अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
२५४ || अभिज्ञानशाकुन्तलम्
शार्ङ्गरवः—मा तावत्।
^१कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः।
^२मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥ २० ॥
दुरधिरोहिणी व्यापिनी, आशा = कामना 'क्षेत्रं पत्नी शरीरयोः' इत्यमरसिंहः। क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः । ( मेदिनी कोषः )
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्।
**शार्ङ्गरवः—**राज्ञो वचनमाकर्ण्य क्रुद्धः शार्ङ्गरवः आह--मा तावत् = भवदुक्तमिदं विपरीतम्। किं तदित्याह--कृताभिमर्शामिति।
**अन्वयः—**कृताभिमर्शां सुतां अनुमन्यमानः मुनिः त्वया विमान्यो नाम मुष्टं स्वमर्थं प्रतिग्राहयता येन ( त्वं ) दस्युरिव पात्रीकृतोऽसि
महर्षेः कण्वस्य दुहितरं शकुन्तलामस्वीकृतवतो दुष्यन्तस्योक्तिं निशम्य क्रुद्धः शार्ङ्गरवो ब्रवीति—कृताभिमर्शामिति। कृतः = विहितः अभिमर्शः बलात् स्पर्शः, बलाद्धरणं यस्याः सा ताम् कृताभिमर्शां त्वया कृतबलात्कारां सुतां = शकुन्तलाम् अनुमन्यमानः = अनुमोदमान इयं महिषीत्वेन प्रतिगृह्यतामिति त्वत्समीपं प्रापयन्निव अत एव मुनिः = महर्षिः कण्वः त्वया = भवता विमान्यः किम्। अवज्ञेयः, किं विमाननीयः न विमाननीय अपितु माननीय एव दस्युः = चोर इव स्वं = निजं मुष्टं = चोरितम् अर्थं = धनम् शकुन्तलारूपम् प्रतिग्राहयता = तुभ्यं प्रत्यर्पता = दानरूपेण मन्यमानेन येन कण्वेन अपात्रम् = अयोग्यपालम् पात्रं = योग्यः कृतः विहितः सम्पद्यमानः पात्रीकृतः = पात्रत्वं प्रापितोऽसीत्यर्थः।
अयं भावः—स्वस्वानुपस्थितौ स्वानुमतिमन्तरा सरलां स्वां दुहितरं शकुन्तलां स्वेच्छया परिणीय तस्याः शीलं खण्डयितुः ते दस्योरिव अशिष्टव्यवहारमगणयित्वा चोरायैव चोरितं वस्तु प्रयच्छन्निव दस्युभूताय तुभ्यमेव तां समर्थयन् मुनिः त्वया न तिरस्करणीयः यतो हि तेन मुनिना त्वमपात्रभूतोऽपि कन्यादानेन पालीकृतोऽसि। तस्मादेनां त्वया तत्तन्मयां स्वीकृत्य स मुनिः नूनं संमाननीयः। अन्यथा क्रुद्धः काल इव त्वां स विलयं नेष्यतीति भावः। अत्रोपमा विषयानुप्रासालङ्काराः उपजातिश्छन्दश्च ॥ २० ॥
मेरा पुत्र चक्रवर्ती सम्राट् होगा, किन्तु यहाँ तो पासा ही उलट गया। ये तो न मुझे पहचानते हैं न मुझे स्वीकार ही करना चाहते हैं। मेरी आशा निराशा के रूप में परिणत हो गयी।
**शार्ङ्गरव—**राजन्! आपके द्वारा अनेक लोभ-लालच देकर आप में आसक्त हुई अपनी भोली भाली कन्या को गान्धर्व विधि से विवाह कर लेने पर भी उसे स्वीकार करने वाले महर्षि कण्व का आप इस प्रकार अपमान न करें। जिस महर्षि ने आपको उसी प्रकार अपनी कन्या का पति स्वीकार कर लिया है जिस प्रकार चोरी किये हुए अपने धन का चोरी करने वाले चोर को ही दानपात्र मानकर उसे ही दान दे दिया जाय ॥ २० ॥
**विशेष—**इस पद्य में शार्ङ्गरव दुष्यन्त को स्पष्ट रूप से डाकू बनाते हुए महर्षि कण्व की असीम अनुकम्पा व्यक्त की है। जैसे कोई व्यक्ति चोरी करने वाले को चुराया हुआ अपना धन दे दे वैसे ही चोरी से तुम्हारे द्वारा अपनी कन्या का गान्धर्व-विवाह कर लेने पर भी तुझ चोर को ही पात्र समझकर अपनी कन्या को सौंप देने वाला दयालु महर्षि कण्व को तुम इस प्रकार अपमानित
**पाठा०—**१. कृतागमर्शामनुमन्यमान। २. दुष्टं ।
पञ्चमोऽङ्कः २५५
**शारद्वतः—**शाङ्गंरव ! विरम त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह। दीयतामस्मै ^१प्रत्ययप्रतिवचनम् ।
शकुन्तला— (अपवार्यं ) इमं अवत्थंतरं गदे तारिसे अणुराए किं वा सुमरा-विदेण ? अत्ता दाणि मे सोअणीओ विववसिदं एदं। ( प्रकाशम् ) अज्जउत्त ( इत्यर्धोक्ते ) संसइदे दाणि परिणए ण एसो समुदाहारो। पोरव ! ण जुत्तं णाम दे तह पुरा अस्समपदे सहावुत्ताण हिअअं इमं जणं समअपुव्वं प्पतारिअ ईदिसेहिं अक्खरेहिं पच्चाचक्खिदुं । [ इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन ?
शारद्वतः—त्वमिदानीं विरम = इतः परं त्वया न वक्तव्यम् शकुन्तले वक्तव्यमुक्त-मस्माभिः = अस्माभिः यावद्वक्तुं शक्यं तावदुक्तम् । सोऽयं = स एव येन त्वं परिणीता अत्रभवान् श्रीमान् एवं इत्थं पूर्वोक्तमाह = वदति । अर्थात् अस्मदुक्तौ मान्यो राजा विप्रतिपन्नः सन् तव परिणयमेव अपलपतीति भावः अतः अस्मै = सन्दिग्धानाय राज्ञे प्रत्ययजनकं प्रतिवचनमिति प्रत्ययप्रतिवचनम् = विश्वासोत्पादकम्, प्रतिवचनम् । उत्तरं दीयतां = उपस्थाप्यतां त्वयेति शेषः ।
शकुन्तला—( अपवार्य ) शोच्यास्मीति स्वयं विचारयति शकुन्तला—तादृशे = तत्प्रकारके अतिशयिते तादृशीं पराकाष्ठागते **अनुरागे=**प्रेम्णि स्नेहं **इदं=**एतत् अवस्थान्तरं = अन्यामवस्थां अभिज्ञानगम्यमवस्थाविशेषम् **गते=**प्राप्ते सति **स्मारितेन=**स्मरणोत्पादना-यासेन किम्वा = किन्नु फलम् ? न किञ्चिदपि फलं पश्यामि । इदानीं = साम्प्रतं मे = मम आत्मा = स्वरूपं शोचनीयः = सचेतोभिः शोच्यतां गतः, अतः शोधनीयः कलङ्कान्मो-चनीय इति हेतोः एतद् व्यवसितं = मयैष उद्यम आरब्धः, प्रतिवचनप्रदाने मे प्रवृत्ति-
मत करो। महर्षिने उस महामानवके समान तुम पर महान् अनुग्रह किया है जो चोरोंको दण्ड देने के बजाय उसे चुराया धन सौंप दे। तुमने उनकी प्यारी धर्मपुत्री का स्पर्श भी किया, फिर उनका अपमान भी कर रहे हो, इसका फल अच्छा न होगा। इस प्रकार उस ऋषिकुमार का क्रोध चरम सीमा पर पहुँच गया है, वह खरी-खरी बातें सुना देता है, यह धर्मपालन का बल है कि वह राजा से स्पष्ट कह देने में नहीं डरता।
शारद्वत—शाङ्गंरव ? अब तुम चुप रहो। शकुन्तले ! हमने राजा से जो कुछ कहना था कह दिया, पर ये राजा ऐसी बात कह रहे हैं कि इन्होंने तुम्हारे साथ विवाह ही नहीं किया है। अतः अब तू ही इनको विश्वास दिलाने वाली कोई ऐसी बात कहो जिससे इनको तुम्हारे साथ विवाह का विश्वास हो सके।
**विशेष—**शारद्वत बड़ा ही गम्भीर है, उसे शीघ्र क्रोध नहीं आता। क्रोध से काम न देखकर वह अपने सखा शाङ्गंरव को शान्त करता हुआ शकुन्तला से कहता है कि तू ही कोई गुप्त विश्व-सनीय बात बता जिससे राजा को विश्वास हो जाय कि इन्होंने तुम्हारे साथ विवाह किया है। और इनके मन से परदा हट जाय । यहां शारद्वत किसी ऐसी घटना का याद दिलाना चाहता है जो प्रेमी और प्रेमिका के जीवन में किसी क्षण में घटती है और आजीवन याद रहती है।
शकुन्तला—( मन ही मन ) जब उस प्रकार का इनका अनुराग भी आज इस दशा में पहुँच गया है तब पिछली बातों का इन्हें स्मरण दिलाने से क्या लाभ है ? तो भी अपनी आत्मा की शुद्धि के लिए ही मैं कुछ कहती हूँ ( प्रगट में ) हे आर्यपुत्र ( इतना आधा ही वाक्य कह कर बीच में ही रुक कर ) अथवा यहां जब विवाह में हो सन्देह हो रहा है, तब इन्हें आर्यपुत्र यह
पाठा—१. प्रतिवचनम् ।
२५६ | अभिज्ञानशाकुन्तलम्
आत्मैदानीं मे शोचनीय इति व्यवसितमेतत् । आर्यपुत्र !—संशयित इदानीं परिणये नैष समुदाचारः । पौरव ! न युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्येदृशैरक्षरैः प्रत्याख्यातुम् । ]
र्जायते। राज्ञः स्मरणं हि प्रत्ययप्रतिवचनस्य फलं तस्यानुरागाभावे निष्फलत्वमत आत्मनः शोच्यता निश्चितेति भावः।
अथापि शारद्वतस्य वचनगौरवाद् वच्मि—आर्यपुत्र ! श्रेष्ठ स्वामिन् ! इति = एवम् अर्धं = अपूर्णं यथा स्यात्तथा उक्ते कथिते सति आर्यपुत्रेति संबोधनमात्रमुक्त्वा स्वयमेव पुनः शकुन्तला मनसि विमृशति आर्यपुत्रेति सम्बोधनं हि पत्यौ एव प्रयुज्यते, परमयं राजा सम्प्रति स्वभार्यात्वेनापि नाङ्गीकरोति। अतः संशयिते = संशयापन्ने सन्दिग्धे परिणये = विवाहे एषः = आर्यपुत्रेति सम्बोधनपदप्रयोगः न समुदाचारः न समीचीनः, न शिष्टानुमतः लोकरीतिवदनुमोदितो नैव भवति । परणीतैव प्रमदा स्वपतिम् आर्यपुत्रेति-भाषते । तद् यदि परिणयेऽपि सन्देहस्तदैवं संबोधनपदप्रयोगो न कथमपि मम युज्यते इति भावः।
