम्, उद्भ्रान्तसकलसलिलचारिचक्रम् = सलिले चरन्तीति सलिलचारिणः मकरादयः तेषां सकलानां चक्रम् समूहः तद् उद्भ्रान्तम् उद्विग्नं यस्मिन्, गर्जनपक्षे येन तत्। 'उद्वेग उद्भ्रमे' इत्यमरः। त्रासोद्धतनक्रमू=त्रासेन भयेनोद्धतः इतस्ततः सञ्चरणशीलः नक्रो यस्मिन्, गर्जनपक्षे यस्मात् तत्, सरःसलिलम् = सरोवरजलम् आलोडितम् = सम्प्रविखण्डितम्, कुमारवृकोदरेण भैरवम् = भीषणम्, गर्जित्वा = सन्तर्ज्य, अभि- हितम् = उक्तं च। वृथाप्रख्यापितालीकपौरुषाभिमानिन् = वृथा व्यर्थं प्रख्यापितं प्रवेदितम् अलीकम् अनृतम् पौरुषं पराक्रमम् अभिमन्यते तत्सम्बोधने। अन्वयः— विमले, इन्दोः, कुले, जन्म, व्यपदिशसि, अद्यापि, गदाम्, धत्से, माम्, दुश्शासनकण्ठशोणितसुराक्षीवम्, रिपुम्, भाषसे, मधुकैटभद्विषि, हरौ, अपि, दर्पान्धः, उद्धतम्, चेष्टसे, ( हे ) नृपशो, अधुना, मन्त्रासात् पङ्के लीयसे ॥ ७ ॥ उत्तमवंशजस्य समरत्यागादिरूपनिन्दितकर्मयुक्तमित्याह—जन्मेन्दोरिति। विमले = दोषरहिते, इन्दोः = चन्द्रस्य, कुले = वंशे, जन्म उत्पत्तिम्, व्यपदि- शसि = कथयसि, चन्द्रवंशियोऽहमिति कथयसि, युद्धभयान्निलीनश्च भवसीत्ययुक्त- बलराम के भ्राता श्रीकृष्ण के इस वाक्य को सुनकर भीमसेन ने उस कासार के जल को आलोडित कर दिया जिससे उसका जल चारों दिशाओं को पूर्ण करके आगे बह चला। सम्पूर्ण जलचर पक्षी विकल हो गये। मगर-घड़ियाल व्यग्र हो उठे। पुनः भीमसेन ने भीषण गर्जन करते हुए कहा, 'अरे रे मिथ्या बल और पराक्रम का अहङ्कार करने वाले तथा द्रौपदी के केश और वस्त्र के आकर्षण करने के कारण महापातकी दुर्योधन ! अपना जन्म विमल चन्द्रवंश में कह रहे हो। अब भी तुम्हारे हाथ में गदा है। दुःशासन के ईषदूष्ण रक्त रूपी मदिरा से मत्त मुझे शत्रु कह रहे हो, अहङ्कार से

मां दुःशासनकोष्णशोणितसुराक्षीबं रिपुं भाषसे। दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे मत्त्रासान्नृपशो ! विहाय समरं पङ्केऽधुना लीयसे ॥ ७ ॥ अपि च। भो मानान्ध, पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य प्रोन्मुक्तैः केशपाशैर्हंतपतिषु मया कौरवान्तःपुरेषु । मिति भावः। तत्रापि त्वं गदासहाय इत्याह = धत्से गदामिति। अद्यापि = इदानी- मपि, गदाम् = शस्त्रविशेषम्, धत्से = धारयसि, अस्तु गदा, रिपोरभावात्कथं योध्- व्यमित्यत आह - मामिति । माम् = भीमम, दुःशासनकोष्णशोणितसुराक्षीबम् दुःशासनस्य यत्कोष्णं मन्दोष्णं शोणितं तदेव सुरा मद्यं तेन क्षीवं मत्तम्, रिपुम् = 'शत्रुम्, भाषसे = ब्रवीषि। शान्तोऽहं कथं योत्स्य इत्यत आह--दर्पान्ध इति। मधु- कैटभद्विषि = मधुकैटभासुरशत्रौ, हरौ = कृष्णे, अपि, दर्पान्धः = उन्मत्तः सन्, उद्ध- तम् = उच्छृङ्खलं यथा स्यात्तदेवम्, चेष्टसे = व्यापारं करोषि, यः खल्वेतादृशलवति कृष्णेऽप्युद्धतः स कथं युद्धाद्विरतो भवेदिति भावः । हे नृपशो = नरेषु पशुतुल्यः । अधुना, मत्त्रासात् = मत्तो भयात्, समरम् विहाय = त्यक्त्वा, पङ्के = कर्दम, लीयसे - प्रच्छन्नो भवसि। अत्र तर्जनोद्वेजनाभ्यां द्युतिर्नाम सन्ध्यङ्गं तदुक्तं दर्पणे । 'तर्जनोद्वेजने प्रोक्ता द्युतिरिति ।' अत्रेन्दुकुलजन्मरूपोत्तमस्य पङ्कनिलयनरूपा- धर्मस्य च संघटनाद्वादिपमालङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ ७ ॥ अन्वयः - मया, प्रसह्य, हतपतिषु, कौरवान्तःपुरेषु, (नत्सु) [ अत एव ] प्रोन्मुक्तैः, केशपाशैः, पाञ्चाल्याः, क्रोधवह्निः, उपशमितप्रायः, एव, त्वया, भ्रातुः, दुःशासनस्य, उरसः, नवम्, असृक्, (मया) पीयमानम्, निरीक्ष्य, क्रोधात्, भीम- सेने, किम्, विहितम्, यत्, असमये, त्वया, अभिमानः, क्षतः ॥ ८ ॥ कौरवहननान्मम क्रोधस्तु शान्तः, अहङ्कारिणस्तव क्रोधः कथमसमये शान्त इत्याह - पाञ्चाल्या इति । मया = भीमेन प्रसह्य = हठात् हतपतिषु = हताः पतयो येषां तेषु, कौरवान्तःपुरेषु = कौरवाणाम् अन्तःपुराणि भूभुजां स्त्र्यगाराणि तेषु धृतराष्ट्र- पुत्रवधुषु वैधव्यं प्राप्तासु सतीष्वित्यर्थः । अत एव प्रोन्मुक्तैः = अवद्धैः, केशपाशैः = कच- अन्धे मधु और कैटभ के शत्रु विष्णु के अवतार भगवान् वासुदेव के विषय में असभ्यता का व्यवहार करते हो । ऐ नराधम ! मुझ से भयभीत होकर तथा युद्ध से पराङ्मुख होकर अब कीचड़ में आकर छिपे हो ॥ ७ ॥ और भी, हे मानान्ध ! कौरवरमणियों के पतिदेवों का मेरे द्वारा विनाश हो जाने पर उनके केशकलापों के खोल देने के कारण कृष्णा की क्रोधाग्नि प्रायः ठंडी पड़ चुकी है। तुम्हारे

