भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

चतुर्थोऽङ्कः २१३

शकुन्तला—इमिणा संदेहेण वो आकंपिदम्हि [अनेन संदेहेन वामाकम्पितास्मि । ] सख्यौ—मा भाआहि सिणेहो पावसंकी । [ मा भैषीः स्नेहः पापशङ्की । ] शाङ्ग्रवः—युगान्तरमारूढः सविता । त्वरतामत्रभवती । शकुन्तलाः—$^१$(आश्रममभिमुखी स्थित्वा) ताद कदा णु भूओ तवोवणं पेक्खिस्सं । [ तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।:] कण्वः—श्रूयताम् ।


मधेयाङ्कितेऽङ्गुलीयके दर्शिते प्रत्यभिज्ञा भवेदिति गूढ-प्रकाशोभयार्थं साधारणं रहस्यमवबोधितम् ।

शकुन्तला—अनेन = अमुना भवतीभ्यामुक्तैन वां = युवयोः सन्देहेन = वाचिकेनोपदेशेन शङ्कया आकम्पिता = भीता अस्मि ।

सख्यौ—प्रियम्वदा अनसूया च समाश्वासयतः-मा भैषीः = भयभीता भव, स्नेहः = अनुरागः, पापम् = अमङ्गलं आशङ्कते तच्छील इति पापशङ्की = अनिष्टसन्देहवान् भवति । भयं मा कुरु आवाभ्यां स्नेहदयाय माशङ्क्य एवमुक्तवत्यावित्यर्थः ।

शाङ्ग्रवः—कालातिक्रममाशङ्क्य प्रस्थानाय प्रेरयत् ब्रवीति--सविता = भगवान् सूर्यः युगं = युगपरिमाणम् अन्तरम् इति युगान्तरम् = अवकाशम् हस्तचतुष्कविधगगन-प्रदेशम् अधिरूढः, प्राच्या दिश अग्रमागतः । 'युगं हस्तचतुष्केऽपि' इति विश्वकोश-प्रामाण्यात् सूर्यः उदयादेहंस्तचतुष्कप्रमाणं यावत् उन्नतमण्डलो जातः । अतः दिनस्यैकः प्रहरोऽभूदित्याशयः । अत्र भवती = पूज्या त्वरताम् = शीघ्रताम् करोतु । गमने त्वरा विधेया ।

शकुन्तला—अथ तपोवनस्नेहपरवशा सती शकुन्तला कण्वं परिपृच्छति तात ! = पितः ! कदा = कस्मिन् काले नु भूयः = पुनः तपोवनम् = आश्रमं प्रेक्षिष्ये = द्रक्ष्यामि । कदा नु पुनरत्र प्रत्यागमनं मे भवेदित्यर्थः ।

कण्वः—पुत्रि ! श्रूयताम् = त्वया आकर्ण्यताम् वार्धके पत्या सह भूयः त्वमत्र भूयः समेष्यसीत्याह--भूःवेति ।


राजर्षि दुष्यन्त तेरे को पहचानने में कुछ आना-कानी करें तो उनके नाम से अङ्कित यह अँगूठी तू परिचय के लिए उन्हें दिखला देना ।

शकुन्तला—अरी सखियों ! तुम्हारे इस सन्देह से तो मेरा हृदय अनिष्ट की आशंका से काँप उठा है ।

दोनों सखियाँ—हे सखि ! डरो मत, स्नेह सदा पाप को आशंका किया करता है । अतः हमने आशङ्कावश यों ही तुमसे कह दिया । इसमें भय की कोई बात नहीं ।

शाङ्ग्रव—भगवान् सूर्य चार हाथ ऊँचे चढ आये हैं । अर्थात् एक पहर दिन निकल गया है । अतः आप जल्दी करें ।

शकुन्तला—( आश्रम की ओर देखकर ) पिताजी, अब मैं इस तपोवन को पुनः कब देखूँगी । अर्थात् आप यहाँ मुझे कब बुलायेंगे ?

कण्व—हे पुत्री ! सुनो—


पाठा०—१. ( भूयः पितुरङ्कमाश्रिष्य ) ।

२१४अभिज्ञानशाकुन्तलम्

भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥१९॥

गौतमी--जादे परिहीअदि गमणवेला। णिवत्तेहि पिदरं। अहवा चिरेण वि पुणो पुणो एसा एव्वं मंतइस्सिदि। णिवत्तदु भवं। [ जाते परिहीयते गमनवेला। निवर्तय पितरम्। अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते। निवर्ततां भवान् । ]


अन्वयः--चिराय चतुरन्तमहीसपत्नी भूत्वा अप्रतिरथं दौष्यन्तिं तनयं निवेश्य तदर्पितकुटुम्बभरेण भर्त्रा सार्द्धं अस्मिन् शान्ते आश्रमे पुनः पदं करिष्यसि।

आश्रमविरहकातरां धर्मसुतां शकुन्तलां पुनराश्रमानयनायावसरं कथयितुं महर्षिः कण्वः कथयति--भूत्वेति। चिराय-चिरकालम्, चत्वारः = समुद्रा अन्तः =सीमा अवधयो यस्याः सा चतुरन्ता तस्या मह्याः = पृथिव्याः सपत्नी = समानभर्तृका इति चतुरन्तमहीसपत्नी भूत्वा न विद्यते प्रति = संमुखः रथं = स्यन्दनं यस्य स तमप्रतिरथम् = अप्रतियोगिनं जगदेकवीरं तनोति कुशलमिति तनयः तम् कुलविस्तारकं पुत्रं दौष्यन्ति = दुष्यन्तस्यापत्यं पुमान् दौष्यन्तिः तं दौष्यन्ति = दुष्यन्तात्मजं निवेश्य = महीभाररक्षणे नियोज्य यद्वा विवाहं कारयित्वा यस्मिन् पुत्रे अर्पितः = विन्यस्तः कुटुम्बस्य = पोष्यवर्गस्य राज्यं वा भरः = भारः येन स तेन तदर्पितकुटुम्बभरेण भर्त्रा = पत्या सार्द्धं = साकम् अस्मिन् = अत्र शान्ते = मनसः शान्त्योत्पादके आश्रमे = धर्मारण्ये, तपोवने पुनः = भूयः पदं = स्थानं करिष्यसि = विधास्यसि पुनराश्रमे त्वं वानप्रस्थयोग्ये काले समागत्य निवासं करिष्यतीत्यर्थः।

अर्थ भावः--वत्से ! इतः परं पतिगृहं गत्वा बहुदिनं चक्रवर्तिनो राजर्षेः दुष्यन्तस्य प्रधानमहिषीपदे स्थिता तत्र दिव्यान् राजभोगानुपभुञ्जाना यशस्विनमेकच्छत्रं पुत्रं प्रसूय तत्र राज्यभारं निवेश्य निश्चिन्तेन भर्त्रा दुष्यन्तेन सह चरमे वयसि विषयवासनासु विरतासु पुनः शान्त्येकनिकेतन तपोवने समागत्य वानप्रस्थं व्रतं पालयन्ती निवासं करिष्यसि।

अत्र मालादीपक-काव्यलिङ्गालङ्कारः वृत्तं च वसन्ततिलका ॥ १९ ॥

गौतमी--अनयोः ताततनयोः पुनः पुनः संलापेन गमनवेलातिक्रममाशङ्कमाना गौतमी महर्षि कण्वं शकुन्तलां च प्रतिवदति--जाते ! = पुत्रि ! गमनवेला = यात्रामुहूर्तः प्रयाणसमयः परिहीयते = अतिक्रामति गच्छति, पितरं = तातं महर्षि कण्वं निवर्तय = परावर्तय। अथवा = यद्वा एष एव विकल्पो वरीयान् चिरेणापि = चिरकालमपि पुनः


अधिक समय तक चारों समुद्रों से घिरी हुई पृथ्विी की सपत्नी = सौत होकर तथा असमान योद्धा अपने अजेय पुत्र दौष्यन्ति भरत को जन्म देकर उसके ऊपर राज्य का भार समर्पित कर अपने पति के साथ वृद्धावस्था में इस शान्त तपोवन में पुनः आवेगी ॥ १९ ॥

विशेष--प्राचीन काल के राजा लोग विषय सुख भोग लेने के बाद वृद्धावस्था में अपने योग्य पुत्र को राज्य का भार देकर स्त्री के साथ वन में निवास कर वानप्रस्थी का जीवन बिताते थे। इस नियम के अनुसार महर्षि कण्व ने शकुन्तला को अपने पति के साथ पुनः तपोवन में जाने का संकेत किया है।

गोतमी--हे बेटी, देख तेरी यात्रा का मुहूर्त बीत रहा है। अतः अब तो अपने पिताजी को छुट्टी दो (कण्व के प्रति) अथवा यह तो बहुत काल तक आपको जाने नहीं देगी, ऐसी ही कुछ न कुछ कहती ही रहेगी। अतः अब आप आश्रम को पधारिये।

चतुर्थोऽङ्कः २१५

कण्वः--वत्से ! उपरुध्यते 'तपोऽनुष्ठानम् ।

शकुन्तला--(भूयः पितरमाश्लिष्य) तवच्चरणपीडिदं तादसरोरं । ता मा अदिमत्तं मम किदे उक्कंठिदुं [ तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठितुम् । ]

कण्वः--( सनिःश्वासम् ) ।

शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २० ॥

पुनः = भूयो भूय एषा = इयं शकुन्तला एवं—इत्थं पूर्वोक्तवत् मन्त्रयिष्यते = तपोवन-विरहस्य भवद्विरहस्य असह्यत्वं वक्ष्यति । भवान् = भवानेव संलापमोहं परित्यज्य इतः स्थानात् निवर्तताम् = परावर्तताम् ।

कण्वः—गौतमीवचनमनुमन्यमानो महर्षिः प्राह-वत्से !=पुत्रि ! तपसः = तपस्याया अनुष्ठानम् = आचरणमिति तपोऽनुष्ठानम् उपलक्ष्यते = बाधितं भवति । एवं भूयो भूयः संल्लापप्रवर्तनेन मम तपोऽनुष्ठानस्य कालातिपातो भवेत् । अतः परावर्ते इति भावः ।

शकुन्तला—तपोऽनुष्ठानशब्दमाकर्ण्य तपःकृशं कण्वस्य कलेवरं सस्नेहं निरीक्षमाणा शकुन्तला महर्षि संश्लिष्य कथयति-तपश्चरणपीडितम् = तपश्चरणेन नित्यानुष्ठानेन, मदर्थं सोमतीर्थे यात्रया वा पीडितं = कृशं, दुर्बलम् तत् अतिमात्रं = अत्यन्तं मम कृते = मन्निमित्तम् उत्कण्ठितुं मा = न योग्यम् । कृशशरीरस्य तातस्य मदर्थं पुनः प्रयासप्रसङ्गो दुःसहो भवेदिति भावः ।

कण्वः—शकुन्तलोक्तौ कण्वः = काश्यपः ( सनिःश्वासं = निःश्वासपूर्वकं सशोकम् ) कथयति-शममेष्यतीति

