भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ
१४०अभिज्ञानशाकुन्तलम्

अनसूया—को उण उवाओ भवे जेण अदिलंबिअं णिहुअं अ सहीए मणोरहं संपादेह्म [ कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः ] ।

प्रियंवदा—णिहुअंत्ति चिंतणिज्जं भवे । सिग्धंत्ति सुअरं [ निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ] ।

अनसूया—कहं विअ [ कथमिव ] ।

प्रियंवदा—ण सो राएसी इमंस्सिं सिणिद्धदिट्ठीए सूइदाहिलासो इमाई दिअहाई पज्जाअरकिसो लक्खीअदि [ ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान् प्रजागरकृशो लक्ष्यते ]

किं चित्रम् = किमाश्चर्यम्, यदि = चेत् विशाखे = तारकाविशेषयुगलं शशाङ्कलेखां = चन्द्ररेखाम् अनुवर्तेते = अनुगच्छतः । अत्र विशाखे सखीस्थानीये, शकुन्तला च चन्द्ररेखास्थानीया । सखीभ्यामस्याः शकुन्तलाया अभिलाषोऽनुमतः ।

**अनसूया—**तयोः सङ्गमोपायं विचिन्तयन्ती अनसूया ब्रवीति—कः पुनरुपायः = कस्तर्हि उपायः भवेत् = स्यात् येन = उपायेन अविलम्बितं = विलम्बमकृत्वा त्वरितम् निभृतं = गूढम्, प्रच्छन्नरूपेण च सख्याः = शकुन्तलायाः मनोरथं = अभिलाषं दुष्यन्तसमागमलक्षणम् संपादयावः = सफलां कुर्वः । अनेन गान्धर्वो विवाहो विवक्षितः तस्य परस्पराऽनुरागमूलकत्वेन अतिश्लाघ्यत्वात् सद्यः सम्पादकत्वाच्चेति भावः ।

**प्रियम्बदा—**प्रियम्बदा कथयति निभृतं = गुप्तमिति कार्यानुष्ठानं चिन्तनीय = विमर्शयोग्यम् भवेत् = स्यात् शीघ्रम् = अविलम्बितमिति कार्यानुष्ठानम् सुकरम् = अनायासेन करणीयम् ।

**अनसूया—**कथमिव = केन प्रकारेण सुकरम् ।

**प्रियम्बदा—**उपायस्य शीघ्रतरं कर्तुं क्षमत्वे कारणस्वरूपं राज्ञोऽप्यौत्सुक्य वर्णयन्ती प्रियम्बदा प्राह—ननु = भो ! स राजर्षिः = राजा दुष्यन्तः एतस्यां = शकुन्तलायां स्निग्धदृष्ट्या = प्रेममयावलोकनेन = सामिलाषावेक्षणेन, सूचिताभिलाषः = सूचितः = प्रकटितः अभिलाषः = प्रेम येन स तथाभूतः सन् एतान् दिवसान् इमानि दिनानि प्रजागरकृशः = प्रजागरेण = रात्रिजागरेण कृशः = क्षीणः लक्ष्यते = प्रतीयते, दर्शनेन ज्ञायते । यज्ञरक्षणावसरे आश्रमे स्थित आवाभ्यां लक्षित इति भावः ।


**अनसूया—**तो क्या उपाय हो सकता है जिससे हम दोनों बिना देर किये हुए इस सहेली की इच्छा चुपचाप पूरी कर दें ।

**प्रियम्बदा—**जहाँ तक चुप चाप कार्य करने का सम्बन्ध है, विचारने की आवश्यकता है वहाँ तक जल्दी का सवाल आसानी है । अर्थात् सखि ! यह कार्य गुप्त रूप से कैसे हो सकेगा—यही केवल हमें विचारना है, शीघ्र होना तो कोई कठिन बात नहीं है ।

**अनसूया—**कहो यह कार्य शीघ्र कैसे हो सकता है ?

**प्रियम्बदा—**क्योंकि वह राजर्षि दुष्यन्त भी इस शकुन्तला को बार-बार स्नेह एवं चाह पूर्वक देखने से इसमें अपनी आसक्ति व्यक्त कर चुके हैं और आजकल इस शकुन्तला की चाह और विरह में रात को जागकर बिताने से ही वे राजा भी कृश एवं म्लान वदन हो रहे हैं ।

तृतीयोऽङ्कः १४१

राजा—सत्यमित्थंभूत एवास्मि। तथा हि—

१इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः।
२अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १०॥

राजाप्रियम्वदोक्तं निजावस्थामनुवदन् राजा प्राहसत्यं = तथ्यम् यथार्थम् इत्थंभूतः = निद्रारहितः कृशश्च एव अस्मि। तथा हि

अन्वयः—निशि निशि भुजन्यस्तापाङ्गप्रसारिभिः अन्तस्तापात् अशिशिरैः अश्रुभिः विवर्णमणीकृतं मणिबन्धात् स्रस्तं स्रस्तं कनकवलयं मया अनभिलुलितज्याघाताङ्कं मुहुः प्रतिसार्यते।

प्रियम्वदोक्तौ आत्मनो रात्री प्रजागरणकारणं निशम्य राजा दुष्यन्तो निजामवस्थां परामृशन् ब्रूते—इदमशिशिरेति। निशि निशि = प्रतिनिशम्, तद्दर्शनात् प्रभृति सर्वासु रात्रिषु, भुजे = बाहौ न्यस्तात् = निक्षेपात् अपाङ्गात् = नेत्रप्रान्तात् प्रसारिभिः = प्रवर्तिभिरिति भुजन्यस्तापाङ्गप्रसारिभिः = हस्ततलन्यस्तनयनान्तनिर्गतैः अन्तस्तापात् = मदनाग्निदाहजन्यात् आन्तरादुष्मणः अशिशिरैः = उष्णैः अश्रुभिः = बाष्पैः लोचनजलविन्दुभिः विवर्णाः = विच्छायाः मणयः = पद्मरागादयो यत्र तत् विवर्णमणि न विवर्णं मणि अविवर्णमणि, अविवर्णमणि विवर्णमणि सम्पादितम् = अविवर्णमणिकृतम् मणिबन्धात् = बाहुपाणितलसन्धिस्यानात्, करमूलात् स्रस्तं = स्वस्थानात् पुनः पुनर्गलितम्, इदम् = एतत् कनकवलयं = सुवर्णंकङ्कणम् मया अभिलुलितः = काश्यात् अनतिस्पृष्टः ज्याघातस्य = धनुर्गुणकर्षणस्य अङ्गं = चिह्नं यस्मिन् तत् = अनभिलुलितज्याघाताङ्कम् मुहुः = वारंवारं प्रतिसार्यते = पश्चान्नीयते। मया स्वस्थाने एव स्थाप्यते। प्रकोष्टरूपस्वस्थानस्थं क्रियते इत्यर्थः।

अयं भावः—शकुन्तलादर्शनस्मरणात् मम दिनानि कथमप्यतिक्राम्यन्ति, रात्रौ तु मृदुतरास्वपि शय्यासु निद्रानभिमुखो भवति, शीतलेषु भूतलेषु लुण्ठता मया सुतरां क्षीणात् प्रकोष्ठात् मुहुर्मुहुर्गलितमिदं सुवर्णकङ्कणं भूयोभूयः ऊर्ध्वं नीयये। तस्मात् सत्यमेव वाढमहं कृशो जातः इति चिन्तयति दुष्यन्तः

अत्र काव्यलिङ्ग-स्वभावोक्ति-पर्यायोक्ति-अप्रस्तुतप्रशंसालङ्काराः छन्दश्च हरिणी॥१०॥

राजा—( अपनी ओर देखकर ) सचमुच मैं ऐसा ही कृश हो रहा हूँ, क्योंकि—
सोते समय बाएँ भुजा पर रखे हुए नेत्र के कोने से धारारूप से बहते हुए भीतर के ताप से अत्यन्त उष्ण आंसुओं से काले एवं मलिन पड़े हुए अपने हाथ के सुवर्ण कङ्कण को, जो कि धनुष की डोरी को बार-बार खींचने से जिसमें कुछ शुष्क प्रायः ताजे दाग पड़े हुए हैं। ऐसे मणिवन्धस्थान = कलाई पर से खिसक खिसक कर गिरता रहता है, उसको मैं रात भर बार-बार हाथ में डालता रहता हूँ। इस प्रकार मेरी समस्त रातें बीत जाती हैं ॥ १० ॥

विशेष—यहाँ निशि-निशि शब्द शकुन्तला के दर्शन से अब तक से समय ज्ञान कराते हैं।

पाठा०—१. अतिशिशिरतरैरन्तस्तापैर्विवर्णं... २. प्रवर्तिभिरश्रुभिः। ३. अनतितुलितज्याघाताङ्कान्।

१४२ || अभिज्ञानशाकुन्तलम्

प्रियंवदा—( विचिन्त्य ) हला मअणलेहो से करोअदु । इमं देवप्पसादस्सावदेसेण सुमणोगोविदं करिअ से हत्थअं पावइस्सं [ हला मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि ] ।

अनसूया—रोअइ मे सुउमारो पओओ । किं वा सउंदला भणादि [ रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ] ।

शकुन्तला—को णिओओ विकप्पीअदि [ को नियोगो विकल्प्यते ] ।

प्रियंवदा—तेण हि अत्तणो उवव्णासपुव्वं चिंतेहि दाव ललिअपदबंधणं [ तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावल्ललितपदबन्धनम् ] ।


प्रियम्वदा—( विचिन्त्य = विचार्य ) शीघ्रं शकुन्तलाया मनोरथं साधयितुं प्रियम्वदा वदति—हला = सखि अनसूये ! अस्य = राज्ञो दुष्यन्तस्य मदनस्य = कामस्य लेखः = पत्रिका = प्रेमपत्रं क्रियताम् = विधीयताम् । इमं = एतं = लेखं देवप्रसादस्य = भगवन्निर्माल्पस्य अपदेशेन = ऋषिभिः प्रेषितं देवनिर्माल्यमिति व्याजेन सुमनोगोपितं = पुष्पाच्छादितं कृत्वा = विधाय तस्य = दुष्यन्तस्य हस्तं = करं प्रापयिष्यामि = समुपस्थापयिष्यामि ।

**अनसूया—**प्रियम्वदोक्तिमनुमोदमाना अनसूया ब्रवीति—रोचते = समीचीन इति प्रतीयते मे = मह्यं सुकुमारः = कोमलः, सुकरो निरपायश्च प्रयोगः = उपक्रमः । किं वा शकुन्तला भणति = कथयति ।

**शकुन्तला—**सखीवचनं भङ्ग्या अनुमोदमाना शकुन्तला पृच्छति—**कः नियोगः-**आज्ञा विकल्प्यते = विचार्यते-युवयोः यः कोऽपि नियोगो मया विचारमकृत्यैव सम्पाद्यते इत्यर्थः ।

**प्रियम्वदा—**शकुन्तलोक्तिमाकर्ण्य कथयति प्रियम्वदा—तेन हि मदुक्तोपायस्य त्वया अभिनन्दितत्वात् आत्मनः = आत्मविहारावस्थायाः उपन्यासपूर्वकं = प्रसङ्गानुकूलं पूर्वमुपन्यासं कृत्वा चिन्तय = सावधानं निरूपय ललितं च तत् पदबन्धनं ललितपदबन्धनं = माधुर्यादिगुणप्रधानं स्वाभिप्रायप्रकाशकं पद्यम् ।


तकिया लगाकर लेटने पर भी रात में जागरण एवं विरह-व्याकुलता से लोटने-पोटने में वह हट जाती है। अतः बाँह को तकिया बनाना पड़ता है। वलय स्वाभाविक रूप से ढीले नहीं हैं पर वह बाँह में ऊपर धनु की डोर की निशाने से हटकर कसा गया है। इसलिए ढीला प्रतीत हो रहा है। अन्य अलंकारों का त्यागकर एक वलय धारण करने से विरहाधिक्य की प्रतीति होती है। दुबलेपन से कंकण इतना ढीला हो गया है कि वह बार-बार खिसक जा रहा है।

प्रियम्वदा—( कुछ सोचकर ) हे सखि ! इस समागम कार्य सिद्धि के लिए एक मदनलेख = प्रेमपत्र राजा को लिखा जाय तथा उस पत्र को पुष्पों में छिपाकर देवप्रसाद के व्याज से मैं इसे राजा के हाथ तक पहुँचा दूँगी।

**अनसूया—**सखि ! यह सरल तथा सुन्दर उपाय मुझे भी अच्छा लग रहा है, पर शकुन्तला से भी पूछ लें कि वह इस विषय में क्या कहती है ?