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २५७ भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य । क्रोधात्किं भीमसेने विहितमसमये यस्त्वयाऽस्तोऽभिमानः ॥ ८ ॥ द्रौपदी-णाह, अवणीदो मे मण्णू जइ पुणो वि सुलहं दंसणं भविस्सदि । ( नाथ, अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति । ) युधिष्ठिरः—कृष्णे, नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले । भद्र, तत- स्ततः । समूहेः मृतभर्तृकाणां केशबन्धनस्य निषिद्धत्वादिति भावः । पाञ्चाल्याः = द्रौपद्याः क्रोधवह्निः = अग्नितुल्यक्रोधः, उपशमितप्रायः = शान्ततुल्यः 'प्रायो बाहुल्यतुल्ययोः' इति विश्वः । प्रायः पदप्रयोगात्तव वध एव केवलमवशिष्ट इति सूचितम् । एवेति- एवेत्यवधारणे । त्वया = दुर्योधनेन, भ्रातुः, दुःशासनस्य, भ्रातुरित्यनेनावश्यं प्रत्यु- पकारः कर्तव्य इति सूचितम् । स्रवत् = गलत्, असृक् = रुधिरम्, मया, पीयमानम्, कर्मणि पा धातोः शानच् । निरीक्ष्य = दृष्ट्वा, क्रोधात् = कोपाद्, भीमसेने=मयि, किम्, विहितम्=सम्पादितम् किं प्रत्यपकृतमित्यर्थः । न किमपीति भावः । यत् = यस्माद्धेतोः, असमये = अकाले अभिमानप्रदर्शनकाल इत्यर्थः । त्वया, अभिमानः = अहङ्कारः, अभिपूर्वकमनधातोर्घञ्प्रत्ययः । अस्तः = विनाशितः, असु क्षेपणे, तस्मात् क्तप्रत्ययः 'अस्य विभाषे'ति नेट् । युद्धकरणसमये कथं पलायित इति भावः । अत्र क्रोधवह्निरित्यत्र लुप्तोपमाऽलङ्कारः । स्रग्धरा छन्दः ॥ ८ ॥ अपनीतः = दूरीकृतः, मन्युः = कोपः, यदि = चेत्, सुलभम् = सुखेन प्राप्यम्, एतेनावश्यमेव ते विजयः स्यादिति सूचितम् । यदि शब्दप्रयोगात्सन्दिग्धां द्रौपदीं मत्वाऽह-कृष्ण इति । कृष्णे = द्रौपदि, अमङ्गलानि = अशुभसंभावनाप्रतिपादकशब्दान्, व्याहर्तुम् = भाषितुम् न, अर्हसि= योग्याऽसि । भाई दुःशासन के वक्षःस्थल से क्षरण करते हुए रक्त का पान करना देखकर तुमने क्रोध से भीमसेन का क्या [ अनिष्ट ] किया ? और समय के पहिले ही तुमने अभिमान को चले जाने दिया है' ॥ ८ ॥ द्रौपदी-नाथ ! मेरा क्रोध शान्त हो गया परन्तु बिना किसी प्रयास के फिर भी दर्शन प्राप्त हो । युधिष्ठिर-पाञ्चालि ! इस समय अमङ्गल वाणी मुख से न निकालिए ! सौम्य [ पाञ्चालक ], फिर क्या हुआ ? १७ वे०