आर्यपुत्रेति चाभ्यासवशादुक्त्वाऽर्धं एव तन्निरुध्य राज्ञः पुरुवंशप्रभवत्वसूचकेन पौरवेति सम्बोधनेन पुनर्वक्तुमारभते पौरव ! हे पुरुवंशोत्पन्न राजन् ! ते = तव कृते तथा तेन प्रकारेण पुरा = पूर्वम् आश्रमपदे = तपोवने स्वभावेन = निसर्गतः उत्तानम् = आर्जवयुक्तं कपटरहितं हृदयं = अन्तरं यस्य तत् स्वभावोत्तानहृदयं = प्रणयातिशयपेलवविमलमनसम् निसर्गसरलाशयं—स्वप्नेप्यकल्पितभवद्वञ्चनम् इमं जनं = मां दीनां तपस्विनीं समयपूर्वम् 'प्रतिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य नः।' इति प्रतिज्ञापूर्वकम् 'एकैकमत्रदिवसे दिवसे मदीयं नामाक्षरं गणय गच्छति यावदन्तम्' इति सङ्केतपुरःसरम् प्रतार्य्य=वञ्चयित्वा ईदृशैः अक्षरैः = अतिक्रूरैः परकलत्रप्रतिपादकैः हृदयविदारकैः वर्णैः प्रत्याख्यातुं = निराकर्तुं ते = पुरुवंशोद्भवस्य तत्र भवतः मादृशं जनप्रतारणं न युक्तं न योग्यं नाम । पुरुवंशे समुत्पन्नस्य धर्मपालकस्य भवतः इदम् अनाय्यमार्गानुसरणमत्यनुचितम् । तस्मान्मां न निराकुरुष्व गृहाणेवेति भावः ।
सम्बोधन देना भी उचित नहीं, क्योंकि आर्यपुत्र यह सम्बोधन तो विवाहकर्ता पति के लिए हो सकता है। हे पौरव ! आश्रम में सच्चे अनुराग से उत्तान एवं स्निग्ध हृदय वाले इस जन ( मुझ ) को अनेक प्रकार की आशायें दिलाकर गन्धर्व रीति मेरे साथ विवाह, रतिक्रीड़ा, विहार आदि करके अब इस प्रकार रूखे वचनों से मेरा प्रत्याख्यान करना यह कार्य आपको कथमपि उचित नहीं है।
विशेष— यहाँ शकुन्तला के वचन बड़े करुणाजनक और संयत है वह सोचती है कि उत्तर प्रत्युत्तर देना व्यर्थ है, ये महाराज तो अब बात करने के भी पात्र नहीं हैं, किन्तु मुझे अपने ऊपर लगे हुए कलङ्क का मार्जन करना आवश्यक है अतः कुछ कह रही हूँ। पौरव सम्बोधन बड़े महत्त्व का है। पुरुवंश में अनेक धर्मात्मा राजा हो चुके हैं जो छल छिद्र से परे थे, ऐसे धार्मिक कुल में उत्पन्न होकर आपको छल करना उचित नहीं ? तीन चार दिनों में बुला लेने की शर्त करके अब आपको इस प्रकार करना शोभा नहीं देता। यहाँ आर्यपुत्र न कहकर शकुन्तला ने पौरव कहा है। आर्यपुत्र यह सम्बोधन विवाहकर्ता पति के लिए होता है जिसका तात्पर्य हैं आर्य = मेरे श्वसुर जी के पुत्र अर्थात् मेरे स्वामी = पतिदेव।
पञ्चमोऽङ्कः
राजा—( कर्णौ विधाय ) शान्तं पापम् ।
व्यपदेशमाविलयितुं १किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः २प्रसन्नमम्भस्तटतरुं च ॥ २१ ॥
राजा—( कर्णौ विधाय=पापश्रवणनिवारणाय हस्ताभ्यां श्रोत्रे आवृत्य ) शकुन्तला-वचनमसहमानो राजा कथयति—शान्तं पापम्= दुष्कृतं निवृत्तं भवतु मैवं पुनः वद, त्वया विरम्यतामिति भावः ।
अन्वयः—( यथा ) कूलङ्कषा सिन्धुः प्रसन्नम् अम्भः तटतरुं च ( तथात्वं ) व्यपदेशम् आविलयितुम् इमं जनं पातयितुं च किम् ? ईहसे ।
तदेव समर्थयति—व्यपदेशमिति । यथा कुलं=तटं कषति=भिनत्ति या सा कूलङ्कषा=तटसंघर्षिणी तीरोत्पाटनप्रवणा सिन्धुः = नदी प्रसन्नं = स्वच्छं, निर्मलम्, अम्भः = जलं तटतरुं = तीरस्थं वृक्षम् च इव यथा तथा तेनैव प्रकारेण त्वमपि व्यपदिश्यते = कीर्त्यतेऽनेनेति व्यपदेशः कुलं तत् आविलयितुं दूषयितुं मलिनोकर्तुं तथा इमं जनं = अमुं जनं मां दुष्यन्तम् च पातयितुं = पतितं कर्तुं किं = कथम् ईहसे = चेष्टसे ?
**अयं भावः—**यथा वर्षतौ वर्षाद्भिः प्रवाहमदगर्विता कुलसंघर्षणप्रवणा कापि नदी तटपातेन निर्मलमपि जलप्रवाहं कलुषयति तटाश्रयं तरुलताविरुदादिकमपि पातयति तथैव पूर्वं मयाऽपरिणीतापि त्वं मां स्वपतिं मन्यमाना स्वपितृकुलं मम पौरवकुलं च दूषयितुं, माञ्च स्वधर्माच्च च्यावयितुं किमर्थं समीहसे ? अतो मैवं वद, नाहं पापं कर्तुमुत्सहे परमं पवित्रं नः कुलम्, चरित्रं च मे समुज्जवलमस्ति, त्वं तु इहागमनेनैव पतिता जातेति भावः ।
अत्र मदगर्विता नदी स्थानीया शकुन्तला, स्वच्छाम्भः स्थानीयं जलं, तटस्थानीयो राजा दुष्यन्तः । यथा कूलङ्कषा नदी प्रसन्नमम्भः तटं तरुं च पातयति तद्वत् शकुन्तला पौरवकुल-दुष्यन्तानामुपमाव्यपदेशादत्रोपमा-समुच्चयालङ्कारो आर्या छन्दश्च ॥ २१ ॥
राजा—( कान पर हाथ रखकर = दोनों कान बन्द करके ) इन पापमय झूठे वाक्य सुनने में जो पाप मुझे हुआ है, वह शान्त हो, शान्त हो, अर्थात् अब अधिक मत कहो।
अपने तट को ही काटने वाली नदी जैसे अपने स्वच्छ जल को मलिन कर देती है और तट के वृक्षों को गिरा देती है उसी प्रकार तूं भी मेरे वंश को और मेरे कुल की प्रतिष्ठा को क्या मलिन करना चाहती है और मुझे गिराना चाहती हो ? ॥ २१ ॥
**विशेष—**कान बन्द करने का तात्पर्य है कि अब ऐसा अनुचित आरोप न लगे ।
यहां शकुन्तला को नदी, दुष्यन्त के कुल को निर्मल जल तथा दुष्यन्त को तटवृक्ष के रूप में प्रस्तुत किया गया है जिसका तात्पर्य है कि जिस प्रकार तट संघर्षिणी नदी तट को गिराकर स्वच्छ जल को मलिन कर देती हैं उसी प्रकार शकुन्तला भी दुष्यन्त को पथभ्रष्ट कर उनके निर्मल कुल को दूषित न करे ।
**पाठा०—**१. समीहसे मां च पातयितुं । २. प्रसन्नमोघं तटतरुं च ।
१७ शाकु०
१५८ | अभिज्ञानशाकुन्तलम्
शकुन्तला—होदु जइ परमत्थदो परपरिग्गहसंकिणा तुए एव्वं वत्तुं पउत्तं ता अहिण्णाणेण इमिणा तुह आसंकं अवणइस्सं। [ भवतु यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं वक्तुं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि। ]
राजा—^८उदारः कल्पः।
शकुन्तला—( मुद्रास्थानं परामृश्य ) हद्धी अंगुलीअअसुण्णा मे अंगुली। [ हा धिक अङ्गुलीयकशून्या मेऽङ्गुलिः। ] ( इति सविषादं गौतमीमवेक्षते। )
शकुन्तला—कण्वाश्रमात् प्रस्थानकाले सखीसन्दिष्टं स्मृत्वाऽभिज्ञानाङ्गुलीयकदर्शनेन राज्ञः शङ्कामपनेतुं शकुन्तला ब्रवीति—भवतु = अस्तु आस्तां तावदियं कथा यदि = चेत् परमार्थतः = वस्तुतः परस्य = अन्यस्य परिग्रहः = कलत्रं पत्नीयमिति शङ्कते = आशङ्कते इति परपरिग्रहशङ्की तेन परपरिग्रहशङ्किना = परस्य पत्नीयमिति शङ्काकुलेन त्वया एवं वक्तुं प्रवृत्तं = इत्थमभिहितम् तत् = तर्हि अनेन = अमुना = अभिज्ञायतेऽनेनेति अभिज्ञानं तेन अभिज्ञानेन = परिचायकचिन्हेन मुद्रिकया तव = भवतः आशङ्कां सन्देहं अपनेष्यामि = दूरीकरिष्यामि। पुरस्क्रियमाणेण प्रस्थानकाले त्वद्दत्तेन मम करतलगतत्वात् साम्प्रतं मदधीनेन।
राजा—उदारः कल्पः = मुख्यो न्यायः, यद्वा उदारो महान् कल्पः सङ्कल्पः, महान् विश्वासो वा उदारः विदग्धो वा कल्पः। साधुरेव प्रस्तावो यदभिज्ञानेन शङ्कामपनेष्यसीतिभावः। 'कल्पः स्यात् प्रत्यये न्याये' इति विश्वकोशः 'उदारो महति ख्याते दानशौण्डविदग्धयोः' इति च वैजयन्ती।
शकुन्तला—( मुद्रास्थानं = मुद्रयतेऽनयेति मुद्रा = उत्कीर्णवर्णमङ्गुलीयकं तस्याः स्थानं = अङ्गुलिमूलं परामृश्य = स्पृष्ट्वा) शकुन्तला ब्रवीति—हा धिक् ! हन्त दैवं धिक्। अहो मे दैववैपरीत्यमित्यर्थः अङ्गुलीयकेन = मुद्रया शून्या = रहिता मे = मम अङ्गुलिः = करशाखा। इति = एवमुक्त्वा विषादेन सहितं सविषादं सखेदम् गौतमीम् अवेक्षते = अवलोकयति। कथमेतदभूदितितदभिप्रायः।
शकुन्तला—अच्छा, यदि सचमुच मुझे दूसरे की स्त्री समझकर ही यह सब कह रहे हो, तो किसी चिह्न को दिखाकर मैं तुम्हारी शङ्का को दूर कर देती हूँ।
विशेष—शकुन्तला को यह विश्वास नहीं था कि महाराज दुष्यन्त आश्रम में परस्पर अनुराग से सम्पन्न गान्धर्व विवाह जैसे स्मरणीय वस्तु को भूल गये हैं। इसलिए अपनी बात की पुष्टि करने के निमित्त प्रमाण देने को प्रस्तुत हो गई।
राजा—हाँ; यह उपाय सबसे उत्तम है। कोई ऐसा चिह्न दिखाओ, जिसमें मेरा तुमसे विवाह होना सिद्ध हो सके।
शकुन्तला—( अंगूठी पहनने की जगह को टटोल कर ) हाय, हाय, मेरी अंगुली में तो अंगूठी नहीं है? ( विषाद एवं शोक के साथ गौतमी का मुख देखती है )।
विशेष—विषाद के साथ गौतमी को देखने का तात्पर्य यह है कि देवी, अनर्थ हो गया, अब क्या करूँ ?
