अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पञ्चमोऽङ्कः २६७
राजा—अयि भोः ! किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ ? शाङ्गंरवः—( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् ।
विशेषरूपेण परीक्ष्य कर्तव्यम् = अनुष्ठेयम्, अज्ञातं = व्यवहारादिना अविदितं हृदयं चित्तं येषां ते तेषु अज्ञातहृदयेषु = पूर्वव्यवहारादिना अज्ञातचित्तवृत्तिषु अपरिज्ञातशीलेषु कृतं सौहृदं = मैत्री एव वैरी भवति = परिणामे वैरायते पीडाकरं जायते । यद्वा अतः = अस्मात् कारणात् कर्तव्यं करणीयं कार्यं परीक्ष्य इष्टैः सह सम्यग् आलोच्य कर्तव्यम्, एकान्तसख्यं तु विशेषतः परीक्ष्य कर्तव्यम् ।
**अयं भावः—**शकुन्तले ! अवलोकय कीदृग्भूतं चापलस्य फलम् अतः विवाहात्मकमेकान्तसम्मेलनम् अपरिचितेन पुंसा न कदापि विधेयम् यस्य पुंसः व्यवहारादिना हृदयं सम्यक् परीक्षितं स्यात् तेन सह तथाविधः सम्बन्धो विधेयः । अज्ञाते कृता मैत्री पर्यवसाने सन्तापकारी दुःखदायिनी च भवति । अत्राप्रस्तुतप्रशंसाऽर्थान्तरन्यासकाव्यलिङ्गालङ्कारा अनुष्टुप् छन्दश्च ॥ २४ ॥
**राजा—**शाङ्ग्ररवस्य वचनमाकर्ण्य तस्य विषयेऽविश्वासं संभावयन् राजा ब्रूते अत्रभवतीप्रत्ययादेव = अत्रभवत्यां = मुनिकन्यायां यः प्रत्ययः = विश्वासः तस्मादेव शकुन्तला वचनमात्रै विश्वासात् तन्मात्रमवलम्ब्य अस्मान् = पुरुवंशोत्पन्नान् स्वधर्मनिष्ठान् संयुक्तदोषाक्षरैः = संयुक्तः सम्पृक्तः दोषः प्रमादः येषु ते तैः अक्षरैः वर्णैः दोषाधायकैः क्रूराक्षरैः वचोभिः क्षिणुथ यूयं हिस्थ अधिक्षिपेत्यर्थः ।
**शाङ्ग्ररवः—**राजोक्तमसहमानः शाङ्ग्ररवः सासूयं स्वसहचरान् प्रति ब्रूते—भवद्भिः = युष्माभिः श्रुतं = ज्ञातम्, अधरोत्तरं = अधर अधरं = हीनं च तदुत्तरं = प्रत्युत्तरं चेति अधरोत्तरम् = स्वदोषाज्ञानात् दूषितं प्रत्युत्तरं क्षुद्रमुत्तरं = उत्तरप्रत्युत्तरम् वेति भावः । 'अधरो दन्तवसनेऽमूर्ध्वं हीनेऽधरोज्न्यवत् इति विश्वः । अथवा अधरोत्तरं = विपर्ययः । तदुक्त महाभारते—
दुष्यन्त के साथ गुप्त रूप से जो गान्धर्व विवाह कर लिया है, उसका ही फल यह कष्ट रूप में इसको मिल रहा है । इसलिए खूब सोच समझकर विवाह आदि सम्बन्ध करना चाहिए ।
यहां ऐसा प्रतीत हो रहा है कि कविवर कालिदास ने शाङ्ग्ररव के कथन के ब्याज से कामुकों को शिक्षा दे रहे हैं कि भावुकता मात्र से प्रेम विवाह करने में धोखा हो जाता है । इसलिए चरित्र आदि की भलीभांति परीक्षा कर सम्बन्ध करना चाहिए । माता-पिता के द्वारा अच्छी तरह जांच पड़ताल कर लेने के अनन्तर विवाह करने पर कोई विशेष कष्ट नहीं होता । इसीलिए नीतिशास्त्र में कहा गया है—'अज्ञातकुलशीलस्य वासो देयो न कहिंचित' इस प्रकार बिना सोचे समझे किया हुआ कार्य लड़कपन है, जो हमेशा दग्ध करता रहता है । शकुन्तला ने बिना सोचे समझे राजा दुष्यन्त का विश्वास कर उनके साथ गान्धर्व विवाह करने का लड़कपन किया था, जिसका फल प्रस्तुत दुःख है ।
**राजा—**हे तपस्वियों, क्या इस शकुन्तला के कहने मात्र पर विश्वास करके ही आप लोग असम्भावित दोषों से यों लाञ्छित कर रहे हैं ।
**विशेष—**अत्रभवती=शकुन्तला पर व्यङ्ग्य कसते हुए राजा ने शाङ्ग्ररव आदि से कहा—क्या आप लोग इस भ्रष्टचरित्रा स्त्री के कहने से ही मुझे दोषी ठहरा रहे हैं ? यह उचित नहीं है ।
शाङ्ग्ररव—( असूया पूर्वक = राजा को हेय दृष्टि से देखता हुआ ) आप लोगों ने इस राजा की धूर्तता भरी चलती-फिरती बातें सुनीं, देखिए ।
**विशेष—**अधर का अर्थ है नीच = गलत और उत्तर का अर्थ है प्रत्युत्तर ।
२६८ अभिज्ञानशाकुन्तलम्
आजन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ २५ ॥
राजा— भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । कि पुनरिमोमभि- संधाय लभ्यते ।
अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठाऽतिवृत्तास्मि दुहित्रा वृषपर्वणः ॥
अन्वयः— यः आजन्मनः शाठ्यमशिक्षितः तस्य जनस्य वचनम् अप्रमाणम् यैः परातिसंधानं विद्येति अधीयते ते आप्तवाचः सन्तु किल ।
अथ दुष्यन्तोक्तं निशम्य तस्यासत्यवादित्वं निश्चिन्वन् शाङ्गरव राज्ञे किमप्यनुक्त्वा शारद्वतादीन् प्रति कथयति—आजन्मन इति । यः = मुनिजनः शकुन्तला वा आजन्मनः = जन्मनः जनुषः आरभ्य जन्मप्रभृति शाठ्यं = खलतां परवञ्चना चातुर्यं परातिसंधान-रूपम् धैर्यम् अशिक्षितः = स्वेन अन्येन शिक्षां न ग्राहितः अबोधितः अनध्यापितः तस्य जनस्य मुनिकन्यारूपस्य वचनं = कथनम् वाणी अप्रमाणं विश्वासानानर्हम्, यैः = राजनीति-कोविदैः सर्वथा मृषा व्यवहारतत्परैः त्वादृशैः राजादिभिः परातिसंधानं = परवञ्चनं तत्प्रतिपादकं कौटिल्याद्यर्थशास्त्रमेव विद्येति ज्ञानमिति अधीयते = इयं नः कुलविद्येति मत्वा विद्यारूपेण अधीयते पठ्यते न शिक्ष्यते ते तथा तादृशाः राजलोकाः आप्ता श्रामणिका वाक् वचनं येषां ते आप्तवाचः = प्रमाणभूताः सन्तु = भवन्तु किल = संभावनायाम् खलु 'किल शब्दस्तु वार्तायां सम्भाव्यानुनयार्थयोः' इति विश्वः । अत्र अदृष्टकैतव शकुन्तला वचोऽप्रमाणं दुष्यन्तोक्तं तु प्रमाणमिति अहो प्रमाणप्रमेयभावव्यवस्थेति राज्ञः असूया प्रकटिता । या हि शकुन्तला जन्मत एव धूर्त्यं न जानाति तस्याः कथनमविश्वसनीयम्, यस्तु त्वं स्वकुलोवधामिव परवञ्चनमेव नियमपूर्वकंमधीषे तस्य ते मृषाव्यवहारिणो वचनं प्रामाणिकं विश्वसनीयं च तस्मात् परवञ्चका राजानो न प्रामाण्यवचना भवितुमर्हन्तीति भावः । अज्ञातप्रस्तुतप्रशंसा-वक्रोक्ति-रूपानुप्रासा अलङ्कारा छन्दश्चोपजातिः ॥ २५ ॥
राजा—शाङ्गरवेणाधिक्षिप्तो राजा सरोषमाह—भो सत्यवादिन् ! तथ्यभाषिन् ! अभ्यु-
जो लोग जन्म से ही छल-कपट से बिलकुल अपरिचित हैं, उनकी बात तो अप्रामाणिक झूठी है । और जो दूसरों को ठगने को एक कला समझ कर रात दिन उसका ही अभ्यास किया करते हैं वे ही लोग आप्त वाक्य = सच्चे प्रामाणिक बन रहे हैं । वाह ! क्या अच्छा न्याय है ॥ २५ ॥
विशेष— पद्य का पूर्वार्द्ध शकुन्तला के लिये और उत्तरार्द्ध दुष्यन्त के लिए आया है । तपोवनों के आश्रमों में जन्म से लेकर अन्त तक शठता की शिक्षा नहीं दी जाती जब कि राजनीति में दूसरे को धोखा देने की शिक्षा भरी पड़ी है । जब शठता की शिक्षा से रहित व्यक्ति को झूठा कहा जाय तथा पर-वञ्चकता की कला में प्रवीण को सत्यवादी माना जाय तब तो कहना ही क्या है । इसलिए कपट-वञ्चना से रहित मुनिकुमारी शकुन्तला का ही वचन प्रामाणिक और दूसरों को ठगना एवं झूठा बोलने वाले राजनीति आपका कहना अप्रामाणिक है ।
राजा—हे सत्य बोलने वाले महात्माओं ! हम यह मान लेते हैं कि हम ऐसे ही झूठ, ठग,
पाठा०—१. मभिसंधाय ।
पञ्चमोऽङ्कः २६९
शार्ङ्गरवः— विनिपातः। राजा— विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम्। शारद्वतः— शार्ङ्गरव! किमुत्तरेण? अनुष्ठितो गुरोः सन्देशः। प्रतिनिवर्त्तामहे वयम्। (राजानं प्रति)—
तदेषा¹भवतः कान्ता त्यज वैनां गृहाण वा।
²उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६ ॥
पगतं = स्वीकृतं तावत् = प्रथमम् अस्माभिः मया एवम् = इत्थं मयोक्तं प्रतारणम्। 'प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते' इति न्यायेन अतिसन्धाय = वञ्चयित्वा, प्रतार्यं किंपुनर्लभ्यते, किं प्राप्यते, न किमपीत्यर्थः।
शार्ङ्गरवः— कुपितः शार्ङ्गरव आह—विनिपातः = अधमः, नरके पतनं वा त्वया लभ्यते इति भावः।
राजा— पौरवैः = पुरुवंशोत्पन्नैः राजभिः (न केवलं मया) विनिपातः = नरके पतनं प्रार्थ्यते। इति इदम् न श्रद्धेयं श्रद्धास्पदं विश्वासानर्हम्, 'असत्यमप्यश्रद्धेयं न वदेदिति नीतिः।
शारद्वतः— नृपसहचरयोः वाक्कलहं निरोद्धुकामः शारद्वतः कथयति—शार्ङ्गरव! किमुत्तरेण = प्रतिवचनेन किम्! अनेन घमंध्वजिना नृपेण सह वादप्रतिवादेनालं कोऽपि लाभो नास्ति तद्विरम। गुरोः महर्षेः कण्वस्य सन्देशः = वाचिकम् अनुष्ठितः = संपादितः गुर्वाज्ञानुसारं शकुन्तला राजसकाशं प्रापिता, राज्ञा सह वादाय नादिष्टा वयम् प्रतिनिवर्त्तामहे = आश्रमं प्रतिगच्छामः (राजानं = नृपं दुष्यन्तं प्रति उद्देश्य) प्रसङ्गमपसंहरन् शारद्वतो ब्रूते = तदेषेति।
अन्वयः— तत् एषा भवतः कान्ता, एनां त्यज वा गृहाण वा हि दारेषु सर्वतोमुखी प्रभुता उपपन्ना।
वञ्चक ही है, किन्तु यह तो बताइये कि इस बेचारी भोली-भाली सीधी-साधी महिला को ठगने से हमें लाभ ही क्या होगा?
