अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
१२४ | अभिज्ञानशाकुन्तलम्
( ततः प्रविशति कामयमानावस्थो राजा )
राजा— ( निःश्वस्य )
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २ ॥
अथ मिथः प्ररूढरागयोः शकुन्तलादुष्यन्तयोः समदनावस्थावर्णनेन विप्रलम्भशृङ्गारं प्रदर्शयिष्यन् कविकालिदासः पूर्वसूचितस्य नायकस्य प्रवेशमाह—तत इति ।
( ततः=शिष्यः निर्गमनान्तरं कामयमानावस्थः–कामयमानस्य = कामिनः, विरहिणः अवस्था = दशा इवावस्था यस्य स कामयमानावस्थः विरहव्याकुलो राजा दुष्यन्तः प्रविशति = रङ्गभूमौ आविर्भवति ) ।
राजा— ( निःश्वस्य = दीर्घं निःश्वासम् उत्सृज्य ) ।
ससैनिकं विदूषकं राजधानीं संप्रेष्य मुनियज्ञविघ्नाश्च निवार्य मुनिभिः विश्रामार्थमादिष्टो राजा दुष्यन्तः रहसि शकुन्तलामेवानुध्यायन् मदनज्वालावलीढहृदयः प्रियाप्राप्त्युपायं विमृशन्नपि नाधिगच्छन् सोत्कण्ठमाह—जाने इति ।
अन्वयः— ( अहम् ) तपसो वीर्यं जाने, सा बाला परवती ( अस्ति ) इति मे विदितं तथापि इदं हृदयं ततो निवर्तयितुं न अलमस्मि ।
अनुयात्रिकैः सार्द्धं विदूषकं स्वराजधान्यां संप्रेष्य मुनिजनकार्यं च सम्पाद्य तै विश्रामाद्यर्थमादिष्टो रहसि स्थितो राजा दुष्यन्तः सोत्कण्ठं शकुन्तलामेवानुध्यायन् तद्विषये विमृशति—जाने तपसो वीर्यमिति । अहं = दुष्यन्तः तपसः = तपश्चरणस्य वीर्यं = प्रभावं जाने = बलाद् यदि शकुन्तलां हरामि तदा नूनं कण्वशापापहतो भवेयमिति वेद्मि सा = अनुभूतकटाक्षमन्दस्मिता मय्यनुरागिणी बाला = षोडशवार्षिकी शकुन्तला परवती पराधीना गुरुजनपरतन्त्रा । इति = एवं मे = मम विदितम् = ज्ञातम् । स्वयं मय्यनु-रक्ताऽपि सा ऋषिाशापभयेन बलादपि हर्तुं न शक्यते, अप्रगल्भत्वाद् गुरुजनपरतन्त्रत्वाच्च सा स्वयमागमिष्यतीत्यपि न सम्भवति । एवं चेत्तर्हि तत्कथैव त्याज्येत्याह—अलमिति । तथापि = तदपि इद हृदयं = स्वकीयं मनः ततः = शकुन्तलातो निवर्तयितुं = अपसारयितुं परावर्तयितुं दूरीकर्तुं न अलं = समर्थः अस्मि = न शक्नोमि ।
अर्थ भावः— यदि प्रभुशक्तिसम्पन्नोऽहं शकुन्तलां बलादपहरामि तर्हि निग्रहानुग्रह-समर्थाः तपस्विनः कदाचित् मां शापेन दहेयुः । मय्यनुरागिणी अपि सा शकुन्तला गुरुजन-
जाता है तथा कमल के भीगे पत्तों की चादर की तरह बिछा दिया जाता है एवं उससे हवा भी की जाती है ।
( इसके बाद विरही जैसी अवस्था में राजा दुष्यन्त का रंगमंच पर प्रवेश )
राजा— ( आह भरकर )
मैं मुनियों की तपस्या का प्रभाव खूब जानता हूँ ( वे शाप देकर परिवार सहित भस्म करने की शक्ति रखते हैं ) और यह बाला शकुन्तला कण्व के पराधीन है ( उनकी आज्ञावर्तिनी है ) यह भी जानता हूँ । अतः कण्व की आज्ञा के बिना इसके साथ किसी प्रकार का सम्बन्ध करना विपत्ति से खाली नहीं है । पर क्या करूँ ? मेरा मन तो उसकी ओर उसी प्रकार नहीं हट रहा है जैसे नीची भूमि से ऊपर की ओर जल ॥ २ ॥
विशेष— 'तपो हि दुरतिक्रमः' के अनुसार तप की शक्ति सबसे प्रबल मानी जाती है । इसलिए राजा दुष्यन्त सोच रहे हैं कि शकुन्तला को बलात्कार से अपने पास रख लेने पर महर्षि कण्व
तृतीयोऽङ्कः १२५
( मदनबाधां निरूप्य ) भगवन् कुसुमायुध, त्वया चन्द्रमसा च विश्वसनीयाभ्या- मतिसंधीयते कामिजनसार्थः । कुतः—
तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ ३ ॥
पराधीनत्वान्न स्वयं मामुपस्थातु शक्नोति । अत्राप्रस्तुतप्रशंसा-विशेषोक्तिः अतिशयो- क्तिश्चालङ्काराः वृत्तं चार्या ॥ २ ॥
अथ विप्रलम्भपरिपोषाय राज्ञो दशां वर्णयन्नाह—मदनबाधामिति । ( मदनस्य = कामस्य बाधां = पीडां निरूप्य = नाटयित्वा ) उन्मादवशात् मदनं पुरोऽवस्थितं सम्भावयन् सबहुमानमुपालभमानो राजा प्राह—भगवन् कुसुमायुध ! = श्रीमन् कामदेव ! त्वया = कामेन चन्द्रमसा = शशिना च विश्वसनीयाभ्यां = विश्वस्ताभ्याम्, सौम्यत्वात्-आह्लाद-जनकत्वाच्च विश्वासयोग्याभ्यां कामिजनसार्थः = सर्वकामुकजनसमूहः अतिसन्धीयते = प्रतार्यते । न त्वहमेव अपितु सर्वेऽपि कामिनः त्वया चन्द्रमसा च सम्भूये त्वमेव वञ्च्यन्ते । तस्माद् युवां प्रसिद्धौ प्रतारकौ इति भावः । कुतः = यतः ।
मदनचन्द्रमसोः कामिजनातिसन्धातृत्वं समर्थयन्नाह —तवेति ।
**अन्वयः—**तव कुसुमशरत्वं, इन्दोः शीतरश्मित्वं, इदं द्वयं मद्विधेषु अयथार्थं दृश्यते । इन्दुः हिमगर्भैः मयूखैः अग्निं विसृजति त्वं कुसुमबाणान् अपि वज्रसारी करोषि ।
शकुन्तलाविरहेण सातिशयं क्लिश्यन् सोन्माद इव शिथिलविवेको राजा दुष्यन्तः कामं चन्द्रं चोपालभते—तवेति । तव = भवतः, कुसुमायुधस्य, मदनस्य कुसुमशरत्वं- कुसुमः = पुष्पं शरः = बाणो यस्या स तस्य कुसुमशरस्य भावः कुसुमशरत्वं = पुष्पात्मक-बाणत्वं इन्दयति = आह्लादयतीन्दुः तस्य इन्दोः = आह्लादनस्वभावस्य चन्द्रमसः शीतरश्मित्वं = शीताः = हिमाः रश्मयः = किरणा यस्य स शीतरश्मिः तस्य भावः तत्त्वं शीतरश्मित्वं = शैत्यकारित्वेन तापस्यापनोदनकिरणवत्त्वम्, इदं द्वयम् = एतत् पूर्वोक्तम्
शायद नाराज होकर मेरा अनिष्ट कर देंगे । क्योंकि मेरे सैन्यबल की अपेक्षा उनमें तपोबल प्रवल है और उनके अधीन रहने के कारण शकुन्तला स्वयं मेरे पास आ नहीं सकती । दूसरी बात यह है कि मेरा मन शकुन्तला के पास चला गया है और वहीं उसमें इतना लीन हो गया है, कितना भी मैं चाहता हूँ कि पुनः मेरे पास लौट आये पर वह वहां से आना नहीं चाहता ।
( काम बाधा का अभिनय करके ) मन को मन्थन करने वाले भगवान् कामदेव ! जब आप कुसुमायुध हैं, तब आपका यह तीखापन कैसे ? पुष्प के बाणों को चलाकर भी आप कामीजनों को इतनी भीषण व्यथा कैसे पहुँचाते हैं ? आप और शीतल ( कुछ स्मरण करके ) ओह ! ठीक रश्मि चन्द्रमा भी है । विश्वसनीय होकर भी आप और चन्द्रमा दोनों कामीजनों को धोखा देते हो, क्योंकि-
आपका नाम कुसुमायुध और चन्द्रमा का नाम शीतरश्मि है, किन्तु आपलोगों के ये दोनों नाम हमारे जैसे विरही लोगों के लिए अन्वर्थ नहीं हैं, क्योंकि चन्द्रमा तो अपनी किरणों से हिमगर्भ अग्नि, बरसाता है और आप भी नाम से कुसुमायुध होकर वज्र से भी कठोर तीखे बाण विरहियों पर बरसाते हो । अतः आपके तथा चन्द्रमा के मीठे-मीठे नामों को सुनकर विश्वास में विरही लोग धोखा खा जाते हैं ॥ ३ ॥
**विशेष—**कामदेव का नाम कुसुमायुध है और चन्द्रमा की किरणें शीतल हैं अतः वे शीत-
१२६ अभिज्ञानशाकुन्तलम्
( सखेदं परिक्रम्य ) क्व नु खलु संस्थिते कर्मणि निरस्तविघ्नैः सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानम् विनोदयामि। ( निःश्वस्य ) किं नु खलु मे प्रिया दर्शनादृते शरणमन्यत्। यावदेनामन्विष्यामि। ( सूर्यमवलोक्य ) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति। तत्रैव तावद् गच्छामि। ( परिक्रम्य संस्पर्शं रूपयित्वा ) अहो प्रवातसुभगोऽयमुद्देशः।
उभयमपि तव कुसुमशरत्वमिन्दोः शीतरश्मित्वं च मद्विधेषु = मत्सदृशावस्थेषु विरहिषु अयथार्थं—विपरीतार्थं दृश्यते = अनुभूयते। इन्दुः = चन्द्रमाः हिमं = तुहिनं गर्भे = मध्ये येषां ते तैः हिमागर्भेः = तुषारमध्यैः मयूखैः = किरणैः अग्नि = सर्वाङ्गीणताप-जनकं वह्निं विसृजति = किरति त्वं = कुसुमबाण इति व्यपदिष्टः कामः कुसुमबाणान् = कुसुमात्मकत्वेन सौम्यान् = आह्लादकान् स्वीयशरान् अपि वज्रसारीकरोषि वज्रस्य = कुलिशस्य सार इव सारो बलं येषां यद्वा अवज्रसान् वज्रसान् करोषीति वज्रसारी करोषि अथवा वज्रवत् = कुलिशवत् सारीकरोषि दृढीकरोषि। वज्रस्येव कुसुमेषु काठिन्यमाधाय तैः सारभूतैः कामिनः प्रहरसीत्यहो ते वञ्चनचातुरीत्यर्थः।