अन्वयः—वत्से ! त्वया रचितपूर्वं उटजद्वारविरूढं नीवारबलिं विलोकयतः मम शोकः कथं नु शमम् एष्यति ।

शकुन्तलाविरहदुःखस्य निरन्तरमविस्मरणीयत्वं कथयन् महर्षिः कण्वो ब्रवीति-शममेष्यतीति । वत्से ! = हे धर्मतनये शकुन्तले ! त्वया = भवत्या रचितपूर्वं = पूर्वं रचितं रचितपूर्वं तादृशं—प्राक्प्रकीर्णम् उटजस्य = पर्णशालायाः द्वारे = प्रतिहारे प्रवेशमुखे विरूढं = संजातमिति उटजद्वारविरूढं = पर्णशालाप्रवेशमार्गेऽङ्कुरितम् नीवारः बलिं नीवार-बलिम् = पर्णशालायाः प्रवेशद्वारे त्वया भूतबलिरूपेण प्रकीर्णानां नीवाराणां जलसम्पर्केण उद्भूताङ्कुरानित्यर्थः । विलोकयतः = गमनागमनावसरे भूयो भूयोऽवलोकयतः मम कण्वस्य शोकः = त्वद्विरहजन्या पीडाविशेषः कथं नु = केन प्रकारेण शममेष्यति = शान्तिं गमिष्यति ।


कण्व—बेटी, तप-कार्य में बाधा हो रही है।

शकुन्तला (पुनः पिता के गले से लिपटकर) पिता जी, आपका शरीर तप अनुष्ठान से अधिक पीड़ित है। अतः मेरे लिए अधिक उत्कण्ठा मत कीजिएगा।

कण्व—(दीर्घ निःश्वास लेकर) बेटी, तेरे द्वारा बलि के रूप में दिए गये नीवार, जो कुटी के द्वार के आगे उग आये हैं, उन्हें देख तुझे स्मरण करके मेरा शोक तो बढ़ता ही जायेगा ॥ २० ॥

पाठ०--तपोवनानुष्ठानम् ।

२१६ अभिज्ञानशाकुन्तलम्

गच्छ शिवास्ते पन्थानः सन्तु । ( निष्क्रान्ता शकुन्तला सहयायिनश्च ) ।
सख्यौ--( शकुन्तलां विलोक्य ) हद्धी हद्धी । अन्तलिहिदा सउंदला वणराइए [ हा धिक् । हा धिक् । अन्तर्हिता शकुन्तला वनराज्या । ]
कण्वः--( सनिःश्वासम् ) अनसूये गतवती वां सहधर्मचारिणो । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे--ताद सउंदलाविरहिदं सुण्णं विअ तवोवणं कहं पविसावो । [ तात शकुन्तलाविरहितं शून्यमिव तपोवनं प्रविशावः । ]
कण्वः--स्नेहप्रवृत्तिरेवंदर्शिनी । ( सविमर्शं परिक्रम्य ) हन्त भोः ! शकुन्तलां पतिकुलं, विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः—


अर्थात्--त्वया प्रत्यहं पर्णशालायाः प्रवेशप्रतिहारे भूतबलिरूपेण विकीर्णानां नीवाराणां जलसम्पर्के संजातानङ्कुरितान् अवलोकयतो मम त्वद्विरहजन्या शांकः कथं शान्तिमेष्यति । अत्रानुप्रास काव्यालिङ्ग-परिकरा अलङ्कारा आर्याछन्दश्च ॥ २० ॥

ततः शकुन्तलाया गमनमनुमन्यमानो महर्षिः कण्व आशिषं प्रयुङ्क्ते गच्छ = व्रज, पतिकुलं व्रज = याहि, ते=तव पन्थानः=मार्गाः शिवाः=मङ्गलमयाः कल्याणप्रदाः, सन्तु=भवन्तु । ( शकुन्तला सहयायिनः = अनुगन्तारश्च निष्क्रान्ताः रङ्कभूमितः बहिर्निर्गताः )

सख्यौ—शकुन्तलाया अदर्शने विरहवेदनापीडिते प्रियम्वदानसूये सनिर्वेदमाहतुः--हा धिक् ! हा धिक् ! प्रियसखी शकुन्तला वनराज्या = वनपङ्क्त्या अन्तर्हिता = गोपायिता व्यवहिता चक्षुगोचरमतिक्रान्ता

कण्वः—शकुन्तला स्नेहपरवशत्या महर्षिः कण्वोऽपि सखेदं तदेवानुवदति—( सनिःश्वासम् = निश्वासपूर्वकम् ) हे अनसूये ! वां = युवयोः तवं प्रियम्वदायाश्च सहधर्मचारिणी सखी मदनुशासनेन युवाभ्यां सह चरितधर्मा । गतवती = गता, शोकं = विरहवेदनाम् निगृह्य = अवरुध्य वशीकृत्य प्रस्थितं = प्रयातं मां = तातम् अनुगच्छतम् = अनुसरतम् मत्पृष्ठे भूत्वा आश्रमं प्रति मया सहैव युवाभ्यां समागच्छतमित्यर्थः ।

उभे—ते शकुन्तलाविरहितयोरात्मनोः तपोवनप्रवेशस्याशक्यतां प्रतिपादयन्त्यां आहतुः—तात ! = हे पितः ! शकुन्तलया विरहितं शकुन्तलाविरहितं = शकुन्तलाशून्यं प्रियसख्या शकुन्तलाया अभावेन शोभारहितं शून्यमुदासीनं तपोवनम् = आश्रमम् कथं = केन प्रकारेण प्रविशावः = अन्तर्गच्छावः ।


अच्छा, हे पुत्रि ! अब तू जा, तेरे ये मार्ग कल्याणकारी व सुखप्रद हों । ( शकुन्तला के साथ गौतमी, शार्ङ्गरव एवं शारद्वत जाते हैं )

दोनों सखियाँ=-( शकुन्तला को देखकर ) हाय, हाय, अरण्य-पंक्ति से शकुन्तला ओट में हो गई । अब वह हमारी आँखों से ओझल हो गई ।

कण्व-( निःश्वास लेकर ) हे अनसूये ! हे प्रियम्वदे ! साथ धर्म का आचरण करने वाली तुम दोनों की सखी तो अब पतिगृह को चली गई । अब शोक रोककर तुम दोनों मेरे पीछे आओ, आश्रम को चलें ।

दोनों सखियाँ-हे तात ! शकुन्तला के बिना यह तपोवन तो अब शून्य-सा मालूम हो रहा है, हम लोग कैसे प्रवेश करें ।

चतुर्थोऽङ्कः २१७

अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥

( इति निष्क्रान्ताः सर्वे )
इति चतुर्थोऽङ्कः ।


कण्वः— सख्योरुक्तौ शून्यत्वप्रतिपत्तिहेतुं प्रदर्शयन् महर्षिः कण्व अवरहितस्नेहस्य = प्रेम्णः प्रवृत्तिः = प्रवाहः इति स्नेहप्रवृत्तिः = स्नेहानुबन्धः, एवं द्रष्टुं शीलं यस्याः सा एवं दर्शिनी = इत्थं विचारा तपोवनस्य शून्यत्वमासिका शकुन्तलायां युवयोः स्नेहातिशयात् तद्विरहे तपोवनमिदं शून्यमिव मासते इति भावः । ( सविमर्शं-विमर्शन = चिन्तया सह सविमर्शं परिक्रम्य = मण्डलाकारमुटजाङ्गुणे परिभ्रम्य सविमर्शमभिनीय ) आबाल्यात् पालितायाः शकुन्तलायाः पतिगृहे प्रेषणेनात्मनः कृतकृत्यतामनुभवन् महर्षिः ससन्तोषं वदति—हन्त भोः ! अहो ! शकुन्तलां = स्वधर्मपुत्रीम् पतिकुलं = दुष्यन्तसमीपं, विसृज्य = संप्रेष्य इदानीम् = अधुना स्वास्थ्यं = निश्चिन्तत्वेन प्रकृतिस्थत्वं प्रकृतावस्थानम् मनो-निवृत्तिः सुखम् लब्धं = प्राप्तम् । तदेव विवृणन्नाह—अर्थो हि—

अन्वयः— हि कन्या परकीय एवार्थः तामद्य परिग्रहीतुः संप्रेष्य अयं मम अन्तरात्मा प्रत्यर्पितन्यास इव प्रकामं विशदः जातः ।

अथ केनापि विश्वस्तेन पुंसा स्वान्तिके न्यासीकृतं धनं भूयः स्थापकाय प्रत्यर्पणे हृदये वैशद्यमिवाद्यात्मीयमपि कस्यारत्नरूपं धनमुद्वोढुः समीपे संप्रेष्य ममान्तरात्मा नितरां प्रसन्ने जात इति कथयति महर्षिः कण्व कन्येति । हि = निश्चये कन्या = स्वकीयापि दुहिता परकीया एव, परस्यायं परकीयः परसम्बन्धी एव अर्थः = धनम् उत्पत्त्यनन्तरमेव कन्या-रूपोऽर्थः परकीयत्वेनैव ज्ञातः । अतः तां = कन्याम् अद्य = इदानीम् परिग्रहीतुः—परिणे-तुर्वरस्य राजर्षेः दुष्यन्तस्य पार्श्वे संप्रेष्य = प्रस्थाय अयम् = एषः मम=मुनेः अन्तरात्मा=आभ्यन्तर मनः प्रत्यर्पितः = स्थापकाय प्रदत्तः न्यासः = पूर्वविश्वासेन स्थापितः द्रव्यादि-रूपः निक्षेपः येन स प्रत्यर्पितन्यास इव=यथा प्रकामं = अत्यधिकम् विशदः = चिन्तात्याग-मनेन निर्मलः जातः = अभूत् । अत्रोपमा-काव्यलिङ्गोत्प्रेक्षालङ्काराः छन्दश्चोपजाति-रस्ति ॥ २१ ॥

कण्व— स्नेह के कारण से ही तुम्हें ऐसा मालूम पड़ता है ( विचार करते हुए चल कर ) अहा, शकुन्तला को अपने पति के घर भेजकर मैंने आज स्वास्थ्य प्राप्त किया। अर्थात् मुझे चित्त को शान्ति मिली, क्योंकि—

कन्यारूपी धन तो दूसरे ( पति ) का ही है। आज उसको उसके पाणिग्रहीता पति के पास भेजकर मैं उसी प्रकार प्रसन्नचित्त तथा चिन्तामुक्त ( निश्चिन्त ) हो गया हूँ जिस प्रकार बहुत दिनों से अपने पास रखे हुए दूसरे की धरोहर को उसके स्वामी को वापस सौंपकर मनुष्य प्रसन्न तथा चिन्ता मुक्त हो जाता है ॥ २१ ॥

( सभी रंगमंच से बाहर चले जाते हैं )
॥ चतुर्थ अङ्क समाप्त ॥


पाठा०— १. तामेवं-।

पञ्चमोऽङ्कः (प्रत्याख्यान - राजसभा में शकुन्तला अस्वीकार)

पञ्चमोऽङ्कः

( ततः प्रविशत्यासनस्थो राजा विदूषकश्च )

विदूषकः--( कर्णं दत्त्वा ) भो वअस्स संगीदसालंत्तरे अवधाणं देहि। कल-विसुद्धाए गोदीये सरसजोओ सुणीअदि। जाणे तत्तहोदी हंसवदिआ वण्ण-परिअअं करेदि त्ति। [ भो वयस्य संगीतशालान्तरेऽवधानं देहि। कलविशुद्धायागीतेः स्वरसंयोगः श्रूयते। जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति। ]


पूर्वस्मिन् चतुर्थेऽङ्के शकुन्तलायाः पतिगृहप्रयाणस्य प्रकारः प्रदर्शितः। अत्र पञ्च-मेऽङ्के च शेषभूतमिति वृत्तं वर्णयिष्यते।

( चतुर्थस्याङ्कस्यान्ते दुष्यन्तस्य तन्नर्मसचिवस्य विदूषकस्य चावसरोचितं प्रवेशमाह— ततः = तदनन्तरम् आसनस्थः = सिंहासनस्थः राजा = दुष्यन्तः विदूषकः = माधव्यश्च प्रविशति = रङ्गभूमा आविर्भवति । )

महर्षेदुर्वाससः शापेन विस्मृतशकुन्तलाविषयः राजधान्यां हस्तिनापुरे यथावत् राजकार्याणि कुर्वाणो विश्रान्त्यवसरे राजा दुष्यन्तः सङ्गीतशालायां प्रवृत्तं गीतमाकर्ण्य सहोपपविष्टेन माधव्येन तथाविधं गीतमाकर्णयितुमनुरुध्यते—भो वयस्य !