पाठ० ८—प्रथमः कल्पः।
पञ्चमोऽङ्कः २५९
गौतमी—णूणं दे सक्कावदारब्भंतरे सचीतित्थसलिलं वंदमाणाए पब्भट्ठं अंगुलीअअं। [ नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् । ]
राजा—( सस्मितम् ) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला—एत्थ दाव विहिणा दंसिदं पहुत्तणं । अवरं दे कहिस्सं । [ अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि । ]
राजा—श्रोतव्यमिदानीं संवृत्तम् ।
गौतमो—तदङ्गुलीयकादर्शनस्य सङ्गति सम्भावयन्ती गौतमी स्मारयति नूनं—निश्चयेन अवतरणम् अवतारः शक्रस्यावतारः शक्रावतार लक्षणया तदुपलक्षितो देशः शक्रावतारः तस्याभ्यन्तरे = शक्रावताराभ्यन्तरे = शक्रावतारतीर्थप्रदेशे शक्रतीर्थस्य सलिलं जलं वन्दमानायाः = नमयन्त्याः ते = तव अङ्गुलीयकं = मुद्रिका प्रभ्रष्टं = करात् च्युतम्, गलितम् ।
**राजा—**मिथ्यावचनोपन्यासचातुर्यात् तयोः आत्मवञ्चनोद्यमं संभाव्य स्मितं तेन सहितं संस्मितम् = ईषद्धास्येन सहितम् ।
राजा कथयति—इदं = तापसतरुण्या अलीकस्य अङ्गुलीयकस्य अदर्शने कथिते तापसवृद्धया तस्य सङ्गतिकथनम्, तत् = जगति प्रसिद्धम् प्रत्युत्पन्ना = तात्कालिकी गतिः = बुद्धिर्यस्य तत् प्रत्युत्पन्नमतिः = तात्कालिक प्रतिभाशाली । प्रत्युत्पन्नमतित्वलक्षणं यथा सुधाकरे—तात्कालिकी तु प्रतिभा प्रत्युत्पन्नमतिः स्मृता । स्त्रीणां समूहः स्त्रैणम्, स्त्रीजाति, इति = एवं यदुच्यते = लोके जनैः कथ्यते । तत् प्रत्यक्षं ज्ञायतेऽस्माभिरित्यर्थः ।
शकुन्तला—अत्र = अस्मिन् अभिज्ञानाङ्गुलीयकदर्शनविषये विधिना = विधात्रा अदृष्टेन वा प्रभुत्वं = स्वातन्त्र्यं दर्शितम् = अनुभावितम्, विधिवैपरीत्यमेवात्र हेतुः । अपरं = अभिज्ञानान्तरं ते = तुभ्यं कथयिष्यामि ।
**राजा—श्रोतव्यं—**श्रवणयोग्यम्, वचनं इदानीं = अधुना संवृत्तं = समाप्तम् । युष्मा-
गौतमी—मालूम होता है—शक्रावतार तीर्थ में शचीतीर्थ के जल की वन्दना करते समय ही तेरा अंगुली से निकल कर वह अंगूठी कहीं गिर गई है ।
राजा—( मुस्कराकर ) स्त्रियां प्रत्युत्पन्नमति = हाजिर जवाब, बात बनाने में पटु हुआ करती हैं, यह जो कहावत लोक में प्रसिद्ध है, वही बात यह है । अर्थात् यह सब तुम्हारा त्रिया-चरित्रमात्र है, और कुछ भी इस में सार नहीं है ।
विशेष—शचीतीर्थ में जलवन्दना के समय पानी के फिसलन से अंगूठी गिर जाने की सूझ गौतमी की हाजिर जवाबी व्यक्त करती है । जिसके निमित्त राजा दुष्यन्त का व्यङ्ग्य भी उसे सुनना पड़ता है । किसी कार्य के लिए तत्काल समाधान उपस्थित कर देने वाली प्रतिभा को प्रत्युत्पन्नमति, हाजिर जवाब कहते हैं ।
शकुन्तला—अच्छा, यहाँ तो = अंगूठी के विषय में दैव = दुर्भाग्य ने अपना प्रभुत्व दिखा दिया—मुझसे अंगूठी छीन ली, परन्तु मैं अब दूसरी बात कहती हूँ ।
राजा—अच्छा कहो, उसे भी मुझे सुनना ही पड़ेगा ।
विशेष—इस कथन से शकुन्तला के विषय में महाराज दुष्यन्त का उपेक्षाभाव व्यक्त होता है । प्रमाण के रूप में कोई चिह्न न प्रस्तुत कर शकुन्तला केवल मौखिक प्रमाणों से राजा को तुष्ट
| २६० | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला—णं एक्कस्सिं दिअहे णोमालिआमंडवे णलिणीपत्तभाणगअं उदअं तुह हत्थे संणिहिदं आसि [ नन्वेकस्मिन् दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् । ]
राजा—शृणुमस्तावत् ।
शकुन्तला—तक्खणं सो मे पुत्तकिदओ दीहापंगो णाम मिअपोदओ उपट्ठिओ । तुए अअं दाव पढमं पिअउ त्ति अणुअंपिणा उवच्छंदिदो उदएण । ण उण दे अपरिचआदो हत्थब्भासं उवगदो । पच्छा तस्सिएव्व मए गहिदे सलिले णेण किदो पणओ । तदा तुमं पहसिदो सि एत्थं सव्वो सगंधेसु विस्ससिदि । दुवेवि एत्थ आरण्णआ त्ति । [ तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यास-
भिः कल्पनासहस्रं कृत्वा मिथ्यावचनोपन्यासः कार्यः स चेन्मया न श्रूयेत तर्हि ममाश्रवणापराध एव स्यादिति प्रयोजनाभावेन श्रोतुमनिच्छन्नपि श्रोष्याम्येव गत्यन्तराभावादिति तात्पर्यम् ।
शकुन्तला—अभिज्ञानान्तरमाह—ननु = स्मरामि—एकस्मिन् दिवसे = कस्मिंश्चिद्दिने नवमालिका लतामण्डपे = वासन्तीलतागृहे—नलिनीपात्रभाजनगतं = कमलिनीदलपात्रप्राप्तमुदकं = जलम् तव = भवतः हस्ते = करे सन्निहितं = उपस्थितम् आसीत् अर्थात् आतिथ्यक्रियासमारम्भे मया समानीतमुदकं पादप्रक्षालानार्थं भवत्करे समर्पितमभूदित्यर्थः ।
राजा—शृणुमः = आकर्णयामः तावत् विवक्षितं सर्वमुच्यताम् सकलं श्रोतुं सन्नद्धा स्म एवेति भावः ।
शकुन्तला—सा वक्तव्यं ब्रूते—तत्क्षणं=तस्मिन् समये स मे दीर्घौ-आयतौ अपाङ्गौ=नेत्रप्रान्तौ यस्य स दीर्घापाङ्गोनाम पुत्रकृतकः = कृत्रिमः पुत्रः, पुत्रबुद्धया पालितः मृगपोतकः = हरिणशिशुः उपस्थितः = तत्रागतः । त्वया = भवता अयं = एष मृगपोतकः तावत् प्रथमं पिबतु पादप्रक्षालनादिकं पश्चात् सम्पाद्यम् इति = अनेन प्रकारेण अनुकम्पिता = दयमानेन उदकेन = जलेन उपच्छन्दितः = अभ्यर्थितः, जलाभिलाषानुरूपं
करना चाहती है, किन्तु महर्षि दुर्वासा के शाप के प्रभाव से राजा की विस्मृति हो गई है । इसलिए शकुन्तला की सारी बातें उसे मनगढ़न्त मालूम पड़ती है । राजा कहता है अब केवल सुनना ही भर बाकी रह गया है, पहले अंगूठी दिखाने की बात रही, अब तो सुनना ही है बातें गढ़ गढ़ कर सुनाती चलो । पहले याद न रहने से अविश्वास था पहचान प्रस्तुत न कर सकने से झूठ की पुष्टि हो गई वह मानकर राजा शकुन्तला पर व्यङ्ग्य कस रहा है ।
शकुन्तला—आश्रम में एक दिन की बात है । केतकी लताओं के मण्डप में तुम्हारे हाथ में पानी से भरा हुआ कमल के पत्ते का एक दोना था ।
राजा—हाँ, हाँ, मैं सुन रहा हूँ, तुम कहती चलो ।
शकुन्तला—उसी समय मेरे द्वारा पुत्र की भाँति पाला-पोसा गया हुआ दीर्घापाङ्ग नामक मृग का बच्चा वहां आ गया । तब आपने दयापूर्वक यहीं पहले पानी पीये, इस विचार से पानी पीने के लिए बुलाया, किन्तु वह अपरिचित हाथ से पानी पीने को आपके पास नहीं गया । उसी
पञ्चमोऽङ्कः
२६१
मुपगतः । पश्चात्त्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकौ इति । ]
राजा—एवमादिभिरात्मकार्यनिर्वर्तिनीनाममृतमयवाङ्मधुभिरामृष्यन्ते विषयिणः ।
गौतमी—महाभाअ ! ण अरुहसिं एव्वं मंतिदुं । तवोवणसंवड्ढिदो अण्णभिण्णो अअं जणो कइदवस्स । [ महाभाग ! नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य । ]
जलं दर्शयित्वा पातुमाहूतः प्रार्थितः । सलिलार्थमागतः, त्वं च जलमेव अदाः । अपरिचयात् = परिचयाभावात्-अज्ञातत्वात् हस्ताभ्यासं = हस्तसमीपं, न उपगतः = न प्राप्तः पश्चात् = अनन्तरम् तस्मिन्नेव सलिले मया गृहीते = धृते अनेन तेन हरिणशिशुना प्रणयः कृतः = ग्रहणरूपा प्रीतिः कृता जलं पीतमित्यर्थः । तदा = तस्मिन् अवसरे त्वं = भवान् इत्थं = अनेन प्रकारेण प्रहसितोऽसि = प्रहासं कृतवानसि तदा त्वं ममेत्थं परिहासमकार्षीः यत् सर्वः खलुः सकलोऽपि प्राणी सगन्धेषु समानः तुल्यः गन्ध सम्बन्धो येषां ते सगन्धाः तेषु सगन्धेषु = स्ववर्ग्येषु विश्वसीति विश्वासं करोति । द्वावपि = उभावपि अत्र = अस्मिन् स्थाने आरण्यकौ अरण्ये भवो आरण्यकौ वनवासिनौ अरण्य सम्बन्धेन युवां बन्धू ।
राजा—शकुन्तलोक्तिमाकर्ण्य राजा वदति—एवमादिभिः = उक्तसदृशैः वाक्यैः आत्मकार्यनिर्वर्तिनीनां-आत्मकार्यं = स्वकार्यम् अवश्यं निर्वर्तयन्ति साधयन्ति या स्तास्तासाम् आत्मकार्यनिर्वर्तिनीनां ललनानां अनृतमयवाङ्मधुभिः = मिथ्यावचनात्मकपुष्परस विशेषैः विषयिणः = इन्द्रियपरायणाः कामुका जनाः आकृष्यन्ते = विमार्गं नीयन्ते वशींक्रियन्ते आवध्यन्ते अत्र नाहं विषयी, अतस्तवानृत वाङ्मधुधारामिः नाकृष्ये इति भावः ।