अर्थ भावः— भगवन् कुसुमायुध ! मुधैव त्वं पुष्पबाण उच्यते किञ्च चन्द्रोऽप्यसौ वृथैव शीतरश्मिर्निगद्यते। युवयोः कुसुमशरत्व-शीतरश्मित्वे द्वे अपि मादृशेषु विरहिषु जनेषु बाढं विपरीतार्थे एव प्रतीयेते। यद्यसौ चन्द्रमा शीतरश्मिः तर्हि कथं स्वकिरणैरनलमभि-वर्षति ? एवमेव भगवन् कामदेव ! त्वमपि बहिर्दृष्ट्या कुसुमाकारानपि स्वीयान् शरान् कुलिशवत्तीक्ष्णान् मर्मंच्छिदश्च कुरुषे। अत्र काव्यालिङ्गरूपक-विरोधाभास-परिणामोपमा छेकानुप्रासा अलङ्काराः मालिनीछन्दश्च ॥ ३ ॥
( सखेदं = खेदसहितं परिक्रम्य किञ्चिच्चलित्वा ) मदनक्लेशं सोढुमसमर्थः स्वचित्त-विनोदो चिन्तयन्नाह—क्व = कुत्र कस्मिन् देशे उपविश्य नु खलु = वितर्के संस्थिते = समाप्ते कर्मणि = कार्ये निरस्तविघ्नैः सदस्यैः = यज्ञसभाया ऋत्विग्भिः अनुज्ञातः अनुमतः श्रमक्लान्तं = यज्ञविघ्ननिवारणजन्यपरिश्रमेण खिन्न आयासश्रान्तं, आत्मानं = शरीरं विनोदयामि = क्लेशमपहरामि ( निःश्वस्य = दीर्घनिःश्वासमुत्सृज्य ) किम् = नु खलु मे = मम प्रियदर्शनात् = शकुन्तलावलोकनात् ऋते = विना शरणम् = आश्रयः, अन्यं = अपरं यावत् प्रथमम् एनां = शकुन्तलाम् अन्विष्यामि = गवेष्यामि मृगये ( सूर्यं = भास्करम् अवलोक्य = दृष्ट्वा ) एनां = एताम् उग्रः = प्रचण्डः आतपः = सूर्यतेजो घर्मो यस्यां तथाभूतां
रश्मि कहे जाते हैं, किन्तु ये दोनों विरही स्त्री-पुरुषों को विपरीत प्रभाव दिखाते हैं। इसलिए राजा दुष्यन्त ने दोनों को ऐसा कहा है।
( खेद के साथ कुछ चलकर ) यज्ञ के विघ्न दूर हो जाने पर अब मुझे विश्राम करने के लिये तपस्वियों ने आज्ञा दे दी है। अतः मैं अपने खिन्न और व्याकुल मन को कहां बहलाऊँ तथा अपनी प्रिय शकुन्तला को देखे बिना मेरे चित्त को शान्ति किसी उपाय से नहीं मिल सकती। अतः मैं उसे ढूंढ़ता हूँ ( ऊपर आकाश की ओर देखकर ) इस तीव्र ताप में दोपहर के समय तो मेरी प्रिया शकुन्तला अपनी सखियों के साथ प्रायः लतामण्डपों से आच्छन्न मालिनी नदी के तीर पर ही समय बिताती है। अच्छा, तो मैं फिर वहीं चलता हूँ। ( घूम कर ठण्डी हवा लगने का अभिनय करके ) अहो ! यह स्थान तो सुन्दर एवं सुगन्धित हवा से बड़ा ही मनोरम है।
तृतीयोग्ङ्कः १२७
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ४ ॥
( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तथा भवितव्यम् । तथा हि ( अधो विलोक्य )
बेलां = समयमिति उग्रातपवेलाम् = प्रखरातपवद् मध्यंदिनम्, प्रायेण लतावलयवत्सु = लतामण्डलमण्डितेषु मालिनीतीरेषु = मालिनीनदीतटभागेषु ससखीजना = आलिजन-सहिता शकुन्तला = गमयति = कृच्छ्रेणातिवाहयति । तत्रैव = तस्मिन्नेव स्थाने तावद् गच्छामि = व्रजामि ( परिक्रम्य = प्रदक्षिणं कृत्वा संस्पर्शं = स्पर्शसुखम् रूपयित्वा = नाटयित्वा ) अहो = आश्चर्यम् प्रकृष्टः = श्रेष्ठश्चासौ वातः = वायुः प्रवातः यद्वा प्रकृष्टे वातः यत्र स प्रवातः तेन सुभगः = रम्यः प्रवातसुभगः अयं = एषः उद्देशः = स्थानम् ।
अन्वयः—अरविन्दसुरभिः मालिनीतरङ्गाणां कणवाही पवनः अनङ्गतप्तैः अङ्गैः अविरलम् आलिङ्गितुं शक्यम्।
वायुस्पर्शसुखमनुभूय तस्य प्रदेशस्य वातसुभगत्वमुपपादयति—शक्यमिति। अरविन्दस्य = कमलस्य सुरभिः = गन्ध इव गन्धो यस्य सः यद्वा अरविन्दवत् सुरभिः अरविन्दसुरभिः = कमलसुगन्धिः, मालिन्याः नद्याः तरङ्गाणां = लहरीणां कणवाही—कणान् = लेशान् शीकरान् वहति तच्छीलः कणवाही पवनः = वायुः अनङ्गेन = कामेन तप्ताऽपि अनङ्गतप्ताः तैः अनङ्गतप्तैः = मदनसञ्जातसन्तापैः अङ्गैः = शरीरावयवैः अविरलम् = अवच्छिन्नं, निरन्तरम् आलिङ्गितुं = मया आश्लेषं कर्तुम् उपगूहितुम्, शक्यम् = योग्यम् । एतेनास्य प्रदेशस्य कामिजनसेवनयोग्यत्वं पवनस्य सुरभित्वं, मन्दत्वं, शीतलत्वं च ध्वनितम् ।
अयं भावः—विकसितसरोजसौरभं समादाय सुगन्धपरिपूर्णमालिनीतरङ्गजलकणं वहन् मन्दसञ्चारी पवनः अनङ्गतप्तानि ममाङ्गानि क्षणं सुखयतीति मया नूनं चलितुं योग्यः । अत्र समाहित-समासोक्ति-वृत्त्यनुप्रास-छेकानुप्रास-सङ्करालङ्काराः जातिश्चार्या ॥ ४ ॥
( परिक्रम्य = ईषद गत्वा, अवलोक्य दृष्ट्वा च ) अस्मिन् = अत्र वेतसैः = वानीरैः परिक्षिप्ते—आवृते लतानां = वल्लरीणां मण्डपे = विताने वेलबल्लीविरचितमण्डपे तया =
शीतल और सुगन्धित यह वन का पवन मुझे बहुत ही सुहावना लग रहा है। तथा इनके सेवन से काम सन्ताप सन्तप्त मेरे शरीर को एवं मन को भी यहाँ बड़ी शान्ति मिल रही है ॥ ४ ॥
विशेष—दुष्यन्त यह सोचकर कि यज्ञ रक्षा कार्य सम्भव हो जाने पर मुनियों की अनुमति पाकर परिश्रम से थके शरीर का क्लेश कहाँ दूर करूँ ? दीर्घ श्वास भर कर शकुन्तला के सिवा मेरा क्या शरण है ? जरा इसे ढूँढूँ, सूर्य को देखकर इस धूप के समय वह मालिनी तट पर लता-मण्डप में होगी। वहीं चलूँ। कामतापों से सन्तप्त पुरुषों के लिए शीतल, मन्द और सुगन्ध वायु अधिक सुखद प्रतीत होता है। यहाँ मालिनी तरंगों के सम्पर्क से वायु का शीतल कणवाही से मन्द तथा अरविन्द के स्पर्श से सुगन्धित प्रतीत होतो है। यद्यपि ऐसी हवा कामियों का उद्दीपक है, पर दुष्यन्त को यह सुखद प्रतीत हो रही है। इसलिए अपने मनोविनोद के लिए जाकर देखता है और अपनी भावना व्यक्त करता है।
पाठ०—१. तप्तैर्निर्दयमालिङ्गितुं ।
१२८ | अभिज्ञानशाकुन्तलम्
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात् पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ ५ ॥
यावद्विटपान्तरेणावलोकयामि । ( परिक्रम्य तथा कृत्वा सहर्षम् ) अये लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सुकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु लताव्यवहितः श्रोष्याम्यासां विश्रम्भकथितानि । ( इति विलोकयन् स्थितः )
शकुन्तलया सन्निहितया उपस्थितया भवितव्यम् = भूयेत । तथा हि = यतः । अधो विलोक्य = नीचेर्दृष्ट्वा ।
अन्वयः—पाण्डुसिकते अस्य द्वारे पुरस्तात् अभ्युन्नता पश्चात् जघनगौरवात् अवगाढा अभिनवा पदपङ्क्तिः दृश्यते ।
वेतसलतामण्डपे शकुन्तलासद्भावं समर्थयन् राजा दुष्यन्तो ब्रवीति—अभ्युन्नतेति । पाण्डुसिकते पाण्डुरवालुकाकणसनाथे अस्य = वेतसलतामण्डपस्य द्वारे = द्वारप्रदेशे मुखभागे पुरस्तात् = पादाग्रभागे, अङ्गुल्यादौ अभ्युन्नता = समुन्नता पश्चात् = पाष्णिभागे जघनस्य गौरवात् नितम्बभागस्य पृथुत्वात् अवगाढा = निम्ना, अवखाता, गभीरा अभिनवा अचिरोद्गता च पदपङ्क्तिः = पादन्यासप्रतिबिम्बश्रेणिः चरणचिह्नश्रेणिः दृश्यते = विलोक्यते, नेत्रव्यापारविषयी क्रियते ।
नूनमस्मिन् लतामण्डपे शकुन्तला सद्य एव प्रविष्टेत्यनुमीयते, यतो हि श्वेतसिकता-कणमयेऽस्य द्वारभागे अविकला पदपङ्क्तिर्दृश्यते या च अङ्गुल्यादिभागे समुन्नता पाष्णि-प्रदेशे च गभीराऽस्ति । तस्मात्तर्कये यत्तस्या एव इदं पादादि चिह्नम् । अत्रानुमान-स्वभावोक्ति-पर्यायोक्ति-श्रुत्यनुप्रास-समासोक्तिश्चालङ्काराः आर्या च छन्दोऽस्ति ॥ ५ ॥
यावत् विटपान्तरेण = वृक्षशाखावकाशेन शाखामध्यव्यवधानेन अवलोकयामि = पश्यामि ( परिक्रम्य तथा कृत्वा सहर्षम् = किञ्चिच्चलित्वा विटपान्तरेण लतामण्डपे तथा पूर्वनिर्दिष्टं शकुन्तलामवलोक्य सहर्षम् ) अये = अहो नेत्रनिर्वाणं-नेत्रयोः = लोचनयोः निर्वाणमिति
