अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
चतुर्थोऽङ्कः १६७
प्रियंवदा--जुज्जदि [ युज्यते ] ।
( इति तदेव कर्मारभेते )
( नेपथ्ये ) अयमहं भोः ।
अनसूया-( कर्णं दत्वा ) सहि सहि अदिधीणं विअ णिवेदइदं [ सखि अतिथीनामिव निवेदितम् ] ।
प्रियंवदा-णं उडजसंणिहिदा सउंदला । ( आत्मगतम् ) अज्ज उण हिअएण असंणिहिदा [ ननूटजसंनिहिता शकुन्तला । अद्य पुनर्हृदयेनासंनिहिता ] ।
अनसूया-होदु अलं एत्तिरएहि कुसुमेहि [ भवतु अलमेतावद्भिः कुसुमैः ]
( इति प्रस्थिते ) ।
अनसूया—ननु = निश्चयेन शकुन्तलायाः = सख्याः सौभाग्यदेवता = सौभाग्यवत्यादिप्रदायिनी हरगौरीमूर्तिः = इन्द्राणी देवता वा अर्चनीयाः = पूजनीयाः ।
प्रियंवदा—युज्यते = आवश्यकमेवैतत् कर्म उचितमिदम् ।
( इति = एवमुक्ते तदेव = पूर्वोक्तं पुष्पावचयं कर्म = कार्यम् आरभते = कुरुतः )
अथ राज्ञः शकुन्तलाविस्मरणकारणसम्पदनायोपक्रमते—( नेपथ्ये = जवनिकायाम् ) भोः = कोऽप्यस्ति, गृहस्वामिनि ! अयम् = एषः दुर्वासा अहम् ते गृहद्वारि = आगतोऽस्मि । कण्वाश्रमान्तिकमागतस्य तत्र कमप्यनवलोकयतः आतिथ्यं परिग्रहीतुमिच्छोर्महर्षेर्दुर्वाससो वचनमिदम् ।
अनसूया—( कर्णं दत्वा = आकर्ण्य ) अयमहमित्यादि वचनं श्रुत्वाऽनसूया वदति—सखि प्रियम्वदे ! अतिथीनां = प्राघुणिकानाम् इव = यथा निवेदितम् = आत्मनिवेदनम्, सूचनाऽनुमीयते ।
प्रियंवदा—ननु = सखि ! उटजे = पर्णशालायाम् संनिहिता = उपस्थिता, शकुन्तला = शकुन्तला उटजे अस्त्येवेत्यर्थः । अद्य शकुन्तला पुनः = तु हृदयेन = मनसा असंनिहिता = नोपस्थिता । इदानीं भर्तृगतहृदया सा किमपि न जानातीत्यसन्निहितप्रायैवेत्यर्थः । एवं च अतिथिसत्कारे सा न दत्तावधाना भवेदिति भावः ।
अनसूया—भवतु = अस्तु एतावद्भिः = एतन्मात्रैः कुसुमैः = पुष्पैः अलम् = पर्याप्तं । एतावन्ति कुसुमानि वलिकर्म शकुन्तला सौभाग्यदेवतार्चनयोः पर्याप्तानीत्यर्थः ।
अनसूया—अरी प्रियम्वदे ! आज शकुन्तला के सौभाग्य देवता का भी तो पूजन करना । इसलिए और फूल भी तोड़ लेना चाहिए ।
प्रियंवदा—ठीक है ( पुनः पुष्प तोड़ने लगती है )
( नेपथ्य में ) यह मैं अतिथि के रूप में आकर द्वार पर खड़ा हूँ ।
अनसूया—( कान लगाकर ) सखि प्रियम्वदे ! यह तो अतिथि की तरह कोई बोल रहा है ।
प्रियंवदा—तो ठीक है, वहाँ तो कुटी में शकुन्तला है ही । ( मन ही मन में ) किन्तु आज उसका हृदय तो कहीं दूसरी जगह है । अर्थात् राजा दुष्यन्त के चिन्तन में लगी हुई है । इसलिए वह अतिथि के इस शब्द को सुनेगी या नहीं इसमें सन्देह है ।
अनसूया—अब फूल तोड़ना रहने दो, इतने फूलों से ही काम चल जायेगा ।
( यह कहकर दोनों चल देती है )
१६८ | अभिज्ञानशाकुन्तलम्
( पुनर्नेपथ्ये ) आः अतिथिपरिभाविनि !
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥ १ ॥
प्रियंवदा—हद्धी अप्पिअं एव्व संवुत्तं। कस्सिं पि पूआरुहे अवरद्धा सुण्णहिअ- आ सउंदला (पुरोऽवलोक्य) णहु जस्सिं कस्सिं पि। एसो दुव्वासो सुलहकोवो
(पुनर्नेपथ्ये = भूयो जवनिकायाम् ) आः, अतिथिपरिभाविनि ! = अभ्यागत्यमान- शीले ! अस्य कर्मणः फलमविलम्बेनातिशीघ्रमेव प्राप्स्यसि।
अन्वयः—अनन्यमनसा यं विचिन्तयन्ती तपोधनं मामुपस्थितं न वेत्सि स प्रमत्तः प्रथमं कृतां कथाम् इव बोधितोऽपि त्वां न स्मरिष्यति।
आत्मनः परिभवं विवृण्वन् तदनुरूपं फलं प्राप्स्यसीति शापवचनमाह—
विचिन्तयन्तीति—अन्यः = अपरः मानसे = हृदये यस्याः सा अन्यमानसा न अन्य- मानसा अनन्यमानसा यद्वा अनन्यं मानसं यस्याः सा अनन्यमानसा = एकाग्रचित्ता यं कञ्चित् पुरुष विचिन्तयन्ती = विशेषेण विविध वा चिन्तयन्ती = स्मरन्ती तपोनिधि = तपोमूर्ति, चिरसञ्चितविपुलमानसं मां = दुर्वाससम् उपस्थितं = गृहद्वारि स्वय- मागतम् न वेत्सि = न जानासि नावबुध्यसे, सः = ते मनोगतो जनः, प्रमत्तः = प्रमादवान् प्रथम = पूर्वं प्रमाददशावस्थायाम् कृताम् = उक्तां कथामिव = वार्तामिव बोधितोऽपि तत्र लिङ्गेन स्मारितोऽपि सन् त्वां = अतिथिजनावमानिनीं भवतीं न स्मरिष्यति = न ज्ञास्यसि।
अयं भावः—महर्षेः कण्वस्याश्रमे आतिथ्यग्रहणार्थं स्वयमुपस्थितो महर्षिदुर्वासाः स्वागमननिवेदनमनवधानं द्वारदेशे विषण्णां शून्यहृदयां शकुन्तलां विलोक्य निजावमानेन क्रुद्धः शापं दत्तवान् यत् हे अतिथितिरस्कारिणि ! त्वं यं जनमनन्यमनसा सती चिन्तयसि मां चातिथि न वेत्सि स प्रमादी पुरुष इव पूर्वं स्वानुभूतां वार्तामिव त्वां नैव स्मरिष्यति।
अत्रोपमा-काव्यलिङ्ग-श्लेष-छेक-वृत्यनुप्रासा अलङ्कारा वंशस्थवृत्तं च ॥ १ ॥
प्रियम्बदा—शापवचनमाकर्ण्य सखेदमाह—हा धिक् = हन्त, धिक्कष्टम् अप्रियं = अनिष्टमेव संवृत्तं = जातम्, कस्मिन्नपि = अज्ञाते पूजार्हे = पूजनीये अतिथिविशेषे हृदय- शून्या = अकर्मण्यहृदया शकुन्तला अपराद्धा = अपराधं कृतवती। न खलु = निश्चयेन यस्मिन् कस्मिन्नपि = साधारणं जनं प्रति। एषः = अयम् अभ्यागतः सुलभकोपः = अति-
( पुनः नेपथ्य में ) आ, मुझ अतिथि को इस तरह तिरस्कार कर रही हो, मेरी बात का उत्तर तक नहीं देती ! अतः,
अनन्य भाव से जिस राजा दुष्यन्त की चिन्ता करती हुई तू मुझ तपस्वी अतिथि को भी नहीं देख रही हो, वह तेरा प्रिय दुष्यन्त बार-बार तेरे कहने पर भी तुझे उसी प्रकार नहीं पहचानेगा जिस प्रकार उन्मत्त=पागल हुआ दुष्यन्त पहले अपने किए हुए कार्यों को भूल जाता है ॥ १ ॥
प्रियम्बदा—हाय, हाय, यह तो वही हुआ, जो मैं पहले से ही समझ रही थी, प्रतीत होता है कि किसी पूजनीय विशेष अतिथि को शून्य हृदया=दुष्यन्त गतमानसा शकुन्तला ने अप्रसन्न
पाठा०—१. तपोनिधि ।
चतुर्थोऽङ्कः
१६९
महेसी । तह सविअ वेअबलोप्फुल्लाए दुव्वाराए गईए पडिणिवुत्तो । को जण्णो हुदवहादो दहिदुं पहवादि [हा धिक् ! अप्रियमेव संवृत्तम्। कस्मिन्नपि पूजाऽर्हेऽपराद्धा शून्यहृदया शकुन्तला । न खलु यस्मिन् कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तया शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः। कोऽन्यो हुतवहाद्दग्धुं प्रभवति ] ।
अनसूया--गच्छ पादेषु पणमिअ णिवत्तेहि णं जाव अहं अग्घोदअं उवकंपेमि [ गच्छ पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि ] ।
प्रियंवदा--तह [ तथा ] । ( इति निष्क्रान्ता ) ।
अनसूया--( पदान्तरे स्खलितं निरूप्य ) अव्वो आवेगक्खलिदाए गईए पब्भट्ट मे अग्गहत्थादो पुप्फभाअणं [ अतो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् ] । ( इति पुष्पोच्चयं रूपयति )
क्रोधः = उग्रक्रोधः महर्षिः दुर्वासाः = दुर्वासामुनिः तथा = यथोक्तप्रकारं शप्त्वा = शापं दत्वा वेगस्य = शीघ्रतायाः = महान् ऋषिः बलेन = शक्त्या उत्फुल्लया = विकसितय! दूरोत्क्षिप्तपादव्यासया दुर्वारया = दुर्निवारया निवारयितुमशक्या गत्या प्रादप्रक्षेपेण प्रतिनिवृत्तः = परावर्तितः आश्रमाद्बहिर्गतः । हुतवहात् = अग्नेर्दग्धुं = ज्वलयितुं अन्यः = अपरः क = को हि पुरुषः प्रभवति = शक्नोति । यथा हुतवह एव झटिति दग्धुं प्रभवति तथैव दुर्वासा अपि शप्तुं शक्नोति नान्यः । अर्थात् अग्निकल्पात् दुर्वाससः सहशात् महर्षेर्विना कोऽन्यः शप्तुं शक्नोति, कुलपतेः कण्वस्य दुहितरं शकुन्तलामिति भावः ।
अनसूया—सखि शीघ्रं गच्छ = याहि पादयोः = चरणयोः प्रणम्य = नत्वा पतित्वा एनं = दुर्वाससं निवर्तयं = परावर्तयं = आवर्तय यावत् = अत्रान्तरे अहं = अयं जनः अर्घार्थं = पूजार्थम् उदकं = जलम् इति अर्घोदकं यद्वा अर्घं = दूर्वाक्षतादियुक्तम् उदकमिति अर्घोदकम् । उपकल्पयामि = सम्पादयामि विदधामि । यावत् स प्रत्यागच्छति तावदहमर्घोदकमुपकल्पयामीत्यर्थः ।
प्रियंवदा—तथा = आम् ( इति = एवमुक्त्वा निष्क्रान्ता = रङ्गभूमितो बहिर्गता ) ।
अनसूया—( पदान्तरे = अन्यस्मिन् पदे, स्खलितं = स्खलनं निरूप्य = नाटयित्वा ) अहो = हन्त आवेगेन शापहेतुकेन संभ्रमेण स्खलितया = प्रतिरुद्धया विकलवागत्या=गमनेन मे = मम अग्रहस्तात् = हस्ताग्रात् पुष्पभाजनं = कुसुमपात्रं प्रभ्रष्टं = निपतितम् ।
