भारतकोश
संग्रह पर लौटें

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पञ्चमोऽङ्कः २२१

मे मोक्खो । [ यद्भवानाज्ञापयति । भो वयस्य गृहीतस्य तया परकीयेर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ]

राजा—गच्छ नागरिकवृत्त्या ^१संज्ञापयेनाम् ।

विदूषकः—का गई । [ का गतिः । ] ( इति निष्क्रान्तः । )

हंसपदिकया परकीयैर्हस्तैः दासीहस्तैः शिखण्डके = शिखायां काकपक्षे गृहीत्वा स्वस्थानीकृतस्य ताड्यमानस्य मम अप्सरसा = देवाङ्गनया गृहीतस्य वीतरागस्य निस्पृहस्य तपस्विनः इव यथा मे = मम विदूषकस्य तदानीमधुना मोक्षः = मुक्तिः नास्ति ।

अयं भावः—यथा इन्द्रनिर्देशेन देवकार्यं सम्पादयितुं कयाचिदप्सरसा हावभावनृत्यगीतादि-द्वारा स्ववशीकृतस्य कस्यचित् निस्पृहस्य तपस्विनः स्वस्थानच्युतेः पुनः मोक्षः = अपवर्गो न भवति तथैव भवद्दर्शनं सम्पादयितुं हंसपदिकया शिखां गृहीत्वा दासीद्वारा ताड्यमानस्य मम तत्सकाशात् मुक्तिः=मोचनं न भवेत् । अतस्तत्र भवदागमनमावश्यकम् । यदि भवान् नागच्छेत् तदा मदुपरि महत् सङ्कटं समापतेदिति भावः ।

राजा—तत्रोपायमुपदिशति—नागरिकवृत्त्या = नागरिकस्य = अग्राम्यस्य विदग्धस्य वृत्त्या = व्यवहारेण, वैदग्ध्येन एनां = हंसपदिकां संज्ञापय = सूचय, कथय यथा सा अन्यापदेशेन मामुपलभते तथा त्वमपि सहजां ग्रामीणवृत्तिं परित्यज्य मत्सचिव्यसमुचितां नागरिकवैदग्धीमाश्रित्य सापदेशं भङ्ग्या तामुपालमस्व । एवं कृते त्वं तया परिभूतो न भविष्यसीत्यर्थः ।

विदूषकः—का गतिः ? = कः उपायः ? त्वदादेशोल्लङ्घने त्वदेकावलम्बस्य मम न कोऽप्यवलम्बः स्यात् । अतो गमिष्यामि यद्वा नागरिकवैदग्धीमजानतो बुद्धिहीनस्य मम अस्मिन् कर्मणि कोऽभ्युपायस्तथापि केवलं भवदादेशानुसारमेव गच्छामीत्यर्थः ( इति = एवं कथयित्वा निष्क्रान्तः = रङ्गभूमितो बहिर्गतः ) ।

वीतराग तपस्वी की मुक्ति नहीं होती उसी प्रकार दासियों के हाथों पकड़े गये केशपाश वाले मेरी मुक्ति नहीं है । अर्थात् हंसपदिका मेरी खूब खबर लेगी, अपनी यह विपत्ति आपने मेरे शिर पर डाल दी ।

विशेष—यहाँ माढव्य नामक विदूषक का कहना है कि जिस प्रकार रागरहित तपस्वी को अप्सरा नहीं छोड़ती, उसको वह तपोभ्रष्ट कर देती है, उसी प्रकार यह हंसपदिका भी मुझे नहीं छोड़ेगी, अपनी दासियों से मेरे शिर के बाल पकड़वा कर मेरी खूब दुर्गति बनायेगी, यह सोचकर कि इसी ने मुझसे राजा को विरक्त कर दिया है । बड़े-बड़े ऋषि-महर्षियों को अप्सरायें तपोभ्रष्ट कर ही देती हैं । जैसे वीतराग, त्यक्तगृह वनवासी मुनि के पीछे कोई अप्सरा = दिव्य स्त्री लग जाय तो उसकी समाधि को भंगकर उसके मोक्षमार्ग में बाधा उपस्थित कर ही देती है—अर्थात्—जब कोई दिव्य अप्सरा किसी वीतराग तपस्वी को किसी प्रकार फँसा लेती है तब उस बेचारे तपस्वी की मुक्ति दुर्लभ हो जाती है, वह भ्रष्ट होकर अपने वास्तविक लक्ष्य से च्युत हो जाता है । हे राजन् ! प्रेमरस से शून्य मेरे पीछे भी आपने हंसपदिका रूपी चुड़ैल की आफत लगा दी है, जिससे मेरा बचना कठिन है ।

राजा—जाओ, नागरिक वृत्ति = अपनी चतुराई से शिष्टतापूर्वक उसे सन्देश सुनाना, ग्रामीण की तरह नहीं ।

विदूषक—तो क्या उपाय है, जाना ही पड़ेगा ( जाता है ) ।


पाठ०—१. शान्तयैनाम् ।

२२२ | अभिज्ञानशाकुन्तलम्

राजा—( आत्मगतम् ) किं नु खलु गीतार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि। अथवा—

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्
पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं
भावस्थिराणि जननान्तरसौहृदानि॥२॥
( इति पर्याकुलस्तिष्ठति )


**राजा—**दुर्वाससः शापेनागतशङ्कुलास्मीति जन्मान्तरानुभूतमिवात्यन्तस्फुटं तद्रागम् आत्मगतं भावयन् राजा उत्कण्ठाहेतुं विमृशति—किन्नु खलु गीतार्थमाकर्ण्य = गानार्थं निशम्य इष्टजनविरहात् = प्रियव्यक्तिवियोगात् ऋते = विनापि बलवत् = अत्यधिकम् उत्कण्ठितः = व्यग्रः अस्मि। अथवा = यद्वा—अयमेव वा हेतुर्भवितुं शक्य इत्याह—रम्याणीति ।

**अन्वयः—**जन्तुः सुखितोऽपि रम्याणि वीक्ष्य मधुरान् शब्दान् निशम्य न पर्युत्सुकीभवति ( इति ) यत् तत् भावस्थिराणि जननान्तरसौहृदानि चेतसा अबोधपूर्वं नूनं स्मरति ।

राज्ञा हंसपदिकया नीयमानं सोपालम्भं गीतमाकर्ण्य तदर्थभावनया समुत्कण्ठितो राजा दुष्यन्तः स्वमनसि विचारयति—रम्याणीति । जन्तुः=सर्वोऽपि प्राणी सुखितोऽपि = प्रियजनसान्निध्येन सन्तोषमनुभवन्नपि रम्याणि = मनोहराणि चन्द्र-चन्दन-प्रमदादीनि वस्तूनि वीक्ष्य = प्रसङ्गादवलोक्य मधुरान् = श्रवणसुभगान् शब्दान् = भ्रमरझङ्कार-कोकिलालापगीतादिशब्दान् निशम्य = श्रवणविषयीकृत्य च पर्युत्सुकीभवति = उत्कण्ठते, इति यत् = सुखितस्यापि जन्तोः सुन्दररूपदर्शनं-मधुरशब्दश्रवणमात्रेण पर्युत्सुखीभवनं तत् = तस्मात् कारणात् पर्युत्सुकीभवनात् भावस्थिराणि = भावनात्मकतया मनसि लीनानि जननान्तरसौहृदानि पूर्वैषु जन्मसु अनुभूतानि प्रियजनसम्बन्धिविशेषान् चेतसा = चित्तेन अबोधः = ईषद्वोधः = तत्पूर्वः तत्पूर्वकम् = विशेषज्ञानाभावपूर्वं नूनं = ध्रुवं निश्चयेन स्मरति = मनसि भावयति।

अर्थात् प्रियजनसमीपे सुखेन निवसन्अपि प्राणी चन्द्रचन्दनोद्यानानि निरीक्ष्य श्रवणसुभगं गीतध्वनिं च निशम्य यत् सद्यः समुत्कण्ठते भवति तत्र वासनारूपेण जन्मान्तरानुभूतं सौहार्दमेव कारणं भवति नान्यत्। अत्राप्रस्तुतप्रशंसाऽनुमानविभावना-काव्यलिङ्गालङ्कारा वसन्ततिलकाछन्दश्च ॥ २ ॥

( इति = एवम् उक्त्वा पर्याकुलः = व्यग्रः सन् तिष्ठति = स्थितः )


राजा—( मन ही मन ) इस प्रकार हंसपदिका के विरहसूचक गीत को सुनकर किसी अपने इष्ट जन के वियोग के बिना भी मैं क्यों अत्यन्त उत्कण्ठित-सा हो रहा हूँ अथवा रमणीय वस्तुओं को देखकर श्रवण मधुर शब्दों को सुनकर सुखीजन भी कभी-कभी उत्कण्ठित-सा हो जाता है। इससे सिद्ध होता है कि वह मनुष्य बिना जाने हुए भी वासना रूप से अत्यन्त सुदृढ़ जन्मान्तरीय सौहार्द का ही स्मरण करता है ॥ २ ॥

( यह कहकर आकुल हो बैठ जाते हैं )

पञ्चमोऽङ्कः

२२३

( ततः प्रविशति कञ्चुकी )

कञ्चुकी—अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।

आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविकलवगतेरवलम्बनार्था ॥ ३ ॥

( अथागमिष्यत्पात्रप्रवेशसूचनावसरं सम्पादयितुं कञ्चुकीप्रवेशमाह—ततः = तदनन्तरं कञ्चुकिः कञ्चुकः = वारवाणोऽस्यास्तीति कञ्चुकिः = सौविदल्लः प्रविशति = रङ्गभूमावाविर्भवति )

'कञ्चुको वारवाणः स्यात्' इत्यमरसिंहः । कञ्चुकिलक्षणं चाह भ्रातृगुप्तः—

'ये नित्यं सत्यसम्पन्नाः कामदोषविवर्जिताः ।
ज्ञान विज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥'

अपि च—

'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः ।
सर्वकामार्थकुशलः कञ्चुकीत्यभिधीयते ॥'

जरावैकलव्ययुक्तेन शरीरेण सम्पन्नः कञ्चुकी रङ्गभूमौ प्रविश्य संस्कृतभाषयैवाभिधत्ते । तद्यथा—

'जरावैकलव्ययुक्तेन विशेद् गात्रेण कञ्चुकी ।
विदुषां संस्कृतभाषा मन्त्रिकञ्चुकिनामपि ॥'

कञ्चुकी—महर्षेः कण्वस्यादेशेन शकुन्तलामादाय हस्तिनापुरमुपस्थाय च राजमन्दिरं प्रविष्टानां शार्ङ्गरवादीनां सन्देशं राज्ञो दुष्यन्तस्यान्तिके प्रापयिष्यन् कञ्चुकी वार्द्धक्यक्लिष्टमात्मानमनुशोचति—अहो नु खलु = हा, ईदृशीं एतादृशीम् वयःकृतां विसदृशीं अवस्थां = दशाम् प्रतिपन्नः = आपन्नः, अहं प्राप्तः अस्मि । वार्द्धक्यातिशयेन विसदृशीं जरावस्थां विवृणोति—आचार इति ।

