विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
स्थानां त्रत्स्थानां स्थानमेतत्प्रयोजयेत् ॥ द्वौ तालौवर्धतालं च पदयोरंतरं भवेत् ॥ ६ ॥ अञ्चिते यत्र जंघे तु पदौ पक्षस्थितौ तथा ॥ वैशाखं नाम तत्स्थानं स्कन्दश्चैवात्र देवता ॥ ७ ॥ स्थानेनानेन कर्तव्यमश्वानां वाहनं बुधैः ॥ व्यायामो निर्गमश्चैव प्रवेशो धनुषस्तथा ॥ ८ ॥ अतः परं मण्डलं स्याच्चतुरस्त्रांतरन्तथा च ॥ कटी जानुसमा यत्र पादौ पक्षस्थितौ यथा ॥ ९ ॥ धनुश्चक्रग्रहणं मण्डलेन प्रयोजयेत् ॥ वाहनं कुञ्जराणां तु नृत्ते चोड्डडनक्रिया ॥ १०॥ आदौ च दक्षिणं पादं पश्चात्तालं प्रसारयेत् ॥ आलीढं नाम तत्स्थानं रुद्रश्चात्रत्य दैवतम् ॥११॥ अनेन कार्यं स्थानेन सर्वैरौद्रगणक्रिया ॥ रौद्रपाश्चरस्तु संग्रामस्य निरूपणम् ॥ १२ ॥ सिंहयोर्भिन्नयं चैव संस्फोटै शत्रुणां च निरूपणे ॥ खड्गयुद्धे नियुद्धे च मण्डलश्रमणे तथा ॥ १३ ॥ उत्तरोत्तरसञ्जल्पे रोषामर्षसमुद्भवे ॥ मल्हानां चैव संस्फोटै शत्रूणां च निरूपणे ॥ १४ ॥ तथासिप्लवणं चैव शस्त्राणां च विमोक्षणम् ॥ अञ्चितं दक्षिणं कृत्वा वामं पादं प्रसार्य च ॥ १५ ॥ आलीढं परिवर्तन्ते प्रत्यालीढमिति स्मृतम् ॥ प्रत्यालीढं तु विज्ञेयं स्थानं च नवदैवतम् ॥ १६ ॥ आलीढेनोदितं शस्त्रं प्रत्यालीढं न मोचयेत् ॥ अतः परं प्रवक्ष्यामि स्त्रीणां स्थानत्रयं तुप ॥ १७ ॥ आयतं चावहित्थं च ह्यक्रान्तमथवापि च ॥ एकंश्वाश्रुद्रुतौ यत्र पादौ विरचितः समः ॥ १८ ॥ तालमात्रान्तरन्यस्तः त्र्यश्रः पक्षगतोऽपरः ॥ प्रसन्नासन्ननञ्चुरः समं यत्र समुन्नितम् ॥ १९ ॥ कृतानितम्बगौ हस्तौ स्थानं ज्ञेयं तदायतम् ॥ रङ्गावतरणे ह्येतत्तथा पुष्पाञ्जलौ भवेत् ॥ २० ॥ पादौ विरचितस्य ( अ ) स्तस्तद्व्यपेक्षतः समः ॥ पादस्ततालान्तरन्यस्तस्त्विहिकर्मीप्सुसम्भ्रतव ॥ २१ ॥ अवहित्थं समाख्यातं स्थानमेतद्द्विजोत्तम ॥ विलासलीलालावण्यशृङ्गारात्मनिरूपणे ॥ २२ ॥ स्थानमेतत्प्रयोक्तव्यं वरमार्गावलोकने ॥ समास्थितौ यत्र पादस्वन्यः पादस्त्कलोत्थितः ॥ २३ ॥ तालेननियतश्चैव स्थानको हि विधीयते ॥ सूचीविद्धमपिह्वेदं वा तद्श्वक्रान्तमिष्यते ॥ २४ ॥ शाखावलम्बनस्तबकौ खद्ये च विष्वृनेत्रासनसम्पृक्लापे ॥ स्वभावसंलापविधौ च कार्यं स्थानं त्विदं गाढवशंवशुस्य ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० ब० सं० जयितादिस्थानककथनो नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥ मार्कण्डेय उवाच ॥ शिरसः प्रथमं कर्म गदतो . मे निबोध तत् ॥ स्वभावदृष्टुनोन्मिषेरेषणाक्रिस्यकं संकृत ॥ १ ॥ संज्ञोपदेशपृच्छासु स्वभावावमणे भवेत् ॥ बहुशः कथितं यत्र तदा कंपितमिष्यते ॥ २ ॥ (रोपतर्जनतकेंषु प्रतिज्ञासु च दृश्यते ॥ शिरसो रेचनं यत्तु शनैस्तुतमुच्यते ॥ ३ ॥ विषादे विस्मये चैव प्रतिषेधे तदिष्यते ॥ विधूतं नामतः प्रोक्तं तथा पार्श्वविकम्पनैः ॥ ४ ॥ शीतग्रस्ते ज्वरातें च मते च ज्वरीते भवेत् ॥ मण्डला भ्रमणं चैव भवेत् परिग
देयं स्थानमेतत्तयोर्मतम् ॥ चिबुकाश्रितौ हस्तौ बाहूरोणीचितं शिरः ॥ ५ ॥ सर्वाभिनयने चैव विज्ञेयं श्रानननाशनम् ॥ बलिना निगृहीतस्य रिपुणा खण्डितस्य च ॥ ६ ॥ शोक्लान्तस्य च तथा स्थानमेतद्विनिर्दिशेत् ॥ अधो हस्तौ विमुक्तं च शरीरमलसं तथा ॥ ७ ॥ नेत्रालसं तथा चक्षुर्वक्त्रं स्वस्थालसं तु तत् ॥ श्रमग्लानौ मदे चैव मूर्च्छायां व्यथिते तथा ॥ ८ ॥ मोहे प्राणभये चैव स्थानमेतद्योजयेत् ॥ विष्टकुम्भिवाञ्चितौ पादौ कुरु विष्कुम्भितौ भुजौ ॥ ९ ॥ निमीलिते तथा चक्षुः स्थाने विष्कुम्भिते सति ॥ स्ववशोगतया दृष्ट्या योगे ध्याने विधीयते ॥ १० ॥ पित्र्ये समाधौ जप्थे च होमादिकरणेषु च ॥ १२ ॥ एतस्थानं विधातव्यं यथागमनकर्मणि ॥ एकं जानु भूतस्तलं चैव ज्ञेयं मुकुटवासनम् ॥ १३ ॥ ज्ञातव्यं भूमिपश्चैव ! सुरेणाजुकमासनम् ॥ एतद्भूतव्यलीकानां प्रियाणां सम्प्रसादने ॥ १४ ॥ मञ्जने कुटिलाग्रोपृ विधीयते ॥ १५ ॥ महीगताभ्यां जानुभ्यां स्थानं जानुगतं भवेत् ॥ १६ ॥ राज्ञां विज्ञापने कार्ये सुराणां चैव पूजने ॥ भूमौ यदूध्वं पतनं तद्विसुक्तमिति स्मृतम् ॥ १६ ॥ प्रहारतः प्रयोक्तव्यसादेशे क्रन्दने तथा ॥ भद्रासनं तु देवानां राज्ञां सिंहासनं भवेत् ॥ १७ ॥ कृप्यासनं तु दातव्यं सांवत्सधपुरोधसोः ॥ वेत्रासनमथामात्यानां मन्त्रिणां तु तथा भवेत् ॥ १८ ॥ मन्दासनं तु दातव्यं सेनानीयुवराजयोः ॥ मुनीनां च द्विजानां च तथा मूलफलाश्रिणाम् ॥ १९ ॥ वृषी देया महाराज ये चान्ये नियमे स्थिताः ॥ स्थानीययाः पुरुषा ये च मुख्याः पौराश्च ये तथा ॥ २० ॥ वणिजश्च तथा मुख्यास्तेषां भवति पीठिका ॥ वेश्यानां कुमाराणां तथा भृत्यजनस्य च ॥ २१ ॥ मसूरकं तु दातव्यं शेषे भूम्यासनं भवेत् ॥ सिंहासनं विना राजन्गृहे स्वच्छन्दमासनम् ॥ २२ ॥ नैकासनं स्याद्रूपा तु राजन्रथे गजे वापि शिलातले च ॥ नैकासने स्याद्रूपेण तु दोषोऽय वाणिदिने फलके च नित्यम् ॥ २३ ॥
॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आसनवर्णनो नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥
॥ मार्कण्डेय उवाच ॥ ॥ वैष्णवं सम्पादं च वैशाखं मण्डलं तथा ॥ १ ॥ प्रत्यालीढं मथ्रालीढं पद् पुंसां स्थानकानि तु ॥ १ ॥ स्वभावसंस्थितः पादश्चतुर्हस्तः पलागतोऽपरः ॥ किञ्चिदञ्चितजङ्घश्च वैष्णवं स्थानमुच्यते ॥ २ ॥ स्थानेनानेन कर्तव्यः संलापस्तु स्वभावतः ॥ सम्पादं तु विज्ञेयं समस्तालन्तरैः पदैः ॥ ३ ॥ स्वस्वभासोष्ठवोपेतं रुद्राक्षादिदैवतम् ॥ अनेन कार्यं स्थानेन विप्रमण्डल्करणम् ॥ ४ ॥ बलानां पक्षिणां चैव वरोत्कौतुकमेव च ॥ स्वस्थानं न्यन्द्नस्थानां विमानस्यायिनामपि ॥ ५ ॥ लिङ्गि
...ञ्चितं चोलुपदं च हरिणप्लुतमेव च ॥ ५३ ॥ प्रेङ्खोलितं नितम्बं च स्खलितं परिकस्तकम् ॥ ५२ ॥ असर्पिततलं चैव सिंहविक्रीडितं तथा ॥ ५४ ॥ क्रीडितं चैव गङ्गावतरणं तथा ॥ ५५ ॥ अयोपसंहृतं चैव करणानां प्रकीर्तितम् ॥ सुकुमारं तथा विद्धं नृत्तं द्विविधमुच्यते ॥ ५४ ॥ उद्धतं पुरुषप्रायं सौम्यं सुकुमारकम् ॥ देशैश्चिह्नैस्तथाकारा पिण्डी भवति पार्थिव ॥ ५६ ॥ भारती सात्वती चैव कौशिकीत्यारभटी तथा ॥ चतस्रो वृत्तयः प्रोक्ता वाग्विधाना तु भारती ॥ ५६ ॥ तस्या वीरसप्राया विज्ञेया सात्वती नृप ॥ तथा रौद्ररसप्राया च भवत्यारभटी सदा ॥ ५७ ॥ शृङ्गारबहुला तथा संवृति कौशिकी ॥ आवन्ती दाक्षिणात्या च तथा चैवात्र मागधी ॥ ५८ ॥ पञ्चाली मध्यमा चेति वृत्तिः सा तु चतु- र्विधा ॥ देशभाषाऽनुरूपं तथानाचारप्रवर्तनम् ॥ ५९ ॥ प्रवृत्तिरिति विख्याता वृत्तीनामाश्रयास्तु ताः ॥ नाट्यलोकप्रवृत्त्या च द्विधर्मश्च द्विविधा मता ॥ ६० ॥ सिद्धिञ्च द्विविधा नाट्ये दैविकी मानुषी तथा ॥ व्यायामान्न्यादृशी तत्र दैवी देवप्रसादजा ॥ ६१ ॥ रसेन भावेन समन्वितं च तालाङ्गं काव्यरूपसमुद्भवम् ॥ गीतानुरूपं वृत्तवृत्तिं चन्दं सुखप्रदं धर्मविवर्धनं च ॥ ६२ ॥ ॥ इति श्रीविष्णुध- र्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नाम विशोध्यायः ॥ २० ॥ ॥ छ ॥ ॥ छ ॥ मार्कण्डेय उवाच ॥ सप्तत्रिंशत्कथं चैव प्रचारानिलविद्यतिते ॥ उदाहृतं ततं षोढा शय्यास्थानानि निर्दिशेत् ॥ १ ॥ उत्तानितं सुखं चैव सावत्सुककरं तथा ॥ समं वासकसंस्थस्य स्थानकं तु विधीयते ॥ २ ॥ स वैराङ्गिकिशिरोजैः शय्याविदे च जातुनी ॥ स्थानमाकुञ्चितं नाम गीतालनां प्रयोजयेत् ॥ ३ ॥ एकं भुजं समाधाय संप्रसारितजानुकम् ॥ स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ ४ ॥ अधोमुखे स्थितं चैव विवलितमिति स्मृतम् ॥ शक्तेि सूते विषदं मत्तोन्मत्तेषु तद्भवेत् ॥ ५ ॥ अंशोपरि शिरः कृत्वा कुञ्चितोर्धमुखमिव च ॥ उदाहृतं तु विज्ञेयं लीलयाः शंसने प्रभो ॥ ६ ॥ तस्या यदुक्तममृतं तु जंध स्तस्तो करो तं नतमुद्रिशन्ति ॥ आलस्यखेदश्रममोहितेषु कार्येस्तु तस्याभिनयप्रयोगः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे शय्यासनस्थानवर्णनो नामैकत्रिंशतितमोऽध्यायः ॥ २१ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ स्वस्थ्यमन्द- लसक्रान्तं प्रस्थालसमथायि च ॥ विष्कुम्भितं तत्कटुकं मुक्तजानु तथा समम् ॥ १ ॥ जानुगतं विमुक्तं च स्थानकान्युपवेशने ॥ विष्कम्भितास्थितौ पादौ वक्षः किञ्चित्समुन्नतम ॥ २ ॥ हस्तौ कट्यूकविन्यस्तौ स्वस्थौ स्वस्थोपवेशने ॥ एकः प्रसारितः पादस्त्वन्य- श्चैवासनमाश्रितः ॥ ३ ॥ पार्श्व नतं तथा कार्यं स्थानं मण्डलकं तु तत् ॥ चिन्तायां तु तथौत्सुक्ये निर्वेदे विमदे तथा ॥ ४ ॥ विषदेषु सदा
वि० ध० ॥३७॥
नृ० सं० अ० २० ॥३१॥
पार्थिव ॥ भ्रमरस्यात्कन्दिते स्यातां मर्दवं च ततः परम् ॥ २६ ॥ समा संनतिमित्याहुरेवंकारेणकीर्तिते यथा ॥ अङ्गैस्तं शकटान्वं च तथाहंयासिनी स्मृतम् ॥ २७ ॥ विष्टुकुञ्जं च विज्ञेयं तथा चापगतं पुनः ॥ अथाङ्गहारान्वक्ष्यामि नामतस्तान्निबोध मे ॥ २८ ॥ स्थिरहस्तोऽङ्गीहारस्तु तथैवा क्षिप्तकः स्मृतः ॥ उद्घाटितस्तृतीयः स्यात्तथा चान्योऽपवाहितः ॥ २९ ॥ मत्ताक्रीडोऽथ विष्कम्भः तथा स्वस्तिकरेचितः ॥ वृश्चिकापसृतश्चैव तलमन्दा न सर्पितः ॥ ३० ॥ मत्तल्लीस्खलितश्चैव भ्रमरः पार्श्वस्वस्तिकः ॥ मदोद्विलसितश्चैव विष्टितो गतिमण्डलः ॥ ३१ ॥ वैशारखरेचितश्चैव पार्श्वदण्डसमन्वितः ॥ ३२ ॥ आक्षिप्तो रेचितश्चैव संम्योऽथ कतितस्तथा ॥ सूचीविद्धोऽपविद्धश्च विलापोव विद्युद्भ्रान्तः परावृत्तः पार्श्वक्रान्तो संप्रोक्ता ह्यङ्गहारा यूदस्रम् ॥ एतेषां संप्रवक्ष्यामि कारणानि यथाक्रमम् ॥ हस्तपाद प्रचारश्च यथा योजनः प्रयोक्तृभिः ॥ ३६ ॥ सर्वेषामङ्गहाराणां निष्पत्तिः कारणं भवेत् ॥ तान्यहं संप्रवक्ष्यामि नामभिः कर्मभिस्तथा ॥ ३६ ॥ हस्तपादसमायुक्तो नृत्तस्य करणं भवेत् ॥ द्वे नृत्तकरणे चैव भवेतां नृप मातृका ॥ ३७ ॥ त्रिभिः कलापकश्चैव चतुर्भिः खण्डकः स्मृतः ॥ पञ्चैव करणानि स्युः संघात इति स्मृतः ॥ ३८ ॥ षड्भिस्तु संस्तितिविद्धि अष्टभिर्निर्मलस्तथा ॥ करणैर्हि संयुक्ता अङ्गहारा इति स्मृताः ॥ ३९ ॥ एतेषां चैव वक्ष्यामि नामान्यहमसत्तमः परम् ॥ तल्पुष्पाणिबद्धे द्वे लीनस्वस्तिकरेचितम् ॥ ४० ॥ मण्डले स्वस्तिकं चैव ऊरु वृत्ते निकुञ्चकम् ॥ सूचीविद्धं कटिच्छिन्नंमर्धरेचितमेव च ॥ ४१ ॥ वक्षः स्वस्तिकसूतपत्रे स्वस्तिकं पृष्ठगं पुनः ॥ दिक्स्वस्तिकमलताख्यञ्च घंस्नोकीटीसमम॥४२॥आक्षिप्तरेचितं क्षिप्तमंचस्वलितकसंज्ञितम् ॥ भुजङ्गासितं चैव ऊर्ध्वजानु निकुञ्चितम्॥४३॥मत्तल्लीस्रग्वंसतस्तथाऽप्येकनिशि कूपकञ्च ॥ पराविद्धं तद्विद्धान्तं वलितं घूर्णितं तथा ॥४४॥ ललितं दण्डपक्षं च भुजङ्गत्रस्तरचितम्॥ नूपुरं रेचितं चैव भ्रमरं चतुरं तथा॥४५॥ भुजङ्गाभिसमन्वयस्याच्छिन्नं वृश्चिकरेचितम् ॥ लतावृश्चिकमन्यत्स्याच्छिन्नं वृश्चिकरोचितम् ॥४६॥ वृश्चिकं व्यंसितं चैव सूचीविद्धकमेव च ॥ ललाटतिलकं चैव कुण्डलं चक्रसण्डलम् ॥४७॥ तरोमण्डलमाक्षिप्तं लतातालसितमार्गसम् ॥ विक्षिप्तं भ्रमितं चैव विलासं वानरष्टमम्॥४८॥परिवृत्तं निवृत्तं च पार्श्वक्रान्तं निकुञ्चितम् ॥ अतिक्रान्तममक्रान्तं दोलापादविवर्जितम् ॥४९॥ नागप्रक्रीडितं चैव विहृतं गरुडप्लुतम् ॥ गण्डसूची परिवृत्तं पार्श्वजानुकमेव च ॥ ५० ॥ गृहावलोकितं लीनं विष्णुकान्तमजप्लुतम् ॥ आक्रान्तं मण्डितं चैव मयूरललितं नसम् ॥ ५१ ॥ स
रञ्जनं गायकानां निवेशनम् ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आतोद्यविधिनैकोनविंशोऽध्यायः ॥ १९ ॥ परस्याङ्गकृति- र्नाट्यं नाट्यज्ञैः कथितं नृप ॥ १ ॥ तस्य संस्कारकं नृत्तं भवेच्छोभाविर्वर्धनम् ॥ १ ॥ नृत्यं तु द्विविधं प्रोक्तं नाट्यलास्याश्रयं सदा ॥ २॥ द्वैविध्यं द्विवि- धस्यापि पुनरुक्तं नराधिप ॥ २ ॥ अभ्यन्तरश्च बाह्यं च बाह्यं लक्षणवर्जितम् ॥ ३॥ अभ्यन्तरं लक्षणवन्मङ्गल्यं तत्प्रयोगतः ॥ ३ ॥ लास्यं स्वच्छन्दतः कार्यं मण्डपे यदि वा बहिः ॥ नाट्यं मण्डप एव स्यान्मण्डपं द्विविधं भवेत् ॥ ४ ॥ आयतं चतुरस्रं तु द्वात्रिंशद्धस्तसम्मितम् ॥ चतुरस्रं न कर्तव्यमायतं द्विगुणायतम् ॥ ५॥ हीनाधिकं न कर्तव्यं दृष्टादृष्टशुभप्रदम् ॥ हीने भवति सम्मर्दो विस्तीर्णे नाट्यगोपयोः ॥ ६ ॥ व्यक्तिर्नैवोपपद्येत तस्मात्तत्तु परिवर्जयेत् ॥ आदावेव तु कर्तव्यं विदुषाणां तु पूजनम् ॥ ७ ॥ पूजनं जर्जरस्यापि वासुदेवप्रपूजनम् ॥ एवं कृत्वा ततो नाट्यं नान्दीपूर्वकमिष्यते ॥ ८ ॥ ततो जवनिकाक्षेपैः प्रतिपात्रप्रवेशनम् ॥ प्रवेशानिर्गमौ कार्यौ कृत्वा कार्यस्य सूचनम् ॥ ९ ॥ पुण्याह- लिर्मृदङ्गश्च नाट्यान्ते वास्तुपूजनम् ॥ पाठ्ये गीते समानासक्तः पात्रतुल्यः परिक्रमः ॥१०॥ चतुष्कलो नायकानां मध्यानां त्रिकलो भवेत् ॥ द्विकलोऽधमानां स्यात्सव्यं नृपकर्मणि ॥ ११ ॥ एकाधिकेन सर्वेषां कर्तव्यं कार्ययोगतः ॥ देवा धीरोद्धता ज्ञेया उद्धता दानवादयः ॥ १२ ॥ नृपाश्च धीरललिता धीरास्तदुपजीविनः ॥ प्रशान्तधीरा ऋषयः प्रशान्तास्तत्पदाऽनुगाः ॥ १३ ॥ धीरोदात्तास्तथा विप्रा उदात्ता वणिजो मताः ॥ एवंविधाश्च कथिता एतेषामेव योगतः ॥ १४ ॥ आद्यैः सात्त्विकैश्चैव यान्त्रिकौशिक एव च ॥ चतुष्षट्करोऽभिनयः कर्तव्यो नाट्यकर्मणि ॥ १५ ॥ आहार्य्यः प्रतिशीर्षाङ्गिकृतो वेश उच्यते ॥ धीरोदात्तानां वेशः स्यात् चातुर्य्यसमुत्थणः ॥ १६ ॥ उद्धतश्चोद्धतानां स्याद्राज्ञो ललित इष्यते ॥ प्रतिनायकवेशस्तु कर्तव्यश्च तथोद्धतः ॥ १७ ॥ अन्येषां सदृशो वेशो देशकर्माऽऽश्रयो भवेत् ॥ अथाङ्गश्च कर्तव्यः श्मश्रुकेशादिभिः समाः ॥ १८ ॥ अतः परं प्रवक्ष्यामि सात्त्विकाभिनयं तव ॥ अश्रुप्रपातरोमाञ्चस्वेदनं स्पन्दनं तथा ॥ १९॥ तथा च वर्णविन्यासः सात्त्विकाभिनयो स्मृता ॥ १८ ॥ अथाङ्गिको वाचया प्रोक्तो वक्ष्याम्याङ्गिकमुत्तरे ॥२०॥ नाट्यनृत्तं तु कर्तव्यं हर्षस्थाने सदा बहु ॥ शोकस्थाने न कर्तव्यं किञ्चिद्वा कारयेत्ततः ॥२१॥ चतुर्धा रेचकं प्रोक्तं कटिपादाङ्गिकन्धरम् ॥ चार्याकाश्या महाचारी चारी च द्विविधा मता ॥ २२ ॥ सुकुमाराङ्गवाक्यैश्च चारी भवति यादव ॥ एतैरभ्यासैर्ज्ञेया महाचारी नरेश्वर ॥ २३ ॥ मण्डलानि दशैवाऽस्य चारिसंयोगजानि तु ॥ अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम्॥ ॥ २४ ॥ सूचीविद्धं दण्डपादं विक्रान्तालतसंज्ञिते ॥ वामबद्धं सुललितं कान्तं चाकाशगानि तु ॥ २५ ॥ मण्डलानि दशान्यानि शृणु भौमानि
वि० ध० ॥३१५॥ तृ० खं० अ० १९ ॥३१६॥