विशेष— यहाँ राजा का ऋषियों के लिए कहा गया सत्यवादिन् सम्बोधन उपहास गर्भित है।
शार्ङ्गरव— लाभ! तुम्हारा अधः पतन ही लाभ है।
विशेष— यहाँ शार्ङ्गरव के कहने का अभिप्राय है कि एक भोली-भाली मुनिकुमारी को धोखा देने का पाप आपको भोगना पड़ेगा। यदि महर्षि कण्व अपनी कन्या शकुन्तला के दुःख से दुःखी होकर अत्यन्त क्षुब्ध हो जायेंगे तो उनके शापाग्नि से तुम्हारा कुल भस्मसात हो जायेगा। इससे बढ़कर अधःपात क्या हो सकता है।
राजा— हम पुरुवंशी राजा अपना अधःपात अपने आप चाहेंगे—यह बात तो किसी के भी विश्वास में नहीं आ सकती है।
शारद्वत— शार्ङ्गरव! अब ज्यादा कहने सुनने से क्या लाभ है। हम लोगों ने गुरु जी की आज्ञा का पालन कर दिया, अब हम लोग आश्रम को चलें (राजा के प्रति)—
आपकी पत्नी को आपके पास पहुँचा दिया गया। आप इसे छोड़ दें या स्वीकार करें, क्योंकि विवाह करने वाले का अपनी पत्नी पर पूरा पूरा अधिकार होता है ॥ २६ ॥
पाठा०—भवतः पत्नी।
२. उपयन्तृर्हि।
| २७० | अभिज्ञानशाकुन्तलम् |
|---|
गौतमी ! गच्छाग्रतः । ( इति प्रस्थिताः )
शकुन्तला — कहं इमिणा किदवेण विप्पलद्ध म्हि । तुम्हे वि मं परिच्चअह । [ कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ । ] ( इत्यनुप्रतिष्ठते )
शारद्वतो हि राज्ञा साकं विवादोऽनुचित इति मत्वा ततो विवादात् शार्ङ्गरवं विरमय्य निजकर्त्तव्यमुपदिशन्नाह — तदेषेति तत् = यस्माद् वयमनुष्ठितगुरुसन्देशाः आश्रमगमनोत्सुकाः स्मः तस्मात् एषा = इयं पुरोवर्तिनी भवतः तव दुष्यन्तकान्ता = धर्मपत्नी, अस्यां परिग्रहशङ्का न कार्या किञ्चैषा त्वत्करे समर्पिता । अत एनां त्यज = निष्कासय गृहाण वा धर्मपत्नीत्वेन स्वीकुरुष्व वा । हि = यतः स्त्रीषु कलत्रविषये सर्वतोमुखीं सर्वासु दिक्षु मुखं प्रवृत्तिर्यस्याः सा तादृशी सर्वतोमुखी = सर्वप्रकारा = त्यागे ताडने स्वीकारे दानादौ च प्रभुता = स्वतन्त्रता उपपन्ना युक्ता । भर्तृतन्त्रं पत्न्याः ग्रहणमग्रहणं च तेन यथेच्छमस्यां वर्तस्वेति भावः । अर्थात् हे राजन् ! वादविवादेन किमपि प्रयोजनं न सेत्स्यति निःसंशयमियं भवतो दारा अस्माकं गुरुणा भगवता कण्वेन तव समीपे प्रहिता यद्येनां त्यक्तुमिच्छसि तर्हि त्यज्यताम् धर्मपत्नीत्वेन ग्रहणमनुमन्यसे चेत् गृहाण धर्मपत्नीषु सर्वथा भर्तुरेव स्वातन्त्र्यमस्तीति प्रसिद्धमेव । तस्मात् यथेच्छम् कार्यम् । अत्रार्थान्तरन्यासोऽलङ्काररोऽनुष्टुप् छन्दश्च ॥ २६ ॥
गोतमि ! अग्रतः = अग्रे गच्छ = चल ( इति = एवमुक्त्वा प्रस्थिताः = प्रचलिताः सर्वे ) ।
शकुन्तला — सर्वान् प्रस्थितानवलोक्य शकुन्तला कथयति — कथं = केन प्रकारेण अशोभनेन अनेन = पुरतः स्थितेन कितवेन = धूर्तेन छलिना दुष्यन्तेन विप्रलब्धा = वञ्चिता प्रतारिता अस्मि ! यूयमपि = भवन्तोऽपि मां = शकुन्तलां परित्यजथ = विसर्ज-यथ, इति = एवमुक्त्वा अनुप्रतिष्ठते = अनुगन्तुमारभते । शार्ङ्गरवादिकम् नु यातुं प्रवृता ।
विशेष — गान्धर्व विवाह विधि से स्वीकृत होने से जो प्रिय रही है वह कान्ता है । इस प्रकार कान्ता का अर्थ है = प्रेम की गई प्रेयसी क्योंकि गान्धर्व विवाह प्रेम में अन्धा होकर किया जाता है । उस अवस्था की प्रेमिका को कान्ता ही कहा जाता है अग्निदेव को साक्षी बनाकर देव आर्ष ब्राह्म प्राजापत्य विधि से परिणीता स्त्री को पत्नी कहते हैं । शारद्वत को मालूम था कि दुष्यन्त ने शकुन्तला से प्रेम विवाह = गान्धर्व विवाह किया है । अतः वर कान्तापद से सिद्ध करना चाहता है कि यह तुम्हारी प्रेमिका पत्नी है तुम इसे अवश्य स्वीकार करोगे ।
हे गौतमी ! आगे आगे चल ( सब जाते हैं ) ।
शकुन्तला — अब क्या करूँ ? इस धूर्त के द्वारा ठगी गई हूँ । आपलोग भी अब मुझे छोड़ रहे हैं ( ऐसा कहकर उनलोगों के पीछे-पीछे चल देती है ) ।
विशेष — जब शकुन्तला को दुष्यन्त के समक्ष ही छोड़कर शार्ङ्गरव आदि आश्रम की ओर चलने लगे, उसके सामने कोई रास्ता न था वह व्याकुल होकर उनलोगों के पीछे-पीछे चल पड़ी वहाँ शकुन्तला का भोलापन दिखाया गया है । उस आकस्मिक विपत्ति से वह इतना घबड़ा गई राजा से घृणा कर अपने बन्धुजनों का आश्रय चाहती थी ।
पञ्चमोऽङ्कः
२७१
गौतमी— ( स्थित्वा ) वच्छ संगरव ! अणुगच्छदि इमं खु णो करुणपरिदेविणी सउंदला पच्चादेसपरुसे भत्तुणि किं वा मे पुत्तिआ करेदु । [ वत्स शाङ्गंरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्त्तरि किं वा मे पुत्रिका करोतु । ]
शाङ्गंरवः—( सरोषं निवृत्य ) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे । ( शकुन्तला भीता वेपते )
शाङ्गंरवः—शकुन्तले !
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः ¹पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥
**गौतमी—**अनुप्रतिष्ठमानां शकुन्तलां वीक्ष्य स्थित्वा गौतमी ब्रूते—वत्स ! शाङ्गंरवो करुणं = आर्तं परिदेवयते = विलपति या सा करुणपरिदेविनो करुणं विलपन्ती विलापः परिदेवनम्, इत्यमरसिंहः, इयम् = एषा शकुन्तला नः = अस्मान् अनुगच्छति खलु निश्चयेन प्रत्यादेशपरुषे = प्रत्यादेशेन = प्रत्याख्यानेन निराकृत्य परुषैः = कठोरैः स्वभार्यात्वेन तामस्वीक्रियमाणे सति भर्तरि = पत्यौ मे मम पुत्रिकावात्सल्यभाजन पुत्री किंवा करोतु अनुगमनादन्यत् किं विदधातु ममानुकम्पनीया या अस्याः कन्यकाया अनन्यशरणत्वेनानुगमनादन्यः कश्चनोपायो नास्तीति भावः ।
**शाङ्गंरवः—**गौतमीवचनं श्रुत्वा शाङ्गंरवः सरोषं निवृत्य शकुन्तलामाह पुरोभागे- पुरः = अग्रे भजते = हठात् सेवते या सा पुरोभागा तत्सम्बुद्धौ हे पुरोभागे = दोषदर्शिनि ! दुष्टे किं = किमर्थं स्वातन्त्र्यं = स्वच्छन्दतां अवलम्बसे = आश्रयसि अस्मदाज्ञां विने वास्माननुगच्छसि, मास्माननुगच्छेतिभावः । शास्त्रेषु स्त्रीणां स्वातन्त्र्यं निषिद्धमस्ति । तथाहि—पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति । ( शकुन्तला भीता वेपते कम्पते ) ।
**शाङ्गंरवः—**शकुन्तले ! शाङ्गंरवः शकुन्तलाया पतिगृहवासमेव समर्थयति—यदीति ।
**अन्वयः—**क्षितिपः यथा वदति यदि त्वं तथा असि, उत्कुलया त्वया पितुः किमु ? अथ तु आत्मनो व्रतं शुचि वेत्सि पतिकुले दास्यमपि तव क्षमम् ॥ २७ ॥
गौतमी—( रुककर ) बेटा, शार्ङ्गरव ! हृदय पिघलाने वाला विलाप करती हुई यह शकुन्तला हम लोगों के पीछे-पीछे आ रही है । पति के निष्ठुरतापूर्वक परित्याग कर देने पर बेचारी मेरी प्यारी बिटिया अब क्या करें ?