**शकुन्तला—**क्या सखियों की सलाह भी कहीं टाली जा सकती है ?

**प्रियम्वदा—**तो फिर तुम अपने प्रसङ्ग तथा दशा के अनुरूप सुन्दर एवं ललित पदावली से युक्त कोई गीतिका विचार करके बनाओ, जो उस पत्र में अङ्कित किया जा सके।

तृतीयाेऽङ्कः १४३

शकुन्तला—हला चिंतेमि अहं। अवहीरणाभीरुअं पुणो वेवइ मे हिअअं
[ हला चिन्तयाम्यहम्। अवधीरणाभीरु पुनर्वेपते मे हृदयम्।
राजा—( सहर्षम् )

अयं स ते तिष्ठति संगमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम्।
लभेत वा प्रार्थयिता न वा ^१श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥ ११ ॥

शकुन्तला—हला = सखि प्रियम्वदे ! अहम् चिन्तयामि = आत्मावस्थोपन्यासपूर्वकं पद्यं विचारयामि अवधीरणभीरु = अवज्ञाभीतं तिरस्कारसम्भावनाभयशीलं मे = मम हृदयम् = आन्तरं वेपते = कम्पते। पत्रिकाप्रेषणेन मया स्वकीये प्रणये प्रकाशिते कदाचित् स मामवज्ञास्यतीति संभावनया भयशीलं मामकीनं हृदयं कम्पते इत्यर्थः।

राजा—नृपो दुष्यन्तः (सहर्षं = हर्षपूर्वकं सानन्दं च) वृथाऽऽशङ्कमानां शकुन्तलां दृष्ट्वा राज्ञोः हासः।

**अन्वयः—**हे भीरु ! यतः अवधीरणां विशङ्कसे स अयं ते सङ्गमौत्सुकः तिष्ठति प्रार्थयिता श्रियं लभेत वा न वा ! श्रियः ईप्सितः दुरापः कथं भवेत् ।

अथ शकुन्तलाद्वारा कृतात्मनोऽवधीरणामाशङ्कमानो राजा दुष्यन्तः तां परिहर-न्नभिधत्ते—अयमिति । हे भीरु ! = भयशीले; यतः = यस्मात्, मत्सकाशात्, अवधीरणां = तिरस्कारं, अवहेलनम्, विशङ्कसे = विविधप्रकारैः आशङ्कसे स अयं त्वद्विरहाग्नि-सन्तापशान्तये त्वन्मुखचन्द्रचन्द्रिकामनुभवन् दुष्यन्तः ते = तव निकटवर्ती सङ्गमौत्सुकः = मिलनोत्कण्ठितः, क्षणमपि विलम्बमस्रहमानः तिष्ठति = योग्यमवसरं प्रतीक्षमाणस्थितिं करोति। तमेव दृष्टान्तेन समर्थयति-प्रार्थयिता = प्रार्थनापूर्वकं प्रयतमानो याचकः श्रियं = लक्ष्मीं, समृद्ध्यात्मिकां सम्पदं लभेत = प्राप्नुयात् वा न वा = कदाचित् लभेत, कदाचिन्न लभेतेति विकल्पः परन्तु, श्रिया = सम्पदा ईप्सितः = स्वयमाप्तुमिष्टः दुरापः = दुर्लभः कथं भवेत् = न भवेदित्यर्थः। श्रिया ईप्सितः सुलभ एव ।

**अयं भावः—**त्वां प्रार्थयितुस्त्वं दुर्लभा, त्वया प्रार्थ्यमानस्तु ते सुलभ एवाहम्। अतो भवतत्या प्रार्थनां विहातुं नाहं समर्थः, व्यर्थमवहेलनभीरुत्वं तवेति भावः। अत्राप्रस्तुत-प्रशंसा-दृष्टान्ताऽर्थान्तरन्यासालङ्कारा वृत्तं च वसन्ततिलका ॥ ११ ॥

**शकुन्तला—**ऐसी गीतिका तो मैं बना रही हूँ, किन्तु कहीं वे मेरी उपेक्षा न कर दें, इस भय से मेरा हृदय काँप रहा है।

राजा—( प्रसन्न होकर ) हे भीरु ! जिससे तुम तिरस्कार की सम्भावना कर रही हो, वह तो मैं तुम्हारे संगम के लिए स्वयं लालायित हो रहा हूँ। याचक तो लक्ष्मी की प्रार्थना करने पर भी कहीं से लक्ष्मी को कदाचित प्राप्त कर सके या नहीं भी परन्तु लक्ष्मी के लिये तो कभी याचक दुर्लभ नहीं होते ॥ ११ ॥

**विशेष—**शकुन्तला भीरु नायिका है। इसलिए उसे अपने तिरस्कार की संभावना है पर राजा इसके निवारणार्थ कहता है, प्रिये ! प्रार्थी तो मैं हूँ, मेरा तिरस्कार संभव है, तुम तो प्राप्य हो अतः

पाठा०—१. श्रियो।

१४४ अभिज्ञानशाकुन्तलम्

सख्यौ--अत्तगुणावमाणिणि ! को दाणिं सरीरणिव्वावत्तिअं सारदिअं जोसिणिं पडंतेण वारेदि [ आत्मगुणावमानिनि ! क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ] ।

शकुन्तला— सस्मितम् ) णिओइआ दाणिं म्हि [ नियोजितेदानीमस्मि ], ( इत्युपविष्टा चिन्तयति )

राजा— स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियमवलोकयामि । यतः—

उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः । ^१कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १२ ॥


सख्यौ—शकुन्तलायाः सकाशात् अवधीरणाशङ्कां दृष्टान्त-द्वारा परिहरन्त्यौ प्राहुतुः- आत्मनो गुणान् अवमनुते तच्छीला आत्मगुणावमानिनी तत्सम्बुद्धौ आत्मगुणावमानिनि != अज्ञातनिजगुणगौरवे ! स्वगुणगौरवानभिज्ञे ! स राजा त्वद्गुणैः क्रीतः तस्मादवधारणाशङ्कां न कार्येति भावः । शरीरनिर्वापयित्रीं = उष्मतापप्रमोदिनीम् कामादिसन्तापशमनकारिणीम् देहानन्ददायिनीम् शारदीं = शरत्कालसम्बन्धिनीं ज्योत्स्नां = चन्द्रिकां पटान्तेन = अञ्चलेन को वारयति = तिरोधत्ते । न कोऽपीत्यर्थः । यथा शरीरसुखदायिनीं शारदीं ज्योत्स्नां न कोऽपि वारयति तथा स्वयं प्रणयपत्रप्रेषणेन प्रदर्शितानुरागां त्वां स राजा नावधारयेत् । त्वया संगतो राजा नूनमात्मानं धन्यं मनुते; का कथा तत् तवावधारणायाः इति भावः ।

शकुन्तला—सख्योरभिप्रायं जानन्ती शकुन्तला (सस्मितम् = स्मयपूर्वकम्) इदानीं = दृष्टान्तद्वारा स्वपक्षसमर्थनेन शङ्कापरिहारात् नियोजिता = प्रणयपत्रिकारचनार्थमाज्ञप्ता अस्मि । इदानीमवश्यमेव मया प्रणयपत्रिका विचिन्त्येति उक्त्वा (उपविष्टा चिन्तयति ।)

राजा—तथाभूतां शकुन्तलामवलोकयन् ब्रवीति-स्थाने = उपचितम् खलु = निश्चयेन विस्मृतो = निमिषौ यस्य यत्र सा न विस्मृतनिमेषः तेन विस्मृतनिमेषेण = निमेषशून्येन अनाकलितपक्ष्मपातेन निमेषशून्येन चक्षुषा = नेत्रेण प्रियां = शकुन्तलाम् अवलोकयामि

अन्वयः—पदानि रचयन्त्या अस्याः उन्नमितैकभ्रूलतम् आननं कण्टकितेन, कपोलेन मयि अनुरागं प्रथयति ।

निर्निमेषेण नेत्रेण शकुन्तलानुरागस्योचितत्वं समर्थयति राजा दुष्यन्तः—उन्नमिते-


तेरा तिरस्कार संभव नहीं क्योंकि प्रार्थी को लक्ष्मी भले न मिले किन्तु लक्ष्मी जिसको चाहे उसका मिलना दुःसाध्य नहीं । तात्पर्य यह है कि यहाँ दुष्यन्त अपने को प्रार्थी तथा शकुन्तला को लक्ष्मी मानते हैं, अतः उसके अभिलषित का मिलना कठिन नहीं है ।

दोनों सखियाँ—अरी, अपने को कम समझने वाली सखि शकुन्तले ! सन्ताप को दूर करने वाली शरद् ऋतु के चन्द्रमा को चन्द्रिका=चाँदनी को भला छाता लगाकर कौन टालता है ? अर्थात् शरद् कालीन चन्द्रमा की शीतल चाँदनी को आँचल से कौन रोकता है, कोई नहीं। अतः वह राजा तुम को कैसे नहीं चाहेगा ।

शकुन्तला—(हँसकर) सखियों ने विशेष अनुरोध से मुझे इस पत्र लेखन कार्य में लगा ही दिया है (बैठी हुई गीति की चिन्ता करती है) ।

राजा—अहा, मैं यहाँ निर्निमेष लोचन होकर बड़े ही अच्छे इस मौके में अपनी प्रिया को देख रहा हूँ, क्योंकि—


पाठा०—१. पुलकाचितेन कथयति ।

तृतीयोऽङ्कः १४५

शकुन्तला—हला चिंतिदं मए गोदवत्थु । ण खु सण्णिहिदाणि उण लेहण साहणाणि [ हला चिन्तितं मया गीतवस्तु । न खलु संनिहितानि पुनर्लेखनसाधनानि ] ।
प्रियंवदा—इमस्सिं सुओदरसुउमारे णलिणीपत्ते णहेहिं णिखिवत्तवण्णं करेहि [ एतस्मिञ्छुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ] ।
शकुन्तला—( यथोक्तं रूपयित्वा ) हला सुणुह दाणिं संगदत्थं ण वे त्ति [ हला शृणुतमिदानीं संगतार्थं न वेत्ति ] ।


