भारतकोश
संग्रह पर लौटें

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

६६६ याज्ञवल्क्यस्मृतिः अनुसार पितृगण के उद्देश्य से द्रव्य के उत्सर्ग से ब्राह्मण के द्वारा उस द्रव्य के स्वीकार तक का कर्म श्राद्ध-पद-वाच्य है । देवश्राद्ध आदि पदों में श्राद्ध शब्द गौण है—यह कल्पतरु का मत है । श्लो० २२१—पञ्चाग्निः—पाँच अग्नियों के नाम ये हैं :— पवनः पावनश्चैता यस्य पञ्चाग्नयो गृहे । सायं प्रातः प्रदीव्यन्ते स विप्रः पंक्ति-पावनः ॥ ( हारीत ) पवनः = आवसथ्याग्निः; पावनः = सभ्याग्निः । त्रेता = आहवनीय गार्हपत्य तथा दक्षिणाग्नि । श्लो० २२२—रोगी = दीर्घरोगी—अपराकं । श्लो० २२४—इससे अतिरिक्त निन्द्य पुरुषों का विवरण मनुस्मृति के तृतीयाध्याय में देखना चाहिए । श्लो० २२५—निमन्त्रणम् = अप्रत्याख्येयो नियोगः निमन्त्रणम्— अपरार्कं । संयतैर्भाव्यम्—इस विषय में मनु का कथन यह है— निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा । न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ॥ निमन्त्रितान्हि पितरः उपतिष्ठन्ति तान्द्विजान् । वायुवच्चानुगच्छन्ति तथासीनानुपासते ॥ इत्यादि । श्लो० २३६—अभ्यनुज्ञातः—ब्राह्मणों के द्वारा अभ्यनुज्ञात । अतएव मनु का कथन है— अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह । अनुज्ञासामर्थ्याच्च प्रार्थनाऽपि पूर्वं कर्त्तव्या, सा च स्वगृह्यानुसारेण करवाणि, करिष्ये इत्यादिका । अनुज्ञा अपि ‘ओम्’ इत्येवं रूपा ‘कुरुष्व’ इति वा—( कुल्लूक भट्ट ) । यदि अग्नि का अभाव हो ( अग्न्याभावश्च अनुपनीतस्य सम्भवति, उप- नीतस्य समावृत्तस्य च पाणिग्रहणात्पूर्वम् , मृतभार्यस्य वा ) तो ब्राह्मण के हाथ में ही समर्पण करना चाहिए— अग्न्याभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ ( मनु ) तथा कात्यायन का भी कथन है :— पित्र्ये यः पंक्तिमूर्द्धन्यः तस्य पाणावनग्निकः । हुत्वा मन्त्रवदन्येषां तूष्णीं मन्त्रेषुनिः क्षिपेत् ॥

टिप्पणी (नोट्स) ६६७ श्लो० २३९—वाग्यतः—मनु का कथन निम्न-लिखित है— अण्युष्णं सर्वमन्नं स्यात् भुंजीरंस्ते च वाग्यतः । न च द्विजातयो ब्रूयुः दात्रा पृष्टा हविर्गुणान् ॥ दात्रा अन्नादिगुणान् पृष्टा वक्त्राद्यभिनयेनाऽपि न ब्रूयुः, वाग्यतत्वस्य अत्रैव विधानात्—कुल्लूक भट्ट। श्लो० २४५—इदं जपेत्—यह पितृ प्रार्थना है। अतएव मनु का कथन हैः— दक्षिणां दिशमाकांक्षन् याचेतेमान् वरान् पितॄन् ॥ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च । श्रद्धा च नो मा व्यगमत् बहुदेयं च नोऽस्त्विति ॥ अतः दातारो नोऽभि० आदि की भूमिका में "ब्राह्मणप्रार्थना”—का विज्ञानेश्वरकृत निर्देश उचित नहीं प्रतीत होता है । श्लो० २५४—स्त्रिया अपि—स्त्री के सपिण्डीकरण के विषय में हारीत का कथन निम्नलिखित हैः— स्वेन भर्त्रा सहैवास्याः सपिण्डीकरणं स्त्रियाः । एकत्वं सा गता यस्मात् चह्ममन्त्राहूतिम्रतैः ॥ तस्मिन् सति सुताः कुर्युः पितामह्या सहैव तु । तस्यां चैव तु जीवन्त्यां तस्याः श्वश्रवेति निर्णयः ॥ तस्याः श्वश्र्वाः = प्रपितामही के साथ । श्लो० २५५—वृद्ध्याद्यपकर्षनिमित्तं सपिण्डनं मध्येऽपि कर्त्तव्यम् । कृते तस्मिन् अभ्युघटश्राद्धं वर्षपर्यन्तं कर्त्तव्यमेव । किन्तु प्रेतपदोल्लेखो न कार्यः— शूलपाणि । श्लो० २५६—प्रतिसम्वत्सरम्—एतच्च निरग्निविषयम्—ऐसा शूल- पाणि का मत है। श्लो० २६७—पिण्ड-प्रक्षेप के विषय में मनु का मत निम्नलिखित है— एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । गां विप्रमजमग्निं च प्राशयेदप्सु वा क्षिपेत् ॥ पिण्डनिर्वपणं केचित्पुरस्तादेव कुर्वते । वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमन्तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनी ॥ आयुष्यमन्तं सुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥

