अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
तृतीयोऽङ्कः १५३
उभे—पुहुवीए जो सरणं सो तुम्ह समीवे वहइ [ पृथिव्या यः शरणं स तव समीपे वर्तते ] ( इति निष्क्रान्ते )
शकुन्तला—कहं गदाओ एव्व [ कथं गते एव ]
राजा—अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।
किं शीतलैः¹ क्लमविनोदिभिरार्द्रवातान्
संचारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥ १८ ॥
सवैक्लव्यमाह हला = अयि सखि ! अशरणास्मि = असहायास्मि । अतः युवयोः = भवत्योः अन्यतरा = एकतरा मत्समीपे तिष्ठतु आगच्छतु = आव्रजतु । एषा मत्समीपे तिष्ठतु, अन्या स्वकार्यार्थं गच्छतु इति भावः ।
उभे— द्वे अपि सख्यौ प्रियम्वदा अनसूया च कथयतः पृथिव्याः = वसुन्धरायाः शरणम् = आश्रयः स तव = भवत्याः समीपे = निकटे वर्तते = तिष्ठति ( इति = एवमुक्त्वा निष्क्रान्ते = निर्गते ) ।
शकुन्तला—कथं मदवाक्यमनादृत्य एव = किं याते एवोभे सख्यौ ।
राजा— कन्याविश्रम्भणे चतुरो नायको राजा दुष्यन्तः मयलज्जादितरलां शकुन्तलां प्रियभाषणादिना अनुकूलयितुमारभते—आवेगेन = सखीजनासान्निध्यमूलके न संभ्रमेण अलं = व्यर्थम् । तत्र हेतुमाह—ननु मो अयं = मद्रूपो एष जनो दुष्यन्तः आराधयिता = भक्तः सेवकः तव = भवत्याः समीपे = निकटे = वर्तते = आराधनाऽवसरं प्रतिपालयन् तिष्ठति । एतस्यामवस्थायां तदाराधनेऽहमेवास्मि मुख्योऽधिकारी तत्र कीदृशी तव सेवां करोमीत्याह—किमिति ।
अन्वयः— हे करभोरु ! किं क्लमविनोदिभिः शीतलैः नलिनीदलतालवृन्तैः आर्द्र-वातान् संचारयामि उत पद्मताम्रौ ते चरणौ अङ्के निधाय यथासुखं संवाहयामि ।
मृगशावकमातृसंमेलनव्याजेन शकुन्तलादुष्यन्तयोः परस्परालापावसरप्रदानाय निर्गतयोः सख्योः साध्वससलज्जयाधोमुखीं शकुन्तलामवलोक्य राजा दुष्यन्तो मधुरालापैः तां प्रसादयितुमुपक्रमते—किमिति । करभौ इव ऊरू यस्या सा करभोरुः तत्सम्बुद्धौ हे
सखियाँ— पृथ्वी का जो आश्रय है, वह तो तुम्हारे पास ही है ( दोनों निकल जाती हैं ) ।
शकुन्तला— क्या दोनों ही चली गईं ?
राजा— घबड़ाओ मत । मैं तो तुम्हारी आराधना करने वाला सेवक तुम्हारे पास बैठा हूँ। कहो तुम्हारी क्या सेवा करूँ ?
हे सुन्दरि ! हे करभ के समान जाँघोंवाली ! क्या सन्ताप को दूर करनेवाले तथा शीतल जल के कणों से भींगे रहने से जिसकी हवा ठण्डी हो रही है ऐसे कमलिनी के पत्तों से निर्मित इस पंखे को हिलाकर तुम्हें हवा करूँ या कमल के समान लाल-लाल कोमल तुम्हारे दोनों पैरों को अपनी गोद में रखकर सुखद रूप से धीरे-धीरे दबाऊँ ॥ १८ ॥
विशेष— 'करस्य करभो बहिः' के अनुसार करभ शब्द का अर्थ कलाई से लेकर हाथ की कनिष्ठ अङ्गगुली तक बाहरी भाग है। इसकी मेरी पतली गोलाई और कोमलता जाँघे से मिलती-
१. पाठा०—शीकरैः ।
| १५४ | अभिज्ञानशाकुन्तलम् |
|---|
**शकुन्तला—**ण माणणीएसु अत्ताणं अवराहइस्सं [ न माननीयेष्वात्मानमपराध-
यिष्ये ] । ( इत्युत्थाय गन्तुमिच्छति )
**राजा—**सुन्दरि अनिर्वाणो¹ दिवसः । इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः² ॥ १९ ॥
करभोरु = 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरवचनानुसारं करभसदृशोरु । किं क्लमं = क्लान्तिं विशेषेण नुदन्ति अपनयन्ति तच्छीलानि तैः क्लमविनोदिभिः = सन्तापहारिभिः, शीतलैः = शिशिरैः शीकरैः = जलकणैर्वा नलिनं = पत्रं विद्यते यासां ता नलिन्यः नलिनीनां = कमलिनीनां दलानि = पत्राणि एव तालवृन्तानि = व्यजनानि तैः नलिनीदलतालवृन्तैः = पद्मिनीपत्रविरचितव्यजनैः, **आर्द्रवातान्-**आर्द्रो वातः येषां ते तान् आर्द्रवातान् = क्लिन्नपवनान्, शीतलतरवातान् सञ्चारयामि = सम्यक् = संकीर्णं चारयामि । उत = अथवा पद्मवत् = कमलवत् ताम्रौ = अरुणौ पद्मतानौ = कमलोदररक्तौ ते = तव चरणौ = पादौ अङ्के = क्रोडे, उत्सङ्गे निधाय = स्थापयित्वा यथासुखं = मन्दं मन्दं संवाहयामि = मर्दयामि-संमर्दनेन खेदमपनयामीत्यर्थः ।
**अयं भावः—**प्रिये ! अलं सखीजनासान्निध्येन अहमेव तत्स्थानीय-आज्ञाकारी सेवावसरं प्रतीक्षमाणः तव समीपे तिष्ठामि । कथय, कीदृशीं सेवां करोमि ? किम् क्लमनिवारकैः शीतलैः नलिनीदलवृन्तैः सर्वाङ्गे सम्यक् संचारयामि यद्वा कमलसदृश- स्ताम्रौ तव चरणौ क्रोडे कृत्वा सखीजनवत् यथासुखं शनैः-शनैः संवाहयामि । यथा त्वमनुमन्यसे तथैव कर्तुमुद्यतोऽस्मि । अत्र परिणाम-काव्यलिङ्ग-परिकर-वृत्यनुप्रासा अलङ्कारा वसन्ततिलका च छन्दः ॥ १८ ॥
**शकुन्तला—**राज्ञो वचनं निशम्य तदभिप्रायपरिज्ञानात् सलज्जा शकुन्तला तद्वचन-निषेधमुखेनाह-**माननीयेषु-**चक्रवर्तितया सर्वजनमाननीयेषु जनेषु = भवद्विधेषु आत्मानं = स्वं **न अपराध्यिष्ये-**पादसंवाहनादिकर्मानुज्ञानेन कृतपापाचरणं अपराधिनां नहि विधा-स्यामि । ( इति = एवम् उक्त्वा उत्थाय गन्तुं = यातुम् इच्छति वाञ्छति ) ।
**राजा—**अथ चतुरो नायकः तस्या गमनस्य, तदवस्थाप्रतिकूलत्वं प्रतिपादयन् तां निवत्र्तयितुमुपक्रमते—सुन्दरि ! = हे मञ्जुले ! न निर्वाणं = समाप्तिः यस्य स अनिर्वाणः अशान्ततापः, अपरिनतः दिवसः = दिनम् । इयं = एषा, एतादृशसन्तापयातिशयशालितया शोच्या च ते = तव शरीरावस्था = शरोरस्थितिः ?
**अन्वयः—**नलिनीदलकम्पितस्तनावरणं कुसुमशयनम् उत्सृज्य शरीरबाधापेलवैः अङ्गैः आतपे कथं गमिष्यसि ।
जुलती है । करभ का दूसरा अर्थ हाथी का बच्चा या सूँढ़ भी है, जो चढ़ाव उतार का है। इसलिए स्त्रियों के जाँघ के निमित्त इसकी तथा कदली स्तम्भ की उपमा दी जाती है ।
**शकुन्तला—**मैं माननीय जनों से अपनी सेवा कार्य करा कर अपने को अपराधी नहीं बनाऊँगा । ( ऐसा कहकर धीरे-धीरे उठकर जाना चाहती है )
**राजा—**हे सुन्दरी ! अभी तो दिन भी नहीं छिपा है । अतः धूप बड़ी कड़ी पड़ रही है और तुम्हारे शरीर की यह हीन दशा है । इस समय तो तुम्हारा बाहर जाना ठीक नहीं, क्योंकि—
१. पाठा०—अपरिनिर्वाणो ।
२. कोमलैरङ्गैः ।
तृतीयोऽङ्कः १५५
( इति बलादेनां निवर्तयति )
शकुन्तला—पोरव रक्ख अविणअं । मअनसंतत्ता वि ण हु अत्तणो पहवामि [ पौरव रक्षाविनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि ] ।
राजा—भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्न तत्र दोषं ग्रहीष्यति कुलपतिः । अपि च ।
देशकालानावस्थाभिः शकुन्तलागमनस्यानुचितत्वं प्रतिपादयन् राजा दुष्यन्तः कथयति—उत्सृज्यते । नलिनीदलाभ्यां = कमलिनीपत्राभ्यां कल्पितं = रचितं स्तनयोः = कुचयोः आवरणं = आच्छादनं वल्कलं स्थानीयम् यस्मिन् तत् नलिनीदलकल्पितस्तनावरणम् कमलिनीपत्रावृतस्तनाभागम् कुसुमशयनं सन्तापहरेषु सखीभ्यां विरचितां पुष्पशय्याम् उत्सृज्य = परित्यज्य परिबाधया सर्वाङ्गीणसन्तापेन पेलवैः = दुर्बलैः परिबाधापेलवैः विरहबाधाकर्शितैः, कृशतरैः अङ्गैः अवयवैः उपलक्षिता आतपे = घर्मे कथं = केन प्रकारेण गमिष्यामि गन्तुं प्रमविष्यसि । स्वस्थोऽपि जनः वस्त्रावरणादीनि विहाय आतपे गन्तुं न प्रभवति, त्वं तु स्वभावतः सुकुमाराङ्गी, तत्रापि पीडायुक्ता ईदृगवस्था त्वं कुसुमशयनं पुष्पशय्यां हित्वा सुतरां गन्तुमशक्ता । एवंचेद्गवस्थायास्तव गमनोपक्रमः अविमृश्य कारितातिरिक्तं न किमप्यस्ति । तस्माद्विरम्यतामस्मात् व्यापारादिति भावः ।
अयमभिप्रायः—प्रिये ! त्वमसि निसर्गादेव आतपा सहिष्णुः स्थितिश्च त्वदीया न गमनोचिता सन्तापहारिणी सखीभ्यां विरचितां पुष्पशय्यां परिहाय दुर्बलैरङ्गात्त्वं कथमातपे गमिष्यसि ? अतो गमनव्यापाराद् विरंम । इत्युक्त्वा तां वलान्निवर्त्तयितुमपक्रमऽ। अत्र काव्यलिङ्ग-परिकरानुप्रास-संसृष्टि-संकरालङ्काराः आर्या छन्दश्च ॥ १९ ॥