केति । पदानि = गीतिकापदानि, कवितापदानि, शब्दान् रचयन्त्या = विचारयन्त्या अस्याः = पुरःस्थितायाः शकुन्तलाया उन्नमिता एका भ्रूलता यस्मिन् तत् उन्नमितैकभ्रूलतम् = उत्क्षिप्तैकभ्रूकुटीमनोहरम् आननं = मुखम् कण्टकितेन = रोमाञ्चितेन पुलकितेन कपोलेन = गण्डस्थलेन मयि = दुष्यन्ते अनुरागं = प्रेमबन्धं कथयति = सूचयति, अनुमापयति ।

**अयं भावः—**सखीनियोगानुसारं सन्देशपद्ययोग्यानि पदानि रचयन्त्या मध्ये मध्ये एकां भ्रूलतामूर्ध्वमाक्षिप्य क्षणं तूष्णीं तिष्ठन्त्या अस्याः शकुन्तलाया रोमाञ्चितः कपोलो मद्विषये प्रगाढं प्रेमाणं द्योतयति ।

अत्रोपमार्थापत्ति-स्वभावोक्ति-सन्देह-संकरानुमानालङ्काराः छन्दश्चार्या ॥ १२ ॥

शकुन्तला—सखीनियोगानुष्ठानं निवेदयति—हला = सखि ! मया गीतवस्तु = गीति-सामग्री, संगतार्थं चिन्तितं = विचारितम् पुनः किन्तु लेखनसाधनानि लेखनस्य = अङ्कनस्य साधनानि = अपेक्षितवस्तूनि, लेखनोपकरणानि, लेखनीपत्रिका-मसीपत्रादीनि च खलु सन्निहितानि = उपस्थितानि सन्ति ।

प्रियंवदा—प्रियंवदोत्तरयति—एतस्मिन् = पुरःस्थिते शुकस्य = कीरस्य उदरवत् सुकुमारेऽतिकोमले कीरक्रोडकोमले नलिनीपत्रे = कमलिनीदले नखैः = नखरैः निक्षिप्त-वर्णं = निक्षिप्ता उत्कीर्णाः वर्णाः = अक्षराणि यस्मिन्निति निक्षिप्तवर्णं कुरु = विधेहि, नखाग्रैर्लिखेति भावः । अनेनाक्षरलेखनसौकर्यं प्र दर्शितम् ।

शकुन्तला—( यथोक्तं रूपयित्वा = नखैर्लिखित्वा ) हला = सखि ! शृणुत = आकर्ण्यताम्, इदानीं = अधुना सङ्गतार्थं = सङ्गतः अविरुद्धः अर्थो यस्य तत् सङ्गतार्थं = युक्तार्थम् समुचितार्थं वा न वा इति ।


अपनी भ्रुकुटि को टेढ़ी करके कविता के पदों को रचती हुई मेरी प्रिया का मुख ही रोमाञ्चित कपोलों के द्वारा मेरे प्रति इसके अनुराग को प्रगट कर रहा है ॥ १२ ॥

**विशेष—**प्रेमपत्र को लिखने के लिए उद्यत शकुन्तला की भावभंगिमा देखकर राजा अपने में उसके अनुराग की कल्पना करते हैं । सुधाकर में रति की छह अवस्थाओं में अनुराग छठवां माना गया है—'अङ्कुरपल्लवकलिका-प्रसूनफलोपभोगभागियं क्रमशः।

प्रेमा मानः प्रणयः स्नेहो रागोऽनुराग इत्युक्तः ॥

**शकुन्तला—**सखियों ! मैंने गीत का पद्य तो बना लिया, किन्तु पत्र लिखने के साधन ( भोजपत्र, कागज, दावात, स्याही आदि ) तो यहाँ हैं नहीं, पत्र कैसे लिखूँ ।

**प्रियंवदा—**सुग्गे के उदर के समान सुकुमार इस कमलिनी के हरे पत्ते पर ही नखों से तुम पत्र लिखो।

शकुन्तला—( उसी प्रकार से लिखने का अभिनय कर ) सखियों ! तुम लोग भी इसे सुन लो, मैंने ठीक लिखा है या नहीं ?

१० शाकु०

१४६अभिज्ञानशाकुन्तलम्

उभे—अवहिद म्ह [ अवहिते स्वः ] ।
शकुन्तला—( वाचयति ) ।

तुज्झ ण आणे हिअअं मम उण कामो दिवापि रत्तिम्मि ।
णिग्घिण तवइ बलीअं तुइ वुत्तमणोरहाई अंगाई ॥ १३ ॥

[ तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥ ]

राजा—अवसरः खल्वात्मानं दर्शयितुम् ( सहसोपसृत्य )

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ १४ ॥


उभे—द्वे अपि सख्यौ—कथयतः—आवां अवहिते = सावधाने दत्तावधाने स्वः ।
शकुन्तला—( वाचयति ) मदनज्वालावलीढा शकुन्तला राज्ञे सोपालम्भं स्वावस्थां निवेदयन्ती स्वस्वीकारं प्रार्थयते— तवेति ।
अन्वयः—हे निर्घृण ! तव हृदयं न जाने त्वयि वृत्तमनोरथानि मम अङ्गानि कामः पुनः दिवापि रात्रिमपि बलीयस्तपति ।
मदनानलतापासहिष्णुः शकुन्तला दुष्यन्ताय सोपालम्भमात्मनाऽवस्था तस्मै निवेदयन्ती स्वस्वीकृतिं निवेदयते—तवेति । हे निर्घृण ! = हे निर्दय ! तव = भवतः हृदयं=अन्तर्भावं अन्तरं न जाने = त्वां मदनः तपति न वेति न जानामि, त्वयि=तव विषये वृत्तमनोरथानि-वृत्तः = संजातः मनोरथः = अभिलाषः येषां तादृशानि ममाङ्गानि कामः = मदनः पुनः = तु दिवा = दिवसम् अपि रात्रि = निशाम् अपि च बलीयः = अत्यर्थं तपति तापं जनयति । यस्मात्त्वन्निमित्तमेव मदनेनैवं तप्यमानायां मयि न दयसे तस्मान्निर्दयोऽसि, इतः परमपि स्वकीयं निर्दयत्वं विहाय त्वदेकशरणां मां झटित्यङ्गीकुरुष्व । यदि मां नाङ्गीकुरुषे तर्हि मदनदहनकोऽसौ मां दशमीं दशां प्रापयिष्यतीति भावः ॥ १३ ॥
राजा—ज्ञातरहस्यस्य प्रहृष्टस्य स्वावस्थां निवेदयितुं योग्योऽनवसर इति मन्यमानस्य राज्ञश्चेष्टामह—( सहसा = अतर्कितम्, उपसृत्य = समीपमागत्य । )


दोनों सखियाँ—हम सावधान हो इसे सुन रही हूँ। सुनाओ।
शकुन्तला—( पत्र को बाँचती है ) ।
हे निर्दय ! तुम्हारे हृदय की क्या दशा है ? यह तो मुझे मालूम नहीं है, किन्तु सम्पूर्ण अङ्गों को तो जिनका सुख तुम्हारे ही हाथ है और जिनकी भावना तुम्हारे में लगी हुई है, मदन दिन-रात प्रबल वेग से जला रहा है ॥ १३ ॥
विशेष—यहाँ शकुन्तला ने राजा को निर्घृण कहा है, जिसका तात्पर्य है कि वे अति निर्दयी हैं, अन्यथा विवश होकर वे मेरे पास अवश्य आते या मुझे अपने पास ही बुलाते । उनके लिए मैं काम-ताप से सन्तप्त हो रही हूँ पर वे बचाते नहीं हैं। मेरा प्रत्येक अङ्ग उनसे मिलना चाहता है—भुजायें आलिंगन के लिए, नयन दर्शन के लिए, कर्ण वचनामृत श्रवण के लिए, नासिका मुख-सौगन्ध पान के लिए लालायित है और इसी प्रकार प्रत्येक अंग उनसे मिलना चाहता है पर, उन्हें इनकी परवाह ही नहीं है। इस प्रकार परुषभाषण करती हुई राजा को निर्घृण बनाती है, जो एक विरहिणी के लिए स्वाभाविक है ।
राजा—अपने को प्रगट करने का अच्छा मौका है ( सहसा शकुन्तला के पास पहुँचकर )

तृतीयोऽङ्कः । १४७

सख्यौ—(अवलोक्य सहर्षम्) साअदं अबिलंबिणो मणोरहस्स [स्वागतम-बिलम्बिनो मनोरथस्य] । (शकुन्तलाभ्युत्थातुमिच्छति) ।

राजा—अलमलमायासेन ।

संदष्टकुसुमशयनान्याशुक्लान्तविसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १५ ॥


अन्वयः—तनुगात्रि ! त्वां मदनः अनिशं तपति मां पुनर्दहत्येव । दिवसः यथा शशाङ्कं ग्लपयति तथा कुमुद्वतीं न हि ।

अथ दुष्यन्तः आत्मनोऽवस्थां निवेदयन्नाह—तपतेति। तनुगात्रि। तनूनि = कृशानि गात्राणि = अङ्गानि यस्याः सा तत्सम्बुद्धौ हे तनुगात्रि ! = हे कृशाङ्गि ! त्वां = भवतीं मदनः = कामः अनिशं = निरन्तरं दिवामपि = रात्रिमपि तपति = सन्तापमात्रेण पीडयति मां पुनः = मां तु दहत्येव = भस्मीकरोत्येव । एतावता त्वं तापमात्रं जानासि, न तु दाहमपि । हि = यतः दिवसः = वासरः यथा = येन प्रकारेण शशाङ्कं = चन्द्रं ग्लपयति = ग्लानं करोति, श्रीविहीनं विधत्ते इत्यर्थः । कुमुद्वतीं कुमुदः प्रेयसीं कुमुदिनीं न हि तथा । दिवसे चन्द्रस्य यादृशी ग्लानिः तथा न कुमुदिन्या, कामेनाहमेव पीड्ये, न पुनर्भवतीं । तस्मात् त्वदपेक्षया समधिकं दुःखं मया सह्यते । अत्र दृष्टान्त-प्रतिवस्तूपमा-व्यतिरेक-विरोधाभासानुप्रासा अलङ्काराः आर्यावृत्तं च ॥ १४ ॥

सख्यौ—(सहर्षम् = सानन्दं राज्ञोऽतर्कितागमनेन हर्षम्) अविलम्बिनः = अकृत-विलम्बस्य मनोरथस्य = अभिलाषापूर्तेः, मनोरथरूपस्य तव स्वागतं = शुभाभिनन्दनम् । (शकुन्तला अभ्युत्थातुं = उत्थातुम् इच्छति = वाञ्छति) ।

राजा—स्वदर्शनेन शकुन्तलाया अभ्युत्थानारम्भमवलोकयन् अवसरप्राप्तं सदयमाह—अलमलम् = कृतं कृतम्, आयासेन = अभ्युत्थानारम्भप्रयासेन यथेष्टं सुखमुपविशेति भावः ।

अन्वयः—आशु संदष्टकुसुमशयनानि क्लान्तविसभङ्गसुरभीणि गुरुपरितापानि ते गात्राणि उपचारं नार्हन्ति ।