विदूषकः—अये माधव्य ! ‘नृत्यं गीतं च वाद्यं च त्रयं सङ्गीतमुच्यते ।’ तदर्था शाला सङ्गीतशाला तस्या अभ्यन्तरे मध्ये संगीतशालाभ्यन्तरे = गानवाद्यादिगृहाभ्यन्तरे अव-धानं = ध्यानं देहि = मनोयोगपूर्वकं सावधानमाकर्णय । कला = मधुरास्फुटध्वनियुक्ता विशुद्धा = शङ्कितभीतादिदोषरहिता, ग्रामरागजनिका चेति कलविशुद्धा तस्याः कल-विशुद्धायाः निर्दोषाया गीतेः = गानस्य स्वराणां = षड्जादीनां संयोगः = यथालक्षणं सम्बन्धः = गीतिसम्बन्धीस्वरालापः श्रूयते = आकर्ण्यते । सङ्गीतभेदो यथा—

‘गीतयः पञ्च शुद्धाख्या भिन्ना गौडा निवेसरा । साधारणी विशुद्धा स्याद्वक्रैललितैः स्वरैः ॥’

जाने = प्रतीयते तत्रभवती आदरणीया हंसपदिका = काचित्प्रधाननर्तिका देवीष्वेका वा वर्णपरिचयं करोति = स्थाप्यारोह्यावरोह्यात्मकगानक्रियाभ्यासं कुरुते । तथा हि भरतः ।

‘या देवविषया गीतिर्देववाणिस्तु सा भवेत् । मनुष्यविषया सैव वर्णनाम्ना प्रकाशते ॥ गानक्रियोच्यते वर्णः सः चतुर्धा निरूपितः । स्थाप्यारोह्यावरोही च सञ्चारी…………॥’


( इसके बाद सिंहासन पर विराजमान राजा और विदूषक का प्रवेश )

विदूषक—( कान लगाकर ) हे मित्र ! संगीतशाला = संगीतभवन की ओर जरा ध्यान दो मधुर और अस्फुट ध्वनिवाले शुद्ध संगीत का स्वरसंयोग = स्वरालाप सुनाई पड़ता है । मालूम पड़ता है कि आदरणीया महारानी हंसपदिका गाना = सरगम सीख रही हैं ।

पञ्चमोऽङ्कः

२१९

राजा—तूष्णीं भव। यावदाकर्णयामि। ( आकाशे गीयते )

अहिणवमहुलोलुवो भवं तह परिचुंबिअ चूअमंजरिं ।
कमलवसइमेत्तणिव्वुदो महुअर विम्हरिओ सि णं कहं ॥ १ ॥
[ अभिनवमधुलोलुपो भवांस्तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृत्तो मधुकर ! विस्मृतोऽस्येनां कथम् ॥ १ ॥ ]

राजा—गीताकर्णनेऽहमवहितोऽस्मि तावत्तूष्णीं भवेत्याह—तूष्णीम् = मौनी भव यावत् अहम् आकर्णयामि = शृणोमि ( आकाशे गीयते ) ।

अथ हंसपदिका राज्ञो दुष्यन्तस्य स्वमहादेव्या उपेक्षाया भ्रमरस्योपालम्भनव्याजेन गीतिकां गायति—अभिनवेति

अन्वयः—हे मधुकर ! अभिनवमधुलोलुपः भवान् तथा चूतमञ्जरीं परिचुम्ब्य कमल-वसतिमात्रनिर्वृत्तः ( सन् ) एनां कथं विस्मृतः असि ।

सङ्गीतशालाभ्यन्तरे राज्ञा दुष्यन्तेन कृतां महादेव्यो वसुमत्या उपेक्षामाधारीकृत्य मधुकरोपालम्भपूर्वकं हंसपदिकया गीयमानां गीतिकामाकर्णयति–अभिनवेति । हे मधुकर ! = मधुरसास्वादलम्पटत्यान्वर्थनामधेय, पक्षान्तरे नित्यनवाङ्गेनोपभोगकामुकां राजन् ! अभिनवे = नूतने मधुनि पुष्परसविशेषे लोलुपः = सतृष्णः इति अभिनवमधुलोलुपः तथा = तेन प्रकारेण यथानुभूतं चूतमञ्जरीं = अभिनवरसाम् आम्रमञ्जरीम् परि-चुम्ब्य = परितः समन्तात् चुम्बित्वा सर्वाङ्गीणं रसमास्वाद्येत्यर्थः । कमलं = पद्ममेव वसतिः = वासः सा एव कमलवसतिमात्रम् तेन निर्वृत्तः सुखितः इति कमलवसतिनिर्वृत्तः पक्षान्तरे कवलवसतिः = पद्मिनी, कामशास्त्रोक्तगुणविशिष्टा वराङ्गना तन्मात्रेण = तदां स्वादनमात्रेण निर्वृतः सुखामिमानी तथाभूतः सन् एनां = चूतमञ्जरीं कथं = केन प्रकारेण विस्मृतः असि = विस्मर्तुं न योग्यम् । विस्मरणे किञ्चित्कारणं न पश्यामीत्युपालम्भः ।

अयं भावः—प्रत्यहमभिनवनायिकोपभोगकामुक ! आम्रमञ्जर्याः रसमास्वाद्य मधु-


राजा—अच्छा, थोड़ा तुम चुप रहो, तो मैं भी जरा सुनूँ ( आकाश में = नेपथ्य से पृथक् किसी स्थान में गीत गाया जा रहा है ) ।

हे मधुकर = भंवर ! आप तो मधु = नये-नये पुष्पो के रस के ही लोभी हो, आपने आम की नई मञ्जरी का ( मेरा ) प्रेम से रस का उपभोग करके अब कमल को पाकर ( कमला नामक दूसरी नई नवेली नायिका को पाकर ) उसके आनन्द में विभोर होकर इस सुरस आम्र की मञ्जरी को ( मुझको ) अब कैसे भूल गये हो ? हे भ्रमर ! कभी तो इसकी भी ( मेरी भी ) कुछ सुध लिया करो ॥ १ ॥

विशेष—यहाँ हंसपदिका का तात्पर्य है—जिसका पैर या पद = शब्द हंस के समान हो । हंसपदिका एक नर्तकी है या दुष्यन्त की रानियों में से एक है, जिसे कभी प्यार करके दुष्यन्त अब उससे विरत हो गये हैं, उस व्यवहार से खिन्न होकर वह नवोढा इस पद्य में वह भाव व्यक्त कर रही है—जिस प्रकार भ्रमर नई आम्रमञ्जरी का उपभोग कर कमल पर जाकर मग्न हो जाता है उसी प्रकार आपने मेरी नई जवानी का उपभोग कर अन्य नारियों में विभोर हैं । वस्तुतः इस पद्य से शकुन्तला का स्मरण दिलाया गया है । यहाँ राजा दुष्यन्त भ्रमर कहे गये हैं, शकुन्तला आम्र की मञ्जरी कही गई है, अन्तःपुर की रानिया कमल के समान मानी गई है। राजा दुष्यन्त ने कण्व के आश्रम पर शकुन्तला से प्रेम कर राजधानी आकर उसे भूल गये थे । राजा को शकुन्तला का भूल जाना यह सूचित करता है कि महर्षि दुर्वासा जी का शाप राजा पर पूर्णरूप से प्रभावकारी है । उसी की स्मृति में यह पद्य निर्मित है ।

२२०अभिज्ञानशाकुन्तलम्

राजा— अहो रागपरिवाहिनी गीतिः।
विदूषकः— किं दाव गीदीए अवगओ अक्खरत्थो। [किं तावद् गीतेः अवगतो-ऽक्षरार्थः]।
राजा— (स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः। तस्या देवीवसुमतीमन्तरेण मदुपालम्भमवगतोऽस्मि। सखे माढव्य! मद्वचनादुच्यतां हंसपदिकानिपुणमुपा-लब्धोऽस्मीति।
विदूषकः— जं भवं आणवेदि। (उत्थाय) भो वअस्स गहीदस्स ताए परकी-एहिं हत्थेहिं सिहंडए ताडीअमाणस्स अच्छराए वीदराअस्स विअ णत्थि दाणि

कर इव स्नेहातिशयां महादेवीं वसुमतीं गाढं परिचुम्ब्य कथमेनां विस्मृतवानसि। सद्य एवैनां सम्भावय। मधुव्रते मधुकरः कार्मुकेऽपि प्रंकीर्तितः।' इति विश्वः। पताकास्थानकम् इदमाक्षेपनामकम् अङ्गं च। तदुक्तं धनञ्जयेन दशरूपके—

'गर्भबीजसमुद्भेद्यादाक्षेपः परिकीर्तितः।'

अत्राप्रस्तुतप्रशंसालङ्कारः, अपरवक्त्रं च छन्दः॥ १॥

राजा— हंसपदिकया गीयमानस्य गानस्य प्रशंसां कुर्वन् राजा = ब्रवीति—अहो! = आश्चर्यम्। रागपरिवाहिनी—रञ्जनं रागः तस्य परिवाहः = निष्पन्दः सोऽस्ति यस्यां सा रागपरिवाहिनी गीतिः = गानम्।

विदूषकः— पृच्छति राजानम्? किं तावत् = साकल्येन गीतेः = गानस्य अथ रागाणां = स्वरावष्टम्भनभूतानामर्थः = निगूढोऽभिसन्धिरित्यक्षरार्थः, बाह्यार्थस्तु मादृशेनाप्यवगन्तुं सुशकः गूढोऽर्थः किं भवता ज्ञातः इति प्रश्नः।