गौतमी—राजोक्तिमाकर्ण्य गोतमी वदति—हे महाभाग = महोदय ! एवं इत्थम् पूर्वोक्तप्रकारेण मन्त्रयितुं = वक्तुं नार्हसि—तपोवनसंवर्धितः = आश्रमपालितः अयम् = एष जनः शकुन्तला लक्षणः कैतवस्य = छलस्य, कपटाचारस्य अनभिज्ञः = अपरिचितः = सत्यमेवेयं भणति तपोवनसंवर्धितत्वात् कैतवं न जानातीति भावः ।
पानी से भरे दोने को जब मैंने अपने हाथ में ले लिया, तब उसने पानी पी लिया। तब इस प्रसंग में आपने उस समय हँसकर कहा था कि सभी अपने ही गण में विश्वास करते हैं, क्योंकि तुम दोनों ही वन के रहने वाले हो। इसलिए यह मृग के बच्चों ने तुम्हारे हाथ से पानी पीया मेरे हाथ से नहीं पीया।
राजा— स्त्रियों द्वारा अपने मतलब के लिए गढ़ी गई उसी प्रकार की मीठी मीठी बातों से ही विषयी कामी लोग अपनी ओर आकृष्ट किये जाते हैं।
गौतमी— महाराज ! आपको ऐसा नहीं कहना चाहिए। तपोवन में पाला-पोसा हुआ यह जन = शकुन्तला किसी प्रकार के भी छल-प्रपञ्चों से बिल्कुल ही अनभिज्ञ = अपरिचित है।
विशेष— गौतमी के कहने का अभिप्राय यह है कि प्रायः तपोवन में ही पवित्र चरित्र ऋषि मुनि निवास करते हैं। और वे वहाँ अपना सात्विक जीवन व्यतीत करते हैं। उनके संसर्ग में पलने वाले प्राणी छल छिद्र से रहित होते हैं। यह शकुन्तला भी तपोवन में ही पाली पोशी गई है वातावरण का प्रभाव व्यक्तित्व के निर्माण में सर्वाधिक महत्त्वपूर्ण माना जाता है।
२६२ | अभिज्ञानशाकुन्तलम्
राजा—तापसवृद्धे।
स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः। प्रागन्तरिक्षगमनात् स्वमपत्यजात- 'मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ २२ ॥
राजा—गौतमी वचो निशम्य राजा दुष्यन्तः सोपहासमाह – तापसवृद्धे ! तापसी चासौ वृद्धा तापसवृद्धा तत्सम्बुद्धौ हे तापसवृद्धे ! हे वृद्धतापसि। स्त्रीस्वभावं विवृणोति—स्त्रीणामिति।
अन्वयः—स्त्रीणां ( मध्ये ) अमानुषीषु ( अपि ) अशिक्षितपटुत्वं संदृश्यते यः प्रतिबोधवत्यः किमुत परभृताः स्वमपत्यजातम् अन्तरिक्षगमनात् प्राक् अन्यैः द्विजैः परिपोषयन्ति खलु।
महर्षेः कण्वस्य पुनीते आश्रमे संवर्द्धिता न किमपि कैतवाचारं जानातीति गौतमीवचनं निशम्य राजा दुष्यन्तः सोपहासं स्त्रीस्वभावं विवृणोति—स्त्रीणामिति। स्त्रीणां = नारीणां स्त्रीजातिसमुत्पन्नानां अमानुषीषु = मनुष्यव्यतिरिक्तासु वागादिव्यवहाररहितास्वपि तासु अशिक्षितं च पटुत्वं चेति अशिक्षितपटुत्वम् उपदेशमन्तरापि नैसर्गिकवञ्चना-चातुर्यं संदृश्यते = विलोक्यते प्रतिबोधवत्यः प्रतिबोधोऽस्ति आसामिति प्रतिबोधवत्यः = हस्तपादवागादिव्यवहारकुशलाः शिक्षाशालिन्यश्च मनुष्यः किमुत = तासां कौसले तु पुनः किं वक्तव्यम्। परभृताः—परैः अन्यैः पक्षिभिः भ्रियन्ते इति परभृताः = कोकिलाः स्वं = स्वकीयम् अपत्यजातम् = सन्ततिसमूहम् अन्तरिक्षगमनात् = आकाशगमनात्, उड्डयन-शक्त्युत्पत्तेः पूर्वम् अन्यैः = अपरैः द्विजैः पक्षिभिः काकैः परिपोषयन्ति = परितः सर्व प्रकारेण पालयन्ति-खलु = प्रसिद्धिः। कोकिला हि समुत्पन्नानि स्वानि अपत्यानि कुलायेषु निक्षिपन्ति काकाश्च तानि स्वापत्यबुद्ध्या तानि परिपालयन्तीति कविप्रसिद्धिः।
राजा—हे वृद्ध तापसी बुद्धिमती स्त्रियों की तो बात ही क्या है, पशु-पक्षी जाति की अज्ञान स्त्रियाँ भी सिखाये बिना स्वभाव से ही चतुर एवं चालाक देखी जाती है। देखो कोकिलाएँ, जब तक उनका बच्चा आकाश में उड़ने लायक नहीं हो जाता तब तक उसका पालन-पोषण अन्य पक्षियों से ही कराती हैं ॥ २२ ॥
विशेष—यह बात प्रसिद्ध है कि कोयल का बच्चा जब अण्डे से बाहर निकलता है तब कोयल उस बच्चे को ले जाकर कौए के घोसले में रख आती है। मूर्ख कौवी उसे अपना बच्चा समझ कर पालती पोसती है, उड़ने की शक्ति हो जाने पर वह कोयल का बच्चा वहां से उड़कर चला जाता है और कोयल के झुण्ड में मिल जाता है कौवी कांव कांव करती ही रह जाती है। और सन्तान की लालसा से कोयल की सन्तान को अपनी सन्तान मान लेने वाली कौवी का भ्रम दूर हो जाता है। कौवी के द्वारा पालित-पोषित होने के कारण कोयल का दूसरा नाम परभृत परपृष्ट आदि है। इस उदाहरण को दृष्टि में रखकर राजा कहते हैं कि स्त्रियां बहुत चालाक होती है, उन्हें सिखाना नहीं पड़ता है और दूसरों को ठगने में भी चालाक होती हैं? यह भी प्रसिद्धि है कि कौबी एक बार ही जन्म देती है। इसलिए एक बार जन्म देने वाली माताएँ काकवन्ध्या कही जाती हैं।
पाठ०—१. मन्यैर्द्विजै परभृतः।
पञ्चमोऽङ्कः । २६३
शकुन्तला—( सरोषम् ) अणज्ज अत्तणो हिअआणुमाणेण पेक्खसि। को दाणि अण्णो धम्मकंचुअप्पवेसिणो तिणच्छण्णकूवोवमस्स तव अणुकिदिं पडिवदस्सदि।
[ अनार्य ! आत्मनो हृदयानुमानेन पश्यसि क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्न-कूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । ]
अयं भावः—अशिक्षिता अपि स्त्रीजातिस्वभावत एव व्यवहारकुशला भवन्ति दाक्ष्यशिक्षाशालिन्यः वाग्व्यवहारनिपुणाः तासां कौशले किं वक्तव्यम् । कोकिलाङ्गनाः किल वर्णेन सदृशानि स्वकीयानि अपत्यानि उड्डयनाशक्त्युत्पत्तिपर्यन्तं काकपक्षिद्वारा परिपोषयन्ति । अतस्ताः परभृताः प्रोच्यन्ते । तदेवं तिर्यङ्जातिष्वपि वाग्बुद्धिव्यवहार-शून्या स्त्रियः कपटपटवः स्युस्तर्हि किमु वक्तव्यं शिक्षितानां वाग्व्यवहारप्रवीणानां बुद्धिमतां मानुषीणां नारीणां कपटपाटवविषये । तस्मात्तपोवने वर्द्धितैयं तत्र भवती स्त्रीसुलभं वञ्चनकौशलं न जानातीति भवत्याः कथनं सर्वथालीकमेव मे प्रतिभातीति भावः । परभृतादि दृष्टान्तेन स्त्रीत्वेन हेतुना नारीमात्रस्य मृषाभाषणत्वं प्रसिद्धम् परभृतेव शकुन्तला माता मेनकापि एनां समुत्पाद्य वने विसृज्यान्यैः पक्षिभिः पालितवतीति सूच्यते ।
अत्राप्रस्तुतप्रशंसाऽर्थान्तरन्यासव्यतिरेकालङ्काराः वसन्ततिलका वृत्तं च ॥ २२ ॥
शकुन्तला—राज्ञोऽधिक्षेपमसहमाना शकुन्तला सरोषं तमुपालभते अनार्य ! = हे आचारविचारविवर्जित ! 'पापबुद्धे ! आत्मनः = स्वस्य हृदयानुमानेन = अन्तःकरणस्य प्रमाणेने ( अनुमानप्रकारश्च-सर्वस्यान्तः करणं मलिनं हृदयत्वात्, मम हृदयवत् ) सर्वं = सकलमपि लोकं वञ्चकमेव प्रेक्षसे = पश्यसि । आत्महृदयमिव परहृदयमपि इति कल्पनेन आत्मवदस्मानपि जानातीत्यर्थः । कथयन्ति हि लोकाः—'स्वयं पापी परान् पापिनः शङ्कत इति । तस्मात् सर्वोऽपि कुटिलाशयः सर्वमपि जनं कुटिलमेव पश्यतीतिभावः । क इदानीमन्यः = कः = जनः इदानीम् = अधुना अन्यः = त्वद्भिन्नः धर्मस्य कञ्चुकं = प्रावरणं प्रवेष्टुं शीलमस्येति धर्मकञ्चुकप्रवेशी तस्य धर्मकञ्चुकप्रवेशिनः = बहिः सर्वप्रकारेण व्याजेन धर्मपरस्य, धर्मच्छद्मव्यवहारपरस्य दाम्भिकस्य बहिर्धार्मिकस्य तृणैः =
इस पद्य में कवि ने वक्रोक्ति की कुशलता से अमानुषी, अन्तरिक्षगमन, परभृत तथा द्विज शब्दों से मेनका = अप्सरा महर्षि कण्व के साथ शकुन्तला की उत्पत्ति की ओर भी संकेत किया है। अमानुषी तथा परभृता शब्द से मेनका का संकेत है । मेनका अप्सरा है अतः अमानुषी है। वह एक स्वर्वेश्या है अतः दूसरों के द्वारा पालित होने से परभृता भी है। प्रागन्तरिक्षगमन से शकुन्तला को उत्पन्न कर मेनका के स्वर्ग चले जाने का संकेत है। स्वमपत्यजातम् से शकुन्तला का निर्देश है। अन्यैर्द्विजैः से महर्षि कण्व का संकेत है। इस प्रकार राजा ने शकुन्तला की मां मेनका को कोयल बना दी है ।
शकुन्तला—( क्रोधपूर्वक ) हे अनार्य ! तेरा अपना हृदय जैसे छल प्रपञ्च से भरा हुआ है उसी प्रकार तूँ सबको समझता है । इस संसार में धर्म का ढोंग रचकर न्याय का जामा पहन ढोंग बनाए हुए तृण से ढँके कूप के समान दूसरों को फंसा कर गड्ढे में गिराने वाला तेरे समान और कौन दुष्ट और पापबुद्धि मनुष्य संसार में होगा ।
