भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ
१८८अभिज्ञानशाकुन्तलम्

प्रथमः-- गौतम एह्येहि अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः।
द्वितीयः-- तथा ( इति निष्क्रान्तौ )।
सख्यौ-- अए अणुवजुत्तभूसणो अअं जणो। चित्तकम्मपरिअएण अंगेसु दे आहरण विणिओअं करेम्ह [ अये अनुपयुक्तभूषणोऽयं जनः। चित्रकर्मपरिचयेनाङ्गेषु ते आभरणविनियोगं कुर्वः ]।
शकुन्तला-- जाणे वो णेउणं [ जाने वां नैपुणम् ]। ( उभे नाट्येनालङ्कुरुतः )


प्रथमः-- गौतम ! एहि, एहि = आगच्छ, आगच्छ अभिषेकोत्तीर्णाय = अभिषेकात् = मालिन्यामवगाहनस्नानात् उत्तीर्णाय तत्तीरं प्राप्ताय यद्वा अभिषेकार्थमवतीर्णाय गुरवे कणवाय वनस्पतिसेवां = वनस्पतिकृतां क्षौमादिप्रदानरूपां सेवां निवेदयावः = सूचयावः।

द्वितीयः-- तथा = आम् (इति = एवमुक्त्वा निष्क्रान्तौ=द्वावपि रङ्गभूमितो बहिर्गतौ)

सख्यौ-- अलङ्करणेऽसामञ्जस्यं विचार्यं तत्रात्मदोषं परिहरन्तौ प्रियम्वदानसूया च ऊचतुः--अये ! अहो ! अनुपयुक्तभूषणं न उपयुक्तानि = य धृतानि आभूषणानि = अलङ्काराणि येन स अनुपयुक्तभूषणः = अधृतलङ्कारः, भूषणपरिधानानभिज्ञः अयं = एष जनः चित्रकर्मपरिचयेन चित्रस्य = आलेख्यस्य कर्म=रचना तत्र परिचयेन = ज्ञानेनेति चित्रकर्मपरिचयेन आश्रमस्थदेवालयेषु चित्रस्थदेवतानां तेषु तेषु अङ्गेषु तेषां तेषामा-भरणानां प्रत्यहं दर्शनपरिचयेन यद्वा चित्रपटेषु राजमहिष्यादि-दर्शनाजातेन परिचयेन वा ते = तव आभरणविनियोगम् आभरणानां = अलङ्काराणां विनियोगं = परिधानं कुर्वः = विदध्मः।

शकुन्तला-- वां = युवयोः अलङ्कारधारणे नैपुणं चातुर्यं = कदाप्यधृताभरणयो-र्युवयोरपि केवलेन चित्रकर्मपरिचयेनैव समुचिताभरणविन्यासरूपं कौशलं जाने।

( उभे = द्वे अपि सख्यौ नाटयेन = अभिनयेन अलङ्कुरुतः = भूषयतः। ) तत्र पाद-रञ्जननाटनं तु कर्तरीमुखेन-आलक्तेन भवति, हंस्यास्येन च्यूतसन्देशेन कुसुमावचया-भिनयः क्रियते, ऊर्मिकापरिधापनं च क्रियते। तत्र कर्तरीमुखलक्षणं यथा—

आश्लिष्टा मध्यमे पृष्ठे संस्थिता तर्जनी यदा।
त्रिपताकस्य हस्तस्य तदा स्यात् कर्त्तरीमुखः॥
आलक्तकादिनः पादरञ्जने…………………।

हंसास्यलक्षणं तु—

'लग्नास्त्रेताग्निसंस्थानास्तर्जन्यङ्गुष्ठमध्यमाः।


प्रथम-- हे गौतम ! आओ, आओ स्नान कर जलाशय से बाहर तट पर आये हुए पिता जी से वृक्षों की सेवा बतावें।
दूसरा-- ठीक है ( दोनों बाहर जाते हैं। )
दोनों सखियाँ-- अरे हमने तो गहने पहने ही नहीं, चित्रों के परिचय से तुम्हारे अङ्गों में गहने धारण करायेंगी।
शकुन्तला-- तुम्हारी कुशलता और चतुरता मैं जानती हूँ। ( दोनों सहेलियाँ यथास्थान गहने पहराने का अभिनय करती हैं )

चतुर्थोऽङ्कः

१८९

( ततः प्रविशति स्नानौत्तीर्णः कण्वः )

कण्वः—( विचिन्त्य )

यास्यत्यद्य शकुन्तलेति हृदयं १संस्पृष्टमुत्कण्ठया
२कण्ठः स्तम्भितवाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम ३तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ ५ ॥

( इति परिक्रामति )


शेषे यत्रोर्ध्वविरले सहंसास्याभिधीयते ॥
औचित्याच्युतिसंयुक्तं कुसुमावचयादिषु ।'

( ततः = तदनन्तरं पूर्वं स्नानन् = अवगाहनं पश्चात् उत्तीर्णः = जलाशयाद् बहिर्गत इति स्नानौत्तीर्णः = निर्वर्तिताभिषेकविधिः कण्वः = कश्यपवंशावतीर्णः महर्षिः कण्वः प्रविशति = रङ्गभूमौ दृश्यते )

कण्वः = कुलपतिः कण्वः कथयति स्वमनस्येव । परिसमाप्तप्राभातिककृत्यः शकुन्तला-प्रेषणायोद्यतः स्नेहातिरेकात्तद्विषयकं सुदुःसहं विरहदुःखमनुसन्दधानः महर्षिः कण्व आह--यास्यत्यद्येति ।

अन्वयः— अद्य शकुन्तला यास्यति इति हृदयम् उत्कण्ठया संस्पृष्टम् । कण्ठः स्तम्भितवाष्पवृत्तिकलुषः, दर्शनं चिन्ताजडम्, अरण्यौकसः मम तावत् स्नेहात् ईदृशम् इदं वैक्लव्यम् गृहिणः नवैः तनयादुःखैः कथं नु पीड्यन्ते ।

अथ शकुन्तलां पतिगेहं प्रेषयिष्यन् तस्याः स्नेहातिशयात् वैक्लव्यमुपगतो महर्षिः कण्वः तदीयप्रस्थानमनुसन्दधानो ब्रवीति--यास्यत्यद्येति । अद्य=अस्मिन्नहनि, न त्विदानीं यदि इदानीमेव तदा का गतिर्भवेदित्यर्थः । शकुन्तला = मम धर्मकन्या शकुन्तैर्लालिता तत्सकाशाल्लब्धा, न तु मदात्मजेति भावः, यास्यति = पतिगृहं गमिष्यति, न तु, याता, नापि याति, अपितु यास्यतीति मनसि कृतमात्रे एवेदमुत्कण्ठादिकमन्यथा कीदृग्भविष्य-तीति यावत्, इति = हेतौ भविष्यता शकुन्तला प्रस्थानेन हृदयं = शकुन्तलानुध्यानेन


( स्नान कर लौटे हुए महर्षि कण्व का प्रवेश )

महर्षि कण्व—( सोचकर ) ।

आज शकुन्तला अपने पति के घर जायेगी, इसलिए मेरा हृदय उत्कण्ठा से व्याकुल हो रहा है, और आँसुओं के भीतर ही भीतर रोकने से मेरा गला भी भर गया है। मेरे नेत्र भी चिन्ता से जड़ी-भूत होकर देखने में असमर्थ हो रहे हैं। यदि वनवासी वीतराग मेरे जैसे निस्पृह की भी कन्या के वियोग की कल्पना से ऐसी विफलता हो रही है तो फिर विचारे गृहस्थ सांसारिक लोग कन्या के अभिनव = ताजे वियोग रूपी दुःख से कैसे नहीं दुःखित हों ॥ ५ ॥

( घूमते हैं । )

विशेष— अभिज्ञानशाकुन्तल के चतुर्थ अङ्क के चार श्लोक विषय की दृष्टि से उत्कृष्ट माने जाते हैं, जिनमें एक श्लोक यही है । अपने पिता के घर से पतिगृह के लिए पहली विदाई के समय


पाठा०—१. स्पृष्टं समुत्कण्ठया । २. अन्तर्वाष्पभरोपरोधि गदितं चिन्ताजडं दर्शनम् ।
३. तावदीदृशमहो ।

१९० अभिज्ञानशाकुन्तलम्

सख्यो--हला सउंडले अवसितमंडणासि । परिधेहि संपदं खोमजुअलं [ हला शकुन्तले अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगलम् ] । ( शकुन्तलोत्थाय परिधत्ते ) ।

गोतमी—जादे एसो दे आणंदपरिवाहिणा चक्खुणा परिस्सजन्तो विअ गुरु


तन्मयीभूतं मे चेतः उत्कण्ठया = स्वरहस्यवेदनया व्याकुलतया संस्पृष्टं = सम्यक् स्पृष्टम् व्याप्तं कण्ठः = स्वरः बाष्पं = स्वरसतः प्रवृत्तानामश्रूणां वृत्त्या = उद्गमेन कलुषः = गद्गद इति स्तम्भितबाष्पवृत्तिकलुषः—दर्शनं = चक्षुः चिन्तया = शकुन्तलानुध्यानेन जडं = पुरोगतविषयाग्रहणसमर्थं = चिन्ताजडम् = अरण्यं = विपिनमेव लोकं गृहं यस्येति अरण्यौकाः तस्यःरण्यौकसः = वनवासिनः जन्मतस्तपोवने वर्तमानस्य मम = शमदमादि सम्पन्नस्य वीतरागस्य निरीहस्य तावत् = अपि स्नेहात् = प्रीतिभावात् ईदृशम् = अनि-र्वचनीयम् इदं = अनुभूयमानं वैक्लव्यं = विह्वलता तर्हि गृहिणः = गृहस्थाः नवैः = अभिनवैः प्रथमोत्पन्नैः तनयायाः = औरस्याः कन्यायाः विश्लेषणदुःखैः = विरहदुःखैः पुत्री-वियोगजन्यक्लेशैः तनयाविश्लेषदुःखैः कथं = केन प्रकारेण नु पीड्यन्ते = नाभिभूयन्ते अपितु पीड्यन्ते एव । निर्ममस्य ममापि यत् असह्यप्रायं तदा वराका = विषयिणो गृहस्थाः तेन निर्जीवा एव भवन्तीति भावः ।

अयमभिप्रायः—पतिगेहं गमिष्यन्त्याः शकुन्तलायाः स्नेहातिशयाद् विक्लवहृदयः कुलपतिः कण्वो निजमनसि विचारयति—अद्य शकुन्तला पतिगृहं गमिष्यतीत्यनुसन्धान-मात्रेण तदीयविरहवेदनया जडीभूतं मे हृदयम् चिन्तया बाढं व्याप्तोऽस्मि, मम स्वरश्च प्रवृत्तानां वाष्पाणां प्रवृत्त्या गद्गदो जातः, मम नेत्रं च समक्ष विषयाग्रहणसमर्थमजायत । जन्मत आरभ्य तपस्तप्त्वा तपोवने निवसतो वीतरागस्यापि मम यदीदृगनिर्वचनीयं वैक्लव्यं तर्हि विषयासक्तस्य गृहस्थस्य आत्मजवियोगजन्यैर्दुःखैर्जातस्य क्लेशस्य का कथा ?