६६८ याज्ञवल्क्यस्मृतिः मध्यमं पिण्डम् = पितामहपिण्डम् । सत्सु विप्रेषु०— मनु का भी वही मत है—उच्छेषणं तु तत्तिष्ठेद् यावद् विप्राः विसर्जिताः ॥ परन्तु वशिष्ठ ने दिनपर्यन्त रखने को कहा है— श्राद्धे नोद्वासनीयानि उच्छिष्टान्यादिनक्षयात् । द्योतन्ति हि स्वधाहाराः ताः पिवन् सकृतोदकाः ॥ श्लो० २५९—वाराहपद माहिष का भी उपलक्षण है । अत एव मनु का कथन है:— दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ॥ इसी प्रकार शश पद भी कौर्ममांस का उपलक्षक है । श्लो० २६०—महाशल्कः = शल्यकः—मेधातिथि । महाशल्कः = मत्स्य- विशेषाः इति युज्यन्ते, महाशल्कलिन्नो मत्स्याः इति वचनात्—विज्ञानेश्वर- प्रभृति । मनु ने महाशल्क प्रभृति के मांस को अक्षय तथा वार्ध्रीणस के मांस को द्वादशवार्षिक तृप्ति का सम्पादक माना है:— वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ श्लो० २६१—तथा वर्षात्रयोदश्याम्—अत्र च प्रोष्ठपद्यपरपक्षे या त्रयोदशी याश्च मघाः ता एव गृह्यन्ते—अपरार्क । प्रोष्ठपद्याः श्रावणपूर्णिमाथाः अपरे भाद्रकृष्णे—ऐसा अर्थ करना चाहिए । अत एव शंख का वचन है:— प्रोष्ठपदामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्य श्राद्धं हि कर्त्तव्यं मधुना पायसेन च ॥ श्लो० २६४—शस्त्रेण—यहाँ शस्त्र पद उपलक्षण है । अत एव मरीचि का कथन है:— विषसर्पश्वापदाहितिर्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रियाः कार्याः अन्येषान्तु विगर्हिताः ॥ श्लो० २६९—वसुरुद्रादितिसुताः—अत एव पैठीनसि का वचन है:— य एवं विद्वान् पितॄन् यजते वसवो रुद्रा आदित्याश्चास्य प्रीताः भवन्ति । श्लो० २७८—सर्वौषधैः— मुरामांसीवचाकुष्ठं शैलेयं रजनीद्वयम् । शुण्ठचम्पकमुस्तं च सर्वौषधिगणः स्मृतः ॥

टिप्पणी ( नोट्स ) ६६६ अथवा—ब्रीहयः शालयो मुद्गाः गोधूमाः सर्षपास्तिलाः । यवाश्चोषधयः सप्त विपदो घ्नन्ति धारिताः ॥ श्लो० २९५—गृहयज्ञं समाचरेत्—इस यज्ञ के लिए उत्तरायण आदि कालनियम अनपेक्षित है । अत एव दक्ष का वचन है :— नैमित्तिकानि काम्यानि निपतन्ति यथा यथा । तथा तथैव कार्याणि न कालस्तु विधीयते ॥ श्लो० ३१८—निबन्धम्—आयस्थाने प्रतिनियतवस्तुदानम्—शूल- पाणि । अस्मिन् ग्रामे प्रतिक्षेत्रं क्षेत्रस्वामिना एतद्धनमस्मै प्रत्यब्दं प्रतिमासं वा देयम् इत्यादिनियमः—अपरार्कं । श्लो० ३२४—अकूटैः— न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैः नाग्निज्वलिततेजनैः ॥ श्लो० ३२७—स्नात्वा—स्नानग्रहणं सकलमाध्याहिकोपलक्षणम्— ऐसा अपरार्क का मत है । श्लो० ३४४—सुरक्षितम्—अत एव मनु का वचन है— यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नां पृथिवीम् भुंक्ते कोशहीनोऽपि पार्थिवः ॥ श्लो० ३४९—दैवे पुरुषकारे च—दैव = पूर्वजन्मकृत-कर्म-फल, पुरुष- कार = ऐहिकपुरुष प्रयत्न । अत एव व्यासने कहा है— दैवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारश्च क्रियते यदिहापरम् ॥ श्लो० ३५०—संयोगे = साहित्ये । अत एव मत्स्यपुराण में कहा गया है :— दैवं पुरुषकारश्च कालश्च पुरुषोत्तम । त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलाय वै ॥ श्लो० ३५२—मित्रलब्धिः—मित्र का लक्षण निम्नलिखित है :— धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ श्लो० ३५८—धर्माद्विचलितः—अत एव दक्ष का कथन है :— पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । श्वपादेनाङ्कयित्वा तं राजा शीघ्रं विवासयेत् ॥

उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।

६७० याज्ञवल्क्यस्मृतिः श्लो० ३६७—दण्ड-स्थान का निर्देश मनुस्मृति में मिलता है:— दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ श्लो० ३६८— कालम् = दिवारात्रिसन्ध्यात्मकम्—शूलपाणि । कालम् = सुभिक्षदुर्भिक्षादियुक्तम्—वीरमित्रोदय । कर्म = अग्निहोत्रादि तथा सूनाधिष्ठानादि ॥ यथाचार्यमथाचारे याज्ञवल्क्यनिरूपिते । नारायणेन मिश्रेण टिप्पणीयं समापिता ॥

व्यवहाराध्याय श्लो० १—व्यवहारपदार्थस्वरूपनिरूपण के लिए अपरार्कमे कात्यायन का वचन है :— प्रयत्न-साध्ये विच्छिन्ने धर्माख्ये न्याय-विस्तरे । साध्य-मूलोऽत्र यो वादः व्यवहारः स उच्यते ॥ न्यायविस्तरे = न्यायप्रपञ्च मे । ऋणादानादिनानाविवादपद-विषय-संशयः निराक्रियते अनेनेति नाना संशयहारी विचारो व्यवहारः यह शूलपाणि का मत है । “लोभश्च उत्कोचादिरूपेण परवित्तलिप्सा लोभः। अज्ञान-प्रमादावप्यत्र वर्जनीयतया द्रष्टव्यौ” ( अपरार्क ) व्यवहार-काल के विषय में पराशर-माधवीय में बृहस्पति का वचन है :— दिवसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् । स कालो व्यवहाराणां शास्त्र-दृष्टः परः स्मृतः ॥ अपरार्क में उद्धृत कात्यायन का मत है :— आद्यादह्नोऽष्टभागाद्यत् ऊर्ध्वम्भागत्रयं भवेत् । स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ॥ व्यवहार-दर्शन की विधि मनु में कही गई है :— तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम् । विनीत-वेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ श्लो० २—सभासदाश्च बहु-शास्त्रज्ञाः ब्राह्मणाः तदलाभे क्षत्रियाः तदलाभे तादृशा एव वैश्याः शूद्रंस्तु न कथमपीति कात्यायनमनुप्रामाण्यात्—(अपरार्क) लो० ३—कार्यवशात् = व्यवहारदर्शनादधिकगुरुतरकार्यवशात् रोगादि- वशाद्वा—( अपरार्क ) श्लो० ४—स्मृत्यपेतादीत्यत्रादिपदात् व्यवहारापेतस्य ग्रहणम्—शूलपाणि एतच्च दण्डविधानं धन-विषय-विवादे, वादान्तरे तु पारुष्यादिविषये दण्डान्तरं वेदितव्यम्” ( अपरार्क ) श्लो० ६—जात्यादि—यहाँ आदि पद से कात्यायनोक्त द्रव्यसंख्या आदि परिग्राह्य हैं।