अन्वयः— राज्ञः अवरोधगृहेषु अवहितेन मया आचार इति या वेत्रयष्टिः गृहीता सैव बहुतिथे काले गते प्रस्थानविकलवगतेः मम अवलम्बनार्था जाता ।

वार्द्धक्याद् वेपमानकलेवरः कञ्चुकी नैजीवस्था विमृशन् हस्तेन धृतां यष्टिकां विलोक्य ब्रूते—आचार इतीति । राज्ञः=महाराजस्य दुष्यन्तस्य अवरोधगृहेषु = अन्तःपुरेषु अवहितेन = अप्रमत्तेन सावधानेन सता मया = कञ्चुकिना आचार इति = परम्परा गता राजभृत्यमर्यादेयमिति हेतोः अन्तःपुराधिकृतेन रक्षाधिकारिणा पुरुषेण हस्ते सदा वेत्र-यष्टिः गृहीतव्या इत्याचारदित्यर्थः । या वेत्रयष्टिः = वेतसदण्डं गृहीता = हस्ते सदा


( इसके बाद रंगमंच पर कञ्चुकी का प्रवेश )

कञ्चुकी—हाय, ऐसी हालत में पहुँच गया हूँ।

मैंने राज के महलों में सावधान होकर जिस छड़ी को केवल नियम पालन करने के लिए धारण किया था, वही छड़ी अधिक दिन बीत जाने पर अब तो सहारा देने वाली एक आवश्यक वस्तु हो गई है ॥ ३ ॥

विशेष—लम्बा चोंगा पहने हुए राजा के रनिवास के वृद्ध दर्बारी व्यक्ति को कञ्चुकी कहते हैं जो नियमानुसार हाथ में छड़ी लिए रहता है । कञ्चुकी सोचता है कि पहले जब शरीर में कुछ शक्ति थी तब छड़ी की जरूरत नहीं थी, केवल नियमानुसार कायदे का पालन करने के लिए लिया

२२४ अभिज्ञानशाकुन्तलम्

भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदितुम् । अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः ! कुतः—

भानुःसकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति । शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ ४ ॥

धारिता सैव तदानीं केवलमाचार इत्येव, न तु तस्याः कश्चनोपयोग इति गृहीता वेत्रयष्टिरेव, बहुतित्ये = बहुसंख्ये काले = समये गते = अतीते सति प्रस्थानविप्लवगते प्रस्थाने = गमनाारम्भे विक्लवाः = विवक्षा गतिः = पादविन्यासो यस्य स तस्य तथाविधस्य मम-अवलम्बनं = अवष्टम्भ एवार्थः = प्रयोजनं यस्याः सा अवलम्बनार्था = शरीरावलम्बनप्रयोजना जाता = सम्पन्ना । साम्प्रतं वेत्रयष्टिसाहाय्यमन्तरा नाहं पदात्पदमपि चलितुं शक्नोमि । पूर्वं तारुण्यावस्थायां महाराजस्यान्तःपुरे कञ्चुकिनोऽयमाचार इत्येवं मत्वा गृहीता इदानीं तु आचारः शरीरावष्टम्भनं चेत्युभयथा मया यष्टिर्गृह्यते इति तात्पर्यम् । अत्राप्रस्तुतप्रशंसा·विभावना छेक-वृत्ति-श्रुत्यनुप्रासालङ्काराः वसन्ततिलकं वृत्तं च ॥ ३ ॥

एवं स्वकीयामवस्थां परामृशन् कञ्चुकी आत्मना कर्तव्यमनुसन्दधान आह—भोः = अहो, कामं = मन्ये देवस्य धर्मकार्यं = कर्तव्यकर्म, धर्म्यारण्यात्समागतानां महर्षिः कण्वस्य शिष्याणामभ्यर्थनादिकम्, अनतिपात्यम् = अनतिक्रमणीयम्, कालक्षेपानर्हम्, सद्यो निवेदितुं योग्यमिति यावत्, तथापि इदानीमेव धर्मासनात्-व्यवहारासनात् उत्थिताय = उत्थाय विश्रान्ताय पुनः = भूयः उपरोधकारि = विघ्नजनकम् कण्वशिष्यागमनं = कण्वान्तेवासिनामुपस्थितिं अस्मै = अमुस्मै राज्ञे दुष्यन्ताय निवेदितुं = कथयितुं नोत्सहे = न कामये । पुनर्विमृश्याह अथवा = अयं विकल्पः, यतो हि अयं = एषः लोकतन्त्राधिकारः लोकस्य = प्रजाजनस्य तन्त्रं = योगक्षेमं तस्याधिकारः = अनुष्ठानम् यद्वा लोके = भुवने तन्त्राधिकारः = प्रधानाधिकारः, अथवा लोकतन्त्रः = लोकाधीनः, पराधीनः अधिकारः प्रजापालनाधिकारः प्रजानुरोधेनैव सम्पादयितुं शक्यः इति लोकतन्त्राधिकारः अविश्रमः- न विद्यते विश्रमो यस्मिन् स अविश्रमः = विश्रान्तिरहितः । तस्मात् कण्वशिष्यागमनमिदानीमेवं निवेदनीयमिति भावः । कुतः यतो हि—उक्तमर्थं साधयति—भानुरिति ।

अन्वयः— भानुः सकृद् युक्ततुरङ्ग एव, गन्धवहः रात्रिंदिवं प्रयाति, शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि एष धर्मः ।

था, किन्तु अब शक्तिहीन होने से वह मुझे सहारा देती है। कञ्चुकी का छड़ी लेना अनिवार्य कार्य है। यह धार्मिक सत्यवक्ता, शुद्धचरित्र एवं विद्वान् होता है। वृद्धावस्था में लड़खड़ाने के कारण तो हाथ में छड़ी रखना अत्यावश्यक है, फिर भी अन्तःपुर की रक्षा में नियुक्त कञ्चुकी को नियमानुसार छड़ी लेना पड़ता है।

यद्यपि यह बात सत्य है कि धर्म-कार्यों में महाराज को कभी विलम्ब नहीं करना चाहिए, फिर भी मुझे शङ्का हो रही है कि महाराज अभी धर्मासन से उठकर विश्राम के लिए आये हुए हैं उनसे महर्षि कण्व के आने का सूचना दे देने से उनके विश्राम में विघ्न ही पड़ेगा। अथवा भुवन के इस प्रधान अधिकार में राजाओं को आराम नहीं है, क्योंकि देखो—

भगवान् भास्कर के रथ में उनके घोड़े सदा जुते ही रहते हैं, एक बार जब वे रथ में जुते तब से बराबर चक्कर ही काटते रहे हैं। वायु भी दिन-रात बहता ही रहता है, वह भी कभी विश्रमा

पञ्चमोऽङ्कः १२५

प्रजापालनमात्मनो धर्ममनुतिष्ठतां नृपतीनां क्षणमपि विश्रामस्यावकाशो न जायते इति वास्तविकीं स्थितिम् उदाहरणद्वारा समर्थयति कञ्चुकीः— भानुरिति। भानुः = सूर्य्यः सकृत् = एकवारं युक्ताः = योजिताः बद्धाः तुरङ्गाः = वाजिनो येन स सकृद्युक्त-तुरङ्गः एव। एकवारमेव स्वरथे तुरङ्गमानां योजनं कृत्वा भानुः सर्वदा प्रतिदिनं पर्यट-त्येव, तस्य पुनस्तुरङ्गमयोजनयापि अवकाशो न भवति। गन्धवहः = आवहप्रवहात्मको-वायुः रात्रिं दिवं = अहोरात्रम् प्रयाति = गच्छति प्रचलति। शेषः = शेषनागः, अनन्तः सदैवाहितभूमिभागः— सदैव सर्वदा आहितः = धृतः भूमेः = वसुन्धरायाः भारो गुरुत्वं येन स सदैवाहितभूमिभारः षष्ठांशवृत्तेः— षष्ठांशः = न्यायेन प्रजाः परिपालयता नृपेण प्रजाभ्यः ग्राह्यः षष्ठो भागः एष एव राज्ञामाजीवनं वृत्तिः = वर्तनं यस्य स तस्य षष्ठांशवृत्तेः, एषः = पूर्ववाक्यत्रयोपेतः अविश्रान्तिलक्षणः धर्मः प्रजापरिपालनात्मक अस्ति = विद्यते।

अर्थात्— लोकरक्षायै भगवान् भास्करः युगादावेकवारमेव स्वरथे नियुक्ततुरङ्गमोऽद्य यावत् भ्रमत्येव। न तदश्वाः कदापि रथाद् वियुज्यन्ते, न कदापि विश्राम्यन्तीति भावः। विश्वप्राणधारको वायुः अहोरात्रं प्रवहत्येव, न कदापि विश्राम्यति, एवं शेषनागोऽपि सर्वदैव शिरो धृतधरित्रीमण्डलः तिष्ठति न कदापि स्वाधिकारात् क्षणमपि विरमति। प्रजोपार्जितधनादितः षष्ठभागाधिकारिणो राज्ञोऽपि प्रजापालनेऽविश्रामः आवश्यक-कर्त्तव्यो विद्यते। राजा हि प्रजाभ्यस्तदुपार्जितधनादेः षष्ठं भागं कररूपेण गृह्णाति। एवं च राज्ञां प्रजापालनात्मकं स्वीयं कर्त्तव्यमनुतिष्ठतां क्षणमात्रमपि विश्रामस्यावसरोऽपि न भवतीति युक्तमेव। महाराजो दुष्यन्तः, धर्मासनादुत्थिताय विश्रामं करोति। अतः तस्मै इदानीमेव महर्षिकण्वशिष्यस्यागमनं नूनं निवेदयितुमुत्सहे इत्यर्थः। अत्र मालाम्रति-वस्तूपमा-अप्रस्तुतप्रशंसा-श्रुत्यनुप्रासपरिसंख्यालङ्कारा इन्द्रवज्राछन्दश्च॥ ४ ॥


नहीं लेता और शेषनाग भी हमेशा भूमि के भार को अपने शिर पर धारण किये ही रहते हैं, वे भी उससे कभी विश्राम नहीं पाते। इसी प्रकार प्रजा से छठे भाग के लेने के अधिकारी राजा को भी प्रजापालन में सदा उद्यत रहना ही धर्म है॥ ४॥

विशेषअनतिपात्यम्—शब्द के द्वारा कञ्चुकी यह कहना चाहता है कि धार्मिक कार्यों के सम्पादन में राजा को विलम्ब नहीं करना चाहिए। तपस्वी, ऋषि, मुनि और विद्वानों का समादर एवं सत्कार भी धार्मिक कार्य है। अतः महर्षि कण्व के शिष्यों की बात सुनना अत्यावश्यक धर्म-कार्य है। उनसे न मिलना धर्म की हानि है। राजा को विश्राम करना भी आवश्यक है। फिर भी कर्त्तव्य भावना से ऊँचा है। इसलिए कञ्चुकी निर्णय करता है कि राजा के विश्राम में बाधा डालना ही उचित है। क्योंकि लोकप्रधान शासन में विश्राम कहाँ? धर्म शब्द न्याय के लिए आया है। धर्मासन का अर्थ है न्याय करने का आसन। अतः धर्मासन या न्यायासन एक ही चीज है।