अत्र व्यतिरेकानुप्रासार्थपत्ति काव्यलिङ्गालङ्काराः शार्दूलविक्रीडितं च छन्दः ॥५॥

इति = एवमुक्त्वा शकुन्तलासमीपे परिक्रामति = परिक्रमति )

सख्यौ—हला संखि ! = शकुन्तले ! अवसितं = समाप्तं मण्डनं = अलङ्करणं यस्या सा अवसितमण्डना = परिसमाप्तरचनाभरणसन्निवेशा असि । साम्प्रतं = इदानीम् क्षौमयोर्युगलं क्षोमयुगलं = कौशेयवस्त्रयुग्मम् परिधत्स्व = धारय, ( इति शकुन्तला उत्थाय, अन्यथा वस्त्रधारणस्याशक्यत्वात् क्षौमयुगलं परिधत्ते = धारयति ) ।

गोतमी—जाते ! = पुत्रि ! एषः = अयं पुरोवर्ती ते = तव गुरुः तातः पिता कण्वः


पिता को जो हार्दिक क्लेश होता है उसका मार्मिक चित्रण इस श्लोक द्वारा किया गया है। प्रथम बार का वियोग बाद के वियोग की अपेक्षा अधिक दुःखद होता है। कन्या की पहली बिदाई के समय विषयासक्त गृहस्थ पिता को कितना दुःख होता है इसकी कल्पना वीतराग महर्षि कण्व भी नहीं कर सके। वस्तुतः जब अनासक्त विषयविमुख महर्षि कण्व को पोष्यपुत्री शकुन्तला के वियोग का इतना दुःख हुआ तो बेचारे विषयासक्त गृहस्थों को अपनी आत्मजा की पहली बिदाई के दुःख का कहना ही क्या है ?

दोनों सखियाँ—सखी शकुन्तले ! तुम्हारा श्रृंगार हो चुका, अब रेशमी कपड़ों का जोड़ा पहन लो और ओढ़ लो। ( शकुन्तला उठकर पहनती है )

गोतमी—बेटी शकुन्तले ! देख, ये तुम्हारे पिता जी महर्षि कण्व उपस्थित हैं, जो आनन्द

चतुर्थोऽङ्कः १९१

उवट्ठिदो। आआरं दाव पडिवज्जस्स। [ जाते एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः। आचारं तावत्प्रतिपद्यस्व ]।
शकुन्तला--( सव्रीडम् ) ताद वंदामि [ तात वन्दे ]।
कण्वः--वत्से !

ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ ६ ॥


आनन्दं = हर्षं परितो वाहयति = प्रेरयति इति आनन्दपरिवाहितेन आनन्दपरिवाहिणा = आनन्दातिशये प्रकाशयता हर्षनिर्भरेण हर्षाश्रुविमुञ्चता चक्षुषा = लोचनेन दृष्ट्या उप-लक्षितः परिष्वज्यमानः आलिङ्गन् इव त्वाम् उपस्थितः = सन्निहितः । तावत् आचारम् = अभ्युत्थानवन्दनादिकम् प्रतिपद्यस्व = विधेहि ।

शकुन्तला--( सव्रीडं = सलज्जाम् ) तात ! = पितः वन्दे = त्वां प्रणमामि ।

कण्वः--अथ महर्षिः कण्वः स्नेहातिशयव्यञ्जकं वत्से ! इति सम्बोधनं प्रयुज्य = तदनुरूपामाशिषं प्रयुङ्क्ते--ययातेरिवेति

अन्वयः--( हे वत्से ) ययातेः शर्मिष्ठेव भर्तुः बहुमता भव । सा पुरुम् इव त्वमपि सम्राजं सुतम् अवाप्नुहि ।

ह्रियावनतां वन्दमानां शकुन्तलामवलोक्य महर्षिः कण्वः तदनुरूपां स्नेहातिशयव्यञ्जिका प्रयुङ्क्ते--ययातेरिवेति। वत्से ! = धर्मकन्यके शकुन्तले ! ययातेः = ययातिनाम्ना प्रसिद्धस्य सोमवंशीयस्य नृपतिनहुषपुत्रस्य शर्मिष्ठेव = तदभिधाना वृषपर्वणः पुत्री तन्महिषीव भर्तुः = पत्युर्दुष्यन्तस्य बहुमता = सम्मानिता प्रिया भव । सा शर्मिष्ठा पुरुं-तन्नामकं चन्द्रवंशस्य कर्तारं समाजं पुत्रमिव त्वमपि सम्राजं = चक्रवर्तिनं सुतम् = आत्मजम् अवाप्नुहि = लभस्व ।

अर्थ भावः--लज्जयावनतमुखीं वन्दमानां शकुन्तलां समवेक्ष्य सस्नेहमाशिषं ददत्


प्रवाहित वात्सल्य दृष्टि से तुम्हें देख रहे हैं । अतः तू समुचित अभ्युत्थान प्रणाम आदि आचार का पालन कर इनका सम्मान करो अर्थात् इनको प्रणाम करो ।

शकुन्तला ( लज्जा के साथ ) पिता जी को प्रणाम है ।

कण्व--वत्से ! जिस प्रकार पूर्वकाल में शर्मिष्ठा राजा ययाति की प्रिय थी वैसे ही तुम भी अपने पति दुष्यन्त की अत्यन्त प्यारी हो और जैसे शर्मिष्ठा ने राजा ययाति सम्राट् पुरु को जन्म दिया था, वैसे ही तू भी राजा दुष्यन्त से चक्रवर्ती पुत्र को प्राप्त करो ॥ ६ ॥

विशेष--चन्द्रवंशी नहुषपुत्र राजा ययाति की दो रानियाँ थीं, एक असुरगुरु शुक्राचार्य की पुत्री देवयानी तथा दूसरी असुरों के राजा वृषपर्वा की पुत्री शर्मिष्ठा । इन दोनों में देवयानी की अपेक्षा शर्मिष्ठा राजा ययाति को अधिक प्यारी थी । इन दोनों की कथा महाभारत के आदि पर्व में बड़े विस्तार के साथ लिखी हुई है । देवगुरु बृहस्पति के पुत्र कच के शाप से ब्राह्मण कन्या देवयानी का पाणिग्रहण हुआ था, किन्तु शर्मिष्ठा उसकी दासी बनकर ययाति के पास गई थी, जिससे उन्होंने गान्धर्व विवाह कर लिया था ।

कवि ने यहाँ उपमा सटीक दी है । शर्मिष्ठा से शकुन्तला का कई बातों में साम्य है । दोनों का माता पिता की आज्ञा के बिना गान्धर्व विवाह हुआ था, दोनों को माता पिता ने त्याग दिया था,


पाठ०--१. पत्युर्बहुमता ।

१९२ | अभिज्ञानशाकुन्तलम्

गौतमी:-- भवअं वरो खु एसो ण आसिसा [ भगवन्, वरः खल्वेषः नाशिषः ] । कण्वः:-- वत्से ! इतः सद्योहुताग्नीन् प्रदक्षिणीकुरुष्व । ( सर्व परिक्रामन्ति ) । कण्वः:-- ( ऋक्छन्दसाऽऽशास्ते )

अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्धन्तः प्रान्तसंस्तीर्णदर्भाः । अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ ७ ॥

महर्षिः कण्वो ब्रूते वत्से ! यथा वृषपर्वणः पुत्री शर्मिष्ठा नहुषात्मजस्य राज्ञो ययातेः प्रधाना राजमहिषी चन्द्रवंशस्य विधातारं ययातिसिंहासनमासीनं पुत्रमजनयत् तथैव त्वमपि राजर्षेः दुष्यन्तस्य महादेवीषु प्रियतमा श्रेष्ठा सती भरतवंशस्य कर्त्तारं दुष्यन्त-सिंहासनाधिकारिणं चक्रवर्तिनं तनयं प्राप्नुहि । अत्रोपमालङ्कारः अनुष्टुव् वृत्तञ्च ॥ ६ ॥

गौतमो— भगवन् = हे ब्रह्मन् ! एषः = अयं खलु निश्चयेन वरः = वरदानम् नतु आशिषः = आशीर्वादादिवाचांसि । आशीस्तु अभीष्टस्य प्रार्थनं भवति किन्तु वरस्तु अभीष्ट-साधनसमर्थो विधिः इति उभयोर्भेदः । प्रस्थानसमये शकुन्तलाकृतवन्दनानन्तरं शिष्टाचारप्रयुक्ताऽप्येषा आशीः भवन्मुखनिर्गतत्वाद्धर एव प्रवृत्त इति भावः । तदुक्तमुत्तरराम-चरिते—ऋषीणां पुनराद्याना वाचमर्योऽनुधावति ।

कण्वः— कुलपतिः कण्वो हि शकुन्तलायाः कृते प्रयाणाङ्गं कर्त्तव्यमुपदिशति—वत्से = आयुष्मति ! इतः = अत्र देशे सद्योहुताद् = अस्मिन् एव क्षणे शास्त्रीयविधिना हव्येन सन्तर्पितान् अग्नीन् त्रेताग्नीन् प्रदक्षिणीकुरुष्व = परिक्रमस्व ।

( सर्वे = सकला जनाः परिक्रामन्ति = यज्ञाग्निं प्रदक्षिणीकुर्वन्ति )

कण्वः— ( ऋक्छन्दसा = ऋग्वेदच्छन्दोग्रथितेन वाक्येन आशास्ते = आशीर्वादान् ददाति ) । श्लोकात्मकं तद्वाक्यमाह—अमीति ।

अन्वयः— वेदिं परितः क्लृप्तधिष्ण्याः समिद्धन्तः प्रान्तसंस्तीर्णदर्भाः हव्यगन्धैः दुरितम् अपघ्नन्तः अमी वैतानाः वह्नयः त्वां पावयन्तु ।


सौत रहते हुए दोनों का विवाह प्रेमवश हुआ था, छोटी रानी होने पर भी दोनों के पुत्र चक्रवर्ती राजा हुए हैं। दोनों को पुत्रों से दो क्षत्रिय वंश चले हैं—ययाति के पुत्र पुरु से पौरववंश तथा दुष्यन्त के पुत्र भरत से भरतवंश ।

गौतमी— हे भगवन् ! यह तो वरदान है, आशीर्वाद नहीं ।

कण्व— वत्से ! इधर अग्निहोत्रशाला में स्थित अभी हवन की हुई ये तीनों अग्नि विराजमान हैं। इनकी तू प्रदक्षिणा कर ।

विशेष— कर्मकाण्ड की दृष्टि से अग्नि तीन प्रकार की है, एक गार्हपत्य अग्नि दूसरी आहवनीय अग्नि, और तीसरी दाक्षिणात्य अग्नि । इनमें गार्हपत्य अग्नि निरन्तर बनी रहती है, समय-समय पर आवश्यकतावश अन्य कुण्डों में लाई जाती है। इसी प्रकार तीन कुण्ड भी होते हैं गार्हपत्य, आहवनीय और दाक्षिणात्य ।

( सभी लोग अग्नि की परिक्रमा के लिए ले जाते हैं )

कण्व— ( ऋग्वेद के मन्त्र की छाया से विरचित पद्यबद्ध वाक्य से आशीर्वाद देते हैं ) वत्से !