( इति = एवमुक्त्वा पुष्पोच्चयं = कुसुमोत्थापनम्, रूपयति = नाटयति )
कर दिया है, जिससे वह इस प्रकार शाप दे रहा है। ( सामने की ओर देखकर ) सखि ! शकुन्तला ने किसी ऐसे-वैसे साधारण अतिथिका अपराध नहीं किया है किन्तु यह तो सुलभ कोप, उन अत्यन्त क्रोधी महर्षि दुर्वासा हैं, जो इस प्रकार शाप देकर जल्दी-जल्दी लम्बे-लम्बे पैर रखते हुए लौटे जा रहे हैं ।
अनसूया—अब तू शीघ्र जा, उनके पैर में पड़कर उन्हें लौटा ले आ, तब तक मैं भी उनके अतिथि सत्कार के निमित्त अर्घ्यजल आदि तैयार करती हूँ ।
प्रियम्बदा—ठीक है, ( निकल जाती है )
अनसूया—( अगले कदम पर ठोकर खाने का अभिनय कर ) हाय, घबड़ाहट और जल्दी से चलने के कारण ठोकर लग जाने से मेरे हाथ से यह फूलों की डलिया जमीन पर गिर गई है । यह अपशकुन = अमंगल सूचक हुआ ? ( गिरे हुए फूलों को चुनने का अभिनय करती हैं )
१७० अभिज्ञानशाकुन्तलम्
( प्रविश्य )
प्रियंवदा--सहि पकिदिवक्को स कस्स अणुअणं पडिगेण्हृदि ? किं वा उणा साणुक्कोसो किदो [ सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति ? किमपि पुनः सानुक्रोशः कृतः ] ।
अनसूया--( सस्मितम् ) तस्सिं बहु एदं पि, कहेहि [ तस्मिन् बहुदेतदपि, कथय ] ।
प्रियंवदा--जदा णिवत्तिदुं ण इच्छदि तदा विण्णविदो मए भअवं पढम त्ति पेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो मरिसिदव्वोत्ति [ यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षितव्य इति ] ।
प्रियम्बदा—( प्रविश्य = अन्तः आगत्य ) सखि ! = आलि अनसूये ! प्रकृतिवक्रः = स्वभावकुटिलः सः = महर्षिः दुर्वासा कस्य अनुनयं = प्रार्थनां प्रतिगृह्णाति = स्वीकरोति । किमपि = ईषत् पुनः = तु सानुक्रोशः = सदयः कृतः = विहितः ।
अनसूया—( सस्मितं = स्मितेन-ईषद्वहास्येन सह सस्मितम् ) तस्मिन् = दुर्वाससि एतदपि = इदमपि ईषत् सानुक्रोशत्वम् । कथय = वद ।
प्रियम्बदा—यदा = यस्मिन् काले निवर्तितुं = प्रत्यावर्तितुं न इच्छति = न वाञ्छति तदा मया विज्ञापितः = निवेदितः दुर्वासा यत् भगवन् = श्रीमन् ! प्रथमः = आद्यः अपराधः = आगः इति = एवं प्रेक्ष्य = दृष्ट्वा विचार्य तपसः = तपस्याया प्रभावः = शक्ति।—तपःप्रभावः विज्ञसः तपःप्रभावो येन स विज्ञाततपःप्रभावः न विज्ञाततपःप्रभाव इति अविज्ञाततपःप्रभावः तस्य अविज्ञाततपःप्रभावस्य = अज्ञातवत्तपोवीर्यस्य दुहितृजनस्य = कन्यालोकस्य कन्याकल्पायाः शकुन्तलायाः पुत्र्याः एक अपराधः भगवता = श्रीमता दुर्वाससा एकः = केवलः अपराधः = आगः मर्षितव्यः = क्षन्तव्य इति ।
प्रियम्बदा—( प्रवेश कर ) हे सखि प्रियम्वदे ! दुर्वासा तो मानो साक्षात शरीर धारण किए ए क्रोध ही है अर्थात् वे तो क्रोध की मूर्ति हैं। भला वे किसको अनुनय-विनय सुनते हैं, किन्तु बड़ी कठिनाई से मैने उन्हें किसी प्रकार प्रसन्न कर ही लिया ।
अनसूया—( मुस्कराकर ) चलो, दुर्वासा के विषय में यही बहुत है ।
प्रियम्वदा—बहुत प्रार्थना करने पर भी अब वे आश्रम पर नहीं लौटने को राजी हुए, तब मैने उनके पैरों पर पड़ कर उनसे प्रार्थना की कि—हे भगवन् ! आपके तप के प्रभाव को न जानने वाली आपकी पुत्री के समान उस शकुन्तला का यह पहला ही अपराध है इसलिए कृपया आप इसे क्षमा करें ।
विशेष—ऋषियों में महर्षि दुर्वासा बड़े क्रोधी माने जाते हैं, उनको मनाना साधारण बात नहीं है, पर अनसूया ने अनुनय-विनय पूर्वक पैरों पर पड़कर उन्हें मना ही लिया। उसने सोचा कि जब तक इनके बराबर शक्ति का प्रयोग न होगा तब तक ये मानने वाले नहीं, उसने बताया कि महाराज ! आपके समान ही तपस्वी महर्षि कण्व भी हैं, जो इस शकुन्तला के धर्म पिता हैं। जैसे वह उनकी पुत्री है वैसे ही आपकी भी पुत्री है, फिर बालिका है, जिससे वह आपकी तपःशक्ति नहीं जानती है। ऐसी दशा में कम से कम प्रथम अपराध को तो कृपया क्षमा कर ही दीजिए । तदनुसार उन्होंने अँगूठी दर्शन तक शाप को सीमित कर दिया ।
चतुर्थोऽङ्कः । १७१
अनसूया--तदो तदो [ ततस्ततः। ] । प्रियंवदा--तदो मे वअणं अण्णहाभवितुं णाइरहदि। किंदु अहिण्णाणाभरणदंसणेण सावो णिवत्तिस्सदि त्ति मंतअतो अंतरिहिदो [ ततो मे वचनमन्यथाभवितुं नार्हति किन्त्वभिज्ञानाभरणदर्शनेन शापो निवर्त्तिष्यत इति मन्त्रयन् स्वयमन्तर्हितः। ] । अनसूया--सव्वकं दाणिं अस्ससिदुं। अत्थि तेन राएसिणा संपत्थिदेण सणामहे-अंकिअं अंगुलीअअ सुमरणीअंति सअं पिणद्धं। तस्सि साहीणोबाआ सउदला भविस्सदि [ शक्यमिदानीमाश्वासयितुम्। अस्ति तेन राजर्षिणा प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् तस्मिन् स्वाधीनोपाया शकुन्तला भविष्यति। ] प्रियंवदा--सहि एहि देवकज्जं दाव णिव्वत्तेम्ह [ सखि एहि देवकार्यं तावन्निर्वर्त्तयावः। ] ( इति परिक्रामतः )।
अनसूया--ततस्ततः = तत्पश्चात् किं जातम् तत्पश्चात् किं जातम् ? प्रियम्बदा--ततः=तदनन्तरं मे=वचनमन्यथा भवितुं नहीति = मया यदुच्यते तत्तथैव भविष्यतीत्यर्थः । किन्तु अभिज्ञानाभरणदर्शनेन—अभिज्ञायते येन तत् अभिज्ञानम् = परिचायकं तादृशं यदाभरणं = भूषणं तस्य दर्शनेन शापो निर्वतिष्यते = शापमोक्षो भविष्यतीत्यर्थः । इति = एवं मन्त्रयन् = कथयन् स्वयम् = आत्मना अन्तर्हितः = अन्तर्धानमवाप । अनसूया—प्रियम्बदा विषादमपनयन्ती अनसूया प्राह—शक्यमिदानीमाश्वासयितुं= शक्यं = सम्भवति इदानीमधुना आश्वासयितुं = प्रस्थापयितुम् अधुना अनेन वचनेन कथञ्चित् आश्वस्ता भवामीत्यर्थः । तेन राजर्षिणा दुष्यन्तेन संप्रस्थितेन = प्रस्थानकाले इतः गतेन स्वनामधेयाङ्कितं निजनामलिखितम् अङ्गुलीयकं = मुद्रिकां त्वया अनेन अभिज्ञानेन गान्धर्वविवाहादिकं सर्वं घटितं स्मरणीयम् इति = एवमुक्त्वा स्वयम् = आत्महस्तेन पिनद्धं = परिधापितम् । तस्मिन् = तस्य शापस्य विषये स्वस्य = आत्मनः अधीनः = आयत्तः उपायः = प्रतीकारः यस्या सा स्वाधीनोपाया = स्वायत्तसाधना शकुन्तला भविष्यति = स्यात् । प्रियम्बदा—अनसूयावचनेन निश्चिन्ता प्रियम्बदा अनन्तरकरणीयं निरूपयन्नाह— सखि ! =आलि-अनसूये ! एहि = आगच्छ तावत् देवकार्यं = देवपूजाप्रभृति निर्वर्त्तयावः= अनुतिष्ठावः । ( इति = एवमुक्त्वा परिक्रामतः = गच्छतः )।
अनसूया—हाँ, तब क्या हुआ ? प्रियम्बदा—तब उन्होंने कहा कि मेरा वचन तो मिथ्या हो नहीं सकता, किन्तु अँगूठी आदि आभूषण = चिह्न दिखाने से ही यह शाप छूट जायेगा—ऐसा कहते ही कहते वे महर्षि वहीं अन्तर्हित हो गये। अनसूया—अच्छा, तब तो कुछ धीरज करने की बात हुई, क्योंकि उस राजर्षि दुष्यन्त ने जाते समय स्वयं ही शकुन्तला के हाथ में स्मृति चिह्न के स्वरूप में अपने नाम के अक्षरों से अङ्कित अँगूठी पहना दी है। वही उपाय उनको दिखाने के लिए शकुन्तला के पास स्वाधीन रहेगा। इस प्रकार उनकी दी हुई अँगूठी को दिखाकर शकुन्तला उस दुष्यन्त को याद दिला देगी। प्रियम्बदा—हे सखि ! आओ, अब इस शकुन्तला के सौभाग्य देवताओं की पूजा आदि के आवश्यक कार्य को हमलोग सम्पन्न करें। ( दोनों घूमती हैं )
१७२ | अभिज्ञानशाकुन्तलम्
प्रियंवदा—( विलोक्य ) अणसूए पेक्ख दाव। वामहत्थोवहिदवअणा आलिहिदा विअ पिअसही। भत्तुगदाए चिंताए अत्ताणं विण एषा विभावैदि। किं उण आअं-तुअं [ अनसूये पश्य तावत्। वामहस्तोपरहितवदनालिखितेव प्रियसखी। भर्तृगतया चिन्त-यात्मानमपि नषा विभावयति। किं पुनरागन्तुकम्। ]
अनसूया—पिअवदे दुवेणं एव्व णं णो मुहे एसो वृत्तंतो चिट्ठदु। रक्खिदव्वा खु पकिदिपेलवा पिअसही। [ प्रियंवदे द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु रक्षि-तव्या खलु प्रकृतिपेलवा प्रियसखी। ]
प्रियंवदा—को णाम उन्होदएण णोमालिअं सिंचेदि [ को नाम उष्णोदकेन नव-मालिकां सिञ्चति ]। ( इत्युभे निष्क्रान्ते )