६७२ याज्ञवल्क्यस्मृतिः अपरार्क में कात्यायन के वचन ये हैं :— साध्यं प्रमाणं द्रव्यं च संख्या नाम तथात्मनः । राज्ञां च क्रमशॊ नाम निवासं साध्यनाम च ॥ क्ष्माऽऽपितॄणां नामानि पीडामाहर्तृणदायकौ । क्षमालिङ्गानि चान्यानि पक्षे संकीर्त्य कल्पयेत् ॥ देशादि के अनुल्लेख होने पर पक्ष-स्वीकार नहीं होता है । अत एव जी- मूत-वाहनकृत व्यवहार-मातृका बृहस्पति का वचन है :— देश-काल-विहीनश्च द्रव्य-संख्या-विवर्जितः । साध्य-प्रमाण-हीनश्च पक्षोऽनादेय इष्यते ॥ ( अनादेयः = अग्राह्यः राज्ञा इत्यर्थः ) ॥ श्लो० ७–( पूर्वार्ध ) उत्तर-लेख से पूर्वकालिक कृत्य के विषय में पराशर-माधवीय में बृहस्पति का वचन है :— विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्य-विशेषिते । प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरन्ततः ॥ उत्तरदान में अवधि का परिमाण स्मृति-कल्पतरु में बृहस्पति ने बतलाया है :— शालीनत्वाद्भयात्तद्वत् प्रत्यर्थी स्मृति-विभ्रमात् । कालम्प्रार्थयते यत्र तत्रेमं लब्धुमर्हति ॥ एकाहन्द्र्यहपञ्चाहसप्ताहं पक्षमेव वा । मासं ऋतुत्रयं वर्षं लभते शक्त्यपेक्षया ॥ कात्यायनीय मे तो कुछ विशेष बतलाया गया है :— सद्यो वैकाह-पञ्चाहौ त्र्यहं वा गुरुलाघवात् । लभेतासौ त्रिपक्षम्वा सप्ताहम्ववा ऋणादिषु ॥ कालं शक्तिं विदित्वा तु कार्याणां च बलाबलाम् अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥ उभयोर्लिखिते वाक्ये प्रारब्धे कार्यनिर्णये । अनुक्तं तन्न यो ब्रूयात् तस्मादर्थात्स हीयते ॥ श्लो० ७–( उत्तरार्ध ) सद्य इति । यहाँ कात्यायन का निम्न-लिखित वचन द्रष्टव्य है :— सद्यः कृतेषु कार्येषु सद्य एव विधीयते । कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ॥

टिप्पणी ( नोट्स ) ६७३ श्लो० १०—कलहो वाक्पारुष्यम् , साहसो दण्डपारुष्यम्—( अपरार्कः ) श्लो० ११—प्रत्यर्थी के द्वारा निह्नव करने पर अर्थी के कृत्य के विषय में मनु का कथन है :— अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता विशेद् देश्यं करणं वान्यदुद्दिशेत् ॥ ( देश्यम् = धनप्रयोगदेशवर्त्तिसाक्षिणम् , अन्यद्वा करणं पत्रादि इति । एवं निह्नवे प्रत्यर्थिना कृते यदि साक्ष्यादि-प्रमाणेन अर्थी प्रत्यर्थिनोऽपराधं भावयति तदा प्रत्यर्थी भावित इत्युच्यते, स च अर्थिना अभियुक्तं धनं दत्त्वा राज्ञे च स्वापह्नव-भाषणजन्य-दोषप्रयुक्तदण्डरूपेण तत्समन्धनन्दापयेदिति तात्पर्यम् ।) श्लो० १२—सहसा हठेन जनसमक्षं यत्परहिंसादि क्रियते तत्साहसम्— ( अपरार्कः ) श्लो० १३-१५—अत एव मनु ने भी कहा है :— बाह्यैः विभावयेल्लिङ्गैः भावमन्तर्गतं नृणाम् । स्वर-वर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्र-वक्त्र-विकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ (८।२५-२६ ) श्लो० १३-१५—आकृति से मनोभाव का अभिव्यञ्जन रामायण में भी बतलाया गया है :— आकारश्छाद्यमानोऽपि निग्रहीतुं न शक्यते । बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ श्लो० १६—नारद ने पाँच प्रकार के हीन का निर्देश किया है :— अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥ श्लो० १८—सपणः—जितेन मया एतावद्देयम् इत्यभ्युपेतं धनं पणः ( अपरार्कः ) श्लो० २०—एतत्तु वचनमपह्नववादिनः सावष्टम्भे प्रतिवचने द्रष्टव्यम् । यथा—एतेषामर्थानां मध्ये यद्येकमप्यर्थमर्थी साधयति तदा सर्वानेतानहं ददा- मीति । कुत एतत् ? छलोदाहरणपरत्वादस्य वाक्यस्य । अन्यथा— अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥

१०४ याज्ञवल्क्यस्मृतिः इति कात्यायनवचनविरोधः स्यात् (अपरार्कः) श्लो० २१-प्रमाणान्तरदृष्टार्थविषया स्मृतिः अर्थशास्त्रम् । वेदैकसमधिगम्यार्थविषया तु धर्मशास्त्रम् ॥ (अपरार्कः) दोनों के विरोध होने पर धर्मशास्त्र प्रबल माना जाता है— यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः । अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमाचरेत् ॥ श्लो० २४-धनस्य दशवार्षिकी-यहाँ विशेष द्रष्टव्य है :- सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदाचन । धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ (मनुस्मृतिः) श्लो० २५-इनसे अतिरिक्त पदार्थों का भी निर्देश बृहस्पति ने किया है :- विवाह्य श्रोत्रियैर्भुक्तं राजामात्यैस्तथैव च । सुदीर्घेणापि कालेन तेषां सिध्यति तत्त न ॥ असक्तालसरोगार्त्तबालभीतप्रवासिनाम् । शासनाढेन्येन भुक्तं भुक्त्वा न हीयते ॥ शासनाढम् = ताम्रपट्टादिलिखितम् । श्लो० २७-पूर्वक्रमागतम् = पूर्व शब्द का अर्थ है-पिता, पितामह तथा प्रपितामह । इससे स्पष्ट है कि पूर्वक्रमागत भोग आगम से बलवत्तर होता है । अत एव बृहस्पति का कथन है :- अनुमानाद् गुरुः साक्षी साक्षिभ्यो लिखितं गुरु । अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥ त्रिपुरुषी भुक्ति का अर्थ व्यास ने निम्नोक्त प्रकार से किया है :- प्रपितामहेन यद्भुक्तं तत्पुत्रेण विना च तम् । तौ विना तस्य पित्रा च तस्य भोगस्त्रिपौरुषः ॥ तीनों पूर्वजों के जीवित रहने पर किया गया भोग त्रिपुरुषभोग नहीं होता है । अत एव बृहस्पति का भी मत है :- पिता पितामहो यस्य जीवेच्च प्रपितामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपौरुषः ॥ श्लो० ३४-विद्वानशेषमादद्यात्-परन्तु ब्राह्मण भी निधि को प्राप्त कर पहले राजा को निवेदित करे, पश्चात् राजा की अनुमति पाकर उसका उपभोग करे । अत एव नारद का कथन है :-

श्लो० ३७–अशीतिभागः-सपादरूप्यकं प्रतिशतम् ।

टिप्पणी ( नोट्स ) ६७५ ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् । तेन दत्तं तु भुञ्जीत स्तेनः स्यादन्निवेदयन् ॥ श्लो० ३७–अशीतिभागः-सपादरूप्यकं प्रतिशतम् । यह वृद्धि-प्रकार वसिष्ठ-निर्दिष्ट है । अत एव मनुस्मृति में कहा गया है- वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते ॥ इत्यादि । यहाँ व्यास ने कुछ विशेष बतलाया है :- सबंधे भाग अशीतः षष्ठिभागः सलग्नके । निराधारे द्वेकशतं मासलाभ उदाहृतः ॥ श्लो० ४०-न वाच्यो नृपतेः-अत एव मनु का भी कथन है :- यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन्धनम् ॥ परन्तु यह संसाधन यथेच्छ विधि से नहीं होना चाहिए । उसकी विधि भी मनु ने ही बतलायी है- धर्मेण व्यवहारेण छलेनाचरितेन च ! प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ धर्म की व्याख्या बृहस्पति ने की है :- सुहृत्सम्बन्धिसन्दिष्टैः साम्ना चानुगमेन च । प्रायेण वा ऋणी दाप्यो धर्म एव उदाहृतः ॥ व्यवहारेण = लिखित आदि प्रमाण के आधार पर । मेधातिथि ने तो दूसरी व्याख्या की है :- “निःस्वो यः स व्यवहारेण दापयितव्यः । अन्यत्कर्मोपकरणं धनं दत्त्वा कृषिवाणिज्यादिना व्यवहारयितव्यः । तदुत्पन्नं धनं तस्माद् गृह्णीयात् ।” छल, आचरित तथा बल की व्याख्या बृहस्पति ने निम्नलिखित प्रकार से की है :- छद्मना याचितं चार्थमानीय ऋणिकाद् बली । अन्वाहतादि वाऽऽहृत्य दाप्यते तत्र सोपधिः ॥ दारपुत्रपशून् रुध्वा कृत्वा द्वारोपवेशनम् । यत्रार्थी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते ॥ ( विज्ञानेश्वर ने तो 'अचरितेन' शब्द को अभिप्रेत मान कर 'अभोजनेन' अर्थ किया है । अपरार्क के अनुसार 'आचरितेन = देशाचारेण' अर्थ है ।) ४३ या०

६७६ याज्ञवल्क्यस्मृतिः बद्ध्वा स्वगृह्मानीय ताडनाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः ॥ ( बलं = भोजननिषेधादिना पीडनम्—अपरार्कः ) पूर्व-पूर्व उपाय के अभाव में उत्तरोत्तर का अनुसरण करना चाहिए । श्लो० ४३—अत एव बृहस्पति का भी मत है :— ऋणिनं निर्धनं कर्म गृह्मानीय कारयेत् । शौण्डिकाद्यम् , ब्राह्मणस्तु दापनीयः शनैः शनैः ॥ किन्तु यदि उत्तमर्ण अधमर्ण से पूर्वानुक्त अनुचितकर्म करवाता है तो अधमर्ण ऋणमुक्त हो जाता है और उत्तमर्ण दण्ड्य हो जाता है । अत एव कात्यायन का कथन है :— यदि ह्याद्भावनाविष्टमशुभं कर्म कारयेत् । प्राप्नुयात्साहसं पूर्वमृणान्मुच्येत चर्णिकः ॥ श्लो० ४४—वर्धते न ततः परम्—अत एव संवर्त्त का वचन है :— न वृद्धिः स्त्रीधने लाभे निक्षेपे च तथा स्थिते । सन्दिग्धे प्रातिभाव्ये च यदि न स्यात् स्वयङ्कृता ॥ स्थिते = मध्यस्थ के यहाँ जमा किये हुए धन की । यदि न स्यात् स्वयङ्कृता का तात्पर्य है कि यदि अधमर्ण वृद्धि की प्रतिज्ञा नहीं की हो तो वृद्धि नहीं होती, अन्यथा उपर्युक्त धन में भी वृद्धि होती है । श्लो० ४५—अत एव नारद का भी वचन है :— पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम् । मात्रा वा यत्कुटुम्बार्थे दद्युः तत्सर्वमृक्थिनः ॥ श्लो० ४६—न पुत्रेण कृतं पिता—इसका अपवाद बृहस्पति ने बत- लाया है :— ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम् । सुतस्नेहेन वा दद्याद् नान्यथा दातुमर्हति ॥ यहाँ पुत्र पद उपलक्षण है योषिदादि का भी । अतः भार्या आदि के द्वारा कृत ऋण भी स्वानुमोदित होने पर समाधेय है । श्लो० ४७—तथैव—यह प्रातिभाव्य तथा क्रोधकृत ऋण का भी उपलक्षण है । प्रातिभाव्य का निर्देश मनु ने किया है :— प्रातिभाव्यं वृथा दानमाक्षिकं सौरिकं च यत् ।