शार्ङ्गरव—( मुड़कर क्रोध के साथ ) अरी ढीठ, क्या स्वातन्त्र्य का अवलम्बन कर रही हो, ( शकुन्तला भय के मारे काँपती हैं ) ।
**विशेष—**प्राचीन भारतीय सिद्धान्त के अनुसार स्त्रियों को स्वतन्त्रता नहीं हैं। वे अविवाहिता की स्थिति में पिता के, जवानी की स्थिति में अपने पति के तथा वृद्धावस्था में पुत्र के संरक्षण में रहती है—
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रश्च स्थविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
शार्ङ्गरव—शकुन्तले ! राजा जैसा कह रहे हैं, यदि तुम वैसी ही हो तब तुझ कुलटा से पिता
पाठा०—१. पतिगृहे ।
२७२ अभिज्ञानशाकुन्तलम्
तिष्ठ साधयामो वयम् ।
राजा—भोस्तपस्विन् किमत्रभवतीं विप्रलभसे ।
पश्चात्प्रस्थितां तां शकुन्तलामवलोक्य शार्ङ्गरवः सकोपमाह—यदीति । क्षितिपः भू-पालो राजा दुष्यन्तो यथा वदति = यादृशं भाषते न ममेयं परिणीतेति कथयति चेत् = यदि त्वं भवती तादृशी असि यदि त्वं तत्त्वत एवानूढा सगर्भा चासि तदा उत् = उत्क्रान्ता कुलात् = कुलमर्यादाया इत्युत्कुला तया उत्कुलया कुलमुत्क्रान्तया, अतिक्रान्तकुलमर्यादया तथाभूतया त्वया पितुः = कण्वस्य किम् ? न किमपि प्रयोजनमित्यर्थः । अथ तु=पक्षान्तरे एतद्विपरीतं = स्वस्य आत्मनः व्रतपातिव्रत्यरूपशुचिपवित्रं वेत्सि = अयमेव दुष्यन्तो मे भर्तेति मनसा जानासि तदा पतिकुले = भर्तृगेहे दास्यमपि पत्युः सविधे नावस्थानं दासीभावोऽपि तव क्षमं योग्यम्, समीचीनमुचितम् । अतः आश्रमे तव पुनर्गमनं सर्वथा प्रतिकूलम् इहैव ते वास उचितः । अर्थात् शकुन्तले ! यदि त्वं वस्तुतः दुष्यन्तेनानूढैव सगर्भा जाता तर्हि अतिक्रान्तकुलमर्यादायाः तव कुलगुरुः त्वन्मुखं द्रक्ष्यसि यदि त्वं स्वपातिव्रत्यं युक्तं मन्यसे तर्हि ते पतिगृहे सेवाकर्म समुचितम् । अतोऽस्माकमनुगमनं न कार्यम् । अत्र हेतुकाव्यलिङ्गालङ्कारौ द्रुतविलम्बितं छन्दश्च ॥ २७ ॥
एवं पक्षद्वयेऽपि प्रतिप्रमाणेऽभ्युक्ते सति अत्रैव तिष्ठ = विरम, साधयामः = त्वां विहाय वयं गच्छामः ।
राजा—भो तपस्विन् = हे तापस ! अत्र भवतीं = मान्यां शकुन्तलां किं विप्रलभसे = वाक्चातुर्येण कथं वञ्चयसि । एनां प्रतार्य इहैव कुतः परित्यजसि । इत्थं भवदुपाय-प्रयोगेण अत्रासीनापि एनां न स्वीकरिष्यामीति सदृष्टान्तमाह—कुमुदान्येवेति ।
कण्व का क्या प्रयोजन ? और यदि आचरण को तुम पवित्र समझती हो तो पतिगृह में ही तुम्हारी दासता भी उचित है । अतः यहीं रुको ॥ २७ ॥
**विशेष—**दोनों स्थितियों में शकुन्तला के लिए पिता का संरक्षण सम्भव नहीं था यदि विवाहिता लड़की ससुराल में अपने को नहीं निभा सकती है तो पतिगृह में उसका स्थान नहीं । यदि वह अपने को चरित्रवती समझती है तो अत्याचार होने पर भी पति के साथ रहकर उसकी सेविका को रहना उचित है । यदि व्यभिचारिणी है तो उसे पिता के घर में जाना कथमपि उचित नहीं, क्योंकि कोई भी पिता व्यभिचारिणी पुत्री को अपने घर में बनाये रखना नहीं चाहता ।
राजा का कहना कि मैंने इससे विवाह ही नहीं किया है, न यह मेरी स्त्री ही है, न यह गर्भ ही मेरा है, यदि वैसी ही कुलकलङ्किनी भ्रष्टा है तो कुलमर्यादा को भंग करने वाली तुम स्वैरिणी से अब हमारा सम्बन्ध ही क्या है ? यदि अपने पातिव्रत्य धर्म को परिशुद्ध समझती हैं और तेरा यही पति है तो फिर जाती कहाँ हो, पति के घर में दासी बनकर रहना भी तेरे लिए उचित है । अर्थात् यदि तू इस राजा की स्त्री नहीं है, तैने और ही किसी दूसरे पुरुष से सम्बन्ध कर यह गर्भ धारण किया है, तो तेरी ऐसी कुलटा को हम साथ ले जाकर अब कर भी क्या सकते हैं ? यदि तू सच्ची सती साध्वी है तेरा पति यही है तो फिर उनके यहाँ रहकर किसी प्रकार तुम्हें अपना समय बिताना चाहिए ।
अतः तू यहीं रह हमलोग जाते हैं ।
**राजा—**हे तपस्विन् ! इस बेचारी को आप क्यों धोखा दे रहे हैं और यहाँ इसे छोड़कर जा रहे हैं क्योंकि—
पञ्चमोऽङ्कः । २७३
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ २८ ॥
अन्वयः—शशाङ्कः कुमुदानि एव, सविता पङ्कजानि एव बोधयति । हि वशिनां वृत्तिः परपरिग्रहसंश्लेषपराङ्मुखी (भवति) ।
शकुन्तलामुपदिश्य तां पतिगृहे एव बलान्निवासयितुमुद्यतं शार्ङ्गरवं ब्रूते नृपतिर्दुष्यन्तः कुमुदानीति । शशाङ्कः चन्द्रः कुमुदान्येव=कैरवकुलान्येव बोधयति = विकासयति न पुनः पंकजानि सविता = सूर्यस्तु पङ्कजान्येव बोधयति, न कुमुदानि । हि=यतः, निश्चितं वशिनां = इन्द्रियसंयमिनाम् वृत्तिः = चित्तवृत्तिः व्यापारो वा परेषां परिग्रहाणां संश्लेषे पराङ्मुखीति परपरिग्रहसंश्लेषपराङ्मुखी = अन्यकलत्रसम्पर्ककलङ्कविमुखी परकलत्र-स्वीकृतिर्निवर्तनशीला भवति, जितेन्द्रिया हि परकलत्रं मनसापि न स्वीकुर्वन्ति । ‘परिग्रहः परिजने पत्न्यामिति विश्वः ।
अर्थ भावः—अयि तापस ! कथमेनां कण्वकन्यां प्रतारयसि मम गेहे निवासेऽपि नाहमेनामङ्गीकरिष्यामि । पश्य, यथा चन्द्रमाः कुवल्यान्येव विकासयति, न कमलानि, सूर्यश्च पङ्कजान्येव विकासयति, न कुमुदानि । तथैव जितेन्द्रियाः पुरुषपुङ्गवाः परकल-त्राणि मनसाऽपि न कामयन्ते । तस्मादेनामत्र निवासयितुं भवतामुद्यमो व्यर्थ एव भविष्यति । अतो नैनां परस्त्रियमहं स्वान्तःपुरे स्थापयिष्यामीति भावः । अत्राप्रस्तुत-प्रशंसादृष्टान्तान्तरन्यासा अलङ्कारा आर्या छन्दश्च ॥ २८ ॥
चन्द्रमा कुमुद को ही विकसित करता है, कमलों को नहीं और सूर्य कमलों को ही खिलाता है कुमुदों को नहीं । हमारे जैसे इन्द्रियनिग्रही धर्मभीरु लोगों की वृत्तियाँ हमेशा ही परिग्रह से पराङ्मुखी हो रहती है ॥ २८ ॥
इस प्रकार कुमुद चन्द्रमा का ही परिग्रह है तथा कमल सूर्य का परिग्रह है । इसलिए चन्द्रमा कमल से और सूर्य कुमुद से प्रेम नहीं करता । इसी प्रकार मैं भी पराई स्त्री से पराङ्मुख ही हूँ । राजा जोर देकर कह रहे हैं कि ऋषियों ! यह न समझना कि इसे यहाँ छोड़ जाओगे तो मैं दया या कामुकता के कारण इसे स्वीकार कर लूँगा । परस्त्री मेरे लिए उसी प्रकार हेय है जिस प्रकार चन्द्रमा के लिए कमल तथा सूर्य के लिए कुमुद । राजा के कहने का अभिप्राय यही है कि आप समझते हो कि आप लोगों के यहाँ छोड़कर चले जाने के बाद मैं इस परम सुन्दरी ललना पर मुग्ध होकर आसक्त हो जाऊँगा और इसे अपने पास रख लूँगा । यह तो आप लोगों का भ्रममात्र ही है । मैं हमेशा दूसरे की स्त्री से दूर रहने वाला व्यक्ति हूँ । इसलिए इस बेचारी को यहाँ छोड़कर आप लोग इसे धोखा न दें ।
विशेष—इस पद्य में शकुन्तला एवं दुष्यन्त के स्थान पर कुमुद एवं शशाङ्क तथा सूर्य एवं कमल का उल्लेख होने का तात्पर्य है जिससे जिसका सम्बन्ध होता है वही उसको प्रसन्न करता है दूसरों को नहीं । चन्द्रमा की चाँदनी छिटकने पर ही कुमुदिनी विकसित होती है तथा सूर्य की प्रभा फैलने पर केवल कमलिनी विकसित होती है, कुमुदिनी नहीं । यहाँ तो राजा दुष्यन्त सुलभ कोप महर्षि दुर्वासा जी के शाप से शकुन्तला से अपना सम्बन्ध ही नहीं समझ रहें हैं तो उससे प्रसन्न होने की बात ही क्या है ?
१८ शाकु०
२७४ | अभिज्ञानशाकुन्तलम्
शार्ङ्गरवः—यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरोर्दारपरित्यागः ?