प्रियम्वदा—( विलोक्य अनसूये, तावत् पश्य = अवलोकय ) वामे = सव्ये हस्ते = करे उपहितं = स्थापितं वदनं = मुखं यया सा वामहस्तोपरहितवदना = वामकरतलनिविष्ट-कपोल| आलिखिता = चित्रे अर्पिता चित्रितेव प्रियसखो = शकुन्तला भर्तृगतया = भर्तारं पतिं गता = प्राप्ता तया भर्तृगतया चिन्तया = विचारेण आत्मानमपि = स्वमपि एषा = इयं प्रियसखी शकुन्तला न विभावयति = न जानाति । किं पुनः = का कथा आगन्तुकं = अतिथिं विभावयेव। काहं, किं करोमि, कुत्र तिष्ठामि, इत्याद्यात्मविषयकमपि ज्ञानमस्या नास्ति । अनया समीपमागताऽपि दुर्वासाः न लक्षित इति न चित्रमिति भावः ।
अनसूया—हे प्रियम्वदे ! द्वयोः = उभयोः एव ननु नौ = आवयोः मुखे = वदने एषः = अयं शापस्य वृत्तान्तः = उदन्तः तिष्ठतु = नियमितो भवेत्, हृदये निहितोऽस्तु । एष वृत्तान्तो नान्यस्य कस्यचिद्वाच्येत्यर्थः, रक्षितव्या, खलु = निश्चयेन प्रकृतिपेलवा = स्वभाव-सुकुमारप्रियसखी प्रिया = वल्लभा सखी = आली इति प्रियसखी शकुन्तला । यद्येषा कुतो-ऽपि वृत्तान्तममुं श्रोष्यति तदा सद्य। विपद्येतेति भावः ।
प्रियम्वदा—शकुन्तलाया एतन्निवेदनं सर्वथानुचितमिति दृष्टान्तमुखेन प्रियम्वदा प्राह—कः जनो नाम उष्णोदकेन द्रव्यं = तप्तं यदुदकं = जलमिति उष्णोदकं तेन उष्णो-दकेन = तप्तजलेन नवमालिकाम् = नवमालतीलताम् सिञ्चति = रक्षति भूतस्य शकुन्तला-परिणयस्य भविष्यतः शापादिवृत्तान्तस्य च सूचकत्वादयं विष्कम्भको नानार्थोपक्षेपकः शुद्धश्च प्राकृतभाषि सखीद्वयप्रयुक्तत्वात् समाप्त इति ।
( इति = एवमुक्त्वा उभे = द्वे निष्क्रान्ते = निर्गते )
प्रियम्वदा—( देखकर ) हे अनसूये ! देख तो यह प्रियसखी शकुन्तला अपने बायें हाथ की हथेली पर अपना गाल रख कर चित्रलिखित सी होकर अपने प्यारे के चिन्तन में ऐसी तल्लीन हो रही है कि अपने को भी यह नहीं जान रही है, तब अतिथि की तो भला बात ही क्या है ?
अनसूया—हे सखि प्रियम्वदे ! दुर्वासा के शाप की यह बात मेरे और तेरे मन में ही रहनी चाहिए, क्योंकि स्वभाव से ही अत्यन्त कोमल स्वभाव वाली इस शकुन्तला की रक्षा भी तो हमें करनी है ।
प्रियम्वदा—ठीक है, भला ऐसा कौन होगा जो नेवारी के कोमल पौधे को गर्म जल से सींचेगा ? ( यह विचार कर दोनों चली जाती है )
विशेष—दुर्वासा मुनि का शाप शकुन्तला को सुनना तथा नेवारी के पौधे में गर्म जल देना
चतुर्थोऽङ्कः १७३
^१विष्कम्भः ।
( ततः प्रविशति सुप्तोत्थितः शिष्यः )
शिष्यः--वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि—
यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।
उष्णोदकेन नवमालिकायाः सेचनमिव शकुन्तलाया एतद्वृत्तान्तनिवेदनमिति को वा सचेता तत् कुर्यात् । एतेन तां प्रति शापकथनमत्यन्तममुचितमिति आविष्कृतः । अतस्त्वया न भेत्तव्यम् । इति भावः ।
अथ कुलपतेः कण्वस्य प्रवासात् प्रत्यागमनं सूचयितुं शिष्यस्य प्रवेशमाह—( ततः = सखीद्वयनिर्गमनानन्तरं सुप्तं = स्वापः तस्मादुत्थितः सुप्तोत्थितः यद्वा आदौ सुप्तः पश्चादुत्थित इति सुप्तोत्थितः = स्वापानन्तरं प्रबुद्धः गुरुशुश्रूषां निर्वत्यं तदादेशेन नक्षत्रनिरीक्षणाय निर्गतः निद्रा निर्घूर्णितलोचनः शिष्यः = कण्वस्यान्तेवासी प्रविशति = रङ्गमञ्चे दृश्यते ) ।
शिष्यः--प्रविशत्यस्मिन्निति प्रवासो विदेशः तस्मात् प्रवासात् = यात्रतः प्रतिनिवृत्तेन = उपावृत्तेन सोमतीर्थात् आगतेन तत्रभवता = पूज्येन काश्यपेन = कश्यपगोत्रोत्पन्नेन कुलपतिना वेलायाः = समयस्य उपलक्षणार्थं = नक्षत्रैरुपलक्ष्यज्ञानार्थं = समयपरिज्ञानार्थम् आदिष्टः = आज्ञापितोऽस्मि । प्रकाशं = वृक्षादिना अनावृतं निरावरणं प्रदेशं निर्गतः = निष्क्रान्तः आवरणरहिते स्थाने स्थितः तावत् अवलोकयामि = अवगच्छामि, पश्यामि यत् रजन्याः = रात्र्याः कियत् = किंपरिमाणम् अवशिष्टं = निशाया कियान् भागः अवशिष्टः, इति ( परिक्रम्य = किञ्चिच्चलित्वा अवलोक्य = दृष्ट्वा च ) हन्त = खेदे अहो, प्रभातं-प्रकृष्टं मातम् = अवलोको यस्मिन्निति प्रभातम् = प्रातर्जातम् ।
अन्वयः—एकतः ओषधीनां पतिः अस्तशिखरं याति एकतः अरुणपुरःसरः अर्कः आविष्कृतः : लोकः तेजोद्वयस्य युगपत् व्यसनोदयाभ्याम् आत्मदशान्तरेषु नियम्यते इव ।
सोमतीर्थयात्रतः प्रतिनिवृत्य समयज्ञानार्थमादिष्टः कुलपते कण्वस्य शिष्यः गगन-
दोनों बराबर है, क्योंकि नेवारी अत्यन्त कोमल होती है। अतः उसके पौधे में गरम पानी से सींचने मे वह तत्काल मुर्झा जाती है। इसी प्रकार स्वभावतः सुकुमारी शकुन्तला भी शाप की बात को सुनकर व्याकुल हो जायेगी तथा संभवतः प्राणत्याग भी कर सकती हैं। इसलिए दोनों सखियों ने शाप की बात को अपने तक ही सीमित रखा ।
विष्कम्भ = इधर-उधर की बातों की आवश्यक सूचना देना भूत शकुन्तला परिणय और भावी दुर्वासा के शाप की सूचना देने के कारण यह विष्कम्भ नानार्थोपेक्षेपक तथा शुद्ध है ।
( इसके बाद सोकर उठे हुए कण्व के शिष्य का प्रवेश )
शिष्य—प्रवास = यात्रा से लौटकर आये हुए कुलपति गुरुवर जी मुझे समय जानने के लिए आज्ञा दी है ? अतः बाहर निकल कर देखूँ कि रात कितनी बाकी है ? ( कुछ चल कर आकाश की ओर देख कर ) ओह, रात तो बीत चुकी है, अब सबेरा होना ही चाहता हैं, क्योंकि देखो—
एक ओर पश्चिम में तो ओषधियों के पोषक स्वामी भगवान् चन्द्रमा अस्ताचल पर जा रहे हैं
पाठ०—१. प्रवेशकः ।
१७४ अभिज्ञानशाकुन्तलम्
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां लोको नियम्यत ^१इवात्मदशान्तरेषु ॥ २ ॥
अपिच—
अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ ३ ॥
मण्डलमवलोकयन् ब्रवीति–यात्येकत इति । एकतः = एकस्यां दिशि, पश्चिमदिग्भागे ओषधीनां = वनस्पतीनां, तृणज्योतीषां पतिः स्वामी, चन्द्रः अस्तशिखरं = अस्ताचलाग्रं याति, अस्तं गच्छति । एकतः = अपरस्यां पूर्वस्यां दिशि अरुणः = अनूरुर्विनतापुत्रः पुरःसरः = अग्रयायी यस्यासौ अरुणपुरःसरः = अरुणसारथिः अर्कः = सूर्यः आविष्कृतः = उदगच्छति । लोकः = जगतः स्थैर्यस्थैर्यविवेकरहितो जनः तेजोद्वयस्य = चन्द्रस्य सूर्यस्य च युगपत् = समकालम् व्यसनोदयाभ्यां, = सङ्कटसमुन्नतिभ्यां, सम्पद्विपद्भ्यां आत्मदशान्तरेषु = सुखदुःखात्मस्वदशाविशेषेषु नियम्यते इव = सुखदुःखयोरनिय तत्वात्तयोः प्राप्तौ हर्षशोकावनुचिताविति शिक्ष्यते इव । तथा च समस्तप्रपञ्चप्रवर्तकयोः सोमसूर्ययोरपि एकस्य आपत्, अन्यस्य सम्पत्, एकस्य सम्पत्तिः, अपरस्य च विपत्तिः इति पर्यायेण प्रवर्तमानयोरापत्संपदो हर्षशोकाभ्यां वैवश्यं मा भूदिति दैवेन उपदिश्यते इवेति । स्वस्वविपत्तिसम्पत्तिदशयोः न केनापि दुःखहर्षौ कार्याविति भावः । अत्र समासोक्ति-तुल्ययोगितोत्प्रेक्षा-निदर्शनाद्यलङ्काराः वसन्ततिलका छन्दश्च ॥ २ ॥
अथ प्रासङ्गिकचन्द्रवृत्तान्तद्वारा प्रस्तुतम्अर्थं स्फुटीकुर्वन्नाह–अपि च-अन्तर्हित इति ।
अन्वयः— शशिनि अन्तर्हिते (सति) सैव कुमुद्वती संस्मरणीयशोभा (सती) मे दृष्टिं न नन्दयति, अबलाजनस्य इष्टप्रवासजनितानि दुःखानि अतिमात्रसुदुःसहानि नूनं भवन्ति ।
प्रासङ्गिकचन्द्रवृत्तान्त-द्वारा प्रस्तुतम्अर्थं स्पष्टीकुर्वाणः कण्वशिष्यः कथयति— अन्तर्हिते इति । शशिनि = राकाशशाङ्के पूर्णचन्द्रे अन्तर्हिते = अस्तं याते सति सैव कुमु-
दूसरी ओर पूर्व दिशा में भगवान् भास्कर सूर्य अब उगना ही चाहते हैं। इस प्रकार एक ही साथ दो तेजों मण्डलों के उत्थान और पतन होने से इस संसार को भी नाना प्रकार की सूचना प्राप्त हो रही है ॥ २ ॥
विशेष— यहाँ एक ओर चन्द्रमा का अस्त होना = पतन और दूसरी ओर सूर्य का उदय = अभ्युदय हो रहा है। इसी प्रकार इस विश्व में भी एक का अधःपात होता है तो वह रोता है उसी समय दूसरे का अभ्युदय होता है तो वह हँसता है, यही संसार की दशा है। सूर्य-चन्द्रमा के दृष्टान्त में इसी दशा को सूचित करना कवि का लक्ष्य है। जब विश्व के नियन्ता ये दोनों तेज व्यसन एवं उदय के वश में हैं तो साधारण मनुष्यों की क्या गति है?