( घूमकर और देखकर ) बेंत से घिरे हुए इस लतामण्डप में भी वह मेरी प्रिया शकुन्तला उपस्थित होगी, क्योंकि—( नीचे देखकर )
इस लतामण्डप के साफ स्वच्छ गौरवर्ण बालुका से युक्त द्वार पर आगे से ऊँची और पीछे से जघनस्थभार के कारण दबी हुई ताजी पदपङ्क्ति = पैरों के चिह्न स्पष्ट दिखाई पड़ रही हैं ॥ ५ ॥
विशेष—राजा दुष्यन्त ने द्वार पर शकुन्तला के शरीर और छापकी गहराई देखकर अनुमान लगाया कि वह पर्णशाला के अन्दर गयी हुई है । विरहावस्था में राजा को सभी चीजें शकुन्तला से सम्बद्ध दीख रही हैं । सफेद बालू पर पैरों की छाप स्पष्ट पड़ी हुई हैं जिसे देखकर राजा का अनुमान शकुन्तला विषयक हो रहा है । स्त्रियों का नितम्ब भाग पुरुषों की अपेक्षा अधिक भारी होता है जिससे उनकी छाप गहरी होती है । देह का भार प्रमुख रूप से एड़ियों पर ही पड़ता है । उनकी छाप गहरी होती है ।
अच्छा, तबतक मैं इसे वृक्ष की शाखाओं की आड़ से देखता हूँ । ( देखकर हर्ष के साथ ) ओह, मेरी आँखें इसे देखकर तृप्त हो गई, मैं नेत्रों का परम सुख पा गया । यह मेरी मनोरथ विषयीभूता=अभीष्टा प्राणप्रिया शकुन्तला पुष्पों से अलंकृत शिलातल पर लेटी हुई है । और इसकी
पाठा०--१. मुपास्यते । शृणोमि तावदासां ।
तृतीयोऽङ्कः
१२९
( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला )
सख्यौ—( उपवीज्य सस्नेहम् ) हला सउंदले अवि सुहेदि दे णलिणीपत्तवादो।
[ हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः ]।
**शकुन्तला—**किं वीअअंति मं सहीओ [ किं वीजयतो मां सख्यौ ]।
( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः )
नेत्रनिर्वाणं = लोचनसुखम् नयनानन्दः लब्ध= प्राप्तम्। एषा = पुरःस्थिता मे = मम मनोरथ-प्रियतमा = सङ्कल्पप्रिया, कुसुमैः = पुष्पैः सह सकुसुमां सकुसुमम् आस्तरणं यत्र तत् सकुसुमास्तरणं यद्वा कुसुमानामास्तरणेन = उत्तरच्छदेन सहितं सकुसुमास्तरणं = पुष्पास्तीर्णम् कल्पिता पुष्पशय्या शिलायाः पदमिति शिलापदम् प्रशस्तां शिलां = शिलाफलकम् अधिशयाना = अधितिष्ठन्ती सखीभ्यां प्रियम्वदानसूयाभ्यां द्वाभ्यामालिभ्याम् अन्वास्यते = उपचर्यते = सेव्यते। भवतु = अस्तु लताव्यवहिता = लतामिव्यंवहित एव आसां = तिसृणां शकुन्तलानसूयाप्रियम्वदानाम्, विश्रम्भे = विश्वासे कथितानि = प्रोक्तानि भणितानि इति विश्रम्भकथितानि = निःशङ्कालापान् रहस्यवार्ताः शृणोमि = आकणर्यामि। ( इति = इत्थम् मनसि अभिधाय, विलोकयन् = अवलोकयन् स्थितः = उपविष्टः ) ।
अथ दुष्यन्तविषयकानुरागेण पीडयमानाया निदाघव्यपदेशेन मालिनीतटमण्डपोपविष्टायाः ससखीजनायाः शकुन्तलायाः प्रवेशमाह—तत इति।
( ततः = तदनन्तरं यथोक्तव्यापारा यथोक्तः = पूर्वोक्तः व्यापारः = कार्यं यस्याः सा यथोक्तव्यापारा = मदनबाधया शिलाफलकमधिशयाना शकुन्तला सखिभ्यां द्वाभ्यामालिभ्यामनसूयाप्रियम्बदाभ्याम् सह = साकं प्रविशति = रङ्गभूमौ दृश्यते )
सख्यौ—( उपवीज्य = व्यजनं दोलयित्वा स्नेहेन सहितं सस्नेहं = सप्रेम ) हे सखि। = शकुन्तले ! अपि = किम् नलिनीपत्रवातः = नलिन्याः = कमलिन्याः पत्रस्य = दलस्य वातः = पवनः ते = तव सुखयति = सुखमुत्पादयति।
शकुन्तला—हे सख्यौ = आली किं मां शकुन्तलां भवत्यौ वीजयतः = पवनं कुरुतः। किमर्थं मां वीजयतः, तापशान्तेरभावेन निष्फलमेतत्।
( सख्यौ = आली, प्रियम्वदानसूये विषादं = क्लेशानुभूति नाटयित्वा अभिनयेन प्रदर्श्य परस्परम् = अन्योन्यम् [ अनसूयाप्रियम्वदां प्रियम्वदां चानसूयाम् ] अवलोकयतः = पश्यतः )
दोनों सखियाँ इसके पास बैठी हुई हैं। अच्छा, मैं इस लता की आड़ में होकर इनके आपसी विश्वसनीय बातचीत को सुनूँ। ( उनकी ओर देखते हुये ठहर जाते हैं)।
( इसके पश्चात्, पूर्वोक्त अवस्था में दोनों सहेलियों के साथ शकुन्तला प्रवेश करती है )
दोनों सखियाँ—( कमल के पत्तों से हवा करके ) सखि शकुन्तले ! कमलिनी के पत्तों की हवा तुम्हें आराम तो दे रही है न ?
**शकुन्तला—**सखियों ! तुम लोग व्यर्थ इस कमलिनी के पत्ते से मुझे क्यों हवा कर रही हो, मुझे तो इससे कुछ भी शान्ति नहीं मालूम हो रही है।
( दोनों सखियाँ बड़े खेद के साथ निराशा भाव से परस्पर भाव से देखती हैं )
9 ९ शाकु०
| १३० | अभिज्ञानशाकुन्तलम् |
|---|
राजा—बलवदस्वस्थशरीरा शकुन्तला दृश्यते। (सवितर्कम्) तत्किमयमातप-दोषः स्यात् उत यथा मे मनसि वर्तते। (सामिलाषं निर्वर्ण्य) अथवा कृतं संदेहेन—
स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं प्रियायाः साबाधं ^१किमपि कमनीयं वपुरिदम्। समस्तापः कामं मनसिजनिदाघप्रसरयो- र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु॥ ६॥
शकुन्तलायाः तादृशीमवस्थामवलोक्य सख्योः विषादः किमावां कुर्म इति अनिष्ट-शङ्कया च परस्परावलोकनम्। विषादनाटनं च धूतेन शिरसा, विषण्णया च दृष्ट्या भवति। तल्लक्षणं च—
'पर्यायेण शनैस्तिर्यग्गतमुक्तं धुतं शिरः। या दृष्टिः पतितापाङ्गा विस्तारिपुटद्वया। निमेषिण्यस्ततारा च विषण्णा सा विषादिनी॥'
राजा—तथाविधां शकुन्तलामवलोक्य सख्योश्चालापमाकर्ण्य शकुन्तलायाः सन्तापाति-शयमावगच्छन् राजा प्राह—बलवत् = अधिकं, अत्यन्तम् अस्वस्थं = अप्रकृतिस्थं शरीरं = देहो यस्याः सा अस्वस्थशरीरा = अप्रकृतिस्थवपुः शकुन्तला दृश्यते = अवलोक्यते। (सवितर्कं = वितर्केण = विकल्पने सह सवितर्कम्) तत् = तर्हि किम् = अयं पूर्वोक्तः आतपस्य = सूर्यतेजसो घर्मस्य दोषः = विकारः स्यात् = भवेत् उत = अथवा यथा मे = मम मनसि = चेतसि, विचारे वर्तते = विद्यते, तथा अस्ति यथाहमेतद्विषयकेण कामेन पीडितोऽस्मि तथैवेयमपि मद्विषयेणानुरागेण कामेन पीडिताऽस्तीत्यर्थः (अभिलाषेण सहितं सामिलाषं = सतृष्णम् निर्वर्ण्य = निरीक्ष्य) अथवा = यद्वा कृतम् = अलं सन्देहेन = शङ्कया कृतं = अलम्। अत्र सन्देहो नोचित इति भावः।
अन्वयः—स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं साबाधं प्रियाया इदं वपुः किमपि कमनीयं (अस्ति) कामं मनसिजनिदाघप्रसरयोः तापः समः ग्रीष्मस्य युवतिषु एवं सुभगमपराद्धं न तु।
मालिनीतीरवत्तिनि लतामण्डपे कुसुमशयने शयानां सखीभ्यां वीज्यमानामस्वस्थ-शरीरा शकुन्तलामवलोक्य तदस्वास्थ्यं ग्रीष्ममूलकं काममूलकं वेति विकल्पयन् राजा-दुष्यन्तो—विचारयति—स्तनन्यस्तोशीरमिति। स्तनयोः = कुचयोः न्यस्तं = निहितं
राजा—यह शकुन्तला तो बहुत बीमार मालूम पड़ती है (विचार करता हुआ) तो, क्या लू लग जाने से इसकी यह दशा हुई है, या जैसा मेरे मन में है (बड़ी चाह के साथ देखकर) या, शङ्का करना बेकार है। मेरे प्रति इसका अनुराग ही इसके इस अस्वास्थ्य का कारण है, क्योंकि—
मेरी प्रिया शकुन्तला के स्तनों पर खश सूखी हुई है, हाथों में ढीले-ढीले मृणाल से वलय बँधे हुए हैं। यद्यपि मेरी प्रिया का शरीर तो अवश्य पीड़ित है, पर इसके शरीर की कमनीयता तो वैसी की वैसी ही बनी हुई है। यद्यपि काम का सन्ताप तथा ग्रीष्म का सन्ताप समान ही हो सकता है किन्तु लू लगने से शरीर का सौन्दर्य और कमनीयता जैसी की तैसी कभी नहीं रह सकती। अतः
पाठा०—१. तदपि कमनीयं।
तृतीयाेऽङ्कः १३१
प्रियंवदा—( जनान्तिकम् ) अणसूये तस्स राएसिणो पढमदंसणादो आरहिअ पज्जुस्सुआ विअ सउंदला । किं णु खु से तण्णिमित्तो अअं आतंको भवे [ अनसूये, तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । किं नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत् ] ।