करुणे निषादगान्धारौ । बीभत्सभयानकयोर्धैवतम् । शान्ते मध्यमम् । तथा लयाः हास्यशृङ्गारयोर्मध्यमा । बीभत्सभयानकयोर्विलम्बितः । वीररौद्राद्भुतेषु द्रुतः । मोक्षाभियोगः स्वराराधने रूपकेषु प्रकारानुगतः मनुष्यव्यपदेशेन ते भवन्ति। भवन्ति चात्र श्लोकाः ॥ ग्रहोंशास्तारमन्द्रे च न्यासोपन्यास एव चा। अल्पत्वं च बहुत्वं च षाडवौडविते तथा॥एवमेव बुधैर्ज्ञेया जातयो दशलक्षणाः॥अलङ्काराश्च चत्वारो भवन्ति वसुधाधिप ॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नश्चाद्यन्त एव च ॥ प्रसन्नमध्यश्च तथा क्रमणैवं विनिर्दिशेत् ॥ उपरान्तकसूह्नोऽथ मन्द्रकः मकरी तथा ॥ उवेणकं सरोबिन्दुस्सप्तमं गीतकानि तु ॥ ऋग्गाथा पाणिका देशेविहिता ब्रह्मगीतिका॥गीतमेतत्तदाभ्यासः कारणञ्चापवर्गसञ्ज्ञः ॥ संक्षेपेण मया प्रोक्तं सुराराधनकारणात् ॥ गीतेनो यदि गीतेन नाप्नोति परमं पदम् ॥ देवस्यानुचरो भूत्वा तेनैव सह मोदते ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० गीतलक्षणो नामाष्टादशोऽध्यायः ॥ १८ ॥ मार्कण्डेय उवाच ॥ अथातोवाद्यविधानम् ॥ चतुर्विधमतोद्यं ततं सुषिरं घनमवनद्धं च । ततं वीणादि, सुषिरं वंशादि, घनं तालादि, अवनद्धं मुरजादि, तत्र स्वरास्तुल्याः शारीरा वैणवाश्च । तद्देशाः किन्तु यथा शरीरगणामारोहावरोहणे तथा वेणुवाणां वंशानां विपर्ययात् तालाः कालप्रयोज्यः । पञ्चलक्षणशारण्याकल्यमाद्यास्तित्सो धृतयः । चित्रा वृत्तिर्दक्षिणा द्विधा । मात्रार्कलाचित्रे चतुर्मात्रावृत्तौ अष्टमात्रा दक्षिणाया । अष्टमात्रादक्षिणे अवश्या निष्क्रयो विक्षेपः प्रवेशः शम्पतातभेदः । संनिपातभेदः । कलासमूहोयुक्तः । चतुस्स्यः अयुक्तः संयटपुट्लः ध्रुतान्तः पश्चपाणिः स इति तादृशा यथाशरस्यः । तत्र लयाः द्रुतमध्यविलम्बिताः । लघवस्तालाः । प्रकरणद्विविधम् । कुलकं च्छेदकञ्च । अथावनद्धं तत्र पौष्करवतकण्णान्वितं करूणान्वितम । तत्र षोडशाक्षराणि क ख ग घ ट ठ ड ण त थ द ध न् र ल् ह् व् इति, तत्र कटस्थशङ्गादिसिणसुखे, प्रथमा वामे, गङ्करा मूर्द्धिः टण्लता आलिङ्गे अथाउए३ओ अइ च ओ यथायोगं स्वगथानां रेफेण योगः । कक्ष्मदानां पलथ्वः । समस्तसंनिपातादाङ्गलीप्रभवश्लोर्ध्वावमेकयोः समस्तसंनिपातप्रदर्शिनी तद्वद् द्वह्वानों योगः समापाण्यर्धपाणिपूर्वादिपाणिरूपपाणिः द्विकस्तमदेशिनीप्रणीतानि समापाणिप्रह्रतोपकाराः ध्यणडाउअव्यर्धपाणौ कथ्यकारा । अध्यर्धपाणौ ण्णलहहनाह्निद्वहस्तेन तलव्यदेशिनीप्रह्रतोऽहितितस्तलितगोसुवीमार्गाः शूद्धरहासय्यगोरडितः । वीररौद्राद्भुतेषु वितस्तः करूणशान्तयोश्चारिणतः । बीभत्सभयानकयोर्गोसुखद्दर्भपणवाश्चहुङ्कारानुगमं भवति । भवन्ति चात्र नेपथ्यबन्धनराससमानमङ्गलिबीक्षणम् । मुरजाः पृष्ठतस्तेषां तदन्मार्जनिका भवेत् ॥ गान्धतस्तस्य विज्ञेयो दर्दुरः पणवास्तथा ॥ उत्तरामिसुखो गाता तथा दक्षिणतो भवेत् ॥ वामतो गैरिकातस्य दक्षिणे वंशादको ॥ गातुर्वाममियु-
प्रतिमुखं नृप ॥ ५४ ॥ औदार्यं सत्पथे शौर्यं नायकस्तु न संत्यजेत् ॥ नायिकापि तथा राजन्त्येवमष्टा प्रतिनायकाः ॥ ५५ ॥ अतः परं प्रवक्ष्यामि नायिकाष्टकलक्षणम् ॥ निजापराधत्वाद्गेहे वाससज्जा तु नायिका ॥ ५६ ॥ विरहोत्कण्ठिता सैव या त्वनागतनायिका ॥ स्वाधीन- भर्तृका प्रोक्ता या स्यात्स्वाधीनभर्तृका ॥ ५७ ॥ कलहान्तरिता प्रोक्ता कलहादन्तनायिका ॥ खण्डिता या च न स्याद्यैतेति प्रगोपितम् ॥ ५८ ॥ विप्रलब्धा तु सा ज्ञेया संकेते कानतावंचिता ॥ प्रवासगतकान्ता तु तथा प्रोषितभर्तृका ॥ ५९ ॥ एतासाञ्चाभिसारिकारूपाल्लीलाभिवन्द्यनं यनम् ॥ नाटकादिषु रूपेषु कर्तव्यं द्वादशस्वपि ॥ ६० ॥ शृङ्गारहास्यकरुणवीरोद्रौभयानकाः ॥ बीभत्साद्भुतशान्ताख्या नव नाट्यरसाः स्मृताः ॥६१॥ बन्धो रसाङ्गः कार्यः सर्व्वेस्वेषु यत्नतः ॥ रसभावनसंवैतत्सर्व्वनाट्यं नराधिपः ॥ ६२ ॥ एते कलाकौशलशौलयुक्ताः कार्यस्तथा लोक- विधानयुक्ताः ॥ धर्मार्थकामाह्युपदेशभाञ्च हिताय लोकस्य नरेन्द्रचन्द्र ॥ ६३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयव- ज्रसंवादे द्वादशद्रूपकवर्णनो नाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ अथ गीतलक्षणं भवति तस्य त्रीणि स्थानानि उरः कण्ठः शिरश्च, तेभ्यो मन्दमध्यतारोत्पत्तिः । त्रयो ग्रामाः । षड्जमध्यमगांधाराः । सप्त स्वराः । षड्जर्षभ गान्धारमध्यमपञ्चमधैवतनिषादचेवताः एकत्रिशतिर्मूर्च्छनाः सप्त सप्त प्रतिग्राममाश्रिताः । तद्यथासां नामानि सौवीरी हारिणाश्वा कलोप- नता शुद्धमद्यमा मार्गौ पौरवी हृष्यका चेति ॥ एताः सप्त मध्यमग्रामिण्यः उत्तरासङ्गाः । प्रथिनी उत्तरायता शुद्धषड्जमत्सरीकृता अश्वक्रान्ता उद्गता च एताः सप्त षड्जग्रामिकाः । आलापी कुनितमा श्रुदा उत्तरा षड्जा पञ्चावता.............एताः सप्त गान्धारग्रामिकाः । अथैकोनपञ्चाशत्तानाः । अग्निष्टोमिकः अत्यग्निष्टोमिकः पौण्डरीकः आश्वमेधिकः राजसूयिकः बहुसुवर्णिकः गोसविकः महाव्रतिकः ब्रह्म तानः प्राजापत्यः नागयज्ञयः युद्धायज्ञयः गोदानिकः हयक्रान्तः अजक्रान्तः विष्णुकक्रान्तः अश्वरथः मस्तकोत्किलः उज्जैविकश्चेति एते विंशतिर्म- ध्यमग्रामिकाः । प्रस्थापनं वैशाखः जीवनः सावित्रः अर्धसावित्रः सर्वतोभद्रः सुवर्णः विष्णुः जिष्णुर्विष्णुवरः शारदः विजयः हंसः ज्येष्ठ इति एते चतुर्दश षड्जग्रामिकाः । तुम्बरुप्रियः महालक्ष्यणः गन्धर्वामृतः अलम्बुसप्रियः नारदप्रियः भीमसेनप्रियः वितानः मातङ्गः मार्गवप्रियः अतिरामः सैनान्त्यः किन्नरप्रियः पुण्यः मनोहरः कल्याणकरश्चेति एते पञ्चदश गान्धारग्राम्याश्रिताः एतञ्चतूर्विधं स्वरपदलयवाद्यतानयोगात् । मूर्च्छनस्थानदिमध्यगते वाडिसंवाद्यन्वयादिसंज्ञातो वृत्तम् । पूर्वोक्ताश्च नव रसाः तत्र हास्यशृङ्गारयोर्मध्यमपञ्चमौ । वीररौद्राद्भुतेषु षड्जपञ्चमौ ।
वि० च०
॥ ३१४ ॥
द० सं०
अ० १७
॥३१४॥
लिङ्गिभ्योऽभिमुखोऽजम् ॥ द्विजन्मनां सुराणां च दैत्यदानववेश्मनाम् ॥ ३० ॥ नायिकाकादस्रमाणां व्यञ्जलिर्द्रवतो तथा ॥ विदूषकाणां च
ऽवत्स्यानुकृतं वचनं नृप ॥ ३१ ॥ बालस्त्रीनीचषण्ढानां ये चान्ये नाटकादिताः ॥ तेषां वाक्यप्रचारं तन्न ज्ञात्वा प्रयोजयेत् ॥ ३२ ॥
स्वयुक्तानुत्कीर्तानां मे नाममात्रं शृणु लक्षणम् ॥ शर्म वर्मथनान्त्यन्ते वर्णानां दासवतथा ॥ ३३ ॥ राज्ञां विक्रमसंयुक्तममात्यानां तथा भवेत् ॥
स्त्रीणां सुखोदययुक्तं नायिकानां मनोहरम् ॥ ३४ ॥ राज्ञोपरिजनस्त्रीणां कल्लाकोरलतासंयुतम् ॥ राज्ञः परिजनस्त्रीणां
विजयोत्तारसंयुक्त्यत् ॥ ३५ ॥ सांवत्सराणां माङ्गल्यं शान्तिगर्भं पुरोधसाम् ॥ शूरयाधममात्यानामायुष्यं भिषजामपि ॥ ३६ ॥
विटानां युष्माभ्यय दर्शनीनं कुसुमादिकम् ॥ ३८ ॥ ॠषिणामाश्रयो कार्यों कञ्चुकीयाविदूषकौ ॥ ३७ ॥ दूता विप्रा तथा सेना वेश्या नाम ततो भवेत् ॥
आर्त्याभगराङ्गुकपाणि तथा देवोनिकारिणाम् ॥ ३८ ॥ अतः परं प्रवक्ष्यामि येन वाच्यस्तु यो यथा ॥ देवेति राजा वक्तव्यो भृत्यैः प्रहृति
भिरतथा ॥ ३९ ॥ राज्ञेति विषवेक्तव्यो ॠषिभिर्निसगोत्रतः ॥ अपत्यप्रत्ययग्राह्यैवयस्येति समो जनः ॥ ४० ॥ विदूषकोऽपि वक्तव्यो वयस्य
इति नायकैः ॥ आयुष्मन्निति सूतेन रथी वाच्यस्तथा भवत ॥४१॥ भगवन्निति वक्तव्या ऋषयो गुरवः सुराः ॥ पुत्र वत्सेति शिष्यस्य तथा वा
नामगोत्रतः ॥ ४२ ॥ आयुष्मन्निति वक्तव्यः दिष्या भर्ता नराधिप ॥ नाम्ना भार्या तु वक्तव्या राज्ञी देवीति नायिका ॥ ४३ ॥ पिता तातस्त
था वाच्यो मातृभिश्चोक्तः पिता ॥ युवराजः कुमारः स्यान्मान्यो भावः समीरितः ॥ ४४ ॥ मान्यमानस्तथा भार्यो भर्तृदारः कुमार्कः ॥