सृष्टि के आरम्भ में भगवान् सूर्य के सात रंग के सात घोड़े उनके रथ में एक बार जोते गये, जो निरन्तर लगे हुये हैं। अब तक न तो सूर्य को ही विश्राम करने का एक क्षण भी मिला, न उनके घोड़े ही खोले गये। राजा को षष्ठांशवृत्ति इसलिए कहा जाता है कि वह प्रजा को रक्षा करने के बदले उसके अनाज का छठा भाग कर के रूप में लेता है।

15

१५ शाकु०

२२६ अभिज्ञानशाकुन्तलम्

यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः ।

प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवतेऽशान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ ५ ॥

यावत् = प्रथमं नियोगं = कर्तव्यं कण्वशिष्यागमननियोगम् अनुतिष्ठामि = करोमि (परिक्रम्य = मण्डलाकारं भ्रमित्वा, अवलोक्य = दृष्ट्वा च) एषः = समक्षम् देवः = महाराजा दुष्यन्तः ।

अथ राजानमवलोक्य तस्य तात्कालिकोमवस्थां वर्णयन् कञ्चुकी कथयति—एष देवः प्रजाः प्रजाः स्वा इवेति ।

अन्वयः—एष देवः स्वाः प्रजाः इव प्रजा तन्त्रयित्वा अशान्तमना द्विपेन्द्रः दिवा यूथानि संचारं रविप्रतप्तः सन् शीतं स्थानमिव विविक्तं निषेवते ।

महर्षेः कण्वस्य शिष्यादीनामागमनं निवेदयितमुपस्थितः कञ्चुकी धर्मासनादुत्थाय रहसि विश्रामं कुर्वतो राज्ञो दुष्यन्तस्य तात्कालिकीमवस्थां वर्णयति—प्रजाः प्रजा इति । एष देवः = अयमस्माकं महाराजो दुष्यन्तः स्वाः = स्वकीयाः प्रजाः = अपत्यानि इव प्रजाः = स्वीयप्रजाजनान् तन्त्रयित्वा = संव्यवहार्य, स्वं स्वं कार्यं कारयित्वा यद्वा विवादशमनादिभिः संरम्य अत एवाशान्तमनाः शान्तं=अनुद्विग्नं मनः = चित्तं यस्य स शान्तमना न शान्तमना अशान्तमनाः = धर्मेण प्रजापालनपूर्वककर्तव्यसम्पादनात् अव्यप्रचित्तः द्विपेन्द्रः = गजयूथाधिपः दिवा = दिवसे, मध्याह्ने यूथानि = गजसमूहान् संचार्र्य = चारयित्वा, आहारविहारादिषु व्यापार्यं अत एव रविप्रतप्तः = सूर्यकिरणसन्तापातिपीडितः शीतं = प्रच्छायशीतलं स्थानमिव विविक्तं = विजनं स्थानमिव निषेवते = भजते, विश्रामयोग्ये विजने स्वैरमुपविशतीत्यर्थः ।

अर्थात् एष महाराजो दुष्यन्तो न्यायाासनादुत्थाय एकान्ते स्वैरमुपविष्टोऽस्ति । यथा गजराजः आहाराद्यन्वेषणार्थं गजवृन्दं संचार्र्य मध्याह्ने सूर्यतापम् असहविष्णुः सन् प्रच्छाय शीतले प्रदेशे किञ्चित्कालं विश्रम्य पुनः स्वकीयं यूथं सञ्चारयति तथैवायमपि महाराजो दुष्यन्तः प्रजाकार्यकरणपरिश्रान्तः सन् विश्रमार्थं क्षण तिष्ठति विश्रान्तश्च भूयोऽपि


पहले अपने कर्तव्य का पालन करूँ (घूम कर और सामने देख कर) ये महाराज विराज रहे हैं—

अपने पुत्र की तरह प्रजाओं का पालन और नियमन करके शान्त मन हो अब उसी प्रकार एकान्त का सेवन कर रहे हैं जैसे गजयूथों का यथावत् सञ्चालन कर सूर्य के सन्ताप से सन्तप्त हो यूथपति गजराज शीतल गिरिगुफा का सेवन करता है। अर्थात् राजदरबार से आकर अब एकान्त में आराम कर रहे हैं ॥ ५ ॥

विशेष—इस पद्य के द्वारा राजा और प्रजा के मधुर सम्बन्ध को व्यक्त किया गया है। प्राचीन काल में भारतीय राजा अपनी सन्तति की तरह प्रजा का पालन करते थे। राजा का व्यवहार प्रजा के प्रति आत्मीयतापूर्ण था। जिससे वे उनके सुख-दुःख मे सदा तत्पर रहते थे।

'द्वाभ्यां मुखशुण्डाभ्यां पिबतीति द्विपः' इस व्युत्पत्ति के अनुसार हाथी पहले सूँड से पानी उठाता है फिर मुँह से पीता है। इसलिए उसे द्विप कहा गया है। द्विपों के राजा को द्विपेन्द्र कहते हैं। इस पद्य में राजा को गजराज की तरह, प्रजा को गजसमूह की भाँति और राज्य-सञ्चालन गज-समूह के सञ्चालन की भाँति बतलाया गया है।

CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पञ्चमोऽङ्कः | ३२७

( उपगम्य ) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः कण्वस्य संदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः श्रुत्वा देवः प्रमाणम् ।

राजा—( सादरम् ) किं काश्यपसंदेशहारिणः !

कञ्चुकी—अथ किम् ।

राजा—तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव ^१प्रवेशयितुमर्हति इति ! अहमप्यत्र तपस्वि-दर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।


स्वधर्मं प्रजापालनकार्यं करिष्यतीति भावः । अत्रोपमानुप्रासयोः संसृष्टिरलङ्कारः वृत्तञ्चोपेन्द्रवज्रा ॥ ५ ॥

( उपगम्य = राजान्तिकमुपसृत्य ) जयतु = सर्वोत्कर्षेण वर्तस्व, जयतु सर्वोत्कर्षेण वर्तस्व देवः = महाराजः । एते = इमे खलु हिमप्रधानो गिरिः हिमगिरिः तस्य हिमगिरेः = हिमालयस्य = उपत्यकारण्यवासिनः उपत्यकारण्यं = पर्वतासन्नभूमिमवनम् तत्र वसितुं शीलं येषां ते उपत्यकारण्यवासिनः = सस्त्रीकाः = गौतमी-शकुन्तलासहिताः तपस्विनः = तापसाः कण्वसन्देशं = काश्यपवचनम् आदाय = गृहीत्वा संप्राप्ताः = आगताः सन्ति । श्रुत्वा = आकर्ण्य देवः महाराजः प्रमाणम् = प्रमाता यथोचितं विधातुं शक्तः । सन्देश-श्रावणमात्रं ममाधिकारः भविष्यत्कर्त्तव्यनिर्णये भवानेव प्रभुः, न मम किञ्चित्त्रानुरोध इति भावः ।

राजा—( सादरं = आदरेण सह ) किं कण्वसन्देशहारिणः ? कश्यपस्य वार्ता-वाहकाः ?

कञ्चुकी—अथ किम् = आम् ।

राजा--दुष्यन्तः स्वकर्तव्यमादिशति तेन = तस्मात् कारणात् हि मम वचनम् = मत्सन्देशात् सोमरातः उपाध्यायः = सोमरातोपाध्यायः तन्नामकः कुलपुरोहितः विज्ञाप्यतां = सूच्यताम् श्रौतेन = वैदिकेनं विधिना = रीत्या अमून् = तान् स्वयं स्वयमेव-आत्मन्येव सत्कृत्य = पूजयित्वा प्रवेशयितुं = मत्समीपे समुपस्थापयितुमर्हति भवान् इति । अहमपि = स्वयमपि तपस्विदर्शनोचिते तपस्विनां = तापसानां दर्शनस्य = मिलनाय उचिते = समी-


( पास में जाकर ) महाराज की जय हो । हिमालय की तराई के जंगल में निवास करने वाले महर्षि कण्व के सन्देश को लेकर स्त्रियों के साथ लिए हुए तापस लोग आये हुए हैं । आपकी जैसी आज्ञा हो वैसा किया जाय ।

**विशेष—**संस्कृत में पर्वत की निचली भूमि को उपत्यका और हिन्दी में पर्वत की तराई कहते हैं । वैसे ही संस्कृत में पर्वत के ऊपरी भाग को अधित्यका एवं हिन्दी में पठार भी कहते हैं । यहाँ कञ्चुकी का कहना है कि महाराज ! मैंने आपके आराम में बाधा नहीं डाली है, बल्कि विवश होकर आपके धर्म की रक्षा के लिए तापसों के आने की सूचना दे दी है ।

राजा—( सम्मान के साथ ) क्या महर्षि कण्व का सन्देश लाने वाले हैं ?

कञ्चुकी—जी, हाँ !

राजा—तो उपाध्याय सोमरात से मेरा सन्देश कहना कि इन तपोवनवासियों का सत्कार


पाठ०—१. प्रवेशयितुमर्हसीति । २. अहमप्येतांस्तपस्विदर्शनोचिते ।

२२८ | अभिज्ञानशाकुन्तलम्

कञ्चुकी—यदाज्ञापयति देवः। (इति निष्क्रान्तः)।
राजा—(उत्थाय) वेत्रवति ! अग्निशरणमार्गमादेशय।
प्रतिहारी—इदो इदो देवो। [इत इतो देवः।]
राजा—(परिक्रामति। अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः। राज्ञां तु चरितार्थता दुःखान्तरैव।


चीने प्रदेशे = स्थाने, यज्ञशालायां स्थितः = वर्तमानः सन् प्रतिपालयामि = प्रतीक्षे। तथा चोक्तम्।

'अग्न्यागारगतः कार्यं पश्येद्वैद्यतपस्विनाम्।
पुरोहिताचार्यसखः प्रत्युद्गम्याभिवाद्य च॥'

कञ्चुकी—यत् = यथा आज्ञापयति = आदिशति देवः = महाराजः ( इति = एवमुक्त्वा = कथयित्वा निष्क्रान्तः = रङ्गभूमितो बहिर्गतः)
राजा—(उत्थाय) वेत्रवति = यष्टिधारिणि ! प्रतिहारि ! अग्निशरणमार्गं = अग्न्यागारमार्गं यज्ञशालापन्थानम् आदेशय = प्रदर्शय।
प्रतिहारी—इत इतो देवः = अनेन पथा श्रीमान् आगच्छतु। प्रतिहारी लक्षणं यथा—

'सन्धिविग्रहसंबद्धं नानाकार्यसमुत्थितम्।
निवेदयन्ति याः कार्यं प्रतिहार्यस्तु ताः स्मृताः॥'

**राजा—(दुष्यन्तः परिक्रामति—**मण्डलाकारं गच्छति, अधिकारस्य = नियोगस्य


वैदिक रीति से करके स्वयं अन्दर लायें। मैं भी तपस्वियों से मुलाकात करने योग्य इस स्थान में रह कर प्रतीक्षा करता हूँ।

**विशेष—**यहाँ कण्वाश्रमवासी तपस्वियों के वैदिक-रीति से सत्कार करने के निमित्त उपाध्याय सोमरात को कहने का तात्पर्य है कि जो जिस स्थिति का हो, उसे उसी स्थिति वालों के द्वारा सत्कार होना उचित है। मनुस्मृति के अनुसार जो वेद का एक भाग या वेद के अङ्ग को जीविका के लिए पढ़ाता है, उसे उपाध्याय कहते हैं—