दण्डशुक्लावशेषं च न पुत्रो दातुमर्हति ॥ दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः । क्रोधकृत ऋण का निर्देश नारद ने किया है :— न पुत्रर्णं पिता दद्याद् दद्यात् पुत्रस्तु पैतृकम् । काम-क्रोध-सुरा-द्यूत-प्रातिभाव्यकृतं विना ॥ क्रोधकृत ऋण की परिभाषा कात्यायन ने की है :— यत्र हिंसां समुत्पाद्य क्रोधाद् द्रव्यं विनाशय वा । उक्तं तुष्टिकारं यत्तु विद्यात् क्रोधकृतं हि तत् ॥ परस्य हिंसां धनविनाशं वा क्रोधात् कृत्वा तत्तुष्टये यद्द्रव्यं दातव्य- स्वेन अङ्गीकृतं तत् क्रोधकृतम्—( अपरार्कः ) श्लो० ४९—प्रतिपन्नम्—कभी कभी अप्रतिपन्न ऋण को भी चुकाना पड़ता है, जैसा कात्यायन ने कहा है :— मर्तुकामेन या भर्त्रा प्रोक्ता देयमृणं त्वया । अप्रपन्नाऽपि सा दाप्या ऋणं पत्याश्रितं स्त्रियाः ॥ श्लो० ५२—अत एव नारद का भी कथन है :— साक्षित्वं प्रातिभाव्यं वा दानं ग्रहणमेव च । विभक्ताः भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥ परन्तु यदि सर्वानुमत हो तो अविभक्त को भी साक्षित्व आदि का अधिकार हो सकता है । श्लो० ५३—बृहस्पति ने चार प्रकार का प्रतिभू बतलाया है :— दर्शने प्रत्यये दाने ऋणद्रव्यार्पणे तथा । चतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥ प्राहैको दर्शयिष्यामि साधुरेषोऽपरोऽब्रवीत् । दाता तवैतद् द्रविणमर्पयिष्यपरोऽब्रवीत् ॥ आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । उत्तरौ तु विसंवादे तौ विना तत्सुतौ पुनः ॥ सुता अपि—सुत शब्द के प्रयोग से मनु के वचन में प्रयुक्त 'दायाद' (दान-प्रतिभुवि प्रेते दायादानपि दापयेत्) शब्द से पुत्र-पौत्रादि-संग्रह- विषयक भ्रम का निवारण हो जाता है । तात्पर्य यह है कि पुत्रमात्र ही प्रातिभाव्य का समर्पण करे पौत्र आदि नहीं । अत एव कात्यायन का मत है :— प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत् कचित् ।

६७८ याज्ञवल्क्यस्मृतिः पुत्रेणापि समं देयम् ऋणं सर्वत्र पैतृकम् ॥ समम् = वृद्धिरहितम् । श्लो० ५५—एकच्छायाश्रिताः = प्रत्येकं विकल्पेन सकलधनदायकत्व- माश्रिताः—(अपरार्कः) श्लो० ५६—द्विगुणम्—यदि धनिक के द्वारा प्रतिभू ऋणिक-गृहीत धन देने के लिए पीड़ित हुआ हो तब की स्थिति है। साधारणतः अपने धन का समान रूप ही प्रतिभू ऋणिक से प्राप्त करने का अधिकारी है। अत एक कात्यायन का कथन है— यस्यार्थे येन यद् दत्तं विधिनाऽभ्यर्थितेन तु । साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् ॥ द्वैगुण्य की अवधि बृहस्पति ने बतलायी है :— त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुमर्हति ॥ श्लो० ५७—स्त्रीपशुषु = गोमहिष्यादिषु—(अपरार्कः) स्त्री च पशुश्च... दास्यादि छाग्यादि च—(शूलपाणिः) श्लो० ६०—स्वीकरणात् = परिग्रहात्......स्वीकरणं च भोग्याधौ भोगपर्यन्तं गोप्याधौ भाण्डागारप्रवेशपर्यन्तम्—(अपरार्कः) श्लो० ६१—प्रयोजके = बन्धकग्रहीतरि । असति = मृते प्रोषिते वा (अपरार्कः) श्लो० ६६—राजदैविकतस्करैः—अत एव मनु का भी मत है :— चौरैर्हृतं जलेनोढमग्निना दग्धमेव च । न दद्याद् यदि तस्मात्स न संहरति किञ्चन ॥ श्लो० ६९—साक्षिणः—साक्षी शब्द का विवेचन मनु ने किया है :— समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति । यथाजाति यथावर्णम्—अत एव मनु का कथन है :— स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥ श्लो० ७२—एकोऽपि—अत एव मनु का कथन है :— एकोऽलुब्धस्तु साक्षी स्यात्...। व्यास का भी मत है :— शुचिर्द्धियश्च धर्मज्ञः साक्षी यत्रानुभूतवाक् । प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः ॥