आत्मानमतर्कोतोपनतमवलोक्य ससंभ्रममुत्थातुं प्रयतमानां शकुन्तलां निवारयन् राजा दुष्यन्तः तद्-गात्राणामुपचारकरणसमर्थतां समर्थयन्नाह—सन्दष्टेति । आशु =


हे कृशाङ्गि ! तुमको तो कामदेव रात-दिन केवल सन्ताप ही पहुँचाता है, किन्तु मुझे वह जला ही रहा है, क्योंकि सूर्य का उदय जितना चन्द्रमा को हतप्रभ करके ग्लानि पहुँचाता है उतना कुमुदिनी को नहीं, अतः दिन से कुमुदिनी की अपेक्षा चन्द्रमा को अधिक हानि होती है ॥ १४ ॥

विशेष—यहाँ शकुन्तला के प्रेमपत्र में जो भोलापन और स्वाभाविकता है वह राजा दुष्यन्त के पद्य में नहीं है, क्योंकि वह नगर की चातुरी से पूर्ण औपचारिक मात्र है । राजा दुष्यन्त अपने को चन्द्रमा तथा शकुन्तला को कुमुदती कहकर उसे अपनी प्रिया के रूप में वर्णित करते हैं ।

दोनों सखियाँ—(देखकर आनन्द के साथ) शीघ्र ही सिद्ध होने वाले मनोरथ के विषयभूत आपका स्वागत है (शकुन्तला उठना चाहती है) ।

राजा—नहीं नहीं कष्ट न करें क्योंकि—

सन्ताप से फूलों की शय्या में भी जिन अङ्गों के दाग पड़ गये हैं और मृणाल-वलयों को भी जिन्होंने सन्ताप से विमर्दित = मुरझा दिया है, ऐसे अत्यन्त सन्तप्त आपके ये अङ्ग इस प्रकार के उपचार = शिष्टाचार के योग्य नहीं हैं ॥ १५ ॥


१. पाठ०—न्याशुविमर्दितमृणालवलयानि ।

१४८अभिज्ञानशाकुन्तलम्

**अनसूया—**इदो सिलातलेक्कदेसं अलंकरेदु वअस्सो [ इतः शिलातलैकदेशमलं करोतु वयस्यः ] । ( राजोपविशति शकुन्तला सलज्जा तिष्ठति )

**प्रियंवदा—**दुवेणं णु वो अण्णोण्णाणुराओ पच्चक्खो । सहीसिणेहो मां पुणरुत्त-वादिणिं करेदि [ द्वयोर्ननु युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति ] ।

**राजा—**भद्रे नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।


शीघ्रम्, संदष्टकुसुमशयनानि संदष्टं = संश्लिष्टं कुसुमशयनं = पुष्पशय्या येषु तानि संदष्ट-कुसुमशयनानि क्लान्ताः = म्लानाः बिसभङ्गा येषु तानि अत एव सुरभीणि = सौगन्ध्य-वन्ति इति क्लान्तबिसभङ्गसुरभीणि ग्लपितशयनीयकुसुमानि गुरुः = महान् परितापः = सर्वतः तापः सन्तापो येषु तानि गुरुपरितापानि तीव्रसन्तापानि ते = तव गात्राणि = अङ्गानि उपचारम् = अभ्युत्थानवन्दनसत्कारादिकं नार्हन्ति = कर्तुं न क्षमन्ते ।

**अर्थ भावः—**हे कृशाङ्गि ! अभ्युत्थानादिकं कर्तुं न युज्यते तापातिरेकात्तव शरीर-मभ्युत्थानवन्दनादिसत्कारं कर्तुं नार्हति विहाय लज्जाभये सुखमुपविश्यताम् । अत्र काव्य-लिङ्ग-परिकर-अनुप्रासोपमालङ्कारा आर्यावृत्तं च ॥ १५ ॥

अनसूया — समागतस्य तस्य राज्ञो दुष्यन्तस्य सत्कारं कुर्वाणाऽनसूया कथयति—वयस्यः = समानसुखदुःखः सुहृत् शिलातलैकदेशं = भवत्प्रियाधिष्ठितशिलाखण्डैकदेशमनु-गृह्णातु । एवं युवयोः सहापवेशनदर्शनेन आवयोर्नयनप्रीतिर्भविष्यतीत्याकूतम् । ( राजा = दुष्यन्त उपविशति = शकुन्तला सलज्जा = सत्रपा तिष्ठति = स्थिता )

प्रियम्वदा —अथावसरप्राप्तकर्त्तव्यविषये जागरूका प्रियम्वदा चिराभिलषितसमागमयोः परस्परानुरागयोः दैवादेकान्ते संगतयोर्नायकयोः प्रेमप्रगाढाया इयत्तामवधारयितुं प्रसङ्ग-मवतारयति—ननु = भोः द्वयोर्युवयोः = भवतोः अन्योन्यानुरागः = परस्परप्रेमप्रत्यक्षः = अपरोक्षः स्पष्ट एव । सखीस्नेहः = शकुन्तलाप्रेम मामिमां प्रियम्वदां पुनरुक्तवादिनीं = पुनरुक्तभाषणशीलाम् आवृत्तिव्यापृताम् करोति = विदधाति ।

**राजा—**आत्मवक्तव्यस्यानवकाशतया तूष्णीमासीनां प्रियम्वदां वक्तुं राजा समुद्यो-जयति—एतत् = त्वया विवक्षितं न परिहार्यं = मध्ये एव न त्यागयोग्यम् किन्तु वक्तव्य-मेवेति भावः । विवक्षितं = वक्तुमिष्टमपि लज्जादिवशादनुक्तं सत् पर्यवसाने अनुतापं =


**विशेष—**उठकर स्वागत करने का शिष्टाचार स्वस्थ अवस्था में संभव है । अस्वस्थ व्यक्ति को उठकर किसी का स्वागत करने में कष्ट होता ही है । शकुन्तला का शरीर मदन ताप से सन्तप्त हो गया है । उसमें फूल की भी शय्या सूखकर चिपक गई है और कमलनाल भी मुरझा गया है । अतः अधिक ताप से सन्तप्त उसका स्वागतार्थ उठना राजा दुष्यन्त को समुचित नहीं प्रतीत होता ।

**अनसूया—**हे महाभाग ! जिसपर शकुन्तला लेटी हुई है, इसी शिलातल के एक भाग में आप भी बैठ जाइए ( राजा बैठ जाते हैं, शकुन्तला लज्जित हो एक तरफ बैठी रहती है ) ।

**प्रियम्वदा—**आप दोनों का पारस्परिक प्रेम प्रत्यक्ष है, फिर भी सहेली के प्रति मेरा स्नेह ही मुझे पुनः उसी बात को कहने को प्रेरित कर रहा है ।

**राजा—**भद्रे ! अवश्य कहो, बात को मन में रखो, क्योंकि जिस बात को कहने का मन करे उसे न कहने से मन में सन्ताप और विकलता बढ़ती है ।

तृतीयोऽङ्कः १४९

प्रियंवदा—आवण्णस्स विसअणिवासिणो जणस्स अत्तिहरेण रण्णा होदव्वं त्ति एसो वो धम्मो [ आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राजा भवितव्यमित्येष युष्माकं धर्मः ]।

राजा—नास्मात्परम् १।

प्रियंवदा—तेण हि इमं णो पिअसही तुमं उद्दिसिअ इमं अवत्थंतरं मअणेण आरोविदा। ता अरुहसि अब्भुववत्तीए जीविवं से अवलंबिदुं [ तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता तदर्हस्यभ्युपपत्त्या जीवितं तस्या अवलम्बितुम् ]।

राजा—भद्रे ! साधारणोऽयं २ प्रणयः । सर्वथानुगृहीतोऽस्मि ।


पश्चात्तापं जनयति = प्रसूते। एवं च सखीस्नेहात्तदीयानुरागस्यैव पुनरभिधानात् पुनरुक्तिः, सखीस्नेहात्तदीयानुरागमेव भवद्विषयमधिकृत्य किञ्चिद्वच्मीत्याशयः।

प्रियम्बदा—अत्र प्रियम्वदा विवक्षितमर्थं प्रस्तौति—आपन्नस्य = परचक्रादिना आपदं प्राप्तस्य विषयवासिनः = स्वदेशवासिनः जनस्य = जनसामान्यस्य स्त्रीजनस्य च आर्तिहरेण = पीडानिवारकेण अनर्थनिवारकेण राज्ञा = क्षत्रियेण भवितव्यं, इति युष्माकं क्षत्रियाणां, अनुरागिणां च धर्मः अवश्यकर्तव्यं स्वभावश्च। अयं धर्म्यः पन्था इति भावः।

राजा—नृपः कथयति अस्मात् = पूर्वोक्तात् आर्तिहरणात् परं = पश्चात् अन्यत् न धर्मं इति भावः।

प्रियम्वदा—प्रियम्वदा वक्ति—तेन हि इयं = एषा आवयोः = नौ प्रियसखीप्रिया = आली शकुन्तला त्वां = भवन्तम् उद्दिश्य = विषयीकृत्य इदं = एतत् दृश्यमानम् अवस्था-न्तरं अन्यां = सर्वथाभिन्नां अवस्थां = दशां भवता = श्रोमत्ता मदनेन = कामदेवेन आरो-पिता—प्रापिता तत् = तर्हि अभ्युपपत्या = अनुग्रहेण तस्याः = शकुन्तलाया जीवितं = जीवनं अवलम्बितुं = आलस्यं विहाय धारयितुं = अर्हसि = अधिक्रियसे। त्वयि प्रगाढा-नुरागिणीमेनां झटिति परिगृहाणेति भावः।

राजा—प्रियम्वदोक्तिमनुमोदमानो राजा प्राह—भद्रे ! = कल्याणि ! त्वं स्ववैदग्ध्या नागरिक्या अप्यधिशेषे—साधारणः = आवयोः उभयोः समानः अयं = त्वयोक्तः जीविता-लम्बनविषयः प्रणयः = प्रार्थना सर्वथा = सर्वेण प्रकारेण पूर्णतः अनुगृहीतः = कृतकृत्यः युवाभ्याम् अभीष्टसिद्धयनुकूलाचरणरूपमनुग्रहं प्रापितः अस्मीति भावः।


प्रियम्बदा—विपत्ति ग्रस्त देशवासी की पीड़ा को दूर करना राजा का धर्म है।

राजा—इससे अधिक दूसरा धर्म नहीं।

प्रियम्बदा—हाँ, तो—हमारी इस सखी शकुन्तला को आपके ही कारण भगवान् कामदेव ने पीड़ित करके इस दशा तक पहुँचा दिया है। अतः इस पर आप कृपा करें, इसे जीवन धारण कराना आपका कर्तव्य है।

राजा—भद्रे! हम दोनो का परस्पर प्रेम समान ही है। इसमें प्रार्थना की आवश्यकता क्या है? आपके इस कथन से मैं सर्वथा अनुगृहीत हूँ।


१. पाठा०—अस्मात्परं किं तत् ?
२. एष ।

१५० | अभिज्ञानशाकुन्तलम्

शकुन्तला—( ( प्रियंवदामवलोक्य¹ ) हला किं अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण [ हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ] ।

राजा— इदमनन्यपरायणमन्यथा हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ १६ ॥