विशेष-राजा दुष्यन्त ने जब तपस्विनी गौतमी का अपमान करते हुए शकुन्तला की मां स्वर्गीय अप्सरा मेनका को कोयल बना दिया तथा शकुन्तला के चरित्र को सन्दिग्ध बताने का प्रयास किया तब शकुन्तला का धैर्य छूट गया और व्याकुल होकर उसने दुष्यन्त को अनार्य तक कह डाला । और भी जिस प्रकार कुछ असामाजिक तत्त्व धर्म का ढोंग बनाकर समाज को धोखा देते हैं उसी तरह
| २६४ | अभिज्ञानशाकुन्तलम् |
|---|
राजा—(आत्मगतम्) संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते। तथा ह्यनया—
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने। भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥ २३ ॥
घासैः छन्नेन आवृतेन कूपेन उपमा उपमानं यस्य स तस्य तृणप्रच्छन्नकूपोपमस्य = तृणाच्छादितमुखकूपसदृशस्य यथा तृणाच्छन्नः कूपः स्थलबुद्ध्या जनान् पातयति तथैव त्वयि विश्वासं विदधतो जनान् वञ्चयति यद्वा यथा घासैरावृतो गभीरः कूपो भूतलमिव दृश्यते तथैव पापात्मात्वं धर्मावृतो धार्मिक एव प्रतीयते, परं नाहमीदृशी। तव = भवतः अनुकृति = अनुकरणं प्रतिपत्स्यते = अङ्गीकरिष्यति। त्वमेव वञ्चको नाहं त्वदनुकारिणीति तात्पर्यम्।
**राजा—**दुष्यन्तः कुपितायाः शकुन्तलाया भावभङ्ग्या ऊढायाः परित्यागे एवैवं विधः कोपः संभवति, तया साकं परिणयस्य कृतत्वं सम्भावयन्नपि महर्षेः दुर्वाससः शापमहिम्ना अनिश्चिन्वन् मनसि विमृशति–सन्दिग्धबुद्धिम् सन्दिग्धा = इयं मया परिणीता न वेति सन्देहमापन्ना बुद्धिः मतिः यस्य स तं सन्दिग्धबुद्धिम् मां=दुष्यन्तं कुर्वन्=विदधत् अविद्यमानं कैतवं यत्रेति अकैतव अकृत्रिम वास्तव इव अस्याः पुरोवर्तिन्या नायिकाया कोपः = क्रोधः लक्ष्यते = लक्षणैः ज्ञायते। तथाहि यथा अनया = ललनया।
**अन्वयः—**विस्मरणदारुणचित्तवृत्तौ रहोवृत्तं प्रणयम् अप्रतिपद्यमाने मयि एव अतिरुषा अतिलोहिताक्ष्या अनया कुटिलयोः भ्रुवोः भेदात् स्मरस्य शरासनं भग्नम्।
तिरस्कृतया शकुन्तलया सरोषमविक्षिप्तो राजा दुष्यन्तः तस्याः स्वाभाविकं कोप वीक्ष्य मया कदाचिदियं गन्धर्वविवाहविधिना विवाहिता संशयमापन्नो मनसि स्यादिति विचारयति—मय्येवेति । विगतं = अपगतं स्मरणं = स्मृतिः यस्य तत् विस्मरणान्तेन अतएव दारुणं चित्तं ते वृत्तियंस्य स तस्मिन् विस्मरणेन = स्मृतिलोपात् दारुणा =
शकुन्तला भी दुष्यन्त को धर्म का चोंगा पहने हुए समझती है। शिकारी लोग जंगली मृग, सूअर, हाथी आदि जानवरों के आने जाने वाले मार्ग में कुंआ खोदकर इस प्रकार घास से ढंक देते हैं कि उन्हें पता नहीं लगता कि यहाँ कोई गड्ढा भी है। जब वे उस पर जाने लगते हैं तो गिरकर नीचे चले जाते हैं, बाद शिकारी उन्हें पकड़ लेते हैं और अभीष्ट सिद्ध करते रहते हैं। यही यहाँ धर्मकञ्चुकप्रवेशी तथा तृणछन्नकूप शब्द का तात्पर्य है।
राजा—(मन ही मन) सन्दिग्ध बुद्धि मेरे प्रति इसका क्रोध वनवासी होने के कारण अत्यन्त निर्भय विनावट का सच्चा सा प्रतीत हो रहा है, क्योंकि—
इसने मुझे अपने विवाह की बात याद नहीं आने से इस प्रकार मेरे कठोरचित्त हो जाने पर और एकान्त में की हुई प्रणय की बातों को स्वीकार न करने पर इसने लाल-लाल नेत्र करके अति-कुटिल दोनों भौंहों को टेढ़ा करके, मानो क्रोध से कामदेव का धनुष ही तोड़ दिया है ॥ २३ ॥
**विशेष—**शकुन्तला के बनावट रहित कोप को देख राजा मन ही मन सोचते हैं कि मेरे द्वारा विस्मृति के कारण एकान्त में घटित और विवाह आदि की बातों को अस्वीकार करने पर अत्यन्त क्रोध से इसकी आँखें लाल-लाल हो गई हैं और इसकी भृकुटी टेढ़ी हो गयी हैं अतः प्रतीत होता
पञ्चमोऽङ्कः
२६५
( प्रकाशम् ) भद्रे ! प्रथितं दुष्यन्तस्य चरितम् । ^१तथापीदं न लक्षये ।
शकुन्तला—सुट्ठु दाव अत्त सच्छंदचारिणी किदम्हि । जा अहं इमस्स पुरुवंसप्पच्चएण मुहमहुणो हिअअट्ठिअविसस्स हत्थब्भासं उवगदा । [ सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि । याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयस्थितविषस्य हस्ताभ्याशमुपगता ] ( इति पटान्तेन मुखमावृत्य रोदिति । )
निरनुक्रोशा चित्तवृत्तिः = मनोव्यापारः यस्य स तस्मिन् विस्मरणदारुणचित्तवृत्तौ = विवाहवार्ताविस्मरणदारुणमनसि अत एव रहः = एकान्ते, विजने वृत्तं = सम्पन्नं, प्रणयं = स्नेहं परिणयं विवाहं वा अप्रतिपद्यमाने = अस्वीकुर्वाणे सति मयि = ममविषये एव अति = अत्यन्तं रुट् = क्रोधो यस्याः सा तया अतिरुषा = अधिकक्रोधया यद्वा अतिरुषा = अतिक्रोधेन, अतिलोहिते अक्षिणी यस्या सा अतिलोहिताक्षी तया अतिलोहिताक्ष्या = अत्यारक्तनयनया आरक्तलोचनया अनया मुनिकन्यया वनिंतया कुटिलयोः = स्वभावादतिवक्रयोः ध्रुवोः = भ्रुकुट्योः भेदात् = भङ्गात् भ्रूमङ्गमपनीय स्मरस्य = कामस्य शरासनं = त्रिलोकविजये साधनभूतं धनुः भग्नं = छिन्नं खण्डितम् इव = यथा कोऽस्य मदनस्य धनुर्भञ्जनादपरः पराभव इति भावः।
अयं भावः—मुनिकन्ययाऽनया कुटिलयोः भ्रुवोः भङ्गात् = वक्रकरणात् प्रतीयते तत् कामस्य धनुर्भङ्गं जातम् । अत्रोत्प्रेक्षाकाव्यलिङ्गानुप्रासा अलङ्कारा वसन्ततिलका छन्दश्च ॥ २३ ॥
दुर्वाससः शापेनापगतस्मृतिः नृपो दुष्यन्तः प्रकाशं ब्रूते—भद्रे ! = कल्याणि ! दुष्यन्तस्य चरितं प्रथितम् = सर्वदा सुहृज्जनपरिवृतत्वात् प्रख्यातम् तथापि = एवमपि इदं = त्वेतत्परिणयनम् न लक्षये = मृगयाप्रसङ्गेन मुनिजनसत्रसंरक्षणधर्मारण्य निवासादयः सर्वेऽपि व्यवहारा मे स्मृतिपथमवतरन्ति, परं केवलमेकं त्वत्परिणायनमेव न स्मरामि । तस्मात्त्वं मयि वृथा मा कुप्य, मया सत्यमेव मणितम् नत्वलीकम् कृतेऽपि सूक्ष्मे विचारे नाहं स्वचरिते ईदृशं चरितविधानं स्मरामि । मम साधारणप्रजास्वपि वञ्चकत्वं न संभाव्यते; कथं पुनर्मयि तत् समभवेदित्यर्थः ।
शकुन्तला—राजोक्तं श्रुत्वा शकुन्तला शोचति—सुष्ठु = उचितम् तावत् अत्र अस्मिन्
है कि इसने टेढ़ा करके कामदेव का धनुष तोड़ दिया है। सुन्दरी नवयुवतियों की टेढ़ी भौहें कामदेव का धनुष है। जब कोई कामिनी स्वभावतः अपनी टेढ़ी भौंहो को वक्र कर देती है तो प्रतीत होता है कि कामदेव का धनुष ही टूट गया। शकुन्तला के क्रोध की तेजी और स्वाभाविकता ने दुष्यन्त की बुद्धि को डाँवाडोल = सन्दिग्ध कर दिया। जिससे उनको शकुन्तला का स्वाभाविक क्रोध सच्चा-सा प्रतीत होने लगता है। शकुन्तला की भौंहे काम की धनुष कही गयी हैं उनका फैलकर अलग होना ही धनुष का टूटना है।
राजा—( प्रगट में ) सुभगे ! दुष्यन्त का विशुद्ध चरित्र तो जगत् प्रसिद्ध है। मेरी तो बात ही क्या है, मेरी साधारण प्रजा में भी ऐसा, छल, कपट और अन्याय देखने को नहीं मिलेगा।
**शकुन्तला—**क्या आपने मुझे अपने मन से चलने वाली स्वेच्छाचारिणी समझ लिया है जो ऐसी बातें कर रहे हैं। हाय, मैं पुरुवंश के धोखे में ऊपर से मीठे, पर हृदय में हलाहल विष से भरे हुए इस वञ्चक के हाथ में पड़ गई हूँ। ( कपड़े से मुख को ढक कर रोती है )।
पाठा०—१. नापीदं दृश्यते ।
२६६ अभिज्ञानशाकुन्तलम्
शाङ्गंरवः—^१इत्थमात्मकृतं प्रतिहतं चापलं दहति ।
अतः ^२परीक्ष्य कर्त्तव्यं विशेषात् संगतं रहः । अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ २४ ॥
विषये स्थाने वा स्वच्छन्दं = स्वतन्त्रं चरति = भ्रमति तच्छीला स्वच्छन्दचारिणी = आत्मच्छन्दविहारिणी व्यभिचारिणी, पुंश्चली वा कृताऽस्मि अनेन विहितास्मि, घोषिताऽस्मि । या अहम् पुरुवंशप्रत्ययेन पुरुवंशे = पुरुकुले प्रत्ययेन विश्वासेन पुरुवंशोत्पन्नः अभिजातोऽयमिति विश्वस्य मुखे = आनने मधु = मधुरं वचनम् यस्यासौ तस्य मुखमधोः = मधुरभाषिणः, हृदये = अभ्यन्तरे स्थितं = भरितं विषं = गरल यस्यासौ तस्य हृदयस्थितविषस्य = हृदयनिक्षिप्तकालकूटस्य अस्य दुष्यन्तस्य हस्ताभ्यासं = करसमीपम् उपगता = प्राप्ता, वशंवदा अभूवम् ।