राजा— (स्मितं कृत्वा = ईषद्विहस्य) मया ज्ञातं रहस्यार्थं त्वन्निबन्धनेन कथया-मीति मन्दहासः। रहस्यार्थं कथयति—सकृत् = एकवारं कृतः = विहितः प्रणयः = रति-क्रीडापरिचयः यस्मिन् स सकृत्कृतप्रणयः अयं जनः = अहमित्यक्षरार्थः। तस्याः हंस-पदिकायाः देवीवसुमतीं = महादेवीं वसुमतीं = अन्तरेण = प्रति मदुपालम्भम् = मत्सबन्ध-मुपालम्भम् अवगतः = ज्ञातवान् अस्मि = अहम्। सखे माढव्य! = वयस्य माढव्य! मद्वचनात् = मम सन्देशात् हंसपदिक! उच्यताम् = कथ्यताम् निपुणं = सुष्ठु मधुकर-व्याजेन कृतत्वात् शत्रुर्यम् उपालब्धः = उपालम्भनगोचरीकृतः अस्मि।

विदूषकः— यद् भवान् आज्ञापयति (उत्थाय) भो वयस्य! = हे मित्र! भवदा-ज्ञया तया करणे औचित्यानौचित्यचिन्ता मम नास्ति यथाज्ञासामहमनुतिष्ठामि। तया =


राजा— रागिनियों से युक्त या अनुराग से भरा हुआ यह गान बड़ा ही मधुर है। अर्थात् यह गान मधुर अनुराग प्रवाहित कर रहा है।

विदूषक— हे वयस्य! क्या, आपने इस गान के अर्थ पर भी ध्यान दिया है?

राजा—(हँसकर) हमने कभी इससे अनुराग किया था, जिसे हम अब भूल गये हैं? यही इन अक्षरों का अर्थ है। अब हम इस हंसपदिका से दूर रहते हैं। इसीलिए भ्रमर के ब्याज से हमको उलाहना दिया गया है। अतः हे मित्र माढव्य! (मधुपुरी = मथुरा के चौबे जी) तुम मेरी ओर से जाकर रानी हंसपदिका से कहो कि वाह, तुमने तो हमें खूब उलाहना दिया?

विदूषक— आपकी जैसी आज्ञा (उठाकर) परन्तु हे मित्र! जैसे अप्सरा के द्वारा पकड़े गये

पञ्चमोऽङ्कः २२१

मे मोक्खो । [ यद्भवानाज्ञापयति । भो वयस्य गृहीतस्य तया परकीयेर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ]

राजा—गच्छ नागरिकवृत्त्या ^१संज्ञापयेनाम् ।

विदूषकः—का गई । [ का गतिः । ] ( इति निष्क्रान्तः । )

हंसपदिकया परकीयैर्हस्तैः दासीहस्तैः शिखण्डके = शिखायां काकपक्षे गृहीत्वा स्वस्थानीकृतस्य ताड्यमानस्य मम अप्सरसा = देवाङ्गनया गृहीतस्य वीतरागस्य निस्पृहस्य तपस्विनः इव यथा मे = मम विदूषकस्य तदानीमधुना मोक्षः = मुक्तिः नास्ति ।

अयं भावः—यथा इन्द्रनिर्देशेन देवकार्यं सम्पादयितुं कयाचिदप्सरसा हावभावनृत्यगीतादि-द्वारा स्ववशीकृतस्य कस्यचित् निस्पृहस्य तपस्विनः स्वस्थानच्युतेः पुनः मोक्षः = अपवर्गो न भवति तथैव भवद्दर्शनं सम्पादयितुं हंसपदिकया शिखां गृहीत्वा दासीद्वारा ताड्यमानस्य मम तत्सकाशात् मुक्तिः=मोचनं न भवेत् । अतस्तत्र भवदागमनमावश्यकम् । यदि भवान् नागच्छेत् तदा मदुपरि महत् सङ्कटं समापतेदिति भावः ।

राजा—तत्रोपायमुपदिशति—नागरिकवृत्त्या = नागरिकस्य = अग्राम्यस्य विदग्धस्य वृत्त्या = व्यवहारेण, वैदग्ध्येन एनां = हंसपदिकां संज्ञापय = सूचय, कथय यथा सा अन्यापदेशेन मामुपलभते तथा त्वमपि सहजां ग्रामीणवृत्तिं परित्यज्य मत्सचिव्यसमुचितां नागरिकवैदग्धीमाश्रित्य सापदेशं भङ्ग्या तामुपालमस्व । एवं कृते त्वं तया परिभूतो न भविष्यसीत्यर्थः ।

विदूषकः—का गतिः ? = कः उपायः ? त्वदादेशोल्लङ्घने त्वदेकावलम्बस्य मम न कोऽप्यवलम्बः स्यात् । अतो गमिष्यामि यद्वा नागरिकवैदग्धीमजानतो बुद्धिहीनस्य मम अस्मिन् कर्मणि कोऽभ्युपायस्तथापि केवलं भवदादेशानुसारमेव गच्छामीत्यर्थः ( इति = एवं कथयित्वा निष्क्रान्तः = रङ्गभूमितो बहिर्गतः ) ।

वीतराग तपस्वी की मुक्ति नहीं होती उसी प्रकार दासियों के हाथों पकड़े गये केशपाश वाले मेरी मुक्ति नहीं है । अर्थात् हंसपदिका मेरी खूब खबर लेगी, अपनी यह विपत्ति आपने मेरे शिर पर डाल दी ।

विशेष—यहाँ माढव्य नामक विदूषक का कहना है कि जिस प्रकार रागरहित तपस्वी को अप्सरा नहीं छोड़ती, उसको वह तपोभ्रष्ट कर देती है, उसी प्रकार यह हंसपदिका भी मुझे नहीं छोड़ेगी, अपनी दासियों से मेरे शिर के बाल पकड़वा कर मेरी खूब दुर्गति बनायेगी, यह सोचकर कि इसी ने मुझसे राजा को विरक्त कर दिया है । बड़े-बड़े ऋषि-महर्षियों को अप्सरायें तपोभ्रष्ट कर ही देती हैं । जैसे वीतराग, त्यक्तगृह वनवासी मुनि के पीछे कोई अप्सरा = दिव्य स्त्री लग जाय तो उसकी समाधि को भंगकर उसके मोक्षमार्ग में बाधा उपस्थित कर ही देती है—अर्थात्—जब कोई दिव्य अप्सरा किसी वीतराग तपस्वी को किसी प्रकार फँसा लेती है तब उस बेचारे तपस्वी की मुक्ति दुर्लभ हो जाती है, वह भ्रष्ट होकर अपने वास्तविक लक्ष्य से च्युत हो जाता है । हे राजन् ! प्रेमरस से शून्य मेरे पीछे भी आपने हंसपदिका रूपी चुड़ैल की आफत लगा दी है, जिससे मेरा बचना कठिन है ।

राजा—जाओ, नागरिक वृत्ति = अपनी चतुराई से शिष्टतापूर्वक उसे सन्देश सुनाना, ग्रामीण की तरह नहीं ।

विदूषक—तो क्या उपाय है, जाना ही पड़ेगा ( जाता है ) ।


पाठ०—१. शान्तयैनाम् ।

२२२ | अभिज्ञानशाकुन्तलम्

राजा—( आत्मगतम् ) किं नु खलु गीतार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि। अथवा—

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि॥२॥
( इति पर्याकुलस्तिष्ठति )


**राजा—**दुर्वाससः शापेनागतशङ्कुलास्मीति जन्मान्तरानुभूतमिवात्यन्तस्फुटं तद्रागम् आत्मगतं भावयन् राजा उत्कण्ठाहेतुं विमृशति—किन्नु खलु गीतार्थमाकर्ण्य = गानार्थं निशम्य इष्टजनविरहात् = प्रियव्यक्तिवियोगात् ऋते = विनापि बलवत् = अत्यधिकम् उत्कण्ठितः = व्यग्रः अस्मि। अथवा = यद्वा—अयमेव वा हेतुर्भवितुं शक्य इत्याह—रम्याणीति ।

**अन्वयः—**जन्तुः सुखितोऽपि रम्याणि वीक्ष्य मधुरान् शब्दान् निशम्य न पर्युत्सुकीभवति ( इति ) यत् तत् भावस्थिराणि जननान्तरसौहृदानि चेतसा अबोधपूर्वं नूनं स्मरति ।

राज्ञा हंसपदिकया नीयमानं सोपालम्भं गीतमाकर्ण्य तदर्थभावनया समुत्कण्ठितो राजा दुष्यन्तः स्वमनसि विचारयति—रम्याणीति । जन्तुः=सर्वोऽपि प्राणी सुखितोऽपि = प्रियजनसान्निध्येन सन्तोषमनुभवन्नपि रम्याणि = मनोहराणि चन्द्र-चन्दन-प्रमदादीनि वस्तूनि वीक्ष्य = प्रसङ्गादवलोक्य मधुरान् = श्रवणसुभगान् शब्दान् = भ्रमरझङ्कार-कोकिलालापगीतादिशब्दान् निशम्य = श्रवणविषयीकृत्य च पर्युत्सुकीभवति = उत्कण्ठते, इति यत् = सुखितस्यापि जन्तोः सुन्दररूपदर्शनं-मधुरशब्दश्रवणमात्रेण पर्युत्सुखीभवनं तत् = तस्मात् कारणात् पर्युत्सुकीभवनात् भावस्थिराणि = भावनात्मकतया मनसि लीनानि जननान्तरसौहृदानि पूर्वैषु जन्मसु अनुभूतानि प्रियजनसम्बन्धिविशेषान् चेतसा = चित्तेन अबोधः = ईषद्वोधः = तत्पूर्वः तत्पूर्वकम् = विशेषज्ञानाभावपूर्वं नूनं = ध्रुवं निश्चयेन स्मरति = मनसि भावयति।

अर्थात् प्रियजनसमीपे सुखेन निवसन्अपि प्राणी चन्द्रचन्दनोद्यानानि निरीक्ष्य श्रवणसुभगं गीतध्वनिं च निशम्य यत् सद्यः समुत्कण्ठते भवति तत्र वासनारूपेण जन्मान्तरानुभूतं सौहार्दमेव कारणं भवति नान्यत्। अत्राप्रस्तुतप्रशंसाऽनुमानविभावना-काव्यलिङ्गालङ्कारा वसन्ततिलकाछन्दश्च ॥ २ ॥

( इति = एवम् उक्त्वा पर्याकुलः = व्यग्रः सन् तिष्ठति = स्थितः )


राजा—( मन ही मन ) इस प्रकार हंसपदिका के विरहसूचक गीत को सुनकर किसी अपने इष्ट जन के वियोग के बिना भी मैं क्यों अत्यन्त उत्कण्ठित-सा हो रहा हूँ अथवा रमणीय वस्तुओं को देखकर श्रवण मधुर शब्दों को सुनकर सुखीजन भी कभी-कभी उत्कण्ठित-सा हो जाता है। इससे सिद्ध होता है कि वह मनुष्य बिना जाने हुए भी वासना रूप से अत्यन्त सुदृढ़ जन्मान्तरीय सौहार्द का ही स्मरण करता है ॥ २ ॥