२५८ वेणीसंहारं नाटकं पाञ्चालकः — नतश्चैवं भाषमाणेन वृकोदरेणावतीर्य वीर्यक्रोधोद्धतभ्रमि- तभीषणगदापाणिना सहसैवोलङ्घिततीरमुत्सन्ननलिनमाविद्धमूर्च्छितग्राह- मुद्भ्रान्तसमस्तशकुन्तमतिभैरवरवभ्रमितवारिचयमायतमपि तत्सरः समन्तादालोडितम् । युधिष्ठिरः — भद्र, तथाऽपि किं नोत्थितः ? पाञ्चालकः — देव, एवम् = अरे रे धृष्टेत्यादि, भाषमाणेन = ब्रुवता, वृकोदरेण = भीमेन, अवतीर्य= सरसि प्रविश्य वीर्यक्रोधोद्धतभ्रमितभीषणगदापाणिना = वीर्यक्रोधाभ्याम् उद्धता उच्छृङ्खलीकृता अत एव भ्रमिता भीषणा दारुणा गदा पाणौ येन तेन 'भीषणं रसे शल्लक्यां ना गाढे दारुणे त्रिषु' इति विश्वः । सहसैव = झटित्येव । उल्लङ्घिततीर- मित्यादि, सरसि, आलोडनक्रियायां चान्वेति । उल्लङ्घिततीरम् = उल्लङ्घितम् अति- क्रान्तं तीरं येन तत्, उत्सन्ननलिनम् = उत्सन्नं विनष्टं नलिनं कमलं यस्य, पक्षे उत्सन्नं विनाशितं नलिनं येन अन्तर्भावितण्यर्थः । अस्मिन्पक्षे उत्सन्नं विनष्टमित्यर्थस्तु न युक्तस्तथा सति धातोर्अकर्मकत्वप्रत्ययात्कर्मणि क्तप्रत्यय नुपपत्तेर्नेति तृतीयान्तमनुप- पन्नं स्यात् । आविद्धमूर्च्छितग्राहम् = आविद्धः सन्ताडितोऽत एव मूर्च्छितो ग्राहः यस्मिन् तत्, पक्षे मूर्च्छितश्चासौ ग्राह इति मूर्च्छितग्राहः स आविद्धो येन तत् उद्भ्रान्त- समस्तशकुन्तम् = उड्डीननिखिलखगम्, पक्षे उद्विग्ननिखिलखगम्, अतिभैरवम्= अतिभयानकम्, रवभ्रमितवारिचयम् = रवेन, भ्रमितोऽनवस्थितो वारिचयः जलसमूहो यत्र, पक्षे रवेन भ्रमितो चूर्णितो वारिचयो येन तत्, आयतम् = दीर्घम्, अपि, सरः, समन्तात्, आलोडितम् = मथितम् । किमिति—किं शब्दः प्रश्ने । उत्थितः, दुर्योधन इति शेषः । पाञ्चालक—महाराज इस प्रकार कहते हुए भीमसेन ने नीचे उतर कर क्रोध के कारण उच्छृङ्खलतापूर्वक मुद्गर की तरह गदा हाथ में लेकर अच्छी तरह घुमाकर उस लम्बे चौड़े महान् सरोवर को भी उन्मथित कर दिया जिससे वह [सरोवर] एकाएक तट से आगे बढ़ गया । कमलों का वन उखड़ कर नष्ट भ्रष्ट होने लगा । उसमें रहने वाले घड़ियाल प्रक्षिप्त होकर चेतनारहित हो गये । उनमें विचरने वाले पक्षी तथा मत्स्य व्याकुल हो गए । अत्यन्त भीषण शब्द से जलराशि भ्रमण करने लगी । युधिष्ठिर—सौम्य, तब भी वह क्या नहीं उठा ? पाञ्चालक—महाराज !

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २४९ त्यक्त्वोत्थितः सरभस सरसः स मूल- मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः । आयस्तभीमभुजमन्दरवेल्लनाभिः क्षीराम्बुधेः सुमथितादिव कालकूटः ॥ ९ ॥ युधिष्ठिरः - साधु सुक्षत्रिय, साधु । द्रौपदी - पडिवण्णो समरो ण वा । ( प्रतिपन्नः समरो न वा । ) पाञ्चालकः-उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणी- अन्वयः सरसः, मूलम्, सरभसम् त्यक्त्वा, उद्भूतकोपदहनोग्रविषस्फुलिङ्गः, सः, आयस्तभीमभुजमन्दरवेल्लनाभिः, सुमथितात्, क्षीराम्बुधेः, कालकूटः, इव उत्थितः ॥ ९ ॥ भीमस्योत्कटवचनेन क्रुद्धो भूत्वोत्थित इत्याह—त्यक्त्वोत्थित इति । सरसः = सरोवरस्य, मूलम् = अन्तस्तलम्, सरभसम् = सवेगम्, त्यक्त्वा = विहाय, उद्भूत- कोपदहनोग्रविषस्फुलिङ्गः = उद्भूतः आविर्भूतः कोप एव दहनः अग्निः स उद्भूत- कोपदहनः 'स एवोग्रविषम्, उत्कटगरलम् तस्य स्फुलिङ्गः, आयस्तभीमभुजमन्दर- वेल्लनाभिः-आयस्तभीमभुजौ दीर्घभीमसेनबाहू एव मन्दरः मन्दरपर्वतः तस्य वेल्लनाः सञ्चलनानि ताभिः' मथितात्, क्षीराम्बुधे = क्षीरसमुद्रात्, कालकूटः = महाविषम्, इव, उत्थितः = बहिर्निःसृतः । यथा समुद्रमथनात्कालकूटो निःसृतस्तथैव सरोवरम- थनाद् दुर्योधनो निःसृत इति भावः । अत्र रूपकमुपमा चालङ्कारौ । वसन्ततिलका छन्दः ॥ ९ ॥ समरः = सङ्ग्रामः, प्रतिपन्न = प्राप्त आरब्ध इत्यर्थः । तस्मात्, सलिलाशयात् = सलिलस्य आशयात् आश्रयात्, जलाशयादित्यर्थः । सरस इति यावत् । उत्थाय = निःसृत्य करयुगलोत्तम्भिततोरणीकृतभीमगदः = करयुगलेन हस्तद्वयेन उत्तम्भिता उत्तोलिता तोरणीकृता बहिर्द्वारसदृशसम्पादिता भीमा भयजनिका गदा येन सः, तोरणोऽस्त्री बहिर्द्वारमित्यमरः । कथयन्नित्थम् = वह दुर्योधन, जिससे क्रोधाग्नि के बढ़ जाने के कारण विष की चिनगारियाँ झर रही थीं, शीघ्र ही बड़ी तत्परता से विशाल भीम की भुजारूपी मन्दराचल के भ्रमण करने के कारण क्षीरसागर से निकले हुए कालकूट के समान बाहर निकल पड़ा ॥ ९ ॥ युधिष्ठिर - साधु क्षत्रियप्रवर ! साधु । द्रौपदी-युद्ध प्रारम्भ हुआ अथवा नहीं ? पाञ्चालक-वह उस जलाशय से उठकर दोनों हाथों से भीषण गदा उठाकर घुमाता हुआ कहने लगा, अरे रे ! वायुनन्दन ! क्या दुर्योधन को भय से छिपा हुआ समझते हो