राजा—( पुरोहितं प्रति ) भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये । दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ २९ ॥
शार्ङ्गरवः—राजोक्तिमसह्मानः शार्ङ्गरवो ब्रवीति—यदा तु पूर्ववृत्तम्-पूर्वं = प्राक् घटितं च तत् वृत्तं = घटना चेति पूर्ववृत्तम् = अतोतं रहोवृत्तं पूर्वघटितां घटनां वा अन्यसङ्गात् = अन्यस्य परस्य सङ्गात् = सम्पर्कात्, अन्तःपुरस्त्रीजनसङ्गात्, कार्यान्तरव्यासङ्गात्, राजतन्त्रप्रसङ्गात् शापाद्वा भवान् विस्मृतः = विस्मृतवानस्ति तर्हि, अधर्मभीरोः पापाद् भीतस्य तव दारपरित्यागः = स्वपरिणीतापत्नीपरित्यागः कथमुचितो भवेत् न सर्वथा समुचितः । एवंविधस्य भवतो नास्त्येव अधर्मद्वियम् । अधर्मभीरो-स्तवाधर्मानुष्ठानमेतदनुचितमिति भावः ।
राजा—अथ तदानीं धर्मसङ्कटे पतितो राजा पुरोहितं प्रति पृच्छति-भवन्तं = पुरोधसमेव अत्र = अस्मिन् विषये, ग्रहणे त्यागे वा गुरुलाघवं = गौरवलाघवं, उच्चतां तुच्छतां दोषस्य बलाबलम् उचितमनुचितं च पृच्छामि = जिज्ञासे ।
अन्वयः—अहं मूढः स्याम्, एषा वा मिथ्या वदेत् इति संशये दारत्यागी भवामि अहो परस्त्रीस्पर्शपांसुलः भवामि ।
ततः शकुन्तलाङ्गीकारविषये राजा दुष्यन्तः पुरोधसं पृच्छति—मूढ इति । अहं = तव यजमानो दुष्यन्तः मूढः = विवेकहीनः, पूर्ववृत्तविस्मरणशीलः स्याम् = भवेयम्, वा = पक्षान्तरे अथवा एषा = इयं मुनिकन्यका मिथ्या = मृषा असत्यं वदेत् = कथयेत् इति = इत्थं संशये = सन्देहे 'अहं वा मूढ, सैषा वा मिथ्या भाषते' इति सन्देहे सति दारत्यागी = स्वस्त्रीत्यागपातकी भवामि अहो यद्वा परस्य स्त्रियाः स्पर्शेन पांसुल इति परस्त्रीस्पर्शपांसुलः = परदारसंसंगदूषितः पातकयुक्तः कलङ्की भवामि । यद्यहं मूढः तदा अस्याः त्यागात् पापी स्याम्, यदीयं मिथ्या भाषते तर्हि परकलत्रसंग्रहाच्चाहं
शार्ङ्गरव—जब पहले की घटना स्वयं किया हुआ गान्धर्व विवाह आप अन्य स्त्री में आसक्त हो जाने से भूल गये हैं तो अधर्म से डरने वाले कैसे कहे जा सकते हैं ? पराई स्त्री की आशङ्का से अपनी स्त्री को छोड़ना क्या उचित होगा ।
विशेष—यहाँ अन्य विद्वानों ने कई प्रकार से उद्भावनायें की है—किसी अन्य सुन्दरी स्त्री में आसक्त होने के कारण, किसी राज-कार्य में व्यस्त होने के कारण या किसी शाप आदि के कारण विस्मृत हो जाने से ।
राजा—( पुरोहित के प्रति ) मैं आप से ही इस विषय में उचित अनुचित पूछ रहा हूँ कि इस विषय में मुझे क्या करना चाहिए, मैं ही विवेकहीन हो रहा हूँ या यह स्त्री झूठ बोल रही है । इस प्रकार के सन्देह में मैं स्त्री परित्यागी बनूँ या पराई स्त्री के स्पर्श से दूषित बनूँ ॥ २९ ॥
विशेष—यहाँ राजा का पुरोहित जी से कहने का तात्पर्य है कि इस धर्म सङ्कट में मुझे मार्ग नहीं सूझ रहा है कि मैं क्या करूँ ? क्या नहीं । आप धर्मशास्त्रों के ज्ञाता हैं । अतः निर्णय कर मुझे आदेश दीजिए कि क्या करना चाहिए ? क्योंकि संभव है कि प्रमादवश मैं ही भूल गया हूँ । ऐसी स्थिति में इसके साथ किये गये विवाह का स्मरण न रहने से मैं इसे ग्रहण नहीं कर सकता,
पञ्चमोऽङ्कः
२७५
पुरोहितः—( विचार्य ) यदि तावदेवं क्रियताम् ।
**राजा—**अनुशास्तु मां भवान् ।
**पुरोहितः—**अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यते इति चेत् । त्वं साधुभिरुद्दिष्टः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति, १अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः २समीपनयनमवस्थितमेव ।
पापीयान् । स्वधर्मपत्नीं परित्यज्य दारत्यागदोषभाग् भवेयं उत परस्त्रीभूतामेनां स्वीकृत्य परस्त्रीस्पर्शकलङ्कितो भवेयमित्युभयथा दोषप्रसक्तिः । तस्मादत्र किं कर्तव्यमिति भवानेव मामुपदिशतु इति भावः । अत्र वितर्कादयो भावा अनुष्टुप्छन्दश्च ॥ २९ ॥
**पुरोहितः—**पुरोधा हि विचार्य कर्तव्यमाह—यदि = संशयश्चेत् तावत् = प्रथमं एवं क्रियताम् = इत्थं विधीयताम् ।
**राजा—**भवान् पुरोहितः मां = राजानम् अनुशास्तु = कर्तव्यम् आदिशतु ।
**पुरोहितः—**पुरोधाः कर्तव्यमुपदिशति—अत्रभवती = मान्या मुनिकन्यका तावत् आप्रसवात् = प्रसवपर्यन्तं सन्तानोत्पत्ति पुत्रजन्मनो यावत् अस्मद्गृहे = मम गेहे तिष्ठतु = वसतु । कुतः = कस्मात् कारणात् इदं = उपर्युक्तं उच्यते = मया कथ्यते । चेत् = यदि, एवं वितर्कस्तर्हि श्रृणु—त्वं = भवान् साधुभिः = सज्जनैः आप्तैः सारङ्गानुधावनप्रसङ्गे वैखानसैः प्रथमं = प्रथमत एव उद्दिष्टः = उक्त एव चक्रवर्तिनं = सम्राज पुत्रं सूतं = जनयिष्यसि = उत्पादयिष्यसि इति सः = अस्यां जनिष्यमाणः भावी मुनिदौहित्रः = मुनेः दुहितुः शकुन्तलायाः पुत्रः चेत् = यदि तल्लक्षणोपपन्नः तस्य = चक्रवर्तिनः लक्षणैः = चिन्हैः उपपन्नः = युक्तः भविष्यति तर्हि अभिनन्द्य = स्वागतं व्याहृत्य सादरं सत्कृत्य
तो पत्नी के परित्याग का पातक लगेगा । यदि विवाह न किया हो तो और पत्नी बनाकर रख लूँ तो मुझे पर-स्त्री संग का पाप लगेगा । अतः आप ही बतलाइए कि शास्त्रीय व्यवस्था के अनुसार मैं क्या करूँ ।
पुरोहित—( विचार कर ) यदि यह बात है तो ऐसा कीजिए ।
**राजा—**हाँ मुझे आप उचित आदेश दें ।
**पुरोहित—**यह श्रीमती शकुन्तला प्रसव होने तक मेरे घर में ठहरे । यदि यह पूछा जाय कि क्यों ! तो इस पर मेरा उत्तर है—बड़े-बड़े विश्वासी भविष्य वेत्ताओं ने पहले ही आपको आदेश दे रखा है कि आपको प्रथम चक्रवर्ती पुत्र पैदा होगा । अब यदि महर्षि कण्व का दौहित्र इस शकुन्तला का पुत्र चक्रवर्ती के लक्षणों से सम्पन्न होगा, तब तो यह सिद्ध हो जायेगा कि यह आपकी स्त्री है । अनन्तर अभिनन्दन के साथ इसको अपने राजमहल में प्रवेश कराएगा । यदि ऐसा नहीं होगा तो इसका अपने पिता कण्व के पास उनके आश्रम में जाना निश्चित ही है ।
**विशेष—**यहाँ पुरोहित जी ने अपने नाम को सार्थक कर दिया, क्योंकि पुरोहित का अर्थ ही है कि अपने यजमान का कल्याण प्रथम करना । पुरोधा जी ने बहुत ही उत्तम मार्ग निकाला, जिससे उनके यजमान राजा दुष्षन्त का भविष्य समुज्ज्वल रहे तथा वे किसी प्रकार के दोष से कलङ्की न हो सकें । पुरोहित जी सज्जन धार्मिक ईमानदार और वृद्ध प्रतीत होते हैं जिससे उनके यहाँ शकुन्तला के रहने पर समाज में किसी प्रकार निन्दा का प्रश्न ही नहीं उठता । पुरोहित जी
**पाठ०—**१. ततः प्रतिनन्द्य । २. समीपगमनमवस्थितमेव ।
| २७६ | अभिज्ञानशाकुन्तलम् |
|---|
राजा— यथा गुरुभ्यो रोचते।
पुरोहितः— ( उत्थाय ) वत्से, अनुगच्छ माम् ।
शकुन्तला— भअवदि वसुहे, देहि मे विवरं [ भगवति वसुधे देहि मे विवरम् ]
( इति रुदती प्रस्थिता निष्क्रान्ता सह पुरोधसा तपस्विभिश्च )
( राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति । )
शुद्धान्तं = अन्तःपुरम् एनां = इमां मुनिदुहितरम् प्रवेशयिष्यसि । विपर्यये तु = अन्यथा पुनः यदेषा पुत्रं न जनयिष्यति जनितमपि चक्रवर्तिलक्षणहीनं स्यात् तदा अस्याः पितुः मुनेः कण्वस्य समीपनयनं = निकटप्रापणम् अवस्थितमेव = निर्धारितमेव निश्चितमेव ।
राजा— पुरोहितोक्तिमनुमन्यमानः प्राह—यथा गुरुभ्यः = आदरणीयाय उपाध्यायाय भवते रोचते— तथा भवतु ।
पुरोहितः— पुरोधाः शकुन्तलामाह—वत्से = पुत्रि ! माम् अनुगच्छ = अनुसर ।
शकुन्तला— अथ पुरोहितमनुप्रस्थिता उभयलोकभ्रंशमसहमाना शकुन्तला संनिर्वेदं शरीरत्यागाय भगवतीं जानकीव वसुधामाशंकते—भगवति वसुधे = वसुन्धरे ! मे = मह्यं शकुन्तलायै विवरं स्वोदरे अवकाशं देहि वितर ( इति = एवमुक्त्वा रुदती = विलपन्ती पुरोधसा = पुरोहितेन तपस्विभिः = कण्वाश्रमवासिभिः तापसैश्च सह = साकं निष्क्रान्ता प्रस्थिता = चलिता, रङ्गभूमितो निर्गता )
( राजा = नृपो दुष्यन्तः शापेन = दुर्वाससः शापेन व्यवहितां स्मृतिः यस्य स शापव्यवहितस्मृतिः = शापमूढमतिः शकुन्तलागतं = शकुन्तला विषयं वृत्तान्तमेव निमित्तीकृत्य चिन्तयति = शोचति )