स्थापितं, उशीरम् = नलदानुलेपः यत्र तत् स्तनन्यस्तोशीरम् = पयोधरोत्सङ्गनिविष्टवीरण-मूलम् शिथिलितं = शिथिलं जातं मृणालस्य = कमलस्य एकं = मुख्यं वलयं - कङ्कणं यस्मिन् तत् शिथिलितमृणालैकवलयं = सन्तापशुष्कशिथिलविसैकवलयम् एकं वलयमेकवलयं आसमन्ताद् बाधा आबाधा आबाधया = सर्वव्यापकपीडया सह वर्तमानं साबाधम् = सपीडं, व्यथितम् प्रियायाः = शकुन्तलाया इदम् = एतत् पुरोदृश्यमानं वपुः = शरीरं किमपि = लोकोत्तरं चमत्कारि कमनीयं = मनोहरम् दर्शनीयम् (अस्ति) कामं = यद्यपि मनसिजनिदाघप्रसरयोः मनसि जायते इति मनसिजः = मदनश्च निदाघः = ग्रीष्मश्च मनसिजनिदाघौ तयोः प्रसरौ = व्यापकौ तयोः मनसिजनिदाघप्रसरयोः = कामग्रीष्मवेगयोः तापः = दाहः समः = तुल्यः तथापि ग्रीष्मस्य निदाघस्य युवतिषु = तरुणीषु एवं = दृश्यमान प्रकारेण सुभगं = सुन्दरं अपराद्धं = अपराधः न तु ग्रीष्मतापतप्तस्य वपुषः नेदृशी कम-नीयता भवति । स्तनयोः सन्तापातिशयप्रतीत्या कामकृत एवायं परिताप इति भावः ।
**अर्थ भावः—**स्वभावशीतलयोरपि शकुन्तलायाः पयोधरयोः उशीरानुलेपनं निहितं दृश्यते, अलङ्कारान्तरा सहिष्णुरियं मृणालवलयमात्रं परिधत्ते तदपि शुष्कं जातम् । एतामवस्थापन्नापीय नैसंगिकं सौन्दर्यं न परित्यजति । यद्यपि ग्रीष्मर्तुजन्यः कामजन्यश्च सन्तापः समान एव दृश्यते तथापि ग्रीष्मजन्ये परितापे एतादृशसौन्दर्यहानिर्नभवति । तस्मात् कामजन्य एवायं परितापः प्रतीयते ।
अस्मिन् पद्ये अप्रस्तुतप्रशंसा-व्यतिरेक-अनुमान-व्यतिरेक-विभावना-विशेषोक्ति-सन्देह-संकर-संसृष्टि-छेक-वृत्ति-श्रुत्यनुप्रासा अलङ्कारा शिखरिणी च छन्दः ॥ ६ ॥
प्रियम्बदा—(जनान्तिकं = त्रिपताकाकरेणान्यानपवार्य) अथ शकुन्तलायाः सन्तापस्य शिशिरोपचारादिना परिशान्तिमपश्यन्ती तस्य राजविषयककाममूलकत्वमेव संभावयन्ती प्रियम्वदा अनसूयामाह—अनसूये = सखि ! तस्य राजर्षेः = दुष्यन्तस्य प्रथमदर्शनात् = प्रथममिलनात् आरभ्य = प्रभृति पर्युत्सुकेव = उत्कण्ठितेव शकुन्तला किं नु खलु तस्याः = शकुन्तलायाः तन्निमित्तः तत् = दर्शनं स दुष्यन्तो वा निमित्तं = कारणं यत्र स तन्निमित्तः =
इसकी दशा तो काम के सन्ताप से ही है, ग्रीष्म के सन्ताप से नहीं । क्योंकि युवतियों पर ग्रीष्म का सन्ताप ऐसा रुचिकर नहीं होता, जैसा कि काम का होता है ॥ ६ ॥
**विशेष—**शकुन्तला को देखकर दुष्यन्त सोचते हैं कि युवती स्त्रियों पर ग्रीष्म का प्रभाव उतना रुचिकर नहीं होता जितना कामकृत होता है। अतः शकुन्तला की सुन्दरता कुछ अपूर्व होने से यह कामकृत ही है।
प्रियम्वदा—( अलग से अनसूया के प्रति ) हे अनसूये ! उस राजर्षि दुष्यन्त के पहले पहल देखने के साथ ही यह शकुन्तला इस प्रकार उत्कण्ठित और आतुर हो गई है, अतः दूसरे कारण इसकी यह दशा नहीं हो सकती, किन्तु इस दशा का कारण तो उसी राजर्षि दुष्यन्त का प्रथम दर्शन ही है । अतः यह उन पर आसक्त होकर ही इस प्रकार कामसन्तापजन्य दशा से अस्वस्थता को प्राप्त हो रही है ।
१३८ | अभिज्ञानशाकुन्तलम्
अनसूया—सहि ममवि ईदिसी आसंका हिअअस्स। होदु पुच्छिस्सं दाव णं (प्रकाशम्) सहि पुच्छिदव्वासि किंवि। बलंव खु दे संदावो [सखि, ममापीदृश्या-शङ्का हृदयस्य। भवतु प्रक्ष्यामि तावदेनाम्। सखि प्रष्टव्यासि किमपि। बलवान् खलु ते संतापः]।
शकुन्तला— (पूर्वाद्धेन शयनादुत्थाय) हला किं वत्तुकामासि [हला किं वक्तु-कामासि]।
अनसूया—हला सउंदले अणब्भंतरा हु अम्हे मदणगदस्स वृत्तंतस्स। किंदु जादिसं इतिहासणिबंधेसु कामअमाणाणं अवस्था सुणीअदि तादिसों दे पेक्खामि। कहेहि किंगिमित्तं दे संदावो। विआरं खु परमत्थदो अजाणिअ अणारंभो पडि-आरस्स [हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य। किन्तु यादृशी-तिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि। कथय किंनिमित्तं ते ] संतापः। विकार खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य]।
राजधिनिमित्तकः, अयं = एषः आवाभ्यामनुभूयमानः आतङ्कः = सन्तापपीडा भवेत् = स्यात्। दुष्यन्तदर्शनकृत एवास्याः सन्तापप्रसर इति भावः।
अनसूया—प्रियम्बदोक्तमनुवदती अनसूया प्राह—सखि ! = आलि ! ममापि हृदयस्य = चेतसः ईदृशी = एवंविधा एव आशङ्का = वितर्कः अस्ति, अहमप्येवं सम्भावयामि (प्रकाशं = स्पष्टम्) सखि != शकुन्तले किमपि = ईषत् प्रष्टव्या = जिज्ञासितव्या असि = वर्तसे–भवतों किमपि प्रष्टुमिच्छामीत्यर्थः। अतिशयेन बली बलवान् = प्रबलतमः ते = तव सन्तापः = तापः पीडा।
शकुन्तला—( पूर्वाद्धेन = शरीरपुरोभागेन शयनात् = आस्तरणात् उत्थाय = देह-मुत्थाप्य) हला = हे सखि ! किं वक्तुकामा असि = भवसि यद् वक्तुमिच्छसि तद् वद।
अनसूया—हला = हे सखि शकुन्तले ! आवां = अहं प्रियम्वदा च खलु = निश्चयेन मदनगतस्य = कामतत्त्वस्य **वृत्तान्तस्य-**वार्ताया अविद्यमानमभ्यन्तरं तत्त्व ययोस्ते अनभ्य-न्तरे = अज्ञातरहस्ये, मनुकन्यकत्वानां कामवृत्तान्तस्यानभिज्ञे स्वः, किन्तु इतिहास-निबन्धेषु = पुराणप्रबन्धेषु कामयमानानां = विरहिणां यादृशी अवस्था = दशा श्रूयते, पुराण-प्रबन्धेषु शिष्यैर्वाचितेषु कुलपतिना तद्व्याख्याने क्रियमाणे च श्रवणमात्रेण सा अवस्था आवाभ्यां ज्ञायते इत्यर्थः। आवयोः ईदृगवस्थाया न स्वयमनुभवो नापि कोऽपि ईदृग्विधः
अनसूया—सखी प्रियम्वदे ! मेरे मन में भी यही आशंका हो रही है कि यह राजा दुष्यन्त पर आसक्त है। अच्छा इससे ही पूछती हूँ (प्रगट में) सखी शकुन्तले ! मैं तुमसे कुछ पूछना चाहती हूँ। क्या तेरे अङ्गों में बड़ी पीड़ा हो रही है ?
शकुन्तला—(शरीर के ऊपरीभाग से विस्तर से उठकर) हे सखी ! क्या कहना चाहती हो।
अनसूया—सखि शकुन्तले ! हमलोग वनवासी होने के कारण काम-कथा से तो सर्वथा अपरिचित ही हैं। तो भी इतिहास-पुराणों में कामी जनों की अवस्था का जैसी वर्णन सुना जाता है वैसी ही तेरी भी अवस्था मालूम होती है। अतः बता यह कामसन्ताप तुझे किस कारण से हो रहा है? क्योंकि वास्तव रूप में रोग के कारण को ठीक-ठीक समझे बिना उसका प्रतिकार नहीं हो सकता है।
तृतीयोऽङ्कः १३३
राजा—अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् ।
शकुन्तला—( आत्मगतम् ) बलव खु मे अहिणिवेसो, दाणिं वि सहसा एदाणं ण सक्कणोमि णिवेदितुं [ बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् । ]
प्रियंवदा—सहि सउंदले सुट्ठु एसा भणादि । किं अत्तणो आतंकं उवेक्खसि । अणुदिअह खु परिहीअसि अंगेहि । केवलं लावण्णमई छाआ तुमं ण मुचेदि [ सखि शकुन्तले, सुष्ठ्वेषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसे अङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
प्रत्यक्षतो दृष्टः इति किमिदमिति निश्चेतुमावां न पारयाव इति भावः । तादृशीं कामिजनावस्थासदृशीं तव = भवत्या दशां पश्यामि = अवलोकयामि, कथय = वद किं निमित्तं = किं निदानं ते = तव सन्तापः = पीडा । खलु = यतः परमार्थतः = वस्तुतः विकारं = रोगकारणं अज्ञातवा = अविदित्वा प्रतीकारस्य = उपायस्य चिकित्सायाः अनारम्भः = उपक्रमो न सम्भवति । तदुक्तं 'व्याधेस्तत्त्वपरिज्ञानम्' ।
राजा— अनसूयोक्तं श्रुत्वा सन्तुष्यन् राजा स्वगतमाह—मदीयः तर्कः काममूलक एवायं सन्ताप इति विकल्पः, मम युक्तिः अनसूयामपि अनुगतः = अनुसरति । अनसूयाऽप्येवमेव तर्कयतीत्यर्थः । स्वाभिप्रायेण = स्वाभिप्रायनुसारि मे = मम कामिनः दर्शनं = ज्ञानं तर्क इति यावत् । कामिनामेवविधतर्कसम्भवेऽपि अकामिना जनेनापि एवमेव सम्भावनेति भावः । अनेन स्वतर्कस्य प्रामाणिकत्वावगमेन राज्ञो हर्षो द्योत्यते ।