टिप्पणी (नोट्स) ६७५ साहसम् = “स्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम्” (मनुस्मृतिः) श्लो० ७८—अत एव नारद का भी कथन है :— साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो मताः । तत्साम्ये शुचयो ग्राह्यास्तत्साम्ये शुचिमत्तराः ॥ श्लो० ८१—विवास्यो ब्राह्मणः—अतएव मनु ने कहा है :— न जातु ब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम् । राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् । कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत् ॥ मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ इत्यादि । श्लो० ८३—चरुः सारस्वतः—इसका विकल्प मनु ने बतलाया है :— कूष्माण्डैर्वापि जुहुयाद् घृतमग्नौ यथाविधि । उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन तु ॥ द्वादशरात्रे पयः पिबन् कूष्माण्डैर्जुहुयात् (बौधायनः) शूद्रश्चैकदिनकं गोद्दशकस्य ग्रासं दद्यात् (विष्णुः) श्लो० ८६—स्वहस्तेन—यह अक्षराभिज्ञ ऋणी के विषय में है । अक्षरा- नभिज्ञ ऋणी को अन्य सत्पुरुष द्वारा लिखवाना चाहिए । अत एव व्यास का कथन है :— अलिपिज्ञ ऋणी यः स्याल्लेखयेत् स्वमतं तु सः । श्लो० ९५—दिव्य का विषय नारद ने बतलाया है :— यदा साक्षी न विद्येत विवादे वदतां नृणाम् । तदा दिव्यैः परीक्षेत शपथैश्च विभावयेत् ॥ शीर्षकस्थे = यदि अभियोक्ता साभिमान ऐसा उद्घोष करे कि यदि अभि- युक्त अपराधी नहीं सिद्ध होगा तो वह अभियोक्ता स्वयं दण्डभागी बनेगा— तो (तुला आदि दिव्य का प्रयोग होना चाहिए) । श्लो० ९८—यहाँ कात्यायन का वचन द्रष्टव्य है :— राजन्येऽग्निं घटं विप्रे वैश्ये तोयं निधापयेत् । सर्वेषु सर्वं दिव्यं वा विषवर्जं द्विजोत्तमे ॥ गोरक्षकान् वाणिजकान् तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव ग्राहयेत् शूद्रवद् द्विजान् ॥

विषं सहस्रेऽपहृते पादोने तु हुताशनः ।

६८० याज्ञवल्क्यस्मृतिः

श्लो० ९९—इस प्रसङ्ग में बृहस्पति के निम्नलिखित वचन अव- धेय हैं :— संख्या रश्मिरजोमूला मनुना समुदाहृता । कार्षापणान्ता सा दिव्ये नियोज्या विनयेत्तथा ॥ विषं सहस्रेऽपहृते पादोने तु हुताशनः । त्रिपादोने च सलिलमर्धे देयो घटः सदा ॥ चतुःशताभियोगे च दातव्यस्तप्तमाषकः । त्रिंशते तण्डुला देयाः कोशश्चैव तदर्थके ॥ शते हृतेऽपहृते च दातव्यं धर्मशोधनम् । गोचौरस्य प्रदातव्यः सभ्यैः फालः प्रयत्नतः ॥ एका संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता । चतुर्गुणोत्तमानां च कल्पनीया परीक्षकैः ॥ निकृष्टानां = जाति, गुण तथा कर्म से निकृष्ट । श्लो० १००—१०२—प्रतिमानसमीभूतो रेखां कृत्वाऽवतारितः । इसका तात्पर्य है कि दिव्यकर्त्ता के तोलने के समय तुला की रज्जु की लम्बाई जितनी रहे उसको परीक्षा के समय यथावत् समझने के लिए रज्जु की उस बिन्दु (जहाँ तुला संलग्न रहे) पर रेखा डाल देनी चाहिए । यह विधि अधिवास के दिन की है । अधिवास के दिन एक बार दिव्यकर्त्ता को तौलना चाहिए । और तौलने के बाद दिव्यकर्त्ता तुला से उतर कर तुला को अभिमन्त्रित करे । अतः 'रेखां कृत्वाऽवतारितः' से लेकर 'तुलामित्यभिमन्त्रयेत्' तक का कार्य अधिवास के दिन का है—यह ध्यान रखना चाहिए । इसके बाद पर दिन में अभिमन्त्रित तुला पर दिव्यकर्त्ता को तौलना चाहिए । तौलने के बाद निर्णय के प्रकार का निर्देश निम्न-लिखित श्लोक में किया गया है :— तुलितो यदि वर्धेत विशुद्धः स्यान्न संशयः । समो वा हीयमानो वा न विशुद्धो भवेन्नरः ॥ यद्यपि मिताक्षरा में यह श्लोक पितामह के नाम से उद्धृत है तथापि वीरमित्रोदयकार के अनुसार यह मूल याज्ञवल्क्य-स्मृति का ही माना जाता है । विचार करने पर यही उचित भी लगता है कि यह मूल-ग्रन्थ का है । यदि इसे मूल श्लोक नहीं माना जाय तो मूल-में न्यूनता रह जाती है, क्योंकि तुला-परीक्षा के निर्णय का प्रकार अस्पष्ट ही रह जाता है । अतः इस श्लोक को मूल-ग्रन्थ का ही अङ्ग मानना उचित है। भूमिकान्तर्गत