उस समस्या का समाधान ईमानदारी से करना चाहते हैं यदि उनके माध्यम से सिद्ध हो गया कि शकुन्तला दुष्यन्त की परिणीता पत्नी है तो पुरोहित जी की प्रतिष्ठा अमिट रहेगी ।
प्राचीन काल में दैवज्ञों की भविष्यवाणी पर धार्मिक जनता का पूर्ण विश्वास था । दुष्यन्त की जन्मकुण्डली एवं हस्तरेखाओं को देखकर ज्योतिष के विद्वानों ने पहले ही बता दिया था कि इनका प्रथम पुत्र चक्रवर्ती होगा । हस्तरेखा के अनुसार चक्रवर्ती के पैर और हाथों में शंख, चक्र, कमल, अंकुश, वज्र आदि के चिह्न होते हैं । मुनि दौहित्र पद से व्यक्त होता है कि राजकुमार होना अभी विवादास्पद है । शकुन्तला की बात झूठी होने पर वह अपने पिता के पास भेज दी जायेगी ।
राजा— जैसा आपको अभीष्ट हो वैसा करें ।
पुरोहित— ( उठकर ) बेटी ! मेरे पीछे-पीछे आओ ।
शकुन्तला— भगवति वसुन्धरे ! मुझे अपने अन्दर स्थान दो, फट जाओ मैं समा जाऊँ ।
( यह कह कर शकुन्तला रोती हुई पुरोहित तपस्वियों तथा गौतमी के साथ-साथ रंगमंच से बाहर जाती है )
विशेष— तपोवन निवासिनी मुनिकन्या शकुन्तला इतनी सौम्य थी कि वह इस तरह अपमानित होने पर भी रोती हुई पुरोहित जी के पीछे चली जाती है, न तो हठ करती है, न झूठे पति को कुवाच्य कहकर अपमानित करती है । धन्य है यह भारतीय नारियों का आदर्श ।
( इधर राजा, जिनकी स्मृति महर्षि दुर्वासां के शाप से ढक गई है शकुन्तला के विषय में ही सोचते हैं )
पञ्चमोऽङ्कः
( नेपथ्ये ) आश्चर्यम् ।
राजा—( आकर्ण्य ) किन्नु खलु स्यात् ।
( प्रविश्य )
पुरोहितः—( सविस्मयम् ) देव अद्भुतं खलु १संवृत्तम् ।
राजा—किमिव
पुरोहितः—देव परावृत्तेषु कण्वशिष्येषु—
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता।
राजा—किं च
( नेपथ्ये = सज्जागृहे ) आश्चर्यम् = विस्मयः अरे अद्भुतं वृत्तम् ।
राजा—( आकर्ण्य = कर्णं दत्वा, निशम्य ) किन्नु खलु स्यात् = किमेतत् स्यात किमिदं जातमित्याशयः ।
पुरोहितः—( सविस्मयं = साश्चर्यम् ) देव ! =महाराज-अद्भुतं =आश्चर्यजनकं संवृत्तं = सञ्जातम्, घटितम् ।
राजा—किमिव = विघटितम् ।
पुरोहितः—देव =महाराज ! कण्वशिष्येषु =कण्वान्तेवासिषु परावृत्तेषु = आश्रमाभिमुखं प्रयातेषु सत्सु ।
अन्वयः—सा बाला स्वानि भाग्यानि निन्दन्ती ( सती ) बाहूत्क्षेपं क्रन्दितुं प्रवृत्ता अभूत् ।
दुष्यन्तपुरोहितो ब्रूते—सेति। सा = त्वया साक्षात्कृता बाला =षोडशवार्षिकी मुनिकन्यका शकुन्तला स्वानि भाग्यानि निन्दन्ती = निजानि प्रतिकूलानि भागधेयानि संशन्ती अधिक्षिपन्ती बाहूत्क्षेपं = बाहू उत्क्षिप्य ऊर्ध्वं क्षिप्त्वा दुःखातिशयवशात् बाहूद्वयमूर्ध्वं क्षिप्वेत्यर्थः क्रन्दितुं = उच्चैर्विलपितुं प्रवृता = प्रवृत्तमात्रा च अभूत् । सोरस्ताडं रोदितुमारेभे ।
राजा—किञ्च = ततः ।
( नेपथ्य में ) बड़े ही आश्चर्य की बात है, बड़े ही आश्चर्य की बात है।
राजा—( कान देकर सुनता हुआ ) हैं आश्चर्य की क्या बात हो सकती है ?
( प्रवेश कर )
पुरोहित—( विस्मय के साथ ) महाराज ! बड़ी ही अद्भुत घटना हुई ।
राजा—वह क्या ?
पुरोहित—महाराज ! जब महर्षि कण्वजी के शिष्य वापस चले तब अपने भाग्य कोसती हुई वह बाला हाथ उठाकर = छाती-पीट कर रोने लगी ।
राजा—तब फिर क्या हुआ ?
पाठ०—१. वृत्तम् ।
२७८ | अभिज्ञानशाकुन्तलम्
पुरोहितः—
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ ३० ॥
( सर्वे विस्मयं रूपयन्ति )
**राजा—**भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव। किं वृथा तर्केणान्विष्यते। विश्राम्यतु भवान्।
पुरोहितः— **अन्वयः—**स्त्रीसंस्थानम् एवं ज्योतिः आरात् एनाम् उत्क्षिप्य अप्सरस्तीर्थं जगाम।
तत्क्षणमेव 'स्त्रियाः = नार्या संस्थानं = आकृतिरिवाकृतिर्यस्य तत् स्त्रीसंस्थानम् एकम् = अनिर्वचनीयं ज्योतिः = तैजसं शरीरम् आरात् = समीपादेव एनां मामनुगच्छन्तीं मुनिकन्यकाम् उत्क्षिप्य = उत्तोल्य उत्थाय अप्सरस्तीर्थं तन्नामकं समीपवर्तितीर्थविशेषं शचीतीर्थं जगाम = तदभिमुखं प्रतस्थे।
**अयं भावः—**आत्मना साकं प्रस्थितां शकुन्तलां स्वसद्मनि नयन् मध्येमार्गं किमप्याश्चर्य-वृत्तमवलोक्य पुरोधाः प्रतिनिवृत्य राजानं दुष्यन्तमवोचत् महाराज ! तापसेषु तपोवना-भिमुखं प्रयातेषु स्वानि दुर्भाग्यानि अधिक्षिपन्ती त्वया त्यक्ता सा मुनिकन्यका यदा सोरस्ताडं रोदितुमारेभे तदा तत्कालं स्त्री शरीरधारि एकं तेजः सहसा समागत्य एनामादाय अप्सरस्तीर्थाभिमुखमगच्छत् अत्र क्रियासमुच्चयालङ्कारः शालिनीवृत्तञ्च ।३०॥
( सर्वे = सकलाः जना विस्मयम् = आश्चर्यं रूपयन्ति = अभिनयन्ति नाटयन्ति )
**राजा—**तस्यास्तिरोधानं नभे दुःखावहमिति पुरोधसमाह-भगवन् ! = सोमरात ! प्रागपि = इत प्रस्थानात्पूर्वमपि सोऽर्थः = मुनिकन्यकारूपः प्रसङ्गः, अस्माभिः = मया प्रत्यादिष्टः = परपरिग्रहरूपत्वात् प्रत्यादिष्ट एव। अतस्तिरोधानेन न मे कापि क्षतिरिति भावः। किं वृथा = व्यर्थं काकदन्तपरीक्षणवत् तर्केण = उपपत्त्या, युक्त्या ऊहेन वा अन्विष्यते गवेष्यते, अनुगम्यते। सा परपरिग्रहेण वा, सा कुलगता, केन नीता इत्यादि विचारणा न कार्येति भावः। भवान् = श्रीमान् विश्राम्यतु = मुनिकन्याविषयीणीं वार्ता विहाय स्वस्थो भवतु इत्यर्थः।
**पुरोहित—**उस समय अप्सरातीर्थ = शचीतीर्थ के पास स्त्री के आकार प्रकार की प्रचण्ड ज्योति बिजली सी चमक कर निकली और उसे गोदी में लेकर अन्तर्धान हो गई।
**विशेष—**इस पद्य में उपात्त आरात् शब्द से दूर और समीप दोनों ही अर्थ अभिप्रेत हैं। अतः एक विद्वान् ने यह भी अर्थ किया है कि वह तेजोमयी मूर्ति दूर से ही शकुन्तला को उठाकर शचीतीर्थ को चली गयी। संस्थान पद से प्रतीत होता है कि वह स्वरूप स्पष्ट दिखाई दिया, किन्तु वस्त्र एवं अलङ्करणों से इतना ही आभास हुआ कि यह कोई स्त्री है। स्त्री ज्योति कहने का तात्पर्य है कि अभीतक शकुन्तला को किसी पुरुष का स्पर्श नहीं हो पाया है। आगे स्पष्ट होगा कि वह ज्योति शकुन्तला की मां मेनका थी, जो अपनी पुत्री को उस प्रकार विह्वल देखकर उठा ले गई। अप्सरातीर्थ में अप्सराओं के रहने और जलक्रीड़ा करने का संकेत मिलता है।
( सभी आश्चर्य का अभिनय करते हैं। )
**राजा—**मैंने इस बात का पहले ही खण्डन कर दिया है कि वह स्त्री मेरी भार्या नहीं है। अतः अब आप उसके विषय में व्यर्थ तर्क लगाकर चिन्ता न करें। शान्ति से बैठिए, जाइए विश्राम कीजिए।
पञ्चमोऽङ्कः
२७९
पुरोहितः—( विलोक्य ) विजयस्व । ( इति निष्क्रान्तः )
राजा—वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी—इदो इदो देवो । [ इत इतो देवः ] ( इति प्रस्थिता )
राजा—
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव ^१मे हृदयम् ॥ ३१ ॥
( इति निष्क्रान्ताः सर्वे )
( पञ्चमोऽङ्कः । )
पुरोहितः--( विलोक्य = दृष्ट्वा ) पुरोधाः विजयस्व = जयं लभतां महाराजः । ( इति = एवमुक्त्वा निष्क्रान्तः = निर्गतः )
राजा--मनसि कमपि सन्तापमनुभवन् प्रतिहारीमादिशति—वेत्रवति ! यष्टिधारिणि द्वारपालिके ! ऋषिकुमार-मुनिकन्यादिविषयकवचःप्रतिवचो दुरुत्तरक्लेशेन पर्याकुलः = श्रान्तः, व्यग्रः अस्मि । शयनभूमिमार्गं शयनस्य = शय्यायाः भूमेः = स्थलस्य मार्गं = पन्थानं आदेशय निर्दिश कथय सूचय ।
प्रतीहारी—इत इतो देवः = अनेन मार्गेण चलतु, अनेन मार्गेण चलतु देवः = महाराजः । ( इति = एवमुक्त्वा प्रस्थिता = प्रचलिता )
राजा—नृपो दुष्यन्तः आत्मनः पर्याकुलतां वर्णयति—काममिति ।
अन्वयः—कामं प्रत्यादिष्टां मुनेः तनयां परिग्रहं न स्मरामि तु बलवत् दूयमानं मे हृदयम् प्रत्यायतीव ।