( इति = एवमुक्त्वा पटस्य = वस्त्रस्य अन्तेन = प्रान्तेन अञ्चलेन मुखं वदनम् आवृत्य = आच्छाद्य रोदिति )
शाङ्गंरवः—रुदतीं शकुन्तलां समीक्ष्य सञ्जातविषदः शार्ङ्गरवः ‘सहसा विदधीत न क्रियाम्’ इति न्यायमनुसंदधानो ब्रवीति—इत्थमिति । आत्मकृतं = आत्मना = स्वयमेव कृतं = विहितमित्यात्मकृतम् = गुरुजनं बन्धुजनं च अनवेक्ष्य स्वयमेवानुष्ठितम्, प्रतिहतं = निषिद्धं चापलं = अविमृश्य कारितवरूपं चाञ्चल्यम् इत्थं = एवमेव आत्मानं बन्धुजनं च दहति = तापयति, ज्वलयति परिणामे संतापयतीति शकुन्तलां प्रत्युपालम्भः ।
तत्र किं कर्तव्यमित्याह—अत इति ।
अन्वयः—अतः रहः संगतं विशेषात् परीक्ष्य कर्तव्यम् । अज्ञातहृदयेषु सौहृदम् एवं वैरी भवति ।
शकुन्तलयाऽनया बन्धुवर्गमनापृच्छद्य राज्ञाऽनेन साकं कृतस्य गान्धर्वविवाहस्य निराकरणरूपं फलं विलोक्य कुपितः शाङ्गंरवः नीतिं कथयति—अत इति । अतः = अस्मात कारणात् यस्माच्चापलं दहति तस्मादित्यर्थः, रहः = संगतम् = दृढमैत्री एकान्ते समागमः, गन्धर्वविवाहात्मकं सख्यम्, विशेषात् परीक्ष्य-येन संगतं कुर्यात् तस्य मनो
विशेष—यहां शकुन्तला के कहने का तात्पर्य है कि आप ही एक प्रामाणिक और सच्चे हैं तथा आपही तो धर्म मर्यादा के जानकार हैं । लज्जा से परवश, स्वभाव से ही दयालु हमारी जैसी प्रकृति वाली बेचारी स्त्रियाँ धर्म की स्थिति और उचित-अनुचित को थोड़े ही जानती हैं । मैं लज्जा-परायणा महिला तो झूठी हो गई, और वञ्चक शिरोमणि आप सच्चे बन गये । अपने मन में बड़ा कौन बनता ? अपने मन में सभी बड़े हैं तात्पर्य यह है कि आप नितान्त झूठे हो और अन्याय करने पर उतारू हो रहे हो जो इस प्रकार मुझ लज्जावती स्त्री की प्रतिष्ठा भंग कर रहे हो ।
शाङ्गंरव—अधिक बढ़ी हुई चपलता और स्वतन्त्रता इसी प्रकार अन्त में कष्ट देती हैं ।
इसलिए गुप्त = विवाह आदि सम्बन्ध तो बहुत सोच समझकर करना चाहिए, क्योंकि अपरिचित हृदय वाले व्यक्ति के साथ किया हुआ सम्बन्ध अन्त में वैर के रूप से ही परिणत हो जाता है ॥ २४ ॥
विशेष—शार्ङ्गरव के कहने का तात्पर्य है कि शकुन्तला ने चञ्चलतावश अपने मन से इस
पाठ०—१. इत्थमप्रतिहतं । २. समीक्ष्य ।
पञ्चमोऽङ्कः २६७
राजा—अयि भोः ! किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ ? शाङ्गंरवः—( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् ।
विशेषरूपेण परीक्ष्य कर्तव्यम् = अनुष्ठेयम्, अज्ञातं = व्यवहारादिना अविदितं हृदयं चित्तं येषां ते तेषु अज्ञातहृदयेषु = पूर्वव्यवहारादिना अज्ञातचित्तवृत्तिषु अपरिज्ञातशीलेषु कृतं सौहृदं = मैत्री एव वैरी भवति = परिणामे वैरायते पीडाकरं जायते । यद्वा अतः = अस्मात् कारणात् कर्तव्यं करणीयं कार्यं परीक्ष्य इष्टैः सह सम्यग् आलोच्य कर्तव्यम्, एकान्तसख्यं तु विशेषतः परीक्ष्य कर्तव्यम् ।
**अयं भावः—**शकुन्तले ! अवलोकय कीदृग्भूतं चापलस्य फलम् अतः विवाहात्मकमेकान्तसम्मेलनम् अपरिचितेन पुंसा न कदापि विधेयम् यस्य पुंसः व्यवहारादिना हृदयं सम्यक् परीक्षितं स्यात् तेन सह तथाविधः सम्बन्धो विधेयः । अज्ञाते कृता मैत्री पर्यवसाने सन्तापकारी दुःखदायिनी च भवति । अत्राप्रस्तुतप्रशंसाऽर्थान्तरन्यासकाव्यलिङ्गालङ्कारा अनुष्टुप् छन्दश्च ॥ २४ ॥
**राजा—**शाङ्ग्ररवस्य वचनमाकर्ण्य तस्य विषयेऽविश्वासं संभावयन् राजा ब्रूते अत्रभवतीप्रत्ययादेव = अत्रभवत्यां = मुनिकन्यायां यः प्रत्ययः = विश्वासः तस्मादेव शकुन्तला वचनमात्रै विश्वासात् तन्मात्रमवलम्ब्य अस्मान् = पुरुवंशोत्पन्नान् स्वधर्मनिष्ठान् संयुक्तदोषाक्षरैः = संयुक्तः सम्पृक्तः दोषः प्रमादः येषु ते तैः अक्षरैः वर्णैः दोषाधायकैः क्रूराक्षरैः वचोभिः क्षिणुथ यूयं हिस्थ अधिक्षिपेत्यर्थः ।
**शाङ्ग्ररवः—**राजोक्तमसहमानः शाङ्ग्ररवः सासूयं स्वसहचरान् प्रति ब्रूते—भवद्भिः = युष्माभिः श्रुतं = ज्ञातम्, अधरोत्तरं = अधर अधरं = हीनं च तदुत्तरं = प्रत्युत्तरं चेति अधरोत्तरम् = स्वदोषाज्ञानात् दूषितं प्रत्युत्तरं क्षुद्रमुत्तरं = उत्तरप्रत्युत्तरम् वेति भावः । 'अधरो दन्तवसनेऽमूर्ध्वं हीनेऽधरोज्न्यवत् इति विश्वः । अथवा अधरोत्तरं = विपर्ययः । तदुक्त महाभारते—
दुष्यन्त के साथ गुप्त रूप से जो गान्धर्व विवाह कर लिया है, उसका ही फल यह कष्ट रूप में इसको मिल रहा है । इसलिए खूब सोच समझकर विवाह आदि सम्बन्ध करना चाहिए ।
यहां ऐसा प्रतीत हो रहा है कि कविवर कालिदास ने शाङ्ग्ररव के कथन के ब्याज से कामुकों को शिक्षा दे रहे हैं कि भावुकता मात्र से प्रेम विवाह करने में धोखा हो जाता है । इसलिए चरित्र आदि की भलीभांति परीक्षा कर सम्बन्ध करना चाहिए । माता-पिता के द्वारा अच्छी तरह जांच पड़ताल कर लेने के अनन्तर विवाह करने पर कोई विशेष कष्ट नहीं होता । इसीलिए नीतिशास्त्र में कहा गया है—'अज्ञातकुलशीलस्य वासो देयो न कहिंचित' इस प्रकार बिना सोचे समझे किया हुआ कार्य लड़कपन है, जो हमेशा दग्ध करता रहता है । शकुन्तला ने बिना सोचे समझे राजा दुष्यन्त का विश्वास कर उनके साथ गान्धर्व विवाह करने का लड़कपन किया था, जिसका फल प्रस्तुत दुःख है ।
**राजा—**हे तपस्वियों, क्या इस शकुन्तला के कहने मात्र पर विश्वास करके ही आप लोग असम्भावित दोषों से यों लाञ्छित कर रहे हैं ।
**विशेष—**अत्रभवती=शकुन्तला पर व्यङ्ग्य कसते हुए राजा ने शाङ्ग्ररव आदि से कहा—क्या आप लोग इस भ्रष्टचरित्रा स्त्री के कहने से ही मुझे दोषी ठहरा रहे हैं ? यह उचित नहीं है ।
शाङ्ग्ररव—( असूया पूर्वक = राजा को हेय दृष्टि से देखता हुआ ) आप लोगों ने इस राजा की धूर्तता भरी चलती-फिरती बातें सुनीं, देखिए ।
**विशेष—**अधर का अर्थ है नीच = गलत और उत्तर का अर्थ है प्रत्युत्तर ।
२६८ अभिज्ञानशाकुन्तलम्
आजन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ २५ ॥
राजा— भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । कि पुनरिमोमभि- संधाय लभ्यते ।
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठाऽतिवृत्तास्मि दुहित्रा वृषपर्वणः ॥
अन्वयः— यः आजन्मनः शाठ्यमशिक्षितः तस्य जनस्य वचनम् अप्रमाणम् यैः परातिसंधानं विद्येति अधीयते ते आप्तवाचः सन्तु किल ।
अथ दुष्यन्तोक्तं निशम्य तस्यासत्यवादित्वं निश्चिन्वन् शाङ्गरव राज्ञे किमप्यनुक्त्वा शारद्वतादीन् प्रति कथयति—आजन्मन इति । यः = मुनिजनः शकुन्तला वा आजन्मनः = जन्मनः जनुषः आरभ्य जन्मप्रभृति शाठ्यं = खलतां परवञ्चना चातुर्यं परातिसंधान-रूपम् धैर्यम् अशिक्षितः = स्वेन अन्येन शिक्षां न ग्राहितः अबोधितः अनध्यापितः तस्य जनस्य मुनिकन्यारूपस्य वचनं = कथनम् वाणी अप्रमाणं विश्वासानानर्हम्, यैः = राजनीति-कोविदैः सर्वथा मृषा व्यवहारतत्परैः त्वादृशैः राजादिभिः परातिसंधानं = परवञ्चनं तत्प्रतिपादकं कौटिल्याद्यर्थशास्त्रमेव विद्येति ज्ञानमिति अधीयते = इयं नः कुलविद्येति मत्वा विद्यारूपेण अधीयते पठ्यते न शिक्ष्यते ते तथा तादृशाः राजलोकाः आप्ता श्रामणिका वाक् वचनं येषां ते आप्तवाचः = प्रमाणभूताः सन्तु = भवन्तु किल = संभावनायाम् खलु 'किल शब्दस्तु वार्तायां सम्भाव्यानुनयार्थयोः' इति विश्वः । अत्र अदृष्टकैतव शकुन्तला वचोऽप्रमाणं दुष्यन्तोक्तं तु प्रमाणमिति अहो प्रमाणप्रमेयभावव्यवस्थेति राज्ञः असूया प्रकटिता । या हि शकुन्तला जन्मत एव धूर्त्यं न जानाति तस्याः कथनमविश्वसनीयम्, यस्तु त्वं स्वकुलोवधामिव परवञ्चनमेव नियमपूर्वकंमधीषे तस्य ते मृषाव्यवहारिणो वचनं प्रामाणिकं विश्वसनीयं च तस्मात् परवञ्चका राजानो न प्रामाण्यवचना भवितुमर्हन्तीति भावः । अज्ञातप्रस्तुतप्रशंसा-वक्रोक्ति-रूपानुप्रासा अलङ्कारा छन्दश्चोपजातिः ॥ २५ ॥