कृतभीमगदः कथयति स्म-'अरे रे मारुते, किं भवतः भयेन प्रलीनं दुर्योधनं मन्यते भवान् ? मूढ, अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रामितुमद्यध्य- वसितवानस्मि पातालम् ।' एवं चोक्ते वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलि- लं निषिद्धसमरारम्भौ स्थलमुत्तारितौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवर- संमर्दसम्पतितगृध्रकङ्कजम्बूकमुत्सन्नसुयोधनबलमस्मद्वीरमुक्तसिंहनादसंवा- अकथयत् 'लट् स्मे' इति प्रयोगे भूते लट् । किमकथयदित्याह - मारुत इति । भवतः = भीमात्, भयेन = भीत्या, प्रलीनम् = प्रच्छन्नम्, दुर्योधनम् = माम्, मन्यते । नाहं त्वद्भयादत्र स्थितः किन्त्वन्यत्कारणमिति भावः । तदेवाह - मूढ अनिहतेति । मूढ = अज्ञ, अनिहतपाण्डुपुत्रः = अविनाशितपाण्डवः, प्रकाशम् = सर्वसमक्षम् । विश्रमितुम् = विश्रामं कर्तुम्, पातालम् = नागलोकम् 'पातालं नाग- लोके स्यादि'ति मेदिनी । अध्यवसितवान् = गतवान्, अस्मि, यद्यपि 'उत्साहोऽध्य- वसायः स्यादि'त्यमराद् अध्यवपूर्वकसोधातोत्साहोऽर्थस्तथापि धातूनामनेकार्थ- त्वात्, तात्पर्यानुपपत्त्या लक्षणया वाऽत्र गतिरर्थः । अन्तःसलिलम् = सलिलस्य अन्तः मध्ये वासुदेवकिरीटिभ्याम् = कृष्णार्जुनाभ्याम्, निषिद्धसमरारम्भो = निषिद्धः निवारितः समरारम्भः सङ्ग्रामप्रारम्भः ययोः तौ, स्थलम् = जलादुपरिदेशम्, उत्ता- रितौ = आनीतौ । क्षितितले = भूतले, आसीनः = उपविष्टः । निक्षिप्य = संस्थाप्य, निहतकुरुशतगजवाजिनरसहस्रकलेवरसंमर्दसम्पतितगृध्रकङ्कजम्बूकम् = कुरूणां शतं कुरुशतं गजवाजिनराणां सहस्राणि गजवाजिनरसहस्राणि तानि च निहतानि तेषां कलेवराणां यः सम्मर्दः सङ्घट्टः तत्र सम्पतिताः निपतिताः गृध्रकङ्कजम्बूकाः गृध्रलोह- पृष्ठशृगाला यस्मिन् तत् । एतानि सर्वाणि सङ्ग्रामस्थानस्य विशेषणानि । 'लोह- पृष्ठस्तु कङ्कः स्यादि'त्यमर ! उत्सन्नसुयोधनबलम् = विनष्टदुर्योधनसेन्यम्, अस्मद्वीर- मुक्तसिंहनादसंवलिततूर्यघोषम् = अस्मद्वीरैर्मुक्तो यः सिंहनादः तेन संवलितः सम्मिश्रः तूर्यघोषः वाद्यविशेषशब्दो यत्र तत्, अमित्रबान्धवम् = अमित्रस्य शत्रोः बान्धवः यत्र तत् कौरवसङ्ग्रामस्थानम्, अवलोक्य = दृष्ट्वा, अस्य पूर्वोक्तिकौरवराज इत्य- 'मूर्ख ! मैं पाण्डुकुमारों को नहीं मार सका अतएव प्रकटरूप से लज्जित होता हुआ विश्राम करने के लिए पाताल का आश्रय लिया हूँ' इस प्रकार दुर्योधन के उत्तर देने पर भगवान् वासुदेव और अर्जुन ने जल के भीतर युद्ध करने से उन दोनों को रोककर स्थल भाग पर कर दिया । कौरवाधिपति दुर्योधन ने पृथ्वी पर अपनी गदा फेंक दी और यह देख कर कि रणभूमि में हजारों रथ टूट-फूट कर पड़े हुए हैं, मरे हुए सौ कौरव, हाथी, घोड़े और हजारों मनुष्यों की लाशों के ढेर पर गीध, कङ्काल और शृगालादि गिर रहे हैं, उस