वेदी के चारों ओर विराजमान समिधाओं से प्रज्वलित और जिनके चतुर्दिक कुश बिछे हुए हैं

चतुर्थोऽङ्कः | १९३

प्रतिष्ठस्वेदानीम् । ( सहदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवशारद्वतमिश्राः ?
( प्रविश्य )
शिष्यः—भगवन् इमे स्मः ।
कण्वः—भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरवः—इत इतो भवती ( सर्वे परिक्रामन्ति )


पत्युः गेहं गच्छन्तीं शकुन्तलां यज्ञाग्निप्रदक्षिणीकरणे नियुज्य तदभीष्टसिद्धये शुभाशंसनं कुरुते—अमीति । वेदिं = वेदिकाम्, परितः = सर्वतः, यज्ञवेद्याः समन्तात् क्लृप्तधिष्ण्या क्लृप्तानि रचितानि धिष्ण्यानि स्थानानि येषां ते क्लृप्तधिष्ण्याः = रचितनिवासाः प्रथमाधानसमये एव त्रिधाकल्पितस्थानाः अथवा प्रतिदिनं होमान्तरमेकीभूताः पुनर्होमसमये पृथक् कल्पिताः समिद्वन्तः—समिधः = यज्ञकाष्ठानि सन्ति येषां ते समिद्वन्तः = ज्वलितसमिधः प्रान्तेषु = पार्श्वेषु संस्तीर्णाः = आस्तृता दर्भाः = कुशा येषां ते प्रान्तसंस्तीर्णदर्भाः = पर्यन्तनिविष्टकुशाः हव्यस्य = हुतद्रव्यस्य गन्धैः परिमलैः हव्यगन्धैः = दन्दह्यमानसमिदाज्यचर्वा दिसुरभिगन्धैः दुरितं = पापम् अपघ्नतः = नाशयन्तः अमी = इमे पुरतो दृश्यमानाः वितानस्य इमे वैतानाः = यज्ञसम्बन्धिनः वह्नयः = दक्षिणाग्निगार्हपत्याहवनीयाख्याः त्रयोऽग्नयः त्वां = भवतीं शकुन्तलां पावयन्तु = पवित्राशया कुर्वन्तु ।

अयम्भावः—पतिगेहं गच्छन्तीं शकुन्तलां सम्बोध्य महर्षिः कण्वोऽभिधत्ते—प्रज्वलितसमिधः प्रकाशमाना हुताज्यादिसुगन्धि जिघ्रतां पुंसां पापानि दूरयन्तः एते त्रयोऽग्नयः मनोवृत्तिशोधनद्वारा त्वां पुनन्तु = पालयन्तु च ।

इदानीं = सांप्रतं प्रतिष्ठस्व मुहूर्तोऽतिक्रामति, विलम्बो न कार्य इत्यर्थः ( सहदृष्टिक्षेपं = तस्मिन् प्रदेशे शिष्योपस्थितिसंभावनया तानवलोकयितुं चतुर्दिक्षु दृष्टिप्रदक्षिणं कृत्वा ) कृते = पूर्वमादिष्टाः शार्ङ्गरवमिश्राः = श्रेष्ठाः शार्ङ्गरवाः क्व = कुत्र सन्ति ?

( प्रविश्य = उपस्थाय )

शिष्यः—भगवन् ! = श्रीमन् ! इमे स्मः = अत्र उपस्थिताः स्मः ।

काश्यपः—कुलपतिः कण्व आदिशति—ते = तव भगिन्याः धर्मभगिन्याः स्वसुः शकुन्तलायाः मार्गं = पन्थानं, आदेशय = अनेन पथा भवती आगच्छत्विति निर्दिश, दर्शयेति भावः ।

शार्ङ्गरवः—इतः इतो भवती = हे भवति = हे श्रीमत्ति ! इतः इतः = अनेन पथा त्वमायाहि । ( सर्वे = सकलाः परिक्रामन्ति = परिभ्रमन्ति )


ऐसे हवनीय द्रव्य आज्यादि के गन्धों से युक्त अपनी सुगन्ध से पापों को नष्ट करने वाले तीनों अग्नयाँ तुम्हारे विघ्नों को दूर करें ॥ ७ ॥

( शकुन्तला तीनों अग्नियों की प्रदक्षिणा करती है )

पुत्रि ! अब तू मङ्गल प्रस्थान कर ( इधर-उधर देखकर ) वैदिक विद्वान् शार्ङ्गरवमिश्र तथा शारद्वतमिश्र कहाँ हैं।

शिष्य—( प्रवेश कर ) हे भगवन ! हमलोग उपस्थित हैं।
कण्व—वत्स, तुम दोनों अपनी बहन शकुन्तला को मार्ग दिखा कर हस्तिनापुर ले जाओ।
शार्ङ्गरव—हे भगवति ! इधर से आओ, इधर से ( सभी घूमते हैं )


13
१३ शाकु०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

१९४अभिज्ञानशाकुन्तलम्

कण्वः—भो भोः ^१संनिहितास्तपोवनतरवः ।

पातुं न प्रथमं व्यवस्यति जलं ^२युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः ^३कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ८ ॥


कण्वः— भो भोः = हे हे सन्निहिताः = उपस्थिताः तपोवनतरवः = तपोवनाटवी-तरवः आश्रमस्थवृक्षाः !

अन्वयः— या युष्मासु अपीतेषु प्रथमं जलं पातुं न व्यवस्यति । या प्रियमण्डना अपि भवतां स्नेहेन पल्लवं न आदत्ते । वः आद्ये कुसुमप्रसूतिसमये यस्या उत्सवः भवति । सा इयं शकुन्तला पतिगृहं याति सर्वैः ( युष्माभिः ) अनुज्ञायताम् ॥

अथात्मानं प्रणम्य हुताग्नींश्च प्रदक्षिणीकृत्य प्रस्थातुमुद्यतां शकुन्तलामुद्दिश्य कुलपतिः कण्वः तपोवनवृक्षानामन्त्रयन्नुवाच—पातुं नेति । या = शकुन्तला युष्मासु = भवत्सु वृक्षेषु न विद्यते पीतं = पानं येषां ते तेषु अपीतेषु = अपीतजलेषु असिक्तेषु प्रथमं = पूर्वमेव जलं = पानीयमपि पातुं न व्यवस्यति = न यतते, नेच्छति, भवत्सु अकृतसेकेषु सत्सु जलमपि न पिबति, फलमूलादेरपि का कथेत्यर्थः । या शकुन्तला प्रियाणि मण्डनानि यस्याः सा प्रियमण्डना = भूषणप्रियापि भवतां = युष्माकं स्नेहेन = भविष्यानुरागेण युष्माकं पल्लवं = नवदलं किसलयमपि न आदत्ते = न गृह्णाति, न लुनातीत्यर्थः वः = युष्माकं आद्ये- प्रथमे कुसुमानां प्रसूतिः कुसुमप्रसूतिः = कोस्कोद्गमः तस्याः समये कुसुमप्रसूतिसमये = प्रथमकालिकास्फुटने यस्याः = अस्याः, शकुन्तलायाः उत्सवः = देवोत्सवः = पुत्रोत्सवादिवत् परमानन्दः भवति = जायते, भवदाद्यसुमनदर्शनसमयज अस्या हर्षातिरेको वक्तुं न सुशक इति भावः । सा = युष्मास्वेवंविधवात्सल्यातिशायिनी इयं = पतिगृहप्रस्थानवेषेव युष्मानामन्त्रयितुमुपस्थिता शकुन्तला = भर्तृभवनं याति पतिगेहं गन्तुमुपक्रमते, सर्वैः = सकलैः युष्माभिः सम्भूय, प्रत्येकमनुज्ञाकरणे विलम्बः स्यात्, एषा अनुज्ञायताम् = अनुमन्यताम् । अतो भवद्भिः संभूय पतिगृहप्रयाणानुरूपशुभाशीर्वचनवर्षितं स्वस्नेहानुरूपं चानुमोदनं क्रियतामिति भावः ।

अयं भावः— अहो, तपोवनवृक्षाः ! येयं भवद्भगिनी शकुन्तला युष्मासु स्नेहाधिक्याद्


कण्व— हे समीपवर्ती आश्रम के वृक्षों !
जो शकुन्तला जल से तुम्हारा सेचन किये बिना कभी भी जल तक नहीं पीती थी, जो पत्र-पुष्पों के बने हुए आभूषणों की प्रिय = अनुरागिणी होते हुए भी स्नेह से तुम्हारे कोमल पत्तों तक को नहीं तोड़ती थी और जो तुम्हारे पहले-पहले फूल निकलने के समय अनेक उत्सव एवं आनन्द मनाती थी, वही शकुन्तला आज अपने पति के घर जा रही है । आप लोग सभी उसे जाने की अनुमति दीजिये ॥ ८ ॥

विशेष— चतुर्थ अङ्क के उत्तम चार श्लोकों में यह दूसरा श्लोक है । इसमें प्रकृतिसुन्दरी शकुन्तला के गुणों का उत्कृष्ट वर्णन है जो पर दुःख निवारणार्थ सन्नद्ध रहती थी अपनी परवाह तक नहीं करती थी । वन में विराजमान शकुन्तला वन-वृक्षों से सदा प्रेम करती रहती थी और


पाठा०—१. संनिहितावन्दैवतास्तपोवनतरवः । २. युष्मास्वसिक्तेषु । ३. कुसुमप्रवृत्तिसमये ।

चतुर्थोऽङ्कः १९५

( कोकिलारवं सूचयित्वा )

अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं 'यथा प्रतिवचनीकृतमेभिरीदृशम् ॥ ९ ॥

युष्मद्भ्यो जलदानात् पूर्वं जलपानं न करोतिस्म, पुष्पपल्लवालङ्कारप्रियापि युष्मासु स्नेहातिरेकात् एकमपि पल्लवं न त्रोटयतिस्म, प्रत्यहं पयोदानावसरे भवतो निरीक्षमाणायाः यस्याः प्रथमपुष्पोदये महानुत्सवो भवतिस्म, सेयं युष्माकं मम च लालनीया वत्सा शकुन्तला पत्युर्गृहं गच्छति । अतः सर्वेर्युष्माभिः सम्भूय पतिगेहप्रयाणानुगुणं शुभाशंससन-पूर्वकमनुगमनं क्रियताम् ।

अत्र—विशेषोक्ति-समासोक्ति काव्यलिङ्गालङ्कारः शार्दूलविक्रीडितं च छन्दः ॥ ८ ॥
( कोकिलरवं सूचयित्वा = पिकशब्दं श्रावयित्वा )
इदं कोकिलरवसूचनं नेपथ्यगतनटकर्तृकं ते हि सुशिक्षिताः शकुन्तशब्दं कुर्वन्ति ।
अथ शकुन्तलागमने महर्षिः कण्वः स्वप्रार्थनानुरूपां तपोवनवृक्षानुमतिं प्राह—अनुमतगमनेति ।