हल्लेते तु समानां स्त्री वक्तव्या समया तथा ॥ ४५ ॥ आर्येति ब्राह्मणी वाच्या शेषा लिङ्गार्धतस्तथा ॥ अन्तःपुरचरो यस्तु सौधभागोपरिव्र
जिताः ॥ ४७ ॥ स तु वर्षधरो ज्ञेयस्तदध्यक्षस्तु कञ्चुकीः ॥ ब्राह्मणः स भवेद् वृद्धो मान्यश्च बहुवाग्विषः ॥ ४८ ॥ विद्वेष
को ब्राह्मणः स्याद्धर्मवाक्यस्य रहस्यवित् ॥ नटः प्रधानः स भवेत्सत्रधारो नराधिप ॥ ४९ ॥ ज्ञेया बीजसमुत्पत्तिर्मुखे नाना
रसोद्भवः ॥ मुखेन्वेषबीजोद्घाटनं तथा प्रतिमुखं स्मृतम् ॥ ५० ॥ प्राप्याशाप्रतियत्नो गर्भस्तत्स्योद्भेदर्शदर्शितः ॥ तदेवोद्देशबीजोत्थायो विसर्गों
व्यसनान्वितः ॥ ५१ ॥ मुखादीनां निवेहणं तथा निर्वहंतं भवेत् ॥ नाटके समकरणे कर्तव्याः पात्रसन्धयः ॥ ५२ ॥ डिमे समवकारे च वि
सर्गं नैव कारयेत् ॥ व्यायोगेहामृगो काव्यो तथा संथिवीजीतो ॥ ५३ ॥ उत्सृष्टाङ्के प्रहसनं वीथी भाणकमेव च ॥ एतेषां नावकर्तव्यं तथा
उपोद्घातप्रदौ च तथा संहार एव च ॥ २ ॥ चतुष्पादं हि कथितं पुराणं भृगुनन्दन ॥ ३ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ वंशानु- चरितं चैव पुराणं पञ्चलक्षणम् ॥ ४ ॥ तत्र वा विदितं सर्वं त्रैलोक्ये गीतलक्षणम् ॥ वृत्तस्य लक्षणं चैव नाटिकाख्यानलक्षणम् ॥ ५ ॥ तस्मादहं त्वां पृच्छामि द्विज नाट्यस्य लक्षणम् ॥ सम्भेदं तन्ममाचक्ष्व सर्वज्ञोऽसि यतः प्रभो ॥६॥ मार्कण्डेय उवाच ॥ इतिहासानुसारेण पुराणा- नां समीक्षितम् ॥ चरिते त्रिदशानां वा नाटकं तत्र कीर्त्तितम् ॥७॥ पञ्चाननगैकसंयुक्तं नायकख्यातनायकैः ॥ संयुक्तमथ वा कार्यः काव्ये वै तत्र नायकः ॥८॥ सर्वास्तु वृत्तयस्तत्र तत्र सर्वे तथा रसाः ॥ कालप्रयोगं च तथा वृत्तस्य संदर्शनंनृप ॥९॥ पञ्चावसादकं तत्रोक्तं तथाऽष्टपरं शुभम् ॥ एकद्वे- यत्तिकं वृतमङ्के राजन्युद्धेष्विष्यते ॥ १० ॥ तदन्ते सर्वपात्राणां निष्क्रमश्च विधीयते ॥ युक्त्युपन्याससंयुक्तं तथा निष्क्रमणं मतम् ॥११॥ मरणं राज्यविभ्रंशो नगरस्योपरोधनम् ॥ एतानि दृश्येऽङ्के तथा युद्धं च पार्थिव ॥ १२ ॥ प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः ॥ पात्रद्वयेन कर्तव्यं तथा नित्यं प्रवेशकम् ॥ १३ ॥ पात्रे परिजने तत्र कर्तव्यं नायकेन तु ॥ मित्रे पात्रद्वयं यत्र तत्र विष्कम्भकं स्मृतम् ॥१४॥ तयोरन्ते तु कर्तव्या तथा रङ्गस्य शून्यता ॥ अङ्कान्ते च तथा कार्या न कार्या सन्धथा भवेत् ॥ १५ ॥ बहुदैवतिके वृत्ते कर्तव्यं तु प्रवेशकम् ॥ संक्षेपोक्तिश्च कर्तव्या कर्तव्यो नहि विस्तरः ॥ १६ ॥ प्रख्यात्तनायकवधं न च तत्र प्रवेशयेत्॥ तस्य प्रकारनं कार्यमङ्केष्वेव नराधिप ॥ १७ ॥ नायकाभ्युदयः कार्यो नाटकान्ते तथैव च ॥ बह्व्योऽपि नायिका यत्र तत्रासामपि तथा भवेत् ॥ १८ ॥ एवंविधा सङ्करा चतुरङ्गा नादिका ॥ कृते प्रकरणं तद्वत्सर्ववृत्तमुपाद्य वस्तुना ॥ १९ ॥ ब्राह्मणो नायकस्तत्र वणिक्त्व नृपसत्तम ॥ एवं प्रकरणी कार्या चतुरङ्गापि सा भवेत् ॥ २० ॥ इतिहासानुसञ्ज- न्थो वा स्वयमुत्पाद्य वा कृतः ॥ भारतीकरुणप्रायो निवृत्तं समनन्तरम् ॥ २१ ॥ चतुरङ्गोऽङ्कः कर्तव्यो दिव्यनायकवर्त्तितः ॥ इतिहासानुसारेण प्राणश्चैकाहिकैः स्मृतः ॥ २२ ॥ एकांको युद्धबहलस्त्वात्मसंशपरास्तथा ॥ आकाशकथनैर्युक्तस्त्वेकपात्रेतत्क्रियः ॥ २३ ॥ प्रोक्तः समवतारो- ऽप्यसिद्धराशुरसनायकः ॥ त्रिप्रकारैर्बकपटस्तथा द्वादशनायकः ॥ २४ ॥ ईहामृगोऽथ बह्वङ्गस्तथा गन्धर्बनायकः ॥ शृङ्गारबहुलः कार्योऽतस्त- द्योनिगसाध्यवः ॥ २५ ॥ एकांहिको हतरसो व्यायोगश्चैकनायकः ॥ वीथी त्रयोदशाङ्गा स्यान्रथा नायकवर्जिता ॥२६ ॥ डिमाख्यश्च तथाप्रोक्तो रसस्तु सुरनायकः ॥ तथा रौद्ररसप्रायः प्रख्यातेविषयान्वितः ॥ २७ ॥ एकाङ्गो हास्यबहुलस्तथैवोदात्तनायकः ॥ कार्यः प्रहसनारव्यस्तु वेश्यावि- टसमन्वितः ॥ २८ ॥ सूत्रधारस्य वाक्येन काव्यवस्तुनिबन्धनम् ॥ सर्व प्रकारेणदादो सर्वेष्वेतेषु वस्तु यत ॥ २९ ॥ संस्कृतं नायकवचो
दुश्चेष्टंवाप्यथार्थमप्रसिद्धमथानवत् ॥ काव्यबन्धं न कर्तव्यं पुनरुक्तं च यद्भवेत् ॥ १० ॥ विस्मये वाप्यसूयायां भयशोकतरासु च ॥ हर्षे च वीप्सा कर्तव्या पुनरुक्तं न तद्विदुः ॥ ११ ॥ दूतवाक्ये तथा स्वप्ने कार्यस्यातो तयागते ॥ पुनर्वचननिर्देशे पुनरुक्तं न तद्विदुः ॥ १२ ॥ ससंशयं न वक्तव्यं प्रतिज्ञातं हितं तथा ॥ पूर्वापरविरुद्धं च यच्च लोकविगर्हितम् ॥ १३ ॥ शृङ्गारहास्यकरुणरौद्रवीरे भयानकेः ॥ बीभत्साद्भुतशान्तान्ये रसैः काव्यं समन्वितम् ॥ १४ ॥ काव्यं कलाकौशलोरसंप्रयुक्तं धर्मेण चार्थेन तथोपपन्नम् ॥ धर्मेण युक्तस्य च नायकस्य काव्यं तथा चाभ्युदयान्व- मेव ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाकाव्यलक्षणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ॥ मार्कण्डेय उवाच॥ काव्ये येऽभिहिता दोषाः केचिद्देयाः प्रहेलिकाः ॥ कर्तव्यैषा तथैवान्यास्तासां वक्ष्यामि लक्षणम् ॥ १ ॥ श्लोकेनैकेन वा द्वाभ्यां कर्तव्या तु नरोत्तम ॥ न कर्तव्यैषा तु राजन्बहुश्लोकनिबन्धना ॥ २ ॥ तस्यां मात्रार्थशब्दार्थौ गोप्येते सा समागता ॥ पर्यायवचनैश्चान्या वन्दिता सा प्रकीर्त्तिता ॥ ३ ॥ वृत्तान्तगोपिकान्यास्यात्पदैरर्थावहिर्भवैत् ॥ अप्रसिद्धैस्तु पर्यायैर्दुःखिता नाम सा स्मृता ॥ ४ ॥ कल्पनारोगोपिलात्तैस्तु कथिता परिहासिका ॥ समानरूपतुल्यार्थौ शब्दैरन्यैः प्रकीर्तिता ॥ ५ ॥ दुर्बोधशब्दसम्बन्धा च परुषा नामतः स्मृता ॥ संख्यामात्रसमानत्वाद्संख्याताख्या तथोच्यते ॥ ६ ॥ अर्थान्तरान्विकल्पनया कल्पिता च तथोच्यते ॥ अन्यस्य संज्ञाव्यासामोहान्नाम्नान्तरिसंहिता ॥७॥ अर्थव्यमोहतः प्रोक्ता निभृता च महामृप ॥ ९ ॥ समानशब्दा कथिता तुल्यशब्दाभिगोपिते ॥ संकीर्णा सम्भवोपेता या तदर्धकरी भवेत् ॥ १० ॥ तदर्थकरी यत्रार्थैः ज्ञायतेऽन्या- र्थकारकः ॥ राजन्प्रणष्टदंष्ट्रास्या च कथिता व्यभिचारिणी ॥ ११ ॥ उक्तैरर्थे ह्यतन्बन्धेन माययौभिः स्थापिता तथा ॥ नष्टार्था वा च सा प्रोक्ता द्युतबन्धनिदर्शिता ॥ १२ ॥ नष्टाक्षरा तु कथिता विलोकेन तदर्थदा ॥ अन्यथाँता तथैवोक्ता वर्णभ्रंशा नरेश्वर ॥ १३ ॥ कालस्य रूपरूपाणां व्याख्यानेन तदर्थदा ॥ बीजमात्रेण लेशाख्या संसिपाल प्रकीर्तिता ॥ १४ ॥ अश्लीलमेतास्वपि नैव कार्यं तद्वर्ज्यमाहुः कवयो नरेन्द्र ॥ उद्वेजनीयं तु सतां तदुक्तमश्लीलमन्यं सुसदं न काव्यम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रहेलिकांलक्षणो नाम षोडशोऽध्यायः ॥ १६ ॥ ॥ वज्र उवाच ॥ ॥ मन्त्राः सब्राह्मणाः प्रोक्तास्तदर्थं ब्राह्मणं स्मृतम् ॥ कल्पना च तथा कल्पः कल्पश्च ब्राह्मणस्तथा ॥ १ ॥ कथितानि तथार्थानि पुराणं च तथा द्विज ॥ प्रक्रिया प्रथमः पादः कथावस्तुपरिश्रहः ॥ २ ॥