पुरोहितादिकं विसृज्य वेत्रवत्या निर्दिष्टं शयनागारं गत्वा आकुलेतेन्द्रियो राजा दुष्यन्तः तामेव शकुन्तलां विमृशन्नाह—काममिति । काम = यद्यपि अतिशयेन वा प्रत्यादिष्टां = निराकृतां, भार्यात्वेनाङ्गीकृताम्, दूरनिरस्तत्वाददर्शनं गताम्, मुनेः = महर्षेः कण्वस्य तनयां, कन्यां दुहितरं शकुन्तलाम् परिग्रहं = पत्नीं न स्मरामि = पूर्वंस्त्रीत्वेना-ङ्गीकृतवानस्मीति न स्मरामि न विभावयामि । तु = तथापि पुनंर्वा बलवत्—अत्यर्थम् चित्तम् प्रत्याययतीव = विश्वासमुत्पादयतीव बलवद्दूयमानत्वान्मम हृदयं तु मुनिकन्या मत्परिग्रहभूतेति मां प्रत्याख्यातारं दुष्यन्तं विश्वासं जनयतीत्यर्थः ।
पुरोहित—( देखकर ) महाराज की विजय हो ( चला जाता है ) ।
विशेष—राजा खिन्न है, शकुन्तला के प्रसंग को सुनना नहीं चाहता है । इसलिए झिझककर उसने पुरोहित से कहा कि मैं इस समय कुछ भी सुनना नहीं चाहता हूँ आप तर्क वितर्क छोड़कर आराम कीजिए ।
राजा—द्वारपालिके ! मैं अधिक व्याकुल तथा श्रान्त हो गया हूँ । अतः मुझे शयन-कक्ष का मार्ग दिखलाओ ।
प्रतीहारी—महाराज इधर से आइए इधर से आइए । ( यह कहकर जाती है ) ।
राजा—यद्यपि उस मुनि कन्या शकुन्तला का मैंने प्रत्याख्यान तथा त्याग कर दिया है ।
पाठ० १—१. मां ।
षष्ठोऽङ्कः (अङ्गुलीयक प्राप्ति व राजा का पश्चात्ताप)
षष्ठोऽङ्कः
( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धपुरुषमादाय रक्षिणौ च । )
अर्थात् कण्वशिष्याभ्याम् ऋषिकुमाराभ्यां वृद्धया तापस्या च सह मम समीपे समागता महर्षेः कण्वस्य दुहिता नेयं मम परिग्रह इति मयातिरुषा निराकृताऽपरमिदानीं मदीयान्तःकरणं तो कण्वदुहितरमुद्दिश्य नितरां परिपीड्यते । अतो ममान्तःकरणस्याधिरेव मम मनसि क्षणिकं विश्वासं जनयति यन्मया पूर्वं नूनं परिणीता सेति नितरां पर्याकुलोऽस्मीति भावः ।
अत्रोत्प्रेक्षाऽनुमानविभावनालङ्काराः आर्या छन्दः, प्रसङ्गनामकं विमर्शं सन्ध्यङ्गञ्चोपक्षिप्तम् मुनेः तनयेति गुरुकीर्तनात् । तल्लक्षणं यथा—
‘प्रसङ्गश्चैव विज्ञेयो, गुरूणां कीर्तनं हि यत्’ ॥३१॥
( इति—पश्चात् सर्वे = सकला अभिनेतारः निष्क्रान्ताः रङ्गमञ्चाद् बहिर्गताः )
अस्याङ्कस्यान्तिमेन कामं प्रत्यादिष्टामिति पद्येन अग्रिमस्य षष्ठस्याङ्कस्य कृते बिन्दोरूपक्षेपः कृतः । अस्मिन् पञ्चमेऽङ्के दुष्यन्तस्य शकुन्तलायाश्च वर्णितेन प्रतिकूलवचनचातुर्येण षष्ठेऽङ्के वर्णयिष्यमाणो विप्रलम्भशृङ्गारः परिपोषमेति ।
इति कविवरकालिदासेन प्रणीतस्याभिज्ञानशाकुन्तलनामकनाटकस्य
पञ्चमेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता
विमलाख्या व्याख्या समाप्ता ।
अथास्मिन् षष्ठेऽङ्के नाटकनायकस्य नृपतेः दुष्यन्तस्य शकुन्तलायाः परित्यागात् जायमानेनानुतापेन परिपोषितो विप्रलम्भशृङ्गारो वर्णयिष्यते । तत्रादौ पूर्वरङ्गभूतां शापनिवृत्तिं प्रदर्शयितुं प्रवेशकमारभते—तत इति ।
( ततः = तदनन्तरं प्रविशति = रङ्गे दृश्यते नगरं रक्षति तत्र नियुक्तो वा नागरिकः = नगरनिवासिनां रक्षणार्थं राज्ञाधिकृतः = नगररक्षकः श्यालः = पृष्ठमागबद्धभुजयुगलं पश्चाद्बद्धपुरुषं = बाहुपृष्ठतः संगमय्य तयोर्बद्धं, पुरुषं आदाय = गृहीत्वा रक्षिणौ = रक्षापुरुषौ = प्रहरिणौ च )
अपने विवाह की बात का मुझे स्मरण नहीं हो रहा है, किन्तु अत्यन्त खिन्न एवं व्याकुल मेरा मन तो इस बात को सिद्ध करता है कि यह अवश्य मेरी स्त्री होनी चाहिए ॥ ३१ ॥
विशेष— शकुन्तला के साथ दैवी घटना के बाद दुष्यन्त को विश्वास हो गया कि मैंने किसी दिव्य आत्मा का अपमान किया है मेरी स्मृति ने मुझे धोखा दिया है राजा को स्मरण न रहने के कारण उनका मन रह रहकर उन्हें धिक्कार रहा है कि राजन् तुमने अपनी परिणीता पत्नी का त्याग कर बहुत बड़ी गलती कर दी है।
( इसके सभी पात्र रंगमंच से बाहर निकल जाते हैं )
( नगर की रक्षा में नियुक्त राजा के साले कोतवाल का तथा उनके पीछे दोनों हाथ बँधे हुए एक पुरुष धीवर को पकड़े हुए दो सिपाहियों का प्रवेश )
षष्ठोऽङ्कः
२८१
रक्षिणौ—( ताडयित्वा ) अले कुम्भीलआ । कहेहि कहिं तुए एशे मणिबंध-णुक्किण्णणामहेए लाअकीए अंगुलीअए शमाशादिए । [ अरे कुम्भीलक कथय कुत्र त्वयेतन्मणिबन्धोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ]
पुरुषः—( भीतिनाटितकेन ) पशीदंतु भावमिश्रे । हगे ण ईदिशकम्मकाली । [ प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी । ]
रक्षिणौ—(रक्षाधिकृतपुरुषौ पुरुषं ताडयित्वा=आहत्य) अरे=रे कुम्भीलक ! चोर ! 'कुम्भरीको गण्डपदः तस्करश्च मलिम्लुचः' इति नाममाला। 'कुम्भिलः शालमीने च चौरश्लोकार्थचौरयोः' इति मेदिनीकोशश्च। कथय = वद कुत्र = क्व त्वया एतत् इदं पुरो निहितम, मणिबन्धनं = मणिजटितं च उत्कीर्णं = उल्लिखितं नामधेयं = अभिधानं नामाक्षराणि यस्मिन् तत् मणिबन्धनोत्कीर्णनामधेयम् = उट्टङ्कितराजनामाक्षरम् राजकीयं-राजसम्बन्धि अङ्गुलीयकं = मुद्रा समासादितं प्राप्तम्।
पुरुषः—(बद्धो जनः भीत्या = भयेन नाटकितेन = भयं नाटयित्वा अभिनयेन वदति) यत् प्रसीदन्तु सकृपाः भवन्तु भावमिश्राः = मान्यवराः अहं न ईदृशं कर्म कर्तुं शीलं
दोनों सिपाही—( पुरुष को मारते हुए ) अरे चोर, बता जड़ी हुई मणि पर खुदे हुए नाम से युक्त यह राजा की अंगूठी तुमने कहाँ पाई।
**विशेष—**नागरिक शब्द का वास्तविक अर्थ नगरनिवासी, चतुर, चालाक, प्रवीण, कुशल आदि होता है। प्राचीनकाल में नगर-रक्षा का भार राजा के साले पर होता था। साला राजा का निकटतम सम्बन्धी है, अतः उस पर पूर्ण विश्वास रहता था। सगे सम्बन्धियों से धोखे की संभावना कम रहती है। इसलिए नगररक्षक को संस्कृत भाषा में श्याल और राष्ट्रिय भी कहा जाता है—राजश्यालस्तु राष्ट्रियः। इस प्रकार प्राचीनकाल में बहुविवाह के अनुसार राजाओं की कई स्त्रियां हुआ करती थीं, उनके भाई आदि को भी प्रधान राजकीय पदों पर रखा जाता था। उनके भी साले आदि उनके अन्दर कार्य किया करते थे। ये सभी राजा के प्रधान अधिकारी को आवुत्त=जीजाजी कहा करते थे। आवुत्त शब्द का वास्तविक अर्थ जीजाजी = बहन के पति अर्थात् बहनोई होता है किन्तु प्राचीनकाल में कुछ लोग अपने बड़े अधिकारी को भी आवुत्त कहा करते थे।
वास्तविक स्थिति का पता लगाने के निमित्त पुलिस द्वारा पीटने की प्रथा अतिप्राचीन है। आजकल की तरह ही जिस व्यक्ति पर शक होता था उसे अपराधी समझकर पीटा जाता था, जिससे वह भयभीत होकर सच्ची बात बता देता था। आजकल भी पुलिस अधीक्षक, नगर कोतवाल या जिलाधीश के सामने सिपाही अपनी कारगुजारी बढ़चढ़कर दिखाते हुए अपराधी को अपमानित करने का प्रयास करते हैं। इस प्रकार नगर की रक्षा करने में नियुक्त अधिकारी को कोष्ठपाल कोट्टपाल तथा श्याल भी कहा गया है।
कुम्भीरक शब्द निपात से निष्पन्न होता है—कु = पृथ्वी दीवार को भेदन = सेंध देने वाले को 'कुम्भीरक कहते हैं तथा मगर के समान चोरी से प्राणियों को पकड़ने के कारण ही समान आचरण करने वाले चोर को भी कुम्भीरक कहा जाता है।
पहले सोने की अंगूठी में बहुमूल्य मणि जड़ी रहती थी, जिसके ऊपर राजा के नाम खुदे रहते थे, जिससे समय समय पर अत्यावश्यक कागज पत्रों पर मुहर भी लगाई जाती थी। महाराज दुष्यन्त की अँगूठी भी इसी प्रकार की थी।
पुरुष— ( भय का अभिनय करता हुआ ) हे मालिक ! मुझ पर दया कीजिए। मैं ऐसा अनुचित कार्य-चोरी करने वाला नहीं हूँ।
२८२ अभिज्ञानशाकुन्तलम्
**प्रथमः—**किं सोहणे बम्हणोत्ति कलिअ रज्जा पडिग्गहे दिण्णे। [ किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः। ]
**पुरुषः—**सुणध दाणिं। हगे शक्कावदालब्भंतरालवाशी धीवले।] शृणुत- दानीम्। अहं शक्रावताराभ्यन्तरालवासी धीवरः। ]
**द्वितीयः—**पाइच्चल किं अम्हेहिं जादो पुच्छिदा। [ पाटच्चर किमस्माभिर्जातिः पृष्टा। ]
**श्यालः—**सूअअ कहेदु शव्वं अणुक्कमेण मां णं अंतरा पडिबंधह। [ सूचक कथयतु सर्वमनुक्रमेण। मैनमन्तरे प्रतिबन्धय।
**उभौ—**जं आवुत्ते आणवेदि। कहेहि। [ यदावुत्त आज्ञापयति। कथय। ]
यस्य स ईदृशकर्मकारी = ईदृशस्य = स्तेयरूपस्य कर्मणः कर्ता नाहमस्मि। अर्थान्नेदमङ्गु- लीयकं मया चौर्येणासादितम्।