शकुन्तला—(आत्मगतं = स्वगतम्) बलवान् = दृढः खलु = निश्चयेन मे = मम अभिनिवेशः = आग्रहः यत् इदानीम् = अस्मिन् काले, एतस्यामवस्थायामपि सहसा = अकस्मात् एतयोः = एताभ्यां निवेदयितुं = सूचयितुं न शक्नोमि = न पारयामि ।
प्रियम्बदा— अथ शकुन्तला लज्जमानां सम्भाव्य तस्या लज्जामपनेतुं तन्मुखाच्च कृत्स्नं वृत्तान्तं ज्ञातुं प्रयतमाना प्रियम्बदा प्राह—सखि = शकुन्तले ! एषा = अनसूया सुष्ठु भणति = सयुक्तिकं वदति किम् = केन कारणेन आत्मनः = स्वस्य आतङ्कं = रोगम् पीडाम् उपेक्षसे = उपेक्षां कुरुषे, अनुदिवसं = प्रतिदिनम् खलु = निश्चयेन अङ्गैः = अवयवैः परिहीयसे = प्रतिक्षणं क्षीणा भवसि, केवलं लावण्यमयी = लावण्ययुक्ता छाया = कान्तिः त्वां = भवतीं न मुञ्चति = न परित्यजति । उक्तं च कामकृतसन्तापेषु एव खलु ईदृशी दशा भवति नातपलङ्घने, तत्र लावण्यस्यापि विलयादिति भावः । लावण्यलक्षणं च —
'मुक्ताफलेषु छायायास्तरत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥'
राजा— अनसूया ने भी मेरा तर्क समझ लिया है। निश्चय ही मेरा अनुमान व्यक्तिगत अभिप्राय से प्रेरित नहीं है।
शकुन्तला—( मन ही मन ) सखि, यह सन्ताप बहुत बड़ा और गूढ़ है। अतः इसके कारण को सहसा मैं कहने में असमर्थ हूँ।
प्रियम्बदा— सखि शकुन्तले ! यह अनसूया ठीक कह रही है। अपने इस कष्ट के कारण को क्यों छिपा रही हो। देखो, प्रतिदिन तुम क्षीण होती जा रही हो। तुम्हारे शरीर में अब केवल लावण्य की छाया सौन्दर्यता ही अवशिष्ट है।
१३४ | अभिज्ञानशाकुन्तलम्
राजा—अवितथमाह प्रियंवदा। तथा हि—
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः १पाण्डुरा।
शोच्या च प्रियदर्शना च २मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ७ ॥
राजा—अथ सख्योः संवादेन आत्मविषयं शकुन्तलाया कामं ज्ञात्वा प्रहृष्टो राजा दुष्यन्तः प्रियम्वदामनुवदति—वितथं = मिथ्या न वितथमवितथम् अवितथं = सत्यमाह— प्रियम्वदा शकुन्तला प्रियसखी तथा हि ।
**अन्वयः—**आननं क्षामक्षामकपोलं, उरः काठिन्यमुक्तस्तनम्, मध्यः क्लान्ततरः अंसौ प्रकामविनतौ, छविः पाण्डुरा, मदनक्लिष्टा इयं पत्राणां शोषणेन मरुता स्पृष्टा माधवी लता इव शोच्या च प्रियदर्शना आलक्ष्यते ।
तस्याः शकुन्तलाया तादृशीमवस्थामवलोक्य प्रियम्वदोक्तमेव समर्थयन् राजा दुष्यन्तः विचिन्तयति—क्षामक्षामेति । अस्या आननं = मुखं क्षामक्षामौ = अतिकृशौ कपोलौ = गण्डस्थलौ यस्मिन् तत् क्षामक्षामकपोलम् = कृशतरकपोलम्, उरः = वक्षःस्थलम् काठिन्येन = कठोरत्वेन मुक्तौ = रहितौ स्तनौ = कुचौ यस्मिन् तत् काठिन्यमुक्तस्तनम् मध्यः = कटिभागः क्लान्ततरः = अतिशयेन क्लान्तः, परिम्लानः अंसौ = स्कन्धभागौ प्रकामविनतौ = प्रकाममत्यन्तं विनतौ नम्रौ, बाहू सातिशयं ग्लानाविति भावः, छविः = देहकान्तिः पाण्डुरा = शैत्यसमन्विता, श्वेता, मदनेन क्लिष्टा मदनश्लिष्टा = कामपीडिता स्मरशर सन्तप्ता, इयं = शकुन्तला पत्राणां = दलानां शोषणेन = शातनेन शोषकेन मरुता = पश्चिमवायुना स्पृष्टा = ताडिता माधवीलता = माधवीवल्लरी वासन्ती विसतन्तु इव=यथा शोच्या = उक्तकाश्यैवर्वण्यादिना दयनीया, प्रियं दर्शनं यस्याः सा प्रियदर्शना = लावण्या-नपायात् नयनलोभनीयाकृतिश्च, मनोज्ञदर्शना च आलक्ष्यते = आभाति, परिलक्ष्यते ॥ ७ ॥
**अयं भावः—**अस्या मम प्रियायाः शकुन्तलाया यदाननादिकं मनोमोदप्रदं दृश्यतेस्म तदिदानीं वैवर्ण्यंमावमापन्नं दृश्यते । तस्मादियं कामकृश्यमानापि शकुन्तला पाण्डुपत्रा माधवी लतेव लोभनीयाकृतिरेव दृश्यते ।
अत्र पद्ये उपमा-अनुप्रास-स्वभावोक्ति-काव्यलिङ्गालङ्काराश्छन्दश्च शार्दूलविक्रीडितम् ।
**राजा—**प्रियम्वदा बिलकुल ठीक कह रही है ।
इसका कपोलस्थल = मुख क्षीण होकर मुरझा जाने से परिम्लान हो गया है, स्तनों के ढीले पड़ जाने से इसकी छाती भी परिक्षीण हो गई है। मध्यभाग भी इसका क्लान्त हो गया है। कन्धे भी नीचे की ओर झुक गये हैं और देह की कान्ति भी पीली पड़ गयी है। अतः काम सन्ताप से परिक्षीण होकर यह शोचनीय होते हुए भी उसी प्रकार देखने में सुन्दर मालूम पड़ती है जिस प्रकार पत्तों के मुर्झा जाने से पवन के झकोरों से सूखती हुई माधवीलता ॥ ७ ॥
**विशेष—**इसके कपोल और कमर पतले हो गये है, कन्धे अधिक झुक गये हैं, विरह के स्तन-मण्डल ढीले पड़ गये हैं। चेहरे में सफेदी आ गयी है। अतः यह शकुन्तला अब शोच्य हो गयी है। माधवी चमेली की एक जाति है। वसन्त सभी पुष्पों को विकसित कर देता है। लताएँ सभी दुबली होती है, माधवी लता ही सौन्दर्य के निमित्त प्रसिद्ध है।
पाठा०—१. पाण्डरा । २. मदनग्लानयेमालक्ष्यते ।
तृतीयोऽङ्कः १३५
शकुन्तला—सहि कस्स वा अण्णस्स कहइस्सं । आआसइत्तिआ दाणिं वो भविस्सं [ सखि, कस्य वाऽन्यस्य कथयिष्यामि । आयासयित्रीदानीं वां भविष्यामि ] । उभे—अदो एव्व खु णिब्बंधो । सिणिद्धिजणसंविभत्तं हि दुक्खं सज्ज्वेयणं होदि [ अत एव खलु निर्बन्धः स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ] । राजा—
पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो निवृत्य बहुशोऽप्यनया सतृष्ण- मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ ८ ॥
शकुन्तला—अथ लज्जमानापि शकुन्तला सख्योरनुरोधेन स्वस्यातङ्कहेतुं कथयितुमुपक्रमते—सखि ! = हे आलि ! कस्य वा अन्यस्य = युवाभ्यामपरस्य कथयिष्यामि = स्नेहविश्वासवत्योर्युवयोरावश्यमाख्यास्यामि यदि युवाभ्यां न कथयिष्यामि तर्हि कस्यै अन्यस्यै कथयिष्यामि, युष्मद्भिन्ना का मेऽन्तरङ्गभूतेत्याशयः इदानीं = मदातङ्कनिमित्तकथनकाले वां = युवयोः आयासयित्री = क्लेशदायिनी भविष्यामि = समसुखदुःखयोर्युवयोर्मत्पीडाश्रवणेन दुःखमेव भविष्यतीति भावः ।
उभे—अत एव आवयोरायासः स्यादिति हेतोः खलु = निश्चयेन निबंधः = कारणकथनाग्रहः, हठः । स्निग्धजनेषु = स्नेहास्पदेषु सखीप्रभृतिषु संविभक्तं = विभागेन समर्पितम सह्यवेदनं = सह्या = सहनीया = वेदना = अनुभूतिः यस्य तत् सह्यवेदनं = मर्षणीयाघातम्, शिथिलं भवति = जायते । यथा कस्यापि भारवाहकस्य भारे तन्मित्रेणांशतो गृहीते तस्य भारोद्वहनदुःखं लघु भवति तथेति भावः ।
राजा—मन्निमित्त एवास्या अवस्थेति निश्चिन्वानो राजा दुष्यन्तः शङ्काकातरः सन् स्वयं विमृशति—पृष्टा जनेनेति ।
अन्वयः—इयं बाला समदुःखसुखेन जनेन पृष्टा ( सती ) मनोगतम् आधिहेतुं न वक्ष्यति न । अनया बहुशः निवृत्य सतृष्णं दृष्टोऽपि अत्रान्तरे श्रवणकातरतां गतः अस्मि ।
शकुन्तलाया आतङ्कनिमित्तमुद्दिश्य सख्योः प्रश्नमाकर्ण्य किमयमुत्तरयतीति शङ्कमानो राजा दुष्यन्तः स्वयमेव विमृशति—पृष्टा जनेनेति । इयं=एषा सखीभ्यामातङ्कहेतुं पृच्छ्यमाना बाला = षोडशवार्षिकी शकुन्तला दुःखं = क्लेशः सुखं = हर्षश्चेति समदुःखसुखे समे = तुल्ये दुःखसुखे = प्रतिकूलानुकूलवेदने यस्य तेन समदुःखसुखेन यद्वा समं तुल्यं
शकुन्तला—( लम्बी साँस लेकर ) हे सखियों ! तुम्हारे सिवाय मैं अपना कष्ट किससे कहूँगी, किन्तु इस सन्ताप के कारण को तुम लोगों से कहकर मैं तुम लोगों के कष्ट का ही कारण बनूँगी।
दोनों सखियाँ—हे सखि ! इसीलिये तो हम तुमसे पूरी पूरी बात करने का आग्रह कर रही हैं क्योंकि अपने स्नेही जनों को सुनाकर उनमें बाँट दिये जाने से दुःख भी कुछ सह्य हो जाता है और उसकी पीड़ा भी कुछ कम हो जाती है ।