( इति = एवमुक्त्वा बलात् = शक्त्या एनां = इमां शकुन्तलां निवर्तयति-प्रत्यावतंयति, गन्तुं न ददाति । अनिच्छतीमपि तां बलादवरुणद्धि अनेन राज्ञो वचनमुल्लङ्घ्य लज्जया गन्तुमुद्यता, राज्ञा च बलात् परावर्त्तति सूच्यते । )
शकुन्तला—लज्जाकुला शकुन्तला राज्ञो बलात्कारपरिग्रहं निषेधति—पौरव !=पुरुवंशोद्भव महापुरुष ! आत्मनः = स्वस्य अविनयम् = रक्ष, दूरीकुरु उद्दण्डतां जहीहि । मदनेन संतप्ता मदनसन्तप्ता=कामपीडिता अपि आत्मनः स्वस्य न खलु निश्चयेन प्रभवामि=प्रभुरस्मि । गुरुजनाधीनाहं न वपुस्ते दातुं प्रभवामि । स्वेच्छायां सत्यामपि गुरुजनपराधीनत्वादसमर्थाऽस्मीत्याशयः । पितृपारतन्त्र्यं हि कन्यकानां धर्मः । तथा चोक्तं महाभारते—
'यस्य मां दास्यति पिता स मे भर्ता भवेदिति ।
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये न स्त्रीः स्वातन्त्र्यमर्हति ॥'
राजा—भूयोऽपि राजा तामनुकूलयन्नाह—भीरु ! = हे मयशीले ! अलं = कृतम्,
इस पुष्प शय्या को छोड़कर सन्ताप से पीडित अपने कोमल कलेवर को लेकर कमलिनी पत्तों से स्तनों को ढके हुए भला बताओ तो इस धूप में बाहर कैसे जाओगी ।। १९ ।।
( राजा शकुन्तला को जबरदस्ती पकड़ कर रोकता है )
शकुन्तला—पुरुवंश में उत्पन्न राजन् ! अपने अविनय = अशिष्टता को रोको। कामदेव से अत्यन्त सन्तप्त होकर भी मैं निश्चय ही अपने अधीन नहीं हूँ । पराधीन हूँ । अतः मुझे छोड़ दो ।
राजा—अरी, डरपोक ! गुरुजन = बड़ों का कुछ भी डर मत करो, क्योंकि तुम्हारे धर्म पिता
| १५६ | अभिज्ञानशाकुन्तलम् |
|---|
गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ २० ॥
गुरुजनस्य = पितुः कण्वस्य भयेन = भीत्या गुरुजनभयेन = आवयोः संगमस्याधर्मबुद्ध्या गुरोः प्रतिकूलबुद्ध्या वा तस्माद्भयं मा कृथाः, विदितधर्मा = विदितो धर्मो यस्य येन वा स विदितधर्मरहस्यः तत्रभवान् = पूज्यः कुलपतिः = सर्वाश्रमगुरुः महर्षिकण्वः दृष्ट्वा = दिव्यचक्षुषा आवयोः परिणयं विज्ञाय ते = तव तत्र = विवाहे दोषं = त्रुटिं न ग्रहीष्यति = न ज्ञास्यति, अपि च यथा उक्तम् शिष्टाचाररेणापि अधर्म्यत्वशङ्कां परिहरन्नाह—गान्धर्वेणेति ।
अन्वयः— बह्व्यो राजर्षिकन्यका गान्धर्वेण विवाहेन परिणीताः ताः पितृभिश्च अभिनन्दिताः श्रूयन्ते ।
शिष्टाचारप्रदर्शनपूर्वकमभिधत्ते—गान्धर्वेणेति । बह्व्यः = बहुसंख्याकाः अनेका। राजर्षीणां = क्षत्रियश्रेष्ठानां कन्यकाः = कुमार्यः 'मुनिकुमारिका ऋषिकुमार्यः' इत्यपि क्वचन पाठः । गान्धर्वेण = परस्परानुमोदनकृतेन विवाहेन = परिणयेन परिणीताः = विवाहिताः कृतोद्वाहाः सन्ति ताः गान्धर्वविधिना कृतोद्वाहाः कन्यकाः पितृभिः = गुरुजनैः अभिनन्दिताः = अनुमोदिताश्च श्रूयन्ते पुराणेतिहासादी कथारूपेण आकर्ण्यन्ते । क्षत्रियस्य च गान्धर्वो विवाहः श्रेष्ठ उच्यते । इत्युक्तत्वात् पितृकृतमनुमोदनं संगच्छते । तथा च त्वयापीत्थं क्रियमाणे तव पिता महर्षिकण्वोऽपि त्वामभिनन्दिष्यत्येव । अतो भयं विहाय मया सह यथेच्छं विहर, सफलय च स्मरपीडितं मामात्मानं चेति भावः ।
अयं भावः— प्रिये ! अलमाशङ्कया वयं क्षत्रियाः स्मः अस्माकं गान्धर्वविवाहः स्मृतिषु श्रेष्ठः स आम्नातः पूर्वमनेका मुनिकुमारिका राजन्यकन्यकाश्च स्वेच्छया स्वानुरूपैर्वरैः सह गान्धर्वेण विवाहविधिना विवाहिताः अनन्तरं ज्ञातवृत्तान्तैस्तद्गुरुः मातृ-पितृ-भ्रातृभिः तस्य धर्म्यत्वादनुभदेनं कृतमिति पुराणे इतिहासे च तत्कथानकमुपनिबद्धमस्ति । तथैवावयोरपि समर्थनं भविष्यति । अत्राप्रस्तुतप्रशंसालङ्कारोऽनुष्टुप् छन्दश्च ॥२०॥
महर्षि कण्व तो गान्धर्व विधि से विवाह के रहस्य को जानने वाले धर्मवेत्ता हैं । अतः वे हमारे तुम्हारे इस स्वेच्छाकृत गान्धर्व विवाह को न तो बुरा समझेंगे न अप्रसन्न ही होंगे क्योंकि इससे पूर्व भी
बहुत सी मुनियों या राजाओं की कन्यायें गान्धर्व विवाह विधि से विवाहित हो चुकी हैं, और उनके बान्धवों ने उन विवाह सम्बन्ध का अनुमोदन भी किया है ॥ २० ॥
विशेष— स्मृतियों में विवाह आठ प्रकार के माने गये हैं—ब्राह्म, दैव, आर्ष, प्राजापत्य, आसुर, गान्धर्व राक्षस और पैशाच विवाह—
“ब्राह्मो दैवस्तथैवार्षो प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥” मनुस्मृति ३।२१
जिनमें एक गान्धर्व विवाह भी है । परस्पर प्रेमवश मन्त्रोच्चारण के बिना भी सकाम पुरुष और सकाम कन्या का जो एकान्त में स्वेच्छा से पारस्परिक मिलन होता है उसे गान्धर्व विवाह कहते हैं ।
'सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः । करस्पर्शंस्तु गान्धर्वो विवाहः शुभलक्षणः ॥'
मनुजी ने भी कन्या तथा वर के आपसी अनुराग से परस्पर सहयोग को गान्धर्व विवाह कहा है—दोनों के परस्पर अभिलाषा से उत्पन्न होने के कारण यह कामज कहा गया है—
इच्छायाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयः मैथुन्यः कामसम्भवः ॥३।३२
तृतीयोऽङ्कः १५७
शकुन्तला—मुच दाव मं। भूओ वि सहीजणं अणुमाणइस्सं [ मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ] ।
राजा—भवतु मोक्ष्यामि ।
शकुन्तला—कदा [ कदा ]
राजा—अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २१ ॥
शकुन्तला—इत्थं राज्ञा दुष्यन्तेन तत् समागमस्य निर्दोषत्वे साधितेऽपि लज्जापर-वशा शकुन्तला पुनरपि गन्तुमुपक्रममाणा प्राह– मुञ्च = त्यज तावत् = इदानीं मां=इमं जनम्, सखीजनमपि अनुमानयिष्ये = अनुमतिं कारयिष्ये । तातकण्वस्तु साम्प्रतं दूरदेशं गतवानस्तीति सन्निहिते सख्यौ अवश्यमेव प्रक्ष्यामि । अतः तत्समीपे गत्वा तदनुमतिं लप्स्ये इति भावः ।
राजा—तां प्रीणयितुकामो राजा अनुमन्यते—भवतु = अस्तु मोक्ष्यामि = त्यक्ष्यामि ।
शकुन्तला—शकुन्तला भविष्यदर्थं पृच्छति—कदा = कस्मिन् समये मोक्ष्यसि ।
राजा—मोक्षकालावधिमाह—अपरिक्षतेति ।
अन्वयः—हे सुन्दरि ! यावत् षट्पदेन कुसुमस्य इव पिपासता मया अपरिक्षत-कोमलस्य नवस्य अस्य ते अधरस्य रसः सदयं गृह्यते ।
कदा मोक्ष्यसीति शकुन्तलया पृष्टो राजा दुष्यन्तः समाधत्ते—अपरिक्षतेति । हे सुन्दरि = हे मनोहारिणि ! यावद् = यावत्कालपर्यन्तं षट्पदेन = भ्रमरेण कुसुमस्य=सुमनस्य इव = यथा मधुकरेण पुष्पस्य रसो गृह्यते तथा पिपासता = पातुमिच्छता अधरपानाथं-माकुलेन मया = अनेन जनेन न विद्यते परिक्षतं यस्य स अपरिक्षतः स चासौ कोमलश्चेति अपरिक्षतकोमलः तस्य अपरिक्षतकोमलस्य = अनवाप्तदन्तक्षतस्य, भ्रमराद्यनुपहतस्य अत एव कोमलस्य = कुमारस्य स्पर्शवतः अस्य = पुरोदृश्यमानस्य सुधासहोदरस्य ते = तव अधरस्य = अधरोष्ठस्य रसः = माधुर्यरसः, स्वादः, मकरन्दो वा दयया करुणया सह वर्तमानं यथा स्यात्तथा सदयं = सकृपं, कृपामृदु यथा स्यात्तथा गृह्यते = आस्वाद्यते ।
भ्रमरेण पुष्परसमिव यावदहं तवाधररसपानं न करिष्ये, तावन्न मोक्ष्यामि तदनन्तरं तृष्णं रसे गृहीते सति त्वां मोक्ष्यामीति फलितम् ।
इतिहास एवं पुराणों में क्षत्रियों के लिए गान्धर्व विवाह कथा के रूप में श्रेष्ठ कहा गया है और क्षत्रियों के धर्म्य विवाह में इनका निर्देश है—
'क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते । गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥' ३।२६
शकुन्तला राजर्षि विश्वामित्र की पुत्री है। अतः उसके लिए गान्धर्व विवाह विशेष रूप से विहित ही है—
शकुन्तला—जरा मुझे छोड़िए, पुनः सखियों से अनुमति ले लूँ।
राजा—ठीक है, छोड़ दूँगा।
शकुन्तला—कब ! छोड़िएगा ?