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २।१४१

हिन्दू-धर्म के अनुसार वैदिक ब्राह्मण एक यज्ञशाला बनाकर यज्ञशाला का विधिवत् संस्कार करके गार्हपत्य, दाक्षिणात्य और आहवनीय इन तीन अग्नियों की स्थापना कर उनमें प्रतिदिन हवन-कर्म किया करते हैं। इसी प्रकार राजा भी राज्यकार्य की व्यग्रता से समय न पाकर इसके निमित्त पुरोहित की नियुक्ति कर देता है। समय-समय पर तपस्वी आदि पवित्र चरित्रवाले व्यक्तियों से राजा अपने पुरोहित या आचार्य के साथ-साथ अग्निशाला में ही मिलता है, जैसा कि शास्त्रों में निर्देश है—

अग्न्यागारगतः कार्यं पश्येद् वैद्यतपस्विनाम्।
पुरोहिताचार्यसखः प्रत्युद्गम्याभिवाद्य च॥

**कञ्चुकी—**महाराज की जैसी आज्ञा (चला जाता है)।
राजा—(उठकर) द्वारपालिके ! यज्ञशाला का रास्ता दिखलाना।
**प्रतिहारी—**महाराज ! इधर से चलें, इधर से चलें।
राजा—(घूमता है, कर्त्तव्य की खिन्नता का अभिनय कर) सभी प्राणी अपनी

पञ्चमोऽङ्कः

२२९

औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय ^१ न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६॥

खेदं = कष्टम् अधिकारनियोगं = राज्यकार्यंकारणात् परिश्रमम्, निरूप्य अभिनोय, नाटयित्वा ) सर्वः = सकलः, जन्तुः = जीवः प्रार्थितम् = अभीष्टं स्वाभिलषितम्, अर्थं = वस्तु अधिगम्य = लब्ध्वा, ईप्सितं पदार्थं प्राप्य सुखी = सन्तुष्टः सम्पद्यते = भवति । सर्वेषामेव स्वेष्टसिद्धौ सुखसम्पत्तिर्जायते इत्यर्थः । राज्ञां = प्रजापालनाधिकृतानां नृपाणां तु चरितार्थता = अभीष्टसिद्धिः इष्टलाभः, राज्यप्राप्तिः, दुःखमुत्तरं यस्याः सा दुःखोत्तरा = दुःखमात्रसारैव । न्यूनसुखा = अधिकदुःखा च । अथवा चरितार्थता = अभीष्टार्थलाभजनितं सुखं दुःखान्तरा = दुःखान्तरावकाशसंपादिका । राज्ञां सुखमपि दुःखबहुलमेव भवतीति भावः । उक्तमर्थमुपपादयति—औत्सुक्यमात्रेति ।

अन्वयः—प्रतिष्ठा औत्सुक्यमात्रम् अवसादयति, लब्धपरिपालनवृत्तिः एनं क्लिश्नाति, स्वहस्तधृतदण्डम्, आतपत्रमिव राज्यम्, अतिश्रमापनयनाय न, श्रमाय च न ( भवति ) ।

उक्तमर्थमेवोपपादयति राजा दुष्यन्तः—औत्सुक्यमात्रमिति । प्रजापालनाधिकृतानां मादृशानां नृपाणां तु प्रतिष्ठा—सर्वोत्कृष्टं गौरवम्, औत्सुक्यमात्रम्=औत्सुक्यमेव औत्सुक्यमात्रम्–अशेषमुत्कण्ठाम् अवसादयति = समापयति, समाप्तिं नयति लब्धस्य = प्राप्तस्य फलस्य यत् परितः सर्वतोभावेन पालनं=रक्षणम् तत्र या वृत्तिः = व्यापारश्चेति लब्धपरिपालनवृत्तिः, एनं = नृपम्–क्लिश्नाति = पीडयति, क्लेशं जनयत्येव । राज्यप्रतिष्ठाजन्यं सुखं राज्यपरिपालने दुःखं निवारयितुं न शक्नोति । राज्यस्य फलंम् इच्छाविनोदमात्रम्, परं तद्रक्षणवर्द्धनादौ भूयान् प्रपञ्चः महानायासोऽपि भवति । यावत् सुखं राज्ये नास्ति, तावत्तत्र राज्यरक्षणे दुःखमेवेति भावः । स्वहस्ते = निजकरकमले धृतः = स्थापितः दण्डः = अवष्टम्भयष्टिविशेषः यस्य तत् स्वहस्तधृतदण्डम्–स्वकरतलकलितदण्डम् आतपात् त्रायते इत्यातपत्रम् = छत्रमिव राज्यम् अतिश्रमापनयनाय = श्रमाणा मत्यपनयनाय, सर्वथा श्रमंनिवारणाय न, श्रमाय च न=अतिश्रमाय च न । राज्ये यथा श्रमः तथा न सुखम्, नैव विश्रान्तिश्चेत्यर्थः ।


अभीष्ट वस्तु को पाकर सुखी हो जाते हैं, किन्तु राजाओं को तो अभीष्ट वस्तु की प्राप्ति भी दुःखप्रद ही होती है। क्योंकि—

राज्य की प्राप्ति से जो प्रतिष्ठा प्राप्त होती है, वह तो केवल मनुष्य की उच्च आकाङ्क्षा मात्र को ही शान्त करती है, किन्तु राज्य की रक्षा करना तो बड़ा ही कठिन एवं कष्टप्रद है। जैसे मनुष्य को छतरी से जितना सुख नहीं होता, उससे अधिक कष्ट उसकी डण्डी हाथ में पकड़े रहने से होता है। उसी प्रकार राज्य भी जितना सुख नहीं देता उससे अधिक परिश्रम और कष्ट ही देता है ॥६॥

विशेष—राज्यग्रहण करने वालों को जहाँ अधिकार मिलता है वहाँ कर्तव्य के कारण कष्ट भी उठाना पड़ता है। जैसे छाते के दण्ड को पकड़े रहने से परिश्रम ही ज्यादा होता है, उसकी अपेक्षा छाते से मनुष्य को सुख कम मिलता है, वैसे ही राज्य की प्राप्ति से जितना सुख नहीं मिलता उससे अधिक चिन्ता, कष्ट और परिश्रम ही होता है। इस प्रकार छाता जहाँ धूप आदि कष्ट से बचाता है


पाठा— १. यथा श्रमाय ।

२३० | अभिज्ञानशाकुन्तलम्

( नेपथ्ये )

वैतालिकौ—विजयतां देवः।

प्रथमः

स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते ^१वृत्तिरेवंविधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७ ॥

अयं भावः—यथा पथिकैः स्वहस्ते ध्रियमाणं छत्रं तेषां केवलमातपदुःखं दूरीकरोति न च सर्वथा श्रमापनयनं विद्यते तथैव धृतदण्डेन राज्ञा परिपालितं राज्यं क्लेशसंमिश्रं सुखं जनयति। तस्मादुत्कण्ठानिवृत्यवसानमेव राज्यतन्त्रम्, नातिसुखम्, नातिदुःखमिति तत्त्वम्। अत्राऽप्रस्तुतप्रशंसा-काव्यलिङ्ग विरोधाभासोपमालङ्काराः वसन्ततिलकाछन्दश्च ॥ ६ ॥

अथावसरप्राप्तं वैतालिकवचनं दिदर्शयिषुराह—नेपथ्ये = जवनिकायाम् वैतालिकौ द्वौ चारणौ वन्दिनौ आहुतुः—विजयतां देवः = महाराजः उत्कर्षं लभतां सर्वोत्कर्षेण वर्तस्व। वैतालिकलक्षणं भावप्रकाशे—

'तत्तत्प्रहरकयोग्यैः रागैः तत्कालवाचिभिः श्लोकैः।
सरसमेव वितालं गायन् वैतालिको भवति ॥'

नृपतेर्दौर्मनस्यं दूरीकर्तुमधिकृतयोरवसरज्ञयोः वैतालिकयोः राजानमेवं स्तौति—स्वसुखेति।

अन्वयः—स्वसुखनिरभिलाषः ( त्वं ) प्रतिदिनं लोकहेतोः 'विद्यते' अथवा ते वृत्तिः एवंविधैव ( अस्ति ) हि पादपः मूर्ध्ना तीव्रम् उष्णम् अनुभवति छायया आश्रितानां परितापं शमयति।

अथावसरज्ञयोः राज्ञो दुष्मन्तस्य दौर्मनस्यं दूरीकर्तुमधिकृतयोर्वैतालिकयोरेको राज्ञः सामान्यजनाद् व्यतिरेकं वर्णयति—स्वसुखेति। हे राजन् स्वस्य स्वस्मिन् वा यत् सुखे = आनन्दे निरभिलाषनिस्पृहः इति स्वसुखनिरभिलाषः = स्वसुखेच्छारहितः त्वं प्रतिदिनं = प्रत्यहं, सर्वदा, लोकहेतोः = जनकल्याणाय खिद्यसे = क्लेशमनुभवसि। सर्वोऽपि जनः पर-


वहाँ दण्ड पकड़े रहने मे तकलीफ भी होती है। उसी प्रकार राज्य भी सुख से दुःखदायी है। राज्य की रक्षा में अधिक कष्ट उठाना पड़ता है। राज्य में सुख ही सुख है, यह सोचकर उसमें सर्वदा आसक्त नहीं होना चाहिए।

यहाँ दण्ड का दो अर्थ है—एक दण्ड=न्याय की व्यवस्था है और दूसरा दण्ड छाते का डण्डा। उच्चपद पर पहुँचने की उत्सुकता सभी को होती है, पर पद की प्राप्ति के बाद उत्सुकता शान्त हो जाती है, क्योंकि कर्तव्य पालन में कठिनाइयाँ बढ़ जाती है तथा सुख दुर्लभ हो जाता है।

( नेपथ्य में )

दोनों वैतालिक—महाराज की जय हो।
प्रथम—पहला चारण कहता है—
महाराज ! आप तो अपने सुख की इच्छा किए विना केवल लोकोपकार के लिए ही प्रतिदिन परिश्रम एवं कष्ट उठाते हैं। अथवा आपका जन्म ही इस कार्य के लिए है, क्योंकि वृक्ष अपने शिर-


पाठा०—१. सृष्टिरेवंविधैव ।

पञ्चमोऽङ्कः२३१

द्वितीयः--नियमयसि ^[१]कुमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।

सुखदुःखानिरपेक्षः केवलमात्मसुखसम्पादनायैव विद्यते, प्रत्युत भवांस्तु स्वसुखमनपेक्षमाणः सर्वदा प्रजाजनकल्याणार्थमेव परिश्राम्यसीति भावः । अथवा यद्वा त्वमिच्छापूर्वमेवं करोषीति न ते = तव राज्ञः वृत्तिः = वर्तनं, व्यापारः एवंविधा = ईदृशी परोपकारार्थमेव स्वधर्मानुष्ठाने का प्रशंसेति भावः । तत्र दृष्टान्तमाह--हि = यतः पादपः = पादपैः चरणैः पिबतीति पादपः = वृक्षः यद्वा । पक्षान्तरे-पादान् = चरणशरणगतान् पाति रक्षतीति पादपो भवान् मूर्ध्ना = मस्तकेन, अग्रभागेन तीव्रं = प्रचण्डं उष्णं = मध्याह्नसंभवमातपं घर्मं अनुभवन्ति सहते संश्रितानां = शरणागतानां तापं = आतपादिसमुत्थं क्लेशं छायया- अनातपेन शमयति = हरति लंघयति, दूरीकरोति वा ।