**अन्वयः—**इयं शकुन्तला वनवासबन्धुभिः तरुभिः अनुमतगमना यथा एभिः ईदृशं फलं परभृतविरुतं प्रतिवचनीकृतम् ।

कुलपतिः कण्वः तपोवनवृक्षान् शकुन्तलागमनानुमतिं संप्राथ्यं तत्कालं कोकिलरुतं निशम्य कथयति—अनुमतगमनेति । इयम् = एषा शकुन्तला वनवासस्य बन्धुभिः वनवासबन्धुभिः = आश्रमसहोदरैः = स्निग्धजनैः तरुभिः = तपोवनवृक्षैः अनुमतं = अनुज्ञातं गमनं = पतिगृहयात्रा यस्याः सा अनुमतगमना = अनुज्ञातपतिगृहगमना जाता । यथा = यस्मात् एभिः = तपोवनवृक्षैः ईदृशं = एवंविधम्, उक्तप्रकारम् कलं = मधुरं रवं परभृतानां = कोकिलानां विरुतं = मञ्जुकूजितम् प्रवचनीकृतम् = प्रत्युत्तरवत् उपन्यस्तम् । स्वोत्तररूपेण प्रकटितम् ।

**अयं भावः—**तस्मिन् समये कोकिलध्वनिमाकर्ण्य महर्षिः कण्वोऽनुमितवान् यत् बाल्यकालादस्याः शकुन्तलायाः साहचर्येण भ्रातृभूतैरेभिः आश्रमवृक्षैर्मम प्रार्थनानुरूपमेवेयं शंकुन्तला पतिगृहगमनायानुमता । यत एभिः अस्याः समानस्वरं मधुरं कोकिलाङ्गनानां मञ्जुकूजितं प्रत्युत्तरवदुपन्यस्तं तस्मात् एभिस्तरुभिरपीय शकुन्तला गन्तुमनुमन्यते एव । यात्राकाले हि कोकिलध्वनि शकुनज्ञैः शुभं मन्यन्ते । अत्रानुमान-रूपक-परिणाम-काव्यलिङ्गालङ्कारः अपरवक्त्रं च वृत्तम् ॥ ९ ॥


उनका ध्यान रखती थी। यहाँ वर्तमानकालिक क्रियाओं से प्रतीत होता है कि वह ससुराल जाने समय तक आश्रम के कर्त्तव्यों में तत्पर थी।

( वृक्षों पर विराजमान कोयलों की ध्वनि से प्रस्थान की अनुज्ञा को सूचना बताकर )
वन में साथ ही रहने से बन्धुभाव को प्राप्त हुए इन वृक्षों ने शकुन्तला को पतिगृह जाने की अनुमति दे दी है, क्योंकि उन्होंने मधुर एवं मनोहर कोकिल का शब्द ही अपने उत्तर में उच्चारित किया है ॥ ९ ॥


पाठा०—१. यदासीत्प्रतिवचनीकृतमेभिदारुमनः ।

१९६ || अभिज्ञानशाकुन्तलम्

^१( आकाशे )

रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्क^२मयूखतापैः । भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ १० ॥

( सर्वे सविस्मयमाकर्णयन्ति )

गौतमी—जादे णादिजणसिणिद्धाहिं अणुण्णादगमणासि तवोवणदेवदाहिं । पणमभववदीणं [ जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ] ।


वनदेवतानामनुज्ञाप्रकारं प्रदर्शयति—( आकाशे ) रम्यान्तर इति ।

अन्वयः—अस्याः पन्थाः कमलिनीहरितैः सरोभिः रम्यान्तरः, छायाद्रुमैः नियमितार्कमयूखतापैः कुशेशयरजोमृदुरेणुः शान्तानुकूलपवनः च शिवश्च भूयात् ।

वनदेवतानामनुज्ञाप्रकारं प्रदर्शयति--रम्यान्तर इति । अस्याः = पुरोदृश्यमानायाः शकुन्तलायाः पन्थाः = मार्गः कमलिनीभिः = पद्मिनीभिः हरितैः = श्यामलैः कमलिनीहरितैः पद्मिनीखण्डहरितायमानैः सरोभिः = सरोवरैः जलाशशैः तडागैः रम्यं मनोहरं अन्तरं इतस्तपोवनादारभ्य भर्तृगृहं यावत् मध्यगामीमार्गः यस्यासौ रम्यान्तरः = हृद्यमध्यः छायाप्रधाना द्रुमाः छायाद्रुमाः = छायाबहुला वृक्षाः तैः छायाद्रुमैः = शीतलछायामनोहरैः नियमितः अर्कस्य = सूर्यस्य मरीचीनां = किरणानां तापोऽस्यासौ नियमितार्कमयूखतापः = अवरुद्धदिवाकरकिरणसन्तापः कुशेशयानां रज इव मृदुः रेणुः यस्यासौ कुशेशयरजोमृदुरेणुः=कमलपरागकोमलधूलिपटलः शान्तोऽनुकूलश्च पवनो यत्रासौ शान्तानुकूलपवनः अतएव शिवः = सुखदः कल्याणकारी, भूयात् = स्यात् ।

अर्थभावः—शकुन्तला सुकुमाराङ्गी पतिगेहं गच्छन्ती मार्गमध्ये न किमपि कष्टमनुभवेतादिति हेतोः तपोवनादारभ्यास्याः पतिगृहं पर्यन्तं मध्यगामी मार्गः तत्र तत्र अस्याः श्रमविनोदनाय निरन्तरव्याप्ताभिः कमलिनीभिः श्यामलैः जलाशयेः परिपूर्णः छायाद्रुमैः मध्याह्नसूर्यतापरहितश्च भवतु, किञ्च सुरभिमृदुः मन्दानुकूलपवनश्च मार्गे भवतु, अत्रोपमा-परिकर-काव्यलिङ्गादयोऽलङ्कारा वसन्ततिलका छन्दश्च ॥ १० ॥

( सर्वे = सकला सविस्मयं साश्चर्यं च आकर्णयन्ति = शृण्वन्ति )

गौतमी—वनदेवतानामेव तद्वचनमिति निश्चिन्वना शकुन्तलां तत्कर्तव्यमुपदिशति--


( आकाशवाणी होती है )

इस शकुन्तला का मार्ग बीच-बीच में कमल की लताओं से हरे-भरे सरोवर से युक्त, मन को हरने वाला, घनी छाया से युक्त वृक्षों से सूर्य की किरणों के दुःखद सन्तापों से रहित कमलों की रज से मृदु और शान्त, मन्द-मन्द पवन से सुखप्रद और कल्याणकारी हो ॥ १० ॥

विशेष—इस आकाशवाणी के द्वारा वनदेवताओं की ओर से शकुन्तला को शुभाशीर्वाद के रूप में कहा गया है कि मार्ग में इसे किसी प्रकार का कष्ट न हो, त्रिविध = मन्द, शीतल एवं सुगन्ध वायु सुखप्रद हो ।

( सभी आश्चर्यचकित हो सुनते हैं )

गौतमी—पुत्रि ! वन में हमेशा साथ-साथ रहने से हमारे में बन्धुभाव और स्नेह रखने वाली


पाठ०—१. ( नेपथ्ये )। २. मरीचितापः।

चतुर्थोऽङ्कः १९७

शकुन्तला—( सप्रणामं परिक्रम्य जनान्तिकम् ) हला पिअंवदे णं अज्जउत्तदं- सणुस्सुआए वि अस्समपदं परिच्चअंतीए दुक्खेण मे चलणा पुरदो पवट्टंति [ हला प्रियंवदे नन्वार्यपुत्र दर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते। ]

प्रियंवदे—ण केवलं तपोवणविरहकादरा सही एव्व। तुए उवद्विदविओअस्स तपोवणस्स वि दाव समवस्था दीसई [ न केवलं तपोवनविरहकातरा सख्येव। त्वयोप- स्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते। ]

उग्गलिअदब्भकवला मिआ परिच्चत्तणच्चणा मोरा।
ओसरिअ पंडुपत्ता मुअंति अस्सू विअ लदाओ ॥ ११ ॥
[उद्गलितदर्भकवला मृग्यः परित्यक्तनर्त्तना मयूराः।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥ ]


जाते ! = वत्से ! ज्ञातिजनस्निग्धाभिः = सम्बन्धीजनवत् स्नेहशीलाभिः तपोवनदेवताभिः अरण्यदेवीभिः अनुज्ञातगमना = अनुमतप्रस्थाना असि अतः भवतीः ताः महोदयाः प्रणम = नमस्कुरु ।

शकुन्तला—( सप्रणामं प्रणामेन = नत्या सह नतिपूर्वकम् परिक्रम्य किञ्चिद्गमनं नाटयित्वा जनान्तिकं त्रिपताकाकरेणान्यानपवार्य केवलं सखीं प्रत्याह--हला = सखि ! प्रियंवदे ! आर्यपुत्रस्य स्वामिनः दर्शनार्थं = मिलनार्थम् उत्सुकायाः = उत्कण्ठिताया अपि आश्रमपदं = तपोवनं परित्यजन्त्याः = मुञ्चन्त्याः आश्रमात् प्रतिष्ठानायाः दुःखेन = क्लेशेन मे = मम चरणौ = पादौ पुरतः = अग्रे प्रवर्तेते = चलतः। आश्रमे स्नेहातिशयवशात् तं त्यक्तुं न प्रभवामीत्यर्थः।

प्रियंवदा—न केवलं सख्येव भवती एव तपोवनविरहकातरा = तपोवनस्य भाविना विरहेण कातरा = दुःखितेति, किन्तु त्वया = भवत्या उपस्थितवियोगस्य उपस्थितो वियोग उपस्थितवियोगः तस्योपस्थितवियोगस्य = सम्भावितवियोगस्य तपोवनस्य आश्रमवासिनो जनस्यापि तावत् समवस्था = समानैव दशा दृश्यते, दर्शनेन ज्ञायते।

तमेव प्रकारं प्रकटयंति उद्गलितेति—

अन्वयः—मृग्यः उदगलितदर्भकवलाः, मयूराः परित्यक्तनर्तनाः, लताः अपसृतपाण्डु- पत्राः ( सत्यः ) अश्रूणि मुञ्चन्ति इव।

आश्रमवासिनां स्थावरजङ्गमानापि शकुन्तलाविरहकातरत्वं अनुभवन्ती प्रियम्वदा


इन वनदेवताओं ने भी तुम्हें जाने की अनुमति प्रदान कर दी है। अतः इन भगवती वनदेवियों को तू प्रणाम कर।

शकुन्तला—( प्रणाम करती हुई कुछ चलकर अलग हो प्रियम्वदा से ) हे सखि ! प्रियम्वदे ! आर्यपुत्र को देखने के लिए मैं उत्सुक हो रही हूँ, तो भी चिर परिचित आश्रम को छोड़ते हुए अत्यन्त दुःख से भरे मेरे पैर आगे की ओर नहीं उठ रहे हैं।

प्रियम्वदा—इस आश्रम के वियोग से केवल तू ही दुःखी और व्याकुल नहीं हो रही हो, किन्तु भावी तेरे इस वियोग के कारण इस आश्रम की भी बुरी दशा हो रही है, क्योंकि देख—

ये हिरण और हिरणियाँ मुख से कुशा के ग्रासों को भी छोड़कर दुःखित हो खड़ी हैं, मोर तथा

१९८ अभिज्ञानशाकुन्तलम्

शकुन्तला-- (स्मृत्वा) ताद लताबहिणिअं वणजोसिणि दाव आमंतइस्सं, (तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये) ।

कण्वः--अवैमि ते यस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।

शकुन्तला--(लतामुपेत्यालिङ्ग्य) वणजोसिणि चूदसंगता वि मं पच्चालिंग इदोगदाहि साहाबाहार्हि । अज्जुप्पहुदि दूरपरिवत्तिणी भविस्सं । ताद ! अहंवित्र इअं तुए चिन्तणीया । [ वनज्योत्स्ने चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः । अद्यप्रभृति दूरपरिवर्तिनी भविष्यामि । तात ! अहमिवेयं त्वया चिन्तनीया ]