राजा—जिस प्रकार भ्रमर फूल का रस ग्रहण करता है, उसी प्रकार हे सुन्दरि ! जबतक मैं तुम्हारे अक्षत कोमल अधर का रस-पान सँभाल कर न कर लूँगा अर्थात् तुम्हारे अधर का जब तक धीरे-धीरे रसास्वाद न कर लूँगा तब तक नहीं छोड़ूँगा ॥ २१ ॥
१५८ अभिज्ञानशाकुन्तलम्
( इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन )
( नेपथ्ये ) चक्कबाकबधुए आमंतेहि सहअरं । उट्ठिआ रअणी [ चक्रवाकबधूः आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ] ।
शकुन्तला—( ससंभ्रमम् ) पोरव असंसअं मम शरीरवुत्तंतोवलंभस्स अज्जा गोदमो इदो एव्व आअच्छदि । जाव विडवंतरिदो होहि । [ पौरव ! असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । यावद्विटपान्तरितो भव ] ।
अयं भावः—सुमुखि ! सद्यः प्रफुल्लितस्य समीपमुपगतो भ्रमरो यथा तत्कुसुममनास्वाद्य तत्पुष्पं न जहाति तथैव त्वदधरपानं कर्तुकामोऽहमपि अनवासदन्तक्षतस्य ते सुकोमलस्य तवाधरस्य रसपानं यावत् सदयं न करोमि तावत्त्वां न त्यक्ष्यामि । मया च सानन्दं सस्पृहं च गृहीते रसे त्वं यथासुखं यास्यसि तदा न मेऽवरोध्ने भविष्यति । अत्रोपमा—काव्यलिङ्ग—परिकराश्चालङ्कारा मालभारिणी वृत्तञ्च ॥ २१ ॥
( इति = एवमुक्त्वा मुखम् = आननम् अस्याः = शकुन्तलाया समुन्नमयितुं = उत्थाययितुम् इच्छति = वाञ्छति प्रयतते शकुन्तला च नाट्येन = अभिनयेन परिहरति = निवारयति । चुम्बनादीनामभिनयस्य भारतीये नाटके निषिद्धत्वं सर्वप्रसिद्धम् )
अथ गौतमी प्रवेशं वर्णयितुमारभते—नेपथ्य इति । ( नेपथ्ये ) हे चक्रवाकवधूः = चक्राङ्गपत्नि ! चक्रवाकि ! सहचरं = सपतिम् आमन्त्रयस्व = आपृच्छस्व, रजनी = रात्रिः उपस्थिता = सन्निहिता, आयाति, वियोगसमयस्ते समुपस्थितः । रात्रि हि चक्रवाकमिथुनस्य वियोगकारिणी राजन्यपगते चक्रवाकयोरिव गौतमीगमने पुनरपि युवयोः समागमो भविष्यति । अतोऽत्यन्तं विषादो मा विधेयः इति द्योत्यते । सम्भोगलतामण्डपदिशा गौतम्याः प्रवेशमालोक्य शकुन्तलाबोधनाय प्रकृतमर्थं संगोप्य सख्योः प्रियम्वदाऽनसूययोर्वचनमिदम् । अमुनाऽप्राकृतेन च हे शकुन्तले ! स्वप्रियं दुष्यन्तम् आपृच्छस्व = गोपाय उपस्थिता तत्र भवती गौतमी ।
शकुन्तला—( ससंभ्रमं = संभ्रमेण = आवेगेन सह वर्तते इति ससंभ्रमम् ) पौरवः = पुरुवंशज ! असंशयम् = असन्दिग्धम् मम = शकुन्तलायाः शरीरवृत्तान्तोपालम्भाय शरीरस्य =
( यह कहकर शकुन्तला के मुख-कमल को उठाना चाहता है और शकुन्तला नखरे का अभिनय कर रोकती है । )
( नेपथ्य = सज्जागृह या आकाश में ) हे चकवी ! साथी को विदा करो, रात आ गई ।
विशेष—यह लोक प्रसिद्ध है कि चकवा-चकवी दोनों दिन-भर तो साथ ही रहते हैं, किन्तु रात होते ही वे दोनों अलग-अलग हो जाते हैं । इस प्रकार रात-भर उनका विरह रहता है, पुनः सुबह होने पर वे दोनों मिल जाते हैं । प्रसंग से यह बात स्पष्ट है कि गौतमी को आती हुई देखकर प्रियम्वदा और अनसूया ने शकुन्तला को सावधान करने के निमित्त चक्रवाक-वधू का ब्याज किया है । यहाँ चक्रवाक वधू, शकुन्तला है, उसका सहचर चक्रवाक राजा दुष्यन्त है और विरहप्रद रात्रि वियोग करने वाली गौतमी है । इससे यह भी मालूम पड़ता है कि दोनों सखियाँ मृगशावक को उसकी माँ से मिलाने के लिए बाहर निकल कर शकुन्तला-दुष्यन्त के मिलन का अवसर देने निमित्त लताकुञ्ज से बाहर आकर उनकी प्रतीक्षा कर रही थीं ।
शकुन्तला—( घबड़ा कर ) हे पौरव सन्देह नहीं कि मेरे शरीर का समाचार
तृतीयोऽङ्कः १५९
राजा—तथा ( इत्यात्मानमावृत्य तिष्ठति )
( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ—इदो इदो अज्जा गोदमी [ इत इत आर्या गौतमी ]।
गौतमी—( शकुन्तलामुपेत्य ) जादे अवि लहुसंदावाइ दे अंगाई [ एहि उटजमेव लघुसंतापानि तेऽङ्गानि ? ]।
शकुन्तला— अत्थि मे विसेसो [ अस्ति मे विशेषः ]।
गौतमी—इमिणा दब्भोदएण णिराबाधं एव्व दे शरीरं भविस्सदि ( शिरसि शकुन्तलामभ्युक्ष्य ) वच्छे परिणदो दिअहो। एहि उडजं एव्व गच्छम्ह। [ अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति। वत्से परिणतो दिवसः। एहि उटजमेव गच्छामः ] ( इति प्रस्थितः )।
देहस्य यद्वृत्तान्तं = उदन्तं तस्य उपालम्भाय = ज्ञानाय शरीरावस्थापरिज्ञानाय आर्या = महोदया गौतमी = कनीयसी तातधर्मभगिनी इतः = इह एव आगच्छति = आयाति यावत् विटपान्तरितः = भवृशाखाप्रच्छन्नः शाखानलीनदेहः तिष्ठेत्यर्थः।
राजा—तथा = एवं करोमि (इति उक्त्वा आत्मानं = स्वं, आवृत्य = आच्छाद्य तिष्ठति ।)
( ततः = तदनन्तरं प्रविशति = दृश्यते रङ्गमूमौ पात्रहस्तो पात्रं = भाजनं हस्ते = करे यस्याः सा पात्रहस्ता शान्त्युदककुम्भकरा गौतमी = कण्वस्य कनीयसी धर्मभगिनी सख्यौ = प्रियम्वदानसूये च )
सख्यौ—आल्यौ कथयतः इतः = अनेन मार्गेण, आर्या = इतः अनेन मार्गेण मान्या गौतमी = गौतमगोत्रोत्पन्ना।
गौतमी—( शकुन्तलामुपेत्य = समीपे गत्वा ) जाते पुत्र ! अपि लघुः = अल्पः, सन्तापः = पीडा येषां तानि लघुसन्तापानि ते = तव अङ्गानि = अवयवाः ? तवाङ्गानां सन्तापस्य लाघवमस्ति किम्।
शकुन्तला—अस्ति = विद्यते मे = मम विशेषः = परिवर्तनम्।
गौतमी—अनेन = एतेन दर्भोंदकेन = कूर्चादिनिबद्धदर्भसहितेनोदकेन निराबाधं = अपगतनिशेषपीडं ते = तव शरीरं = देहं भविष्यति। ( शिरसि = शकुन्तलाम् अभ्युक्ष्य
लेने के लिय आदरणीया गौतमी इधर आ रही है। जरा आप वृक्षों की इन शाखाओं के पीछे छिप जाइए।
विशेष—भारतीय परम्परा के अनुसार नाटकों में रंगमंच पर अश्लील चुम्बन आदि दिखाने का निषेध है। वह केवल सूच्य है दर्शनीय नहीं। इसलिए कविवर कालिदास ने शकुन्तला के चुम्बन के लिए उद्यत राजा दुष्यन्त को आर्या गौतमी की उपस्थिति से विरत कर दिया।
राजा—अच्छा ( एकान्त में जाकर छिप जाता है )।
( इसके बाद हाथ में पात्र लिये गौतमी और दोनों सखियाँ प्रवेश करती हैं )
सखियाँ—इधर से, आर्या गौतमी।
गौतमी—( शकुन्तला के पास जाकर ) बेटी, तेरे अङ्गों में पीड़ा कम तो हुई है न ?