अर्थात्--पादपस्य पान्थानां छायादानेनातपसन्तापदूरीकरणमिव स्वसुखनिरपेक्ष-परसुखसम्पादकस्य निरन्तरप्रजापरिपालनक्लेशमनुभवतो भवतोऽपि स्वराज्ये निवसितां प्रजाजनानां सर्वाङ्गीणसुखसम्पादनमेव धर्म इति भावः ।

अत्र समासोक्ति-स्वभावोक्ति-काव्यलिङ्ग-दृष्टान्ताक्षेपेपानुुप्रासा अलंकाराः मालिनी-वृत्तं च ॥ ७ ॥

**द्वितीयः--**द्वितीयो वैतालिकः राज्ञो लोकोत्तरं कर्तव्यं तत्फलं वर्णयन्नाह--नियमयसीति ।

**अन्वयः--**आत्तदण्डः (सन् ) कुमार्गप्रस्थितान् नियमयसि, विवादं प्रशमयसि,

पर सूर्य के प्रखर प्रताप=सन्ताप को सहन कर के भी अपने आश्रितों का सदा अपनी छाया से सन्ताप दूर करता रहता है ॥ ७ ॥

**विशेष--**उचित समय की सूचना देने के साथ-साथ वैतालिक, राजाओं की स्तुति करने वाले बन्दी, चारण या भाट को कहते हैं । वैतालिक का लक्षण भावप्रकाश में इस प्रकार किया गया हैं--

तत्तत्प्रहरकयोग्यै रागैस्तत्कालवाचिभिश्श्लोकैः । सरसममेव वितालं गायन् वैतालिको भवति ॥

वैतालिक शब्द की व्युत्पत्ति दो तरह से की जाती है--'विविधः तालः वितालः वितालः प्रयोजनं यस्य स वैतालिकः या, वितालं=वितालगांनं शिल्पमस्येति वैतालिकः ।

वैतालिक राजा की मनःस्थिति भाँपकर उससे मेल खाने वाली ही बात इस पद्य में बताते हुए कहता हैं कि जैसे वृक्ष की उत्पत्ति ही परोपकार के लिए है वैसे ही राजा=आपका भी जन्म प्रजा-पालन रूपी परोपकार के लिए ही है । अतः इस कार्य में खेद नहीं करना चाहिए, क्योंकि ईश्वर ने राजाओं की यही स्वाभाविक वृत्ति बनाई है । यहाँ वृक्ष की तुलना उस राजा से की गई है, जो हमेशा अपने आश्रित व्यक्तियों को अपनी सन्तान के समान पोष्य समझ कर उसकी रक्षा में तत्पर रहता है । जैसे छाते के डण्डे को पकड़े रहने में परिश्रम अधिक होता है, उसकी अपेक्षा मनुष्य को सुख कम ही मिलता है वैसे राज्य की प्राप्ति से जितना उससे सुख नहीं मिलता उससे अधिक चिन्ता मिलती है—

दूसरा वैतालिक— महाराज ! आप अपने हाथ में राजदण्ड धारण कर कु-मार्ग पर चलने वाले दुष्टों का नियमन =


पाठ०--१, विमार्गप्रस्थितानात्तदण्डः ।

२३२ | अभिज्ञानशाकुन्तलम्

अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥

रक्षणाय कल्पसे, विभवेषु अतनुषु (सत्सु) ज्ञातयः नाम सन्तु प्रजानां बन्धुकृत्यं तु त्वयि परिसमाप्तम्।

राज्ञो लोकोत्तरं कर्तव्यं तथाविधं च तत्फलं वर्णयन्नाह—द्वितीयो वैतालिकः—
नियमयसीति। आत्तः = गृहीतो दण्डः = दुष्टमनाधिकारः शासनं येन स आत्तदण्डः यथापराधदण्डेनेत्यर्थः, कुमार्गे प्रस्थितान् कुमार्गे = धर्मशास्त्रादिविरुद्धे मार्गे प्रस्थितान् = प्रस्थातुमुद्यतान् नियमयसि = निरुध्य पुनः सुमार्गे स्थापयसि। यथा गोपालने परक्षेत्रेषु सस्यादिभक्षणप्रवृत्तानां गवां वारणं क्रियते तथैव गृहीतदण्डेन भवतापि दुर्वृत्ते प्रवृत्तान् वारयसीति भावः। तथा चोक्तं राज्ञा दण्डविषये—

'तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम्।
ब्रह्मतेजोमयं दण्डमसृजत् परमेश्वरः ॥
स्वराष्ट्रे न्यायवृत्तिः स्यादुग्रदण्डश्च शत्रुपु ।
सुहृत्सु तिलस्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥'

विवादं = परस्परकलहं प्रशमयसि = वारयसि ये भूयो भूमिदाराद्रव्यादिषु विषयेषु विवादं विदधते तेषां विवादं धर्मज्ञैः सह व्यवहारदर्शनात् प्रशमयसीति भावः। रक्षणाय = प्रजानां परिपालनाय कल्पसे प्रभवसि, दैवीः मानुषीर्वाऽपदो निवारयन् प्रजानां परिपालनं कुरुषे। विमवेषु = धनादिषु अतनुषु = बहुलेषु ज्ञातयः = बान्धवाः सन्तु = भवन्तु नाम तु = परन्तु प्रजानां = जनानां बन्धुकृत्यं = बान्धवकर्तव्यम् त्वयि = भवति परिसमाप्तं = निष्पन्नं भवति। प्रजासु धनिनां धनस्य बान्धवा धनाधिकारिणो भवन्तु नाम तासां प्रजानां बन्धुकृत्यं = पालनावेक्षणादिकं तु भवानेव करोतीत्यहो ! भवतो निष्कारणोपकारप्रवणता।

अयं भावः—विभवे सत्येव ज्ञातयो बन्धुभावं दर्शयन्ति स्ववैभवमुपभुञ्जते च परं भवांस्तु प्रजानां वैभवमनपेक्ष्य तासां विनेतृत्वात् पिता, कलहशमनात् सुहृद्, रक्षणात् पुत्रश्चासीति सत्यमेव प्रजानां वास्तविको बन्धुरसीति भावः।

अत्र—काव्यलिङ्ग-कारकदीपक व्यतिरेकालङ्काराः मालिनी वृत्तं च ॥ ८ ॥


शासन करते हैं, उनका झगड़ा शान्त करते हैं और प्रजा की रक्षा के लिए सदा सन्नद्ध ही रहते हैं। जिनके पास अधिक धन है, ऐसे लोगों के लिए उनके बन्धु-बान्धव भले ही काम आते हों, किन्तु साधारण जनता के बन्धु-बान्धवों का कर्तव्य = रक्षा आदि तो केवल आप ही से होता है ॥ ८ ॥

विशेष—हिन्दू धर्मशास्त्रों में राज-व्यवस्था के अनुसार कुमार्गगामी व्यक्ति राष्ट्र का शत्रु माना गया है। उसके प्रति राजा का उग्रदण्ड से उसका नियमन करना राजधर्म बतलाया गया है—'उग्रदण्डश्च शत्रुपु'। अधिक धन रहने पर पराये भी अपना बन जाते हैं और निर्धन होने पर अपने भी पराये बन जाते हैं, किन्तु राजा प्रजा का सच्चा बन्धु हैं, वह हमेशा कारणनिरपेक्ष होकर प्रजा का पालन-पोषण करता है। बन्धु का कार्य है विपत्ति में सहायता पहुँचाना, आपस में उत्पन्न कलह को निपटाना तथा असन्मार्ग पर जाने से रोकना आदि। द्वितीय चारण का कहना है कि महाराज ! आपके द्वारा प्रजाओं के बन्धुओं के समस्त कार्य सम्पन्न होते हैं। भाई-बन्धु तो पैसे वालों के साथी होते हैं, किन्तु आप तो जनता के सच्चे भाई-बन्धु हैं।

पञ्चमोऽङ्कः २३३

राजा— एते क्लान्तमनसः पुनर्नवीकृताः स्मः । ( इति परिक्रामति )
प्रतीहारी— एसो अहिणवसम्मज्जणसस्सिरिओ सण्णिहिदहोमधेणू अग्गिसरणालिन्दो । आरुहदु देवो । [ एसोऽभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ! ]
राजा— ( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः ।


राजा— वैतालिकयोः वचनाभ्यां स्वक्लेशस्य धन्यत्वं साफल्यं चाकलयन् ब्रवीति— एते = वयं क्लान्तानि = श्रान्तानि मनांसि = चित्तानि येषां ते क्लान्तमनसः = क्लान्तिमनुभवन्तः नवीकृताः = उत्साहिताः, व्यपगतखेदाश्च कृताः पुनरपि स्वकार्यकरणस्य पर्युत्सुकाः स्म इति भावः ( इति = एवमुक्त्वा परिक्रामति = मण्डलाकारं गच्छति ) ।

प्रतिहारी— अभिनवं = नूतनं यत् संमार्जनं = स्वच्छता तेन सश्रीकः = सशोभः इति अभिनव सम्मार्जनसश्रीकः संनिहिता—आसन्ना होमधेनुः । हवनार्था = धेनुः सकृत् प्रसूता गौः यत्र स संनिहितहोमधेनुः । अग्निशरणस्य यज्ञशालाया आलिन्दः=बहिः द्वारि प्रकोष्ठः इति अग्निशरणालिन्दः, देवः = महाराजः आरोहतु = आरुह्योपविशतु ।

राजा— ( आरुह्य = आलिन्दस्योपरि आगत्य परिजनस्य = भृत्यस्य, द्वारपालिकाया अंसावलम्बी = स्कन्धाश्रित इति परिजनांसावलम्बी तिष्ठति = उपविशति ) किं निमित्तमेषां मुनीनामागमनमिति विकल्पयन् राजा पृच्छति-वेत्रवति = हे यष्टिधारिणि द्वारपालिके किं कार्यमुद्दिश्य = लक्ष्यीकृत्य भगवता = श्रीमता काश्यपेन = काश्यपगोत्रोत्पन्नेन महर्षिणा कण्वेन मत्सकाशं = मम समीपे ऋषयः = मुनयः प्रेषिताः = प्रहिताः स्युः = सम्भाव्यन्ते ?