राजा—शाङ्गरवेणाधिक्षिप्तो राजा सरोषमाह—भो सत्यवादिन् ! तथ्यभाषिन् ! अभ्यु-
जो लोग जन्म से ही छल-कपट से बिलकुल अपरिचित हैं, उनकी बात तो अप्रामाणिक झूठी है । और जो दूसरों को ठगने को एक कला समझ कर रात दिन उसका ही अभ्यास किया करते हैं वे ही लोग आप्त वाक्य = सच्चे प्रामाणिक बन रहे हैं । वाह ! क्या अच्छा न्याय है ॥ २५ ॥
विशेष— पद्य का पूर्वार्द्ध शकुन्तला के लिये और उत्तरार्द्ध दुष्यन्त के लिए आया है । तपोवनों के आश्रमों में जन्म से लेकर अन्त तक शठता की शिक्षा नहीं दी जाती जब कि राजनीति में दूसरे को धोखा देने की शिक्षा भरी पड़ी है । जब शठता की शिक्षा से रहित व्यक्ति को झूठा कहा जाय तथा पर-वञ्चकता की कला में प्रवीण को सत्यवादी माना जाय तब तो कहना ही क्या है । इसलिए कपट-वञ्चना से रहित मुनिकुमारी शकुन्तला का ही वचन प्रामाणिक और दूसरों को ठगना एवं झूठा बोलने वाले राजनीति आपका कहना अप्रामाणिक है ।
राजा—हे सत्य बोलने वाले महात्माओं ! हम यह मान लेते हैं कि हम ऐसे ही झूठ, ठग,
पाठा०—१. मभिसंधाय ।
पञ्चमोऽङ्कः २६९
शार्ङ्गरवः— विनिपातः। राजा— विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम्। शारद्वतः— शार्ङ्गरव! किमुत्तरेण? अनुष्ठितो गुरोः सन्देशः। प्रतिनिवर्त्तामहे वयम्। (राजानं प्रति)—
तदेषा¹भवतः कान्ता त्यज वैनां गृहाण वा।
²उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६ ॥
पगतं = स्वीकृतं तावत् = प्रथमम् अस्माभिः मया एवम् = इत्थं मयोक्तं प्रतारणम्। 'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते' इति न्यायेन अतिसन्धाय = वञ्चयित्वा, प्रतार्यं किंपुनर्लभ्यते, किं प्राप्यते, न किमपीत्यर्थः।
शार्ङ्गरवः— कुपितः शार्ङ्गरव आह—विनिपातः = अधमः, नरके पतनं वा त्वया लभ्यते इति भावः।
राजा— पौरवैः = पुरुवंशोत्पन्नैः राजभिः (न केवलं मया) विनिपातः = नरके पतनं प्रार्थ्यते। इति इदम् न श्रद्धेयं श्रद्धास्पदं विश्वासानर्हम्, 'असत्यमप्यश्रद्धेयं न वदेदिति नीतिः।
शारद्वतः— नृपसहचरयोः वाक्कलहं निरोद्धुकामः शारद्वतः कथयति—शार्ङ्गरव! किमुत्तरेण = प्रतिवचनेन किम्! अनेन घमंध्वजिना नृपेण सह वादप्रतिवादेनालं कोऽपि लाभो नास्ति तद्विरम। गुरोः महर्षेः कण्वस्य सन्देशः = वाचिकम् अनुष्ठितः = संपादितः गुर्वाज्ञानुसारं शकुन्तला राजसकाशं प्रापिता, राज्ञा सह वादाय नादिष्टा वयम् प्रतिनिवर्त्तामहे = आश्रमं प्रतिगच्छामः (राजानं = नृपं दुष्यन्तं प्रति उद्देश्य) प्रसङ्गमपसंहरन् शारद्वतो ब्रूते = तदेषेति।
अन्वयः— तत् एषा भवतः कान्ता, एनां त्यज वा गृहाण वा हि दारेषु सर्वतोमुखी प्रभुता उपपन्ना।
वञ्चक ही है, किन्तु यह तो बताइये कि इस बेचारी भोली-भाली सीधी-साधी महिला को ठगने से हमें लाभ ही क्या होगा?
विशेष— यहाँ राजा का ऋषियों के लिए कहा गया सत्यवादिन् सम्बोधन उपहास गर्भित है।
शार्ङ्गरव— लाभ! तुम्हारा अधः पतन ही लाभ है।
विशेष— यहाँ शार्ङ्गरव के कहने का अभिप्राय है कि एक भोली-भाली मुनिकुमारी को धोखा देने का पाप आपको भोगना पड़ेगा। यदि महर्षि कण्व अपनी कन्या शकुन्तला के दुःख से दुःखी होकर अत्यन्त क्षुब्ध हो जायेंगे तो उनके शापाग्नि से तुम्हारा कुल भस्मसात हो जायेगा। इससे बढ़कर अधःपात क्या हो सकता है।
राजा— हम पुरुवंशी राजा अपना अधःपात अपने आप चाहेंगे—यह बात तो किसी के भी विश्वास में नहीं आ सकती है।
शारद्वत— शार्ङ्गरव! अब ज्यादा कहने सुनने से क्या लाभ है। हम लोगों ने गुरु जी की आज्ञा का पालन कर दिया, अब हम लोग आश्रम को चलें (राजा के प्रति)—
आपकी पत्नी को आपके पास पहुँचा दिया गया। आप इसे छोड़ दें या स्वीकार करें, क्योंकि विवाह करने वाले का अपनी पत्नी पर पूरा पूरा अधिकार होता है ॥ २६ ॥
पाठा०—भवतः पत्नी।
२. उपयन्तृर्हि।
| २७० | अभिज्ञानशाकुन्तलम् |
|---|
गौतमी ! गच्छाग्रतः । ( इति प्रस्थिताः )
शकुन्तला — कहं इमिणा किदवेण विप्पलद्ध म्हि । तुम्हे वि मं परिच्चअह । [ कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ । ] ( इत्यनुप्रतिष्ठते )
शारद्वतो हि राज्ञा साकं विवादोऽनुचित इति मत्वा ततो विवादात् शार्ङ्गरवं विरमय्य निजकर्त्तव्यमुपदिशन्नाह — तदेषेति तत् = यस्माद् वयमनुष्ठितगुरुसन्देशाः आश्रमगमनोत्सुकाः स्मः तस्मात् एषा = इयं पुरोवर्तिनी भवतः तव दुष्यन्तकान्ता = धर्मपत्नी, अस्यां परिग्रहशङ्का न कार्या किञ्चैषा त्वत्करे समर्पिता । अत एनां त्यज = निष्कासय गृहाण वा धर्मपत्नीत्वेन स्वीकुरुष्व वा । हि = यतः स्त्रीषु कलत्रविषये सर्वतोमुखीं सर्वासु दिक्षु मुखं प्रवृत्तिर्यस्याः सा तादृशी सर्वतोमुखी = सर्वप्रकारा = त्यागे ताडने स्वीकारे दानादौ च प्रभुता = स्वतन्त्रता उपपन्ना युक्ता । भर्तृतन्त्रं पत्न्याः ग्रहणमग्रहणं च तेन यथेच्छमस्यां वर्तस्वेति भावः । अर्थात् हे राजन् ! वादविवादेन किमपि प्रयोजनं न सेत्स्यति निःसंशयमियं भवतो दारा अस्माकं गुरुणा भगवता कण्वेन तव समीपे प्रहिता यद्येनां त्यक्तुमिच्छसि तर्हि त्यज्यताम् धर्मपत्नीत्वेन ग्रहणमनुमन्यसे चेत् गृहाण धर्मपत्नीषु सर्वथा भर्तुरेव स्वातन्त्र्यमस्तीति प्रसिद्धमेव । तस्मात् यथेच्छम् कार्यम् । अत्रार्थान्तरन्यासोऽलङ्काररोऽनुष्टुप् छन्दश्च ॥ २६ ॥
गोतमि ! अग्रतः = अग्रे गच्छ = चल ( इति = एवमुक्त्वा प्रस्थिताः = प्रचलिताः सर्वे ) ।
शकुन्तला — सर्वान् प्रस्थितानवलोक्य शकुन्तला कथयति — कथं = केन प्रकारेण अशोभनेन अनेन = पुरतः स्थितेन कितवेन = धूर्तेन छलिना दुष्यन्तेन विप्रलब्धा = वञ्चिता प्रतारिता अस्मि ! यूयमपि = भवन्तोऽपि मां = शकुन्तलां परित्यजथ = विसर्ज-यथ, इति = एवमुक्त्वा अनुप्रतिष्ठते = अनुगन्तुमारभते । शार्ङ्गरवादिकम् नु यातुं प्रवृता ।
विशेष — गान्धर्व विवाह विधि से स्वीकृत होने से जो प्रिय रही है वह कान्ता है । इस प्रकार कान्ता का अर्थ है = प्रेम की गई प्रेयसी क्योंकि गान्धर्व विवाह प्रेम में अन्धा होकर किया जाता है । उस अवस्था की प्रेमिका को कान्ता ही कहा जाता है अग्निदेव को साक्षी बनाकर देव आर्ष ब्राह्म प्राजापत्य विधि से परिणीता स्त्री को पत्नी कहते हैं । शारद्वत को मालूम था कि दुष्यन्त ने शकुन्तला से प्रेम विवाह = गान्धर्व विवाह किया है । अतः वर कान्तापद से सिद्ध करना चाहता है कि यह तुम्हारी प्रेमिका पत्नी है तुम इसे अवश्य स्वीकार करोगे ।
हे गौतमी ! आगे आगे चल ( सब जाते हैं ) ।
शकुन्तला — अब क्या करूँ ? इस धूर्त के द्वारा ठगी गई हूँ । आपलोग भी अब मुझे छोड़ रहे हैं ( ऐसा कहकर उनलोगों के पीछे-पीछे चल देती है ) ।
विशेष — जब शकुन्तला को दुष्यन्त के समक्ष ही छोड़कर शार्ङ्गरव आदि आश्रम की ओर चलने लगे, उसके सामने कोई रास्ता न था वह व्याकुल होकर उनलोगों के पीछे-पीछे चल पड़ी वहाँ शकुन्तला का भोलापन दिखाया गया है । उस आकस्मिक विपत्ति से वह इतना घबड़ा गई राजा से घृणा कर अपने बन्धुजनों का आश्रय चाहती थी ।
पञ्चमोऽङ्कः
२७१
गौतमी— ( स्थित्वा ) वच्छ संगरव ! अणुगच्छदि इमं खु णो करुणपरिदेविणी सउंदला पच्चादेसपरुसे भत्तुणि किं वा मे पुत्तिआ करेदु । [ वत्स शाङ्गंरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्त्तरि किं वा मे पुत्रिका करोतु । ]
शाङ्गंरवः—( सरोषं निवृत्य ) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे । ( शकुन्तला भीता वेपते )
शाङ्गंरवः—शकुन्तले !