शकुन्तला—मुझे कुछ फर्क अवश्य मालूम पड़ती है।
गौतमी—इस कुश द्वारा छिड़के जल से तुम्हारी देह पीड़ा से रहित हो जायेगी ( शकुन्तला के शिर पर जल छिड़क कर ) बेटी, दिन ढल गया, आओ, अब पर्णशाला में चलें ( सब रवाना हो जाती हैं )।
| १६० | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला— ( आत्मगतम् ) हिअअ पढमं एव्व सुहोवणदे मणोरहे कादरभावं ण मुंचसि। साणुसअविहडिअस्स कहं दे संपदं संदावो। ( पदान्तरे स्थित्वा प्रकाशम् ) लदावलअ संदावहारअ आमंतेमि तुमं भूओ वि परिभोअस्स [ हृदय ! प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि। सानुशयविघटितस्य कथं ते सांप्रतं संतापः ? लतावलय ! संतापहारक ! आमन्त्रये त्वां भूयोऽपि परिभोगाय ]। ( इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः )।
राजा— ( पूर्वस्थानमुपेत्य सनिःश्वासम् ) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः। मया हि—
शकुन्तलामस्तके कूर्चेन जलविन्दून् अभिषिञ्च्य संगमथ्य ) वत्से ! = पुत्रि ! परिणतः = अस्तं गतः दिवसः = दिनम्, एहि = मया सह आगच्छ उटजं = पर्णशालामेव गच्छामः = यामः इति = एतत्कथनानन्तरम् प्रस्थिताः ताः प्रचलिताः।
शकुन्तला—( आत्मगतं = स्वगतम् ) अथ गौतम्या सखीभ्यां च सह प्रस्थिता शकुन्तला प्रियविरहातुरा तदाख्ये परिचुम्बनादौ आत्मनः प्रतिकूलाचरणं स्मरन्ती सोत्कण्ठा पश्चात्तापपरवशा च सती स्वगतं स्वहृदयमुपालभते — हृदय इति। हृदये ! प्रथममेव गौतम्यागमनात् पूर्वमेव सुखेन उपनते सुखोपनते = अनायासप्राप्ते मनोरथे = अभिलाषे मनोरथविषये प्रियतमं तत्कर्तृ चुम्बनादौ साध्वसं न मुञ्चसि = न त्यजसि। सानुशयविघटितस्य-सानुशयस्य = पश्चात्तापसहितस्य अत एव विघटितस्य = वियोजितस्य कथं = किमर्थं व्यर्थं साम्प्रतं = इदानीम् ते = तव सन्तापः = पीडा ( पदान्तरे स्थित्वा प्रकाशम् ) अथ विरहविधुरा शकुन्तला पुनरपि प्रियतममावर्जयन्ती प्रच्छन्नं तं प्रियतमं सन्तापहारकुलतापदेशेन ब्रवीति-सन्तापहारक ! लतावलय ! इति। लतावलय !—लतानां = वल्लरीणां वलयः = मण्डलः तत्सम्बुद्धौ हे लतावलय ! लतागृहसन्निहितप्रियतम ! संतापहारक। = संतापमयं हरतीति संतापहारकः तत्सम्बुद्धौ हे संतापहारक ! = कामसन्तापहारिन् ! त्वां = भवन्तं भूयः = पुनरपि परिभोगाय सुखाय आमन्त्रये = संभोगार्थं प्रार्थये त्वया मम कामजसन्तापहरणार्थं पुनरप्यत्रागन्तव्यमिति भावः। इति = एवमुक्त्वा दुःखेन = क्लेशेन इतराभिः = अन्याभिः गौतमीप्रियंवदानसूयाभिः साकं निष्क्रान्ता = निर्गता।
**राजा—**अथ नायकस्य राज्ञो दुष्यन्तस्य पूर्वप्रसक्तं विप्रलम्भमवतारयति—पूर्वस्थानमिति— ( पूर्वस्थानं = पूर्वं = प्रथमं मिलनकालिकं च तत् स्थानं = भूमिम् प्रियया शकुन्तलया परिभुक्तं लतामण्डपं उपेत्य उपगम्य विश्वासेन सह सनिःश्वासं दीर्घं निश्वस्य ) अहो, हन्त ! विघ्नवत्यः = विघ्नबहुलाः गौतमीप्राप्त्या प्रियाविप्रलम्भात् सान्तरायाः
शकुन्तला—( मन ही मन ) हृदय, मनोरथ, दुष्यन्त के आसानी से मिल जाने पर पहली बार भी डर नहीं छोड़ा, अब पश्चाताप सहित अलग हुए तुम्हारा संताप कैसा ( अगले कदम पर ठहर कर, प्रगट में ) सन्ताप दूर करने वाले लता मण्डप ! पुनः सुख भोग के लिए तुम से विदा लेती हूँ। ( शकुन्तला दुःखपूर्वक उन स्त्रियों के साथ बाहर चली जाती है )
**विशेष—**यह बात लतापरक और दुष्यन्तपरक है।
राजा—( पूर्व स्थान पर पहुँच लम्बी साँस लेकर ) हाय, मनोरथ की सिद्धियाँ भी विघ्न से भरी हुई होती हैं क्योंकि देखो --
तृतीयोऽङ्कः १६१
मुहरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविकलवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ २२ ॥
क्व नु खलु संप्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ( सर्वतोऽवलोक्य )
प्रार्थितानां = मनोरथविषयीभूतानामर्थानां सिद्धयः = लाभा इति प्रार्थितार्थसिद्धयः अभिलषितार्थसम्पत्तयः, मया = अनेन हि = यतः । उक्तमर्थं स्ववृत्तान्तेन समर्थयति-मुहुरिति ।
अन्वयः—पक्ष्मलाक्ष्या अङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविकलवाभिरामं मुहरंशविवर्ति मुखं मया हि कथमपि उन्नमितं न तु चुम्बितम् ।
गौतम्यागमनेन विघ्नितमनोरथायाः शकुन्तलायाः ताभिः सह प्रस्थाने कृते भूयोऽपि तमेव शकुन्तलापरिभुक्तमुक्तं लतामण्डपमुपेत्य दीर्घं निःश्वस्य राजा दुष्यन्तः ब्रवीति—मुहुरिति । पक्ष्मले = प्रशस्तर रोमवती अक्षिणी = नयने यस्याः सा तस्याः पक्ष्मलाक्ष्याः = चारुनेत्रलोमललितलोचनायाः अङ्गुल्या = तर्जनीरूपया संवृतः = आच्छादितः अधरोष्ठः = अधरो यत्र तत् अङ्गुलिसंवृताधरोष्ठम् = तर्जनीसमाच्छादिताधरोष्ठम् प्रतिषेधाक्षराणि = निषेधबोधकानि = मा मा अलमित्यादीनि तेषां प्रतिषेधाक्षराणां विक्लवेन = वैक्लव्येन स्फुटमनुच्चारणेन अभिरामं = सुन्दरमिति प्रतिषेधाक्षरविकलवाभिरामम् = नहि नहि-मा-मा अलमित्याद्याक्षरस्फुटोच्चारणमनोरमम् मुहुः = वारं वारम् अंसविवर्ति = अंसयोः = स्कन्धयोः विवर्तितुं = निर्वातितुं शीलं यस्य तत् अंसविवर्ति स्कन्धापरावर्तनशीलम्, मुखम् = आननम् । मया = दुष्यन्तेन कथमपि = अतिकृच्छ्रेण, बलात्कारद्यात्मकेन प्रयत्नातिरेकेण उन्नमितं = चुम्बनार्थमूर्ध्वीकृतम्, तु = किन्तु यथेच्छं न चुम्बितं = गौतमोसमा-गमादेव अधरस्वादो न लब्धः ।
अर्थ भावः—कथञ्चित् सौभाग्योग्दयेन स्वभावमोरुः एषा प्रिया शकुन्तला रहसि समधिगता बहुभिः प्रयत्नैपि लज्जापसारणं विधाय तदधररसं परिपातुकामस्य ममाभिप्रायं विज्ञाय तर्जन्या स्वाधरोष्ठमाच्छाद्य मा-मा-नहि-नहि-अलमलमिति प्रतिषेधयन्त्याः तस्या विवर्तनशीलं मुखमुत्थाप्य चुम्बितुमारब्धं, परं गौतम्या आगमनेन तस्य रसास्वादावसरो न लब्धः । अत्र स्वभावोक्ति-काव्यलिङ्ग-श्रुतिवृत्यनुप्रासा अलङ्कारा मालमरिणी वृत्तं च ।२२।
इत्थं विरहोत्कण्ठितो राजा स्वमनोविनोदोपायं विमृशन्नाह—क्व = कुत्र नु खलु सम्प्रति = प्रियाविरहितः सन् अधुना गच्छामि = यामि, भूयः स्वकर्तव्यं निश्चिन्वानो राजा प्राह—अथवा = यद्वा इहैव = अत्रैव आदौ प्रियया परिभुक्तः = सेवितश्च पश्चात् = तदनन्तरं प्रियापरिभुक्तमुक्ते = प्रियया शकुन्तलया परिभुक्ते मुक्ते च लतावलये—वल्लरीमण्डपे मुहूर्तं क्षणं स्थास्यामि = उपवेक्ष्यामि ( सर्वतः = सर्वत्र, अवलोक्य = दृष्ट्वा )।
सुन्दर नेत्र वाली अपनी प्यारी की अंगुलियों से ढके नहीं, नहीं, बस, बस रहने दो, जाने दो इत्यादि मधुर अक्षरों से और घबराहट से युक्त पीछे की ओर घुमाए मुख को किसी तरह उठाकर भी मैं वारम्बार चुम्बन नहीं कर सका ॥ २२ ॥
अब मैं क्या करूँ ? या अपनी प्रिया के संभोग संपर्क से मनोहर सुखद लता-गृह में ही थोड़ी देर बैठूँ ( चारों ओर देखकर ) ।
११ शाकु०
१६२ | अभिज्ञानशाकुन्तलम्
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद् भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २३ ॥
( आकाशे ) राजन् !
अन्वयः—शिलायां पुष्पमयी शरीरलुलिता इयं तस्याः शय्या ( अस्ति ) नलिनीपत्रे नखैः अर्पितः क्लान्तः एषः ( तस्याः ) मदनलेखः । हस्ताद् भ्रष्टम् इदं ( तस्या एव ) विसाभरणं इति आसज्जमानेक्षणः ( अहम् ) शून्यादपि वेतसगृहात् सहसा निर्गन्तुं न शक्नोमि ।
प्रियापरिभुक्तमुक्ते लतामण्डपे परितो दत्तदृष्टिः राजा दुष्यन्तः स्वमनसि विमृशति— तस्या इति । शिलायां = शिलाफलके पुष्पमयी = सुमनप्रचुरा, कुसुमनिर्मिता, ननु पल्लवमयी तस्याः ततोऽपि मृदुलत्वात् शरीरलुलिता = देहपरिवर्तनेन मृदिता इयं = एषा पुरोदृश्यमाना तस्याः = शकुन्तलायाः शय्या = तल्पम् अस्ति । नलिनीपत्रे = पद्मिनीदले नखैः = नखरैः अर्पितः = लिखितः, तदनुरागसूचकः अङ्कितः, क्लान्तः = मलिनः एषः = अयम् तस्या एव मन्मथलेखः = स्वप्रणयसूचकः कामलेखः हस्तात् = कामाग्निसन्तापशोषेण क्षामात् = करात् भ्रष्टं = गलितं, च्युतम्, इदम् = एतत् तस्या एव विसाभरणं मृणालवलयं कमलऩालभूषणम् दृश्यते इति, एवं कृत्वा आसज्जमानेक्षणः = आसज्यमाने सम्बध्यमाने ईक्षणे = नेत्रे यस्य स आवध्यमानेक्षणः = संसक्तलोचनयुगलः अहम् शून्यात् प्रियाविरहितात् वेतसगृहात् = वेतसलतामण्डपात् सहसा = सद्यः निर्गन्तुं = बहिः प्रयातुं न शक्नोमि = न पारयामि-प्रियापरिधानि आभरणादीनि निरीक्षमाणोऽहं नास्माद्वानीरकुञ्जाद्बहिर्गन्तुं समर्थोऽस्मीति भावः ।
**अयं भावः—**शिलाफलके मदनानलसन्तप्तशरीरस्य परिवर्त्तनेन मृदितेयं पुष्पमयी शय्या दृश्यते, तया शकुन्तलया मामुद्दिश्य स्वप्रेमप्रकाशनाय पद्मिनीदले नखैः शोभनाक्षरैः अङ्कितः करस्पर्शात् म्लानो मदनलेखश्च मन्नयने समाकर्षति, अपि च कामकृतया बाधया दुर्बलाङ्ग्याः तस्या हस्ताच्च्युतं मृणालवलयं च विद्यते । एतेन सर्वेणाकृष्यमाणहृदयोऽहं साम्प्रतं प्रियाविरहितात् तस्मात् लतामण्डपात् बहिर्निर्यातुं न शक्नोमि । अत्र विभावना-सन्देहसङ्कर-काव्यलिङ्गालङ्कारा शार्दूलविक्रीडितं च छन्दः ॥ २३ ॥
नाटकनायकस्य राज्ञो दुष्यन्तस्य गमनावसरसम्पादनार्थं रसान्तरप्रवेशमवतारयितुमुपक्रमते कविः—आकाशे = व्योम्नि क्वचन नेपथ्ये इति पाठे तु यवनिकायामिति बोध्यम् । हे राजन् ! इति पात्रप्रवेशार्थं सम्बोधनं मुनिशिष्योक्तिर्बोद्धव्या ।