( यह कहकर आकुल हो बैठ जाते हैं )

पञ्चमोऽङ्कः

२२३

( ततः प्रविशति कञ्चुकी )

कञ्चुकी—अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।

आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविकलवगतेरवलम्बनार्था ॥ ३ ॥

( अथागमिष्यत्पात्रप्रवेशसूचनावसरं सम्पादयितुं कञ्चुकीप्रवेशमाह—ततः = तदनन्तरं कञ्चुकिः कञ्चुकः = वारवाणोऽस्यास्तीति कञ्चुकिः = सौविदल्लः प्रविशति = रङ्गभूमावाविर्भवति )

'कञ्चुको वारवाणः स्यात्' इत्यमरसिंहः । कञ्चुकिलक्षणं चाह भ्रातृगुप्तः—

'ये नित्यं सत्यसम्पन्नाः कामदोषविवर्जिताः ।
ज्ञान विज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥'

अपि च—

'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः ।
सर्वकामार्थकुशलः कञ्चुकीत्यभिधीयते ॥'

जरावैकलव्ययुक्तेन शरीरेण सम्पन्नः कञ्चुकी रङ्गभूमौ प्रविश्य संस्कृतभाषयैवाभिधत्ते । तद्यथा—

'जरावैकलव्ययुक्तेन विशेद् गात्रेण कञ्चुकी ।
विदुषां संस्कृतभाषा मन्त्रिकञ्चुकिनामपि ॥'

कञ्चुकी—महर्षेः कण्वस्यादेशेन शकुन्तलामादाय हस्तिनापुरमुपस्थाय च राजमन्दिरं प्रविष्टानां शार्ङ्गरवादीनां सन्देशं राज्ञो दुष्यन्तस्यान्तिके प्रापयिष्यन् कञ्चुकी वार्द्धक्यक्लिष्टमात्मानमनुशोचति—अहो नु खलु = हा, ईदृशीं एतादृशीम् वयःकृतां विसदृशीं अवस्थां = दशाम् प्रतिपन्नः = आपन्नः, अहं प्राप्तः अस्मि । वार्द्धक्यातिशयेन विसदृशीं जरावस्थां विवृणोति—आचार इति ।

अन्वयः— राज्ञः अवरोधगृहेषु अवहितेन मया आचार इति या वेत्रयष्टिः गृहीता सैव बहुतिथे काले गते प्रस्थानविकलवगतेः मम अवलम्बनार्था जाता ।

वार्द्धक्याद् वेपमानकलेवरः कञ्चुकी नैजीवस्था विमृशन् हस्तेन धृतां यष्टिकां विलोक्य ब्रूते—आचार इतीति । राज्ञः=महाराजस्य दुष्यन्तस्य अवरोधगृहेषु = अन्तःपुरेषु अवहितेन = अप्रमत्तेन सावधानेन सता मया = कञ्चुकिना आचार इति = परम्परा गता राजभृत्यमर्यादेयमिति हेतोः अन्तःपुराधिकृतेन रक्षाधिकारिणा पुरुषेण हस्ते सदा वेत्र-यष्टिः गृहीतव्या इत्याचारदित्यर्थः । या वेत्रयष्टिः = वेतसदण्डं गृहीता = हस्ते सदा


( इसके बाद रंगमंच पर कञ्चुकी का प्रवेश )

कञ्चुकी—हाय, ऐसी हालत में पहुँच गया हूँ।

मैंने राज के महलों में सावधान होकर जिस छड़ी को केवल नियम पालन करने के लिए धारण किया था, वही छड़ी अधिक दिन बीत जाने पर अब तो सहारा देने वाली एक आवश्यक वस्तु हो गई है ॥ ३ ॥

विशेष—लम्बा चोंगा पहने हुए राजा के रनिवास के वृद्ध दर्बारी व्यक्ति को कञ्चुकी कहते हैं जो नियमानुसार हाथ में छड़ी लिए रहता है । कञ्चुकी सोचता है कि पहले जब शरीर में कुछ शक्ति थी तब छड़ी की जरूरत नहीं थी, केवल नियमानुसार कायदे का पालन करने के लिए लिया

२२४ अभिज्ञानशाकुन्तलम्

भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदितुम् । अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः ! कुतः—

भानुःसकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति । शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ ४ ॥

धारिता सैव तदानीं केवलमाचार इत्येव, न तु तस्याः कश्चनोपयोग इति गृहीता वेत्रयष्टिरेव, बहुतित्ये = बहुसंख्ये काले = समये गते = अतीते सति प्रस्थानविप्लवगते प्रस्थाने = गमनाारम्भे विक्लवाः = विवक्षा गतिः = पादविन्यासो यस्य स तस्य तथाविधस्य मम-अवलम्बनं = अवष्टम्भ एवार्थः = प्रयोजनं यस्याः सा अवलम्बनार्था = शरीरावलम्बनप्रयोजना जाता = सम्पन्ना । साम्प्रतं वेत्रयष्टिसाहाय्यमन्तरा नाहं पदात्पदमपि चलितुं शक्नोमि । पूर्वं तारुण्यावस्थायां महाराजस्यान्तःपुरे कञ्चुकिनोऽयमाचार इत्येवं मत्वा गृहीता इदानीं तु आचारः शरीरावष्टम्भनं चेत्युभयथा मया यष्टिर्गृह्यते इति तात्पर्यम् । अत्राप्रस्तुतप्रशंसा·विभावना छेक-वृत्ति-श्रुत्यनुप्रासालङ्काराः वसन्ततिलकं वृत्तं च ॥ ३ ॥

एवं स्वकीयामवस्थां परामृशन् कञ्चुकी आत्मना कर्तव्यमनुसन्दधान आह—भोः = अहो, कामं = मन्ये देवस्य धर्मकार्यं = कर्तव्यकर्म, धर्म्यारण्यात्समागतानां महर्षिः कण्वस्य शिष्याणामभ्यर्थनादिकम्, अनतिपात्यम् = अनतिक्रमणीयम्, कालक्षेपानर्हम्, सद्यो निवेदितुं योग्यमिति यावत्, तथापि इदानीमेव धर्मासनात्-व्यवहारासनात् उत्थिताय = उत्थाय विश्रान्ताय पुनः = भूयः उपरोधकारि = विघ्नजनकम् कण्वशिष्यागमनं = कण्वान्तेवासिनामुपस्थितिं अस्मै = अमुस्मै राज्ञे दुष्यन्ताय निवेदितुं = कथयितुं नोत्सहे = न कामये । पुनर्विमृश्याह अथवा = अयं विकल्पः, यतो हि अयं = एषः लोकतन्त्राधिकारः लोकस्य = प्रजाजनस्य तन्त्रं = योगक्षेमं तस्याधिकारः = अनुष्ठानम् यद्वा लोके = भुवने तन्त्राधिकारः = प्रधानाधिकारः, अथवा लोकतन्त्रः = लोकाधीनः, पराधीनः अधिकारः प्रजापालनाधिकारः प्रजानुरोधेनैव सम्पादयितुं शक्यः इति लोकतन्त्राधिकारः अविश्रमः- न विद्यते विश्रमो यस्मिन् स अविश्रमः = विश्रान्तिरहितः । तस्मात् कण्वशिष्यागमनमिदानीमेवं निवेदनीयमिति भावः । कुतः यतो हि—उक्तमर्थं साधयति—भानुरिति ।

अन्वयः— भानुः सकृद् युक्ततुरङ्ग एव, गन्धवहः रात्रिंदिवं प्रयाति, शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि एष धर्मः ।

था, किन्तु अब शक्तिहीन होने से वह मुझे सहारा देती है। कञ्चुकी का छड़ी लेना अनिवार्य कार्य है। यह धार्मिक सत्यवक्ता, शुद्धचरित्र एवं विद्वान् होता है। वृद्धावस्था में लड़खड़ाने के कारण तो हाथ में छड़ी रखना अत्यावश्यक है, फिर भी अन्तःपुर की रक्षा में नियुक्त कञ्चुकी को नियमानुसार छड़ी लेना पड़ता है।

यद्यपि यह बात सत्य है कि धर्म-कार्यों में महाराज को कभी विलम्ब नहीं करना चाहिए, फिर भी मुझे शङ्का हो रही है कि महाराज अभी धर्मासन से उठकर विश्राम के लिए आये हुए हैं उनसे महर्षि कण्व के आने का सूचना दे देने से उनके विश्राम में विघ्न ही पड़ेगा। अथवा भुवन के इस प्रधान अधिकार में राजाओं को आराम नहीं है, क्योंकि देखो—

भगवान् भास्कर के रथ में उनके घोड़े सदा जुते ही रहते हैं, एक बार जब वे रथ में जुते तब से बराबर चक्कर ही काटते रहे हैं। वायु भी दिन-रात बहता ही रहता है, वह भी कभी विश्रमा

पञ्चमोऽङ्कः १२५

प्रजापालनमात्मनो धर्ममनुतिष्ठतां नृपतीनां क्षणमपि विश्रामस्यावकाशो न जायते इति वास्तविकीं स्थितिम् उदाहरणद्वारा समर्थयति कञ्चुकीः— भानुरिति। भानुः = सूर्य्यः सकृत् = एकवारं युक्ताः = योजिताः बद्धाः तुरङ्गाः = वाजिनो येन स सकृद्युक्त-तुरङ्गः एव। एकवारमेव स्वरथे तुरङ्गमानां योजनं कृत्वा भानुः सर्वदा प्रतिदिनं पर्यट-त्येव, तस्य पुनस्तुरङ्गमयोजनयापि अवकाशो न भवति। गन्धवहः = आवहप्रवहात्मको-वायुः रात्रिं दिवं = अहोरात्रम् प्रयाति = गच्छति प्रचलति। शेषः = शेषनागः, अनन्तः सदैवाहितभूमिभागः— सदैव सर्वदा आहितः = धृतः भूमेः = वसुन्धरायाः भारो गुरुत्वं येन स सदैवाहितभूमिभारः षष्ठांशवृत्तेः— षष्ठांशः = न्यायेन प्रजाः परिपालयता नृपेण प्रजाभ्यः ग्राह्यः षष्ठो भागः एष एव राज्ञामाजीवनं वृत्तिः = वर्तनं यस्य स तस्य षष्ठांशवृत्तेः, एषः = पूर्ववाक्यत्रयोपेतः अविश्रान्तिलक्षणः धर्मः प्रजापरिपालनात्मक अस्ति = विद्यते।