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६१

लिततूर्यघोषममित्रबान्धवमकोरवं रणस्थानमवलोक्यायतमुष्णं च निःश्वसि- तवान् । ततश्च वृकोदरेणाभिहितम् 'अयि भोः कौरवराज, कृतं बन्धु- नाशदर्शनमन्युना । मैवं विषादं कृथाः, पर्याप्ताः पाण्डवा, समरायाहन्- सहाय' इति । पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन ! । दंशितस्यात्तशस्त्रस्य तेन तेऽस्तु रणोत्सवः ॥ १० ॥ इत्थं श्रुत्वाऽसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः । तेनान्वयः । आयतम् = दीर्घम् । निःश्वसितवान् = श्वासमधारयत् । बन्धुनाशदर्शन- मन्युना=बान्धवानामावलोकनजन्यक्रोधेन, 'मन्युर्दन्ये कृतौ क्रुधि'इत्यमर । कृतम् = व्यर्थम्, पाण्डवाः, पर्याप्ताः = ससहायाः, अहम्, असहाय, समराय, इति एवं विषादं मा कृथा इत्यन्वयः । अन्वयः-( हे ) सुयोधन !, अस्माकम्, पञ्चानाम् ( मध्ये ) यम्, सुयोधम्, मन्यसे, तेन ( सह ) दंशितस्य, आत्तशस्त्रस्य, ते, रणोत्सवः अस्तु ॥ १० ॥ कथं न विषादः करणीय इत्याह - पञ्चानामिति । हे सुयोधन ! = सुखेन युध्यते स सुयोधनः तत्सम्बोधने, सुयोधन इत्यर्थः । एतेन त्वया सह युद्धकरणमतीव सुलभमत एकाकिनेव केनापि योद्धव्यमिति सूचितम् । अस्माकं = पाण्डवानाम्, पञ्चानाम्, मध्ये, यम्, सुयोधं = सुखेन योधयितुं योग्यम्, मन्यसे = अवगच्छसि, तेन सह, दंशितस्य = धृतवर्मणः, धृतकवचस्येत्यर्थः । 'दंशः कीटविशेषे च वर्मदंशनयोः पुमानि'ति मेदिनी । आत्तशस्त्रस्य = गृहीतायुधस्य, ते = तव, रणोत्सवः = रण एवोत्सवः अस्तु । अत्र निरङ्गरूपकमलङ्कारः । पथ्यावक्त्रं छन्दः-'युजोश्चतुर्थतो येन पथ्यावक्त्रं प्रकीर्तितमि'ति लक्षणात् ॥ १० ॥ ( सुयोधन ) की सेना वहाँ से भागकर चली गई है, हमारे ( पाण्डव के ) वीरों के हुंकार- नाद से रणभेरी का नाद मिश्रित हो रहा है, उनके बान्धवों में से कोई भी कौरव नहीं है और जो लोग वहाँ हैं वे भी उनके शत्रुदल के ही बन्धु बान्धव हैं, उष्ण और दीर्घ निश्वास लिया । इसके अनन्तर भीम ने कहा, 'अये कौरवों के मुकुट ! कुटुम्बियों का नाश देखकर क्रुद्ध होने से कोई लाभ नहीं । 'हम लोग ( पाण्डव ) युद्ध के लिए पर्याप्त हैं और तू ( दुर्योधन ) अकेला है' इस प्रकार का खेद भी न करो । ऐ सुयोधन, इन पाँचों व्यक्तियों में से जिससे युद्ध करना अभीष्ट समझते हो कवच पहन लो और हाथ में शस्त्र लेकर उससे युद्ध होने दो ॥ १० ॥ इस बात को सुनकर दुर्योधन ने घृणा की दृष्टि से दोनों कुमारों (अर्जुन और भीम) को देखकर कहा-

२६२ वेणीसंहारं नाटकं

कर्णदुःशासनवधात्तुल्यावेव युवां मम । अप्रियोऽपि प्रियो योद्धुं त्वमेव प्रियसहसः ॥ ११ ॥ इत्युत्थाय च परस्परक्रोधाक्षेपपरुषवाक्कलहप्रस्तावितघोरसङ्ग्रामौ विचित्रविभ्रमभ्रमितगदापरिघभासुरभुजदण्डौ मण्डलैर्विचरितुमारेभौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिनादेवसकाशमनुप्रेषितः । आह च

अन्वयः—कर्णदुःशासनवधात, मम, युवाम् तुल्यो, एव, (तथापि) अप्रियः, अपि, प्रियसहसः, त्वम्, एव, योद्धुम् प्रियः ॥ ११ ॥ त्वयैव योद्धव्यमित्याह कर्णेति । कर्णदुःशासनवधात् = राधेयमदनुजहननात्, मम = दुर्योधनस्य, युवां = भीमार्जुनौ, तुल्यौ = समौ, एव शत्रू इति शेषः । भीमोऽ- नुजस्य हन्ता, अर्जुनो मित्रस्यात उभावपि तुल्यापराधिनौवत्याशयः । तथापि 'भवन्ति भव्येषु च पक्षपाता' इतिन्यायात्, अप्रियः = शत्रुः, अपि, यतः प्रियसहसः= प्रियः साहसो यस्य सः, त्वम् = भीमः योद्धुम्, प्रियः = इष्टः, असि । अत्र विरोधा- भासोऽलङ्कारः । पथ्यावक्त्रं छन्द ॥ ११ ॥ परस्परक्रोधाक्षेपपरुषवाक्कलहप्रस्तावितघोरसंग्रामौ = अन्योन्यकोपेन य आक्षेपः निन्दा तेन यः परुषवाग्भिः कर्कशवचनैः, 'अहं त्वां हनिष्यामि, मत्तस्तव वधः स्यादि-' त्यादिरूपाभिः कलहः विग्रहः तेन प्रस्तावितः प्रसञ्जितो घोरसङ्ग्रामो याभ्यां तौ, विचित्रविभ्रमभ्रमितगदापरिघभासुरभुजदण्डौ = विचित्रविभ्रमोऽद्भुतभ्रमणं तेन भ्रमितो यो गदापरिघः परिघनामाकालतुल्यगदा तेन भासुरौ शोभमानौ भुजदण्डौ दण्डतुल्यदीर्घबाहू ययोः तौ । 'चित्रगदापरिघभासुरभुजभरौ' इतिपाठे तु चित्रः अद्भुतो यो गदापरिघः तेन भासुरौ यौ भुजौ, विभर्तीति भरः पचाद्यच्प्रत्ययः । तयोर्भरः धारयिता, तौ । भीमदुर्योधनौ, मण्डलैः = चक्राकारैः, विचरितुम् = भ्रमितुम् आरब्धौ । चक्रपाणिना = चक्रं पाणौ यस्य तेन, एतेन यत्थकधारी अतस्तस्य सन्दे- शोऽप्यथाभवितुं नार्हतीति ध्वनितम् । देवसकाशं = भवत्सविधे, अनुप्रेषितः = प्रहितः । देवकीनन्दन = कृष्णः, अपर्युषितप्रतिज्ञे=अपर्युषितां परदिने सम्पादयितुमयोग्या प्रति- ज्ञा दुर्योधनवधरूपा यस्य तस्मिन् मारुतौ = भीमसेने, कौरवराजे = दुर्योधने,