**प्रथमः—**अन्यतरो रक्षी, राजपुरुषो मनसा तं चौरमवधार्य छलेनोपहसति—किं शोभनः = श्रेष्ठः विद्यातपोनिष्ठः ब्राह्मणः = पवित्रविप्रः इति = एवं कलयित्वा = मत्वा राज्ञा = नृपेण **प्रतिग्रहः—**प्रतिगृह्यते इति प्रतिग्रहः = देवद्रव्यं, दानम् दत्तः = अर्पितः। इति सोपहासं वचः।
पुरुषः—शृणुत = आकणर्यत यूयम् इदानीं = अधुना अहं शक्रावतारस्य–तन्नामकस्य स्थानस्य शचीतीर्थस्य अभ्यन्तराले मध्ये वसितुं शीलमस्येति शक्रावताराभ्यन्तरालवासी धीवरः कैवर्तः मत्स्यजीवी पाटयन् = विदारयन् चरति भ्रमतीति पाटच्चरः तत्सम्बुद्धौ हे पाटच्चर।
**द्वितीयः—**तं पुरुषं भीषणन् अपरः रक्षापुरुषः वदति–रे पाटच्चर ! अरे चोर ! किम् अस्माभिः जातिः पृष्टा ? इदमङ्गुलीयकं, कुतो लब्धमिति पृष्टं न तु जातिः पृष्टेत्यर्थः। ‘दस्युः पाटच्चरः स्तेनः’ इति हैमः।
श्यालः—राष्ट्रियः कोष्ठपालः कथयति—हे सूचक ! सर्वं = सकलं घटितम् अनुक्रमेण क्रमशः कथयतु = वदतु विवृणोतु चोरः, मा एनं नैनमिमं, अन्तराले = मध्ये प्रतिबन्धय= बाधां देहि। तर्जनेन विघ्नं मा कुरु।
उभौ—द्वौ रक्षको कथयतः आवृत्तः = भगिनीपतिः यत् आज्ञापयति = आदिशति ‘भगिनोपत्तिरावृत्तः’ इत्यमरः तत् कथय = वद।
**पहला सिपाही—**यदि तूने चोरी नहीं की है तो क्या तुझे सत्यपालक ब्राह्मण समझकर महा- राज ने तुझे यह अपनी अंगूठी दी है।
**पुरुष—**नहीं, नहीं सुनिए तो सही—शक्रावतार तीर्थ का रहने वाला धीवर = मत्स्यजीवी मल्लाह हूँ।
**दूसरा सिपाही—**अरे चोर ! हम क्या तुमसे तेरी जात पूछ रहे हैं ?
**श्याल—**कोतवालजी ने कहा—सूचक ! क्रमशः इसे सब बातें कहने दो, बीच में मत टोको।
**दोनों सिपाही—**सरकार का हुक्म ! अच्छा, तो, कह रे, कह।
षष्ठोऽङ्कः २८३
पुरुषः—अहक्के जालुग्गालादिहिं मच्छबंधणोवाएहिं कुटुंबभरणं कलेमि ।
[ अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । ]
श्यालः—( विहस्य ) विशुद्धो दाणिं आजीवो । [ विशुद्ध इदानीमाजीवः । ]
पुरुषः—
शहजे किल जे विणिंदिए ण हु दे कम्म विवज्जणीअए ।
पशुमालणकम्मदारुणे अणुकंपामिदु जेव्व शोत्तिये ॥ १ ॥
[ सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ ]
पुरुषः—अहं = अयं जनः जालं = आनायः उद्गालो नाम शरादिरचितो मत्स्य-ग्रहणसाधनविशेषो वडिशः जालानि = च उद्गालानि च जालोद्गालं तत् आदिः येषां ते तैः जालोद्गालादिभिः = जालवडिशप्रभृतिभिः मत्स्यबन्धनोपायैः मत्स्यानां = मीनानां बन्धनेन = ग्रहणेन उपायैः = साधनैः कुटुम्बस्य = परिवारस्य = भरणं = पालनमिति कुटुम्बभरणम्, परिवारपालनपोषणं करोमि = विदधामि ।
श्यालः--( विहस्य = हसित्वा ), विशुद्धः = सुपवित्रः आजीवः = जीविकासाधनम् ।
पुरुषः--हे भर्तः ! हे स्वामिन् मैवं=एवं = मा भण मम आजीवं मा निन्देतिभावः ।
अन्वयः—यत् किलं विनिन्दितं कर्म सहजं तत् खलु न विवर्जनीयम् अनुकम्पामृदुः श्रोत्रिय एव पशुमारण कर्मदारुणः ( भवति ) '
राज्ञो दुष्पन्तस्य श्यालकपरिहासपरिहर्तुकामो धीवरो निकृष्टमपि स्वजातीयमाजीवं न त्याज्यमित्यभिसन्धत्ते—सहजमिति । यत् किल यद्धि खलु विनिन्दितं = गर्ह्यं कर्म सहजं जन्मना सह जातम्, कुलक्रमागतम् तत्तस्य धर्मतया विहितं जातिनिश्चितमितिभावः । अत एव तत् = कर्म न खलु = निश्चयेन विवर्जनीयं नैव त्याज्यं यस्य यत्कर्म निन्दितमपि सहजं तस्य तत्कर्म न खलु विवर्जनीयमपितु अनुष्ठेयमेव शास्त्रवचनादि भावः यथोक्तं—
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न दुष्यति ॥
अनुकम्पामृदुः = अनुकम्पया = करुणया मृदुः = कोमलः अनुकम्पामृदुः = दयामृदुः श्रोत्रिय एव वेदोक्तकर्मनिरतो वैदिक ब्राह्मण एव पशुमारणकर्मदारुणः पशूनाम् = अजमेषादीनां मारणं = घातः = यज्ञे वधः तेन कर्मणा = तदनुष्ठानेन दारुणः=घोरः भवति ।
धीवर—मैं जाल, काँटी आदि मछली पकड़ने के साधनों से अपने कुटुम्बों = बालबच्चों का पालन पोषण किया करता हूँ ।
श्याल—(हँसकर) वाह ! इसकी जीविका तो बहुत बढ़िया है। अर्थात् यहाँ अफसर ने मजाक उड़ाते हुए कहा है इसकी जीविका बहुत बुरी है ।
धीवर—हे मालिक ! ऐसा मत कहिए । अपने स्वाभाविक कर्म-धर्म को यदि बुरा भी प्रतीत हो तो, उसे कभी नहीं छोड़ना चाहिए । देखिए दया से कोमल हृदयवाला श्रोत्रिय = वैदिक विद्वान् भी यज्ञों में पशुओं को मारने का क्रूर कार्य करते ही हैं ।
विशेष—इस पद्य से प्रतीत होता है कि कविवर कालिदास के समय पशुबलि की प्रथा प्रचलित थी और समाज में इस कार्य को आदर की दृष्टि से देखा जाता था, इसको स्पष्ट करते हुए एक साधारण मत्स्यजीवी भी कहता है कि लोकनिन्दित को भी अपनी जाति का पेशा नहीं छोड़ना चाहिए,
२८४ || अभिज्ञानशाकुन्तलम्
श्यालः—तदो तदो। [ ततस्ततः। ]
पुरुषः—एक्कंशिं दिअशे खंडशो लोहिअमच्छे मए कप्पिदे जाव तश्श उदलब्भंतले एदं लदणभाशुलं अंगुलीअअं देखिअअ पच्छा अहके शे विक्कआअ दंशअंते गहिदे भावमिश्रेहि। मालेह वा मुचेह वा। अअं शे आअमवृत्तंते। [ एकस्मिन् दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः। यावत्तस्योदराभ्यन्तर इदं रत्नभासुरमङ्गुलीयकं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः। मारयत वा मुञ्चत वा। अयमस्यागमवृत्तान्तः। ]
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।
सहजं कर्म कौन्तेयः सदोषमपि न त्यजेत्।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥
अयं भावः—इत्यादि भगवद्गीता वचनस्मरणात् नैसर्गिकॊ दयासागरोऽपि वैदिको ब्राह्मणः यज्ञाङ्गतया विहिते यज्ञादौ पशुना हिंसने स्वाभाविके स्वकीये कर्मणि त्यक्तदयः सन् प्रवृत्तः पशुमारणं दारुणं कर्म समचरति। एवमेव ममापि धीवरस्य जालोद्गालादि-भिर्मत्स्यबन्धनोपायैर्मत्स्यान् व्यापाद्य तद्द्वारा कुटुम्बभरणपोषणात्मको जीविकोपायो नोपहसितुं योग्य इति भावः। अत्र विरोधाभासोऽलङ्कार आर्या छन्दश्च ॥ १ ॥
श्यालः—ततः ततः = अग्रिमं वृत्तान्तं कथय।
पुरुषः—बद्धपुरुषः एकस्मिन् दिवसे = कस्मिंश्चिद्दिने मया रोहितमत्स्यः रोहित-नामको मीनः खण्डशः = खण्डं खण्डं कल्पितः = खण्डितः ‘कल्पनं कर्तनं क्लृप्तौ’ इति विश्वः, तावत् खण्ड्यमानस्य तस्य रोहितमत्स्यस्य उदराभ्यन्तरे = जठरमध्ये, रत्नेन = मणिना-भासुरं = देदीप्यमानं = रत्नभासुरं = प्रत्युप्तरत्नप्रभासमानम्, अङ्गुलीयकम् = मुद्रां दृष्ट्वा = अवलोक्य पश्चात् = तदनन्तरं अहं तस्य अङ्गुलीयकस्य विक्रयार्थं = विक्रयं कर्तुं = दर्शयन् = रत्नापाणिकेभ्यो मूल्यनिर्धारणाय प्रदर्शयन्नेव भावमिश्रैः भवद्भिः
क्योंकि बौद्ध आदि के द्वारा जीव हिंसा निन्दित होने पर भी जीवों पर अनुकम्पा करने वाले परम दयालु ब्राह्मण भी यज्ञ-कार्य में यज्ञाङ्ग पशुबलि को करते ही हैं। अतः मैं मछलियों के मारने का जातीय पेशा करता रहता हूँ। श्रीमद्भगवद्गीता आदि धार्मिक ग्रन्थों में भी अपने सहज=स्वाभाविक कर्म को करते रहने का आदेश दिया गया है—"स्वधर्मे निधनं श्रेयः परधर्मो भयावहः।" ब्राह्मण जाति में जन्मग्रहण करने से मनुष्य ब्राह्मण कहा जाता है ब्राह्मणोचित संस्कार सम्पन्न होने पर द्विज तथा विद्या अध्येता की विप्र संज्ञा है। श्रोत्रिय उस ब्राह्मण को कहते हैं, जो जन्म से तो ब्राह्मण हो ही ब्राह्मणोचित संस्कार और विद्या अध्ययन कर कर्मणा भी ब्राह्मण हो। इस प्रकार जन्म विद्या और संस्कार इन तीनों से सम्पन्न द्विज होता है—
“जन्मना ब्राह्मणो ज्ञेयः संस्काराद्द्विज उच्यते। विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय एव च।”
अतः कृपया मेरा इस कार्य के लिए उपहास न करें।
श्यालः—हाँ, हाँ, आगे कह तब आगे क्या हुआ ?