और भी— चन्द्रमा के अन्तर्हित = अस्त होते ही वही कुमुदिनी है, जो चन्द्रमा के रहते विश्वसित रह कर हृदय को आनन्द देती थी, अब उसकी शोभा केवल याद करने की बात रह गयी है, ठीक ही
पाठा—१. इवैष दशान्तरेषु।
चतुर्थोऽङ्कः
१७५
( प्रविश्यापटीक्षेपेण )
अनसूया—जइ वि णाम विसअपरम्मुहस्स वि जणस्स इदं ण विदिअं तह वि तेण रण्णा सउंदलाए अणज्जं आअरिदं [ यद्यपि नाम विषयपराङ्मुखस्यापि जनस्यै-तन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् ] ।
द्वती = पूर्वमभिनन्दित-सौन्दर्यसौभाग्यातिशया कुमुदिनी संस्मरणीया = संस्मरणमात्रेणा-नुभवितुं योग्या अदृश्या शोभा = सुषमा सुन्दरता यस्याः सा संस्मरणीयशोभा=स्मरणीय-शोभातिशयसौभाग्या सती मे = मम दृष्टि = लोचनं न नन्दयति = न हर्षयति । चन्द्रे सन्निहिते लोचनलोभनीयसौन्दर्यापि कुमुदनी तस्मिन्नस्तं प्रयाते व्यवहिते सति नष्टसुषमा-सौभाग्या सती लोचनयोर्हर्षं न जनयतीत्याशयः । अबलाजनस्य = स्त्रीजनस्य इष्टस्य = प्रियस्य प्रवासेन = दूरदेशवासेन जनितानि = उत्पादितानि, स्वप्रियविप्रयोगसम-द्भूतानि दुःखानि = कष्टानि अतिमात्रं = अत्यर्थं सुदुःसहानि = दुःखेनोद्वहनीयानि इति अतिमात्रसुदुःसहानि कष्टेन सोढव्यानि नूनं = निश्चयेन भवन्ति = जायन्ते ।
अयं भावः—या कुमुदिनी निजसहचरशशिसन्निधाने प्रफुल्लितपुष्पा सती रसि, कानां हृदयेषु परमानन्दं समुत्पादयति । सैव कुमुद्वती शशिनोऽस्तंगमनात् अत्यन्तं दुःखिता सती परित्यक्ताङ्गसंस्काराभरणा वनितेव विगतसुषमा न लोचानानन्दं जनयति, यतो हि प्रियप्रवासजन्या पीडा स्वभावतः सुकुमारीणां नारीणां नूनं सुदुःसहा भवति । अत्र कुमुदनीतुल्या शकुन्तला, चन्द्रतुल्यो राजा दुष्यन्तो, बोद्धव्यः—इति गूढोऽर्थः ।
अर्थान्तरन्यास-समासोक्ति-काव्यलिङ्गाद्यलङ्कारा वसन्तलिका वृत्तं च ॥ ३ ॥
पूर्वोक्तशिष्यवचनश्रवणानन्तरं प्रबुद्धाः अनसूया ( अपटीक्षेपेण = जवनिकां विनैव प्रविश्य = रङ्गमञ्चे उपस्थाय ) 'अपटी काण्डपटिका प्रतिसीरा जवनिका तिरस्करणी' इति हलायुधः ।
यद्यपि असूचितस्य पात्रस्य नाटके प्रवेशोऽनुचितः तथापि'पटीक्षेपेण कर्तव्यमातंराज-प्रवेशनम्' इत्युक्तेः शकुन्तलाया दुःखातिशयेन प्रभातकालिककार्यत्वरया चातर्या अन-सूयायास्तथा प्रवेशो नानुचितः । कैश्चित्तु पटीक्षेपो न कर्तव्य आतंराजप्रवेशने' इति पाठान्तरं कुर्वद्भिः अपटीक्षेपेणेत्यस्य जवनिकानपसारणेनेवेत्यर्थः क्रियते ।
अनसूया—अथ तथा प्रविष्टा प्रियसख्याः शकुन्तलाया वियोगदुःखं तन्निदानभूतां राजकर्तृकामुपेक्षां विचिन्तयन्ती दूयमानचेताः चिन्तातिरेकेण जागरणेनैव निशां नयन्ती कस्यांचित् रात्रौ कथमपि निद्रामवाप्य प्रभाते प्रबुद्धा तत्समये पूर्वोक्तं कण्वशिष्योक्तं वचनमाकर्ण्य पुनः समुद्बुद्धचिन्तासंस्कारदुःखिता सर्वस्यास्य क्लेशस्य निदानं राजा
अबलाजनों के लिए अपने प्रिय के वियोग से जनित दुःख को सहन करना बड़ा ही कठिन होता है । ठीक ही हैं, प्रिय के वियोग में स्त्रियों की यही दशा होती है ॥ ३ ॥
विशेष—कुमुदिनी का फूल चन्द्रमा को देखकर रात में विकसित होता है तथा चन्द्रमा के अस्त होते ही दिन में वह संकुचित हो जाता है जिससे उसकी शोभा चली जाती है । यही हाल शकुन्तला का भी है जो प्रिय दुष्यन्त के वियोग से ऐसी हो रही है ।
अनसूया—( बीच में ही पर्दा उठा प्रविष्ट होकर ) यद्यपि विषयों से स्वभावतः विमुख सरल स्वभाव तपस्वियों को यह सब प्रेम का व्यवहार विदित नहीं है तथापि निर्विवाद है कि उस राजर्षि ने शकुन्तला के प्रति अनुचित आचरण किया है ।
१७६ | अभिज्ञानशाकुन्तलम्
शिष्यः—यावदुपस्थितां होमवेलां गुरवे निवेदयामि। (इति निष्क्रान्तः)
अनसूया—पडिबुद्धा वि किं करिस्सं। ण मे उइदेसु वि णिअकरणिज्जेसु हत्थपाआ पसरंति। कामो दाणिं सकामो होदु। जेण असच्चसंधे जणे सुण्णहिअ-आ सही पदं कारिदा। अहवा, दुव्वाससो कोवो एसो विआरेदि। अण्णहा कहं सो राएसी तारिसाणि मंतिअ एत्तिअस्स कालस्स लेहमेत्तं वि ण विसज्जेदि। ता इदो अहिण्णाणं अंगुलीअअं से विसज्जेम। दुक्खसीले तवस्सिजणे को अब्भत्थीअदु। णं सहीगामी दोसो त्ति व्ववसिदा वि ण पारेमि, पवासपरिणिउत्तस्स तादकस्सवस्स दुस्संतरपणीदं आवण्णसत्तं सउंदलं णिवेदितुं इत्थंगए अम्हेहि किं करणिज्जं। [ प्रतिबुद्धापि किं करिष्ये न म उचितेष्वपि निजकार्ये हस्तपादं प्रसरति। काम इदानीं सकामो भवतु। येनासत्यसंधे जने शून्यहृदया सखी पदं कारिता। अथवा, दुर्वाससः कोप
दुष्यन्त एवेति निश्चिन्वाना अनसूया तस्मिन् रोषपूर्वकमाह—यद्यपि = यदपि नाम संभा-वनायाम् विषयेभ्यो = शब्दस्पर्शादिभ्यः पराङ्मुखस्य = विमुखस्यापि जनस्य = व्यक्तेः, विषयविरतस्य जनस्य एतत् = इदं प्रेम विषयिजनवृत्तम् विदितं = न ज्ञात तथापि = तदपि तेन = राज्ञा दुष्यन्तेन तथा प्रतिज्ञाय शकुन्तलायां = शकुन्तलाविषये न आर्यमनायं अनुचिताचरितम् असज्जनोचितम् अनुष्ठितम्। तेन राज्ञा तथाप्रतिज्ञाय स्वपुरं गत्वा शकुन्तलायाः स्मरणमपि न कृतमितीदमनार्यजनजुष्टं क्रियते इत्यर्थः। यद्वा विषयपराङ्मुखस्य मद्विधस्य जनस्य एतत् विषयिजनवृत्तं न विदितमित्यर्थयोजना कर्तव्या। तथाहि यद्यपि विषयपराङ्मुखी अहं सामान्यतो विषयजनवृत्तान्तं न जानामि तथापि तेन राज्ञा तथा प्रतिज्ञाय स्वराजधानीमुपस्थाय शकुन्तलायाः स्मरणमपि न क्रियते इत्यनार्यमाचरितं जानामीति भावः।
शिष्यः—स्वकर्तव्यमनुसन्दधानः शिष्यः प्राह—यावत् = वाक्यालङ्कारे उपस्थितां = प्राप्ताम्, होमवेलां = हवनकालं गुरवे = आचार्याय कणवाय निवेदयामि = सूचयामि। (इति = एवमुक्त्वा निष्क्रान्तः = रङ्ङ्भूमितो निर्गतः) इदं शिष्य प्रवेशकलनं महर्षेः कण्वस्य सोमतीर्थात् प्रत्यागमनसूचनार्थम्, अनसूयावचनावकाशदानार्थं च।
अनसूया—प्रतिबुद्धा = त्यक्तनिद्रा, जागरिता अपि, किं करिष्ये = किं विधास्ये, सुप्तेव किमपि कर्तुं न प्रमवामीत्यर्थः। उचितेष्वपि = अभ्यर्थेषु समीचीनेष्वपि निजकार्येषु = स्वशरीरकार्येषु गृहकार्येषु च मे = मम हस्तौ च पादौ चेति हस्तपादं = करचरणं न प्रसरति = न चलति। मम हस्तौ पादौ च स्वोचिते कार्ये व्यापारं कर्तुं न प्रभवत इत्यर्थं कामः = हिताहितविचारसाहित्येन प्रवर्तनशीलः स्मरः इदानीं सख्याविरहदशायाम् सकामः = सफलमनोरथः भवतु = जायताम्। अनुरक्तयोरमात्ययोः परस्परं वियोग एव
शिष्य—जरा गुरुजी को बता दूँ कि होम का समय हो गया है। (बाहर जाता है)