शकुन्तलां ब्रूते--उद्गलिततेति । मृग्यः = हरिण्यः उद्गलितः = चर्वितोऽपि मुखान्निगलितः दर्भाणां - कुशानां कवलः = ग्रासः याभिः ता उद्गलितदर्भकवलाः = परित्यक्तकुशपत्रग्रासाः परित्यक्तकोमलदर्भाङ्कुरग्रासा वा मयूराः = शिखिनः, बर्हिणः परित्यक्तं नर्तनं = नृत्यं यैस्ते परित्यक्तनर्तनाः = परिवर्जितनर्तनाः लताः = वल्लर्यः अपसृतानि पाण्डुपत्राणि यामिस्ता अपसृतपाण्डुपत्राः = पतितपरिणामपाण्डुपत्राः गलितजीर्णपर्णाः सत्य अश्रूणि = बाष्पाणि नेत्रजलं मुञ्चन्ति = त्यजन्ति इव वनलतारूपा बन्धुस्त्रियः गलत्पाण्डुपत्रापदेशेन अश्रूणि त्यजन्तीवेत्यर्थः ।

अयं भावः--सखि शकुन्तले ! पतिगृहं गच्छन्तीं त्वमेव केवलम् आश्रमविरहकातरा असि, अपितु भविष्यत्-त्वद्वियोगेन इमे आश्रमस्था सर्वे जीवा अपि कातरा दृश्यन्ते । अवलोकय त्वया प्रदत्ताभिः नीवारमुष्टिभिः संवर्द्धिता हरिण्यः चर्वितमपि दर्भाङ्कुरग्रासं मुखादुद्गिरन्त्यः मौनमासते । निजनर्तनैः त्वां विनोदयन्तो मयूरा अपि विस्मृतनृत्याः स्तब्धाः सन्ति, इमा पुरोवर्तिन्यो लता अपि गलज्जीर्णपर्णा व्याजेन विरहदुःखजन्यं बाष्पं मुञ्चन्त्य इव दृश्यन्ते । तस्मात् सकलेऽपि आश्रमः त्वद्-विरहवेदनया कातरो जातः ॥११॥

शकुन्तला--(स्मृत्वा वनज्योत्स्नाम्) तात ! = पितः ! लताभगिनीं लता = वल्लरी एव भगिनी स्वसेति लताभगिनी तां लताभगिनीं भगिनीस्थानीयां लतां वनज्योत्स्नां = नवमालिकाताम् आमन्त्रयिष्ये = तदनुमतिं याचिष्ये, यद्वा तां प्रेक्षिष्ये प्रेक्ष्यामि ।

कण्वः--महर्षिः कण्वः शकुन्तलोक्तमनुवदन्नाह--शकुन्तले ! तस्यां वनज्योत्स्नायां ते = तव सोदरस्नेहं = सहोदरवद्भगिनीवत् स्नेहं समानोदरबन्धुत्वात्सल्यं अवैमि=जानामि । इयं तावत् दक्षिणेन = दक्षिणदिग्भागे वर्तते तदुपसर्प्यतां त्वयेति भावः ।

शकुन्तला--(लतामुपेत्य=वनज्योत्स्नां वल्लरीमुपसृत्य) हे वनज्योत्स्ने !=नवमालिकालते ! चूतेन संगता चूतसंगता = सहकारसंगता आम्रमिलितापि मां = प्रियभगिनीं


मोरनियों ने नाचना बन्द कर दिया है और ये लताएँ भी अपने पुराने पत्तों को छोड़ने के बहाने से मानों आँसू ही बहा रही है ॥११॥

शकुन्तला-(कुछ सोचकर) पिता जी, मैं अपनी लता वहन माधवीलता से भी मिल आऊँ अर्थात् उससे भी आज्ञा ले लूँ।

कण्व-हे पुत्री ! उस वासन्तीलता में तेरा सहोदर भगिनी की तरह ही स्नेह है, यह मैं जानता हूँ, यह देख, दक्षिण की ओर यह वासन्तीलता है।

शकुन्तला-(वासन्तीलता के पास जाकर और उसका आलिङ्गन कर) हे लता बहन ! तू अपने पति आम से संगत होती हुई मेरी ओर फैली अपनी लतारूपी भुजाओं से

चतुर्थोऽङ्कः २९९

कण्वः—

सङ्कल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम्।
चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च संप्रति वीतचिन्तः॥ १२॥

शकुन्तलां, प्रत्यालिङ्ग्य = परिष्वजस्व, इतः = अस्मात् स्थानात् गताभिः = याताभिः मदभिमुखमागताभिः शाखामया बाहाः = भुजा शाखाबाहाः ताभिः शाखाबाहाभिः = विटप-बाहुभिः। अद्य प्रभृति = अस्मात् दिनात् आरभ्य दूरं परिवर्तनं यस्या साः दूरपरिवर्तिनी = दूरतरनगरगामिनी दूरस्था भविष्यामि। अनेन-मत्कृते क्षणमपि ते चूतवियोगः माभू-दिति शकुन्तलायाः तस्यां स्नेहातिशयः सूच्यते। इतः परं वार्तामात्रमपि लब्धुं न शक्य-मिति वियोगदुःखस्थप्राबल्यं च सूच्यते। तात ! = पितः ! इयं = वनज्योत्स्ना अहमिव मत्समाना त्वया चिन्तनीया = पालनीया।

कण्वः— महर्षिः कण्वः शकुन्तलायाः तपोवनविरहकातरतामपाकरिष्यन् स्वस्य कृतकृत्यतां च प्रतिपादयन् प्राह—संकल्पितमिति।

**अन्वयः—**मया तव अर्थे प्रथमम् एव संकल्पितम्, आत्मसदृशं भर्तारं त्वं सुकृतैः गता (असि) इयं नवमालिका (च) चूतेन संश्रितवती, अस्यां त्वयि च (विषये) संप्रति अहं वीतचिन्तः (जातः)।

कुलपतिः कण्वः पतिगेहं गच्छन्तीं शकुन्तलां तपोवनविरहकातरामालोक्य योग्यतम-पतिलाभेन हर्षयन् आत्मनः कृतकृत्यतां प्रतिपादयन् ब्रवीति—संकल्पितमिति। मया = तपोनिधिना कण्वेन तवार्थे = त्वदर्थं एवमनेन = यौवनात् प्रागेव संकल्पितम् = मनसा चिन्तितम्, आत्मसदृशं = रूपादिगुणैः अभिजनेन सौन्दर्येण वयसा च तवानुरूपं भर्तारं पति त्वं सुकृतैः = स्वसौभाग्यादिभिः निजपुण्यैः मत्प्रयासं विनैव गता = स्वत एव प्राप्ता असि। इयं = पुरोदृश्यमाना नवमालिका = वनज्योत्स्ना चूतेन = सहकारेण आत्म-सदृशेन संश्रितवती। अस्यां = वनज्योत्स्नायां त्वयि च वनज्योत्स्नायाः तव च विषये अहं संप्रति = इदानीं वीतचिन्तः = वीता अपगता चिन्ता = विचारणं यस्य सः वीत-चिन्तः = अपगतचिन्तः जातोऽस्मि। युवां ममाशोच्ये जातेऽत्यर्थं = यथोक्तं अशोच्यादि पितुः = कन्या सदभर्तृप्रतिपादिता।

**अयं भावः—**शकुन्तले ! किमेवं कातरा असि, मया त्वदर्थं, चिन्तितं त्रिभुवनभरण-पोषणसमर्थं भर्तारं मम प्रयासमन्तरैव स्वसौभाग्यादिपुण्यैस्त्वं प्राप्तवती। इयं वनज्योत्स्ना च सहकारेण संगता। अतस्तव अस्याश्च विषयेऽहमिदानीं चिन्तारहितो जातः। इतः परं त्वं तपोवनविरहक्लेशं परिहायानुरूपयति लाभहर्षेण सुखमास्व।

अत्र-समासोक्ति-तुल्योगिता-काव्यलिङ्गादयोऽलङ्काराः बसन्ततिलकावृत्तं च॥ १२॥

मेरा आलिङ्गन कर। अब आज से मैं तेरे से दूर हो जाऊँगी। (कण्व से) पिता जी, कृपया आप इस लता का मेरी तरह ही पालन-पोषण कीजियेगा और मेरी ही तरह इसका पूरा पूरा ध्यान रखियेगा।

**कण्व—**वत्से ! पहले तो तेरे लिए योग्य वर की मुझे चिन्ता थी सो स्वयं योग्य वर के साथ अपने ही रूप-सौन्दर्य आदि गुणों से चली ही गई है। अतः अब मेरी चिन्ता नहीं रही। अब इस वासन्तीलता का भी मैं इस पार्श्ववर्ती आम्र के वृक्षों के साथ शीघ्र ही विवाह कर दूँगा ॥१२॥

२०० | अभिज्ञानशाकुन्तलम्

इतः पन्थानं प्रतिपद्यस्व ।

शकुन्तला—( सख्यौ प्रति ) हला एस दुवेणं वो हत्थे णिक्खेवो [ हला एषा द्वयोर्युवयोनंनु हस्ते निक्षेपः ] ।

**सख्यौ—**अअं जणो कस्स हत्थे समप्पिदो [ अयं जनः कस्य हस्ते समर्पितः ] ।

( इति वाष्पं विहरतः )

**कण्वः—**अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला ।

( सर्वे परिक्रामन्ति )

**शकुन्तला—**ताद एसा उडजपज्जंतचारिणी गब्भमंथरा मिअवहू जदा अण-घप्पसवा होई तदा मे कंपि पिअणिवेइत्तअं विसज्जइस्सह । [ तात एषोटजपर्यन्त-चारिणी गर्भमन्थरा मृगवधूर्यदा नवप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ] ।


ततः = तस्मात् इतः = अनया दिशा गन्तव्यमार्गं प्रतिपद्यस्व = अनुसर ।

शकुन्तला—हला = सख्यौ आल्यौ ! एषा = इयं नवमालिका द्वयोः = उभयोः युवयोः हस्ते = करे ननु = निश्चयेन निक्षेपः = न्यासः निःक्षेपवत् समर्पितेयं सावधानतया संरक्षणीयेत्यर्थः ।

**सख्यौ—**अनसूया प्रियम्वदा च स्वीयां दुःखदां तद्विरहोत्कण्ठां भङ्ग्या निवेदयतः—अयं जनः = आवाम् कस्य हस्ते समर्पितः = निक्षिप्तः । त्वया आवयोर्हस्ते निक्षिप्तां वन-ज्योत्स्नां तु आवां पालयाव एव, आवयोः त्वद्विरहे कः गतिरिति भावः ।

( इति = एवमुक्त्वा वाष्पम् अश्रूणि विहरतः = मुञ्चतः )