शकुन्तला—( प्रियम्बदामवलोक्य = दृष्ट्वा ) त्वया अस्य राज्ञो हृदयमज्ञात्वैव मत्परि-ग्रहप्रार्थना प्रकाशिता तुल्यानुरागश्चेदसौ तदा सर्वं समञ्जसम् अन्यथा प्रार्थनाभङ्गेन नः परिहास एव स्यादिति अवलोकनेन सूच्यते । हला = हे सखि प्रियम्वदे ! अन्तःपुर-विरहपर्युत्सुकस्य = अन्तःपुरस्य अवरोधस्य तत्रत्यराज्ञीनां विरहेण वियोगेन पर्युत्सुकः = उत्कण्ठितः इति अन्तःपुरविरहपर्युत्सुकः तस्य अन्तःपुरविरहपर्युत्सुकस्य = अन्तःपुरवर्ति-स्त्रीजनवियोगोत्कण्ठितस्य राजर्षेः = महाराजस्य राज्ञो दुष्यन्तस्य उपरोधेन = विवशी-करणेन किं = को लाभः ? एवंविधस्यास्य राज्ञो दुर्भगानां तपस्विकन्यकानामस्माकं प्रार्थना उपरोध एवेति तं मा कृथाः, युवयोः अमुना व्यापारेण नास्ति किमपि प्रयोजन-मिति तदाशयः ।

राजा— ईदृशेन शकुन्तलावाग्वज्रेण प्रगाढं प्रहतो राजा दुष्यन्तः तत्प्रणयभङ्गभीरुः तस्या मनोमालिन्यमपनेतुं प्रयतमान आह—इदमिति ।

अन्वयः— हे मदिरेक्षणे ! हृदयसन्निहिते इदमनन्यपरायणं मम हृदयं यदि अन्यथा समर्थयसे मदनबाणहतः पुनः हतोऽस्मि ।

अन्तःपुरपर्युत्सुकस्य राजर्षेरुपरोधेन किमिति वाग्वज्रोपमं शकुन्तलावचनं निशम्य राजा दुष्यन्तः तस्या मनोमालिन्यमपनेतुं प्रयतमानो ब्रवीति—इदमिति । मदिरा = मद्यं तत्तुल्ये मत्तकारिणी ईक्षणे = नेत्रे यस्या असौ यद्वा मदिरे ईक्षणे यस्या असौ मदिरेक्षणा तत्सम्बुद्धौ हे मदिरेक्षणे ! = चञ्चलनयने ! मदिरोपमया ईदृशे संरम्भेऽपि हृद्यो मादकश्च ते कटाक्षमोक्ष इति सूच्यते । मदिरादृष्टिलक्षणं चाह भरतमुनिः—

'आघूर्णमानमध्या या क्षामा चञ्चिततारका ।
दृष्टिविकसितापाङ्गा मदिरा तरुणे मदे ॥'

हृदयसन्निहिते = स्वेष्टदेवतावत् मम मनसि सम्यग्धारिते, हृदयेश्वरि, इदं = प्रकटिताशयं


शकुन्तला—( प्रियम्बदा की ओर देखकर ) हे सखि ! अपने अन्तःपुर = रनिवास की स्त्रियों के विरह में उत्सुक इन राजर्षि को तुम लोग क्यों दबा रहे हो ?

राजा—
हे हृदयस्थलनिवासी प्रिये ! यदि मेरे अनन्यपरायण इस हृदय को तुम इस प्रकार सन्देह की दृष्टि से देखोगी तो, हे उन्मत्त कर देने वाले तीखे नेत्र वाली प्रिये ! मैं तो मदन के बाणों से पहले से ही घायल हूँ, परन्तु अब तुम्हारे इस प्रकार सन्देह करने से तो मैं सचमुच ही मारा जाऊँगा ॥ १६ ॥

विशेष— यहाँ मदिरेक्षणे सम्बोधन बड़े महत्त्व का है, इसका अर्थ मदिरा के समान मादक दृष्टि । भरत मुनि ने अपने नाट्यशास्त्र में मदिरा दृष्टि की परिभाषा यों की है—

'आघूर्णमानमध्या या क्षामा चञ्चिततारका । दृष्टिविकसितापाङ्गा मदिरा तरुणे मदे ॥'


**१. पाठ०—**सप्रणयकोपस्मितम् ।

तृतीयोऽङ्कः १५१

अनसूया—वअस्स बहुवल्लहा राआणो सुणीअंति । जह णे पिअसही बंधुअण-सी अणिज्जा ण होइ तह णिव्वत्तेहि [वयस्य, बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्तय] ।

राजा—भद्रे ! किं बहुना—

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्रवसना¹ चोर्वी सखी च युवयोरियम् ॥ १७ ॥

अनन्यपरायणं = अन्या = अपरा स्त्री परायणं आश्रयो यस्यासौ अन्यपरायणः = न अन्य-परायणः इत्यनन्यपरायणः तमनान्यपरायणम् = त्वदेकप्रणयप्रवणं दर्शनात्प्रभृति त्वयि अनुरक्तं मम = दुष्यन्तस्य हृदयं = चेतः यदि अन्यथा = अन्यपरायणत्वेन समर्थ्यते = युक्त्या साध्यसे र्तहि मदनस्य = त्वद्दर्शनेन ममोन्मादसम्पादकस्य कामस्य त्वां निमित्तीकृत्य प्रयुक्तैर्बाणैर्हतः = पूर्वमेवात्यन्तं पीडितोऽपि पुनः = भूयः तव ईदृशेन मयि अविश्वासेन हतः = मारितः अस्मि । तद्विरहस्य सर्वथा असह्यतया गत्यन्तराभावात् अतः परं मरणमेव शरणीकरिष्यामि । तस्मात् मम हृदयमेवं मा अन्यथा समर्थयस्व त्वदेकावलम्बे मयि प्रसीदेति भावः । अत्रोपमा-लाटानुप्रास परिकरा अलङ्कारा द्रुतविलम्बितं वृत्तञ्च ॥ १६ ॥

अनसूया—स्वकार्यसाधने चतुरा अनसूयो अवसरप्राप्तं वक्तव्यं प्रस्तौति—वयस्य ! = मित्र ! राजानः = नृपतयः बहुवल्लभा बह्वयो वल्लभा येषां ते बहुवल्लभाः = अनेक-परिग्रहाः श्रूयन्ते = आकर्ण्यन्ते । यथा येन प्रकारेण नौ = आवयोः प्रियसखी = प्रिया = वल्लभाया सखी = आली च प्रियसखी शकुन्तला बन्धुजनैः = बन्धुभिः जनैः शोचनीया = चिन्तनीया इति बन्धुजनशोचनीया = प्रियजनशोच्या न भवति = न स्यात् तथा = तेन प्रकारेण निवर्तय = निर्वाहय । भवतो राजत्वाद बहुवल्लभत्वात्वेन भाव्यमिति बहुवल्लभत्वादस्यां कदाचित्तवानादरो यथा न स्यात्तथास्यां प्रेम्णा वर्तेथा इत्यर्थः ।

राजा—योग्यमुत्तरं दित्सू राजा प्राह—भद्रे = कल्याणि ! किं बहुना = युष्माभिरेवं बहु न वक्तव्यमित्यर्थः । तत्र हेतुमाह—परीति

अन्वयः—परिग्रहबहुत्वेऽपि मे कुलस्य द्वे प्रतिष्ठे (स्तः, एका) समुद्रवसना उर्वी, (द्वितीया) युवयोः इयं सखी च ।

बहुवल्लभा राजानो भवन्ति यथावयोः प्रियसखी शकुन्तला बन्धुभिः शोचनीया न


अनसूया—सुना जाता है कि राजाओं की अनेक प्रियायें होती हैं । अतः हमारी प्रिय सखी शकुन्तला अपने बन्धुजनों से शोचनीय न हो अर्थात् हमलोग तथा महर्षि कण्व जी को दुःखित न होना पड़े । ऐसा ही आप सब प्रकार से इसका ध्यान रखें ।

राजा—हे सुभगे ! अधिक मैं क्या कहूँ—

यद्यपि मेरे रनिवास में स्त्रियों की कमी नहीं, मेरी प्रिय भार्यायँ भी बहुत हैं, किन्तु हमारे इस पौरव कुल की प्रतिष्ठा को तो मैं दो ही वस्तुओं से समझता हूँ—एक तो समुद्र पर्यन्त पृथ्वी और दूसरी यह प्रिय सखी शकुन्तला अर्थात् अनेक स्त्रियों के रहते हुए भी मैं आपकी प्रिय सखी शकुन्तला को ही अपनी पटरानी बनाऊँगा और इसी का पुत्र मेरे राज्य का उत्तराधिकारी होगा । आपलोग चिन्ता न करें ॥ १७ ॥

विशेष—यहाँ प्रतिष्ठा पद का अर्थ प्रतिष्ठा का कारण है । वंश को चलाने के निमित्त च।


१. पाठ०—समुद्ररशना ।

१५२अभिज्ञानशाकुन्तलम्

उभे—णिब्बुदम्ह [ निर्वृते स्वः ] ।

प्रियंवदा—( सदृष्टिक्षेपम् ) अणसूए जह एसो इदो दिण्णादट्ठी उस्सुओ मिअ- पोदओ मादरं अण्णेसदि । एहि संजोएम णं [ अनसूये, यथैष इतो दत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि संयोजयाव एनम् ] । ( इत्युभे प्रस्थिते )

शकुन्तला—हला असरण म्हि । अण्णदरा वा आअच्छदु [ हला अशरणास्मि । अन्तरा युवयोरगच्छतु । ]


स्यात्तथावर्तनये भवेतेत्यनसूयोपालम्भमाकर्ण्य वचनचतुरो राजा दुष्यन्तः तां समाश्वास- यन्नाह—कल्याणि ! परिग्रहाणां = पत्नीनां बहुत्वं = विपुलत्वमिति परिग्रहबहुत्वं तस्मिन् परिग्रहबहुत्वे मम ललनानेकत्वेऽपि मे = मम कुलस्य पौरववंशस्य द्वे = उभौ प्रतिष्ठे = प्रतिष्ठाहेतू सगौरवस्थितिकरणीभूते स्तः । ते के द्वे इत्याह—एकः समुद्रः = सागर एव वसनं = परिधानं यस्याः सा समुद्रवसना, समुद्रो रशना यस्याः स समुद्ररशना वा = समुद्रान्ता उर्वी-अन्वर्थनामवती पृथ्वी, द्वितीया च युवयोः = भवत्योः इयं = एषा पुरः- स्थिता मत्प्राणवल्लभा सखी = वयस्या शकुन्तला

अर्थ भावः—राज्ञां बहुवल्लभत्वे सत्यपि मम पौरवकुलस्य द्वे एव प्रतिष्ठास्पदे प्रथमा सागरा रशना पृथिवी, द्वितीया युवयोरियं आली मम प्रिया च शकुन्तला । इयमेव- प्रधानमहिषी भविष्यति, अस्याः तनय एव च मम सिंहासन। धिकारी भविष्यति । अत्र दीपक-रूपक-तुल्ययोगितातिशयोक्ति-श्लेषानुप्रासा अलङ्कारा अनुष्टुप्छन्दश्च ॥ १७ ॥

उभे—राज्ञो वचनमाकर्ण्य सानन्दे द्वे अपि प्रियम्वदा-अनसूया च युगपत् सख्यै, ब्रूतः- निर्वृते स्वः आवां सुखिते च जाते । मनोरथाभ्यधिकामीष्टलाभेन वाढं मोदामहे इत्यर्थः ।