अनसूया—अब तो सबेरा हो गया। अतः जल्दी शय्या से उठी हूँ जल्दी उठकर ही क्या करूँगी? चिन्ता के कारण आवश्यकीय प्रभातिक कृत्य—स्नान, ध्यान, जप, तप, पूजा, पाठ, गृह मार्जन आदि ने भी हाथ पाँव नहीं पसरते। अब उस निर्दय कामदेव की इच्छा तो पूरी हुई जिसने ऐसे झूठे मिथ्या प्रतिज्ञावाले पुरुष राजा दुष्यन्त में शुद्धहृदया सखी शकुन्तला का मन आसक्त=अनुरक्त कर दिया है। (कुछ स्मरण करके) अथवा उस धर्मात्मा राजर्षि दुष्यन्त का भी इसमें
चतुर्थोऽङ्कः १७७
एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावत्कालस्य लेखमात्रमपि न विसृजति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गतेऽस्माभिः किं करणीयम् ] ।
कामस्याभिमतः सम्प्रति दुष्यन्तस्यापेक्षया तेन शकुन्तलाया वियोगं सम्पाद्य पूर्णमनोरथो भवेदित्यर्थः । येन = यद्द्वारा असत्यसन्धे-सत्या सन्धा = प्रतिज्ञा यस्य स सत्यसन्धः'न सत्यसन्धः असत्यसन्धः तस्मिन् असत्यसन्धे = मिथ्याप्रतिज्ञे जने = जनस्य विषये शून्यहृदया-शून्यं = रिक्तं हृदयं = आन्तरं यस्या सा शून्यहृदया = वञ्चनाशून्यहृदया सखी पदं कारिता = स्थानं लम्मिता, अवतारिता ( स्मृत्वा ) अथवा = यद्वा नात्र कामस्य राज्ञो वा दोषः, अपितु दुर्वाससः एष कोपः = क्रोधस्तज्जन्यशापः एव विकारयति = अन्यथा कारयति । अन्यथा = नो चेत् स राजर्षिः = दुष्यन्तः कथं = केन प्रकारेण तादृशानि = तत्प्रकाराणि वचनानि मन्त्रयित्वा = कथयित्वा एतावत्कालस्य = एतावन्तं कालमभिव्याप्य लेखमात्रं = केवलं लेखपत्रमपि न विसृजति = दूतद्वारा न प्रेषयति । तस्मात् शापहेतुकमेवेदं विस्मरणमिति तर्कयामोत्यर्थः । ( विचिन्त्य ) तत् = तर्हि इतः = अस्मात् स्थानात् अभिज्ञानं = परिचयचिह्नम्-अङ्गुलीयकं = मुद्रिकाम् तस्य = तं प्रति विसृजावः = प्रेषयावः ।
अभिज्ञानाङ्गुलीयकस्य विसर्जने विश्वस्तस्य प्रेष्यस्याभावं निरूपयन्ती सविषादमाह- दुःखशीले = तपःक्लेशशीले यमनियमव्रतोपवासादिनियमपरायणे शृङ्गारकथाऽयोग्ये विषयविरसे तपस्विजने = तपस्विजनमध्ये को नु तपस्वी-अभ्यर्थयेताम् = प्रार्थ्यताम् कं प्रेषयावः, न कोऽपि प्रेषणयोग्य इत्याशयः । ननु संभावनायां सखीगामी = शकुन्तलासम्बद्धः दोषः = गुरुजनानुज्ञां विना स्वातन्त्र्येण राज्ञा सह गान्धर्वविवाहक्स्य लक्षणोऽपराधः, यद्वा कथमियं पूर्वापरानुसन्धानमन्तरा तस्मै खलु अपरिचिताय दुष्यन्ताय आत्मानं
कोई दोष नहीं है। यह तो दुर्वासा का ही प्रभाव प्रतीत हो रहा है जो वह राजा शकुन्तला को भी भूल गया हैं और बुलाना तो दूर रहा, बात तक वह नहीं कर रहा है। अन्यथा वह राजर्षि दुष्यन्त अनेक प्रकार की लम्बी-चौड़ी प्रतिज्ञायें करके तथा शकुन्तला को बड़ी-बड़ी आशायें दिला कर अब इतने दिन बीत गये पर कुशल-क्षेम की बात चिट्ठी-पत्री, सन्देश भी दूत के द्वारा भेज सकता था ? (पुनः कुछ विचार कर) तो क्या, यहाँ उस राजनामाङ्कित अंगूठी को ही परिचय के रूप में राजा के पास भेजा जाय ? अथवा तपोनिष्ठ, व्रत, नियम आदि के नानाविध कष्टों को सहन करने वाले इन दुखिया तपस्वी के बीच में से किसी को भेजने को कहे, किसको वहाँ भेजे ? तथा यह तो सखी का दोष है। इसलिए इसे किसी से कहने में भी हम असमर्थ हैं। और इसी कारण सोमतीर्थ की यात्रा से लौटकर आये हुए पिता कण्वजी से भी शकुन्तला-दुष्यन्त का गन्धर्व विधि से विवाह हो गया है तथा शकुन्तला गर्भवती हो गई है—इस बात को कहने में हम असमर्थ हैं। अतः कुछ समझ में नहीं आता कि हमें इस प्रसंग में अब क्या करना चाहिए ?
विशेष—अनसूया को विशेष चिन्ता इस बात की है कि आज राजा दुष्यन्त को गये कितने दिन बीत गये, पर उन्होंने लम्बी-लम्बी दिलासा दिलाकर जाने पर न तो कोई पत्रादि भेजा
12 १२ शाकु०
१७८ अभिज्ञानशाकुन्तलम्
( प्रविश्य )
प्रियंवदा—( सहर्षम् ) सहि तुवर सउंदलाए पत्थाणकोदुअं निब्बत्तितुं [ सखि, त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निर्वर्तयितुम् ] ।
अनसूया—सहि कहं एदं ] सखि कथमेतत् ]
प्रियंवदा—सुणाहि दाणिं सुहसइदपुच्छिआ सउंदलासआसं गदम्हि, तदो जाव एणं लज्जावणदमुहिं परस्सजिअ तादकस्सवेण एव्वं अहिणंदिदं दिट्ठिआ धुमाउ-लिददिट्ठिणो वि जअमाणस्स पाअए एव्व आहुदी पडिदा। वच्छे सुसिस्सपरिदिण्णा विज्जा विअ असोअणिज्जा संवृत्ता । अज्ज एव्व इसिरक्खिदं तुमं भत्तुणो सआसं विसज्जेमित्ति [ शृणु इदानीं सुखशयनपृच्छिका शकुन्तलासकाशं गतास्मि । ततो याव-
समर्पितवतीति शकुन्तलागतोऽयं दोषः । इति हेतोः व्यवसितापि = बहुशः कथनार्थं कृतनिश्चयापि प्रवासात् सोमतीर्थात् प्रतिनिवृत्तस्य आगतस्य तातकण्वस्य दुष्यन्तपरिणीतां दुष्यन्तेन गान्धर्वविधिना विवाहितां अत एवापन्नसत्त्वां = गर्भिणीं शकुन्तलां निवेदयितुं = कथयितुं न पारयामि लज्जया, शङ्कया च वक्तुं न शक्नोमि, इत्थं गते = एवम्प्रकारायाम-वस्थायां प्राप्तायाम् अस्माभिः किं करणीयम् = किं कर्तुमुचितमिति प्रतिमूढाऽस्मीति भावः ।
अथ कथा संघटनाय प्रियम्वदाप्रवेशः ( प्रविश्य = रङ्गभूमि आगत्य ) ।
प्रियंवदा—( सहर्षम् = सानन्दम् ) हे सखि ! = हे आलि ! शकुन्तलायाः = प्रियसख्याः प्रस्थानकौतुकं = पतिगृहगमनस्य माङ्गलिकं कृत्यम् निर्वर्तयितुं = सम्पादयितुं त्वरस्व = त्वरया आगच्छ, शीघ्रतां कुरु, पतिगृहप्रस्थानकाले कर्तुमुचितं पारम्पर्यगतं मङ्गलकर्म प्रस्थानकौतुकमुच्यते । तथाहि हैमे—
'कौतुकं नर्मणीच्छायामुत्सवे कुतुके यदि । पारम्पर्यागतरख्यात मङ्गलोद्वाहसूत्रयोः ॥'
अनसूया—सखि कथमेतत् = हे आलि ! कुतः समागतं प्रस्थानकौतुकम् एतत् । सखि ! अद्भुतमेवेदं मे प्रतिभाति, कथमेतत् संवृत्तं ? तत्प्रकारं कथयेति भावः ।
प्रियम्वदा—सखि ! शृणु = आकर्णय इदानीम् = अधुनैव सुखशयनपृच्छिका सुखिनः शयनं सुखशयनं रात्रौ सुखशयनं जातमिति या पृच्छतीति सुखशयनपृच्छिका गतास्मि =
न सन्देशवाहक ही पठाया, क्या दुर्वासा का शाप तो नहीं काम कर रहा है ? किसी विषयविमुख तपस्वी को भेजना भी ठीक नहीं, एक तो नियम पालन करने में लगे हुए हैं, दूसरी बात यह है कि वे नियम भंगकर दूत का कार्य करना स्वीकार भी नहीं कर सकते हैं। और सोमतीर्थ से लौटकर यहाँ उपस्थित पिता कण्वजी शकुन्तला का दुष्यन्त के साथ गान्धर्व-विवाह सुनकर क्या कहेंगे ? इसलिए बहुत सबेरे उठकर मैं क्या करूँ ? हाथ-पैर नहीं पसरता है। प्रातःकालीन कृत्यों में मन नहीं लगता, क्या करूँ, यह विचार में नहीं आता। इस प्रकार एक सखी का दूसरी सखी की ममता से व्यग्र होना सराहनीय है। अनसूया बड़ी गम्भीर है, शकुन्तला की चिन्ता उसे हमेशा बनी रहती है।
प्रियम्वदा—( प्रवेश कर हर्ष के साथ ) हे सखि ! अनसूये ! शकुन्तला की विदाई के माङ्गलिक कार्य निपटाने के लिए जल्दी करो।
अनसूया—सखी यह कैसे ?