कण्वः—अनसूये ! रुदित्वा अलं = रोदनं न कार्यम्, **ननु=**निश्चयेन, भोः भवतीभ्या-मेव = युवाभ्यामेव शकुन्तला स्थिरीकर्त्तव्या = अस्थिरा = धैर्यंरहिता स्थिरा धैर्ययुक्ता कर्तव्या = करणीया, सान्त्वनीया । विश्रम्भातिशयास्पदाभ्यां भवतीभ्यामेव दुःखापनोदनेन शकुन्तलाचेतः स्थिरीकरणं कार्यम्, अन्यथा भवतीनां रुदिते सातिशयं रोदिष्यतीति भावः ।

( इति = एवमुक्त्वा सर्वे = सकलाः परिक्रामन्ति = परिभ्रमन्ति )

शकुन्तला—तात ! = पितः ! एषा = निकटस्था मद्वियोगकातरा = मत्पुरतः स्थिता


अतः तू निश्चिन्त होकर यहाँ से प्रस्थान कर ।

शकुन्तला—( सखियों के पास जाकर ) हे सखियों, इस वासन्तीलता को मैं तुम दोनों के हाथ धरोहर के रूप में छोड़ जाती हूँ । इसकी रक्षा का भार तुम दोनों पर है ।

**दोनों सखियाँ—**और हे सखि ! हम लोगों को तुम किसके सहारे छोड़कर जा रही हो ।

( यह कह दोनों आँसू बहाती हैं ) ।

**कण्व—**हे अनसूये, अरी प्रियम्वदे ! तुम लोग रोओ मत । तुम लोगों को तो शकुन्तला को ही धीरज धराना चाहिए, उलटे तुम दोनों ही रो रही हो ।

( सब लोग कुछ धीरे-धीरे चलते हैं )

**शकुन्तला—**हे पिता जी ! कुटी के पास धीरे-धीरे घूमती हुई गर्भभार से क्लान्त यह मृगी जब सुख से प्रसव कर ले, तब इस प्रिय समाचार को सुनाने के लिए मेरे पास किसी शुभ [समाचार पहुँचाने वाले दूत को आप अवश्य भेजियेगा । देखिये, यह बात भूलियेगा मत ।

चतुर्थोऽङ्कः / २०१

कण्वः—नेदं विस्मरिष्यामः।
शकुन्तला—( गतिभङ्गं रूपयित्वा ) को णु खु एसो णिवसणे मे सज्जइ [ को नु खल्वेष निवसेने मे सज्जते ] ( इति परावर्तते )
कण्वः—वत्से !

यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१३॥

उटजपर्यन्तचारिणी, उटजपर्यन्ते = पर्णशालासंगीथे चरति तच्छीलेति उटजपर्यन्तचारिणी कुटीप्रान्ते एव संचरणशीला गर्भेण मन्थरा = मन्दगमना गर्भमन्थरा = गर्भभारमन्दगमना = मृगवधूः हरिणी यदा = यस्मिन् काले अनघः = सकुशलः = प्रसवः = सन्तानोत्पत्तिः यस्या सा अनघप्रसवा = सुखप्रसूतिः तदा = तस्मिन् काले मह्यं = मम प्रति कोऽपि-कश्चन प्रियनिवेदयितृकं सन्तानजन्मशुभवृत्तान्तसूचकः जनः विसर्जयिष्यथ = यूयं प्रेषयिष्यथ।

कण्वः—काश्यपः कथयति—न इदम् = एतत् तदुक्तं विस्मरिष्यामि = नूनं प्रेषयिष्यामि।

शकुन्तला—( गतिभङ्गं रूपयित्वा = गत्या = चलनस्य भङ्गं = बाधां गमनरोधं रूपयित्वा = सूचयित्वा मृगसङ्गेन गतिस्खलनमभिनीय ) कः नु खलु = वितर्के एषः = अयं मे निवसेने = वस्त्रे सज्जते-संसक्तो भवति वसनमाकर्षतीत्यर्थः। ( इति = एवमुक्त्वा परावर्तते = निवर्तते।

कण्वः—अनन्तरं महर्षिः कण्वः शकुन्तलामनुसरन्तं मृगपोतकमवलोक्य सकरुणं तस्य प्रवृत्तिं वर्णयति—वत्से ! यस्येति।

अन्वयः—त्वया कुशसूचिविद्धे यस्य मुखे व्रणविरोपणं इङ्गुदीनां तैलं न्यषिच्यत स अयं श्यामाकमुष्टिपरिवर्द्धितकः पुत्रकृतकः मृगः ते पदवीं न जहाति।

पतिगेहं प्रस्थितायाः शकुन्तलाया वसनाञ्चलं गृहीत्वाऽऽकर्षयन्तं मृगशिशुमवलोक्य महर्षिः कण्वः कथयति—वत्से यस्येति। त्वया = भक्त्या कुशानां = दर्भाणां सूचीभिः = सूचीतीक्ष्णैरग्रैः विद्धे = क्षते यस्य = मृगस्य मुखे = वदनाभ्यन्तरे व्रणस्य = क्षतस्य विरोपणं = शोषकं व्रणविरोपणम् इङ्गुदीनां = तापसतरूणां तैलं = तत्फलस्नेहं न्याषिच्यत = नितरां सिक्तम्। सः = तद्वात्सल्यविषयः अयं = एषः = त्वद्विरहेण त्वामनुसरन् श्यामाकमुष्टि-


कण्व—वत्से ! नहीं, नहीं, इसे मैं नहीं भूलूँगा।
शकुन्तला—( अपनी गति का अवरोध कर अभिनय करती हुई ) अरी, मैया री मैया ! यह मेरे पैरों में बार-बार आता हुआ कौन मेरे कपड़ों में लिपट रहा है? ( घूमकर देखती है )।
कण्व—हे पुत्रि ! जिसके मुख के तीक्ष्ण अग्रभाग से विक्षत हो जाने पर मैंने घाव को भरने वाला इङ्गुदी का तेल लगा-लगाकर जिसका व्रण ठीक किया है तथा श्यामक की मुट्ठियाँ दे-देकर जिसका तूने आज तक पालन किया है, वह बच्चे की तरह पाला हुआ यह हिरण का बच्चा तेरे मार्ग को नहीं छोड़ रहा है ॥ १३ ॥
विशेष—छोटे बच्चों के मुख में कुश के तीक्ष्ण अग्रभाग से घाव हो जाता है, जिससे उनका खाना बन्द हो जाता है, मुख में घाव हो जाने के कारण वे स्वयं नहीं खा सकते हैं। अतः शकुन्तला मुट्ठी में कोमल घास लेकर धीरे-धीरे उनके घाव को बचाकर खिलाती थी।

२०२अभिज्ञानशाकुन्तलम्

शकुन्तला— वच्छ किं सहवासपरिच्चाइणिं मं अणुसरसि अचिरप्पसूदाए जणणीए विणा वड्ढिदो एव्व। दाणिं वि मए विरहिदं तुमं तादो चिंतइस्सिदि। णिवत्तेहि दाव [ वत्स किं सहवासपरित्यागिनीं मामनुसरसि अचिरप्रसूतया जनन्या विना वर्धित एव। इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति। निवर्तस्व तावत् ]।

( इति रुदती प्रस्थिता )

कण्वः—

उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया ^१विहतानुबन्धम्।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४॥

परिवर्द्धितकः = वर्द्धित एव वर्द्धितकः = पालितः श्यामाकस्य = मुन्यन्नस्य वीराक्स्य मुष्टिभिः = मुष्टिपरिमितैः श्यामाकैः परिवर्द्धितक इति श्यामाकमुष्टिपरिवर्द्धितकः, स्वयमत्तुमसमर्थस्य श्यामाकान् मुष्टौ गृहीत्वा तन्मुखेऽर्पित्वा वर्द्धित इत्यर्थः। कृत्रिमः पुत्रः पुत्रकृतकः = कृत्रिमपुत्रः पुत्रस्थानीयः मृगः = मृगशावकः ते = तव पदवीं = पन्थानं ,न जहाति = त्यजति।

अयम्भावः— दयार्द्रहृदया त्वया दर्भाङ्कुरमक्षणक्षतमुखस्य यस्य मृगशावकस्य मखाभ्यन्तरे इङ्गुदीतैलं निक्षिप्य व्रणः शोषितः स्वयमत्तुमसमर्थस्य तन्मुखे मुष्टिपरिमितं श्यामकं प्रक्षिप्य पुत्रवत्पालितश्च सोऽयं मृगशिशुः त्वद्विरहदुखितः ते वसनं न त्यजति, क्षणं लालयित्वा एवमाश्वसयस्व

अत्र स्वभावोक्तिः काव्यलिङ्गञ्चालङ्कारो वसन्ततिलकाछन्दश्च ॥ १३ ॥

शकुन्तला— स्नेहपरवशा शकुन्तला तमौरसपुत्रवत् लालयन्तो सेविषादमाह—वत्स ! किं = किमर्थम् सहवासपरित्यागिनीं = तवाश्रमवासिनं च सहवासं विहाय पतिगेहं गच्छन्तीं माम् अनुसरसि = अनुगच्छसि, वृथैव किं स्नेहबन्धनमनुबध्नासि। अचिरप्रसूतोपरतया— अचिरं प्रसूता उपरता चेति अचिरप्रसूतोपरता तया अचिरप्रसूतोपरतया = त्वां प्रसूता चिरादेव मृतया = जनन्या = मात्रा विना वर्धितः— यथावत् परिपोषित एवासि। इदानीं = मद्वियोगकाले मया विरहितं यद्विपुत्रं त्वां = भवन्तम् ततः = पिता कण्वः चिन्तयिष्यति = पालयिष्यति तावत् त्वं निवर्तस्व = परावर्तस्व = आश्रमपदं गच्छ। अतस्तव निवर्तनमेव श्रेयः नेतः परं गन्तव्यमिति भावः।

( इति = एवमुक्त्वा रुदती = विलपन्ती प्रस्थिता प्रचलिता )

कण्वः— शकुन्तलारोदनं न केवलममङ्गलमेव प्रत्युत् मार्गगमनावरोधीत्युत्प्रेक्ष्य महर्षिः कण्वः कथयति —उत्पक्ष्मणोरिति।


शकुन्तला— हे वत्स ! तुम लोगों के सहवास सुख को छोड़कर जाने वाली मेरे साथ तू क्यों इस प्रकार प्रेम प्रदर्शित कर रहा है? मेरे साथ क्यों आ रहा है ? तुझे जन्म देकर तेरी माता के तत्काल मर जाने पर तेरी माता के अभाव में जिस तरह मैंने माता की तरह तेरा आज तक पालन-पोषण किया है तथा इतना बड़ा किया है, उसी प्रकार मेरे अभाव में तेरा पालन-पोषण पिताजी करते रहेंगे, अब तू लौट जा, मेरे साथ मत चल।

( यह कहकर रोती हुई शकुन्तला प्रस्थान करती है )

कण्व— पुत्रि ! तू रो मत, धैर्य धारण कर और चित्त को स्थिर कर इस रास्ते को देखो।

पाठा०—१. शिथिलानुबन्धम्।

चतुर्थोऽङ्कः | २०३

शार्ङ्गरवः—भगवन् ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते। तदिदं सरस्तीरम् अत्र संदिश्य प्रतिगन्तुमर्हसि।

कण्वः—तेन हीमां क्षीरवृक्षच्छायामाश्रयामः।


अन्वयः—उत्पक्ष्मणोः नयनयोः उपरुद्धवृत्तिं वाष्पं स्थितया विहितानुबन्धं कुरु। अलक्षितनतोन्नतभूमिभागे अस्मिन् मार्गे ते पदानि विषमीभवन्ति।

यात्राकाले स्नेहानुबन्धमवलोक्य रुदत्याः शकुन्तलाया अश्रुमोचनं न केवलममङ्गलमेवापितु मार्गगमनविरोधीत्याशङ्क्य महर्षिः कण्वः तां रोदनात् निवर्तयितुं प्राह—उत्पक्ष्मणोरिति। उत् = ऊर्ध्वं पक्ष्मणी ययोः ते तयोः उत्पक्ष्मणोः = उद्गतनेत्ररोमयोः नयनयोः = नेत्रयोः उपरुद्धवृत्ति = उपरुद्धा = व्याहृता वृत्तिः = दर्शनव्यापारो येन तं उपरुद्धवृत्तिं = प्रतिहतदर्शनशक्तिं वाष्पं = अश्रुजलम् स्थिरतया धैर्येण विहितः = दूरीकृतः अनुबन्धः = पुनः पुनरुत्पत्तिर्यस्य स तं विहितानुबन्धं = निरुद्धाविच्छिन्नप्रसरणं कुरु, धैर्यमवलम्ब्य नेत्रजलं निवर्तयेति भावः। अलक्षितः = अनाकलित नतः = निम्नः= उन्नतः = उच्चश्च भूमिभागः = भूप्रदेशः यस्मिन् स तस्मिन् अलक्षितनतोन्नतभूमिभागे मार्गे = गन्तव्ये पथि ते = तव पदानि = चरणन्यासाः विषमीभवन्ति = स्खलन्ति, उच्चावचेषु निपतन्तीत्यर्थः !