खण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे नपुंसकविधौ त्रयोदशोऽध्यायः ॥ १३ ॥ मार्कण्डेय उवाच ॥ एकैकस्य तु वर्णस्य विन्यासो यः पुनःपुनः ॥ अर्धगत्या तु संख्यातास्तद्भासं पुरातनैः ॥ १ ॥ अत्यर्थं तद्गतं राजन्ग्राम्यतामुपगच्छति ॥ शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ॥ २ ॥ आदौ मध्ये तथैवान्ते पादस्य तु तदिष्यते ॥ संदष्टकसमुद्गौ तथैव यमको मतौ ॥ ३ ॥ समस्तपादजंयमकं दुष्करं परिकीर्तितम् ॥ उपमानेन तुल्यत्वादुपमेयस्य रूपकम् ॥ ४ ॥ रूपकाभ्यधिकं नाम तदेवैकागुणाधिकम् ॥ गुणानां व्यतिरेकेण व्यतिरेकमुदाहृतम् ॥ ५ ॥ उपमानविरुद्धैश्च गुणैस्तदपरं मतम् ॥ द्व्यर्थैर् वाचकैः शब्दैः श्लेष इत्यभिधीयते ॥ ६ ॥ अन्यद्रूपस्य चार्धस्य कल्पना वाच्यया भवेत् ॥ उत्प्रेक्षाख्यो ह्यलङ्कारः कथितः स पुरातनैः ॥ ७ ॥ उपन्यासात्स्तथान्योः स्यात्प्रस्तुतार्थः क्वचिद्भवेत् ज्ञेयः सोर्थान्तरन्यासः पूर्वार्थानुगतो यदि ॥ ८ ॥ उपन्यासेन चान्यस्य यदन्यः परिकीर्त्यते ॥ उपन्यासम्बलङ्कारं तं नरेन्द्र प्रचक्षते ॥ ९ ॥ हेतुं विना वितततां प्राप्ता सा तु विभावना ॥ प्रोक्ता चातिशयोक्तिस्तु ह्येतद्रूपप्रसाधुभिः ॥ १० ॥ यथा स्वरूपकथनं स्वभावोक्तिः प्रकीर्तिता ॥ भूयसाञ्चापिधानानां निर्देशः क्रमगस्तथा ॥ ११ ॥ यथासंख्यमिति प्रोक्तमलङ्कारः पुरातनैः ॥ विशेषाणाम्बाहुल्ये विशेषोक्तिस्तथा नृप ॥ १२ ॥ या क्रिया चान्यफलदा विरोधात्तु स इष्यते ॥ स्तुतिरूपेण या निन्दा निन्दास्तुतिरितीष्यते ॥ १३ ॥ निन्दास्तुतिस्तथैवोत्क्ता निन्दारूपेण या स्तुतिः ॥ वस्तूनां सूक्ष्मभावेन दर्शनं तन्निदर्शनम् ॥ १४ ॥ विना तथा स्यादुपमा तु यत्र तेनैव तस्यैव भवेन्नृवीर ॥ अनन्वयाख्यं कथितं पुराणैरेताबदुक्तं तव लेशमात्रम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अलङ्काराध्यायो नाम चतुर्दशोऽ ध्यायः ॥ १४ ॥ मार्कण्डेय उवाच ॥ धर्मार्थकाममोक्षाणां शास्त्रं स्यादुपदेशकम् ॥ पूर्वेषां चरिते सार्द्धं धर्मकामार्थसाधकम् ॥ १ ॥ मोक्षस्य चोपपन्न्यास इतिहासः स उच्यते ॥ तदेव काव्यमित्युक्तं चोपदेशं विना कृतम् ॥ २ ॥ एकस्य चरितेनैव तथा काव्यं प्रकीर्तितम् ॥ निबद्धो यत्र राजेन्द्र नायकप्रतिनायकौ ॥ ३ ॥ प्रयाणोपेतसंरोधयुद्धैर्युक्तं तदेव तु ॥ नायकस्याभ्युदयोपेतं महाकाव्यं तदिष्यते ॥ ४ ॥ वर्णयेन् महाकाव्ये देशपत्तणपा र्थिवान् ॥ ऋत्वादीन्दिनसंन्ध्याश्च तथा नारीश्च पार्थिव ॥ ५ ॥ वर्णनीयो नथेवान्नायकःप्रतिनायको ॥ नायको धर्मविजयी सताम्पन्थानमाश्रितः॥ ६॥ तथा च लोकविजयी विज्ञेयः प्रतिनायकः ॥ प्रतिनायकबधातस्तु वक्तव्यो नेतरस्य तु ॥ ७ ॥ नायकस्य महाराज मरणं नैव वर्णयेत ॥ सशरी रस्य यस्य स्यात्स्वंर्गप्राप्तिरितस्तस्य वर्णयेत् ॥ ८ ॥ छन्दोविरहितं गद्यं शब्दशास्त्रविरोधि च ॥ कथाक्षेपदन्याससमश्लेषलक्षणान्वितम् ॥ ९॥ तस्या
५३
वि० ध० ॥३१२॥
तृ०खं० अ० १३ ॥३१२॥
रपि ॥ ६ ॥ पुत्रपर्याय शब्दाश्च पितृपर्यायसंयुताः ॥ कण्ठनालोस्तथा संज्ञाः स्तनकेशरदस्य च ॥६॥ गुल्फनामानि कर्णेश्च द्रुहः प्रग्नो विधि र्निधिः ॥ कपोलनामानि तथा निर्यासौकुकणैक्ययः ॥ ७ ॥ कलिर्विन्दो घटो जूटः पटः पायुः कुरोऽङ्कुशः ॥ बिन्दुः स्वरः कुठारश्च पण शाणौ च पर्पटः ॥ ८ ॥ वटो बन्धः पुटो मृत्युर्मन्युः शोषः किणः फणः ॥ गुणोद्रुणो गणः पथ्या अश्वाड्डः पूग एव च ॥९॥ कमण्डलुः प्लवो ङ्गुष्ठ गण्डः स्थूलश्च कङ्कटः ॥ प्रस्थः शङ्को र्थ्यश्वश्च रसो वर्गस्तथो बुधः ॥ १० ॥ यवो माषस्तथा शब्दः स्पर्शो गन्धः शठो वणिक् ॥ करीषस्त रलो मंद्रो रथो मण्डप एव च ॥ ११ ॥ नक्तो तूपस्थैव ससुढौ लोक एव च ॥ कार्षापण्यः कोणमूसलौ ऊमूलः शूर्पदुर्दरौ ॥ १२ ॥ पञ्च पिण्याकऋपर्ण्यश्च वातण्डण्डकुरोङ्कुशाः ॥ १२ ॥ कुणपः ग्रैवेयश्चौ व कुन्तदण्डर्णवण्णुकाः ॥ ध्वजो वंशस्तथा वेणुः क्रिमिकल्किपिकंदराः ॥ १३ ॥ पुस्तकश्चाश्ववो द्रौहेरम्बुदौशन एव च ॥ १४ ॥ स्तंभः पशूर्मेदामिनदण्डकुम्भाः कटायुधस्तकबोकाः सफेनाः ॥ नितम्बषण्डेषु सुपर्णपुष्पाः पुंसि स्मृता यादववंशमुख्य ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽभिधानकोशे पुंल्लिङ्गनिर्देशो नाम द्वादशो ध्यायः ॥ १२ ॥ मार्कण्डेय उवाच ॥ अन्त्यलिङ्गेऽथ वर्तन्ते ये शब्दा नृपसत्तम ॥ तानहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥ १ ॥ जलनामानि सर्वाणि विनापो यदुसत्तम भ्रान्ताश्च पूर्वे येनोक्तास्ते शब्दा लोचनवाचकाः ॥ २ ॥ दृग्भो नान्तास्तथा ये च नोक्तास्ते यदुसत्तम ॥ असृग्वनं धनं सर्वं जरसोऽन्यच्च यादव ॥ ३ ॥ नपुंसके च वर्तन्ते शब्दा लोहनामभानि यानि च ॥ अहर्निशं शकृत्सास्थि धनुः शोणितदारुणी ॥४॥ क्षीरं विषासृक् दधि च सक्थि वा गूदजानीक्षणा॥५॥ श्मश्रुश्चक्रं कुलं पर्णं लोहनामानि यानि च ॥ गगनं वनमाकाशं सुखदुःखपदानि च ॥ कूपबीजेऽथ पल्ललं तरपद्म षण्ढं फलमूलमलानि च ॥ पुरं मधु खलं नालं चीवरं चीवरमम्बरम् ॥७॥ फलन्द्वन्द्राक्षराणि च ॥ ९ ॥ धान्यश्मशानरत्नोग्रद्वयत्नयुगानि च ॥ शवानि चा॥८॥निमित्तितीक्ष्णोपशितप्रमुञ्चमस्यानि चातोर्यपञ्चरवेलानि फलितं विषम् ॥ श्मशानं मिथुनं तत्त्वं क्लिबिषं विद्दलं हिमम् ॥११॥ गोपपत्तनसन्ध्यार्घमङ्गलद्युध्वनानि च ॥ १० ॥ नगरं हरितालं च तिमिरं पङ्किकं युगलं कूटं कपालं शूलहेमरे ॥ पातालं विवरं वृन्दं कुतूहलं शौष्ठ शरावं शिखरं पलम् ॥ वृतं च सुकृतं पुण्यं मलमंशुुकमेव च ॥ १२ ॥ इंद्रियं च तुङ्गिनं द्रगमस्पदम् ॥ १४ ॥ राष्ट्रं तलं रन्ध्रं छिद्रमाकाशमेव च ॥ १३ ॥ तृणं शुत्रमिमं चैव कुङ्कुमं शुष्कचीवरम् ॥ मृणालमजिनेः खङ्गं वहिनं नद्यां नपुंसके स्यात् ॥१५॥ इति श्रीविष्णुधर्मोत्तरे तृतीय किट्कफ तथाऽयुः स्थूलं स्खलीनं प्लक्षं पलायम् ॥ काष्ट रणं पार्श्वकुन्दरं च सन्देहेके चैव नपुंसके स्यात् ॥१५॥ इति श्रीविष्णुधर्मोत्तरे तृतीय
तस्यैव गृहकृत्यस्तु स पुरोहित इष्यते ॥ २७॥ अमात्यश्च स्मृतो मन्त्री देशो निश्चय उच्यते ॥ राजा नरेन्द्रो नृपतिस्तथैव सिंहासनं तस्य तथा सनं स्यात ॥ क्षत्ता प्रतीहार इति प्रदिष्टस्सङ्घस्तदण्डः कथितं तु वेत्रम् ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधान कोशे चण्डालादिपर्य्यायवर्णनो नाम दशमोऽध्यायः ॥ १० ॥ मार्कण्डेय उवाच ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा मतिः पुष्टिः सरस्वती ॥ स्मृतिः श्रद्धा रतिश्चैव धृतिर्नीतिः स्थितिः श्रुतिः ॥ १ ॥ रात्रिः प्रभा क्षपा दीप्तिः शाला माला निशा स्पृहा ॥ दोला हेला तथा लीला भामिनी हृद्गुहाक्षुरा ॥ २ ॥ यात्रा भक्षा धृतिर्मात्रा दृशु सेना वचा तथा ॥ झटिः खोरी दया ज्योत्स्ना सीमा वेणुस्तथैव वाक् ॥ ३ ॥ तद्युक्तिः शलाका च ग्रीवा भ्रूश्च शतस्थाल्यदः प्रावृट् चाचमनी स्थूणा चूडा सिरा वसा ॥ ४ ॥ कक्ष्या सक्ता सुरा जंघा जटा घण्टा कशा तथा ॥ विद्युत्कक्षा- सारिङ्गीरिणिका रञ्जनिष्टिका ॥ ५ ॥ दिग्भूमिर्मिही क्षोणी क्ष्मा दैव वसुन्धरा ॥ छाया चस्र्द्धिका च तथा विद्युत्पित्सारित ॥ ६ ॥ इरा सम्पद्द्वा पञ्च लोला वेला तला शिला ॥ कङ्का च मेखला ज्वाला सेना दुर्द्वली समा ॥ ७ ॥ जया च म्लानिसंस्था हानिः शाटी स्वाहा तथैव गीः ॥ धीर्द्धिद्युः क्षमा बुद्धिः क्षुत्समशीः सवाङ्किका॥ ८ ॥ विशितेर्नवितविस्कोऽटस्वदिरोधधरा ॥ माया च शष्कुली जिह्वा घटोत्का स्वसुरेव च ॥ ९ ॥ लेखा जरा तथा पङ्किश्चेता प्राडुरोचका ॥ लाक्षा कृच्छ्रः प्रियङ्गुश्च माण्डका कटिरोषधिः ॥ १० ॥ ऋक्स्फुलिङ्गा कलिः शय्या कोटिः कन्या च नालिका ॥ निःश्रेणिः पूतना दीप्तिर्निद्रा तन्द्रा गुहा रुचिः ॥ ११ ॥ सान्ना दृशा तथा वीथी नीतिर्धारा तथा कृषिः ॥ मञ्जूषा पर्पटीचैव पताका काकिनी कृपा ॥ १२ ॥ पेला चैव समाजिह्वा मेरी नेमिनर्नःशिला ॥ दूर्वा स्थली सभा वीचिः स्थली चैव समञ्जसी ॥ १३ ॥ बह्वी मन्दुरा लाक्षा सूची चाविपणी शमी ॥ मक्षिका विकृतिर्यूका शिखा शास्त्रा तथारटवी ॥ १४ ॥ स्त्रीप्रत्यस्ते कथिता मयेते शब्दाः समा सस्यव्यसन राजन् ॥ इदं तमानन्त्यमुरोति सर्वं स्त्रीवाचकं शब्दसुरानित धीराः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अभिधानकोशे स्त्रीलिङ्गनिर्देशो नामैकादशोऽध्यायः ॥ ११ ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि चतुर्वर्णविवर्धन ॥ तव पुंवाचकाञ्छब्दान्शृणु तान्वदतो मम ॥ १ ॥ राजा हुतासस्तूसूर्य्या वायुश्चैवार्थसम्परूणः ॥ मन्ना प्लीहा च कथिता नाताबस्काः पुम- र्थकाः ॥ २ ॥ वृत्रः पुत्रस्तथा मन्त्रस्तथैवामन्त्र इष्यते ॥ पुंसि राशिर्मुर्द्धश्च मासः पञ्चोऽन्वत्सरो ॥ ३ ॥ ऋतुः कालो गिरिः शैलः शिलोच्च- यन्नगाचलाः ॥ सुरासुराणां संज्ञाश्च ग्राह्य. मोक्ता महोदधैः ॥ ४ ॥ संवत्सरश्च दिवसो ग्रहो वासर एव च ॥ पर्यायः पङ्कशय्योरितिनिश्चयो|