'कर्ण और दुश्शासन के वध से (यद्यपि) तुम दोनों मेरे लिए समान ही हो। तथापि शत्रु होते हुए भी तुम साहसी हो अतः तुम्हीं से युद्ध करना मैं अभीष्ट समझता हूँ ॥११॥ यह कहकर एक दूसरे को क्रोधपूर्वक निन्दायुक्त कटुवचनों के प्रयोग से बिकट युद्ध- प्रारम्भ करके विलक्षण ढंग से घुमाते हुए गदा के प्रकाश से जिनके भुजदण्ड अनुरंजित हो रहे थे वे भीम और दुर्योधन मण्डलाकार (युद्ध की गतिविशेष) से घूमने लगे (फाया काटने लगे) और मैं चक्रधारी भगवान् वासुदेव के द्वारा आप (युधिष्ठिर) के समीप भेजा

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६३ देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे च मारुतौ प्रनष्टे कौरवराजे महाना- सीन्नो विषादः । सम्प्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतमङ्गलसमारम्भाः प्रवर्त्यन्ताम् । कृतं सन्देहेन । पूर्यन्तः सलिलेन रत्नकलशा राज्याभिषेकाय ते कृष्णाऽत्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् । रामे घोरकुठारभासुरकरे क्षत्रद्रुमाच्छेदिनि क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ १२ ॥ प्रनष्टे=अदर्शनं प्राप्ते, सति, नः = अस्माकम्, महान् विषादः = खेदः, आसीदित्य- न्वयः । आसादिते = प्राप्ते, भुवनतलम्, निष्कण्टकीभूतम् = असपत्नीभूतम् शत्रुरहित- मित्यर्थः । परिकलयतु = अवगच्छतु, भवान् = युधिष्ठिरः । अभ्युदयोचिता = उन्नत्य- नुकूला, अनवरतमङ्गलसमारम्भा = सततं शिवप्रारम्भाः, सन्देहेन = संशयेन, विजयः स्यान्नवेत्याकारकेण, कृतम् = अलम् । अन्वयः—रत्नकलशाः, ते, राज्याभिषेकाय, सलिलेन, पूर्यन्ताम्, चिरोज्झिते, कबरीबन्धे, च, कृष्णा, क्षणम्, करोतु, घोरकुठारभासुरकरे, (अत एव) क्षत्रद्रुमोच्छे- दिनि, रामे, क्रोधान्धे, वृकोदरे, च, आजौ, परिपतति (सति) कुतः, संशयः ॥१२॥ कथं न सन्देह इत्याह = पूर्यन्तामिति । रत्नकलशाः = रत्नैः मणिभिः जटिताः कलशाः, मध्यमपदलोपिसमासः । 'रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकमिति मेदिनी । ते=तव, युधिष्ठिरस्येत्यर्थः । राज्याभिषेकाय = राज्येऽभिषेचनाय, सलिलेन= जलेन पर्यन्ताम् = म्रियन्ताम्, चिरोज्झिते = बहुकालेन परित्यक्ते, कबरीबन्धे = केश- वेशबन्धे, च कृष्णा = द्रौपदी, क्षणम्=उत्सवम्, कालविशेषोत्सवयोः क्षण' इत्यमरः । करोतु, केशबन्धनार्थं साम्राज्येत्सवं करोत्वित्यर्थः । ननु यदि भीमस्य विजयो न स्यात्तदेहं सर्वमनर्थकमित्यत आह—राम इति । घोरकुठारभासुरकरे = भयङ्करपरशु- शोभमानहस्ते, अतएव क्षत्रद्रुमोच्छेदिनि = क्षत्रा नृपा एव द्रुमा वृक्षाः तान् छेत्तुं शीलमस्य तस्मिन्, परशुरामेण त्रिःसप्तकृत्वः क्षत्रियाः संजह्रिर इति भावः । रामे = परशुरामे, क्रोधान्धे = कोपाकुले वृकोदरे, च आजौ = सङ्ग्रामे, परिपतति = प्रविष्टे गया हूँ ! महाराज ! देवकीपुत्र ने कहा है - दुर्योधन के छिप जाने पर भीम की प्रतिज्ञा अपूर्ण समझकर हम लोगों को महान् शोक ने घेर लिया था परन्तु अब भीमसेन के हाथ सुयोधन के लग जाने पर निष्कण्टक भूमण्डल को आप सुशोभित करें । उन्नति के समय के लिए जो उत्सव उचित हो उसे निरन्तर होने रहने दें । सन्देह करना व्यर्थ है । आपके अभिषेक के लिए मणिमय कलश जल से पूर्ण करके रक्खे जायें । द्रौपदी चिर-