राजा—यद्यपि अपने सुख और दुःख के साथी प्रियजनों से अनुरोध पूर्वक पूछे जाने पर यह बाला अपने मन की आधि = मानसी व्यथा को अवश्य बतायेगी । अतः इसमें मुझे आतुरता ही
पाठा०—१. विवृत्य ।
| १३६ | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला—सहि जदो पहुदि मम दंसणपहं आअदो सो तवोवणरक्खिदा रायसी तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवृत्ता [ सखि, यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ] ।
राजा—( सहर्षम् ) श्रुतं १श्रोतव्यम् ।
दुःखं सुखं यस्य तेन दुःखेषु सुखेषु च तुल्यमेव दुःखं सुख चानुभवता जनेन—सखीजनेन पृष्टा = अनुयुक्ता सती मनोगतं = हृदयकोणनिगूहितम् आधिहेतुं = मानसिकक्लेशकारणं न वक्ष्यति न = अवश्यमभिधास्यत्येव ( नञ् द्वौ प्रकृतार्थदार्ढ्यं बोधयतः ) अनया = शकुन्तलया बहुशः = अनेकवारम् भृशं विवृत्य = परावृत्य सतृष्णं = सामिलाषं दृष्टोऽपि = प्रेक्षितोऽपि कृतदर्शनोऽपि अहम् अत्रान्तरे = अस्मिन् अवकाशो सखीजनप्रश्न-शकुन्तला-प्रतिवचनयोर्मध्ये श्रवणकातरतां—श्रवणे = शकुन्तलोत्तरश्रवणे कातरतां = भीरुतां गतः = प्राप्तः अस्मि = भवामि । किमियमभिधास्यति = किंनिमित्तान्या पीडेति श्रवणे कातरोऽस्मीति भावः ।
अस्याः शकुन्तलाया आतङ्कनिमित्तमुद्दिश्य सखीभ्यां पृष्टा सतीयं किं कारणमभिधास्यतीति शङ्कया वाढमहं कातरः सञ्जातोऽस्मीति तात्पर्यम् । अत्र—काव्यलिङ्गवृत्त्यानुप्रासावलङ्कारौ वृत्तं च वसन्ततिलका ॥ ८ ॥
शकुन्तला—सखीभ्यामातङ्कहेतुं पृष्टा शकुन्तला उत्तरयति-सखि ! = हे सखि ! यतः प्रभृति = यत आरभ्य यस्मिन् क्षणे तपोवनस्य रक्षिता तपोवनरक्षिता आश्रमरक्षकः सः-वृक्षसेचनकाले मया दृष्टः राजर्षिः = दुष्यन्तः मम = मे शकुन्तलायाः दर्शनस्य पन्थाः दर्शनपथः तं दर्शनपथं = लोचनगोचरम् आगतः = प्राप्तः । तत आरभ्य = ततः प्रभृति तं गतः तद्गत, यद्वा स गतः = विषयो यस्य स तद्गतेन = दुष्यन्तविषयकेण अभिलाषेण मनोरथेन एषा = इयम् अवस्था = दशा यस्याः सा एतदवस्था = ईदृक्कामदशाविकला अहं संवृता जाताऽस्मि ।
राजा—शकुन्तलाया उत्तरमाकर्ण्य आत्मानं कृतार्थं मन्यमानो राजा दुष्यन्तः (सहर्षं-सानन्दम् ) श्रोतव्यं = श्रवणयोग्यं मदभिलषणीयं श्रुतम् = आकर्णितम् ।
क्या है ? यह ठीक है । परन्तु इसने मुझे बार-बार घूम-घूम कर बड़े ही अनुराग से अपने प्रेमपूर्ण सतृष्ण नेत्रों से देखा है । अतः मैं इसके उत्तर को सुनने के लिए उतावला इसलिए हो रहा हूँ कि देखें यह अपने सन्ताप का क्या कारण बताती है ? ॥ ८ ॥
शकुन्तला—जब से तपोवन के रक्षक वे राजर्षि मेरी दृष्टि में आ गये तभी से मैं उनपर आसक्त हो गई हूँ और उनके ही विरह में मेरी आज यह अवस्था हो रही है ।
राजा—( हर्षपूर्वक ) अहा, जिस बात को सुनने की मेरी इतनी व्याकुलता थी वही बात मैने आज सुन ली । ठीक है,
पाठा०—१. यच्छ्रोतव्यम् ।
तृतीयोऽङ्कः १३७
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस ^१इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ ९ ॥
शकुन्तला—तं जइ वो अणुमदं ता तह वट्टह जह तस्स राएसिणो अनुकंपणिज्जा होमि ; अण्णहा अवस्सं सिंचध मे तिलोदअं । [ तद्यदि वामनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि अन्यथाऽवश्यं सिञ्चतं मे तिलोदकम् ] ।
अन्वयः—तपात्यये जीवलोकस्य अर्धश्यामः दिवस इव मे स्मर एव तापहेतुः स एव निर्वापयिता जातः ।
अथ राजा दुष्यन्तो हर्षातिरेकाद् मदनमभिनन्दयन्नभिधत्ते—स्मर एव तापहेतुरिति । तापस्य = ग्रीष्मस्य अत्ययः = अवसानं यस्मिन् स तस्मिन् तपात्यये = निदाघावसाने प्रावृडारम्भे जीवलोकस्य = प्राणिवर्गस्य सम्बन्धे अर्धे = अपरार्धे श्यामः = कृष्णवर्णः सच्छायः इति अर्धश्यामः दिवसः = दिनम् इव यथा मे = मम दुष्यन्तस्य स्मरः = काम एव तापस्य = एतावत्पर्यन्तमनुभूतस्य आतङ्कस्य हेतुः = कारणमिति तापहेतुः शकुन्तलायामनुरागोत्पादनेनेत्यर्थः, स एव = स्मर एव निर्वापयिता = निर्वृतेः कारयिता, शकुन्तलाया अपि मयि अनुरागमुत्पाद्य तन्मुखात्तच्छ्रवणे शान्तिदायकः जातः = संवृत्तः । अहो मे सौभाग्यं यत् पूर्वं सन्तापकस्वभावोऽपि स्मरः प्रियानुरागप्रापणेन सम्प्रति मे सुखप्रदः सम्पन्नः । एवं च शकुन्तलाविषये पूर्वं ममानुरागमुत्पाद्य अत्यन्तमुद्वेजकोऽप्यसौ स्मरः इदानीं शकुन्तलामुखादेव तस्याः मय्यनुरागं मां श्रावयन् मयाह्लादजनको जात इत्याशयः ।
अयं भावः—शकुन्तलाविषये पूर्वं ममानुरागमुत्पाद्य मदनः पुनः तन्मुखादेव तस्या मयि अनुरागं संश्राव्य ममाह्लादको जातः । तस्मादस्यावस्था मदनकृतैव ।
अत्र पद्ये विरोधाभास-काव्यलिङ्ग-उपमा-वृत्त्यनुप्रासा अलङ्कारा आर्यावृत्तञ्च ॥९॥
शकुन्तला—ततः शकुन्तलास्वाभिलाषं दुष्पूरं सम्भावयन्ती अपि तत्तापप्रतिकाराय सखीजनं प्रार्थयते-तत् = तर्हि दुष्यन्तविषयकोऽभिलाषः यदि = चेत् वां = युवयोः अनुमतम् = अभीष्टम् तदा = तर्हि तथा = तेन प्रकारेण वर्तेथाः = प्रवर्तेथाः कुरुतम् यथा = येन प्रकारेण तस्य राजर्षेः = राज्ञो दुष्यन्तस्य अनुकम्पनीया = दयनीया, कृपापात्रं भवामि=
जिस कामदेव ने प्रिया के विरह में मुझे इतना सन्ताप पहुँचाया वही कामदेव अब मेरे सन्ताप को दूर करने वाला भी वैसा ही हो गया है जैसे ग्रीष्म ऋतु में गर्मी का सन्ताप देने वाला भी दिन ग्रीष्म के चले जाने पर वर्षा ऋतु में मेघों से आच्छन्न होकर प्राणियों के सन्ताप को दूर करने वाला हो जाता है ॥ ९ ॥
**विशेष—**अर्धश्याम का तात्पर्य है कि कुछ धूप और कुछ छाँह या दिनके पूर्व भाग में धूप और उत्तर भाग में छाँह । ग्रीष्म ऋतु में धूप होने से ताप होता है और पुनः बदली होने पर शान्ति मिलती है । वस्तुतः शकुन्तला और दुष्यन्त को भी ताप हेतु है ।
**शकुन्तला—**अतः हे सखियों, यदि तुम लोगों को भी जँचे तो ऐसा कोई उपाय करो जिससे मैं उस राजर्षि की दया-पात्र हो सकूँ । नहीं तो मैं अब उनके विरह में बच नहीं सकूँगी । मेरे मरने के बाद तुम लोग मुझे तिलाञ्जलि देना और मेरे लिए रोना, यही कार्य तुम्हारे लिए रह जायेगा ।
**विशेष—**शकुन्तला के कहने का तात्पर्य है कि मैं काम से इतनी सन्तप्त हो गई हूँ कि यदि वे
पाठा०--१. इवार्धश्यामस्तपस्यते ।
१३८ | अभिज्ञानशाकुन्तलम्
राजा—^१संशयच्छेदि वचनम् ।
प्रियंवदा—( जनान्तिकम् ) अणसूये दूरगमन्महा अक्खमा इमं कालहरणस्स । जस्सिं बद्धभावा एसा सो ललामभूतो पोरवाणं । ता जुत्तं से अहिलासा अहिणंदिदुं [ अनसूये, दूरगतमन्मथाक्षमेय कालहरणस्य । यस्मिन् बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तोऽस्या अभिलाषाभिनन्दितुम् । ]
स्याम् । अन्यथा = नो चेत् अवश्यं = नूनं मे = मम, मह्यम्, तिलोदकं = तिलमिश्रं जलम्, तिलजलाञ्जलिं सिञ्चतं = तर्पयतम् ।
मदमिलाषस्य युवयोरननुमतत्वे मह्यं निवापाञ्जलिजलम् निक्षिपतम्, यतः तदलाभे तद्विरहेऽहमद्य श्वो वा मरिष्याम्येवेति भावः ।
राजा—शकुन्तलोक्तं निशम्य प्रहृष्टो राजा आह—गुरुजनपारवश्ये मां वरिष्यति न वा कमप्यन्यं वा वरिष्यतीत्यादि संशयोच्छेदि = सन्देहनिवर्तकं, शङ्कानिवारकं वचनम् = कथनमेतत् । सत्यमियं मां कृतार्थयिष्यति नो चेद् विरहासहिष्णु तया नूनं मरिष्यतीति भावः ।