इधर तो इस शिला-फलक पर यह मेरी प्रिया के शरीर से दबी हुई परिम्लान पुष्पों की शय्या दीख रही है और इधर कमलिनी के पत्ते पर लिखा काम बाधा सूचक उसका प्रेमपत्र पड़ा है, उधर उसके हाथ से खिसक कर गिरा हुआ यह मृणालवलय = कमलकङ्कण पड़ा है। इस प्रकार यहाँ चारों तरफ मेरी दृष्टि आकृष्ट होकर अटक रही है। इसलिए प्रियारहित इस वेतसलतागृह से भी सहसा अन्यत्र जाने में सर्वथा असमर्थ हो रहा हूँ ॥ २३ ॥
**विशेष—**यहाँ कवि ने कामियों के मानसिक भाव को व्यक्त किया है ।
तृतीयोऽङ्कः । १६३
सायंतने सवनकर्मणि संप्रवृत्ते वेदीं हुताशनवतीं परितः प्रयस्ताः।
छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥२४॥
राजा— ( आकर्ण्य सावष्टम्भम् ) भो भोस्तपस्विनः ! मा भैष्ट मा भैष्ट, अयमयमागच्छामि । ( इति निष्क्रान्तः )
इति तृतीयोऽङ्कः ।
**अन्वयः—**सायंतने सवनकर्मणि संप्रवृत्ते ( सति ) हुताशनवतीं वेदीं परितः प्रयस्ताः भयमादधानाः सन्ध्यापयोदकपिशाः पिशिताशनानां छाया बहुधा चरन्ति ।
मुनीनां यज्ञशालासु सायङ्कालीनोमवावसरे हव्यद्रव्यगन्धमाघ्राय समागतानां राक्षसानां बद्धपङ्क्तीश्छाया अवलोक्य मुनयः ससम्भ्रमराजानं निवेदयन्ति—सायन्तने इति । सायंभवे सायन्तने = सायं निवर्तनीये सन्ध्याकालीने सवनकर्मणि = यज्ञकार्ये संप्रवृत्ते = अस्माकं रक्षको राजा दुष्यन्तः सन्निहितोऽस्तीति बुद्ध्या निर्भयं सम्यगारब्धे हुतं = हव्यम् अशनं = भोजनं यस्यासौ हुताशनोऽग्निः सोऽस्तीति हुताशनवती तां हुताशनवतीम् = वैश्वानरवतीम् वेदीं = यज्ञवेदीम् परितः = सर्वतः, वेद्याः समन्तात् प्रयस्ताः इतस्तत विक्षिप्ताः भयं = साध्वसं आदधानाः = आमीक्ष्ण्येनोत्पादयन्त्यः पिशितं = रुधिरं अशनं भोजनं येषां ते तेषां पिशिताशनानां = मांसाशिनां राक्षसां सन्ध्यायाः = सायं-कालस्य पयोदाः = वारिदाः तद्वत् कपिशाः = आरक्ताः धूम्रवर्णा इति सन्ध्यापयोदकपिशाः सायङ्कालिकमेघपुञ्जवद्दधूम्रवर्णा छायाः = पङ्क्तयः बहुधा = बहुप्रकारः नैकविधाः वारं बारं चरन्ति = भ्रमन्ति, गतागतं कुर्वन्ति ।
**अयं भावः—**राजन् ! अस्माकं संरक्षको भवान् सन्निहित एवास्तीति मत्वा अस्माभिः सान्ध्यकालीनो होमः समारब्धः तत्र हुताज्यचारुगन्धमाघ्राय उपस्थिता भयङ्कराकारा रक्तश्मश्रुकेशा अस्मान् भीषयन्तो बद्धश्रेणयो राक्षसाः यज्ञवेदीः समन्तात् गतागतं कुर्वन्ति । अतः शीघ्रतरं भवता तत्प्रतिकारः करणीयः, नो चेद्विलम्बे यज्ञहान्या राजधर्म-विलोपो भवेत् । अत्रोपमा-काव्यलिङ्ग-छेकानुप्रासवृत्यनुप्रासालङ्काराः वसन्ततिलका-छन्दश्च ॥ २४ ॥
**राजा—**राजा दुष्यन्तो नेपथ्ये यज्ञकर्मणि राक्षसानां भयावहं वृत्तमाकर्ण्य सावष्टम्भं संवेगमाह—भो भो तपस्विनो मा भैष्ट = युष्माभिः भय न कार्यम् अयमहमागच्छामि, अयं = एषोऽहं महेन्द्रादीनामपि साहाय्यकारी दुष्यन्तः अहम् = इदानीमेव भवतां यज्ञरक्षायै द्रागेव आगच्छामि, आगच्छामीत्यनेन ममागमनमेव प्रतिविधानो विलम्बः मय्युपस्थिते
( आकाश में ) अहो राजन् ! सावधान सावधान देखो देखो हमारे यज्ञ के सायंकालिक हवन का अनुष्ठान प्रारम्भ होते ही यज्ञाग्नि से सुशोभित वेदी के चारों ओर फैली हुई भय देने वाली सायंकालिक मेघों की घटा के समान काली-पीली मांसभोजी राक्षसों की ये छाया दिखाई पड़ रही हैं ॥ २४ ॥
राजा—( सुनकर बड़े गर्व और धैर्य के साथ ) अरे तपस्वियों, डरो मत, डरो मत, आपके यज्ञ की रक्षा के निमित्त मैं यह आया, ( यह कहकर बाहर निकल जाते हैं ) ।
**विशेष—**राक्षसों का भय विशेष कर रात में ही होता है । इसलिए सन्ध्या होते ही यज्ञ के
चतुर्थोऽङ्कः (शकुन्तला विदाई व दुर्वासा शाप)
चतुर्थोऽङ्कः
( ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ )
अनसूया—पिअंवदे जहवि गंधव्वेण विहिणा णिव्वुत्तकल्लाणा सउंदला अणुरूव-भत्तुगामिणी संवृत्तत्ति निव्वुदं मे हिअअं तह वि एत्तिअ चिंतणिज्जं [ प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम् तथाप्येतावच्चिन्तनीयम् ]
क्षणादेव सर्वं सुस्थं स्यादिति द्योत्यते । एतेन राज्ञो दुष्यन्तस्य युद्धवीरत्वं दयावीरत्वं च व्यज्यते । ( इति = एवमुक्त्वा, निष्क्रान्तः = निर्गतः ) 'अन्तर्निष्क्रान्तनिखिलपात्रोऽङ्कः परिकीर्तितः ।' इत्युक्तेरङ्कान्ते पत्रनिर्गमस्यावश्यकत्वादिति शिवम् ।
( इति = समाप्तः तृतीयः तार्तीयिकः अङ्कः = प्रकरणम् )
इति कविवरकालिदासेन प्रणीतस्याभिज्ञानशाकुन्तलनाटकस्य
तृतीयेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता
विमलाख्या व्याख्या समाप्ता ।
यस्मिन् चतुर्थेऽङ्के तपोवनप्रक्रान्ताया इष्टेः समाप्तौ कण्वेन विस्रजितायाः शकुन्तलायाः पतिगृहे प्रेषणं मुख्यो भागः । तत्पूर्वमागतया कुसुमावचयव्यग्रयोः प्रियम्वदानसूययोः सख्योर्मिथः सम्वादेन दुर्वाससः शापादेर्वर्णनम् । तत्र कुलपतिः महर्षिः कण्वः प्रधान-पात्रम्, इतरे च पात्राणि सन्ति तदङ्गानि । प्रायेण करुण एवात्र प्रधानो रसः, स च शृङ्गारस्याङ्गम् । दुहितृवात्सल्यादि-लोकवृत्त-प्रदर्शनमात्र-सर्वामीष्टं कल्पनम् । आत्म-सदृशेन भर्त्रा संगतायाः शकुन्तलायाः पतिगृहगमनात् स्वास्थ्यमापन्नोऽहमिव समस्तो लोकोऽपि स्वस्थः स्यादिति महर्षेः कण्वस्य हृदयम् ।
अथ कथा-संघटनाय पूर्ववर्णितयोः शकुन्तलायाः सख्योः प्रियम्वदानसूययोः प्रवेश-द्वारा विष्कम्भकं योजयति—तत इति ।
( ततः = तदनन्तरं तृतीयाङ्ककथासमाप्तौ कुसुमावचयं = पुष्पाणामादानं
नाटयन्त्यौ = अभिनयन्यौ पुष्पत्रोटनं कुर्वन्त्यो सख्यौ = आल्यौ
प्रियम्वदा अनसूया च प्रविशतः = रङ्गभूमौ दृश्येते )
अनसूया—शकुन्तलायाः सातिशयस्नेहवती सखी-अनसूया तत्सौभाग्यविषये संलापं
हवन कुण्ड में प्रक्षिप्त सुगन्धित द्रव्यों की सुगन्ध पाकर राक्षसों का उपद्रव प्रारम्भ हो गया । इसलिए मुनियों ने राक्षसों की भयावह छाया को देखकर रक्षा के निमित्त राजा दुष्यन्त का आह्वान कर शकुन्तला में आसक्त उनके हृदय को शृङ्गार रस से छोड़कर वीर रस में परिवर्तन कर दिया है ।
॥ तृतीय अङ्क समाप्त ॥
( पुष्प तोड़ने का अभिनय करती हुई दो सखियों का प्रवेश )
अनसूया—हे सखि प्रियम्वदे ! यद्यपि गान्धर्व विधि से राजा दुष्यन्त के साथ शकुन्तला का
चतुर्थोऽङ्कः १६५
प्रियंवदा—कहं विअ [ कथमिव ] ।
अनसूया—अज्ज सो राएसी इट्ठिं परिसमाविअ इसीहि वसज्जिओ अत्तणो णअरं पविसिय अंतेउरसमागदो इदोगदं वृत्ततं सुमरदि वा ण वेत्ति [ अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्ज्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ] ।
प्रियंवदा—वीसद्धा होहि ! ण तादिसा आकिदिविसेसा गुणविरोहिणो होंति । तादो दाणि इमं वृत्तंतं सुणिअ ण आणे किं पडिवज्जिस्सदि ति [ विश्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तथा इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ] ।
कुरुते—प्रियंवदे ! यद्यपि गान्धर्वेण विधिना = गान्धर्वविवाहरीत्या निवृत्तं = सम्पन्नं कल्याणं = विवाहमङ्गलं यस्याः सा निवृत्तकल्याणा = जातविवाहमङ्गला, शकुन्तला अनुरूपं = योग्यं भर्तारं = पतिं दुष्यन्तं गच्छति तच्छीला = अनुरूपभर्तृगामिनी संवृत्ता = जाता मे = मम हृदयं = अन्तरं निवृत्तं = शकुन्तलायाः सानुरागानुरूपभर्तृगामित्वात् निश्चिन्तं सुखितं, तुष्टं जातम् तथापि एतावत् = चित्तं = चिन्ताविषयः ।
प्रियंवदा—कथमिव चिन्तनीयम् विनयप्रकारेण चिन्तेति भावः ।
अनसूया—चिन्ताप्रकारमेवानसूया प्रस्तौति—अद्य = इदानीं सः=पूर्वोक्तः राजर्षिः = राजा दुष्यन्तः इष्टिं = यज्ञं परिसमाप्य = परितः समाप्य ऋषिभिः = मुनिभिः विसर्जितः = प्रहितः, अनुज्ञातनगरगमनः आत्मनः = स्वस्य नगरं = हस्तिनापुरं प्रविश्य = राजधानीम् अन्तर्गत्वा अन्तःपुरे = राज्ञीप्रासादे समागतः मिलितः इत्यन्तःपुरसमागतः । इतोगत = अत्र तपोवने गतं = जातं संबद्वं वृत्तान्तं = शकुन्तलाया गान्धर्वविवाहादिकम् स्मरति न वा राजकार्यव्यग्रतया अन्तःपुरस्थस्त्रीसमाजसङ्गमेन वा न स्मरति वेत्यर्थः । अयमेव चिन्ता-विषयः ।
प्रियंवदा—न विस्मरतीति पक्षे कृतविश्वासा प्रियम्बदा वदति—विश्रब्धा = विश्वस्ता भव = विश्वसीहि । तादृशाः = तथाविधाः, आकृतिविशेषाः = दुष्यन्ते दृश्यमानाकृतयः गुणविरोधिनः = सौजन्यादिगुणरहिता न भवन्ति न जायन्ते—यत्राकृतिस्तत्र गुणा भवन्ति, इत्युक्तेः । तस्मान्न विश्वस्ता भव । राजा सर्वं संस्मृत्य शकुन्तलां स्वपुरं निष्पत्येव । राजविषये न किमपि चिन्तास्पदम् । पिता, कुलपतिः तातः = महर्षिः कण्वः
मङ्गलमय विवाह सम्पन्न हो गया, और उसने अपने योग्य पति को भी प्राप्त कर लिया, यह सोच कर मेरा मन शान्त है, फिर भी मेरा मन प्रसन्न नहीं हो रहा है चिन्ता बनी हुई है।
प्रियंवदा—क्यों, अब तुम जिस बात की चिन्ता कर रही हो ?