प्रियम्वदा—सुनो, अभी-अभी “सुखपूर्वक सोई तो ?” यह पूछने के लिए मैं गई तो वहाँ अवनतमुखी शकुन्तला को छाती से लगाकर पिता कण्व ने उसके विवाह की बात को भी अभिनन्दित
चतुर्थोऽङ्कः १७९
देनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनेवमभिनन्दितम् दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता। वत्से सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता। अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामि इति ] ।
अनसूया—अह केण सूइदो तादकस्सवस्स वुत्तंतो [ अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ] ।
प्रियंवदा—अग्निसरणं पविट्ठस्स सरीरं विणा छंदोमईए वाकिआए [ अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमयी वाण्या ] । ( संस्कृतमाश्रित्य )
प्रातः सुखशयनं प्रष्टुं गताऽऽसमहं शकुन्तलासकाशं = शकुन्तलासमीपे । ततः = तदनन्तरं यावदैव लज्जया = त्रपया अवनतं = नम्रं मुखं = आननं यस्या सा तां लज्जावनतमुखीम्-व्रीडानम्रवदनां एनां = इमां शकुन्तलाम् परिष्वज्य = आलिङ्ग्य च तातकाश्यपेन कश्यपगोत्रोत्पन्नेन महर्षिणा कण्वेन एवं = इत्थं अभिनन्दितं = अनुमोदितम् । तत्कृतं स्वेच्छाविवाहकर्मप्रशंसितम् । दृष्ट्या = सौभाग्येन धूमाकुलितदृष्टेः = धूमेन आकुलिता दृष्टिर्यस्येति धूमाकुलितदृष्टिः तस्य तादृशस्य=आज्यधूमोपहृतदर्शनशक्तेः यजमानस्य=होतुः तव पावके एव = अग्नावेव, नान्यत्र आहुतिः =पतिता = उपहृता । कामबशीभूतयाऽपित्वया योग्ये पात्रे एवात्मा समर्पित इत्याशयः । सुशिष्यः = शोभनोऽन्तेवासी तस्मै परिदत्ता = वितरिता इति सुशिष्यपरिदत्ता = योग्यशिष्यसमर्पिता विद्या = शिक्षा इव यथा अशोचनीया = शोचयितुं न योग्या शोकानर्हा संवृत्ता = जाताऽसि । दुष्यन्तहस्तगतत्वेन शोचनीयतां गतेत्याशयः । अशोच्या हि पितुः कन्या सदभर्तृप्रतिपादिता । शोच्यता हि कन्याया अपात्रे प्रदानाद् भवति । अन्येन तस्याः कृतकृत्यता ध्वनिता गान्धर्वे विवाहे स्वानुमतिश्च स्फुटं प्रदर्शिता ।
कन्यायाः पितृगृहावस्थानस्यानौचित्यमाकलयन्नाह—अद्यैवेति । अद्यैव = अस्मिन्नेवाहनि ऋषिभिः=मुनिभिः शारङ्गरवादिभिः रक्षितां रक्ष्यमाणां तत्सहायां त्वां = भवतीम् भर्तुः = पत्युः सकाशं = समीपम् विसर्जयामि = प्रेषयामि । प्रहिणोमि इति = एवं तातकण्वेन शकुन्तलाकृतमभिनन्दितम् ।
अनसूया—अथ = ननु केन = केन जनेन सूचितः = आख्यातः विज्ञापितः तातकाश्यपस्य = पितरं कण्वं प्रति वृत्तान्तः = शकुन्तलापरिणयात्मकोदन्तः ?
प्रियम्बदा—अग्निशरणं = अग्न्यगारं अग्निगृहम्, यज्ञशालाम् प्रविष्टस्य = अन्त-
किया कि, “हे वत्से ! बड़े हर्ष की बात है, कि धूएँ से अवरुद्ध दृष्टि वाले यजमान के हाथ से भी छोड़ी हुई आहुति सौभाग्यवश अग्नि के मुख में ही पड़ी अर्थात् कामोपहित होकर भी मैंने अपने को योग्य वर राजर्षि दुष्यन्त के ही हाथ में सौंपा है। अस्तु, जिस प्रकार योग्य शिष्य को दी हुई विद्या अशोचनीय होती है उसी प्रकार योग्य पुरुष के हाथ में तू गई है। इसलिए अब तेरे विषय में कुछ भी चिन्ता नहीं है। और आज ही मैं तुझको ऋषियों की रक्षा में देकर तेरे पति राजा दुष्यन्त के घर पर भेजता हूँ।”
अनसूया—अच्छा, तो सखी, शकुन्तला के विवाह की बात किसने पिता जी से बता दी ?
प्रियंवदा—पिताजी सुबह जब हवन करने के लिए अग्निशाला में प्रविष्ट हुए तब अशरीरिणी छन्दोमयी आकाशवाणी ने ही यह बात कह दी ।
( संस्कृतभाषा में श्लोकबद्ध पद्य के रूप में )
१८० अभिज्ञानशाकुन्तलम्
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥ ३ ॥
गंतस्य, प्रविष्टं तातं प्रति शरीरं = देहं बिना शरीररहितया छन्दोमया=पद्यबद्धया, श्लोकमन्त्रमय्या, वाण्या = आकाशवाण्या संस्कृतं=देवभाषां आश्रित्य=प्रयुज्य सूचितो वृत्तान्तः।
**विशेषः--**अत्राशरीरिण्या वाण्या अनुवादः, यथास्थितस्यैवानुवादः स च संस्कृतमन्तरेण न सम्भवतीति संस्कृताश्रयणम्। तथा चोक्तम्—
'योज्यं विदूषकोन्मत्त बालतापसयोषिताम्।
नीचानां पण्डकानां च नीचग्रहविकारिणाम् ॥
विद्वद्भिः प्राकृतं कार्यकरणात् संस्कृतं क्वचित् ।'
अशरीरिण्या वाचः स्वरूपमाह—दुष्यन्तेनेति।
**अन्वयः—**हे ब्रह्मन् ! भुवः भूतये दुष्यन्तेन आहितं तेजः तनयाम् अग्निगर्भा शमीमिव अवेहि ।
अग्निशालां प्रविष्टस्य कुलपतेः कण्वस्य व्योमवाचा यदुदीरितं तदेव ब्रूते प्रियम्वदा—दुष्यन्तेनेति । हे ब्रह्मन् ! = हे महर्षे कण्व ! भुवः = पृथिव्याः भूतये = ऐश्वर्याय, अभ्युदयाय, भूमण्डलहिताय दुष्यन्तेन =तन्नाम्ना राजर्षिणा आहितं = निषिक्तं तेजः = वह्निरूपं धाम वीर्यं गर्भं दधानां = धारयन्तीं, तनयां तनोति = विस्तरति कुलमिति तनयां तां तनयां = स्वपुत्रीं स्वभर्तृकुलवृद्धिहेतुभूतां धर्मकन्यां शकुन्तलाम् अग्निगर्भा = अग्निः गर्भे अन्तः गर्भमध्ये वा यस्याः सा अग्निगर्भा तामग्निगर्भा = अनलान्तरां अवेहि = त्वं जानीहि शमीं = दुःखशमनीम् शमीवृक्षम् इव = यथा ।
**अयं भावः—**यज्ञशालां प्रविष्टं कुलपतिं कण्वं प्रति पद्यबद्धया आकाशवाण्या सूचितमर्थं विवृण्वती प्रियम्वदा अनुवदति—ब्रह्मन् ! अखिलभूमण्डलस्य कल्याणाय राजर्षिणा दुष्यन्तेन निहितं रेतः 'अष्टानां लोकपालानां मात्राभिर्जायते पुमान्' इत्यनुसारम् अतिशीघ्रं सम्राजं पुमांसमुत्पादयिष्यति अतोऽन्तर्लीनपावकां शमीमिवात्मनं पोष्यपुत्रीं शकुन्तलामवेहि । अर्थात्दियं ते धर्मकन्या शकुन्तला शीघ्रमेव विश्वकल्याणकारिणं चक्रवर्तिनं तनयं जनयिष्यति ॥ ३ ॥
हे ब्रह्मन् ! तुम अपनी पुत्री शकुन्तला को दुष्यन्त के द्वारा प्रजा के कल्याण के लिए अपना तेज = वीर्य इसमें स्थापित कर देने से उसी प्रकार गर्भवती समझो जिस प्रकार अग्नि के तेज से शमी वृक्ष गर्भवान् हो जाता है ॥ ३ ॥
**विशेष—**शमी वृक्ष में अग्नि का निवास रहता है। इसलिए शमीवृक्ष के काष्ठ से अरणि=अग्नि मन्त्रार्थ आधार काष्ठ बनाकर पीपल के डण्डे से उसे मलकर यज्ञ आदि में अग्नि उत्पन्न की जाती है जिसे बहुत ही पवित्र बताते हैं। शमी वृक्ष में अग्नि के निवास के सम्बन्ध में महाभारत में दो पर्वों में दो प्रकार की कथाएँ मिलती हैं—पहली कथा अनुशासन पर्व के १३१ अध्याय के ६९ श्लोक से ४४ तक उपलब्ध होती है। इसके अनुसार अग्नि अपने में भगवान् शङ्कर का तेज मिलने पर न सहकर भगी और जल में जाकर छिपी। वहाँ अपने को सुरक्षित न पाकर शमी में समा गई। बाद वहाँ से देवताओं ने उसे खोज लाया। दूसरी कथा शल्यपर्व के ४८ वें अध्याय में १७-२० श्लोकों में मिलती है। इसमें भी इसी तरह महर्षि भृगु के शाप के भय से भागने और पुनः देवताओं के द्वारा शमी वृक्ष में खोजे जाने का वृत्तान्त है।
तृतीयोऽङ्कः । १८१
अनसूया—( प्रियंवदामाश्लिष्य ) सही पिअं मे किंदु अज्ज एव्व सउंदला णीअ-दित्ति उक्कंठासाधारणं परितोसं अणुहआमि [ सखि; प्रियं मे किन्त्वद्यैव शकुन्तला, नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ] ।
प्रियंवदा—सहि आवां दाव उक्कंठं विनोहइस्सामो । सा तवस्सिणी णिव्वुदा होदु । [ सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता भवतु ] ।
अनसूया—तेण हि एदस्सिं चूदसाहावलंबिदे णारिएरसमुग्गए एतण्णिमित्तं एव्व कालंतरक्खमा णिक्खित्ता मए केसरमालिआ । ता· इमं हत्थसंणिहिदं करेहि । जाव अहं वि से मिअलोअणं तित्थमित्तिअं दुव्वाकिसलअणित्ति मङ्गलसमालभ-णाणि विरएमि [ तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव
अनसूया—( प्रियम्वदामाश्लिष्य = आलिङ्ग्य ) हर्षप्रकर्षमनुभवन्ती अनसूया वदति—सखि प्रियम्वदे ! प्रियं मे = इदं त्वयोक्तं मह्यं प्रियं जातम् । शकुन्तलाया एवं पित्राभिनन्दनं प्रियमपि सम्प्रति मेऽप्रियं जातं शकुन्तलावियोगदुःखप्रदत्वा-दित्यह = किन्तु = परन्तु शकुन्तला अद्यैव = अस्मिन्नहन्येव नीयते = पतिगृहं प्रेष्यते इति उत्कण्ठासाधारणं विरहोत्पन्ना महती वेदना उत्कण्ठा तया सधारणं = समानम् विषाद-सहशं परितोषं = शकुन्तलायाः प्रियसमागमो भविष्यतीत्यानन्दकरं सन्तोषमनुभवामि = प्राप्नोमि ।