प्रियंवदा—( जनान्तिकं = पृथक् ) शकुन्तलायाः प्रतिवचनेन तां दुष्यन्तविषये प्रगाढानुरागामवधार्य सविषादं सहर्षं च प्रियम्वदा प्राह—अनसूये ! इयं = एषा शकुन्तला दूरं गतः = अतिभूमिं प्राप्तः परां काष्ठां प्राप्तः मन्मथः = मदनो यस्याः सा दूरगतमन्मथा कालहरणस्य = कालक्षेपस्य न क्षमते इति अक्षमा = अयोग्या । अतः परमावाभ्यामुपेक्षायां कृतायां प्रियसमागमे कालक्षेपेण दशमदशान्तिकरूढमदनविकारा इयमवश्यं म्रियेत । कामस्य हि दश दशा भवन्ति—नयनप्रीतिः, चित्तासङ्गः, अर्थसङ्कल्पः निद्राच्छेदः, तनुता, विषयिनिवृत्तिः, त्रपानाशः, उन्मादः, मूर्च्छा, मृतिश्च । तथा हि—
नयनप्रीतिः प्रथमं चित्तासङ्गः ततोऽथ सङ्कल्पः ।
निद्राच्छेदस्तनुता विषयिनिवृत्तिस्त्रपानाशः ॥
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्युः ।
तत्राद्ययावत् कामस्य सप्तमोमवस्थांमियं नीता । तिस्रोऽवशिष्टाः सन्ति । यदीदानीमपि नेयमावाभ्यामुपचरिता भवेत्तदा अन्याः तिस्रोऽपि अवशिष्टाः कामावस्था अस्या अमङ्गलुरूपा भवेयुरित्याशयः ।
राजर्षि मुझे न मिल सकेंगे तो मेरा प्राणान्त हो जायेगा । मरने के बाद उस प्रेतात्मा के, उसके बान्धव लोग उसके नाम से तिल मिश्रित जल अञ्जलि में रखकर देते हैं, उसे तिलाञ्जलि कहते हैं। यहाँ अपनी सखियों से शकुन्तला उसी का सङ्केत करती है ।
राजा—अहो, इसका यह वचन तो मेरे संशय को स्पष्ट ही दूर करने वाला है।
प्रियंवदा—(अलग से) हे अनसूये ! इसकी कामवासना तो बहुत दूर तक पहुँच चुकी है। अतः अब यह प्रिय सङ्गम में होने वाला ज्यादा विलम्ब सहन करने में असमर्थ है। अतः शीघ्र ही इसके प्रिय को इससे मिलाना चाहिए। जिससे इसको प्यार है, वे पुरुवंश के अलंकार स्वरूप हैं। इसलिए इसकी अभिलाषा अभिनन्दनीय है।
विशेष—प्रियम्वदा अनसूया से कहती है कि सखि ! काम की दश-दशाओं में लज्जानाश
पाठा०—१. विमर्शच्छेदि ।
तृतीयोऽङ्कः १३१
अनसूया—तह जह भणसि [ तथा यथा भणसि ] ।
प्रियंवदा—( प्रकाशम् ) सहि दिट्ठिआ अणुरूवो दे अहिणिवेसो । साअरं उज्झिअ कहिं वा महाणई ओदरइ । को दाणिं सहआरं अंतरेण अदिमुत्तलदं पल्लविदं सहेदि [ सखि, दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां सहते ] ।
राजा—किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
यस्मिन् दुष्यन्ते इयम् = एषा शकुन्तला वद्धभावाः = दृढीभूतप्रेमा वर्तते । सः=स हि पौरवाणाम् = पुरुवंशोद्भूवानां ललामभूतः = अलङ्कारभूतः, तद् = अस्मात् कारणात् अस्या सख्याः शकुन्तलायाः अभिलाषः = लालसा अभिनन्दितुं = समर्धयितुं युक्तम् = उचितम् ।
**अनसूया—**प्रियम्बदोक्तमनुमोदमाना अनसूया ब्रूते—**यथा भणसि—**यादृशं त्वं कथयसि तथा = तथैवास्ति ।
प्रियम्बदा—( प्रकाशं = स्पष्टम् ) इत्थं मिथो निश्चित्य शकुन्तलामाश्वासयितुकामा प्रियम्बदा वदति—सखि ! = आलि शकुन्तले ! दृष्ट्या = दैवेन अनुरूपः = योग्यः ते = तव अभिनिवेशः = स्नेहबन्धः, निश्चयः, युवयोः परस्परानुरूपत्वात्तव तस्मिन् अनुरागो योग्य एवेति भावः । सागरं = सगरेण राज्ञा निर्मितं समुद्रम् उज्झित्वा = विहाय महानदी = विशाला सरित् गङ्गा, यमुना, वा कुत्र = कस्मिन् स्थाने अवतरति = याति । गङ्गायमुनासदृशी पुण्यनदी सागरं त्यक्त्वा नान्येन मिलतीति भावः । कः इदानीं = वाक्यालङ्कारे सहकारम् = आम्रवृक्षं, रसालपादपम् अन्तरेण = विना पल्लवितां = उद्भिन्नाभिनवदलाम् किसलयवतीं अतिमुक्तलतां = माधवीलतां वासन्तीवल्लरी वा सहते = रञ्जयति' स्वीकुरुते वा सहकार एव तादृशीं लतां सोढुं समर्थो नान्यः, वासन्तीलतासमानायाः शकुन्तलाया जातरागायाः सहकार इव राजनि दुष्यन्तेऽनुराग इति भावः । महानद्याः सागरगमनमिव, सहकारस्य पल्लविता वासन्ती वल्लरीसहनमिव च तव दुष्यन्ताभिलषितत्वमनुरूपमेवेति भावः ।
**राजा—**सख्योर्वाक्चातुरीमनुवदन् प्रशंसामुखेन राजा दुष्यन्त आह—अत्र विषये
चतुर्थ अवस्था है । कुमारी होते हुए भी ताप का कारण पुरुष वासना बताना लज्जा का नाश है । इसके बाद उन्माद, मूर्च्छा और मरण अवशेष रह गया है । विलम्ब होने पर इसकी दशा और दयनीय हो जायेगी, इसकी अवस्था असाध्य हो जायेगी तो मौत तक पहुँच जा सकती है । इसलिए हम लोगों को वह उपाय करना चाहिए जिससे वे राजर्षि इससे मिल जाँय ।
**अनसूया—**जैसा कह रही हो, वैसी ही बात है ।
प्रियम्बदा—( प्रकाश में ) सखि शकुन्तले ! सौभाग्य से तुम्हारा निश्चय अनुरूप = तुम्हारे लायक है । समुद्र को छोड़कर बड़ी नदी भला, कहाँ उतर सकती है ? आम्र वृक्ष के बिना कौन माधवीलता को पल्लवित देख सकता है ।
**राजा—**इसमें क्या आश्चर्य है यदि विशाखाएँ=दो तारे चन्द्रमा की रेखा का अनुसरण करें ।
**विशेष—**ज्योतिषशास्त्र के अनुसार विशाखा सोलहवाँ नक्षत्र है जिसकी अधिष्ठात्री देवता दो है, तद्गत द्वित्व को मानकर यहाँ विशाखा को दो कहा गया है । तारे=नक्षत्र चन्द्रमा का अनुसरण करते हैं और दोनों सखियाँ शकुन्तला का । शकुन्तला स्त्री है और चन्द्रमा पुंलिङ्ग, अतः असंगति दूर करने के लिए चन्द्र की जगह चन्द्रलेखा का अनुसरण कहा गया है ।
| १४० | अभिज्ञानशाकुन्तलम् |
|---|
अनसूया—को उण उवाओ भवे जेण अदिलंबिअं णिहुअं अ सहीए मणोरहं संपादेह्म [ कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः ] ।
प्रियंवदा—णिहुअंत्ति चिंतणिज्जं भवे । सिग्धंत्ति सुअरं [ निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ] ।
अनसूया—कहं विअ [ कथमिव ] ।
प्रियंवदा—ण सो राएसी इमंस्सिं सिणिद्धदिट्ठीए सूइदाहिलासो इमाई दिअहाई पज्जाअरकिसो लक्खीअदि [ ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान् प्रजागरकृशो लक्ष्यते ]
किं चित्रम् = किमाश्चर्यम्, यदि = चेत् विशाखे = तारकाविशेषयुगलं शशाङ्कलेखां = चन्द्ररेखाम् अनुवर्तेते = अनुगच्छतः । अत्र विशाखे सखीस्थानीये, शकुन्तला च चन्द्ररेखास्थानीया । सखीभ्यामस्याः शकुन्तलाया अभिलाषोऽनुमतः ।
**अनसूया—**तयोः सङ्गमोपायं विचिन्तयन्ती अनसूया ब्रवीति—कः पुनरुपायः = कस्तर्हि उपायः भवेत् = स्यात् येन = उपायेन अविलम्बितं = विलम्बमकृत्वा त्वरितम् निभृतं = गूढम्, प्रच्छन्नरूपेण च सख्याः = शकुन्तलायाः मनोरथं = अभिलाषं दुष्यन्तसमागमलक्षणम् संपादयावः = सफलां कुर्वः । अनेन गान्धर्वो विवाहो विवक्षितः तस्य परस्पराऽनुरागमूलकत्वेन अतिश्लाघ्यत्वात् सद्यः सम्पादकत्वाच्चेति भावः ।
**प्रियम्बदा—**प्रियम्बदा कथयति निभृतं = गुप्तमिति कार्यानुष्ठानं चिन्तनीय = विमर्शयोग्यम् भवेत् = स्यात् शीघ्रम् = अविलम्बितमिति कार्यानुष्ठानम् सुकरम् = अनायासेन करणीयम् ।
**अनसूया—**कथमिव = केन प्रकारेण सुकरम् ।
**प्रियम्बदा—**उपायस्य शीघ्रतरं कर्तुं क्षमत्वे कारणस्वरूपं राज्ञोऽप्यौत्सुक्य वर्णयन्ती प्रियम्बदा प्राह—ननु = भो ! स राजर्षिः = राजा दुष्यन्तः एतस्यां = शकुन्तलायां स्निग्धदृष्ट्या = प्रेममयावलोकनेन = सामिलाषावेक्षणेन, सूचिताभिलाषः = सूचितः = प्रकटितः अभिलाषः = प्रेम येन स तथाभूतः सन् एतान् दिवसान् इमानि दिनानि प्रजागरकृशः = प्रजागरेण = रात्रिजागरेण कृशः = क्षीणः लक्ष्यते = प्रतीयते, दर्शनेन ज्ञायते । यज्ञरक्षणावसरे आश्रमे स्थित आवाभ्यां लक्षित इति भावः ।
**अनसूया—**तो क्या उपाय हो सकता है जिससे हम दोनों बिना देर किये हुए इस सहेली की इच्छा चुपचाप पूरी कर दें ।
**प्रियम्बदा—**जहाँ तक चुप चाप कार्य करने का सम्बन्ध है, विचारने की आवश्यकता है वहाँ तक जल्दी का सवाल आसानी है । अर्थात् सखि ! यह कार्य गुप्त रूप से कैसे हो सकेगा—यही केवल हमें विचारना है, शीघ्र होना तो कोई कठिन बात नहीं है ।