राजा— इनकी इस प्रकार प्रोत्साहन देने वाली उक्ति सुनकर तो राज्यकार्य से परिश्रान्त होते हुए भी मैं पुनः उत्साहित हो गया हूँ ( घूमते हैं।)

प्रतिहारी— महाराज ! अभी-अभी तत्काल झाडू देने से साफ, सुपरिष्कृत और बँधी हुई होमधेनु से सुशोभित यज्ञशाला का यह अलिन्द = द्वार के बाहर का चबूतरा है, महाराज इस पर विराजमान हों।

विशेष— हवन के लिए दूध देने वाली गाय को कामधेनु कहते हैं। उसका दूध अत्यन्त पवित्र माना जाता हैं और सोम में मिलाकर देवताओं को अर्पित किया जाता है। कामधेनु का घी हवनीय द्रव्य में डालकर होम किया जाता है और उपयोगिता की दृष्टि से गौ रुद्रों की माता और प्रजापति ब्रह्मा की पुत्री मानी जाती है—'माता रुद्राणां'। अग्नि का शरण = आधार होने के कारण यज्ञशाला को अग्निशरण भी कहते हैं। अग्निशाला के बाहरी दरवाजे के चबूतरा या बरामदा को अलिन्द कहा जाता हैं।

राजा— ( चबूतरे पर चढ़कर किसी राज-पुरुष के कन्धे पर हाथ रखकर खड़े होकर ) हे द्वारपालिके ! बता तो सही, पूज्यपाद महर्षि कण्व मुनि ने इन तपस्वियों को मेरे पास किस लिए भेजा होगा ?

२३४अभिज्ञानशाकुन्तलम्

किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिश्वसच्चेष्टितम् । आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा- मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९ ॥

महर्षिकण्वद्वारात्मनः समीपे मुनीनां प्रेषणं कारणं सम्भावय राजा-विचारयति— किं तावदिति ।

अन्वयः— उपोढतपसां व्रतिनां तपः विघ्नैः दूषितं किं तावत् ! उत धर्मारण्यचरेषु प्राणिषु केनचित् असत् चेष्टितम्, आहोस्वित् वीरुधां प्रसवः मम अपचरितैः विष्टम्भितः ? इति आरूढबहुप्रतर्कं मे मनः अपरिच्छेदाकुलम् ( अस्ति ) ।

कुलपतेः कण्वस्य सन्देशमादाय समागतानां सस्त्रीकानां मुनीनामागमनं निशम्य किमर्थमेते ऋषयः समागता—इति निश्चेतुमपारयन् राजर्षिः दुष्यन्तो विकल्पयति—किं तावदिति । उपोढानि = अधिकानि तपांसि = तपस्याः ये ते तेषाम् उपोढतपसां = अतिप्रवृद्धतपोऽनुष्ठानानां यज्ञादिषु दीक्षितानां व्रतिनां = यमनियमवतां मुनीनाम् तपः = तपोव्रतादिकमं विघ्नैः = विघ्नकर्तृभिः राक्षसादिभिः दूषितं = विघ्नितम्, किं तावत् = किमु ? उत = अथवा धर्म्याणि = धर्मार्थानि धर्मकर्मसम्पादनार्थानि अरण्यानि = वनानि तत्र चरन्ति वर्तन्ते इति धर्मारण्यचरेषु = तपोवनविहारिषु प्राणिषु जीवेषु, मृगादिषु श्वापदेषु केनचित् = पामरेण असत् = अनुचितम्, चेष्टितम् = आचरितम् किम् ? आहोस्वित् = किस्वित् अथवा यद्वा मम = अपचरितैः = ममाज्ञातैः कुकृत्यैः वीरुधां = लतादीनां प्रसवः = प्रजननम्पत्, फलोत्पादनशक्तिः पत्रपुष्पफलादिसमुत्पत्तिश्च विष्टम्भितः = अवरुद्धः किम् ? आरूढाः = आकलिताः बहवः = अनेके प्रतर्काः = आशङ्का यस्मिन् तत् आरूढ-बहुप्रतर्का = नानातर्काकुलितं मे = मम मनः = मानसं वर्तते । राज्ञामनाचारेण तद्राज्ये-ऽनेका उपद्रवा जायन्त इत्यत्र शास्त्रमेव परमं प्रमाणमस्ति । तथा चोक्तम्—

'राज्ञोपचारात् पृथिवी स्वल्पसस्या भवेत् किल । अल्पायुषः प्रजाः सर्वाः दरिद्रा व्याधिपीडिताः ॥'

अर्थात्— पूर्वोक्तैर्बहुभिर्विकल्पैः व्याकुलो राजा दुष्यन्तः चिन्तयति यन्न जाने


क्या तपस्या में निरन्तर संलग्न इन ऋषियों की तपस्या किसी प्रकार के विघ्नों से दूषित हो गई है ? धर्मारण्य = आश्रमवासी ऋषि, मुनि, हरिण, मयूर आदि किन्हीं प्राणियों के प्रति-किसी दुष्ट ने कोई अनुचित आचरण किया है ? अथवा मेरे किसी अज्ञात कारण से वनस्पति लता एवं गुल्मों की फसल ही खराब हो गई है ? इस प्रकार मन में उठने वाले तर्क-वितर्कों से और शङ्काओं से तथा अनिश्चय से मेरा मन व्याकुल हो रहा है ॥ ९ ॥

विशेष— यहाँ विघ्न शब्द का तात्पर्य विघ्न करने वाले राक्षस हैं। धर्म-कार्य होने के कारण तपस्वियों के तपोवन को धर्मारण्य कहते हैं। उसकी रक्षा करना राजा का उत्तरदायित्व माना गया है। हिन्दू-शास्त्रों का निर्देश है कि राजा के कुकृत्य = अधर्म से प्रजा को कष्ट होता है—एवं उन पर विविध प्रकार की विपत्तियाँ आती हैं। इसलिए प्रजा की विपत्तियों का कारण राजा का पाप है। राजा के पापों से प्रजा अल्पायु, दरिद्र और रोगी होती हैं तथा उपज की कमी हो जाती है। जैसे—

राज्ञोपचारात् पृथिवी स्वल्पसस्या भवेत् किल । अल्पायुषः प्रजाः सर्वाः दरिद्रा व्याधिपीडिताः ॥

पञ्चमोऽङ्कः

२३५

प्रतीहारी—सुचरिदंणंदिणो इसीओ देवं समाजइदुं आअदेत्ति तक्केमि।
[ सुचरितनन्दिनो ऋषयो देवं सभाजयितुमागता इति तर्कयामि । ]
(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः। पुरश्चैषां कञ्चुकी पुरोहितश्च)
कञ्चुकी—इत इतो भवन्तः।
शार्ङ्गरवः—सखे शारद्वत !

महाभागः कामं नरपतिरभिन्नस्थितिरहो
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ १० ॥


किन्निमित्तमेतेषां मुनीनामागमनं ममान्ते जातमिति अत्र छेक वृत्ति-श्रुत्यनुप्रासकाव्यलिङ्गा-लङ्काराः शार्दूलविक्रीडितं च छन्दः ॥ ९ ॥

प्रतिहारी—राज्ञ आकुलत्वं परिहर्तुं प्रतिहारी चाटुभाषणमारभते सुचरितनन्दिनो-सुचरितमभिनन्दन्ति तच्छीलाः सुचरिताभिनन्दिनः = धर्माचरणशीलसद्वृत्तमत्वाहशसृपानुप-रागिणः, धर्मप्रवणजनप्रियाः, ऋषयः = मुनयः देवं = महाराजं समाजायितुं = वर्धापयितुम् आगताः = प्राप्ता इति = एवं तर्कयामि = जाने । भवतः सुचरितमाशीभिरभिनन्दयितु-मेते मुनयः समागता इत्यत्रं न विकल्पः ।

( ततः = तत्पश्चात् गौतमीसहिताः = गौतम्या युक्ताः मुनयः = ऋषयः शकुन्तलां पुरस्कृत्य = अग्रे उपस्थाय प्रविशन्ति = रङ्गमूमावाविर्भवन्ति एषां = गौतमी-शार्ङ्गरव-शारद्वतानां पुरः = समक्षमग्रे कञ्चुकी = कञ्चुकीयः पुरोहितः = पुरोधाः सोमरातश्च गच्छन्तौ प्रविष्टौ )

कञ्चुकी—इत इतो भवन्तः = अनेन मार्गेण, अनेन मार्गेण भवन्तः = यूयं प्रविशत ।

अन्वयः—अभिन्नस्थितिः असौ नरपतिः कामं महाभागः वर्णानामपकृष्टोऽपि कश्चित् अपथं न भजते तथापि जनाकीर्णम् इदं शश्वत् परिचितविविक्तेन मनसा हुतवहपरीतं गृहमिव मन्ये ।

अथ शार्ङ्गरवो नगरप्रवेशेन मनसि किञ्चिद् विकारमिव सम्भावयन् शारद्वतं इति स्वानुभवं व्यनक्ति—महाभाग इति । न भिन्ना = त्यक्ता स्थितिः = मर्यादा येन स


प्रतिहारी—महाराज ! ऐसा मालूम पड़ता है कि आपके अच्छे जीवन = आचरण से प्रसन्न ऋषि लोग आपको धन्यवाद देने के निमित्त आये हुए हैं।

( इसके बाद तापसी गौतमी के साथ शकुन्तला को आगे कर ऋषि रंगमंच पर प्रवेश करते हैं, उनके आगे कञ्चुकी और पुरोहित हैं।)

कञ्चुकी—आप लोग इधर से आइए।

शार्ङ्गरव—हे सखे शारद्वत !

यद्यपि ये महानुभाव राजा दुष्यन्त बड़ी तत्परता से धर्म की मर्यादा का पालन करने वाले हैं तथा प्रजा की पिता की तरह रक्षा करते हैं। यहाँ का कोई अपकृष्ट वर्ण भी कुमार्ग सेवन करने वाला नहीं है। तथापि हमेशा एकान्त सेवन करने का ही अभ्यास रहने से जनाकीर्ण यह स्थान भी अग्नि से जलते हुए घर की तरह मुझे अप्रिय तथा कष्ट कर प्रतीत होता है ॥ १० ॥

विशेष—शार्ङ्गरव राजा दुष्यन्त को श्रेष्ठ एवं मर्यादापालक समझता हुआ भी एकान्तसेवी

२३६ || अभिज्ञानशाकुन्तलम्

शारद्वतः—जाने भवान् पुरप्रवेशादित्थंभूतः संवृत्तः। अहमपि—

अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम्।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ११ ॥

अभिन्नस्थितिः = स्थितेरभेत्ता असौ = पुरोवर्ती नरपतिः = राजा दुष्यन्तः कामं = अतिशयेन महाभागः = श्रेष्ठः महाभागलक्षणं यथा—

‘आरभ्योत्पत्तिमामृत्योः कलङ्को यस्य नो भवेत्।
स्याच्चैवानुपमा कीर्तिः महाभागः स उच्यते॥’

वर्णानां = चतुर्णां ब्राह्मणादीनां मध्ये अपकृष्टोऽपि = अन्त्यवर्णोऽपि नीचोऽपि कश्चित् मनुष्यः अपथम् = कुमार्गम्, अधर्मम् न भजते = न गच्छति तथापि जनाकीर्णं = जनव्याप्तं लोकसङ्कुलम् इदम् = एतत् शश्वत् = निरन्तरम् परिचितं = अभ्यस्तं विविक्तं = निरन्तरै-कान्तप्रवणेन तपोवनात्मकं विजनं = स्थानम् यस्य तत्तेन परिचितविविक्तेन मनसा = चेतसा उपलक्षितोऽहं हुतवहपरीतं हुतवहपरोतम् = पावकज्वालावलीढम् अग्निव्याप्तं गृहमिव = आलय इव सद्यस्त्याज्यं मन्ये = तर्कयामि, तस्मादुद्वेगमतुमवामि। अग्निपरीतं गृहमिव दूरतः परिहर्तव्यमेवेदं राजगृहूमिति सम्भावये। इदं तात्पर्यम् यथा अग्निज्वालावलीढे गृहे क्षणमपि निवासं कर्तुं न शक्यते तथैव बाल्यात् तपोवनात्मकविजन-स्थानस्य परिचयात् परितो जनसङ्कुलेऽत्र नगरेऽपि स्थातुं न योग्यमिति भावः ॥ १० ॥