प्रियम्वदा—इत्थं सिद्धमनोरथयोः सख्योर्मध्ये प्रियम्वदाश्चेष्टाम्राह—( सदृष्टिक्षेपं = दृष्टे = ईक्षणस्य क्षेपेण = नियोजनेन सह वर्तमानं सदृष्टिक्षेपम् ) अनसूये ! यथा = यतः एषः = अयं निकटवर्ती इतः = इमां दिशम् दत्तदृष्टिः नियोजितेक्षणः उत्सुकः = स्वमातृदर्शन- स्तन्यपानादौ उत्कण्ठितः, मृगपोतकः हरिणशिशुः, मातरं तृणादिलोभेन दूरं गताम् = स्वजननीम् अन्विष्यति = मृगयते । एहि = आगच्छ संयोजयावः = एनं मृगशावकं मात्रा सह संमेलयावः ( इति एवं कथने समाप्ते उभे, द्वे एव प्रस्थिते = प्रस्थानमभिनीतवत्यौ )

शकुन्तला—एवं सख्यौ प्रस्थानोद्यते दृष्ट्वा सोत्कण्ठापि भयलज्जाकातरा शकुन्तला


पुत्र पैदा करने की संभावना से शकुन्तला को प्रतिष्ठा का हेतु कहा गया है । इस प्रकार पौरव वंश की प्रतिष्ठा का कारण समुद्रवसना = चारों समुद्र से घिरी हुई और कण्वपुत्री शकुन्तला है । राजा पृथ्वीपति कहा जाता है । इसलिए उसकी प्रतिष्ठा का हेतु एक पत्नी तो स्वाभाविक पृथ्वी है ही दूसरी प्रतिष्ठा का हेतु शकुन्तला होगी, क्योंकि इसका पुत्र चक्रवर्ती = सार्वभौम राजा होगा । अतः इसे पटरानी होने के कारण सापत्न्य दोष का कष्ट नहीं होगा । यदि इसकी कोई सौत होगी तो पृथ्वी है, जो निर्जीव होने से इसको कोई कष्ट नहीं दे सकती है ।

सखियाँ—हम दोनों सुखी और निश्चिन्त हो गईं ।

प्रियम्बदा—( बाहर की ओर दृष्टि डालकर ) अनसूये ! चूँकि यह मृग छौना बेचारा हरिण का छोटा बच्चा इधर दृष्टि लगाये उत्कण्ठित होकर अपनी माँ को ढूँढ़ रहा है । अतः आवो इसे इसकी माँ से मिला दें । ( दोनों सखियाँ प्रस्थान करती हैं )

शकुन्तला—हे सखि ! मैं अकेले हूँ । तुम दोनों में से एक आओ ।

तृतीयोऽङ्कः १५३

उभे—पुहुवीए जो सरणं सो तुम्ह समीवे वहइ [ पृथिव्या यः शरणं स तव समीपे वर्तते ] ( इति निष्क्रान्ते )
शकुन्तला—कहं गदाओ एव्व [ कथं गते एव ]
राजा—अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।

किं शीतलैः¹ क्लमविनोदिभिरार्द्रवातान्
संचारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥ १८ ॥

सवैक्लव्यमाह हला = अयि सखि ! अशरणास्मि = असहायास्मि । अतः युवयोः = भवत्योः अन्यतरा = एकतरा मत्समीपे तिष्ठतु आगच्छतु = आव्रजतु । एषा मत्समीपे तिष्ठतु, अन्या स्वकार्यार्थं गच्छतु इति भावः ।
उभे— द्वे अपि सख्यौ प्रियम्वदा अनसूया च कथयतः पृथिव्याः = वसुन्धरायाः शरणम् = आश्रयः स तव = भवत्याः समीपे = निकटे वर्तते = तिष्ठति ( इति = एवमुक्त्वा निष्क्रान्ते = निर्गते ) ।
शकुन्तला—कथं मदवाक्यमनादृत्य एव = किं याते एवोभे सख्यौ ।
राजा— कन्याविश्रम्भणे चतुरो नायको राजा दुष्यन्तः मयलज्जादितरलां शकुन्तलां प्रियभाषणादिना अनुकूलयितुमारभते—आवेगेन = सखीजनासान्निध्यमूलके न संभ्रमेण अलं = व्यर्थम् । तत्र हेतुमाह—ननु मो अयं = मद्रूपो एष जनो दुष्यन्तः आराधयिता = भक्तः सेवकः तव = भवत्याः समीपे = निकटे = वर्तते = आराधनाऽवसरं प्रतिपालयन् तिष्ठति । एतस्यामवस्थायां तदाराधनेऽहमेवास्मि मुख्योऽधिकारी तत्र कीदृशी तव सेवां करोमीत्याह—किमिति ।
अन्वयः— हे करभोरु ! किं क्लमविनोदिभिः शीतलैः नलिनीदलतालवृन्तैः आर्द्र-वातान् संचारयामि उत पद्मताम्रौ ते चरणौ अङ्के निधाय यथासुखं संवाहयामि ।
मृगशावकमातृसंमेलनव्याजेन शकुन्तलादुष्यन्तयोः परस्परालापावसरप्रदानाय निर्गतयोः सख्योः साध्वससलज्जयाधोमुखीं शकुन्तलामवलोक्य राजा दुष्यन्तो मधुरालापैः तां प्रसादयितुमुपक्रमते—किमिति । करभौ इव ऊरू यस्या सा करभोरुः तत्सम्बुद्धौ हे


सखियाँ— पृथ्वी का जो आश्रय है, वह तो तुम्हारे पास ही है ( दोनों निकल जाती हैं ) ।
शकुन्तला— क्या दोनों ही चली गईं ?
राजा— घबड़ाओ मत । मैं तो तुम्हारी आराधना करने वाला सेवक तुम्हारे पास बैठा हूँ। कहो तुम्हारी क्या सेवा करूँ ?
हे सुन्दरि ! हे करभ के समान जाँघोंवाली ! क्या सन्ताप को दूर करनेवाले तथा शीतल जल के कणों से भींगे रहने से जिसकी हवा ठण्डी हो रही है ऐसे कमलिनी के पत्तों से निर्मित इस पंखे को हिलाकर तुम्हें हवा करूँ या कमल के समान लाल-लाल कोमल तुम्हारे दोनों पैरों को अपनी गोद में रखकर सुखद रूप से धीरे-धीरे दबाऊँ ॥ १८ ॥
विशेष— 'करस्य करभो बहिः' के अनुसार करभ शब्द का अर्थ कलाई से लेकर हाथ की कनिष्ठ अङ्गगुली तक बाहरी भाग है। इसकी मेरी पतली गोलाई और कोमलता जाँघे से मिलती-


१. पाठा०—शीकरैः ।

१५४अभिज्ञानशाकुन्तलम्

**शकुन्तला—**ण माणणीएसु अत्ताणं अवराहइस्सं [ न माननीयेष्वात्मानमपराध- यिष्ये ] । ( इत्युत्थाय गन्तुमिच्छति )
**राजा—**सुन्दरि अनिर्वाणो¹ दिवसः । इयं च ते शरीरावस्था ।

उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः² ॥ १९ ॥

करभोरु = 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरवचनानुसारं करभसदृशोरु । किं क्लमं = क्लान्तिं विशेषेण नुदन्ति अपनयन्ति तच्छीलानि तैः क्लमविनोदिभिः = सन्तापहारिभिः, शीतलैः = शिशिरैः शीकरैः = जलकणैर्वा नलिनं = पत्रं विद्यते यासां ता नलिन्यः नलिनीनां = कमलिनीनां दलानि = पत्राणि एव तालवृन्तानि = व्यजनानि तैः नलिनीदलतालवृन्तैः = पद्मिनीपत्रविरचितव्यजनैः, **आर्द्रवातान्-**आर्द्रो वातः येषां ते तान् आर्द्रवातान् = क्लिन्नपवनान्, शीतलतरवातान् सञ्चारयामि = सम्यक् = संकीर्णं चारयामि । उत = अथवा पद्मवत् = कमलवत् ताम्रौ = अरुणौ पद्मतानौ = कमलोदररक्तौ ते = तव चरणौ = पादौ अङ्के = क्रोडे, उत्सङ्गे निधाय = स्थापयित्वा यथासुखं = मन्दं मन्दं संवाहयामि = मर्दयामि-संमर्दनेन खेदमपनयामीत्यर्थः ।

**अयं भावः—**प्रिये ! अलं सखीजनासान्निध्येन अहमेव तत्स्थानीय-आज्ञाकारी सेवावसरं प्रतीक्षमाणः तव समीपे तिष्ठामि । कथय, कीदृशीं सेवां करोमि ? किम् क्लमनिवारकैः शीतलैः नलिनीदलवृन्तैः सर्वाङ्गे सम्यक् संचारयामि यद्वा कमलसदृश- स्ताम्रौ तव चरणौ क्रोडे कृत्वा सखीजनवत् यथासुखं शनैः-शनैः संवाहयामि । यथा त्वमनुमन्यसे तथैव कर्तुमुद्यतोऽस्मि । अत्र परिणाम-काव्यलिङ्ग-परिकर-वृत्यनुप्रासा अलङ्कारा वसन्ततिलका च छन्दः ॥ १८ ॥

**शकुन्तला—**राज्ञो वचनं निशम्य तदभिप्रायपरिज्ञानात् सलज्जा शकुन्तला तद्वचन-निषेधमुखेनाह-**माननीयेषु-**चक्रवर्तितया सर्वजनमाननीयेषु जनेषु = भवद्विधेषु आत्मानं = स्वं **न अपराध्यिष्ये-**पादसंवाहनादिकर्मानुज्ञानेन कृतपापाचरणं अपराधिनां नहि विधा-स्यामि । ( इति = एवम् उक्त्वा उत्थाय गन्तुं = यातुम् इच्छति वाञ्छति ) ।

**राजा—**अथ चतुरो नायकः तस्या गमनस्य, तदवस्थाप्रतिकूलत्वं प्रतिपादयन् तां निवत्र्तयितुमुपक्रमते—सुन्दरि ! = हे मञ्जुले ! न निर्वाणं = समाप्तिः यस्य स अनिर्वाणः अशान्ततापः, अपरिनतः दिवसः = दिनम् । इयं = एषा, एतादृशसन्तापयातिशयशालितया शोच्या च ते = तव शरीरावस्था = शरोरस्थितिः ?