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः ¹पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥
**गौतमी—**अनुप्रतिष्ठमानां शकुन्तलां वीक्ष्य स्थित्वा गौतमी ब्रूते—वत्स ! शाङ्गंरवो करुणं = आर्तं परिदेवयते = विलपति या सा करुणपरिदेविनो करुणं विलपन्ती विलापः परिदेवनम्, इत्यमरसिंहः, इयम् = एषा शकुन्तला नः = अस्मान् अनुगच्छति खलु निश्चयेन प्रत्यादेशपरुषे = प्रत्यादेशेन = प्रत्याख्यानेन निराकृत्य परुषैः = कठोरैः स्वभार्यात्वेन तामस्वीक्रियमाणे सति भर्तरि = पत्यौ मे मम पुत्रिकावात्सल्यभाजन पुत्री किंवा करोतु अनुगमनादन्यत् किं विदधातु ममानुकम्पनीया या अस्याः कन्यकाया अनन्यशरणत्वेनानुगमनादन्यः कश्चनोपायो नास्तीति भावः ।
**शाङ्गंरवः—**गौतमीवचनं श्रुत्वा शाङ्गंरवः सरोषं निवृत्य शकुन्तलामाह पुरोभागे- पुरः = अग्रे भजते = हठात् सेवते या सा पुरोभागा तत्सम्बुद्धौ हे पुरोभागे = दोषदर्शिनि ! दुष्टे किं = किमर्थं स्वातन्त्र्यं = स्वच्छन्दतां अवलम्बसे = आश्रयसि अस्मदाज्ञां विने वास्माननुगच्छसि, मास्माननुगच्छेतिभावः । शास्त्रेषु स्त्रीणां स्वातन्त्र्यं निषिद्धमस्ति । तथाहि—पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति । ( शकुन्तला भीता वेपते कम्पते ) ।
**शाङ्गंरवः—**शकुन्तले ! शाङ्गंरवः शकुन्तलाया पतिगृहवासमेव समर्थयति—यदीति ।
**अन्वयः—**क्षितिपः यथा वदति यदि त्वं तथा असि, उत्कुलया त्वया पितुः किमु ? अथ तु आत्मनो व्रतं शुचि वेत्सि पतिकुले दास्यमपि तव क्षमम् ॥ २७ ॥
गौतमी—( रुककर ) बेटा, शार्ङ्गरव ! हृदय पिघलाने वाला विलाप करती हुई यह शकुन्तला हम लोगों के पीछे-पीछे आ रही है । पति के निष्ठुरतापूर्वक परित्याग कर देने पर बेचारी मेरी प्यारी बिटिया अब क्या करें ?
शार्ङ्गरव—( मुड़कर क्रोध के साथ ) अरी ढीठ, क्या स्वातन्त्र्य का अवलम्बन कर रही हो, ( शकुन्तला भय के मारे काँपती हैं ) ।
**विशेष—**प्राचीन भारतीय सिद्धान्त के अनुसार स्त्रियों को स्वतन्त्रता नहीं हैं। वे अविवाहिता की स्थिति में पिता के, जवानी की स्थिति में अपने पति के तथा वृद्धावस्था में पुत्र के संरक्षण में रहती है—
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
शार्ङ्गरव—शकुन्तले ! राजा जैसा कह रहे हैं, यदि तुम वैसी ही हो तब तुझ कुलटा से पिता
पाठा०—१. पतिगृहे ।
२७२ अभिज्ञानशाकुन्तलम्
तिष्ठ साधयामो वयम् ।
राजा—भोस्तपस्विन् किमत्रभवतीं विप्रलभसे ।
पश्चात्प्रस्थितां तां शकुन्तलामवलोक्य शार्ङ्गरवः सकोपमाह—यदीति । क्षितिपः भू-पालो राजा दुष्यन्तो यथा वदति = यादृशं भाषते न ममेयं परिणीतेति कथयति चेत् = यदि त्वं भवती तादृशी असि यदि त्वं तत्त्वत एवानूढा सगर्भा चासि तदा उत् = उत्क्रान्ता कुलात् = कुलमर्यादाया इत्युत्कुला तया उत्कुलया कुलमुत्क्रान्तया, अतिक्रान्तकुलमर्यादया तथाभूतया त्वया पितुः = कण्वस्य किम् ? न किमपि प्रयोजनमित्यर्थः । अथ तु=पक्षान्तरे एतद्विपरीतं = स्वस्य आत्मनः व्रतपातिव्रत्यरूपशुचिपवित्रं वेत्सि = अयमेव दुष्यन्तो मे भर्तेति मनसा जानासि तदा पतिकुले = भर्तृगेहे दास्यमपि पत्युः सविधे नावस्थानं दासीभावोऽपि तव क्षमं योग्यम्, समीचीनमुचितम् । अतः आश्रमे तव पुनर्गमनं सर्वथा प्रतिकूलम् इहैव ते वास उचितः । अर्थात् शकुन्तले ! यदि त्वं वस्तुतः दुष्यन्तेनानूढैव सगर्भा जाता तर्हि अतिक्रान्तकुलमर्यादायाः तव कुलगुरुः त्वन्मुखं द्रक्ष्यसि यदि त्वं स्वपातिव्रत्यं युक्तं मन्यसे तर्हि ते पतिगृहे सेवाकर्म समुचितम् । अतोऽस्माकमनुगमनं न कार्यम् । अत्र हेतुकाव्यलिङ्गालङ्कारौ द्रुतविलम्बितं छन्दश्च ॥ २७ ॥
एवं पक्षद्वयेऽपि प्रतिप्रमाणेऽभ्युक्ते सति अत्रैव तिष्ठ = विरम, साधयामः = त्वां विहाय वयं गच्छामः ।
राजा—भो तपस्विन् = हे तापस ! अत्र भवतीं = मान्यां शकुन्तलां किं विप्रलभसे = वाक्चातुर्येण कथं वञ्चयसि । एनां प्रतार्य इहैव कुतः परित्यजसि । इत्थं भवदुपाय-प्रयोगेण अत्रासीनापि एनां न स्वीकरिष्यामीति सदृष्टान्तमाह—कुमुदान्येवेति ।
कण्व का क्या प्रयोजन ? और यदि आचरण को तुम पवित्र समझती हो तो पतिगृह में ही तुम्हारी दासता भी उचित है । अतः यहीं रुको ॥ २७ ॥
**विशेष—**दोनों स्थितियों में शकुन्तला के लिए पिता का संरक्षण सम्भव नहीं था यदि विवाहिता लड़की ससुराल में अपने को नहीं निभा सकती है तो पतिगृह में उसका स्थान नहीं । यदि वह अपने को चरित्रवती समझती है तो अत्याचार होने पर भी पति के साथ रहकर उसकी सेविका को रहना उचित है । यदि व्यभिचारिणी है तो उसे पिता के घर में जाना कथमपि उचित नहीं, क्योंकि कोई भी पिता व्यभिचारिणी पुत्री को अपने घर में बनाये रखना नहीं चाहता ।
राजा का कहना कि मैंने इससे विवाह ही नहीं किया है, न यह मेरी स्त्री ही है, न यह गर्भ ही मेरा है, यदि वैसी ही कुलकलङ्किनी भ्रष्टा है तो कुलमर्यादा को भंग करने वाली तुम स्वैरिणी से अब हमारा सम्बन्ध ही क्या है ? यदि अपने पातिव्रत्य धर्म को परिशुद्ध समझती हैं और तेरा यही पति है तो फिर जाती कहाँ हो, पति के घर में दासी बनकर रहना भी तेरे लिए उचित है । अर्थात् यदि तू इस राजा की स्त्री नहीं है, तैने और ही किसी दूसरे पुरुष से सम्बन्ध कर यह गर्भ धारण किया है, तो तेरी ऐसी कुलटा को हम साथ ले जाकर अब कर भी क्या सकते हैं ? यदि तू सच्ची सती साध्वी है तेरा पति यही है तो फिर उनके यहाँ रहकर किसी प्रकार तुम्हें अपना समय बिताना चाहिए ।
अतः तू यहीं रह हमलोग जाते हैं ।
**राजा—**हे तपस्विन् ! इस बेचारी को आप क्यों धोखा दे रहे हैं और यहाँ इसे छोड़कर जा रहे हैं क्योंकि—
पञ्चमोऽङ्कः । २७३
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ २८ ॥
अन्वयः—शशाङ्कः कुमुदानि एव, सविता पङ्कजानि एव बोधयति । हि वशिनां वृत्तिः परपरिग्रहसंश्लेषपराङ्मुखी (भवति) ।
शकुन्तलामुपदिश्य तां पतिगृहे एव बलान्निवासयितुमुद्यतं शार्ङ्गरवं ब्रूते नृपतिर्दुष्यन्तः कुमुदानीति । शशाङ्कः चन्द्रः कुमुदान्येव=कैरवकुलान्येव बोधयति = विकासयति न पुनः पंकजानि सविता = सूर्यस्तु पङ्कजान्येव बोधयति, न कुमुदानि । हि=यतः, निश्चितं वशिनां = इन्द्रियसंयमिनाम् वृत्तिः = चित्तवृत्तिः व्यापारो वा परेषां परिग्रहाणां संश्लेषे पराङ्मुखीति परपरिग्रहसंश्लेषपराङ्मुखी = अन्यकलत्रसम्पर्ककलङ्कविमुखी परकलत्र-स्वीकृतिर्निवर्तनशीला भवति, जितेन्द्रिया हि परकलत्रं मनसापि न स्वीकुर्वन्ति । ‘परिग्रहः परिजने पत्न्यामिति विश्वः ।
अर्थ भावः—अयि तापस ! कथमेनां कण्वकन्यां प्रतारयसि मम गेहे निवासेऽपि नाहमेनामङ्गीकरिष्यामि । पश्य, यथा चन्द्रमाः कुवल्यान्येव विकासयति, न कमलानि, सूर्यश्च पङ्कजान्येव विकासयति, न कुमुदानि । तथैव जितेन्द्रियाः पुरुषपुङ्गवाः परकल-त्राणि मनसाऽपि न कामयन्ते । तस्मादेनामत्र निवासयितुं भवतामुद्यमो व्यर्थ एव भविष्यति । अतो नैनां परस्त्रियमहं स्वान्तःपुरे स्थापयिष्यामीति भावः । अत्राप्रस्तुत-प्रशंसादृष्टान्तान्तरन्यासा अलङ्कारा आर्या छन्दश्च ॥ २८ ॥
चन्द्रमा कुमुद को ही विकसित करता है, कमलों को नहीं और सूर्य कमलों को ही खिलाता है कुमुदों को नहीं । हमारे जैसे इन्द्रियनिग्रही धर्मभीरु लोगों की वृत्तियाँ हमेशा ही परिग्रह से पराङ्मुखी हो रहती है ॥ २८ ॥
इस प्रकार कुमुद चन्द्रमा का ही परिग्रह है तथा कमल सूर्य का परिग्रह है । इसलिए चन्द्रमा कमल से और सूर्य कुमुद से प्रेम नहीं करता । इसी प्रकार मैं भी पराई स्त्री से पराङ्मुख ही हूँ । राजा जोर देकर कह रहे हैं कि ऋषियों ! यह न समझना कि इसे यहाँ छोड़ जाओगे तो मैं दया या कामुकता के कारण इसे स्वीकार कर लूँगा । परस्त्री मेरे लिए उसी प्रकार हेय है जिस प्रकार चन्द्रमा के लिए कमल तथा सूर्य के लिए कुमुद । राजा के कहने का अभिप्राय यही है कि आप समझते हो कि आप लोगों के यहाँ छोड़कर चले जाने के बाद मैं इस परम सुन्दरी ललना पर मुग्ध होकर आसक्त हो जाऊँगा और इसे अपने पास रख लूँगा । यह तो आप लोगों का भ्रममात्र ही है । मैं हमेशा दूसरे की स्त्री से दूर रहने वाला व्यक्ति हूँ । इसलिए इस बेचारी को यहाँ छोड़कर आप लोग इसे धोखा न दें ।
विशेष—इस पद्य में शकुन्तला एवं दुष्यन्त के स्थान पर कुमुद एवं शशाङ्क तथा सूर्य एवं कमल का उल्लेख होने का तात्पर्य है जिससे जिसका सम्बन्ध होता है वही उसको प्रसन्न करता है दूसरों को नहीं । चन्द्रमा की चाँदनी छिटकने पर ही कुमुदिनी विकसित होती है तथा सूर्य की प्रभा फैलने पर केवल कमलिनी विकसित होती है, कुमुदिनी नहीं । यहाँ तो राजा दुष्यन्त सुलभ कोप महर्षि दुर्वासा जी के शाप से शकुन्तला से अपना सम्बन्ध ही नहीं समझ रहें हैं तो उससे प्रसन्न होने की बात ही क्या है ?
१८ शाकु०