टिप्पणी (नोट्स) ६८१ श्लोक संख्या विवरण के प्रसङ्ग में इस का सङ्केत नहीं हो सका । अतः पाठक से क्षमा-याचना अपेक्षित है । श्लो० १०३—अश्वत्थपत्राणि—यहाँ अपरार्क में उद्धृत निम्न-लिखित स्मृति पर ध्यान देना अपेक्षित है :— पितामहः— सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । हस्तयोर्निक्षिपेत्तत्र तन्तुसूत्रस्य सप्त वै ॥ वीरमित्रोदय में कुछ और भी विशेष बात बतलाई गई है :— “अत्र, “शम्यक्षतन्तथा दूर्वां दत्त्वा पत्रेषु विन्यसेत्” इति विशेषः स्मृत्य- न्तरेऽभिहितः” । श्लो० १०६—मण्डलानि—गोमय के द्वारा निर्मित होना चाहिए । श्लो० १०७—मुक्त्वाग्निम्—यहाँ शूलपाणि का कथन अवश्य- ध्येय है :— “गत्वा तत्तु तृणे क्षिपेत्” इति कालिकापुराणवचनात् । अग्निवर्णं लोहपिण्डं तृणचये क्षिप्त्वा...... ॥ अदग्धः—करभिन्ने अङ्गे दग्धोऽपि शुद्ध एव ( वीरमित्रोदयः ) श्लो० ११४—इच्छया—यह केवल पिता के द्वारा अर्जित धन में ही, यदि पितामह आदि का अर्जित हो तो पिता की अनिच्छा से भी विभाग हो सकता है । अतएव बृहस्पति का कथन है :— क्रमागते गृहक्षेत्रे पितापुत्राः समांशिनः ॥ श्लो० ११५—पत्न्यः = पुत्रशून्याः—शूलपाणिः । श्लो० ११६—अनीहमानस्य—यः पुत्रः धनार्जनसमर्थतया पितृधनं नेच्छति, यो वा धनार्जनसमर्थोऽपि शठतया धनस्यार्जनरक्षणानुकूलां चेष्टां न कुरुते तस्मै किञ्चिदसारं दत्त्वा पित्रा पृथक् क्रिया कार्या—(अपरार्कः) यह नियम पिता की सम्पत्ति के विभाजन में नहीं होता अपि तु सभी भाई जो कृषि आदि के द्वारा धनार्जन करते हैं उस धन में आलस्यवशात् कार्यविमुख भ्राता अंशहर नहीं हो सकता है । इसी प्रकार विद्या आदि से स्वतन्त्र धन को अर्जित करने की शक्ति से सम्पन्न भ्राता को भी पहले ही पृथक् कर देना चाहिए । इसका कारण यह है कि जो विद्या से अर्जित धन होता है उसमें दूसरे का अंश नहीं होता है एवञ्च यदि सभी साथ रहें तो विद्या से अर्जन करने वाले को समूह में कृषि के द्वारा अर्जित धन में अंश मिल जाता है

६८२ याज्ञवल्क्यस्मृतिः और विद्या से भी अतः विद्या-शक्त व्यक्ति को अनुचित लाभ से रोकने के लिए यह नियम बतलाया गया है । धर्मः- अत एव बृहस्पति का वचन है :— समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः । तथैव ते पालनीया विनेयास्ते स्युरन्यथा ॥ श्लो० ११७—अन्वयः—दुहित्रभावे दुहित्रन्वयः, तदभावे पुत्रादिरेव— ( अपरार्कः ) श्लो० ११९—विद्यया लब्धम्—विद्यालब्ध धन की व्याख्या कात्यायन ने निम्नलिखित वचनों द्वारा की है :— परभक्तप्रदानेन प्राप्ता विद्या यदाऽन्यतः । तया च प्राप्तं विधिना विद्या-प्राप्तं तदुच्यते ॥ उपन्यस्ते च यह्लब्धं विद्यया पणपूर्वकम् । विद्याधनं तु तद्विद्याद् विभागे न विभज्यते ॥ शिष्यादार्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् । स्वज्ञानशंसनाद् वादाद् लब्धं प्राज्यधनाच्च यत् ॥ विद्याधनन्तु तत्प्राहुर्विभागे न विभज्यते ॥ श्लो० १२०—समः स्मृतः—"एतदविद्यानाम् इत्याह मनुः— अविद्यानां च सर्वेषामीहातश्चेद्धनं भवेत् । समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥' ( शूलपाणिः ) श्लो० १२१—निबन्धः = आकरादौ राजादिदत्तं नियतद्रव्यम्— ( शूलपाणिः ) सदृशं स्वाम्यम्—अत एव बृहस्पति का भी मत है :— द्रव्ये पितामहोपात्ते स्थावरे जङ्गमे तथा । सममंशित्वमाख्यातं पितुः पुत्रस्य चैव हि ॥ श्लो० १२२—विभागभाक् = पिता के धन का भागी होता है। यह नियम विभाग के उत्तर काल में यदि सवर्णा में गर्भाधान हुआ हो, तब उप- युक्त है । विभाग से पूर्व ही गर्भाधान होने पर तो सर्व-भ्रातृ-सम-अंश का भागी होता है :— पितृविभक्तविभागानन्तरोत्पन्नस्य भागं दद्युः ( विष्णुः ) उपर्युक्त मत शूलपाणि का है । श्लो० १२३—माता—इस प्रसङ्ग में कुछ विशेष बात व्यास ने बतलाई है :—

टिप्पणी (नोट्स) ३८३ अमुतास्तु पितुः पत्न्यः समानांशाः प्रकीर्त्तिताः । पितामह्यश्च सर्वास्ता मातृतुल्याः प्रकीर्त्तिताः ॥ श्लो० १२६-द्रव्यं समैरंशैः-यह ऋण का भी उपलक्षण है । अत एव मनु का कथन है :- ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि । पश्चाद् दृश्येत यत् किञ्चित् तत्सर्वं समतां नयेत् ॥ श्लो० १३०-पौनर्भवः-इसका लक्षण कात्यायन ने बतलाया है :- क्लीबं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भवो जातो व्यक्तमुत्पादकस्य सः ॥ श्लो० १३१-गर्भे विन्नः सहोढजः- इसका स्पष्ट लक्षण मनुस्मृति में किया गया है :- या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती । वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ श्लो० १३२-पुत्र-प्रतिनिधीनां मध्ये दत्तक एव कलियुगे ग्राह्यः । अत एव कलौ निवर्त्तन्ते इत्यनुवृत्तौ शौनकेनोक्तम्- दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः । ( अपरार्कः ) श्लो० १३५-पितरौ-यद्यपि विग्रह-वाक्य में ( माता च पिता च = पितरौ ) मातृ का प्रथम प्रयोग होता है; अतः पत्नी के बाद दुहिता तथा दुहिता के बाद माता, पिता इत्यादि क्रम प्रतीत होता है और विज्ञानेश्वर ने यही माना भी है तथापि यहाँ विग्रहगत पौर्वापर्य विवक्षित नहीं है । एवञ्च पत्नी, दुहिता, पिता, माता इत्यादि क्रम समझना चाहिए । अतएव विष्णु का वचन है :- अपुत्रधनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भ्रातृपुत्र- गामि, तदभावे सकुल्यगामि । अत एव कात्यायन का भी मत है :- अपुत्रस्याप्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राः प्रकीर्त्तिताः । पुत्राः = भ्रातृपुत्राः । किन्तु शूलपाणि ने अपुत्रधनं पत्न्यभिगामि, तद- भावे दुहितृगामि, तदभावे मातृगामि, तदभावे पितृगामि......ऐसा ही उपर्युक्त विष्णु-वचन का स्वरूप माना है ।