अर्थात्— लोकरक्षायै भगवान् भास्करः युगादावेकवारमेव स्वरथे नियुक्ततुरङ्गमोऽद्य यावत् भ्रमत्येव। न तदश्वाः कदापि रथाद् वियुज्यन्ते, न कदापि विश्राम्यन्तीति भावः। विश्वप्राणधारको वायुः अहोरात्रं प्रवहत्येव, न कदापि विश्राम्यति, एवं शेषनागोऽपि सर्वदैव शिरो धृतधरित्रीमण्डलः तिष्ठति न कदापि स्वाधिकारात् क्षणमपि विरमति। प्रजोपार्जितधनादितः षष्ठभागाधिकारिणो राज्ञोऽपि प्रजापालनेऽविश्रामः आवश्यक-कर्त्तव्यो विद्यते। राजा हि प्रजाभ्यस्तदुपार्जितधनादेः षष्ठं भागं कररूपेण गृह्णाति। एवं च राज्ञां प्रजापालनात्मकं स्वीयं कर्त्तव्यमनुतिष्ठतां क्षणमात्रमपि विश्रामस्यावसरोऽपि न भवतीति युक्तमेव। महाराजो दुष्यन्तः, धर्मासनादुत्थिताय विश्रामं करोति। अतः तस्मै इदानीमेव महर्षिकण्वशिष्यस्यागमनं नूनं निवेदयितुमुत्सहे इत्यर्थः। अत्र मालाम्रति-वस्तूपमा-अप्रस्तुतप्रशंसा-श्रुत्यनुप्रासपरिसंख्यालङ्कारा इन्द्रवज्राछन्दश्च॥ ४ ॥


नहीं लेता और शेषनाग भी हमेशा भूमि के भार को अपने शिर पर धारण किये ही रहते हैं, वे भी उससे कभी विश्राम नहीं पाते। इसी प्रकार प्रजा से छठे भाग के लेने के अधिकारी राजा को भी प्रजापालन में सदा उद्यत रहना ही धर्म है॥ ४॥

विशेषअनतिपात्यम्—शब्द के द्वारा कञ्चुकी यह कहना चाहता है कि धार्मिक कार्यों के सम्पादन में राजा को विलम्ब नहीं करना चाहिए। तपस्वी, ऋषि, मुनि और विद्वानों का समादर एवं सत्कार भी धार्मिक कार्य है। अतः महर्षि कण्व के शिष्यों की बात सुनना अत्यावश्यक धर्म-कार्य है। उनसे न मिलना धर्म की हानि है। राजा को विश्राम करना भी आवश्यक है। फिर भी कर्त्तव्य भावना से ऊँचा है। इसलिए कञ्चुकी निर्णय करता है कि राजा के विश्राम में बाधा डालना ही उचित है। क्योंकि लोकप्रधान शासन में विश्राम कहाँ? धर्म शब्द न्याय के लिए आया है। धर्मासन का अर्थ है न्याय करने का आसन। अतः धर्मासन या न्यायासन एक ही चीज है।

सृष्टि के आरम्भ में भगवान् सूर्य के सात रंग के सात घोड़े उनके रथ में एक बार जोते गये, जो निरन्तर लगे हुये हैं। अब तक न तो सूर्य को ही विश्राम करने का एक क्षण भी मिला, न उनके घोड़े ही खोले गये। राजा को षष्ठांशवृत्ति इसलिए कहा जाता है कि वह प्रजा को रक्षा करने के बदले उसके अनाज का छठा भाग कर के रूप में लेता है।

15

१५ शाकु०

२२६ अभिज्ञानशाकुन्तलम्

यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः ।

प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवतेऽशान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ ५ ॥

यावत् = प्रथमं नियोगं = कर्तव्यं कण्वशिष्यागमननियोगम् अनुतिष्ठामि = करोमि (परिक्रम्य = मण्डलाकारं भ्रमित्वा, अवलोक्य = दृष्ट्वा च) एषः = समक्षम् देवः = महाराजा दुष्यन्तः ।

अथ राजानमवलोक्य तस्य तात्कालिकोमवस्थां वर्णयन् कञ्चुकी कथयति—एष देवः प्रजाः प्रजाः स्वा इवेति ।

अन्वयः—एष देवः स्वाः प्रजाः इव प्रजा तन्त्रयित्वा अशान्तमना द्विपेन्द्रः दिवा यूथानि संचारं रविप्रतप्तः सन् शीतं स्थानमिव विविक्तं निषेवते ।

महर्षेः कण्वस्य शिष्यादीनामागमनं निवेदयितमुपस्थितः कञ्चुकी धर्मासनादुत्थाय रहसि विश्रामं कुर्वतो राज्ञो दुष्यन्तस्य तात्कालिकीमवस्थां वर्णयति—प्रजाः प्रजा इति । एष देवः = अयमस्माकं महाराजो दुष्यन्तः स्वाः = स्वकीयाः प्रजाः = अपत्यानि इव प्रजाः = स्वीयप्रजाजनान् तन्त्रयित्वा = संव्यवहार्य, स्वं स्वं कार्यं कारयित्वा यद्वा विवादशमनादिभिः संरम्य अत एवाशान्तमनाः शान्तं=अनुद्विग्नं मनः = चित्तं यस्य स शान्तमना न शान्तमना अशान्तमनाः = धर्मेण प्रजापालनपूर्वककर्तव्यसम्पादनात् अव्यप्रचित्तः द्विपेन्द्रः = गजयूथाधिपः दिवा = दिवसे, मध्याह्ने यूथानि = गजसमूहान् संचार्र्य = चारयित्वा, आहारविहारादिषु व्यापार्यं अत एव रविप्रतप्तः = सूर्यकिरणसन्तापातिपीडितः शीतं = प्रच्छायशीतलं स्थानमिव विविक्तं = विजनं स्थानमिव निषेवते = भजते, विश्रामयोग्ये विजने स्वैरमुपविशतीत्यर्थः ।

अर्थात् एष महाराजो दुष्यन्तो न्यायाासनादुत्थाय एकान्ते स्वैरमुपविष्टोऽस्ति । यथा गजराजः आहाराद्यन्वेषणार्थं गजवृन्दं संचार्र्य मध्याह्ने सूर्यतापम् असहविष्णुः सन् प्रच्छाय शीतले प्रदेशे किञ्चित्कालं विश्रम्य पुनः स्वकीयं यूथं सञ्चारयति तथैवायमपि महाराजो दुष्यन्तः प्रजाकार्यकरणपरिश्रान्तः सन् विश्रमार्थं क्षण तिष्ठति विश्रान्तश्च भूयोऽपि


पहले अपने कर्तव्य का पालन करूँ (घूम कर और सामने देख कर) ये महाराज विराज रहे हैं—

अपने पुत्र की तरह प्रजाओं का पालन और नियमन करके शान्त मन हो अब उसी प्रकार एकान्त का सेवन कर रहे हैं जैसे गजयूथों का यथावत् सञ्चालन कर सूर्य के सन्ताप से सन्तप्त हो यूथपति गजराज शीतल गिरिगुफा का सेवन करता है। अर्थात् राजदरबार से आकर अब एकान्त में आराम कर रहे हैं ॥ ५ ॥

विशेष—इस पद्य के द्वारा राजा और प्रजा के मधुर सम्बन्ध को व्यक्त किया गया है। प्राचीन काल में भारतीय राजा अपनी सन्तति की तरह प्रजा का पालन करते थे। राजा का व्यवहार प्रजा के प्रति आत्मीयतापूर्ण था। जिससे वे उनके सुख-दुःख मे सदा तत्पर रहते थे।

'द्वाभ्यां मुखशुण्डाभ्यां पिबतीति द्विपः' इस व्युत्पत्ति के अनुसार हाथी पहले सूँड से पानी उठाता है फिर मुँह से पीता है। इसलिए उसे द्विप कहा गया है। द्विपों के राजा को द्विपेन्द्र कहते हैं। इस पद्य में राजा को गजराज की तरह, प्रजा को गजसमूह की भाँति और राज्य-सञ्चालन गज-समूह के सञ्चालन की भाँति बतलाया गया है।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पञ्चमोऽङ्कः | ३२७

( उपगम्य ) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः कण्वस्य संदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः श्रुत्वा देवः प्रमाणम् ।

राजा—( सादरम् ) किं काश्यपसंदेशहारिणः !

कञ्चुकी—अथ किम् ।

राजा—तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव ^१प्रवेशयितुमर्हति इति ! अहमप्यत्र तपस्वि-दर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।


स्वधर्मं प्रजापालनकार्यं करिष्यतीति भावः । अत्रोपमानुप्रासयोः संसृष्टिरलङ्कारः वृत्तञ्चोपेन्द्रवज्रा ॥ ५ ॥

( उपगम्य = राजान्तिकमुपसृत्य ) जयतु = सर्वोत्कर्षेण वर्तस्व, जयतु सर्वोत्कर्षेण वर्तस्व देवः = महाराजः । एते = इमे खलु हिमप्रधानो गिरिः हिमगिरिः तस्य हिमगिरेः = हिमालयस्य = उपत्यकारण्यवासिनः उपत्यकारण्यं = पर्वतासन्नभूमिमवनम् तत्र वसितुं शीलं येषां ते उपत्यकारण्यवासिनः = सस्त्रीकाः = गौतमी-शकुन्तलासहिताः तपस्विनः = तापसाः कण्वसन्देशं = काश्यपवचनम् आदाय = गृहीत्वा संप्राप्ताः = आगताः सन्ति । श्रुत्वा = आकर्ण्य देवः महाराजः प्रमाणम् = प्रमाता यथोचितं विधातुं शक्तः । सन्देश-श्रावणमात्रं ममाधिकारः भविष्यत्कर्त्तव्यनिर्णये भवानेव प्रभुः, न मम किञ्चित्त्रानुरोध इति भावः ।

राजा—( सादरं = आदरेण सह ) किं कण्वसन्देशहारिणः ? कश्यपस्य वार्ता-वाहकाः ?

कञ्चुकी—अथ किम् = आम् ।

राजा--दुष्यन्तः स्वकर्तव्यमादिशति तेन = तस्मात् कारणात् हि मम वचनम् = मत्सन्देशात् सोमरातः उपाध्यायः = सोमरातोपाध्यायः तन्नामकः कुलपुरोहितः विज्ञाप्यतां = सूच्यताम् श्रौतेन = वैदिकेनं विधिना = रीत्या अमून् = तान् स्वयं स्वयमेव-आत्मन्येव सत्कृत्य = पूजयित्वा प्रवेशयितुं = मत्समीपे समुपस्थापयितुमर्हति भवान् इति । अहमपि = स्वयमपि तपस्विदर्शनोचिते तपस्विनां = तापसानां दर्शनस्य = मिलनाय उचिते = समी-


( पास में जाकर ) महाराज की जय हो । हिमालय की तराई के जंगल में निवास करने वाले महर्षि कण्व के सन्देश को लेकर स्त्रियों के साथ लिए हुए तापस लोग आये हुए हैं । आपकी जैसी आज्ञा हो वैसा किया जाय ।

**विशेष—**संस्कृत में पर्वत की निचली भूमि को उपत्यका और हिन्दी में पर्वत की तराई कहते हैं । वैसे ही संस्कृत में पर्वत के ऊपरी भाग को अधित्यका एवं हिन्दी में पठार भी कहते हैं । यहाँ कञ्चुकी का कहना है कि महाराज ! मैंने आपके आराम में बाधा नहीं डाली है, बल्कि विवश होकर आपके धर्म की रक्षा के लिए तापसों के आने की सूचना दे दी है ।

राजा—( सम्मान के साथ ) क्या महर्षि कण्व का सन्देश लाने वाले हैं ?