अयंभावः—वत्से ! धैर्यमवलम्ब्य वाष्पं रोधय मार्गस्योच्चावचत्वात्ते पादौ इतस्ततः स्खलतः। अत आश्रमस्नेहवैकलव्यजन्यदुःखेन प्रसरन्तमश्रुप्रवाहमवरोधय येन गन्तव्यमार्गस्ते स्पष्टं दृश्येत।

अत्र परिकर-काव्यलिङ्गालङ्कारौ वसन्ततिलका वृत्तं च ॥ १४ ॥

शार्ङ्गरवः—शकुन्तलास्नेहवशतया तन्मार्गानुसारिणं महर्षिकण्वं तच्छिष्यः शार्ङ्गरवः तात्कालिकं कर्तव्यं स्मारयति—भगवन् ! = गुरुवर ! स्निग्धो जनः = स्नेहपालः आ उदकान्तामोदकान्तम् = उदकान्तपर्यन्तम् अनुगन्तव्यः = बन्धुभिः **अनुसरणीयः इति वृद्धैः श्रूयते। तत्=**तस्मादिदं सरस्तीरं = जलाशय तटम् अस्ति। अत्र = अस्मिन् स्थाने सन्दिश्य = वाचिकमादिश्य प्रतिगन्तुमर्हसि = भवान् आश्रमं प्रति निवर्तताम्।

कण्वः—शिष्योक्तिमनुमोदमानः कण्वमहर्षिः कथयति--तेन हि = तस्मात् भवदुक्तस्य सर्वथाकरणीयत्वात् इमां = पुरस्थितां क्षीरप्रधानो वृक्षः क्षीरवृक्षः तस्य छायायां = अनातपप्रदेशे आश्रयामः = शरणं कुर्मः।


हे वत्से ! उन्नत बरौनो से सुशोभित तेरे नेत्रों की दृष्टि शक्ति को रोकने वाले आंसुओं को धैर्य से तथा चित्त को स्थिर कर हटा क्योंकि ऊँचे-नीचे भू-भाग वाले मार्ग पर तेरे पैर लड़खड़ा रहे हैं। अतः रोना बन्द कर मार्ग में देखकर चल ॥ १४ ॥

शार्ङ्गरव—गुरु जी, परदेश जाते समय अपने स्नेही बन्धुजनों का जलाशयपर्यन्त ही अनुगमन करना चाहिए ऐसा सुना जाता है। अब सरोवर का तट आ गया है। अतः हमलोगों को आवश्यक सन्देश देकर आप आश्रम को लौट जायें।

विशेष—शास्त्रों में लिखा है कि जब अपना स्नेही बन्धुजन परदेश जाय तो उसको जलाशय तक ही पहुँचाना चाहिए। इसलिए शकुन्तला को सरोवर तक ही पहुँचाने के लिए कहा गया है।

कण्व—ठीक है, हमलोग इस दूध वाले वृक्ष की छाया में खड़े हो जायें।

२०४ अभिज्ञानशाकुन्तलम्

( सर्वे परिक्रम्य स्थिताः )

कण्वः—( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । ( इति चिन्तयति ) ।

शकुन्तला—( जनान्तिकम् ) हला पेक्ख णलिणीपत्तंतरिदं वि सहअरं अदेखंती आउरा चक्कवाई आरडदि दुक्करं अहं करोमि त्ति तक्केमि [ हला पश्य । नलिनी-पत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्या रौति दुष्करमहं करोमीति तर्कयामि । ]

**अनसूया—**सहि मा एव्वं मंतेहि । [ सखि मैवं मन्त्रय । ]

एषा वि पिएण विणा गमेइ रअणिं विसाअदीहअरं ।
गरुअं वि विरहदुक्खं आसाबंधो सहावेदि ॥ १५ ॥

( सर्वे = सकलाः परिक्रम्य = परिभ्रम्य स्थिताः = उपविष्टाः )

**कण्वः—**महर्षिः कण्वः दुष्यन्ताय सन्देष्टव्यमर्थं मनसि विमृशन्नाह—किं नु खलु तत्रभवतः = आदरणीयस्य दुष्यन्तस्य = राजर्षेः दुष्यन्तस्य युक्तरूपं = प्रशस्तं युक्तं योग्यतमं **अस्माभिः-**मया कण्वेन सन्देष्टव्यं = सन्देशरूपेण प्रेषणीयम् ( इति = एवं चिन्तयति विचारयति ) **इदमस्य तात्पर्यम्-**हि राजर्षिः ममानुपस्थितौ मृगयाव्याजेनेदं धर्मारण्यं प्रविश्य मुग्धामेनां शकुन्तलां प्रलोभ्य गान्धर्वविधिना विवाह्य गृहं गतः, अन्तःसत्वामेनां धर्मपत्नीं न स्मरति = नापि कञ्चननेतारं जनं प्रेषयति । तत्र राजकार्याधिक्यं वनवासिनो मे लाघवमूलकमौदासीन्यं वा हेतुः । तस्मान्मया मुनिजनोचितकर्त्तव्योपदेशप्रदानमुचितमिति विमृशति ।

**शकुन्तला—**सरसस्तीरे समुपस्थिता शकुन्तला सहचरखिन्नां कामपि चक्रवाकीं विलोकयन्ती स्वभर्तृविरहदुःखमाकलयित्वा स्वप्रियसखीमाह—हला हे सखि ! पश्य = वीक्षस्व, नलिनीपत्रेण = कमलिनीदलेन अन्तरितं = व्यवहितं, न तु दूरदेशं गतमिति नलिनीपत्रान्तरितम् अपि सहचरं = प्रियम अपश्यन्ती = अनवलोकयन्ती आतुरा = विह्वला चक्रवाकी = चक्रवाकवधूः आरोति = क्रन्दति, क्रोशति इति = एवं चिन्तयित्वा अहं दुष्करं = कठोरं करोमि = आचरामि इति = एवं **तर्कयामि-**जाने । अहं पुनः दूरवर्तिनि प्रिये यद् जीवामि तन्मे कठिनं हृदयमिति भावः ।

**अनसूया—**चक्रवाकवधूहदर्शनसन्धुक्षितं शकुन्तलाया विरहदुःखमुपपत्त्या शमयन्ती अनसूया प्राह—हे सखि ! शकुन्तले एवं = इत्थं मा मन्त्रय = न कथय, एवं न वक्तव्यं, सुकरमेव त्वया क्रियते इति भावः । सखि ! एवं मन्त्रय—


( सभी क्षीरी वृक्ष की छाया में खड़े होते हैं )

कण्व—( मन ही मन ) मैं माननीय राजा दुष्यन्त को उनके अनुरूप क्या सन्देश दूँ। ( विचार करते हैं )

शकुन्तला—( अलग से ) सखि अनसूये ! देखो तो, कमलिनी के पत्तों की ओट में छिपे हुए अपने सहचर चक्रवाक को नहीं देखकर भी यह चक्रवाकी आतुर हो बोल रही है । अपने प्रिय के वियोग में मैं भी जो जी रही हूँ यह मैं अति कठिन कार्य कर रही हूँ ।

**अनसूया—**हे सखि ! ऐसा मत सोचें, क्योंकि—

चतुर्थोऽङ्कः

[ एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ ]

कण्वः—शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः—आज्ञापयतु भवान् ।


अन्वयः—एषा अपि प्रियेण विना विषाददीर्घतराम् रजनीम् गमयति । आशाबन्धः गुरु अपि विरहदुःखं साहयति ।

पत्रे विरहितमपि प्रियमपश्यन्तीं दुःखितां चक्रवाकवधूं विलोक्य दुःखितां शकुन्तलां सान्त्वयन्ती अनसूया प्राह—एषेति । एषापि = चक्रवाकवधूरपि प्रियं विना क्षणमपि मात्रं न तिष्ठन्ती, तद्विरहमसहमाना प्रियेण = सहचरेण चक्रवाकेन विना विरहिता विषाददीर्घतराम् = विषादेन = प्रियविरहजन्यदुःखेन दीर्घतरां = दीर्घत्वेनानुमितां रजनीं रागिणो जना अस्यामिति रजनी तां रजनीं = रात्रिम् गमयति = यापयति । आशाबन्धः= आशा = कदापि सम्बन्धो भवेदिति सम्भावना एव बन्धः = बन्धनमिति आशाबन्धः = सङ्गमाशातन्तुः गुरु अपि = दुर्वहमपि विरहदुःखं = विरहपीडाम् साहयति सहनयोग्यं करोति । त्वयापि मर्तृप्राप्तिपर्यन्तमेव दुःखं सोढव्यमिति भावः ।

अयं भावः—सखि शकुन्तले ! मैवं वक्तुमुचितम्, एषा वराकी चक्रवाकवधूः प्रत्यहं प्रियविरहिता निशां गमयत्येव, पुनः प्रियसंगमो भविष्यतीत्याशया सा जीवति न म्रियते, यथेयं प्रातःकाले पत्या पुनर्मिलति तथैव त्वमपि पत्या दुष्यन्तेन मिलिष्यसि । अतो मर्तृमिलनाशया तावदिदं विरहदुःखं सोढव्यमेव । अत्रान्तरन्यासोऽलङ्कारः गाथाछन्दश्च ॥ १५ ॥

कण्वः—अथ शकुन्तलाविषये दुष्यन्तेन क्रियमाणा या उपेक्षाया निवृत्त्यर्थं तद्योग्यता-विचारपूर्वकं तस्याः स्वीकारं सन्दिशन्राह कुलपतिः—शार्ङ्गरव ! त्वया सावधानतया श्रोतव्यं, यतो मम शिष्येषु त्वमेवासि योग्यतमो भाषणकुशलः । इति त्वया, न त्वन्येन शकुन्तलां पुरस्कृत्य = अग्रतः कृत्वा शकुन्तलाविषये तामुद्दिश्य मद्वचसा = मम वचनात् सः = प्रक्रान्तो राजा दुष्यन्तः वक्तव्यः = सन्देष्टव्यः ।