शीकराम्बुसमवस्थाश्च तुषारस्तूहिनं हिमम् ॥ विद्युत्सौदामनी लोला चञ्चला च शतह्रदा ॥ २० ॥ समुद्राश्चाम्बुनिधयः सागरा लवणोदकाः ॥ नद्यः कुटिलगामिन्यो निम्नगाः सरितस्तथा ॥ २१ ॥ गङ्गाविष्णुपदी प्रोक्ता जाह्नवी त्रिदशा तथा ॥ कालिन्दी यमुना प्रोक्ता रेवा प्रोक्ता च नर्मदा ॥ विपशा च सनन्दाख्या शतद्रुः शौरिसंज्ञिका ॥ २२ ॥ उद्भिदास्तथा सुराः प्रोक्ता यानि चोक्तानि तथोन्द्रियाणि ॥ वाणी तथोक्ता च सरस्वती च सनत्सुतोक्ते नृप चन्द्रसंज्ञम् ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशो नाम नवमो- ऽध्यायः ॥ ९ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ मनुष्यो मनुजश्चैव पुरुषः पुरुषस्तथा ॥ रामा योषित्तथा स्त्री च ललना च तथा स्मृता ॥ १ ॥ वरारोहा पुरन्ध्रीच श्रेष्ठा सा सत्कलोत्तिनी ॥ ब्राह्मणश्च तथा विप्रो राजन्यः क्षत्रियो मतः ॥ २ ॥ कीनाशश्च स्मृतो वैश्यः शूद्रश्चान्त्यज उच्यते ॥ चण्डालः पुल्कसः प्रोक्तो मातङ्गश्च तथोच्यते ॥ ३ ॥ हस्ती द्विप इभो दन्ती मातङ्गः कुञ्जरो गजः ॥ अश्वश्च तुरगः सादित्यौ वाजी हरिरस्तथा ॥ ४ ॥ गौस्तथाच्छागलोऽजश्च उस्त्रोऽथविवस्तथोच्यते ॥ ५ ॥ असिर्विशसनः खड्गस्तीक्ष्ण धारो दुरासदः ॥ श्रीगर्भो विजयश्चैव धर्मधारस्तथाऽक्षमः ॥ ६ ॥ सुवर्णं कनकं रूप्यं हेम कार्तस्वरं तथा ॥ जाम्बूनदं तद्देवानां रूप्यं रजतमित्यपि ॥ ७ ॥ उदुम्बरं स्मृतं ताम्रमयोलोहं प्रकीर्तितम् ॥ आरकूटं तथा रीती रत्नं माणिक्यमुच्यते ॥ ८ ॥ आतपत्रं स्मृतं छत्रं कम्बुः शंख उदाहृतः ॥ पङ्कजं कमलं पद्मं पुण्डरीकं प्रकीर्तितम् ॥ ९॥ तथा तामरसं चैव शतपत्रं तु दैवतम् ॥ इन्दीवरं चोत्पलं श्या- तक्कारं शुकमेव तत्॥१०॥ संध्याभासिजुर्भुदं च जन्ममाहाव एव च ॥ दानं संवननं प्रोक्तं विवाहो विनिवेशनम् ॥ ११॥ पत्नी भार्या तथा जाया सुतः पुत्रस्तनूद्भवः ॥ माता जनित्री जननी जनिता जनकः पिता ॥ १२ ॥ क्षयं तु भवनं प्रोक्तं मन्दिरं गृहमथ च ॥ भाण्डागारः स्मृतः कोशो धन्वनं युतिरित्यपि ॥ १३॥ वाहने पुंससंज्ञे स्याद्गमने पात्रमुच्यते ॥ वर्धमानं शरावे स्याच्चापं च धनुरुच्यते ॥ १४॥ सायकश्च शरः प्रोक्त इषुभीर्णः शिलोमुखः ॥ हस्तमोच्यः स एवोक्तो बृहतस्त्वथ तोमरः ॥ १५॥ शुण्युपकरणमित्युक्तमुपकारं नराधिप ॥ बालव्यजनमप्युक्तं तथा चामरसंज्ञितम् ॥ १६॥ मृजा शोभा विनिर्दिष्टा अलङ्कारो विभूषणम् ॥ प्रसाधनं मण्डनं स्याद्दलः सार उदाहृतः ॥ १७॥ अर्भकश्च स्मृतो बालो बाल्यश्वाश्वः किशोरकः ॥ हस्ती कलभ इत्युक्तो वत्सश्चोक्षा प्रकीर्तितः ॥ १८ ॥ सर्वथा केशरी सिंहः शार्दूलो व्याघ्र उच्यते ॥ विपिनं निर्जनं प्रोक्तमजिरं स्याङ्कणाङ्गणम् ॥ ॥ १९ ॥ उपनीय ददेद्यस्माचार्यः स उदाहृतः ॥ एकदेशमुपाध्यायौ ऋत्विग्यज्ञेहदुच्यते ॥ २० ॥ सांवत्सरो ज्योतिर्विद् दूतो भवति भूसुतः ॥
न्येषु विचक्षणः ॥ असुरा दानवा दैत्या गंधर्वा देवनायकाः ॥ २२ ॥ यक्षाः पुण्यजनाः प्रोक्ता यातुधानाश्च राक्षसाः ॥ अदृश्याश्च तथा भूताः पिशाचाः पिशिताशनाः ॥ २३ ॥ किन्नरास्त्वथः किंपुरुषा नागाः कद्रुसुता मताः ॥ सिद्धा विद्याधरा प्रोक्ता देवरामास्तथाप्सराः ॥ २४॥ महर्षयो भृगुकाः तथा ब्रह्मर्षयोमलाः ॥ प्रोक्ताः सप्तर्षयो लोके तथा चित्रशिखंडिनः ॥ २५ ॥ ध्रुवः स्थानुस्तथा प्रोक्तः शुकस्त्वासस्तथैव च ॥ आशा दिशस्तथा काष्ठा भचक्रं भगणं स्मृतम् ॥ २६ ॥ कृतानि शास्त्राणि नरेन्द्र पूर्वैः स्मृतिस्तथोक्ता श्रुतिरेव वेदः ॥ सम्यग्गदश्चारमिति प्रदिष्टं दूतं हि गच्छान्द्रविदो नरेन्द्र ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवादिराब्दपर्यायवर्णनं नामा ऽष्टमोऽध्यायः ॥ ८ ॥ संवत्सरोऽब्दो वर्षं च समा हायन एव च ॥ दिवसो वासरश्चैव दिनं चाहस्तथैव च ॥ १ ॥ दोषा विभावरी रात्रिः शर्वरी यामिनी क्षपा ॥ संविः प्रोक्ता तथा सन्ध्या अन्धकारं तमः स्मृतम् ॥ २ ॥ चन्द्रिका च तथा ज्योत्स्ना चैत्रो मधुमिति स्मृतः ॥ वैशाखो माधवः प्रोक्तः शुचिज्र्ज्येष्ठ ऽउदाहृतः ॥ ३ ॥ शुक्रः प्रोक्तस्तथाषाढो नभः श्रावण इष्यते ॥ प्रौष्ठपादो नमस्यश्च इषश्चाश्वयुजः स्मृतः ॥ ४ ॥ ऊर्जञ्श्रियः कार्तिकः प्रोक्तो मार्गशीर्षः सहस्तथा ॥ सहस्यः पौष इत्युक्तो माघः स्यात्तप एव च ॥ ५ ॥ फाल्गुनश्च तपस्याख्यो मासो वृद्ध कुलोद्भव ॥ तुलामेषगते भानौ विषुवद्दिनमुच्यते ॥ ६ ॥ धन्वतो मिथुनन्तञ्च अयने सोम्य दक्षिणे ॥ मेषान्ते च तुलान्ते च युगादिदिवसौ स्मृतौ ॥ ७ ॥ तथा विष्णुपदं प्रोक्तं कुलीरमकरान्तयोः ॥ कन्या मिथुनमीनानां प्रवेशे षडशीतथा ॥ ८ ॥ षडशीतिमुखं नाम ज्ञेयं दिन चतुष्टयम् ॥ रविश्मभिस्तप्ता वा करो दीर्घितिरेव च ॥ ९ ॥ सूर्योदयास्तममययोः स दीर्घः परिवेषिभवेत् ॥ तिर्यग्गतो मेघराजौ तदेव परिवेषो भवेत् ॥ १० ॥ तदेव दण्डसंस्थानो मेघो दण्डोभिधीयते ॥ शक्राचाप शक्रधनुः तदीर्घं रोहिते भवेत् ॥११॥ तदेव दण्डसंस्थानो मेघो दण्डोऽभि धीयते ॥ शक्र चापं शक्रधनुः तदीर्घं रोहिते मतम् ॥ १२॥ तत्पीतन्मपाल्यं क दुपास्यं प्रतिसूर्यकमू॥ चन्द्रार्कयोर्मेघराजितपरिवेषस्तुमण्डलम् ॥१३॥ स्वर्गाङ्गभ्रष्टफले क्षीणे पतन्होल्केति कथ्यते ॥ अनित्यः सरिसो दृष्टः तारकः केतुरिष्यते ॥ १४॥अग्निवर्णा तु दिङ्मुष्टा दिग्दाह इति विश्रुतः ॥ नगरं शून्यतो दृष्टं गन्धर्वनगरं स्मृतम् ॥ १५॥ निर्धातं स्तनितं प्रोक्तं विना मेधन्दिदर्शनोत् ॥ द्योतद्योतो रवं हरिः कथितस्त्वगुटिणका ॥ १६॥ मेघो घनं वारिदं व जीमूतं व बलाहकम् ॥ स्तनितं गर्जितं विद्याद् वृष्टिः प्रोक्ताः प्रवर्षणे ॥ १७ ॥ आसारो वेगवद्वर्षं पृषतो मंद उच्यते ॥ दृश्यमाने तथा सूर्ये दिव्ये प्रोक्तं च वर्षणम् ॥ १८॥ दृश्यमाने तथा चन्द्रे सामुतं परिकीर्तितम् ॥ वात्या वातसमुत्था स्यान्नीहारं तम उच्यते ॥१९॥
वि० ध० ॥३१०॥
तृ० खं० अ० ८