**अन्वयः—**नलिनीदलकम्पितस्तनावरणं कुसुमशयनम् उत्सृज्य शरीरबाधापेलवैः अङ्गैः आतपे कथं गमिष्यसि ।

जुलती है । करभ का दूसरा अर्थ हाथी का बच्चा या सूँढ़ भी है, जो चढ़ाव उतार का है। इसलिए स्त्रियों के जाँघ के निमित्त इसकी तथा कदली स्तम्भ की उपमा दी जाती है ।

**शकुन्तला—**मैं माननीय जनों से अपनी सेवा कार्य करा कर अपने को अपराधी नहीं बनाऊँगा । ( ऐसा कहकर धीरे-धीरे उठकर जाना चाहती है )

**राजा—**हे सुन्दरी ! अभी तो दिन भी नहीं छिपा है । अतः धूप बड़ी कड़ी पड़ रही है और तुम्हारे शरीर की यह हीन दशा है । इस समय तो तुम्हारा बाहर जाना ठीक नहीं, क्योंकि—


१. पाठा०—अपरिनिर्वाणो ।
२. कोमलैरङ्गैः ।

तृतीयोऽङ्कः १५५

( इति बलादेनां निवर्तयति )
शकुन्तला—पोरव रक्ख अविणअं । मअनसंतत्ता वि ण हु अत्तणो पहवामि [ पौरव रक्षाविनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि ] ।
राजा—भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्न तत्र दोषं ग्रहीष्यति कुलपतिः । अपि च ।

देशकालानावस्थाभिः शकुन्तलागमनस्यानुचितत्वं प्रतिपादयन् राजा दुष्यन्तः कथयति—उत्सृज्यते । नलिनीदलाभ्यां = कमलिनीपत्राभ्यां कल्पितं = रचितं स्तनयोः = कुचयोः आवरणं = आच्छादनं वल्कलं स्थानीयम् यस्मिन् तत् नलिनीदलकल्पितस्तनावरणम् कमलिनीपत्रावृतस्तनाभागम् कुसुमशयनं सन्तापहरेषु सखीभ्यां विरचितां पुष्पशय्याम् उत्सृज्य = परित्यज्य परिबाधया सर्वाङ्गीणसन्तापेन पेलवैः = दुर्बलैः परिबाधापेलवैः विरहबाधाकर्शितैः, कृशतरैः अङ्गैः अवयवैः उपलक्षिता आतपे = घर्मे कथं = केन प्रकारेण गमिष्यामि गन्तुं प्रमविष्यसि । स्वस्थोऽपि जनः वस्त्रावरणादीनि विहाय आतपे गन्तुं न प्रभवति, त्वं तु स्वभावतः सुकुमाराङ्गी, तत्रापि पीडायुक्ता ईदृगवस्था त्वं कुसुमशयनं पुष्पशय्यां हित्वा सुतरां गन्तुमशक्ता । एवंचेद्गवस्थायास्तव गमनोपक्रमः अविमृश्य कारितातिरिक्तं न किमप्यस्ति । तस्माद्विरम्यतामस्मात् व्यापारादिति भावः ।

अयमभिप्रायः—प्रिये ! त्वमसि निसर्गादेव आतपा सहिष्णुः स्थितिश्च त्वदीया न गमनोचिता सन्तापहारिणी सखीभ्यां विरचितां पुष्पशय्यां परिहाय दुर्बलैरङ्गात्त्वं कथमातपे गमिष्यसि ? अतो गमनव्यापाराद् विरंम । इत्युक्त्वा तां वलान्निवर्त्तयितुमपक्रमऽ। अत्र काव्यलिङ्ग-परिकरानुप्रास-संसृष्टि-संकरालङ्काराः आर्या छन्दश्च ॥ १९ ॥
( इति = एवमुक्त्वा बलात् = शक्त्या एनां = इमां शकुन्तलां निवर्तयति-प्रत्यावतंयति, गन्तुं न ददाति । अनिच्छतीमपि तां बलादवरुणद्धि अनेन राज्ञो वचनमुल्लङ्घ्य लज्जया गन्तुमुद्यता, राज्ञा च बलात् परावर्त्तति सूच्यते । )

शकुन्तला—लज्जाकुला शकुन्तला राज्ञो बलात्कारपरिग्रहं निषेधति—पौरव !=पुरुवंशोद्भव महापुरुष ! आत्मनः = स्वस्य अविनयम् = रक्ष, दूरीकुरु उद्दण्डतां जहीहि । मदनेन संतप्ता मदनसन्तप्ता=कामपीडिता अपि आत्मनः स्वस्य न खलु निश्चयेन प्रभवामि=प्रभुरस्मि । गुरुजनाधीनाहं न वपुस्ते दातुं प्रभवामि । स्वेच्छायां सत्यामपि गुरुजनपराधीनत्वादसमर्थाऽस्मीत्याशयः । पितृपारतन्त्र्यं हि कन्यकानां धर्मः । तथा चोक्तं महाभारते—

'यस्य मां दास्यति पिता स मे भर्ता भवेदिति ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये न स्त्रीः स्वातन्त्र्यमर्हति ॥'

राजा—भूयोऽपि राजा तामनुकूलयन्नाह—भीरु ! = हे मयशीले ! अलं = कृतम्,


इस पुष्प शय्या को छोड़कर सन्ताप से पीडित अपने कोमल कलेवर को लेकर कमलिनी पत्तों से स्तनों को ढके हुए भला बताओ तो इस धूप में बाहर कैसे जाओगी ।। १९ ।।

( राजा शकुन्तला को जबरदस्ती पकड़ कर रोकता है )
शकुन्तला—पुरुवंश में उत्पन्न राजन् ! अपने अविनय = अशिष्टता को रोको। कामदेव से अत्यन्त सन्तप्त होकर भी मैं निश्चय ही अपने अधीन नहीं हूँ । पराधीन हूँ । अतः मुझे छोड़ दो ।
राजा—अरी, डरपोक ! गुरुजन = बड़ों का कुछ भी डर मत करो, क्योंकि तुम्हारे धर्म पिता

१५६अभिज्ञानशाकुन्तलम्

गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ २० ॥

गुरुजनस्य = पितुः कण्वस्य भयेन = भीत्या गुरुजनभयेन = आवयोः संगमस्याधर्मबुद्ध्या गुरोः प्रतिकूलबुद्ध्या वा तस्माद्भयं मा कृथाः, विदितधर्मा = विदितो धर्मो यस्य येन वा स विदितधर्मरहस्यः तत्रभवान् = पूज्यः कुलपतिः = सर्वाश्रमगुरुः महर्षिकण्वः दृष्ट्वा = दिव्यचक्षुषा आवयोः परिणयं विज्ञाय ते = तव तत्र = विवाहे दोषं = त्रुटिं न ग्रहीष्यति = न ज्ञास्यति, अपि च यथा उक्तम् शिष्टाचाररेणापि अधर्म्यत्वशङ्कां परिहरन्नाह—गान्धर्वेणेति ।

अन्वयः— बह्व्यो राजर्षिकन्यका गान्धर्वेण विवाहेन परिणीताः ताः पितृभिश्च अभिनन्दिताः श्रूयन्ते ।

शिष्टाचारप्रदर्शनपूर्वकमभिधत्ते—गान्धर्वेणेति । बह्व्यः = बहुसंख्याकाः अनेका। राजर्षीणां = क्षत्रियश्रेष्ठानां कन्यकाः = कुमार्यः 'मुनिकुमारिका ऋषिकुमार्यः' इत्यपि क्वचन पाठः । गान्धर्वेण = परस्परानुमोदनकृतेन विवाहेन = परिणयेन परिणीताः = विवाहिताः कृतोद्वाहाः सन्ति ताः गान्धर्वविधिना कृतोद्वाहाः कन्यकाः पितृभिः = गुरुजनैः अभिनन्दिताः = अनुमोदिताश्च श्रूयन्ते पुराणेतिहासादी कथारूपेण आकर्ण्यन्ते । क्षत्रियस्य च गान्धर्वो विवाहः श्रेष्ठ उच्यते । इत्युक्तत्वात् पितृकृतमनुमोदनं संगच्छते । तथा च त्वयापीत्थं क्रियमाणे तव पिता महर्षिकण्वोऽपि त्वामभिनन्दिष्यत्येव । अतो भयं विहाय मया सह यथेच्छं विहर, सफलय च स्मरपीडितं मामात्मानं चेति भावः ।

अयं भावः— प्रिये ! अलमाशङ्कया वयं क्षत्रियाः स्मः अस्माकं गान्धर्वविवाहः स्मृतिषु श्रेष्ठः स आम्नातः पूर्वमनेका मुनिकुमारिका राजन्यकन्यकाश्च स्वेच्छया स्वानुरूपैर्वरैः सह गान्धर्वेण विवाहविधिना विवाहिताः अनन्तरं ज्ञातवृत्तान्तैस्तद्गुरुः मातृ-पितृ-भ्रातृभिः तस्य धर्म्यत्वादनुभदेनं कृतमिति पुराणे इतिहासे च तत्कथानकमुपनिबद्धमस्ति । तथैवावयोरपि समर्थनं भविष्यति । अत्राप्रस्तुतप्रशंसालङ्कारोऽनुष्टुप् छन्दश्च ॥२०॥


महर्षि कण्व तो गान्धर्व विधि से विवाह के रहस्य को जानने वाले धर्मवेत्ता हैं । अतः वे हमारे तुम्हारे इस स्वेच्छाकृत गान्धर्व विवाह को न तो बुरा समझेंगे न अप्रसन्न ही होंगे क्योंकि इससे पूर्व भी

बहुत सी मुनियों या राजाओं की कन्यायें गान्धर्व विवाह विधि से विवाहित हो चुकी हैं, और उनके बान्धवों ने उन विवाह सम्बन्ध का अनुमोदन भी किया है ॥ २० ॥

विशेष— स्मृतियों में विवाह आठ प्रकार के माने गये हैं—ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर, गान्धर्व राक्षस और पैशाच विवाह—

“ब्राह्मो दैवस्तथैवार्षो प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥” मनुस्मृति ३।२१

जिनमें एक गान्धर्व विवाह भी है । परस्पर प्रेमवश मन्त्रोच्चारण के बिना भी सकाम पुरुष और सकाम कन्या का जो एकान्त में स्वेच्छा से पारस्परिक मिलन होता है उसे गान्धर्व विवाह कहते हैं ।

'सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः । करस्पर्शंस्तु गान्धर्वो विवाहः शुभलक्षणः ॥'

मनुजी ने भी कन्या तथा वर के आपसी अनुराग से परस्पर सहयोग को गान्धर्व विवाह कहा है—दोनों के परस्पर अभिलाषा से उत्पन्न होने के कारण यह कामज कहा गया है—

इच्छायाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयः मैथुन्यः कामसम्भवः ॥३।३२

तृतीयोऽङ्कः १५७

शकुन्तला—मुच दाव मं। भूओ वि सहीजणं अणुमाणइस्सं [ मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ] ।
राजा—भवतु मोक्ष्यामि ।
शकुन्तला—कदा [ कदा ]

राजा—अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २१ ॥


शकुन्तला—इत्थं राज्ञा दुष्यन्तेन तत् समागमस्य निर्दोषत्वे साधितेऽपि लज्जापर-वशा शकुन्तला पुनरपि गन्तुमुपक्रममाणा प्राह– मुञ्च = त्यज तावत् = इदानीं मां=इमं जनम्, सखीजनमपि अनुमानयिष्ये = अनुमतिं कारयिष्ये । तातकण्वस्तु साम्प्रतं दूरदेशं गतवानस्तीति सन्निहिते सख्यौ अवश्यमेव प्रक्ष्यामि । अतः तत्समीपे गत्वा तदनुमतिं लप्स्ये इति भावः ।

राजा—तां प्रीणयितुकामो राजा अनुमन्यते—भवतु = अस्तु मोक्ष्यामि = त्यक्ष्यामि ।
शकुन्तला—शकुन्तला भविष्यदर्थं पृच्छति—कदा = कस्मिन् समये मोक्ष्यसि ।
राजा—मोक्षकालावधिमाह—अपरिक्षतेति ।

अन्वयः—हे सुन्दरि ! यावत् षट्पदेन कुसुमस्य इव पिपासता मया अपरिक्षत-कोमलस्य नवस्य अस्य ते अधरस्य रसः सदयं गृह्यते ।