शारद्वतः—महर्षेः कण्वस्य द्वितीयः शिष्यः प्रथमशिष्यस्योक्तिमनुवदन्नाह—जाने = अनुभवामि भवान् त्व पुरप्रवेशात् = नगरागमनात् प्रभृति एवं इत्थंभूतः = जना नुकूलं नगरं हुतवहपरीतं नगरमिव सम्भावयन् एवं रूपः संवृत्तः = जातः। अहमपि--अहमपीत्यमेव तर्कयामि--अभ्यक्तमिवेति

अन्वयः—अहमपि इह सुखसङ्गिनं जनम्, स्नातः अभ्यक्तमिव शुचिः, अशुचिमिव प्रबुद्धः सुप्तमिव स्वैरगतिः बद्धमिव अवैमि।

शारद्वतोऽपि एवानुभव वर्णयन्नाह—अभ्यक्तमिवेतिअहमपि = भवानिवाहं शारद्वतोऽपि इह = नगरे सुखसङ्गिनं = विषयभोगासक्तं जनं = लोकम् स्नातः = कृतस्नानः अभ्यक्तं = तैलमर्दनेन सम्पादितदेहमलम्, तैलाभ्यक्तमशुचिमिव अस्नात मिव, शुद्धिः =

होने के कारण जनसङ्कुल नगर के वातावरण से वह उसी प्रकार खिन्नता का अनुभव कर रहा है। जिस प्रकार आग की लपटों से घिरा हुआ राजमहल भी अप्रिय और कष्टकारक प्रतीत होता है। आश्रम में उसे जो शान्ति मिलती है वह तो वहाँ बिलकुल ही नहीं है। ऋषियों का मन हमेशा एकान्तवासी होता है, उसे चारों ओर भीड़ से भरा हुआ राजमहल अच्छा नहीं लगता।

शारद्वत—हे सखे शाङ्गर्ख ! शान्त आश्रम के निवासी होने के कारण इस चहल-पहल वाले नगर में आने से तुम्हारे मन में उद्वेग आना सर्वथा उचित ही है और मैं भी—

विषय-सुखों में फँसे हुए यहाँ के नगरवासी लोगों को मैं उसी प्रकार समझता हूँ जैसे स्नान किया हुआ पुरुष तैल आदि लगाये हुए अशुचि व्यक्ति को समझता है। प्रबुद्ध = ज्ञानी पुरुष अज्ञानी को जैसे देखता है तथा स्वतन्त्र व्यक्ति जैसे जेल में बँधे हुए पुरुष को देखता है ॥ ११ ॥

विशेष—धर्मशास्त्रों में लिखा हुआ है कि शरीर में तेल लगाया हुआ व्यक्ति तबतक चाण्डाल = अशुचि, अस्पृश्य माना जाता है जब तक स्नान कर वह निर्मल नहीं हो जाता। स्नान किया हुआ व्यक्ति उसे अपवित्र तथा अस्पृश्य समझता है। जैसे—

पञ्चमोऽङ्कः २३७

शकुन्तला—( निमित्तं सूचयित्वा ) अम्महे किं मे वामेदरं णअणं विप्फुरदि [ अहो किं वामेतरन्नयनं विस्फुरति । ]
**गौतमी—**जादे पडिहदं अमंगलं । सुहाई दे भत्तुकुलदेअदाओ वितरंदु ।
[ जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु ] ( इति परिक्रामति )

अन्तःशुद्धः, पवित्रः अशुचिम् = कलुषात्मानं पापिनमिव, प्रबुद्धः = जाततत्त्वावबोधः, मोहनिद्राप्राप्तमिव जागरितः सुप्तमिव=निद्रितमिव, स्वैरगतिः=स्वेच्छाचारी बद्धं=निगडित यन्त्रितम् अवैमि = प्रतीये ।

**अर्थ भावः—**सखे शाङ्गंरव ! भवान् जनाकुलमिदं नगरं पावकव्याप्तं गृहमिव जानासि, अहमप्यस्मिन्नगरे विषयासक्तं जनं यथा कृताभिषेको नरः कृततैलमर्दनं पुरुषं स्वापेक्षया मलिनं सम्भावयति, अन्तःशुद्धो जनः पापिनमिव एतन्नगरमिव दूरनिवासयोग्यम् मन्यते । तस्मादेतादृशं नगरमस्मादृशां सर्वथा निवासानर्हम् ।

अत्र मालोपमालङ्कारश्छन्दश्चास्ति शिखरिणी ॥ ११ ॥

शकुन्तला—( निमित्तमपशकुनं सूचयित्वा = अभिनय ) अहो, हन्त ! किं = किन्निमित्तं मे=मम, वामात् इतरत् वामेतरं=सव्येतरं, दक्षिणं नयनं=नेत्रम् परिस्फुरति=स्पन्दते । गर्गाचार्यानुसारं स्त्रीणां दक्षिणाक्षिपन्दनमनिष्टावाप्तिसूचकमूक्तमस्ति ।

'दक्षिणचक्षुः स्पन्दनं बन्धुदर्शनमर्थलाभं वा ।
वामचक्षुः स्पन्दनं बन्धुविच्छेदं धनहानिर्वा ।
स्त्रीणामेतत्फलमाविकलं दक्षिणे वैपरीत्यम् ॥'

**गौतमी—**शकुन्तलामाश्वासयन्ती गौतमी कथयति -जाते ! =पुत्रि ! अमङ्गलं = अनिष्टम्, प्रतिहतम् = नष्टं जातम् । ते = तव भर्तुः = पत्युः कुलस्य = वंशस्य देवताः = देवा इति भर्तृकुलदेवताः = दुष्यन्तकुलाधिष्ठात्र्यो देवता हरिरहाद्याः ते=तुभ्यं सुखानि=आनन्दान् वितरन्तु = प्रयच्छन्तु ( इति = एवमुक्त्वा परिक्रामति = मण्डलाकारं परिभ्राम्यति ) अमङ्गलनिरासेन कल्याणानि कुर्वन्तु ।


तैलाभ्यङ्गे चिताधूमे मैथुने क्षौरकर्मणि ।
तावद्भवति चाण्डालः यावत् स्नानं न चाचरेत् ॥

इसलिए हे शाङ्गंरव ! विषय-सुख में निरन्तर लीन व्यक्तियों को मैं भी वैसा ही समझ रहा हूँ, जैसे स्नान किये हुए व्यक्ति अस्नान किए हुए को समझता है एवं स्वतन्त्र व्यक्ति कारागार में बँधे हुए पुरुष को देखता है ।

शकुन्तला—( अपशकुन का अभिनय करती हुई ) अरी मैया री, मैया, मेरी यह दाहिनी आँख आज क्यों फड़क रही है ?

**विशेष—**निमित्त कहते हैं शकुन को । शकुन दो प्रकार का होता है—शुभ शकुन और अशुभ शकुन । पुरुष की दाहिनी और स्त्रियों की बायीं आँख का फड़कना शुभ = शुभशकुन माना जाता है । इसके विपरीत पुरुष का बाँया तथा स्त्रियों का दाहिना नेत्र फड़कना अशुभ = अपशकुन माना जाता है । यहाँ राजा दुष्यन्त के मिलन में बाधा पड़ जाना, फल है जिसका वर्णन आगे आयेगा ।

**गौतमी—**पुत्रि ! यह अमङ्गल दूर हो, तुझे सुख प्राप्त हो, तुम्हारे पतिदेव के कुलदेवता तुम्हारा मङ्गल करें । ( घूमती है ।)

२१८ अभिज्ञानशाकुन्तलम्

पुरोहितः—(राजानं निर्दिश्य) भो भोस्तपस्विनः। असावत्रभगवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो प्रतिपालयति। पश्यतैनम्।

**शार्ङ्गरवः—**भो महाब्राह्मण ! काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्था, कुतः—

भवन्ति नम्रास्तरवः ¹फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ १२ ॥


**पुरोहितः—**पुरोधाः=सोमरातः राजानं=नृपं दुष्यन्तम् निर्दिश्य=दर्शयित्वा वदति=**भोः भोः तपस्विनः=**हे हे तापसाः ! असौ = अयम् अत्रभवान् = श्रीमान् वर्णानां = ब्राह्मणादीनां आश्रमाणां = ब्रह्मचर्यादीनां रक्षिता = प्रागेव = भवद्दर्शनात् पूर्वमेव भवत्यतिशयात् = आदराधिक्याच्च **मुक्तासनः=**त्यक्तराजपीठः सन् वः = युष्मान् प्रतिपालयति = प्रतीक्षते। एनं = महाराजं पश्यत = अवलोकयत। ईदृग्विधस्यास्य एवंविधं दर्शनमाश्चर्यकरमिति भावः।

शार्ङ्गरवः—भो महाब्राह्मण ! = हे विप्रवर्य ! कामम् = अतिशयेन एतत् = इदम् अस्य एवंविधं विनीतत्वम् अभिनन्दनीयम् = प्रशंसनीयम्, स्तुत्यम् तदापि = तदपि अत्र विषये विनीतत्वे मध्यस्था = निस्पृहाः, न वयं राजप्रशंसावाचमुच्चारयामः। कुत इत्याह—भवन्तीति।

**अन्वयः—**तरवः फलागमैः नम्रा भवन्ति, घना नवाम्बुभिः दूरविलम्बिनः (भवन्ति) सत्पुरुषाः समृद्धिभिः अनुद्धता (भवन्ति) परोपकारिणामेष स्वभाव एव।

राज्ञो दुष्यन्तस्य विनीतत्वे न तत्र मम कोऽपि विस्मयो भवति। यदि अचेतनानां तरुघनादीनां विनम्रत्वं स्वभावसिद्धं तर्हि सद्वंशजस्य सज्जनस्य विनम्रत्वे किमाश्चर्यमित्याह—**भवन्ति नम्रा इति। तरवः=**वृक्षाः फलागमैः फलानाम् आसन्नात् गमा = उत्पत्तयः तैः फलोद्गमैः = फलोद्भवैः नम्राः = अधोमुखा विनीताश्च भवन्ति। घनाः = मेघाः नवाम्बुभिः वर्षाकालारम्भे अभिनवजलैः दूरं विलम्बन्ते तच्छीला प्रवर्षणशीला भवन्ति।

पुरोहित—(राजा की ओर इशारा करके) हे तपस्वियों ! यह देखिए, परम माननीय, ब्राह्मण, क्षत्रिय, वैश्य एवं शूद्र इन चारों वर्ण तथा ब्रह्मचर्य, गृहस्थ, वानप्रस्थ और संन्यास इन चारों आश्रमों को यथावत् रक्षा करने वाले ये महाराज दुष्यन्त पहले ही से राजसिंहासन से उठकर आपलोगों की प्रतीक्षा में यहाँ खड़े हैं, इनका दर्शन कीजिए।