६८४ याज्ञवल्क्यस्मृतिः कुल्लूकभट्ट का मत कुछ और ही है। अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ इस श्लोक की व्याख्या में कुल्लूकभट्ट का कथन निम्नलिखित है :- "अनपत्यस्य पुत्रस्य धनं माता गृह्णीयात्, पूर्वं "पिता हरेदपुत्रस्य रिक्थम्" इत्युक्तत्वात् इह 'माता हरेदि'त्यादि । याज्ञवल्क्येन 'पितरौ' इत्येकशेषकरणात्, विष्णुना च-अपुत्रस्य धनं पत्न्यभिगामि, तदभावे दुहितृगामि, तदभावे पितृगामि इत्येकशेषस्यैव कृतत्वात् मातापितरौ विभज्य गृह्णीयाताम् ॥" यहाँ पत्नी का अर्थ पतिव्रता पत्नी है । अत एव वृद्ध मनु का कथन हैः- अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात् तत्पिण्डं कृत्स्नमंशं लभेत च ॥ अन्यथा तो सोदर को अधिकार होता है। इस पक्ष में निम्न लिखित शंख-लिखित वचन प्रमाण है :- अथापुत्रस्य स्वर्गयातस्य भ्रातृगामि द्रव्यं तदभावे मातापितरौ लभेतां पत्नी वा ज्येष्ठा । श्लो० १४०-जडः = स्वधर्मकृत्ये निरुत्साहः-( शूलपाणिः ) श्लो० १४९- विभागव्यञ्जक तत्त्वों का उल्लेख नारद ने किया है :- पृथगायव्ययधनाः कुसीदं च परस्परम् । वणिक्पथं च ये कुर्युर्विभक्तास्ते न संशयः ॥ श्लो० १६०-विवीतः = तृण आदि के निमित्त सुरक्षित भूमि । श्लो० १६१-गोमी = गोस्वामी । गो के द्वारा भक्षित धान्य की याचना में उशना ने दोष बतलाया है :- गोभिर्विनाशितं धान्यं यो नरः प्रातयाचते । पितरस्तस्य नाश्नन्ति न चाश्नन्ति दिवौकसः ॥ (तस्य धान्यम् न अश्नन्ति) । श्लो० १६७-धनुः = चतुर्हस्तो धनुः । खर्वटः=ग्रामादधिकः नगराम्न्यूनः गृहसमूहः-( अपरार्कः ) श्लो० १-स्वं लभेत-अस्वामिविक्रीत पदार्थ में स्वामी का स्वत्व नष्ट नहीं होता है :- अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथास्थितिः ॥

टिप्पणी ( नोट्स ) ६८५ श्लो० १७१—यहाँ मनु ने विशेषता बतलाई है :— सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् । आगमः कारणं तत्र न संभोग इति स्थितिः ॥ श्लो० १७३—अर्वाक् संवत्सरात्—मनु के द्वारा “राजा ड्यब्दं निधा- पयेत् ।” जो कहा गया है वह सुवर्णादि स्थिर वस्तुओं के विषय में है, ऐसा शूलपाणि का मत है । श्लो० १७५—नान्वये सति सर्वस्वम्—एतच्च प्राग्दायविभागात् , विभक्तदायेषु तु पुत्रेषु सर्वस्वदानमनिषिद्धम्—( अपरार्कः ) श्लो० १७६—दत्त्वा नापहरेत्—अपहरण करने पर दोष का निर्देश हारीत ने किया है :— प्रतिश्रुताऽप्रदानेन दत्तसंश्लेहनेन च । विविधान्नरकान्याति तिर्यग्योनौ च जायते ॥ श्लो० १७७—परीक्षण के पहले दोष निकलने पर कृत्य का निर्देश बृहस्पति ने किया है :— अतोऽर्वाक् पण्यदोषस्तु यदि संजायते क्वचित् । विक्रेतुः प्रतिदेयं तत् क्रेता मूल्यमवाप्नुयात् ॥ मूल्य का तात्पर्य है कि विना सूद का ही मूलधनमात्र प्रत्यर्पणीय होता है । श्लो० १८३—आमरणान्तिकम्—अत एव नारद का कथन है :— राज्ञ एव तु दासः स्यात् प्रव्रज्याऽवसितो नरः । न तस्य प्रतिमोक्षोऽस्ति न विशुद्धिः कथञ्चन ॥ द्वावेव कर्मचाण्डालौ लोके दूरबहिष्कृतौ । प्रव्रज्योपनिवृत्तश्च वृथा प्रव्रजितश्च यः ॥ ‘वृथा प्रव्रजितः’ का अर्थ है प्रव्रज्या का अनधिकारी शूद्र यदि प्रव्रज्या का ग्रहण करे तो उससे भी आमरण दास्य करवाना चाहिए । परन्तु ब्राह्मण के प्रव्रज्याच्युत होने पर भी दास्य विहित नहीं है । ब्राह्मण के दण्ड का निरूपण दक्ष ने किया है :— पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । श्वपादेनाङ्कितं तन्तु राजा शीघ्रं विवासयेत् ॥ कात्यायन-कथित प्रकार भी निम्नलिखित है :— प्रव्रज्याऽवसिता यत्र त्रयो वर्णा द्विजातयः । निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविण्नृपः ॥