कदा मोक्ष्यसीति शकुन्तलया पृष्टो राजा दुष्यन्तः समाधत्ते—अपरिक्षतेति । हे सुन्दरि = हे मनोहारिणि ! यावद् = यावत्कालपर्यन्तं षट्पदेन = भ्रमरेण कुसुमस्य=सुमनस्य इव = यथा मधुकरेण पुष्पस्य रसो गृह्यते तथा पिपासता = पातुमिच्छता अधरपानाथं-माकुलेन मया = अनेन जनेन न विद्यते परिक्षतं यस्य स अपरिक्षतः स चासौ कोमलश्चेति अपरिक्षतकोमलः तस्य अपरिक्षतकोमलस्य = अनवाप्तदन्तक्षतस्य, भ्रमराद्यनुपहतस्य अत एव कोमलस्य = कुमारस्य स्पर्शवतः अस्य = पुरोदृश्यमानस्य सुधासहोदरस्य ते = तव अधरस्य = अधरोष्ठस्य रसः = माधुर्यरसः, स्वादः, मकरन्दो वा दयया करुणया सह वर्तमानं यथा स्यात्तथा सदयं = सकृपं, कृपामृदु यथा स्यात्तथा गृह्यते = आस्वाद्यते ।

भ्रमरेण पुष्परसमिव यावदहं तवाधररसपानं न करिष्ये, तावन्न मोक्ष्यामि तदनन्तरं तृष्णं रसे गृहीते सति त्वां मोक्ष्यामीति फलितम् ।


इतिहास एवं पुराणों में क्षत्रियों के लिए गान्धर्व विवाह कथा के रूप में श्रेष्ठ कहा गया है और क्षत्रियों के धर्म्य विवाह में इनका निर्देश है—

'क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते । गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥' ३।२६

शकुन्तला राजर्षि विश्वामित्र की पुत्री है। अतः उसके लिए गान्धर्व विवाह विशेष रूप से विहित ही है—

शकुन्तला—जरा मुझे छोड़िए, पुनः सखियों से अनुमति ले लूँ।
राजा—ठीक है, छोड़ दूँगा।
शकुन्तला—कब ! छोड़िएगा ?
राजा—जिस प्रकार भ्रमर फूल का रस ग्रहण करता है, उसी प्रकार हे सुन्दरि ! जबतक मैं तुम्हारे अक्षत कोमल अधर का रस-पान सँभाल कर न कर लूँगा अर्थात् तुम्हारे अधर का जब तक धीरे-धीरे रसास्वाद न कर लूँगा तब तक नहीं छोड़ूँगा ॥ २१ ॥

१५८ अभिज्ञानशाकुन्तलम्

( इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन )

( नेपथ्ये ) चक्कबाकबधुए आमंतेहि सहअरं । उट्ठिआ रअणी [ चक्रवाकबधूः आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ] ।

शकुन्तला—( ससंभ्रमम् ) पोरव असंसअं मम शरीरवुत्तंतोवलंभस्स अज्जा गोदमो इदो एव्व आअच्छदि । जाव विडवंतरिदो होहि । [ पौरव ! असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । यावद्विटपान्तरितो भव ] ।


अयं भावः—सुमुखि ! सद्यः प्रफुल्लितस्य समीपमुपगतो भ्रमरो यथा तत्कुसुममनास्वाद्य तत्पुष्पं न जहाति तथैव त्वदधरपानं कर्तुकामोऽहमपि अनवासदन्तक्षतस्य ते सुकोमलस्य तवाधरस्य रसपानं यावत् सदयं न करोमि तावत्त्वां न त्यक्ष्यामि । मया च सानन्दं सस्पृहं च गृहीते रसे त्वं यथासुखं यास्यसि तदा न मेऽवरोध्ने भविष्यति । अत्रोपमा—काव्यलिङ्ग—परिकराश्चालङ्कारा मालभारिणी वृत्तञ्च ॥ २१ ॥

( इति = एवमुक्त्वा मुखम् = आननम् अस्याः = शकुन्तलाया समुन्नमयितुं = उत्थाययितुम् इच्छति = वाञ्छति प्रयतते शकुन्तला च नाट्येन = अभिनयेन परिहरति = निवारयति । चुम्बनादीनामभिनयस्य भारतीये नाटके निषिद्धत्वं सर्वप्रसिद्धम् )

अथ गौतमी प्रवेशं वर्णयितुमारभते—नेपथ्य इति । ( नेपथ्ये ) हे चक्रवाकवधूः = चक्राङ्गपत्नि ! चक्रवाकि ! सहचरं = सपतिम् आमन्त्रयस्व = आपृच्छस्व, रजनी = रात्रिः उपस्थिता = सन्निहिता, आयाति, वियोगसमयस्ते समुपस्थितः । रात्रि हि चक्रवाकमिथुनस्य वियोगकारिणी राजन्यपगते चक्रवाकयोरिव गौतमीगमने पुनरपि युवयोः समागमो भविष्यति । अतोऽत्यन्तं विषादो मा विधेयः इति द्योत्यते । सम्भोगलतामण्डपदिशा गौतम्याः प्रवेशमालोक्य शकुन्तलाबोधनाय प्रकृतमर्थं संगोप्य सख्योः प्रियम्वदाऽनसूययोर्वचनमिदम् । अमुनाऽप्राकृतेन च हे शकुन्तले ! स्वप्रियं दुष्यन्तम् आपृच्छस्व = गोपाय उपस्थिता तत्र भवती गौतमी ।

शकुन्तला—( ससंभ्रमं = संभ्रमेण = आवेगेन सह वर्तते इति ससंभ्रमम् ) पौरवः = पुरुवंशज ! असंशयम् = असन्दिग्धम् मम = शकुन्तलायाः शरीरवृत्तान्तोपालम्भाय शरीरस्य =


( यह कहकर शकुन्तला के मुख-कमल को उठाना चाहता है और शकुन्तला नखरे का अभिनय कर रोकती है । )

( नेपथ्य = सज्जागृह या आकाश में ) हे चकवी ! साथी को विदा करो, रात आ गई ।

विशेष—यह लोक प्रसिद्ध है कि चकवा-चकवी दोनों दिन-भर तो साथ ही रहते हैं, किन्तु रात होते ही वे दोनों अलग-अलग हो जाते हैं । इस प्रकार रात-भर उनका विरह रहता है, पुनः सुबह होने पर वे दोनों मिल जाते हैं । प्रसंग से यह बात स्पष्ट है कि गौतमी को आती हुई देखकर प्रियम्वदा और अनसूया ने शकुन्तला को सावधान करने के निमित्त चक्रवाक-वधू का ब्याज किया है । यहाँ चक्रवाक वधू, शकुन्तला है, उसका सहचर चक्रवाक राजा दुष्यन्त है और विरहप्रद रात्रि वियोग करने वाली गौतमी है । इससे यह भी मालूम पड़ता है कि दोनों सखियाँ मृगशावक को उसकी माँ से मिलाने के लिए बाहर निकल कर शकुन्तला-दुष्यन्त के मिलन का अवसर देने निमित्त लताकुञ्ज से बाहर आकर उनकी प्रतीक्षा कर रही थीं ।

शकुन्तला—( घबड़ा कर ) हे पौरव सन्देह नहीं कि मेरे शरीर का समाचार

तृतीयोऽङ्कः १५९

राजा—तथा ( इत्यात्मानमावृत्य तिष्ठति )
( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ—इदो इदो अज्जा गोदमी [ इत इत आर्या गौतमी ]।
गौतमी—( शकुन्तलामुपेत्य ) जादे अवि लहुसंदावाइ दे अंगाई [ एहि उटजमेव लघुसंतापानि तेऽङ्गानि ? ]।
शकुन्तला— अत्थि मे विसेसो [ अस्ति मे विशेषः ]।
गौतमी—इमिणा दब्भोदएण णिराबाधं एव्व दे शरीरं भविस्सदि ( शिरसि शकुन्तलामभ्युक्ष्य ) वच्छे परिणदो दिअहो। एहि उडजं एव्व गच्छम्ह। [ अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति। वत्से परिणतो दिवसः। एहि उटजमेव गच्छामः ] ( इति प्रस्थितः )।


देहस्य यद्वृत्तान्तं = उदन्तं तस्य उपालम्भाय = ज्ञानाय शरीरावस्थापरिज्ञानाय आर्या = महोदया गौतमी = कनीयसी तातधर्मभगिनी इतः = इह एव आगच्छति = आयाति यावत् विटपान्तरितः = भवृशाखाप्रच्छन्नः शाखानलीनदेहः तिष्ठेत्यर्थः।
राजा—तथा = एवं करोमि (इति उक्त्वा आत्मानं = स्वं, आवृत्य = आच्छाद्य तिष्ठति ।)
( ततः = तदनन्तरं प्रविशति = दृश्यते रङ्गमूमौ पात्रहस्तो पात्रं = भाजनं हस्ते = करे यस्याः सा पात्रहस्ता शान्त्युदककुम्भकरा गौतमी = कण्वस्य कनीयसी धर्मभगिनी सख्यौ = प्रियम्वदानसूये च )
सख्यौ—आल्यौ कथयतः इतः = अनेन मार्गेण, आर्या = इतः अनेन मार्गेण मान्या गौतमी = गौतमगोत्रोत्पन्ना।
गौतमी—( शकुन्तलामुपेत्य = समीपे गत्वा ) जाते पुत्र ! अपि लघुः = अल्पः, सन्तापः = पीडा येषां तानि लघुसन्तापानि ते = तव अङ्गानि = अवयवाः ? तवाङ्गानां सन्तापस्य लाघवमस्ति किम्।
शकुन्तला—अस्ति = विद्यते मे = मम विशेषः = परिवर्तनम्।
गौतमी—अनेन = एतेन दर्भोंदकेन = कूर्चादिनिबद्धदर्भसहितेनोदकेन निराबाधं = अपगतनिशेषपीडं ते = तव शरीरं = देहं भविष्यति। ( शिरसि = शकुन्तलाम् अभ्युक्ष्य


लेने के लिय आदरणीया गौतमी इधर आ रही है। जरा आप वृक्षों की इन शाखाओं के पीछे छिप जाइए।

विशेष—भारतीय परम्परा के अनुसार नाटकों में रंगमंच पर अश्लील चुम्बन आदि दिखाने का निषेध है। वह केवल सूच्य है दर्शनीय नहीं। इसलिए कविवर कालिदास ने शकुन्तला के चुम्बन के लिए उद्यत राजा दुष्यन्त को आर्या गौतमी की उपस्थिति से विरत कर दिया।

राजा—अच्छा ( एकान्त में जाकर छिप जाता है )।
( इसके बाद हाथ में पात्र लिये गौतमी और दोनों सखियाँ प्रवेश करती हैं )
सखियाँ—इधर से, आर्या गौतमी।
गौतमी—( शकुन्तला के पास जाकर ) बेटी, तेरे अङ्गों में पीड़ा कम तो हुई है न ?
शकुन्तला—मुझे कुछ फर्क अवश्य मालूम पड़ती है।
गौतमी—इस कुश द्वारा छिड़के जल से तुम्हारी देह पीड़ा से रहित हो जायेगी ( शकुन्तला के शिर पर जल छिड़क कर ) बेटी, दिन ढल गया, आओ, अब पर्णशाला में चलें ( सब रवाना हो जाती हैं )।