अनसूया—यही कि, यज्ञ समाप्त हो जाने से ऋषियों ने अपने नगर को जाने के लिए अनुमति दे दी है । वे राजधानी में आकर अन्तःपुर की रानियों के साथ भोग-विलास में लिप्त हो जाने से सखी शकुन्तला का स्मरण करेंगे या नहीं ?
प्रियम्बदा—हे सखि ! तुम बिल्कुल निश्चिन्त रहो, क्योंकि ऐसी सुन्दर तथा सौम्य मूर्ति वाले महापुरुष कर्म दया, दाक्षिण्य आदि गुणों से रहित नहीं होते । हाँ, यह अवश्य चिन्तनीय है कि पिताजी तीर्थ-यात्रा से लौट आये हैं, ये इस बात को सुनकर न जाने क्या कहेंगे ।
१६६ अभिज्ञानशाकुन्तलम्
**अनसूया—**जह अहं दक्खामि तह तस्स अणुमदं भवे [ यथाहं पश्यामि तथा तस्यानुमतं भवेत् ] ।
**प्रियंवदा—**कहं विअ [ कथमिव ] ।
**अनसूया—**गुणवदे कण्णआ पडिवादिणिज्जेत्ति अअं दाव पढमो संकप्पो । तं जइ देव्वं एव्व संपादेदि णं अप्पआसेण किदत्थो गुरुअणो [ गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो गुरुजनः] ।
प्रियंवदा—(पुष्पभाजनं विलोक्य) सहि अवइदाइं बलिकम्मपज्जत्ताईं कुसुमाईं, [ सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ] ।
**अनसूया—**णं सखीए सउंदलाए सोहागदेवआ अच्चणीया [ ननु सख्याः शकुन्तलायाः सौभाग्यदेवताऽर्चनीयाः ] ।
इदानीं = अधुना विवाहानन्तरं इयं वृत्तान्तं = आत्मनोऽनुज्ञां विना कृतं गान्धर्वविवाहं श्रुत्वा = निशम्य न जाने = न जानामि किं प्रतिपत्स्यते = उचितमनुचितं वेति किं कल्पयिष्यति । इति न जाने इत्यर्थः ।
**अनसूया—**तन्न चिन्त्यमित्यनसूया प्राह—यथा अहं जानामि = विचारयामि तस्य तातकण्वस्य अनुमतं = आज्ञाया समर्थितं भवेत् = स्यात् । यदि मां पृच्छसि चेत्तदा पूर्वापरभावेन विचारे क्रियमाणे तातस्येदमवश्यमनुमतं भवेदिति मे प्रतिभातीत्यर्थः ।
**प्रियंवदा—**कथमिव = केन प्रकारेण इव, तातस्यानुमतमिति कथं जानासीत्यर्थः !
**अनसूया—**गुणवते = श्लाघ्यगुणप्राचुर्यवते पुरुषाय कन्यका = कुमारी प्रतिपादनीया प्रदेया इति = एवं, अयं तावत् = अयमेव प्रथमः सङ्कल्पः = पूर्वमेवेदं संकल्पितमित्यर्थः । तं = सङ्कल्पं यदि = चेत् दैवमेव = भाग्यमेव सम्पादयति = सफलयति, स्वयमेव तथा भवेदिति यावत्, ननु = निश्चितं अप्रयासेन = अनायासेन कृतार्थः = कृतकृत्यः गुरुजनः = पिता कण्वः । तथा प्रतिपत्तेरवसर एव नास्तीत्यर्थः ।
प्रियम्बदा—( पुष्पभाजनं = पुष्पपात्रं विलोक्य = दृष्ट्वा ) सखि = आलि अनसूये ! बलिकर्मपर्याप्तानि = नित्यपूजाकार्यप्रचुराणि कुसुमानि = पुष्पाणि अवचितानि = गृहीतानि ।
**अनसूया—**मेरी समझ में तो पिताजी शकुन्तला का गान्धर्व विवाह अनुचित नहीं समझेंगे ।
**प्रियम्बदा—**यह कैसे ?
**अनसूया—**गुणवान् योग्य व्यक्ति को कन्या देनी है, यही उत्तम विचार हैं, उसको यदि भाग्य ने अपने आप सम्पादन कर दिया तो गुरुजन कृतार्थ ही होते हैं । इसलिए यदि शकुन्तला को दुष्यन्त जैसे योग्य वर स्वयं मिल गये तो पिताजी प्रसन्न ही होंगे ।
**विशेष—**पिताजी को अप्रसन्न होने की बात तब होती जब वे प्रियसखी शकुन्तला को जीवन भर अविवाहिता ही रखना चाहते, विवाह करना होगा, योग्यतम वर अपने आप ही मिल गये तब नाराज होने की बात ही क्या है । इसलिए प्रियम्वदे ! तुम सन्देह न करो, पिताजी प्रसन्न ही होंगे, नाराज नहीं होंगे ।
**प्रियम्बदा—**ठीक है, ( फूलों की डालियों को देखकर ) हे सखि अनसूये ! बलि-कर्म देव-पूजा के लायक तो फूल हो गये । इसलिए अब फूल तोड़ना बन्द करें ।
चतुर्थोऽङ्कः १६७
प्रियंवदा--जुज्जदि [ युज्यते ] ।
( इति तदेव कर्मारभेते )
( नेपथ्ये ) अयमहं भोः ।
अनसूया-( कर्णं दत्वा ) सहि सहि अदिधीणं विअ णिवेदइदं [ सखि अतिथीनामिव निवेदितम् ] ।
प्रियंवदा-णं उडजसंणिहिदा सउंदला । ( आत्मगतम् ) अज्ज उण हिअएण असंणिहिदा [ ननूटजसंनिहिता शकुन्तला । अद्य पुनर्हृदयेनासंनिहिता ] ।
अनसूया-होदु अलं एत्तिरएहि कुसुमेहि [ भवतु अलमेतावद्भिः कुसुमैः ]
( इति प्रस्थिते ) ।
अनसूया—ननु = निश्चयेन शकुन्तलायाः = सख्याः सौभाग्यदेवता = सौभाग्यवत्यादिप्रदायिनी हरगौरीमूर्तिः = इन्द्राणी देवता वा अर्चनीयाः = पूजनीयाः ।
प्रियंवदा—युज्यते = आवश्यकमेवैतत् कर्म उचितमिदम् ।
( इति = एवमुक्ते तदेव = पूर्वोक्तं पुष्पावचयं कर्म = कार्यम् आरभते = कुरुतः )
अथ राज्ञः शकुन्तलाविस्मरणकारणसम्पदनायोपक्रमते—( नेपथ्ये = जवनिकायाम् ) भोः = कोऽप्यस्ति, गृहस्वामिनि ! अयम् = एषः दुर्वासा अहम् ते गृहद्वारि = आगतोऽस्मि । कण्वाश्रमान्तिकमागतस्य तत्र कमप्यनवलोकयतः आतिथ्यं परिग्रहीतुमिच्छोर्महर्षेर्दुर्वाससो वचनमिदम् ।
अनसूया—( कर्णं दत्वा = आकर्ण्य ) अयमहमित्यादि वचनं श्रुत्वाऽनसूया वदति—सखि प्रियम्वदे ! अतिथीनां = प्राघुणिकानाम् इव = यथा निवेदितम् = आत्मनिवेदनम्, सूचनाऽनुमीयते ।
प्रियंवदा—ननु = सखि ! उटजे = पर्णशालायाम् संनिहिता = उपस्थिता, शकुन्तला = शकुन्तला उटजे अस्त्येवेत्यर्थः । अद्य शकुन्तला पुनः = तु हृदयेन = मनसा असंनिहिता = नोपस्थिता । इदानीं भर्तृगतहृदया सा किमपि न जानातीत्यसन्निहितप्रायैवेत्यर्थः । एवं च अतिथिसत्कारे सा न दत्तावधाना भवेदिति भावः ।
अनसूया—भवतु = अस्तु एतावद्भिः = एतन्मात्रैः कुसुमैः = पुष्पैः अलम् = पर्याप्तं । एतावन्ति कुसुमानि वलिकर्म शकुन्तला सौभाग्यदेवतार्चनयोः पर्याप्तानीत्यर्थः ।
अनसूया—अरी प्रियम्वदे ! आज शकुन्तला के सौभाग्य देवता का भी तो पूजन करना । इसलिए और फूल भी तोड़ लेना चाहिए ।
प्रियंवदा—ठीक है ( पुनः पुष्प तोड़ने लगती है )
( नेपथ्य में ) यह मैं अतिथि के रूप में आकर द्वार पर खड़ा हूँ ।
अनसूया—( कान लगाकर ) सखि प्रियम्वदे ! यह तो अतिथि की तरह कोई बोल रहा है ।
प्रियंवदा—तो ठीक है, वहाँ तो कुटी में शकुन्तला है ही । ( मन ही मन में ) किन्तु आज उसका हृदय तो कहीं दूसरी जगह है । अर्थात् राजा दुष्यन्त के चिन्तन में लगी हुई है । इसलिए वह अतिथि के इस शब्द को सुनेगी या नहीं इसमें सन्देह है ।
अनसूया—अब फूल तोड़ना रहने दो, इतने फूलों से ही काम चल जायेगा ।
( यह कहकर दोनों चल देती है )
१६८ | अभिज्ञानशाकुन्तलम्
( पुनर्नेपथ्ये ) आः अतिथिपरिभाविनि !