कञ्चुकी—जी, हाँ !

राजा—तो उपाध्याय सोमरात से मेरा सन्देश कहना कि इन तपोवनवासियों का सत्कार


पाठ०—१. प्रवेशयितुमर्हसीति । २. अहमप्येतांस्तपस्विदर्शनोचिते ।

२२८ | अभिज्ञानशाकुन्तलम्

कञ्चुकी—यदाज्ञापयति देवः। (इति निष्क्रान्तः)।
राजा—(उत्थाय) वेत्रवति ! अग्निशरणमार्गमादेशय।
प्रतिहारी—इदो इदो देवो। [इत इतो देवः।]
राजा—(परिक्रामति। अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः। राज्ञां तु चरितार्थता दुःखान्तरैव।


चीने प्रदेशे = स्थाने, यज्ञशालायां स्थितः = वर्तमानः सन् प्रतिपालयामि = प्रतीक्षे। तथा चोक्तम्।

'अग्न्यागारगतः कार्यं पश्येद्वैद्यतपस्विनाम्।
पुरोहिताचार्यसखः प्रत्युद्गम्याभिवाद्य च॥'

कञ्चुकी—यत् = यथा आज्ञापयति = आदिशति देवः = महाराजः ( इति = एवमुक्त्वा = कथयित्वा निष्क्रान्तः = रङ्गभूमितो बहिर्गतः)
राजा—(उत्थाय) वेत्रवति = यष्टिधारिणि ! प्रतिहारि ! अग्निशरणमार्गं = अग्न्यागारमार्गं यज्ञशालापन्थानम् आदेशय = प्रदर्शय।
प्रतिहारी—इत इतो देवः = अनेन पथा श्रीमान् आगच्छतु। प्रतिहारी लक्षणं यथा—

'सन्धिविग्रहसंबद्धं नानाकार्यसमुत्थितम्।
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः॥'

**राजा—(दुष्यन्तः परिक्रामति—**मण्डलाकारं गच्छति, अधिकारस्य = नियोगस्य


वैदिक रीति से करके स्वयं अन्दर लायें। मैं भी तपस्वियों से मुलाकात करने योग्य इस स्थान में रह कर प्रतीक्षा करता हूँ।

**विशेष—**यहाँ कण्वाश्रमवासी तपस्वियों के वैदिक-रीति से सत्कार करने के निमित्त उपाध्याय सोमरात को कहने का तात्पर्य है कि जो जिस स्थिति का हो, उसे उसी स्थिति वालों के द्वारा सत्कार होना उचित है। मनुस्मृति के अनुसार जो वेद का एक भाग या वेद के अङ्ग को जीविका के लिए पढ़ाता है, उसे उपाध्याय कहते हैं—

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २।१४१

हिन्दू-धर्म के अनुसार वैदिक ब्राह्मण एक यज्ञशाला बनाकर यज्ञशाला का विधिवत् संस्कार करके गार्हपत्य, दाक्षिणात्य और आहवनीय इन तीन अग्नियों की स्थापना कर उनमें प्रतिदिन हवन-कर्म किया करते हैं। इसी प्रकार राजा भी राज्यकार्य की व्यग्रता से समय न पाकर इसके निमित्त पुरोहित की नियुक्ति कर देता है। समय-समय पर तपस्वी आदि पवित्र चरित्रवाले व्यक्तियों से राजा अपने पुरोहित या आचार्य के साथ-साथ अग्निशाला में ही मिलता है, जैसा कि शास्त्रों में निर्देश है—

अग्न्यागारगतः कार्यं पश्येद् वैद्यतपस्विनाम्।
पुरोहिताचार्यसखः प्रत्युद्गम्याभिवाद्य च॥

**कञ्चुकी—**महाराज की जैसी आज्ञा (चला जाता है)।
राजा—(उठकर) द्वारपालिके ! यज्ञशाला का रास्ता दिखलाना।
**प्रतिहारी—**महाराज ! इधर से चलें, इधर से चलें।
राजा—(घूमता है, कर्त्तव्य की खिन्नता का अभिनय कर) सभी प्राणी अपनी

पञ्चमोऽङ्कः

२२९

औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय ^१ न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६॥

खेदं = कष्टम् अधिकारनियोगं = राज्यकार्यंकारणात् परिश्रमम्, निरूप्य अभिनोय, नाटयित्वा ) सर्वः = सकलः, जन्तुः = जीवः प्रार्थितम् = अभीष्टं स्वाभिलषितम्, अर्थं = वस्तु अधिगम्य = लब्ध्वा, ईप्सितं पदार्थं प्राप्य सुखी = सन्तुष्टः सम्पद्यते = भवति । सर्वेषामेव स्वेष्टसिद्धौ सुखसम्पत्तिर्जायते इत्यर्थः । राज्ञां = प्रजापालनाधिकृतानां नृपाणां तु चरितार्थता = अभीष्टसिद्धिः इष्टलाभः, राज्यप्राप्तिः, दुःखमुत्तरं यस्याः सा दुःखोत्तरा = दुःखमात्रसारैव । न्यूनसुखा = अधिकदुःखा च । अथवा चरितार्थता = अभीष्टार्थलाभजनितं सुखं दुःखान्तरा = दुःखान्तरावकाशसंपादिका । राज्ञां सुखमपि दुःखबहुलमेव भवतीति भावः । उक्तमर्थमुपपादयति—औत्सुक्यमात्रेति ।

अन्वयः—प्रतिष्ठा औत्सुक्यमात्रम् अवसादयति, लब्धपरिपालनवृत्तिः एनं क्लिश्नाति, स्वहस्तधृतदण्डम्, आतपत्रमिव राज्यम्, अतिश्रमापनयनाय न, श्रमाय च न ( भवति ) ।

उक्तमर्थमेवोपपादयति राजा दुष्यन्तः—औत्सुक्यमात्रमिति । प्रजापालनाधिकृतानां मादृशानां नृपाणां तु प्रतिष्ठा—सर्वोत्कृष्टं गौरवम्, औत्सुक्यमात्रम्=औत्सुक्यमेव औत्सुक्यमात्रम्–अशेषमुत्कण्ठाम् अवसादयति = समापयति, समाप्तिं नयति लब्धस्य = प्राप्तस्य फलस्य यत् परितः सर्वतोभावेन पालनं=रक्षणम् तत्र या वृत्तिः = व्यापारश्चेति लब्धपरिपालनवृत्तिः, एनं = नृपम्–क्लिश्नाति = पीडयति, क्लेशं जनयत्येव । राज्यप्रतिष्ठाजन्यं सुखं राज्यपरिपालने दुःखं निवारयितुं न शक्नोति । राज्यस्य फलंम् इच्छाविनोदमात्रम्, परं तद्रक्षणवर्द्धनादौ भूयान् प्रपञ्चः महानायासोऽपि भवति । यावत् सुखं राज्ये नास्ति, तावत्तत्र राज्यरक्षणे दुःखमेवेति भावः । स्वहस्ते = निजकरकमले धृतः = स्थापितः दण्डः = अवष्टम्भयष्टिविशेषः यस्य तत् स्वहस्तधृतदण्डम्–स्वकरतलकलितदण्डम् आतपात् त्रायते इत्यातपत्रम् = छत्रमिव राज्यम् अतिश्रमापनयनाय = श्रमाणा मत्यपनयनाय, सर्वथा श्रमंनिवारणाय न, श्रमाय च न=अतिश्रमाय च न । राज्ये यथा श्रमः तथा न सुखम्, नैव विश्रान्तिश्चेत्यर्थः ।


अभीष्ट वस्तु को पाकर सुखी हो जाते हैं, किन्तु राजाओं को तो अभीष्ट वस्तु की प्राप्ति भी दुःखप्रद ही होती है। क्योंकि—

राज्य की प्राप्ति से जो प्रतिष्ठा प्राप्त होती है, वह तो केवल मनुष्य की उच्च आकाङ्क्षा मात्र को ही शान्त करती है, किन्तु राज्य की रक्षा करना तो बड़ा ही कठिन एवं कष्टप्रद है। जैसे मनुष्य को छतरी से जितना सुख नहीं होता, उससे अधिक कष्ट उसकी डण्डी हाथ में पकड़े रहने से होता है। उसी प्रकार राज्य भी जितना सुख नहीं देता उससे अधिक परिश्रम और कष्ट ही देता है ॥६॥

विशेष—राज्यग्रहण करने वालों को जहाँ अधिकार मिलता है वहाँ कर्तव्य के कारण कष्ट भी उठाना पड़ता है। जैसे छाते के दण्ड को पकड़े रहने से परिश्रम ही ज्यादा होता है, उसकी अपेक्षा छाते से मनुष्य को सुख कम मिलता है, वैसे ही राज्य की प्राप्ति से जितना सुख नहीं मिलता उससे अधिक चिन्ता, कष्ट और परिश्रम ही होता है। इस प्रकार छाता जहाँ धूप आदि कष्ट से बचाता है


पाठा— १. यथा श्रमाय ।

२३० | अभिज्ञानशाकुन्तलम्

( नेपथ्ये )

वैतालिकौ—विजयतां देवः।

प्रथमः

स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते ^१वृत्तिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७ ॥

अयं भावः—यथा पथिकैः स्वहस्ते ध्रियमाणं छत्रं तेषां केवलमातपदुःखं दूरीकरोति न च सर्वथा श्रमापनयनं विद्यते तथैव धृतदण्डेन राज्ञा परिपालितं राज्यं क्लेशसंमिश्रं सुखं जनयति। तस्मादुत्कण्ठानिवृत्यवसानमेव राज्यतन्त्रम्, नातिसुखम्, नातिदुःखमिति तत्त्वम्। अत्राऽप्रस्तुतप्रशंसा-काव्यलिङ्ग विरोधाभासोपमालङ्काराः वसन्ततिलकाछन्दश्च ॥ ६ ॥

अथावसरप्राप्तं वैतालिकवचनं दिदर्शयिषुराह—नेपथ्ये = जवनिकायाम् वैतालिकौ द्वौ चारणौ वन्दिनौ आहुतुः—विजयतां देवः = महाराजः उत्कर्षं लभतां सर्वोत्कर्षेण वर्तस्व। वैतालिकलक्षणं भावप्रकाशे—

'तत्तत्प्रहरकयोग्यैः रागैः तत्कालवाचिभिः श्लोकैः।
सरसमेव वितालं गायन् वैतालिको भवति ॥'

नृपतेर्दौर्मनस्यं दूरीकर्तुमधिकृतयोरवसरज्ञयोः वैतालिकयोः राजानमेवं स्तौति—स्वसुखेति।

अन्वयः—स्वसुखनिरभिलाषः ( त्वं ) प्रतिदिनं लोकहेतोः 'विद्यते' अथवा ते वृत्तिः एवंविधैव ( अस्ति ) हि पादपः मूर्ध्ना तीव्रम् उष्णम् अनुभवति छायया आश्रितानां परितापं शमयति।