**अनसूया—**कहो यह कार्य शीघ्र कैसे हो सकता है ?
**प्रियम्बदा—**क्योंकि वह राजर्षि दुष्यन्त भी इस शकुन्तला को बार-बार स्नेह एवं चाह पूर्वक देखने से इसमें अपनी आसक्ति व्यक्त कर चुके हैं और आजकल इस शकुन्तला की चाह और विरह में रात को जागकर बिताने से ही वे राजा भी कृश एवं म्लान वदन हो रहे हैं ।
तृतीयोऽङ्कः १४१
राजा—सत्यमित्थंभूत एवास्मि। तथा हि—
१इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः।
२अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १०॥
राजा—प्रियम्वदोक्तं निजावस्थामनुवदन् राजा प्राह—सत्यं = तथ्यम् यथार्थम् इत्थंभूतः = निद्रारहितः कृशश्च एव अस्मि। तथा हि—
अन्वयः—निशि निशि भुजन्यस्तापाङ्गप्रसारिभिः अन्तस्तापात् अशिशिरैः अश्रुभिः विवर्णमणीकृतं मणिबन्धात् स्रस्तं स्रस्तं कनकवलयं मया अनभिलुलितज्याघाताङ्कं मुहुः प्रतिसार्यते।
प्रियम्वदोक्तौ आत्मनो रात्री प्रजागरणकारणं निशम्य राजा दुष्यन्तो निजामवस्थां परामृशन् ब्रूते—इदमशिशिरेति। निशि निशि = प्रतिनिशम्, तद्दर्शनात् प्रभृति सर्वासु रात्रिषु, भुजे = बाहौ न्यस्तात् = निक्षेपात् अपाङ्गात् = नेत्रप्रान्तात् प्रसारिभिः = प्रवर्तिभिरिति भुजन्यस्तापाङ्गप्रसारिभिः = हस्ततलन्यस्तनयनान्तनिर्गतैः अन्तस्तापात् = मदनाग्निदाहजन्यात् आन्तरादुष्मणः अशिशिरैः = उष्णैः अश्रुभिः = बाष्पैः लोचनजलविन्दुभिः विवर्णाः = विच्छायाः मणयः = पद्मरागादयो यत्र तत् विवर्णमणि न विवर्णं मणि अविवर्णमणि, अविवर्णमणि विवर्णमणि सम्पादितम् = अविवर्णमणिकृतम् मणिबन्धात् = बाहुपाणितलसन्धिस्यानात्, करमूलात् स्रस्तं = स्वस्थानात् पुनः पुनर्गलितम्, इदम् = एतत् कनकवलयं = सुवर्णंकङ्कणम् मया अभिलुलितः = काश्यात् अनतिस्पृष्टः ज्याघातस्य = धनुर्गुणकर्षणस्य अङ्गं = चिह्नं यस्मिन् तत् = अनभिलुलितज्याघाताङ्कम् मुहुः = वारंवारं प्रतिसार्यते = पश्चान्नीयते। मया स्वस्थाने एव स्थाप्यते। प्रकोष्टरूपस्वस्थानस्थं क्रियते इत्यर्थः।
अयं भावः—शकुन्तलादर्शनस्मरणात् मम दिनानि कथमप्यतिक्राम्यन्ति, रात्रौ तु मृदुतरास्वपि शय्यासु निद्रानभिमुखो भवति, शीतलेषु भूतलेषु लुण्ठता मया सुतरां क्षीणात् प्रकोष्ठात् मुहुर्मुहुर्गलितमिदं सुवर्णकङ्कणं भूयोभूयः ऊर्ध्वं नीयये। तस्मात् सत्यमेव वाढमहं कृशो जातः इति चिन्तयति दुष्यन्तः
अत्र काव्यलिङ्ग-स्वभावोक्ति-पर्यायोक्ति-अप्रस्तुतप्रशंसालङ्काराः छन्दश्च हरिणी॥१०॥
राजा—( अपनी ओर देखकर ) सचमुच मैं ऐसा ही कृश हो रहा हूँ, क्योंकि—
सोते समय बाएँ भुजा पर रखे हुए नेत्र के कोने से धारारूप से बहते हुए भीतर के ताप से अत्यन्त उष्ण आंसुओं से काले एवं मलिन पड़े हुए अपने हाथ के सुवर्ण कङ्कण को, जो कि धनुष की डोरी को बार-बार खींचने से जिसमें कुछ शुष्क प्रायः ताजे दाग पड़े हुए हैं। ऐसे मणिवन्धस्थान = कलाई पर से खिसक खिसक कर गिरता रहता है, उसको मैं रात भर बार-बार हाथ में डालता रहता हूँ। इस प्रकार मेरी समस्त रातें बीत जाती हैं ॥ १० ॥
विशेष—यहाँ निशि-निशि शब्द शकुन्तला के दर्शन से अब तक से समय ज्ञान कराते हैं।
पाठा०—१. अतिशिशिरतरैरन्तस्तापैर्विवर्णं... २. प्रवर्तिभिरश्रुभिः। ३. अनतितुलितज्याघाताङ्कान्।
१४२ || अभिज्ञानशाकुन्तलम्
प्रियंवदा—( विचिन्त्य ) हला मअणलेहो से करोअदु । इमं देवप्पसादस्सावदेसेण सुमणोगोविदं करिअ से हत्थअं पावइस्सं [ हला मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि ] ।
अनसूया—रोअइ मे सुउमारो पओओ । किं वा सउंदला भणादि [ रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ] ।
शकुन्तला—को णिओओ विकप्पीअदि [ को नियोगो विकल्प्यते ] ।
प्रियंवदा—तेण हि अत्तणो उवव्णासपुव्वं चिंतेहि दाव ललिअपदबंधणं [ तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् ] ।
प्रियम्वदा—( विचिन्त्य = विचार्य ) शीघ्रं शकुन्तलाया मनोरथं साधयितुं प्रियम्वदा वदति—हला = सखि अनसूये ! अस्य = राज्ञो दुष्यन्तस्य मदनस्य = कामस्य लेखः = पत्रिका = प्रेमपत्रं क्रियताम् = विधीयताम् । इमं = एतं = लेखं देवप्रसादस्य = भगवन्निर्माल्पस्य अपदेशेन = ऋषिभिः प्रेषितं देवनिर्माल्यमिति व्याजेन सुमनोगोपितं = पुष्पाच्छादितं कृत्वा = विधाय तस्य = दुष्यन्तस्य हस्तं = करं प्रापयिष्यामि = समुपस्थापयिष्यामि ।
**अनसूया—**प्रियम्वदोक्तिमनुमोदमाना अनसूया ब्रवीति—रोचते = समीचीन इति प्रतीयते मे = मह्यं सुकुमारः = कोमलः, सुकरो निरपायश्च प्रयोगः = उपक्रमः । किं वा शकुन्तला भणति = कथयति ।
**शकुन्तला—**सखीवचनं भङ्ग्या अनुमोदमाना शकुन्तला पृच्छति—**कः नियोगः-**आज्ञा विकल्प्यते = विचार्यते-युवयोः यः कोऽपि नियोगो मया विचारमकृत्यैव सम्पाद्यते इत्यर्थः ।
**प्रियम्वदा—**शकुन्तलोक्तिमाकर्ण्य कथयति प्रियम्वदा—तेन हि मदुक्तोपायस्य त्वया अभिनन्दितत्वात् आत्मनः = आत्मविहारावस्थायाः उपन्यासपूर्वकं = प्रसङ्गानुकूलं पूर्वमुपन्यासं कृत्वा चिन्तय = सावधानं निरूपय ललितं च तत् पदबन्धनं ललितपदबन्धनं = माधुर्यादिगुणप्रधानं स्वाभिप्रायप्रकाशकं पद्यम् ।
तकिया लगाकर लेटने पर भी रात में जागरण एवं विरह-व्याकुलता से लोटने-पोटने में वह हट जाती है। अतः बाँह को तकिया बनाना पड़ता है। वलय स्वाभाविक रूप से ढीले नहीं हैं पर वह बाँह में ऊपर धनु की डोर की निशाने से हटकर कसा गया है। इसलिए ढीला प्रतीत हो रहा है। अन्य अलंकारों का त्यागकर एक वलय धारण करने से विरहाधिक्य की प्रतीति होती है। दुबलेपन से कंकण इतना ढीला हो गया है कि वह बार-बार खिसक जा रहा है।
प्रियम्वदा—( कुछ सोचकर ) हे सखि ! इस समागम कार्य सिद्धि के लिए एक मदनलेख = प्रेमपत्र राजा को लिखा जाय तथा उस पत्र को पुष्पों में छिपाकर देवप्रसाद के व्याज से मैं इसे राजा के हाथ तक पहुँचा दूँगी।
**अनसूया—**सखि ! यह सरल तथा सुन्दर उपाय मुझे भी अच्छा लग रहा है, पर शकुन्तला से भी पूछ लें कि वह इस विषय में क्या कहती है ?
**शकुन्तला—**क्या सखियों की सलाह भी कहीं टाली जा सकती है ?
**प्रियम्वदा—**तो फिर तुम अपने प्रसङ्ग तथा दशा के अनुरूप सुन्दर एवं ललित पदावली से युक्त कोई गीतिका विचार करके बनाओ, जो उस पत्र में अङ्कित किया जा सके।
तृतीयाेऽङ्कः १४३
शकुन्तला—हला चिंतेमि अहं। अवहीरणाभीरुअं पुणो वेवइ मे हिअअं
[ हला चिन्तयाम्यहम्। अवधीरणाभीरु पुनर्वेपते मे हृदयम्।
राजा—( सहर्षम् )
अयं स ते तिष्ठति संगमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम्।
लभेत वा प्रार्थयिता न वा ^१श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥ ११ ॥
शकुन्तला—हला = सखि प्रियम्वदे ! अहम् चिन्तयामि = आत्मावस्थोपन्यासपूर्वकं पद्यं विचारयामि अवधीरणभीरु = अवज्ञाभीतं तिरस्कारसम्भावनाभयशीलं मे = मम हृदयम् = आन्तरं वेपते = कम्पते। पत्रिकाप्रेषणेन मया स्वकीये प्रणये प्रकाशिते कदाचित् स मामवज्ञास्यतीति संभावनया भयशीलं मामकीनं हृदयं कम्पते इत्यर्थः।
राजा—नृपो दुष्यन्तः (सहर्षं = हर्षपूर्वकं सानन्दं च) वृथाऽऽशङ्कमानां शकुन्तलां दृष्ट्वा राज्ञोः हासः।
**अन्वयः—**हे भीरु ! यतः अवधीरणां विशङ्कसे स अयं ते सङ्गमौत्सुकः तिष्ठति प्रार्थयिता श्रियं लभेत वा न वा ! श्रियः ईप्सितः दुरापः कथं भवेत् ।
अथ शकुन्तलाद्वारा कृतात्मनोऽवधीरणामाशङ्कमानो राजा दुष्यन्तः तां परिहर-न्नभिधत्ते—अयमिति । हे भीरु ! = भयशीले; यतः = यस्मात्, मत्सकाशात्, अवधीरणां = तिरस्कारं, अवहेलनम्, विशङ्कसे = विविधप्रकारैः आशङ्कसे स अयं त्वद्विरहाग्नि-सन्तापशान्तये त्वन्मुखचन्द्रचन्द्रिकामनुभवन् दुष्यन्तः ते = तव निकटवर्ती सङ्गमौत्सुकः = मिलनोत्कण्ठितः, क्षणमपि विलम्बमस्रहमानः तिष्ठति = योग्यमवसरं प्रतीक्षमाणस्थितिं करोति। तमेव दृष्टान्तेन समर्थयति-प्रार्थयिता = प्रार्थनापूर्वकं प्रयतमानो याचकः श्रियं = लक्ष्मीं, समृद्ध्यात्मिकां सम्पदं लभेत = प्राप्नुयात् वा न वा = कदाचित् लभेत, कदाचिन्न लभेतेति विकल्पः परन्तु, श्रिया = सम्पदा ईप्सितः = स्वयमाप्तुमिष्टः दुरापः = दुर्लभः कथं भवेत् = न भवेदित्यर्थः। श्रिया ईप्सितः सुलभ एव ।
**अयं भावः—**त्वां प्रार्थयितुस्त्वं दुर्लभा, त्वया प्रार्थ्यमानस्तु ते सुलभ एवाहम्। अतो भवतत्या प्रार्थनां विहातुं नाहं समर्थः, व्यर्थमवहेलनभीरुत्वं तवेति भावः। अत्राप्रस्तुत-प्रशंसा-दृष्टान्ताऽर्थान्तरन्यासालङ्कारा वृत्तं च वसन्ततिलका ॥ ११ ॥
**शकुन्तला—**ऐसी गीतिका तो मैं बना रही हूँ, किन्तु कहीं वे मेरी उपेक्षा न कर दें, इस भय से मेरा हृदय काँप रहा है।
राजा—( प्रसन्न होकर ) हे भीरु ! जिससे तुम तिरस्कार की सम्भावना कर रही हो, वह तो मैं तुम्हारे संगम के लिए स्वयं लालायित हो रहा हूँ। याचक तो लक्ष्मी की प्रार्थना करने पर भी कहीं से लक्ष्मी को कदाचित प्राप्त कर सके या नहीं भी परन्तु लक्ष्मी के लिये तो कभी याचक दुर्लभ नहीं होते ॥ ११ ॥
**विशेष—**शकुन्तला भीरु नायिका है। इसलिए उसे अपने तिरस्कार की संभावना है पर राजा इसके निवारणार्थ कहता है, प्रिये ! प्रार्थी तो मैं हूँ, मेरा तिरस्कार संभव है, तुम तो प्राप्य हो अतः
पाठा०—१. श्रियो।