शार्ङ्गरवःभवान् = कुलगुरु आज्ञापयतु = आदिशतु सावधानोऽस्मि ।


चक्रवाकी तो अपने प्रिय के बिना उसके वियोग में भी विषाद और शोक से अधिक लम्बी होने वाली रात को केवल भावी पति मिलन की आशा से बिता देती है, क्योंकि गुरुतर दुःसह विरह के दुःख को भी आशातन्तु ही सहन करा देता है। इसलिए हे सखि ! तू भी मिलने की आशा से इस विरह के काल को बिता दे, घबड़ा मत । शीघ्र ही तेरा भी तेरे पति के साथ मिलन होगा। उस विरहिणी की चकवी के समान तुम्हारा भी दुःख दूर हो जायेगा ॥ १५ ॥

विशेष—कवि प्रसिद्धि के अनुसार चकवा-चकवी पक्षी प्रायः जलाशयों के तट पर रहते हैं और वे दोनों स्त्री पुरुष दिन भर तो एक साथ ही रहते हैं, किन्तु रात में दोनों का विरह हो जाता है । चकवी इस तट पर आती है तो चकवा उस तट पर चला जाता है, इसी प्रकार चकवा इस तट पर आता है तो चकवी उस तट पर चली जाती है । रात भर वे इसी प्रकार विरह में बिताते हैं पुनः सुबह होने पर वे पूर्ववत् मिलकर साथ-साथ प्रेम से रहते हैं । यह उनका नैसर्गिक नियम है।

कण्व—शार्ङ्गरव शकुन्तला को सामने कर राजा दुष्यन्त से मेरा यह सन्देश कहना ।
शार्ङ्गरव—हाँ, आप कहें मैं सावधान हूँ, राजा को क्या कहूँ ।

२०६ अभिज्ञानशाकुन्तलम्

कण्वः—

अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥


**कण्वः—**मद्वचनात्–इत्यादिनोक्तं विवृण्वन् महर्षिः कण्वो ब्रवीति--अस्मानिति ।

**अन्वयः—**अस्मान् संयमधनान् अस्मान् आत्मनः उच्चैः कुलं च, त्वयि अस्याः कथ-मपि अबान्धवकृतां तां स्नेहवृत्तिं च साधु विचिन्त्य इयं दारेषु सामान्यप्रतिपत्तिपूर्वकं दृश्या । अतः परं भाग्यायत्तम्, तत् बन्धुभिः न वाच्यं खलु ।

राज्ञे दुष्यन्ताय सन्देष्टव्यमर्थं विवृण्वन् महर्षिः कण्वः कथयति--अस्मानिति । अस्मान् = नः संयमः = आत्मदमनात्मकं तपः एव धनं = सर्वस्वं येषां ते तान् संयमधनान् = तपोधनान् अस्याः शकुन्तलाया पितृत्वेन सम्बन्धिनं मां = कण्वम् साधु = सम्यक् विचिन्त्य = विचार्य आत्मनः = स्वस्य उच्चैः = आभिजात्यविभूत्यादिभिः श्रेष्ठम्, उन्नतं सततोदितं कुलं = पौरवान्वयं च साधु विचिन्त्य तादृशकुलोत्पन्नस्य तवालीकप्रतारणं न योग्य-मित्यर्थः, त्वयि = भवति सर्वदा = सर्वप्रकारेण कमनीये राजनि अस्याः = त्वयैकशरणा-याः शकुन्तलायाः कथमपि = केनापि प्रकारेण साक्षात् परम्परया परोक्षं वा अबान्धवकृताम् बान्धवैः कन्यादानाधिकारिभिरस्माभिर्विनाकृतां विहिताम् प्रक्रान्ताम् = अतिशयितां स्वाभाविकीं स्नेहवृत्तिं = रागाधिक्यं च साधु विचिन्त्य त्वया = भवता, त्वं स्वकर्तव्यं स्वय-मेव जानासि तथापि मदुपदेशोऽयं दुहितृवात्सल्यादिति भावः । इयं = अस्मद्धर्मदुहिता तव धर्मदाराः शकुन्तला दारेषु पूर्वगृहीतपुरन्ध्रीषु, भार्यासु सामान्यप्रतिपत्तिपूर्वकं-सामान्या = इतरदारसाधारणी या प्रतिपत्तिः बहुमानः तत्पूर्वकं = तत्पुरस्कारेण दृश्या दर्शनीया, गणनीया अन्यतमत्वेनावेक्षणीया । अर्थात्त्वामात्मनः सत्कुलसंभूतत्वम् अस्माकं महत्त्वम्, अस्यां स्नेहप्रवाहस्याकृत्रिमत्वं साधु विचार्य बहुमानपुरःसरमियं शकुन्तला पालनीयेत्यर्थः । विशेषः कुतो नाभ्यर्थ्यते इत्यत आह—अतः परं = उक्तादतिरिक्तं भाग्यायत्तम् वध्वाः सौभाग्याधीनम्, अतः तत् वधूवन्धुभिः = पितृभ्रातृप्रभृतिभिः कन्यापक्षीयैः आप्तजनैः न वाच्यं = न वक्तव्यम् प्रधानमहिषीपदं तु भाग्यायत्तम् वात्सल्यमीप्सितमपि प्रार्थना-मात्रेणालभ्यत्वान्नैव प्रार्थनीयम् । अतो नोच्यते इति भावः ।

**अर्थ भावः—**राजन् ! पूर्वोक्तं सर्वं साधु विचार्य मुग्धाया अस्याः शकुन्तलाया


**कण्व—**हे राजन् ! संयम धन = इन्द्रिय निग्रही और तपस्यापरायण हमारी प्रतिष्ठा एवं मान-मर्यादा को भली-भांति ध्यान में रखते हुए तथा अपने उच्चकुल पौरववंश की ओर देखते हुए तथा अपने में शकुन्तला की बन्धु-बान्धवों से न कराई हुई स्वाभाविक इस अनिर्वचनीय विशिष्ट प्रेम प्रवृत्ति को भी देखते हुए इस शकुन्तला को अपनी और स्त्रियों के बराबर ही समझना, यही हमारा कहना है । इससे अधिक = इसे ही महारानी बनाना, यह मैं नहीं कहना चाहता हूँ, क्योंकि पति के विशेष स्नेह, अनुराग और महारानी पद की प्राप्ति तो अपने भाग्य और गुणों के ही अधीन है । अतः उसके लिए हमारा कुछ भी कहना व्यर्थ ही है ॥ १६ ॥

विशेष—चतुर्थ अङ्क के उत्तम श्लोकों में यह तीसरा श्लोक है । अपनी कन्या के कल्याण

चतुर्थोऽङ्कः २०७

शाङ्गंरवः—गृहीतः सन्देशः। कण्वः—वत्से त्वमिदानीमनुशासनीयासि। वनौकसोऽपि सन्तो लौकिकज्ञा वयम्। शाङ्गंरवः—न खलु धीमतां कश्चिदविषयो नाम।

दारसामान्यप्रतिपत्त्या नूनं परिपालनं कार्यं, नो चेत् अस्माकं प्रतिकूलेषु शाप एवा- स्त्रम् । अस्मच्छापास्त्रं न केवलं त्वामेव दण्डयेत्, अपितु सर्वमेव त्वत्कुलं प्रदहेत् । अतः सम्यग् विचार्य कार्यमिति भावः । अत्र सामान्यनिबन्धनाऽप्रस्तुतप्रशंसा काव्यलिङ्गं चालङ्कारः, शार्दूलविक्रीडितं च छन्दः ॥ १६ ॥

शाङ्ङ्गरवः—गृहीतः = अवधृतः, सन्देशः = वक्तव्योऽर्थः । इत्थं भवदुक्तमर्थं राज्ञे बोधयिष्यामीति भावः ।

कण्वः—महर्षिः कण्वो हि दुष्यन्ताय सन्देष्टव्यमर्थं शाङ्ङ्गरवाय निर्दिश्य शकुन्तलायै अपि पतिगृहे प्रवर्त्तनप्रकारमुपदेष्टुमारभते—वत्से ! त्वं भवती इदानीं = साम्प्रतम् अनुशासनीया = शिक्षणीया असि = वर्त्तसे वनमोकः वनम् = अरण्यं ओकः = गृहं येषां ते वनौकसः = वनवासिनोऽपि अपरिचितनागरिकलोका अपि सन्तः = वर्त्तमानाः वयं लौकिकज्ञाः = लोकव्यवहाराभिज्ञाः । गृहस्थलोकवृत्तज्ञाः लोकाचारपाटवा स्मः । अतो लोकाचारं त्वां शिक्षयामः ।

शाङ्ङ्गरवः—संबहुमानं गुरुक्तं सामान्यमुखेनानुवदन् शाङ्ङ्गरवः कथयति धीमतां = प्रशस्तबुद्धिशालिनां न खलु कश्चिद विषयः, न किञ्चिदपि अज्ञातमस्ति । धीमन्तो हि सर्वं विषयं करतलामलकवत् पश्यन्तीति भावः । तदुक्तं—'सतां प्रज्ञोन्मेषः पुनरयमसीमो विजयते ।'


के निमित्त इसमें सन्देश दिये गये हैं। राजाओं को अपने उच्चकुल की प्रतिष्ठा और तपस्वियों के प्रति सम्मान की बात कहकर उत्तम कर्त्तव्य का पालन आवश्यक बतलाया गया है और अनेक पत्नी वाले पुरुषों को पक्षपातहीन होकर सबमें समान व्यवहार करने का उपदेश देकर सामाजिक कलह को शान्त करने का प्रयास है। इसमें यह विशेषकर बताया गया है कि शकुन्तला ने अपने बन्धु-बान्धवों की अनुमति के बिना ही राजा दुष्यन्त में स्वाभाविक प्रेम के कारण उनको आत्मसमर्पण कर दिया है। इसलिए उनका कभी अनादर नहीं करना चाहिए, सर्वदा स्नेह भाव से इसमें अनुराग रखना उचित है। जो लोग अपने अभिभावकों की अनुमति से विवाह करते हैं उसमें वधू का वैसा उत्तम अनुराग नहीं रहता, पर शकुन्तला ने अपने स्वाभाविक अनुरागसे ब्याह किया। अतः इसका अनादर नहीं होना चाहिए। इससे अधिक पति का विशेष अनुराग, या महारानी आदि पद की प्राप्ति तो कन्याओं के भाग्य पर ही निर्भर है। कन्यापक्ष वालों का इससे अधिक कहना उचित नहीं।

शाङ्ङ्गरव—पिता जी, मैंने सन्देश भलीभाँति समझ लिया। जाकर उन्हें इसी प्रकार कहूँगा।

कण्व—वत्से ! अब तुम्हें कुछ शिक्षा देनी है। यद्यपि हम लोग वनवासी तापस हैं, फिर भी हम लौकिक व्यवहार को जानते हैं।

शाङ्ङ्गरव—भगवन् ! बुद्धिमानों की दृष्टि से कोई भी विषय ओझल नहीं है, आप तो सर्वज्ञ हैं। भला, आपसे कौन सी बात अज्ञात है ?