धीवर—एक दिन मैंने रोहू मछली पकड़ी और उसको काट काटकर टुकड़े करने पर जब मैंने उसके पेट के अन्दर देखा, तो महारत्न से चमकती हुई यह अंगूठी दिखाई दी, फिर इसे बाजार में बेंचने के लिए मैंने ज्योंही दिखाई त्यों ही आपलोगों ने मुझे पकड़ लिया। बस, यही अंगूठी मिलने की वास्तविक बात है। अब आप चाहें तो मुझे मारें या पीटे या छोड़ दें।
षष्ठोऽङ्कः
२८५
श्यालः—जाणुअ, विस्सगंधी गोहादी मच्छबंधो एव्व णिस्संसं अंगुलीअ-अदंसण शे विमरिजिदव्वं। राउउलं एव्वं गच्छामो। [ ( अङ्गुलीयकमाघ्राय ) जानुक विस्रगन्धो गोधादी मत्स्यबन्ध एव निःसंशयम्। अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम्। राजकुलमेव गच्छामः। ]
रक्षिणौ—तह। गच्छ अले गंडभेदअ। [ तथा। गच्छ अरे गण्डभेदक। ] ( सर्वे परिक्रामन्ति )
श्यालः—सूअअ इमं गोपुरदुआरे अप्पमत्ता पडिवालह जाव इमं अङ्गुलीअअं जहागमणं भट्टिणो णिवेदअ तदो सासणं पडिच्छिअ णिक्कमामि। [ सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीकं यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रमामि। ]
गृहीतः = बद्धः संयतः। मारयत वा मुञ्चत वा = सापराधं मां दण्डयत निर्दोषं वा मत्वा मुञ्चत वा। अयं = मदुक्तः अस्य = अङ्गुलीयस्य = आगमवृत्तान्तः = प्राप्तिकथा।
श्यालः—(अङ्गुलीयकमाघ्राय) जानुक! विस्रस्य = आमगन्धस्य गन्धोऽस्ति अस्येति विस्रगन्धी, गोधामत्तूशीलमस्येति गोधादी = गोधामक्षकः मत्स्यान् = मीनान् बध्नातीति मत्स्यबन्धः = धीवरः एव निसंशयं = निःसन्देहम्। एतच्छरीरस्य अपक्वमांसं गन्धयुक्तत्वात् गोधाशनो धीवर एवायामिति निश्चितम्। अथाप्यस्याङ्गुलीयलाभो विचारणीय इत्याह—अङ्गुलीयकमिति। अङ्गुलीयकदर्शनम् अङ्गुलीयकस्य = मुद्रायाः दर्शनं = वीक्षणम् अस्य = धीवरस्य विमर्शनयितव्यम् = विचारयितव्यम्—अङ्गुलीयाकगमवृत्तान्तो योऽनेनोक्तः सोऽपि सत्यो न वेत्यप्यालोचनीयमिति भावः अत एव राजकुलं = राजभवनं, नृपसभामेव गच्छामः = व्रजामः, तत्र स्वामिने निवेदयामः स एव विमृशतु सत्यं न वेति भावः।
रक्षिणौ—तथा = आम् गच्छ = व्रज अरे रे ग्रन्थभेदक! ग्रन्थिच्छेदक चोर!
( सर्वे समस्ताः परिक्रामन्ति = गमनं नाटयन्ति )
श्यालः—सूचक! इमं—बद्धं धीवरं गोपुरद्वारे = नगरद्वारे पुरद्वारप्रवेशमार्गे अप्रमत्तौ = सावधानौ प्रतिपालयतम् = रक्षतम् यावत् = यावदवधि इदं = प्रस्तुतम् अङ्गुलीयकम् = मुद्राम्, आगमनमतिक्रम्य यथागमनम् = आगमनवृत्तान्तकथनपूर्वकम् भर्तुः =
श्याल—(अँगूठी को सूँघकर) अरे जानुक! यह अंगूठी मछली के पेट से ही निकली हुई प्रतीत हो रही है, क्योंकि इसमें मछली की गन्ध आ रही है। और यह भी मछुआ ही मालूम पड़ता है, क्योंकि इसके शरीर से भी मछली की बुरी गन्ध आ रही है। अब विचारना यही है कि यह अंगूठी मछली की पेट में पहुँची कैसे? इसलिए आवो अब हम लोग दरबार में ही चलें, वहाँ इसका पता चलेगा।
विशेष—गम्भीर पानी में रहने वाले गोहनामक जलजन्तु को संस्कृत में गोधा कहते हैं। प्रसिद्धि है कि रस्सी में बांधकर चोर इसे दीवार पर फेंक देते हैं, वह वहां चिपक जाती है, जिसके सहारे चढ़कर चोरी करने वालों को सुविधा हो जाती है। जड़ी-बूटी में मिलकर ताकत के लिए इसे कुछ शौकीन खाते भी हैं। मछुये मछली, गोधा आदि को पकड़ते खाते और बेचते रहते हैं। इससे उनके शरीर से भी इसकी बदबू आती रहती है।
दोनों सिपाही—जी, अच्छा (धीवर से) चल रे गिरहकट! चल, (सभी जाते हैं)
श्याल—अरे सूचक! तुमलोग यहीं दरबार के गेट पर सावधानी से ठहरो और मेरी प्रतीक्षा
| २८६ | अभिज्ञानशाकुन्तलम् |
|---|
उभौ--पविसदु आबुत्त शामिपशादश्श। [ प्रविशत्वावुत्तः स्वामिप्रसादाय । ]
( इति निष्क्रान्तः श्यालः )
प्रथमः-जाणुअ, चिलाअदि खु आवुत्ते । [ जानुक चिरायते खल्वावुत्तः । ]
द्वितीयः--णं अवशलोवशप्पणीआ लाआणो । [ नन्ववसरोपसर्पणीया राजानः । ]
प्रथमः--जाणुअ, फुल्लंति मे हत्था इमश्श वज्झस्स शुमणो पिणद्धुं । [ जानुक, प्रस्फुरतो मम हस्तावास्य सुमनस पिनद्धुम् । ] ( इति पुरुषं निर्दिशति । )
भर्त्रे स्वामिने निवेद्य = कथयित्वा ततः = भर्तुः शासनम् = आदेशं प्रतीक्ष्य = गृहीत्वा, निष्क्रमामि = निर्गच्छामि-यावन्निर्गच्छामि तावत् प्रतिपालयतमिति भावः ।
उभौ—आवुत्तः = भगिनीपतिः स्वामिप्रसादस्य स्वामिनः = महाराजस्य प्रसादाय = प्रसन्नतायै अनुग्रहं लब्धुं प्रविशतु = अन्तः गच्छतु । अङ्गुलीयकस्य लाभाद्राजा नूनं त्वयि प्रसीदेदिति भावः ।
( इति = एवमुक्त्वा श्यालः = नगररक्षाधिकारी निष्क्रान्तः = निर्गतः )
प्रथमः--यत् हे जानुक । आवुत्तः = भगिनीपतिः चिरायते = विलम्बते खलु = निश्चयेन ।
द्वितीयः--यत् ननु = न जानासि राजानः = नृपाः अवसरोऽयं रूपणीयाः अवसरे = उचिते काले एव उपसर्पणीया उपगन्तव्याः दर्शनीयाः प्राप्तव्या भवन्ति । आज्ञां लब्ध्वैव राजानं द्रष्टुं शक्नोति जनः, न यथारुचि, नहि राज्ञो दर्शनं भृत्यैः सर्वदा लब्धुं शक्यम् अतो विलम्ब इति भावः ।
प्रथमः—जानुक ! मम = मे **हस्तौ=**करौ **अस्य=**बद्धधीवरस्य वधार्थं वधाय, घाताय सुमनसः = पुष्पाणि वध्यचिह्नभूतां पुष्पमालां पिनद्धं = परिधापयितुं बन्धुं प्रस्फुरतः = स्पन्देते । अस्य कण्ठे बध्यचिह्नभूतां रक्तपुष्पमालां निक्षिप्य राजाज्ञया एनं हन्तुमह-मुत्सुकोऽहमिति भावः ( इति = एवमुक्त्वा पुरुषं निर्दिशति = संकेतयति )
करो । तब तक मैं महाराज के समक्ष इस अंगूठी को उपस्थित कर इसके पाने का पूरा-पूरा समाचार कहकर उनकी आज्ञा लेकर शीघ्र ही आता हूँ ।
दोनों सिपाही—जाइए महाराज से इनाम और तरक्की पाने को जाइए ।
( यह कहकर नगर रक्षाधिकारी चले जाते हैं )
पहला सिपाही-( सूचक ) अरे जानुक ! कोतवाल साहब को गये बहुत देर हो रही है-क्या बात है ?
दूसरा सिपाही—अरे भाई राजा लोगों का मिलना तो मौके से ही होता है । इसमें देर लगना तो साधारण बात है ।
प्रथम सिपाही—हे जानुक इसको लाल फूल की माला पहना कर फांसी के तख्ते पर चढ़ाने के लिए मेरे हाथ फड़फड़ा रहे हैं। यह कहकर पुरुष ( धीवर ) की ओर संकेत करता है।
विशेष—यह पुरानी प्रथा थी कि जिसको फांसी से प्राण दण्ड दिया जाता था, उसको लाल फूलों की माला पहनाई जाती थी लाल करवीरमाला वध का सूचक होती थी, सिपाही को यह आशा थी नगररक्षाधिकारी को लौटने पर राजा के आदेश से मच्छुये को मार दिया जायेगा, क्योंकि मनुस्मृति में लिखा है कि रत्नग्रहण करने वाले चोर का वध कर देना चाहिए । सुवर्ण भी नवरत्नों में गिना जाता है और राजा की अंगूठी में भी रत्न जड़ा हुआ था—मुख्यानां चैव रत्नानां हरणे वधमर्हति ।