२६४ वेणीसंहारं नाटकं द्रौपदी—(सवाष्पम् ।) जद्देवो तिहुअणणाहो भणादित कहं अण्णहा वविस्सदि । ( यद्देवस्त्रिभुवननाथो भणति तत्कथमन्धया भविष्यसि । ) पाञ्चालकः—न केवलमियमाशीः, असुरनिषूदनस्यादेशोऽपि । युधिष्ठिरः—को ही नाम भगवता सन्दिष्टं विकल्पमपि ? कः कोऽत्र भोः । ( प्रविश्य । ) कञ्चुकी—आज्ञापयतु देवः । युधिष्ठिरः—देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुदिताः समारम्भाः । सति, संशयः = शङ्का, कुतः = कस्माद्धेतोः जये इति शेषः, विजये संशयो नास्तीति भावः । यथा परशुरामेण स्वप्रतिज्ञापूर्तिरवश्यं कृता तथा तत्सदृशो भीमोऽपि प्रतिज्ञा- पूर्तिं करिष्यत्येवेति गूढाभिप्रायः । दीपकमलङ्कारः । शार्दूलविक्रीडितं छन्दः ॥ अन्यथेति — वासुदेवसन्देशस्यान्यथाभवनासम्भवमित्यर्थः । असुरनिषूदनस्य = असुरात्रिषूदयतीत्यसुरनिषूदनः 'नन्दिग्रहिपचादिभ्य' इति कर्तरि ल्युट् प्रत्ययः । तस्य, आदेशः = आज्ञा । नामशब्दोऽभ्युपगमे, अभ्युपगच्छामि यत् भगवत्सन्देशविकलना न भवितुमर्हतीति भावः । विकल्पयति = विरुद्धं कल्पयति विपरीतसङ्गच्छतीत्यर्थः । देवस्य = भगवतः देवकीनन्दनस्य = देवकीपुत्रस्य कृष्णस्येत्यर्थः । बहुमानात् = काल से मुक्त किए हुए केशकलाप को क्षणमात्र में बाँध लें। क्रोधोन्मत्त परशुरामके, जिनका हाथ तीक्ष्ण परशु के कारण तेजस्वी है, तथा जो क्षत्रियरूप वृक्षों के काट डालने वाले हैं, और भीमसेन के क्रोधोन्मत्त होकर संग्राम में उतर पड़ने पर सन्देह कहाँ । अर्थात् विजयलक्ष्मी प्राप्त हो ही जायगी ॥ १२ ॥ द्रौपदी—( डबडबाए हुए नेत्रों से ) त्रिलोक के स्वामी महाराज जो कहते हैं वह अन्यथा कैसे होगा । पाञ्चालक—इसे केवल आशीर्वाद ही नहीं, किन्तु राक्षसों के दमनकर्ता कृष्णजी की आज्ञा भी समझनी चाहिए । युधिष्ठिर—भगवान् नारायण के सन्देश की कौन अवहेलना कर सकता है ? कौन यहाँ पर हैं । कञ्चुकी—आज्ञा प्रदान कीजिए महाराज । युधिष्ठिर—देवकीपुत्र भगवान् वासुदेव की आज्ञा का स्वागत करने के लिए मेरे प्रिय सहोदर के विजयमङ्गलार्थ अनुकूल महोत्सव प्रारम्भ कर दिए जाँय ।