प्रियम्वदा—सखि ! = आलि ! आवां = उभौ तावत् = तु उत्कण्ठां = विषादं विनोद-यिष्यावः = परिहरिष्यावः, केनाप्युपायेन नेष्यावः । सा = शकुन्तला तपस्विनी = प्रिय-विरहेण दीना, अनुकम्पार्हा निर्वृत्ता = भर्तृगृहगमनेन सुखिता भवतु = जायतात् ;
अनसूया—शकुन्तलायाः प्रस्थानकौतुकनिवर्तने त्वरमाणाऽनसूया प्राह—तेन = तर्हि हि = निश्चयेन एतस्मिन् = समीपवर्तिनि चूतशाखावलम्बिते = चूतस्य शाखायामवलम्बिते आम्रविटपाश्रिते नारिकेलस्य = नारिकेलकपालरचिते समुद्गके = सम्पुटके पेटिकायां एतत् = प्रस्थानमङ्गलम् एव निमित्तम् = उद्देश्यं यस्य तत् एतन्निमित्तं शकुन्तलागमनमङ्गल-पर्यन्तं स्वसौरभं यथावदेव धारयन्ती, वकुलमाला पर्युषितापि सौरभं न मुञ्चतीति प्रसिद्धिः । अपरम्लाना, केसरमालिका = वकुलमाला निक्षिप्ता = स्थापिता तिष्ठति
अनसूया—( प्रियम्वदा को छाती से चिपका कर ) अरी प्रिय बोलनेवाली सखि प्रियंवदे ? तूने मुझको यह तो बहुत ही प्रिय बात सुनाई है, किन्तु शकुन्तला आज ही चली जायेगी इस बात से कुछ उत्कण्ठा और उद्वेग भी हो रहा है तथा सन्तोष का अनुभव भो कर रही हूँ।
**विशेष—**उद्वेग तथा सन्तोष दोनों का होना इसलिए है कि शकुन्तला के बिना हमलोगों का मन अब कैसे लगेगा, अतः मन में उद्वेग होना स्वाभाविक है। सन्तोष इसलिए हो रहा है कि अब शकुन्तला अपने पतिगृह में सुख से रहेगी ।
**प्रियम्वदा—**हमलोग तो अपनी उत्कण्ठा = शकुन्तला को देखने को इच्छा को किसी तरह सहन कर लेंगी, पर यह बेचारी अपनी पति के यहाँ जाकर किसी तरह सुखी हो ।
**अनसूया—**ठीक ही है, अच्छा तो तू जा और देख, मैंने उस आम के पेड़ की शाखा में लटकते हुए नारियल के डिब्बे में इसीलिए = शकुन्तला के मङ्गलाचारों में काम आने के लिए कई दिन तक टिकने वाली मौलसरी की माला तथा केसर सावधानी से रखी है। तू इसे कमल के
१८२ अभिज्ञानशाकुन्तलम्
कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसंनिहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ] । प्रियंवदा—तह करोअदु [ तथा क्रियताम् ] । ( अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति ) ( नेपथ्ये ) गोतमि आदिश्यन्तां शार्ङ्गरवशारद्वतमिश्राः शकुन्तलानयनाय । प्रियंवदा—( कर्णं दत्त्वा ) अनसूए तुवरसु एदे खु हत्थिणाउरगामिणो इसीओ सहावीअंति [ अनसूये त्वरस्व, एते खलु हस्तिनापुरगामिन ऋषय आकार्यन्ते ] । ( प्रविश्य समालम्भनहस्ता )
तन्मिमां = मया स्थापितां केसरमालिकाम्, हस्तसन्निहितां करोपस्थितां कुरु = विधेहि । आनयेत्यर्थः । यावत् = तत्रान्तरे अहमपि तस्यै=तदर्थं, शकुन्तलार्थं मृगगोरोचनां = गोरोचनाम् तीर्थमृत्तिकाम् = तीर्थप्रदेशसंभूतां लोहितां मनःशिलादिवत् वर्णकरणोपयुक्तां मृदम् दूर्वाकिसलयानि = उत्साद्यार्थं दूर्वाङ्कुरान् इति = एतद्रूपाणि मङ्गलसंमालम्भनानि = अङ्गरागादीनि मङ्गलालङ्काराणि विरचयामि = एकत्र करोमि ।
प्रियम्बदा—तथा क्रियताम् = तथा = उक्तप्रकारेण विधीयताम् ।
( अनसूया निष्क्रान्ता = निर्गता प्रियम्बदा नाट्येन = अभिनयेन सुमनसो गृह्णाति = पूर्वोक्तस्थलात् केसरमालामादत्ते )
(नेपथ्ये = जवनिकायाम्) ( इयं कण्वोक्तिः ) हे गौतमि ! शारङ्गरवः प्रधानशिष्यः शारङ्गरव-शारद्वतमिश्राः = श्रेष्ठः शारङ्गरवः, शारद्वतश्च, आदिश्यन्ताम् = नियुज्यताम्, आज्ञाप्यन्ताम्, शकुन्तलानयनाय = शकुन्तलाप्रयाणार्थम् अत्र मिश्रशब्दो बहुवचनं पूजायाञ्चास्ति ।
प्रियम्बदा—इमां कण्वोक्तिमाकर्ण्य प्रियम्वदा अनसूयां ब्रवीति ( कर्णं दत्वा ) सखि। अनसूये ! त्वरस्व=शीघ्रतां कुरु, एते=इमे समीपवर्तिनः खलु=निश्चयेन हस्तिनापुरगामिनः = हस्तिनापुरं प्रस्थातुं प्रस्तुताः ऋषयः = शारङ्गरवादयः आकार्यन्ते = तातेन आहूयन्ते ।
( समालम्भनहस्ता = समालम्भनम् अलङ्करणं हस्ते = करे यस्याः साः मङ्गलोपकरणहस्ता कथयति । अनसूया प्रविश्य = रङ्गभूमेरन्तरे आगत्य ) ।
पत्ते पर रख मेरे हाथ के समीप लाओ । तब तक मैं शकुन्तला के मङ्गलाचारों के निमित्त गोरोचन, तीर्थों की मिट्टी, दूब, पञ्चपल्लव तथा माङ्गलिक मेंहदी आदि चीजें इकट्ठी करके लाती हूँ ।
प्रियम्बदा—वैसा ही किया जाय ।
( अनसूया जाती है तथा प्रियम्बदा मौलसरी की माला तथा केसर को कमलिनी के पत्ते पर रखती है )
( नेपथ्य में ) अरी गौतमी, तू जाकर विद्वान् तथा कर्मठ शार्ङ्गरवमिश्र और शारद्वतमिश्र को मेरी आज्ञा सुना दे कि वत्सा शकुन्तला को पतिगृह पहुँचाने जाने के लिए तुम लोग शीघ्र ही तैयार हो जाओ ।
प्रियम्बदा—( कान देकर ) अनसूये, जल्दी कर जल्दी कर, देख शकुन्तला को हस्तिनापुर लें जाने वाले ऋषि लोग बुलाये जा रहे हैं ।
( दूर्वा, रोली, उबटन, अंगराग, मेंहदी, गोरोचन आदि माङ्गलिक वस्तुएँ हाथ में लिये हुए प्रवेश कर )
चतुर्थोऽङ्कः १८३
अनसूया—सहि सहि गच्छम्ह [ सखि एहि गच्छावः ] ( इति परिक्रामतः ) ।
प्रियंवदा—( विलोक्य ) एसा सुज्जोदये एव्व सिहामज्जिदः पडिच्छिदणीवारहत्थाहिं सोत्थिवाअणिकाहिं तावसीहिं अहिणंदीअमाणा सउंदला चिट्ठइ । उवसप्पम्ह णं [ एषा सूर्योदये एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् ] । ( इत्युपसर्पंतः ) ।
( ततः प्रतिशति यथोद्दिष्टव्यापारासनस्था शकुन्तला )
तापसीनामन्यतमा—( शकुन्तलां प्रति ) जादे मत्तुणो बहुमाणसूअअं महादेईसद्दं लहेहि [ जाते भर्तुर्बहुमानसूचकं महादेवी-शब्दं लभस्व ] ।
अनसूया—सखि ! = आलि ! एहि = आगच्छ सह एव गच्छावः ( इति परिक्रामतः ) ।
प्रियंवदा—( विलोक्य ) शकुन्तलामालोक्य प्रियंवदा वदति—एषा = असौ, शकुन्तला सूर्योदये = सूर्यस्याविर्भावे प्रातःकाले एव शिखामज्जिता = शिरःस्नाता शिखामज्जनं स्नानं कारिता सधिरस्कं स्नातेत्यर्थः, अभ्यङ्गस्नानं कारितेति यावत् । प्रतिष्ठिताः = गृहीताः नीवाराः = मुन्यन्नं यैः एवं भूतो = हस्तो = करो यासां ताः ताभिः प्रतिष्ठितनीवारहस्ताभिः = गृहीतनीवाराख्यमङ्गलधान्याभिः स्वस्तिवाचनिकामिः स्वस्ति वाचनम् = आशीर्वादः पारम्पर्येण तदधिकारिणीभिः = मङ्गलशब्दोच्चारणचतुराभिः तापसीभिः = तपस्विंसुवासिनीभिः, अभिनन्द्यमाना = स्तूयमाना, आशीर्भिरनुगृह्यमाना दत्तोत्साहा शकुन्तला तिष्ठति = शकुन्तलाप्रयाणप्रसङ्गात् वृन्दबाहुल्येन दत्ता आशिषः सबहुमानमङ्गीकृत्य तिष्ठतीत्यर्थः । एनाम् = इमाम् उपसर्पावः = उपगच्छावः ( इति = ततः उपसर्पंतः = उपगच्छतः ) ।
( ततः = तदनन्तरं यथोद्दिष्टः = उपर्युक्तः व्यापारः = कार्यमस्याः सा यथोद्दिष्टव्यापारा आसनस्था = आसने उपविष्टा प्रविशति = रङ्गभूमौ दृश्यते )
तापसीनामन्यतमा—कापि सुवासिनी तापसी ( शकुन्तलां प्रति ) उद्दिश्य कथयति जाते ! = हे पुत्रि ! भर्तुः = पत्युः बहुमानसूचकं = बहु अधिकश्चासौ मानः = आदरश्चेति बहुमानः तस्य सूचकं प्रकाशकमिति बहुमानसुखसूचकं = अधिकसम्मानव्यञ्जकम्, महादेवी इति शब्दं महादेवीशब्दं = पट्टराज्ञीनामधेयम् प्रधानमहिषीविरुदम् लभस्व = प्राप्नुहि, भर्त्रा समादृता सती तस्य देवीषु श्रेष्ठा भवेत्यर्थः ।
अनसूया—हे सखि ! आओ चलें ( दोनों घूमती हैं ) ।
प्रियंवदा—( सामने देखकर ) यह देखो सामने, शकुन्तला सूर्योदय होते ही सिर से स्नानकर चोटी गुँथवाकर और नीवार के चावलों को हाथ में लिए स्वस्तिवाचन मङ्गलाचार आदि करने वाली एवं आशीर्वाद, शिक्षा आदि देने वालीं तापसी सौभाग्यवती स्त्रियों से अभिनन्दित की जाती हुई यहाँ बैठी है । आओ इसके पास चलें ( दोनों शकुन्तला के पास जाती हैं ) ।
( पूर्वोक्त प्रकार से मङ्गलाचार करनेवाली तापसियों से घिरी हुई तथा आसन पर विराजमान शकुन्तला का प्रवेश )
तापसियों में एक—( शकुन्तला के प्रति ) पुत्रि ! पति के दिये हुए अधिक आदर सूचक महारानी पद प्राप्त करो ।
१८४ अभिज्ञानशाकुन्तलम्