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥ १ ॥
प्रियंवदा—हद्धी अप्पिअं एव्व संवुत्तं। कस्सिं पि पूआरुहे अवरद्धा सुण्णहिअ- आ सउंदला (पुरोऽवलोक्य) णहु जस्सिं कस्सिं पि। एसो दुव्वासो सुलहकोवो
(पुनर्नेपथ्ये = भूयो जवनिकायाम् ) आः, अतिथिपरिभाविनि ! = अभ्यागत्यमान- शीले ! अस्य कर्मणः फलमविलम्बेनातिशीघ्रमेव प्राप्स्यसि।
अन्वयः—अनन्यमनसा यं विचिन्तयन्ती तपोधनं मामुपस्थितं न वेत्सि स प्रमत्तः प्रथमं कृतां कथाम् इव बोधितोऽपि त्वां न स्मरिष्यति।
आत्मनः परिभवं विवृण्वन् तदनुरूपं फलं प्राप्स्यसीति शापवचनमाह—
विचिन्तयन्तीति—अन्यः = अपरः मानसे = हृदये यस्याः सा अन्यमानसा न अन्य- मानसा अनन्यमानसा यद्वा अनन्यं मानसं यस्याः सा अनन्यमानसा = एकाग्रचित्ता यं कञ्चित् पुरुष विचिन्तयन्ती = विशेषेण विविध वा चिन्तयन्ती = स्मरन्ती तपोनिधि = तपोमूर्ति, चिरसञ्चितविपुलमानसं मां = दुर्वाससम् उपस्थितं = गृहद्वारि स्वय- मागतम् न वेत्सि = न जानासि नावबुध्यसे, सः = ते मनोगतो जनः, प्रमत्तः = प्रमादवान् प्रथम = पूर्वं प्रमाददशावस्थायाम् कृताम् = उक्तां कथामिव = वार्तामिव बोधितोऽपि तत्र लिङ्गेन स्मारितोऽपि सन् त्वां = अतिथिजनावमानिनीं भवतीं न स्मरिष्यति = न ज्ञास्यसि।
अयं भावः—महर्षेः कण्वस्याश्रमे आतिथ्यग्रहणार्थं स्वयमुपस्थितो महर्षिदुर्वासाः स्वागमननिवेदनमनवधानं द्वारदेशे विषण्णां शून्यहृदयां शकुन्तलां विलोक्य निजावमानेन क्रुद्धः शापं दत्तवान् यत् हे अतिथितिरस्कारिणि ! त्वं यं जनमनन्यमनसा सती चिन्तयसि मां चातिथि न वेत्सि स प्रमादी पुरुष इव पूर्वं स्वानुभूतां वार्तामिव त्वां नैव स्मरिष्यति।
अत्रोपमा-काव्यलिङ्ग-श्लेष-छेक-वृत्यनुप्रासा अलङ्कारा वंशस्थवृत्तं च ॥ १ ॥
प्रियम्बदा—शापवचनमाकर्ण्य सखेदमाह—हा धिक् = हन्त, धिक्कष्टम् अप्रियं = अनिष्टमेव संवृत्तं = जातम्, कस्मिन्नपि = अज्ञाते पूजार्हे = पूजनीये अतिथिविशेषे हृदय- शून्या = अकर्मण्यहृदया शकुन्तला अपराद्धा = अपराधं कृतवती। न खलु = निश्चयेन यस्मिन् कस्मिन्नपि = साधारणं जनं प्रति। एषः = अयम् अभ्यागतः सुलभकोपः = अति-
( पुनः नेपथ्य में ) आ, मुझ अतिथि को इस तरह तिरस्कार कर रही हो, मेरी बात का उत्तर तक नहीं देती ! अतः,
अनन्य भाव से जिस राजा दुष्यन्त की चिन्ता करती हुई तू मुझ तपस्वी अतिथि को भी नहीं देख रही हो, वह तेरा प्रिय दुष्यन्त बार-बार तेरे कहने पर भी तुझे उसी प्रकार नहीं पहचानेगा जिस प्रकार उन्मत्त=पागल हुआ दुष्यन्त पहले अपने किए हुए कार्यों को भूल जाता है ॥ १ ॥
प्रियम्बदा—हाय, हाय, यह तो वही हुआ, जो मैं पहले से ही समझ रही थी, प्रतीत होता है कि किसी पूजनीय विशेष अतिथि को शून्य हृदया=दुष्यन्त गतमानसा शकुन्तला ने अप्रसन्न
पाठा०—१. तपोनिधि ।
चतुर्थोऽङ्कः
१६९
महेसी । तह सविअ वेअबलोप्फुल्लाए दुव्वाराए गईए पडिणिवुत्तो । को जण्णो हुदवहादो दहिदुं पहवादि [हा धिक् ! अप्रियमेव संवृत्तम्। कस्मिन्नपि पूजाऽर्हेऽपराद्धा शून्यहृदया शकुन्तला । न खलु यस्मिन् कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तया शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः। कोऽन्यो हुतवहाद्दग्धुं प्रभवति ] ।
अनसूया--गच्छ पादेषु पणमिअ णिवत्तेहि णं जाव अहं अग्घोदअं उवकंपेमि [ गच्छ पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि ] ।
प्रियंवदा--तह [ तथा ] । ( इति निष्क्रान्ता ) ।
अनसूया--( पदान्तरे स्खलितं निरूप्य ) अव्वो आवेगक्खलिदाए गईए पब्भट्ट मे अग्गहत्थादो पुप्फभाअणं [ अतो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् ] । ( इति पुष्पोच्चयं रूपयति )
क्रोधः = उग्रक्रोधः महर्षिः दुर्वासाः = दुर्वासामुनिः तथा = यथोक्तप्रकारं शप्त्वा = शापं दत्वा वेगस्य = शीघ्रतायाः = महान् ऋषिः बलेन = शक्त्या उत्फुल्लया = विकसितय! दूरोत्क्षिप्तपादव्यासया दुर्वारया = दुर्निवारया निवारयितुमशक्या गत्या प्रादप्रक्षेपेण प्रतिनिवृत्तः = परावर्तितः आश्रमाद्बहिर्गतः । हुतवहात् = अग्नेर्दग्धुं = ज्वलयितुं अन्यः = अपरः क = को हि पुरुषः प्रभवति = शक्नोति । यथा हुतवह एव झटिति दग्धुं प्रभवति तथैव दुर्वासा अपि शप्तुं शक्नोति नान्यः । अर्थात् अग्निकल्पात् दुर्वाससः सहशात् महर्षेर्विना कोऽन्यः शप्तुं शक्नोति, कुलपतेः कण्वस्य दुहितरं शकुन्तलामिति भावः ।
अनसूया—सखि शीघ्रं गच्छ = याहि पादयोः = चरणयोः प्रणम्य = नत्वा पतित्वा एनं = दुर्वाससं निवर्तयं = परावर्तयं = आवर्तय यावत् = अत्रान्तरे अहं = अयं जनः अर्घार्थं = पूजार्थम् उदकं = जलम् इति अर्घोदकं यद्वा अर्घं = दूर्वाक्षतादियुक्तम् उदकमिति अर्घोदकम् । उपकल्पयामि = सम्पादयामि विदधामि । यावत् स प्रत्यागच्छति तावदहमर्घोदकमुपकल्पयामीत्यर्थः ।
प्रियंवदा—तथा = आम् ( इति = एवमुक्त्वा निष्क्रान्ता = रङ्गभूमितो बहिर्गता ) ।
अनसूया—( पदान्तरे = अन्यस्मिन् पदे, स्खलितं = स्खलनं निरूप्य = नाटयित्वा ) अहो = हन्त आवेगेन शापहेतुकेन संभ्रमेण स्खलितया = प्रतिरुद्धया विकलवागत्या=गमनेन मे = मम अग्रहस्तात् = हस्ताग्रात् पुष्पभाजनं = कुसुमपात्रं प्रभ्रष्टं = निपतितम् ।
( इति = एवमुक्त्वा पुष्पोच्चयं = कुसुमोत्थापनम्, रूपयति = नाटयति )
कर दिया है, जिससे वह इस प्रकार शाप दे रहा है। ( सामने की ओर देखकर ) सखि ! शकुन्तला ने किसी ऐसे-वैसे साधारण अतिथिका अपराध नहीं किया है किन्तु यह तो सुलभ कोप, उन अत्यन्त क्रोधी महर्षि दुर्वासा हैं, जो इस प्रकार शाप देकर जल्दी-जल्दी लम्बे-लम्बे पैर रखते हुए लौटे जा रहे हैं ।
अनसूया—अब तू शीघ्र जा, उनके पैर में पड़कर उन्हें लौटा ले आ, तब तक मैं भी उनके अतिथि सत्कार के निमित्त अर्घ्यजल आदि तैयार करती हूँ ।
प्रियम्बदा—ठीक है, ( निकल जाती है )
अनसूया—( अगले कदम पर ठोकर खाने का अभिनय कर ) हाय, घबड़ाहट और जल्दी से चलने के कारण ठोकर लग जाने से मेरे हाथ से यह फूलों की डलिया जमीन पर गिर गई है । यह अपशकुन = अमंगल सूचक हुआ ? ( गिरे हुए फूलों को चुनने का अभिनय करती हैं )
१७० अभिज्ञानशाकुन्तलम्
( प्रविश्य )
प्रियंवदा--सहि पकिदिवक्को स कस्स अणुअणं पडिगेण्हृदि ? किं वा उणा साणुक्कोसो किदो [ सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति ? किमपि पुनः सानुक्रोशः कृतः ] ।
अनसूया--( सस्मितम् ) तस्सिं बहु एदं पि, कहेहि [ तस्मिन् बहुदेतदपि, कथय ] ।
प्रियंवदा--जदा णिवत्तिदुं ण इच्छदि तदा विण्णविदो मए भअवं पढम त्ति पेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो मरिसिदव्वोत्ति [ यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षितव्य इति ] ।
प्रियम्बदा—( प्रविश्य = अन्तः आगत्य ) सखि ! = आलि अनसूये ! प्रकृतिवक्रः = स्वभावकुटिलः सः = महर्षिः दुर्वासा कस्य अनुनयं = प्रार्थनां प्रतिगृह्णाति = स्वीकरोति । किमपि = ईषत् पुनः = तु सानुक्रोशः = सदयः कृतः = विहितः ।
अनसूया—( सस्मितं = स्मितेन-ईषद्वहास्येन सह सस्मितम् ) तस्मिन् = दुर्वाससि एतदपि = इदमपि ईषत् सानुक्रोशत्वम् । कथय = वद ।
प्रियम्बदा—यदा = यस्मिन् काले निवर्तितुं = प्रत्यावर्तितुं न इच्छति = न वाञ्छति तदा मया विज्ञापितः = निवेदितः दुर्वासा यत् भगवन् = श्रीमन् ! प्रथमः = आद्यः अपराधः = आगः इति = एवं प्रेक्ष्य = दृष्ट्वा विचार्य तपसः = तपस्याया प्रभावः = शक्ति।—तपःप्रभावः विज्ञसः तपःप्रभावो येन स विज्ञाततपःप्रभावः न विज्ञाततपःप्रभाव इति अविज्ञाततपःप्रभावः तस्य अविज्ञाततपःप्रभावस्य = अज्ञातवत्तपोवीर्यस्य दुहितृजनस्य = कन्यालोकस्य कन्याकल्पायाः शकुन्तलायाः पुत्र्याः एक अपराधः भगवता = श्रीमता दुर्वाससा एकः = केवलः अपराधः = आगः मर्षितव्यः = क्षन्तव्य इति ।