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २६५ कञ्चुकी—यथाऽऽज्ञापयति देवः । ( सोत्साहं परिक्रम्य ) भो भोः संवि- धातृणां पुरस्सराः, यथास्थानमन्तर्वैशिका दौवारिकाश्च, एष खलु भुजब- लपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधना- नुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननरसिंहस्य दुर्योधनोरु- स्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपा- तिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः । ( आकाशे । ) अतिसम्माननीयत्वाद् एतस्य वचनमन्यथाकर्तुं न योग्यमिति भावः । वत्सस्य = भीम- सेनस्य, विजयमङ्गलाशंसया = रिपुजयलपशिवेच्छाया, तदुचिता = मङ्गलयोग्याः, समारम्भाः = सुक्रियाः, प्रवर्त्यन्ताम् = क्रियन्ताम् । सोत्साहं = साध्यवसायम् 'उत्साहोऽध्यवसायः स्यादि'त्यमरः । संविधातृणाम् = अधिकारिणाम्, पुरःसराः = मुख्याः, भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य = परिक्षिप्यते सन्तार्यतेऽनेनेति परिक्षेपो जलयानम् ( जहाज ) इति प्रसिद्धः । भुजबलमेव परिक्षेपः तेनोत्तीर्णः कौरव एव परिभवसागरः दुःखसमुद्रो येन तस्य, निर्व्यूढदुर्वह- प्रतिज्ञाभारस्य = निर्व्यूढः निःशेषेण गृहीतो दुर्वहः प्रतिज्ञाभारः दुर्योधनोरुभङ्गरूपः येन तस्य, पूर्णप्रतिज्ञतायस्येत्यर्थः । सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य = सुयोधनस्य यदनुजशतं तस्य उन्मूलने विनाशन प्रभाञ्जनः महावायुरिव तस्य, बलिनः = बलवतः, प्राभञ्जनेः = मरुत्तनयस्य, वृकोदरस्य, स्नेहपक्षपातिना = स्नेहेन प्रेम्णा पक्षे साहाय्ये पतितुं शीलमस्य तेन, मनसा = चित्तेन, मङ्गलानि = शुभानि, कर्तुम् आज्ञापयति = आदिशति । आकाश इति-पात्राभावेऽपि श्रुत्वेवानुक्तमप्यर्थं किं ब्रवीषीत्याद्यर्थकं वाक्यं यत् प्रयुज्यते तत्राकाश इत्युच्यते । तदुक्तं दर्पणे — 'किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते । श्रुत्वेवानुक्तमप्यर्थं तत्स्यादाकाश- भाषितम् ।' इति । कञ्चुकी—अच्छा महाराज की आज्ञा सिर पर (उत्साह से चलकर) भो विधि- विधानों के आचार्य, श्रेष्ठता के क्रम से अन्तःपुर [ रनिवास ] के अधिकारियो तथा द्वार- रक्षको ! यह महाराज युधिष्ठिर अपने पराक्रमी भ्राता पवनपुत्र भीमसेन का पक्षपात मन में रखकर विजय महोत्सव के लिए आज्ञा दे रहे हैं क्योंकि भीमसेन अपनी भुजाओं के पराक्रम का प्रदर्शन करके कौरवों के द्वारा किए गए अपमानरूपी समुद्र के पार पहुँच गए हैं, वहन करने के अयोग्य प्रतिज्ञा के भार को वहन कर लिए हैं, सुयोधन के सौ भ्राता- रूपी वृक्षों को उखाड़ कर फेंक देने में आँधी के समान हैं, और दुःशासन का हृदय विदीर्ण करने में साक्षात् नृसिंह भगवान् हैं तथा दुर्योधन के जंघारूप विशाल स्तम्भ [ खम्भ ] के चूर-चूर कर देने पर विजय की प्राप्ति भी अवश्यम्भावी है । (आकाश की ओर) क्या

२६६ वेणीसंहारं नाटकं

किं ब्रूय—'सर्वतोऽधिकतरमपि प्रवृत्तं किं नालोकयसि' इति। साधु पुत्रकाः
साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।
युधिष्ठिरः—आर्य जयन्धर !
कञ्चुकी—आज्ञापयतु देवः ।
युधिष्ठिरः—गच्छ, प्रियख्यापकं पाञ्चालकं पारितोषिकेण परितोषय ।
कञ्चुकी—यदाज्ञापयति देवः ( इति पाञ्चालकेन सह निष्क्रान्तः । )
द्रौपदी—महाराअ, किणिमित्तं उण णाहभीमसेणेण सो दुराआरो
भणिदो—'पञ्चाणं वि अम्हाणं मज्झे जेण दे रोअदि तेण सह दे संगामो
होदु'त्ति । जह मद्दीसुदाणं एक्कदरेण सह संगामो तेण पत्थिदो भवे तदो
अच्चाहिदं भवे । ( महाराज, किन्निमित्तं पुनर्नार्थभीमसेनेन स दुराचारो भणितः—
अत्र सर्वतोऽधिकेत्याद्यनुक्तमपि श्रुत्वेवाह—किं ब्रूथ सर्वत इति । सर्वतः =
सर्वत्र, सार्वविभक्तिकस्तसिल्प्रत्ययः । अधिकतरम् = अत्यधिकम्, प्रवृत्तम् = समारब्धम्,
मङ्गलमिति शेषः । न, अवलोकयसि = पश्यसि, स्वार्थे णिच्प्रत्ययः । अथवा राजेति
शेषः, राजानं न दर्शयति किमित्यर्थः । साधु = भद्रम्, पुत्रका इति । अनुकम्पाया-
मिति कन्प्रत्ययः । अनुक्तहितकारिता = स्वच्छन्दयैव शुभसम्पादित्वम्, स्वामिभक्तिम् =
अधिपविषु प्रीतिम् ।
जयन्धरः—एतन्नामकञ्चुकी ।
प्रियख्यापकम् = इष्टनिवेदकम्, पाञ्चालकम् = एतन्नामकम्, पाञ्चालदेशोत्पन्नं वा,
पारितोषिकेण = धनदानपुरस्कारेण, परितोषय संतुष्टं कुरु ।
नकुलसहदेवयोर्बलानभिज्ञा द्रौपद्याह-महाराज किन्निमित्तमिति । सः = दुर्योधनः,
कहते हो—'सब दिशाओं में प्रवृत्त मङ्गल-महोत्सव मनाया जा रहा है, क्या देख नहीं
रहे हो ?' धन्य मेरे प्रिय पुत्रो ! धन्य बिना आज्ञा के पाये ही यदि हितोपयुक्त कार्य
किया जाय तो मन में स्थित स्वामिभक्ति का द्योतक होता है
युधिष्ठिर—आर्य जयन्धर !
कञ्चुकी—आज्ञा दीजिए महाराज !
युधिष्ठिर—जाओ, अभीष्ट संवाददाता पाञ्चालक को पारितोषिक प्रदान से सन्तुष्ट
करो ।
कञ्चुकी—अच्छा, महाराज की जो आज्ञा । ( यह कह कर पाञ्चालक के साथ चल
पड़ता है । )
द्रौपदी—महाराज ! फिर किसलिए स्वामी भीमसेन ने उस दुरात्मा से कहा—'हम
पाँचों भाइयों में से किसी एक से जिससे तुम्हारी इच्छा हो युद्ध कर सकते हो।' यदि वह