हकारोऽपि विधीयते ॥ ८ ॥ चतुर्थी नात्र विज्ञेया न च द्विवचनं क्वचित् ॥ पदादौ यो गुरुः सोऽत्र लघुरेव विधीयते ॥ ९ ॥ दिङ्मात्रमेतदुद्दिष्टं मध्या प्राकृतलक्षणम् ॥ प्रयोगादनुकर्तव्यो विस्तारो ह्यतिविस्तरः ॥१०॥ देशेषु देशेषु पृथग्विभिन्नं न शक्यते लक्षणतस्तु वक्तुम् ॥ लोकेषु यत्स्या- दुपधम्र्मसंज्ञं ज्ञेयं हि तद्देशविदोऽधिकारम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्राकृतभाषालक्षणं नाम सप्तमो- ऽध्यायः ॥ ७ ॥ मार्कण्डेय उवाच ॥ देवा दिवौकसो दिव्या गीर्वाणास्त्रिदशाः सुराः ॥ हरिनारादनो विष्णुर्वासुदेवस्त्वथोध्वजः ॥ १ ॥ नारायणो हृषीकेशश्चक्री गरुडवाहनः ॥ चक्रः संकर्षणोऽनन्तः शेषस्तालध्वजो हली ॥ २ ॥ प्रद्युम्नः कामदेवश्च चापी मकरकेतनः ॥ वज्रायुधोऽनिरुद्धश्च तथा वै ऋष्यकेतनः ॥३॥ लक्ष्मीः करीषिणी श्रीश्च तथा देवी विभावरी ॥ चक्रः सुदर्शनः प्रोक्तः शार्ङ्ग चापस्तु वैष्णवम् ॥४॥ माहेश्वरं पिनाकाख्यं वारुणं गण्डिवं भवेत् ॥ शाक्तमाग्नेयगं प्रोक्तं वज्रं कुलिशमुच्यते ॥ ५ ॥ वैष्णवी तु गदा प्रोक्ता तथा कौमोदकी नृप ॥ हलो लाङ्गल इत्युक्तः सानन्दं मुसलं स्मृतम् ॥ ६ ॥ पाञ्चजन्यः स्मृतः शङ्खः यं बिभर्त्ति जनार्दनः ॥ करेऽस्य कमलं प्रोक्तं तथाब्जालोक्यसंज्ञितम् ॥ ७ ॥ भूमिश्चसुधरा पृथ्वी क्षमा क्षोणी धरा मही ॥ ९ ॥ खं गगनं चैव तथाकाशं हरेः क्रमम् ॥ ८ ॥ तार्क्ष्यः सुपर्णो गरुडो हरिकेतनवाहनः ॥ नागानन्तो हलधरः शेषः तालध्वजी हली ॥ ९ ॥ ब्रह्मा पितामहः शंभुः स्वयम्भूसूर्यभावनः ॥ महादेवो भवः शंभुस्त्र्यंबकः पार्वतीपतिः ॥ १० ॥ उमा सती पर्वतजा मेनकाजा तथोच्यते ॥ भद्रकाली स्मृता दुर्गा गणाश्च प्रमथाः स्मृताः ॥ ११ ॥ विनायको गणपतिः कुमारः स्कन्द इष्यते ॥ इन्द्रः शक्रः कौशिकश्च पुरूहूतः पुरन्दरः ॥ १२ ॥ अग्निश्चैश्वानरो वह्निर्जातवेदो हुताशनः ॥ विवस्वतो यमश्चैव कीनाशः प्रेतनायिकः ॥ १३ ॥ विरूपाक्षो निरऋतिश्च तथा रात्रिचराधिपः ॥ यादसामीश्वरो देवः प्रचेता वरुणोऽधिपः ॥१४॥ तोयमंबु जलं चापः पानीयं सलिलं पयः ॥ वह्निः समीरणो वातः पवनः सर्वगोनिलः ॥ १५ ॥ राजराजो धनाध्यक्षस्तथैवैकविदः स्मृतः ॥ ईशानः शङ्करः शर्वः तथा पशुपतिः शिवः ॥ १६ ॥ नास्तत्यावश्विनौ प्रोक्तौ वसवो वसुसंज्ञिताः ॥ तथैवाङ्गिरसो नागा विश्वेदेवाग्निभोजिनः ॥ १७ ॥ वृषभावग्मारुद् भगवो मरुतो मताः ॥ साध्या धर्मसुताः प्रोक्ता आदित्या कश्यपात्मजाः ॥ १८ ॥ मारुतो मातरिश्वानो ग्रहाद्विसुवनेश्वराः ॥ नक्षत्राणि तथा तानि ऋक्षाणि च उडूनि च ॥ १९ ॥ आदित्यो भास्करः सूर्यः सविता रविरर्थमा ॥ चन्द्रः शीतकरः सोमः शशांको मृगला- ञ्छनः ॥ २० ॥ वक्रः क्षितिसुतो भौमो बुधो ज्ञः सोमनन्दनः ॥ बृहस्पतिर्गुरुर्जीवः शुक्र आत्मसुजिरेव च ॥ २१ ॥ सारणः पञ्चमः प्रोक्तो प्रम
॥३१०॥
साध्येनपरम् ॥ गवयादिव गोः सिद्धिरुपमानं तदिष्यते ॥ २८ ॥ साध्योऽर्थस्तत्कार्यो वाक्ये यस्मिन्प्रकृष्यते ॥ सार्थापत्तिर्दिवा भुङ्क्ते देवदत्त इतीति यत ॥ २९ ॥ निपातनाद्योगविभागाद्दर्शनाद्रूपदेशादनुवृत्तिकोऽपि ॥ स्वतन्त्रसिद्धेः परतन्त्रदर्शनात्प्रसाद्येह्यलक्षणतश्च षड्विधम् ॥३०॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रगुणदोषवर्णनो नाम पञ्चमोऽध्यायः ॥ ५ ॥ मार्कण्डेय उवाच ॥ अथ तन्त्रयुक्तयो भवन्ति अधिकरणं योगः पदार्थः हेत्वर्थ उद्द्देशो निर्देशः प्रदेशोऽतिदेशः अपवर्गो वाक्यविशेषोपपत्तिः प्रसंग एकान्तोऽनेकान्तः पूर्वपक्षो निर्णयो विधानमर्थापत्तिरेकान्तान्तावशेषो संशयो व्याख्यानममुमतसत्त्वंसञ्ज्ञानिर्वचनं दृष्टान्तो वियोगो विकल्पः समुच्चयोध इति । तदधिकरणं येन वाक्यार्थो बुध्यते संयोगो योगो विक्षिप्तसङ्घः स पदार्थो यदन्यत युक्तिसङ्घर्येस्य साधनं स हेत्वर्थः । समासवचनमुद्देशो विस्तरवचनं निर्देश एवमेवेत्युपदेशो नेन कारणेनेत्यपदेशः ॥ प्रकृतस्यानगतेन साधनं प्रदेशोऽतिक्रान्तेन सहि देशोऽभिप्राययुक्तैणमपवर्गो येनार्थः परिसमाप्यते । पदेनार्थाद्दर्पणे स त्नकपशेपो यद्कीर्तिसमर्यादामापद्यते सार्थापत्तिः । प्रकरणासिद्धिरुक्तेः केनचिदुपोद्घातेन पुनरभिधीयमानः प्रसंगः सर्वत्र गतथा स एकान्तः क्वचि त्तथा क्वचिदन्यथासत्वनेकान्तः प्रतिषेधवचनं निर्णयः प्रकरणमादौ पूर्वं विधानं तस्य प्रातिलोम्यं विपर्यय इत्युक्ताऽसावतिक्रान्ताय क्षणं परत्र वक्ष्यामि इत्यनागताविभूषणमुच्यते हेतुदर्शनं संशयः तन्त्रातिशयवर्णनातिव्याख्यानं परमतमप्रतिषिद्धमनुमतं परस्समत्तः शब्दः स्वसंज्ञा लोके प्रती तमुद्देशरणं निर्वचनं तद्गतिनिदर्शनं दृष्टान्त एवैति नियोग इदं वेदं वेति विकल्प इदं चेदं चेति समुच्चयोध यदनिर्दिष्टं युक्तिगम्यं तद् क्षामिति ॥ प्रयोजनं संशयनिर्णयो च व्याख्याविशेषा गुणलावथश्व ॥ कृतद्युदासो कृतशासनं च सांवितिको धर्मगुणोधकश्च ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रशुद्धिर्नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥ मार्कण्डेय उवाच ॥ अधातः संप्रवक्ष्यामि तव प्राकृतलक्षणम् ॥ ऋ ॠ ऌ ॡ न संत्यत्र तथा न च ञ मषावुभौ ॥ १ ॥ सकारहीना च तथा नासिक्स्याश्च तथा नृप ॥ रेफश्च शषवा राजन् संयोगे नास्ति कर्हिचित् ॥ २ ॥ एकारश्च तथौकारः पदमध्ये महाबलः ॥ दृढयोगे वकारेण डगयोगे तथैव च ॥३॥ ग्ययोगे गकारोऽत्र लोप मयाति नित्यदा ॥ दमो युक्तौ पृथक् कृत्वा दमौ कार्यौ तथैव च ॥ ४ ॥ ॠतयोगे दुकारस्याताकारस्सर्वमिष्यीते ॥ ककारः पदमध्योत्र वक्तव्यो हेलिवर्जितः ॥ ५ ॥ नकारस्य णकारः स्यात्सकारस्य स इष्यते ॥ तकारश्च थकारश्च डकारश्च ण एव च ॥ ६ ॥ क्वचित्व्योचितस्या राब्दा हकारश्च तथा क्वचित् ॥ डकारस्य तु वक्तव्यं बांकारस्य ह इष्यते ॥ ७॥ चकारस्य छकारः स्याद्युक्तरे ह्लू च लुप्यते ॥ युक्ते पकारे तद्धर्मि
वि० ध० ॥३०९॥
तृ० सं० अ० ५
रोऽस्याप्यथो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ॥ अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥ १ ॥ उत्सर्गाप- वादेन द्विविधं तत्प्रकीर्तितम् ॥ सूत्रं व्युदासश्च तथा तथोदाहरणं नृप ॥२॥ प्रत्युदाहरणं चैव चतुर्थं प्रकीर्तितम् ॥ वाक्यं चैवार्थवाक्यार्थः पदार्थः पदमेव च ॥ ३ ॥ चतुरङ्गमिदं चेति तथैवान्वयकीर्तितम् ॥ प्रतिज्ञा हेतुदृष्टान्तादुपसंहार एव च ॥ ४ ॥ तथा निगमनं चैव पञ्चावयवमिष्यते ॥ आरम्भोऽथापि संबन्धः सूत्रार्थैतन्निरूपणम् ॥ ५ ॥ चोदना परिहारश्च व्याख्या सूत्रस्य षड्विधा ॥ सूत्रेष्वेव हि तत्सर्वं यद्भूतं सङ्ग्रहात्मना ॥ ६॥ विस्तरस्तेन मतिं हन्ति समासोक्तं न गृह्यते ॥ समासविस्तरो हित्वा वक्तव्यं यदिदार्हितम् ॥७॥ अपार्थं व्यर्थत चैव पुनरुक्तं तथैव च ॥ तथा विभिन्न- संस्थानं युक्तिहीनं विवर्जयेत् ॥ ८ ॥ क्रमेदो विसंज्ञञ्च गुरुसूत्रं तथैव च ॥ अभिप्रायस्य चान्यत्वं नैतानि स्युरकारणात् ॥९॥ सर्वं कृत्वा पदच्छेदं समासं तदनन्तरम् ॥ समासे तु कृते पश्चादर्थं ब्रूयाद्विचक्षणः ॥ १० ॥ सूत्रार्थश्च पदार्थश्च हेतुश्च क्रमशस्तथा ॥ निरुक्तमथ विन्यासो व्याख्या- जोगस्य षड्विधा ॥ ११ ॥ प्रत्यक्षमनुमानं च तथोपवनं भवेत् ॥ त्रिभिः प्रमाणैः संयुक्तस्तत्त्वी प्रामाण्यमर्हति ॥ १२ ॥ प्रत्यक्षाभास- मयुक्तं तथा वै सुगतोक्तिका ॥ आभासमनुमानस्य बाष्पेरण्वह्नयो यथा ॥ १३ ॥ धूसरोकसञ्जनयतो न च वह्निमुपलब्धये ॥ आप्तत्वं दर्शयित्वा तु पञ्चनेनेव भाषितम् ॥ १४॥ तद्भासवचनाभासं वदन्ति नृपसत्तम ॥ रागाद्वेषोविनिर्मुक्त आप्त इत्यभिधीयते ॥ १५ ॥ नैरुक्तं द्विविधं विद्धि सिद्ध- मौपाधिके तथा ॥ निर्वक्तव्यं ततस्सिद्ध्यर्थसिद्धस्त्वं सर्वदा ॥ १६॥ तत्र त्वौपाधिकं सर्वं गौरश्वः पुरुषो यथा ॥ दृष्टार्थञ्च गुणोदीर्ते तद्वत्ख्यासि नृपाम- तज ॥ १७॥ गगणे नैमित्तिकोभक्तः संर्वादः कारिकस्तथा ॥ उपचारश्च संबन्धः गौणिको यौगिकस्तथा ॥ १८॥ गुणाद् दृष्टे गौणं पश्यामो महोदयम् मादयः ॥ निमित्ततस्तु रूपोक्तो दृष्ट्वोत्पादिके यथा ॥ १९॥ भक्त्या भक्तं नृसिंहास्यादमातरे च मातवत् ॥ समं वदन्ति यस्मिंश्च संवादीत्युत्तरी- यथा ॥२०॥ कार्तकः स्यात् कृतैको देवतातादिको यथा ॥ उपचारस्तूपचारोल्लापरो तुला यथा॥२१॥ संबन्धतस्तु संबन्धो दृष्टी मीमांसको यथा ॥ संयोगोऽपि संयोगः क्रियायाः क्रयिकः स्मृतः ॥ २२॥ षट्सुह्येषुद्वयो ज्ञेयः शक्तिकर्तकतया ॥ एवं परेषां च परं स्यान्नियमनिश्चयक्रमम् ॥ ॥ २३ ॥ स्वार्थो न प्रसिद्धेश्चेत्तस्यानार्थं विधिः शृणु ॥ यदिच्छं तु दृश्यत तत्साध्यं साधनैस्समैः ॥ २४ ॥ आत्मैन्द्रियमनोर्थानां संयोग उपादिश्यते ॥ ज्ञानंदर्शनादिसिद्धिं प्रत्यक्षमिति तद्विदुः ॥ २५ ॥ बुद्धया शरीरभूतात्मा बुध युक्तोऽहमित्यते ॥ सोऽध्यक्षैस्साधया विद्यादनुमानं तदि- ष्यते ॥ २६ ॥ वेदोविधाविरुद्धं यत्सा स्मृतिः शिष्टसंमता ॥ अप्रत्यक्षफले विद्यात्साधनं शास्त्रसंज्ञितम् ॥ २७ ॥ द्वयोः सहचारयोरेकं निर्दिष्टं
॥३०९॥
गुरुः स्मृतः ॥ लघुगुरुविभागेन प्रस्तारेणैन यादव ॥ १२ ॥
सर्वे छन्दोविकल्पाश्च भवन्ति बहुशो नृप ॥ स्वाख्यानानयने तेषां तथा वक्ष्यामि तच्छृणु ॥ १३ ॥
यावत्संख्याक्षरं च्छन्दस्तावन्तो गुरवो नृप ॥ स्थाप्या अधश्च पूर्वाणो लघु पूर्वस्य विन्यशेत् ॥ १४ ॥
अतोऽन्येषु त्ववस्थाप्यं नृपसुस्थ यथास्थितम् ॥ एवमेव विधिं कुर्यादादिश्य गुरुभिः पुनः ॥ १५ ॥
प्रक्षीणैरक्षैस्तावत्कुर्यादेतं नृपोत्तम ॥ यावदक्षरसंख्याः स्युः सर्वे हि लघवो नृप ॥ १६ ॥
एतत्स्यादाक्षरेच्छन्दो मात्राश्छन्दास्तथैव हि ॥ उक्तवर्णान्तरं छन्दो भवेत्कविविवर्जितः ॥ १७ ॥
यदा तदा निवृत्तसंज्ञो द्व्यधिकेन तमतथा ॥ वर्णद्वयेन रहितं विराडिति हि शब्दितम् ॥ १८ ॥
अधिकं च सुरासंज्ञं कथितं यदुसत्तम ॥ तेभ्यो भवन्ति सर्वाणि मात्राच्छन्दांसि यादव ॥ १९ ॥
दिक्मात्रमेतत्कथितं नरेन्द्र विस्ताराज्जिज्ञासुरतो मनुष्यः ॥
संसाधयेत्तत्त्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥ २० ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे छन्दोविधानंनाम तृतीयोऽध्यायः ॥ ३ ॥
मार्कण्डेय उवाच ॥
तत्राप्युक्तमृषेर्द्वयं दीप्तं गम्भीरशब्दवत् ॥ कचिद्विक्लिसंयुक्तं वाक्यमेतत्स्रवंशुभः ॥ १ ॥
यत्किंचिन्मिथ्यासंयुक्तं युक्तं नाम विमुक्तिकिमैः ॥ प्रत्यक्षाभिहितं यच्च तादृशीनां वचः स्मृतम् ॥ २ ॥
नैगमर्षावविधेः शब्देर्निपातं बहुलं च यत् ॥ न चापि सुमहद्वाक्यमृषीणांनां वचः स्मृतम् ॥ ३ ॥
अविस्पष्टपदं ज्ञेयमृषिशुश्रूषवो नृप ॥ भूतमन्मथसंज्ञान जन्मदुःखविमुक्तसनम् ॥ ४ ॥
मित्राणां तद्वदेवांगस्य गर्भेषु च प्रवर्तनम् ॥ आज्ञायुक्तं च वचनं तथा हेतुविवर्जितम् ॥ ५ ॥
राजर्षीणां तु विज्ञेयं बह्वर्थं बुद्धिविस्तरम् ॥ बहुविधानं बह्वर्थं देवतानां प्रकीर्तितम् ॥ ६ ॥
बहुविधानमल्पार्थं दानवानां प्रकीर्तितम् ॥ अल्पाभिधानमल्पार्थं गन्धर्वाणां तथा भवेत् ॥ ७ ॥
दुर्बोधं विषमं चैव राक्षसानां प्रकीर्तितम् ॥ गूढाक्षरं तु यक्षाणां किन्नरैरुक्तमेवतथा ॥ ८ ॥
नागानामतिमतिविस्पष्टं पुनरुक्तसमन्वितम् ॥ रागद्वेषसमायुक्तं हेतुमत्पौरुषं भवेत् ॥ ९ ॥
मन्त्रा नवाविधाः प्रोक्ताः ऋग्यजुःसामलक्षणाः ॥ स्तुतिर्निन्दा प्रशंसा च आक्रोशः प्रेष्य एव च ॥ १० ॥
प्रश्नोऽनुज्ञा तथाख्यानमाशारिस्ताविषया मताः ॥ एवं ते सर्वविद्यानां विहितं सर्वलक्षणम् ॥ ११ ॥
पौरुषे विद्यते तत्त्वं नान्यत्रेति विनिश्चयः ॥ स्वभावाञ्च च्यवन्तेऽथ ये श्रोता नरवाजिताः ॥ १२ ॥
दृश्यन्ते हि पुमाञ्कश्चित्कश्चिच्छ्रेष्ठतमो धिया ॥ तस्मात्तेनैव तस्योक्ता बुद्धिः श्रेष्ठतमा नृप ॥ १३ ॥
एतन्मयोक्तं सुपरीक्षणं ते वाक्यस्य भो वाक्यविदां वरिष्ठ ॥
विचक्षणैर्पत्र च रागस्तस्तु ज्ञेयं तथा द्वेषसमागमाच्च ॥ १४ ॥
दिव्येन तुल्यं यदि वर्णवाक्यैः वाक्येन तुल्यं यदि वा परेणा।
वाक्यं नराणां तुपरागतस्तु ज्ञेयं यथोद्देशसमागतत्वात्॥ १५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वाक्यप
वि० ध० ॥ ३०८॥ तृ० खं० अ० ३ ॥ ३०८॥
वेत्ति यथाविधि ॥ ७ ॥ वज्र उवाच ॥ गीतशास्त्रं समाचक्ष्व सर्वभूतहितं वर ॥ गीतशास्त्राविदश्चाद्य सर्वज्ञः पुरुषोत्तमः ॥ ८ ॥ मार्कण्डेय उवाच ॥ संस्कृतं प्राकृतं चैव गीतं द्विविधमुच्यते ॥ अपभ्रष्टं तृतीयं च तदनन्तं नराधिप ॥ ९ ॥ देशभाषाविशेषेण तस्यानन्तो नेह विद्यते ॥ गीतं पाठवशाज्ज्ञेयं स च पाठो द्विधा मतः ॥ १० ॥ गद्यं पद्यं च धर्मज्ञ गद्यं संख्यया स्मृतम् ॥ पद्यं छन्दोविशेषेण च्छन्दश्च बहुधा भवेत् ॥ ११ ॥ गद्यमप्यनुप्रासेन ज्ञेयो लक्षणसंयुतौ ॥ पद्यं च द्विविधं तत्र वृत्तमात्रामृतिक्रमम् ॥ १२ ॥ एकविंशतिसंख्याः स्युः सुपः सुप्तिङ्गरं स्मृतम् ॥ प्रथमः पुरुषस्त्वेको द्वितीयो मध्यमो मतः ॥ १३ ॥ उत्तमश्चापरस्तूक्तस्तु तिक्रियावचनं त्रिकम् ॥ तिङश्च नवकं तत्र परस्मैपदसंज्ञकम् ॥ १४ ॥ आत्मनेपदसंज्ञं च नवकं परिकीर्तितम् ॥ युष्मद्युपपदे तत्र मध्यमः पुरुषो भवेत् ॥ १५ ॥ अस्मद्युपपदे चैव स्यात्तथोत्तमसंज्ञकः ॥ शेषे प्रथममित्युक्तं पुरुषं यदुसत्तम ॥ १६ ॥ अर्थे प्रातिपदिकस्य स्वाद्यौ वचनमन्वये ॥ परिमाणे च कथिता विभक्तिः प्रथमा बुधैः ॥ १७ ॥ द्वितीया कर्मणि मता तृतीया करणे स्मृता ॥ कारके कर्माणि तथा सैव चान्यैः प्रकीर्तिता ॥ १८ ॥ चतुर्थी संप्रदाने स्यादपादाने च पञ्चमी ॥ संबंधे च तथा षष्ठी सप्तम्याधारभावयोः ॥ १९ ॥ तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन ॥ द्वितीयं तव धर्मज्ञ मया तत्परिकीर्तितम् ॥ २० ॥ प्रातिपदिकमिह स्वं प्रकृतिः स्यातत्प्रकृतिमपि धातुरिच्छन्ति ॥ वाङ्मयमखिलमनेन निबद्धं गद्यमपि पद्यपद्यसमेतम् ॥ २१ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शब्दव्याख्यानो नाम द्वितीयोऽध्यायः ॥ २ ॥
मार्कण्डेय उवाच ॥ षडक्षरेण पादेन गायत्रं छन्द उच्यते ॥ उष्णिक् सप्ताक्षरं चैव अष्टाक्षरमनुष्टुभम् ॥ १ ॥ नवाक्षरा च बृहती पंक्तिसंज्ञं दशाक्षरम् ॥ एकादशाक्षरं त्रिष्टुब्जगती द्वादशाक्षरा ॥ २ ॥ त्रयोदशाक्षरं ज्ञेयमतिपूर्वं तथैव हि ॥ चतुर्दशाक्षरा चैव शक्करी यदुनन्दन ॥ ३ ॥ अतिशक्करी च कथिता तथा पञ्चदशाक्षरा ॥ षोडशाक्षरमिच्छन्ति च्छन्दोऽष्टिरिति यत्सत्तम ॥ ४ ॥ अत्यष्टिसंज्ञं छन्दश्च तथा सप्तदशाक्षरम् ॥ अष्टादशाक्षरं चैव धृतिसंज्ञं प्रकीर्तितम् ॥ ५ ॥ तथातिधृतिसंज्ञं च विशतिस्त्वेकवर्जिता ॥ विशत्यक्षराणि स्युः कृतिसंज्ञं यदुत्तम ॥ ६ ॥ विशतित्रिसंयुक्ता प्रकृतिः परिकीर्तिता ॥ द्वाविंशतियुतं कथितं तथैवाकृतिसंज्ञकम् ॥ ७ ॥ त्रयोविंशतिश्च विकृतिः सा चैकातस्तुकल्पिता ॥ संकृतिश्चैकसंयुक्ता कथिता विकृतिर्नृप ॥ ८ ॥ षड्विंशतिश्चातिधृतिश्छन्दोऽस्ति मनीषिभिः ॥ पृथग्गद्यं चतुर्भिः स्वैः पादैरेतानि निर्दिशेत् ॥ ९ ॥ मात्रकस्तु लघुर्वर्णः स्पष्टलेखाभिचिह्नितः ॥ संख्यायः स्याद्विमात्रास्तु गुरुर्वक्रस्तथा भवेत् ॥ १० ॥ लघ्वन्तश्च यो वर्णः स गुरुश्च भवेन्नृप ॥ दीर्घयुक्तो च कथितो तथैव गुरुसंज्ञकौ ॥ ११ ॥ संयोगाद्याः परे यस्मात्स लघुश्च