अथावसरज्ञयोः राज्ञो दुष्मन्तस्य दौर्मनस्यं दूरीकर्तुमधिकृतयोर्वैतालिकयोरेको राज्ञः सामान्यजनाद् व्यतिरेकं वर्णयति—स्वसुखेति। हे राजन् स्वस्य स्वस्मिन् वा यत् सुखे = आनन्दे निरभिलाषनिस्पृहः इति स्वसुखनिरभिलाषः = स्वसुखेच्छारहितः त्वं प्रतिदिनं = प्रत्यहं, सर्वदा, लोकहेतोः = जनकल्याणाय खिद्यसे = क्लेशमनुभवसि। सर्वोऽपि जनः पर-


वहाँ दण्ड पकड़े रहने मे तकलीफ भी होती है। उसी प्रकार राज्य भी सुख से दुःखदायी है। राज्य की रक्षा में अधिक कष्ट उठाना पड़ता है। राज्य में सुख ही सुख है, यह सोचकर उसमें सर्वदा आसक्त नहीं होना चाहिए।

यहाँ दण्ड का दो अर्थ है—एक दण्ड=न्याय की व्यवस्था है और दूसरा दण्ड छाते का डण्डा। उच्चपद पर पहुँचने की उत्सुकता सभी को होती है, पर पद की प्राप्ति के बाद उत्सुकता शान्त हो जाती है, क्योंकि कर्तव्य पालन में कठिनाइयाँ बढ़ जाती है तथा सुख दुर्लभ हो जाता है।

( नेपथ्य में )

दोनों वैतालिक—महाराज की जय हो।
प्रथम—पहला चारण कहता है—
महाराज ! आप तो अपने सुख की इच्छा किए विना केवल लोकोपकार के लिए ही प्रतिदिन परिश्रम एवं कष्ट उठाते हैं। अथवा आपका जन्म ही इस कार्य के लिए है, क्योंकि वृक्ष अपने शिर-


पाठा०—१. सृष्टिरेवंविधैव ।

पञ्चमोऽङ्कः२३१

द्वितीयः--नियमयसि ^[१]कुमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।

सुखदुःखानिरपेक्षः केवलमात्मसुखसम्पादनायैव विद्यते, प्रत्युत भवांस्तु स्वसुखमनपेक्षमाणः सर्वदा प्रजाजनकल्याणार्थमेव परिश्राम्यसीति भावः । अथवा यद्वा त्वमिच्छापूर्वमेवं करोषीति न ते = तव राज्ञः वृत्तिः = वर्तनं, व्यापारः एवंविधा = ईदृशी परोपकारार्थमेव स्वधर्मानुष्ठाने का प्रशंसेति भावः । तत्र दृष्टान्तमाह--हि = यतः पादपः = पादपैः चरणैः पिबतीति पादपः = वृक्षः यद्वा । पक्षान्तरे-पादान् = चरणशरणगतान् पाति रक्षतीति पादपो भवान् मूर्ध्ना = मस्तकेन, अग्रभागेन तीव्रं = प्रचण्डं उष्णं = मध्याह्नसंभवमातपं घर्मं अनुभवन्ति सहते संश्रितानां = शरणागतानां तापं = आतपादिसमुत्थं क्लेशं छायया- अनातपेन शमयति = हरति लंघयति, दूरीकरोति वा ।

अर्थात्--पादपस्य पान्थानां छायादानेनातपसन्तापदूरीकरणमिव स्वसुखनिरपेक्ष-परसुखसम्पादकस्य निरन्तरप्रजापरिपालनक्लेशमनुभवतो भवतोऽपि स्वराज्ये निवसितां प्रजाजनानां सर्वाङ्गीणसुखसम्पादनमेव धर्म इति भावः ।

अत्र समासोक्ति-स्वभावोक्ति-काव्यलिङ्ग-दृष्टान्ताक्षेपेपानुुप्रासा अलंकाराः मालिनी-वृत्तं च ॥ ७ ॥

**द्वितीयः--**द्वितीयो वैतालिकः राज्ञो लोकोत्तरं कर्तव्यं तत्फलं वर्णयन्नाह--नियमयसीति ।

**अन्वयः--**आत्तदण्डः (सन् ) कुमार्गप्रस्थितान् नियमयसि, विवादं प्रशमयसि,

पर सूर्य के प्रखर प्रताप=सन्ताप को सहन कर के भी अपने आश्रितों का सदा अपनी छाया से सन्ताप दूर करता रहता है ॥ ७ ॥

**विशेष--**उचित समय की सूचना देने के साथ-साथ वैतालिक, राजाओं की स्तुति करने वाले बन्दी, चारण या भाट को कहते हैं । वैतालिक का लक्षण भावप्रकाश में इस प्रकार किया गया हैं--

तत्तत्प्रहरकयोग्यै रागैस्तत्कालवाचिभिश्श्लोकैः । सरसममेव वितालं गायन् वैतालिको भवति ॥

वैतालिक शब्द की व्युत्पत्ति दो तरह से की जाती है--'विविधः तालः वितालः वितालः प्रयोजनं यस्य स वैतालिकः या, वितालं=वितालगांनं शिल्पमस्येति वैतालिकः ।

वैतालिक राजा की मनःस्थिति भाँपकर उससे मेल खाने वाली ही बात इस पद्य में बताते हुए कहता हैं कि जैसे वृक्ष की उत्पत्ति ही परोपकार के लिए है वैसे ही राजा=आपका भी जन्म प्रजा-पालन रूपी परोपकार के लिए ही है । अतः इस कार्य में खेद नहीं करना चाहिए, क्योंकि ईश्वर ने राजाओं की यही स्वाभाविक वृत्ति बनाई है । यहाँ वृक्ष की तुलना उस राजा से की गई है, जो हमेशा अपने आश्रित व्यक्तियों को अपनी सन्तान के समान पोष्य समझ कर उसकी रक्षा में तत्पर रहता है । जैसे छाते के डण्डे को पकड़े रहने में परिश्रम अधिक होता है, उसकी अपेक्षा मनुष्य को सुख कम ही मिलता है वैसे राज्य की प्राप्ति से जितना उससे सुख नहीं मिलता उससे अधिक चिन्ता मिलती है—

दूसरा वैतालिक— महाराज ! आप अपने हाथ में राजदण्ड धारण कर कु-मार्ग पर चलने वाले दुष्टों का नियमन =


पाठ०--१, विमार्गप्रस्थितानात्तदण्डः ।

२३२ | अभिज्ञानशाकुन्तलम्

अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥

रक्षणाय कल्पसे, विभवेषु अतनुषु (सत्सु) ज्ञातयः नाम सन्तु प्रजानां बन्धुकृत्यं तु त्वयि परिसमाप्तम्।

राज्ञो लोकोत्तरं कर्तव्यं तथाविधं च तत्फलं वर्णयन्नाह—द्वितीयो वैतालिकः—
नियमयसीति। आत्तः = गृहीतो दण्डः = दुष्टमनाधिकारः शासनं येन स आत्तदण्डः यथापराधदण्डेनेत्यर्थः, कुमार्गे प्रस्थितान् कुमार्गे = धर्मशास्त्रादिविरुद्धे मार्गे प्रस्थितान् = प्रस्थातुमुद्यतान् नियमयसि = निरुध्य पुनः सुमार्गे स्थापयसि। यथा गोपालने परक्षेत्रेषु सस्यादिभक्षणप्रवृत्तानां गवां वारणं क्रियते तथैव गृहीतदण्डेन भवतापि दुर्वृत्ते प्रवृत्तान् वारयसीति भावः। तथा चोक्तं राज्ञा दण्डविषये—

'तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम्।
ब्रह्मतेजोमयं दण्डमसृजत् परमेश्वरः ॥
स्वराष्ट्रे न्यायवृत्तिः स्यादुग्रदण्डश्च शत्रुपु ।
सुहृत्सु तिलस्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥'

विवादं = परस्परकलहं प्रशमयसि = वारयसि ये भूयो भूमिदाराद्रव्यादिषु विषयेषु विवादं विदधते तेषां विवादं धर्मज्ञैः सह व्यवहारदर्शनात् प्रशमयसीति भावः। रक्षणाय = प्रजानां परिपालनाय कल्पसे प्रभवसि, दैवीः मानुषीर्वाऽपदो निवारयन् प्रजानां परिपालनं कुरुषे। विमवेषु = धनादिषु अतनुषु = बहुलेषु ज्ञातयः = बान्धवाः सन्तु = भवन्तु नाम तु = परन्तु प्रजानां = जनानां बन्धुकृत्यं = बान्धवकर्तव्यम् त्वयि = भवति परिसमाप्तं = निष्पन्नं भवति। प्रजासु धनिनां धनस्य बान्धवा धनाधिकारिणो भवन्तु नाम तासां प्रजानां बन्धुकृत्यं = पालनावेक्षणादिकं तु भवानेव करोतीत्यहो ! भवतो निष्कारणोपकारप्रवणता।

अयं भावः—विभवे सत्येव ज्ञातयो बन्धुभावं दर्शयन्ति स्ववैभवमुपभुञ्जते च परं भवांस्तु प्रजानां वैभवमनपेक्ष्य तासां विनेतृत्वात् पिता, कलहशमनात् सुहृद्, रक्षणात् पुत्रश्चासीति सत्यमेव प्रजानां वास्तविको बन्धुरसीति भावः।

अत्र—काव्यलिङ्ग-कारकदीपक व्यतिरेकालङ्काराः मालिनी वृत्तं च ॥ ८ ॥


शासन करते हैं, उनका झगड़ा शान्त करते हैं और प्रजा की रक्षा के लिए सदा सन्नद्ध ही रहते हैं। जिनके पास अधिक धन है, ऐसे लोगों के लिए उनके बन्धु-बान्धव भले ही काम आते हों, किन्तु साधारण जनता के बन्धु-बान्धवों का कर्तव्य = रक्षा आदि तो केवल आप ही से होता है ॥ ८ ॥

विशेष—हिन्दू धर्मशास्त्रों में राज-व्यवस्था के अनुसार कुमार्गगामी व्यक्ति राष्ट्र का शत्रु माना गया है। उसके प्रति राजा का उग्रदण्ड से उसका नियमन करना राजधर्म बतलाया गया है—'उग्रदण्डश्च शत्रुपु'। अधिक धन रहने पर पराये भी अपना बन जाते हैं और निर्धन होने पर अपने भी पराये बन जाते हैं, किन्तु राजा प्रजा का सच्चा बन्धु हैं, वह हमेशा कारणनिरपेक्ष होकर प्रजा का पालन-पोषण करता है। बन्धु का कार्य है विपत्ति में सहायता पहुँचाना, आपस में उत्पन्न कलह को निपटाना तथा असन्मार्ग पर जाने से रोकना आदि। द्वितीय चारण का कहना है कि महाराज ! आपके द्वारा प्रजाओं के बन्धुओं के समस्त कार्य सम्पन्न होते हैं। भाई-बन्धु तो पैसे वालों के साथी होते हैं, किन्तु आप तो जनता के सच्चे भाई-बन्धु हैं।