**द्वितीया—**वच्छे ! वीरप्पसविणी होहि [ वत्से वीरप्रसविनी भव ] । **तृतीया—**वच्छे भत्तुणो बहुमदा होहि [ वत्से भर्तुर्बहुमता भव ] । ( इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः ) सख्यौ—( उपसृत्य ) सहि सुहमज्जणं दे होदु [ सखि सुखमज्जनं ते भवतु ] । **शकुन्तला—**सागअं मे सहीणं । इदो णिसीदह । [ स्वागतं मे सख्योः । इतो निषीदतम् ] । उभे—( मङ्गलपात्राण्यादाय उपविश्य ) हला सज्जा होहि । जाव मङ्गलसमालंभणं विरएम [ हला सज्जा भव । यावन्मङ्गलसमालम्भनं विरचयावः ] । **शकुन्तला—**इदं पि बहु मंतव्वं । दुल्हहं दाणिं मे सहीमंडण भविस्सदि त्ति [ इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यतीति ] ( इति बाष्पं विसृजति )
**द्वितीया—**अथ द्वितीया = अपरा तापसी आशिषं प्रयुङ्क्ते—वत्से !=हे पुत्रि ! वीरप्रसविनी = शूरपुत्रजननी भव, वीरं कुमारं जनयस्वेत्यर्थः । **तृतीया—**तृतीया तापसी आशीर्वादं प्रददाति—वत्से ! जाते ! भर्तुः स्वस्वामिना राजर्षेः दुष्यन्तस्य बहुमता–अति सम्मानिता, अभीष्टा भव । ( इति = एवं, आशिषो दत्वा = शुभाशंसनं कृत्वा गौतमीवर्जं = गौतमीं विहाय अन्या, तापस्यः निष्क्रान्ताः = रङ्गभूमितो निर्गताः ) **सख्यौ—**अनसूया प्रियम्वदा चोपसृत्य = उपस्थाय शकुन्तलां ब्रूतः–सखि ! ते सुम्मज्जनं भवतु = स्यात् सुस्नानं ते भवतु । इदं स्वागतसदृशं वचनम् । पतिगृहप्रस्थानाङ्ग-मिदं मज्जनमिति पतिगृहप्राप्तिफलेन अस्य शोभनत्वं भवत्वित्यभिप्रायः । **शकुन्तला—**सख्योरगमनेन सन्तुष्टा शकुन्तला आह—स्वागतं अभिनन्दनम् मे = मम सख्योः = आल्योः इतः = इह स्थाने निषीदतम् = उपविशतम् । उभे—( प्रियम्वदानसूये च उभे = द्वे अपि सख्यौ मङ्गलपात्राणि मङ्गलार्थं प्रस्तुतानि माजनानि मङ्गलसमालम्भनपात्राणि आदाय = गृहीत्वा उपविश्य = निषद्य ) हला = हे सखि ! सज्जा = प्रस्तुता प्रसाधनार्थमङ्गप्रत्यङ्गानां प्रसारणाकुञ्चनाभिमुखी भवेति यावत्, मङ्गलसमालम्भनं = मङ्गलार्थं समालम्भनं अलङ्करणं विरचयावः = विदध्मः । **शकुन्तला—**इदम् = एतत् अलङ्करणमपि बहु अधिकं मन्तव्यं ज्ञातव्यम् इदानीं =
**दूसरी—**बेटी ! वीर पुत्र उत्पन्न करने वाली हो । **तीसरी—**वत्से ! पति तुझे बहुत मान दे । ( इस प्रकार आशीर्वाद देकर गौतमी के अतिरिक्त सभी बाहर चली जाती हैं ) दोनों सखियाँ—( पास में जाकर ) हे शकुन्तले ! क्या तू स्नान कर चुकी ? **शकुन्तला—**आओ प्रियसखियों, आओ तुम्हारा स्वागत है, आओ यहाँ मेरे पास बैठ जाओ । दोनों सखियाँ— ( मङ्गलपात्र लेकर बैठे हुए ) हे सखि ! तू थोड़ा ठीक से सीधी होकर बैठ जा तो हम तेरे शरीर में अङ्गराग, मेंहदी, रोली आदि माङ्गलिक वस्तुएँ लगाकर तेरा समालम्भन = शृंगार कर दें । **शकुन्तला—**यह तुम्हारा आवश्यक समयोचित कार्य भी मुझे आज अति प्रिय प्रतीत हो रहा है, क्योंकि पुनः तुम्हारे हाथ से मेरा इस प्रकार का मण्डन मेरे लिए दुर्लभ ही हो जायेगा । ( आँसू टपपटाती है )
चतुर्थोऽङ्कः १८५
उभे--सहि उइदं ण दे मंगलकाले रोइदुं [ सखि उचितं न ते मङ्गलकाले रोदितुम् ] ( इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः )।
प्रियंवदा--आहरणोइदं रूवं अस्समसुलहेहिं पसाहणेहिं विप्पआरोअदि [ आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते । ]
( प्रविश्योपायनहस्तौ )
ऋषिकुमारकौ--इदमलंकरणम् । अलंक्रीयतामत्रभवती ।
अधुना मे = मम कृते सखीमण्डनं = आलीविरचितं मण्डनम् = अलङ्करणम् दुर्लभं = दुष्प्राप्यं युवयोः अस्मत्पतिगृहवासासंभवात् इतः परं सखीकर्तृकं मण्डनं मे दुर्लभं भविष्यति ( इति = एवमुक्त्वा वाष्पं = अश्रु विसृजति = विरहचिन्तया दुःखेन त्यजति )।
उभे--सखि ! = आलि ! मङ्गलकाले = मङ्गलकाले रोदनानौचित्यमागमसिद्धम् । शुभकार्यक्षणे ते = तव कृते रोदितुं = रोदनं नोचितं = न समीचीनम् ( इति = एवमुक्त्वा अश्रूणि = नेत्रजलानि प्रमृज्य = प्रोञ्छ्य विशोध्य नाट्येन = अभिनयेन प्रसाधयतः = अलङ्कुरुतः ।
प्रियम्वदा--शकुन्तलां प्रसाधयन्तीं प्रियम्वदा तत्साधनानां तद्रूपाननुगुणं पश्यन्ती सविषादमाह--आभरणोचितं = अनर्घहारकेयूरादिकयोग्यं कनकभूषणाढ्यं रूपं = आकृतिः आश्रमसुलभैः = तपोवनसुलभैः, तपोवनलभ्यैः प्रसाधनैः = अङ्गरागादिभिः भूषाभिः विप्रकीर्यते = विकृतं क्रियते । नैतानि आभरणानि तवोचितानीति भावः । आश्रमे नगरोचितानां प्रसाधनानामभावाद् आश्रमवासिनां दारिद्र्यं पौरा लक्ष्यिष्यन्तीति खेदास्पदम् । एवं प्रियम्वदोक्तौ आभरणोचितं रूपमिति कथनेन आभरणसूचनात्तदानेत्रोः, आभरणहस्तयोः ऋषिकुमारयोः प्रवेशमाह-- (उपायनं = वृक्षादेरुपायनभूतं क्षौमादि उपहारः हस्ते = करे ययोः ते उपायनहस्तौ प्रविश्य = रङ्गभूमिमावागत्य ) ।
ऋषिकुमारकौ--इदं = एतत् अलङ्करणम् = भूषणसमूहः गृह्यतां तावत् अत्र भवती = श्रीमती शकुन्तला अलङ्क्रीयताम् = प्रसाध्यताम् ।
विशेष--इस प्रकार के अलंकरण तो प्रतिदिन प्राप्त हो जाते हैं। इसका उतना महत्त्व नहीं किन्तु अपने पति के घर चले जाने पर सखियों के हाथ से वह न प्राप्त हो सकेगा। इसलिए शकुन्तला ने उसे बहुत मानने की बात कही है।
दोनों सखियाँ--हे सखि ! इस मङ्गल समय = पतिगृह की शुभ यात्रा में तेरा रोना ठीक नहीं है। ( दोनों आँसू पोंछ कर उसके श्रृङ्गार करने का अभिनय करती हैं )
विशेष--शुभ समय में रोना अनिष्टकारक माना जाता है। इसलिए माङ्गलिक कार्यों के समय में अश्रुपात वर्जित है। अतः सखियों ने आँसू रोकने के निमित्त समझाया।
प्रियम्वदा--सखि शकुन्तले ! यह तुम्हारा रूपसौन्दर्य विविधरत्नों के आभूषणों के ही योग्य है। इस प्रकार आश्रमसुलभ फूलपत्तियों के श्रृंगार से तो यह तेरा सौन्दर्य उलटा बिगड़ता प्रतीत हो रहा है। वस्तुतः तेरे शरीर के योग्य गहने तो राज्योचित आभरण ही हो सकते हैं।
( रत्नजटित आभूषणों को हाथ में लिए हुए दो ऋषिकुमारों का प्रवेश )
दोनों ऋषिकुमार--लो, ये नाना प्रकार के रत्नों से जड़े हुए आभूषण हैं, इससे आयुष्मती शकुन्तला का श्रृंगार करो।
१८६ अभिज्ञानशाकुन्तलम्
( सर्वा विलोक्य विस्मिताः )
गौतमी—वच्छ णारअ। कुदो एदं [ वत्स नारद। कुत एतत् ]।
प्रथमः—तातकाश्यपप्रभावात्।
गौतमी—किं माणसी सिद्धिः [ किं मानसी सिद्धिः ]।
द्वितीयः—न खलु, श्रूयताम्, तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरत इति। तत इदानीं—
क्षौमं केनचिदिन्दुपाण्डुतरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित्।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः॥ ४॥
( सर्वाः = सकलाः उपस्थिताः तापस्यः विलोक्य = आलोक्य विस्मिताः = आश्चर्य-चकिता जाताः, आश्रमे कुतः खल्वेतेषां सम्भव इति सर्वासां विस्मयः )
गौतमी—वत्स नारद ! कुत एतत् = कस्मात् स्थानात् आसादितमेतत् सर्वम् अलङ्करणम् ?
प्रथमः—तातकाश्यपप्रभावात् = तातस्य = पितुः काश्यपस्य = महर्षेः कण्वस्य प्रभावात् = तपोबलात् तपस्या महिम्ना एतदलङ्कारजातमासादितमिति भावः।
गौतमी—किं मानसी सिद्धिः = मनःसङ्कल्पमात्रजन्या तादृशी अलौकिकयोगसिद्धिः ?
द्वितीयः—न खलु मानसीयोगसिद्धिः श्रूयतामाभरणप्राप्तिप्रकारः। तत्र भवता = पूज्येन कण्वेन शकुन्तलाहेतोः = शकुन्तलायाः प्रसाधनार्थं वनस्पतिभ्यः = वृक्षेभ्यः कुसुमानि = पुष्पाणि आहरत = यूयम् आनयत इति = इत्थं वयं ऋषिकुमारका आज्ञप्ताः = आदिष्टाः। ततः = तदनन्तरम्, इदानीं = अधुना अस्मासु कुसुमादानायोद्यतेषु सत्सु—क्षौममिति।
अन्वयः—केनचित् तरुणा इन्दुपाण्डु माङ्गल्यं क्षौमम् आविष्कृतम्, केनचित् ( च ) चरणोपभोगसुलभः लाक्षारसः निष्ठ्यूतः। अन्येभ्यः तत्किसलयोद्भेदप्रतिद्वन्द्विभिः आपर्वभागोत्थितैः वनदेवताकरतलैः आभरणानि दत्तानि।
मुनिकुमारकोपनीतान्याभरणानि विलोक्य कुत एतानि प्राप्तानीति गौतम्या पृष्टौ मुनिकुमारकौ कथयतः—क्षौमं केनचिदिति। केनचित् तरुणा = केनापि वृक्षेण इन्दु-
( उन दुर्लभ एवं बहुमूल्य रत्नजटित आभूषणों को देखकर सभी आश्चर्यचकित हो जाती हैं )
गौतमी—हे वत्स नारद ! ये आभूषण तुम्हें कहाँ से प्राप्त हुए ?
प्रथम मुनिकुमार—ये पिता कण्व के तपस्या के प्रभाव से ही प्राप्त हुए हैं।
गौतमी—क्या मानसी योगसिद्धि के प्रभाव से सब मिल गये हैं ?
दूसरा—नहीं, नहीं, पिता जी ने हमलोगों से कहा था कि तुम लोग जाकर आश्रम के वृक्षों से शकुन्तला के योग्य आभूषणों के लिए पुष्प आदि मांग लाओ, तब हम लोग वृक्षों के पास गये, तब—
किसी वृक्ष ने चन्द्रमा के समान पाण्डुरवर्ण माङ्गलिक रेशमी साड़ियाँ प्रकट की, किसी ने