**शार्ङ्गरव—**हे महात्मन् = पुरोहित जी ! राजा का ऋषियों का आदर करना यद्यपि प्रशंसनीय हैं तथापि हम तो इस विषय में मध्यस्थ ही हैं अर्थात् हम इसके लिए राजा की प्रशंसा नहीं कर सकते हैं, क्योंकि—

जिसप्रकार फल आने पर वृक्ष स्वभाव से ही नम्र हो जाते हैं = झुक जाते हैं, जल से भरे रहने पर नये मेघ भी स्वतः नीचे लटक जाते हैं। इसी प्रकार समृद्धि प्राप्त कर सज्जन लोग भी विनीत हो जाते हैं। यह तो उनका स्वाभाविक गुण ही है ॥ १२ ॥

**विशेष—**राजा की नम्रता के लिए इनकी प्रशंसा करना व्यर्थ ही है। हमारे लिए यह आनन्ददायक नहीं है, क्योंकि ऐसे महान् राजा के लिए तो यह स्वाभाविक ही है। यह तो इनके लिए छोटी बात है। हाँ, तपस्वियों से मिलते समय सिंहासन छोड़ देना, उनकी राह देखना, उनके


१. फलोद्गमैर्नवाम्बुभिर्दूरविलम्बिनो।

पञ्चमोऽङ्कः। २३९

प्रतिहारी—देव पसन्नमुहवण्णा दीसंति। जाणामि विसद्धकज्जा इसीओ। [ देव प्रसन्नमुखवर्णा दृश्यन्ते। जानामि विश्रब्धकार्या ऋषयः। ] राजा—( शकुन्तलां दृष्ट्वा ) अथ अत्रभवती।

का स्विद्वगुण्ठनवती नातिपरिस्फुटशरीरलावण्या। मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥ १३॥

दूरविलम्बिनः = अत्यर्थं लम्बमानाः, अतिशयवर्षुकाः, सत्पुरुषाः = सज्जनाः = समृद्धिभिः धनविद्याधिकारादिसम्पत्तिभिः अनुद्धताः = विनीता एव औद्धत्यविरोधिनः भवन्ति। एषः नम्रत्वानुद्धतवादिरूपः परोपकारिणाम् = परोपकारपरायणानां दुष्यन्तसदृशानाम् स्वभाव एव = निसर्ग एव किं तन्नास्माकं प्रशंसापरम्पराभिरिति भावः।

अतो हि सत्कुलोत्पन्नानां परोपकारनियतानां महापुरुषाणां विनम्रत्वं स्वभावसिद्ध एवास्ति। एष महाराजो दुष्यन्तोऽपि तथाविध एवास्ति। अतोऽस्य नम्रत्वे विस्मयस्य नास्त्यवकाशः। अत्राप्रस्तुतप्रशंसा प्रतिवस्तूपमा-अर्थान्तरन्यासातिशयोक्ति-काव्यलिङ्गा-लङ्काराः वृत्तं च वंशस्थम् ॥ १२ ॥

प्रतिहारी—प्रसन्नमुखान् मुनीन् वीक्ष्य राजानमूचे–देव ! महाराज ! प्रसन्नमुख-वर्णाः = प्रसन्नाननाकृतयः ऋषयः = मुनयो दृश्यन्ते प्रतीयन्ते अतो जानामि = मन्ये विश्रब्धकार्याः विश्रब्धं = शान्तं कार्यं कृत्यं येषां ते विश्रब्धकार्याः = अनुद्घटप्रशान्त-कार्याः ऋषयः सन्ति। नैते विघ्नप्रतिकारादि-कार्यार्थिनः अपितु भवद्दर्शनादि-सामान्य-कार्यार्थिन एवेति मन्ये, इति भावः।

राजा—( शकुन्तलां दृष्ट्वा = अवलोक्य ) शापतिरोहितविस्मृतिः शकुन्तलामजा-नन् राजा पृच्छति-अथ = अहो, अत्र भवती = महोदया काऽस्ति ? विकल्पमान आह—का स्विदिति।

अन्वयः—पाण्डुपत्राणां मध्ये किसलयमिव तपोधनानां ( मध्ये ) अवगुण्ठनवती नाति-परिस्फुटशरीरलावण्या ( अत्र भवती ) का स्वित्।

मुनिकुमाराणां मध्येऽवगुण्ठनवतीमति कलेवरसंगतानुमीयमानातिसौन्दर्यां केयमिति विकल्पयन् ब्रवीति राजा दुष्यन्तः—का स्विदिति। पाण्डुपत्राणां = पाण्डूनि च तानि


प्रति विशेष आदर व्यक्त करता है। यदि वृक्ष तथा बादल अचेतन होकर भी परोपकार में सदा निरत हैं, तो चेतन राजा का क्या कहना है ? परोपकार तो जड़ चेतन में समान ही अभिनन्दनीय है।

कविवर कालिदास के समय में ब्राह्मण शब्द के पूर्व में लगाया हुआ महा शब्द प्रशंसार्थ था निन्दार्थक नहीं। आजकल ब्राह्मण, ज्योतिषी, वैद्य, मांस, यात्रा = मार्ग, निद्रा, तेल तथा शंख के पूर्व में जोड़ा गया महा शब्द निन्दा अर्थ को सूचित करता है। जैसे—

शंखे तैले तथा मांसे वैद्ये ज्योतिषके द्विजे।
यात्रायां पथि निद्रायां महच्छब्दो न दीयते॥

प्रतिहारी—महाराज ये ऋषि तो प्रसन्नमुख मालूम पड़ते हैं। अतः किसी प्रकार की आशंका की बात नहीं मालूम पड़ती है। अर्थात् ये अपने किसी कष्ट को कहने के लिए नहीं आये हुए प्रतीत हो रहे हैं।

राजा—( शकुन्तला का ओर देखकर ) यहां इन ऋषियों के साथ अपरिस्फुट कान्तिवाली

२४० | अभिज्ञानशाकुन्तलम्

पत्राणि च पाण्डुपत्राणि तेषां पाण्डुपत्राणां—परिणामपाण्डुराणां पत्राणां मध्ये किसलय-मिव = कोमलपल्लवमिव तपोधनानां = तापसानां मध्ये अवगुण्ठनवती = आवरणयुक्तपट-प्रावृतसर्वावयवा शरीरं च लावण्यं च शरीरलावण्यं = देहकान्ती नातिस्फुटे = अपूर्णव्यक्ते अनतिप्रकटे शरीरलावण्ये यस्याः सा स्फुटशरीरलावण्या = अनतिविभाव्यमानाङ्गसौन्दर्य-विभवा अत्रभवती = एषा प्रशस्ता ललना का स्वित् = का वा भवेत् ?

अर्थात् यथा जीर्णपाण्डुरपर्णस्याभिनवपल्लवस्य शोभां स्पष्टमविभाव्य द्रष्टुं चित्तं न चमत्कृतं भवति तथैव लम्बकूर्चानां मुनीनां मध्ये माना केयमवगुण्ठनवतीति भावः । अत्रोपमा काव्यलिङ्गोऽलङ्कारो आर्यावृत्तं च ।। १३ ।।

उभड़ते हुए शरीर और यौवन वाली घूँघट, निकाले हुए ऋषियों के बीच में खड़ी हुई, पीले-पुराने पत्तों के बीच में कोमल अभिनव पल्लवों की भाँति शोभायमान यह सुन्दरी युवती कौन हैं ? ।।१३।।

**विशेष—**यहाँ अवगुण्ठन शब्द का प्रयोग ऐतिहासिक दृष्टि से बड़े महत्त्व का है। इससे प्रतीत होता है कि अतिप्राचीन काल में अवगुण्ठन प्रथा का प्रचलन था। राजपरिवार तथा बड़े घरानों की स्त्रियाँ प्राचीन काल में भी घूँघट किया करती थीं। घूँघट तथा पर्दा प्रथा में अन्तर है। साड़ी के अञ्चल भाग से मुख का ढँकना घूँघट है और साड़ी के अतिरिक्त दूसरे वस्त्र उत्तरीय आदि से शरीर का ढँकना पर्दा प्रथा है, जिसका विकास यवनकाल से विशेष माना जाता है।

घूँघट की प्रथा इस देश की पुरानी प्रथा है। आदिकवि महर्षि वाल्मीकि रामायण से लेकर कविवर कालिदास आदि की रचनाओं तक इसका स्पष्ट उल्लेख मिलता है। कुछ विशेष अवसरों को छोड़कर स्त्रियाँ अवगुण्ठन करती थीं। जैसे—अतिसङ्कट, युद्ध स्वयंवर, व्रत, यज्ञ एवं विवाद के अवसर पर अवगुण्ठन के अभाव में स्त्रियों का दूसरों की दृष्टि में आना दोष नहीं माना जाता।

व्यसनेषु च कृच्छ्रेषु न युद्धे न स्वयंवरे। न व्रतौ न विवाहे च दर्शनं दूष्यते स्त्रियः ।। वा० रा० ११४।२८

और यह सीता इस समय विपत्ति में है, मानसिक कष्ट से भी युक्त है, विशेषकर मेरे पास है। इसलिए इस समय अवगुण्ठन के बिना सबके सामने आना दोष की बात नहीं है।

सैषा विपद्गता चैव कृच्छ्रेण च समन्विता। दर्शने नास्ति दोषोऽस्या मत्समीपे विशेषतः ।। ११४।२९

महाभारत में शल्यपर्व में कहा गया है—

अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु। ददृशुस्ता महाराज ! जना याता पुरं प्रति ।।

प्रतिमानाटक में भास ने लिखा है कि 'निर्दोषदृश्या हि भवन्ति नार्यो यज्ञे, विवाहे, व्यसने च (१।२०)। इसी प्रकार महावैयाकरण महर्षि पाणिनि ने अपनी अष्टाध्यायी के 'असूर्य्यललाटयोः दृशितपोः (३।१।३६) सूत्र का उदाहरण दिया है कि सूर्य्यं न पश्यन्तीति असूर्यंपश्या। अर्थात् जिन पर सूर्य तक की नजर न गई हो वे राजदाराएँ राजमहलों से बाहर नहीं निकलती थीं। जिन्हें सूर्य तक न देख पाये उस असूर्यंपश्या शब्द से स्पष्ट है कि स्त्रियाँ केवल पुरुषों की दृष्टि से ही नहीं बचाई जाती थीं, किन्तु धूप से भी बचाई जाती थीं। इस प्रकार स्त्रियों के प्रति पुरुषों का आकर्षण तथा स्त्रियों को सुन्दरता का विषय बनाने के लक्ष्य से घूँघट प्रथा का प्रचलन था क्योंकि स्वच्छन्दता से धूप में बाहर घूमने पर शरीर का रंग साँवला पड़ जाता है, और शरीर का लावण्य निकल जाता है। अद्भुत सुन्दरता के लिए लावण्य शब्द का प्रयोग होता है। मोती के ऊपर जो चमक दिखाई पड़ती है उसे लावण्य कहते हैं—

मुक्ताफलेषु छायायास्तरत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमुच्यते ।।