प्रियम्बदा—( प्रवेश कर ) हे सखि प्रियम्वदे ! दुर्वासा तो मानो साक्षात शरीर धारण किए ए क्रोध ही है अर्थात् वे तो क्रोध की मूर्ति हैं। भला वे किसको अनुनय-विनय सुनते हैं, किन्तु बड़ी कठिनाई से मैने उन्हें किसी प्रकार प्रसन्न कर ही लिया ।
अनसूया—( मुस्कराकर ) चलो, दुर्वासा के विषय में यही बहुत है ।
प्रियम्वदा—बहुत प्रार्थना करने पर भी अब वे आश्रम पर नहीं लौटने को राजी हुए, तब मैने उनके पैरों पर पड़ कर उनसे प्रार्थना की कि—हे भगवन् ! आपके तप के प्रभाव को न जानने वाली आपकी पुत्री के समान उस शकुन्तला का यह पहला ही अपराध है इसलिए कृपया आप इसे क्षमा करें ।
विशेष—ऋषियों में महर्षि दुर्वासा बड़े क्रोधी माने जाते हैं, उनको मनाना साधारण बात नहीं है, पर अनसूया ने अनुनय-विनय पूर्वक पैरों पर पड़कर उन्हें मना ही लिया। उसने सोचा कि जब तक इनके बराबर शक्ति का प्रयोग न होगा तब तक ये मानने वाले नहीं, उसने बताया कि महाराज ! आपके समान ही तपस्वी महर्षि कण्व भी हैं, जो इस शकुन्तला के धर्म पिता हैं। जैसे वह उनकी पुत्री है वैसे ही आपकी भी पुत्री है, फिर बालिका है, जिससे वह आपकी तपःशक्ति नहीं जानती है। ऐसी दशा में कम से कम प्रथम अपराध को तो कृपया क्षमा कर ही दीजिए । तदनुसार उन्होंने अँगूठी दर्शन तक शाप को सीमित कर दिया ।
चतुर्थोऽङ्कः । १७१
अनसूया--तदो तदो [ ततस्ततः। ] । प्रियंवदा--तदो मे वअणं अण्णहाभवितुं णाइरहदि। किंदु अहिण्णाणाभरणदंसणेण सावो णिवत्तिस्सदि त्ति मंतअतो अंतरिहिदो [ ततो मे वचनमन्यथाभवितुं नार्हति किन्त्वभिज्ञानाभरणदर्शनेन शापो निवर्त्तिष्यत इति मन्त्रयन् स्वयमन्तर्हितः। ] । अनसूया--सव्वकं दाणिं अस्ससिदुं। अत्थि तेन राएसिणा संपत्थिदेण सणामहे-अंकिअं अंगुलीअअ सुमरणीअंति सअं पिणद्धं। तस्सि साहीणोबाआ सउदला भविस्सदि [ शक्यमिदानीमाश्वासयितुम्। अस्ति तेन राजर्षिणा प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् तस्मिन् स्वाधीनोपाया शकुन्तला भविष्यति। ] प्रियंवदा--सहि एहि देवकज्जं दाव णिव्वत्तेम्ह [ सखि एहि देवकार्यं तावन्निर्वर्त्तयावः। ] ( इति परिक्रामतः )।
अनसूया--ततस्ततः = तत्पश्चात् किं जातम् तत्पश्चात् किं जातम् ? प्रियम्बदा--ततः=तदनन्तरं मे=वचनमन्यथा भवितुं नहीति = मया यदुच्यते तत्तथैव भविष्यतीत्यर्थः । किन्तु अभिज्ञानाभरणदर्शनेन—अभिज्ञायते येन तत् अभिज्ञानम् = परिचायकं तादृशं यदाभरणं = भूषणं तस्य दर्शनेन शापो निर्वतिष्यते = शापमोक्षो भविष्यतीत्यर्थः । इति = एवं मन्त्रयन् = कथयन् स्वयम् = आत्मना अन्तर्हितः = अन्तर्धानमवाप । अनसूया—प्रियम्बदा विषादमपनयन्ती अनसूया प्राह—शक्यमिदानीमाश्वासयितुं= शक्यं = सम्भवति इदानीमधुना आश्वासयितुं = प्रस्थापयितुम् अधुना अनेन वचनेन कथञ्चित् आश्वस्ता भवामीत्यर्थः । तेन राजर्षिणा दुष्यन्तेन संप्रस्थितेन = प्रस्थानकाले इतः गतेन स्वनामधेयाङ्कितं निजनामलिखितम् अङ्गुलीयकं = मुद्रिकां त्वया अनेन अभिज्ञानेन गान्धर्वविवाहादिकं सर्वं घटितं स्मरणीयम् इति = एवमुक्त्वा स्वयम् = आत्महस्तेन पिनद्धं = परिधापितम् । तस्मिन् = तस्य शापस्य विषये स्वस्य = आत्मनः अधीनः = आयत्तः उपायः = प्रतीकारः यस्या सा स्वाधीनोपाया = स्वायत्तसाधना शकुन्तला भविष्यति = स्यात् । प्रियम्बदा—अनसूयावचनेन निश्चिन्ता प्रियम्बदा अनन्तरकरणीयं निरूपयन्नाह— सखि ! =आलि-अनसूये ! एहि = आगच्छ तावत् देवकार्यं = देवपूजाप्रभृति निर्वर्त्तयावः= अनुतिष्ठावः । ( इति = एवमुक्त्वा परिक्रामतः = गच्छतः )।
अनसूया—हाँ, तब क्या हुआ ? प्रियम्बदा—तब उन्होंने कहा कि मेरा वचन तो मिथ्या हो नहीं सकता, किन्तु अँगूठी आदि आभूषण = चिह्न दिखाने से ही यह शाप छूट जायेगा—ऐसा कहते ही कहते वे महर्षि वहीं अन्तर्हित हो गये। अनसूया—अच्छा, तब तो कुछ धीरज करने की बात हुई, क्योंकि उस राजर्षि दुष्यन्त ने जाते समय स्वयं ही शकुन्तला के हाथ में स्मृति चिह्न के स्वरूप में अपने नाम के अक्षरों से अङ्कित अँगूठी पहना दी है। वही उपाय उनको दिखाने के लिए शकुन्तला के पास स्वाधीन रहेगा। इस प्रकार उनकी दी हुई अँगूठी को दिखाकर शकुन्तला उस दुष्यन्त को याद दिला देगी। प्रियम्बदा—हे सखि ! आओ, अब इस शकुन्तला के सौभाग्य देवताओं की पूजा आदि के आवश्यक कार्य को हमलोग सम्पन्न करें। ( दोनों घूमती हैं )
१७२ | अभिज्ञानशाकुन्तलम्
प्रियंवदा—( विलोक्य ) अणसूए पेक्ख दाव। वामहत्थोवहिदवअणा आलिहिदा विअ पिअसही। भत्तुगदाए चिंताए अत्ताणं विण एषा विभावैदि। किं उण आअं-तुअं [ अनसूये पश्य तावत्। वामहस्तोपरहितवदनालिखितेव प्रियसखी। भर्तृगतया चिन्त-यात्मानमपि नषा विभावयति। किं पुनरागन्तुकम्। ]
अनसूया—पिअवदे दुवेणं एव्व णं णो मुहे एसो वृत्तंतो चिट्ठदु। रक्खिदव्वा खु पकिदिपेलवा पिअसही। [ प्रियंवदे द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु रक्षि-तव्या खलु प्रकृतिपेलवा प्रियसखी। ]
प्रियंवदा—को णाम उन्होदएण णोमालिअं सिंचेदि [ को नाम उष्णोदकेन नव-मालिकां सिञ्चति ]। ( इत्युभे निष्क्रान्ते )
प्रियम्वदा—( विलोक्य अनसूये, तावत् पश्य = अवलोकय ) वामे = सव्ये हस्ते = करे उपहितं = स्थापितं वदनं = मुखं यया सा वामहस्तोपरहितवदना = वामकरतलनिविष्ट-कपोल| आलिखिता = चित्रे अर्पिता चित्रितेव प्रियसखो = शकुन्तला भर्तृगतया = भर्तारं पतिं गता = प्राप्ता तया भर्तृगतया चिन्तया = विचारेण आत्मानमपि = स्वमपि एषा = इयं प्रियसखी शकुन्तला न विभावयति = न जानाति । किं पुनः = का कथा आगन्तुकं = अतिथिं विभावयेव। काहं, किं करोमि, कुत्र तिष्ठामि, इत्याद्यात्मविषयकमपि ज्ञानमस्या नास्ति । अनया समीपमागताऽपि दुर्वासाः न लक्षित इति न चित्रमिति भावः ।
अनसूया—हे प्रियम्वदे ! द्वयोः = उभयोः एव ननु नौ = आवयोः मुखे = वदने एषः = अयं शापस्य वृत्तान्तः = उदन्तः तिष्ठतु = नियमितो भवेत्, हृदये निहितोऽस्तु । एष वृत्तान्तो नान्यस्य कस्यचिद्वाच्येत्यर्थः, रक्षितव्या, खलु = निश्चयेन प्रकृतिपेलवा = स्वभाव-सुकुमारप्रियसखी प्रिया = वल्लभा सखी = आली इति प्रियसखी शकुन्तला । यद्येषा कुतो-ऽपि वृत्तान्तममुं श्रोष्यति तदा सद्य। विपद्येतेति भावः ।
प्रियम्वदा—शकुन्तलाया एतन्निवेदनं सर्वथानुचितमिति दृष्टान्तमुखेन प्रियम्वदा प्राह—कः जनो नाम उष्णोदकेन द्रव्यं = तप्तं यदुदकं = जलमिति उष्णोदकं तेन उष्णो-दकेन = तप्तजलेन नवमालिकाम् = नवमालतीलताम् सिञ्चति = रक्षति भूतस्य शकुन्तला-परिणयस्य भविष्यतः शापादिवृत्तान्तस्य च सूचकत्वादयं विष्कम्भको नानार्थोपक्षेपकः शुद्धश्च प्राकृतभाषि सखीद्वयप्रयुक्तत्वात् समाप्त इति ।
( इति = एवमुक्त्वा उभे = द्वे निष्क्रान्ते = निर्गते )
प्रियम्वदा—( देखकर ) हे अनसूये ! देख तो यह प्रियसखी शकुन्तला अपने बायें हाथ की हथेली पर अपना गाल रख कर चित्रलिखित सी होकर अपने प्यारे के चिन्तन में ऐसी तल्लीन हो रही है कि अपने को भी यह नहीं जान रही है, तब अतिथि की तो भला बात ही क्या है ?
अनसूया—हे सखि प्रियम्वदे ! दुर्वासा के शाप की यह बात मेरे और तेरे मन में ही रहनी चाहिए, क्योंकि स्वभाव से ही अत्यन्त कोमल स्वभाव वाली इस शकुन्तला की रक्षा भी तो हमें करनी है ।
प्रियम्वदा—ठीक है, भला ऐसा कौन होगा जो नेवारी के कोमल पौधे को गर्म जल से सींचेगा ? ( यह विचार कर दोनों चली जाती है )
विशेष—दुर्वासा मुनि का शाप शकुन्तला को सुनना तथा नेवारी के पौधे में गर्म जल देना