अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
षष्ठोऽङ्कः ३११
विदूषकः—णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा। माहवीमंडवे इमं वेलं अदिवाहिस्सं। तहि मे चित्तफलगदं सहत्थलिहिदं तत्तहोदीए सउंदलाये पडिकिदिं आणेहि त्ति। [ नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा। माधवी-मण्डप इमां वेलामतिवाहयिष्ये। तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति। ]
राजा—ईदृशं हृदयविनोदस्थानम्। तत्तमेव मार्गमादेशय।
विदूषकः—इदो इदो भवं। [ इत इतो भवान्। ] ( उभो परिक्रामतः। सानुमत्यनुगच्छति। )
विदूषकः—एसो मणिसिलापट्टअसणाहो माहवीमंडवो उवहाररमणिज्जदाए णिस्संसअं साअदेण विअ णो पडिच्छदि। ता पविसिअ णिसोददु भवं। [ एष
विदूषकः—ननु = विस्मृतं किम् ? आसन्नपरिचारिका— आसन्ना = अन्तपुरकार्येष्वभ्यन्तरा परिचारिका = चेटी चतुरिका = चतुरिकानाम्नी भवता = त्वया सन्दिष्टा = आज्ञप्ता माधवीलतामण्डपे = वासन्तीलतामण्डपे इमां वेलां = मध्याह्नसमयं अतिवाहयिष्यामि = गमयिष्ये, नेष्यामि। तत्र = तस्मिन् स्थाने मे = मह्यम्, चित्रफलकगतां = चित्रलेखनपटे वर्तमानां स्वहस्तलिखितां = निजकरकमलाङ्किताम् तत्रभवत्या = पूज्यायाः शकुन्तलाया प्रतिकृतिं = चित्रम् आनयेति चतुरिकां भवता आदिष्टा, अतः तत्रैव भवता गन्तव्यमितिभावः। मातृगुप्ताचार्यैरुक्तं परिचारिकलक्षणं यथा—
संवाहने च गान्धे च तथा चैव प्रसाधने । तथाभरणसंयोगमाल्यसंग्रथनेषु च ॥ विज्ञेया नामतः सा तु नृपतेः परिचारिकाः ।
राजा—ईदृशं = एतादृशं रमणीयं सादृश्यप्रतिकृतिदर्शनोभयसम्पादकं हृदयविनोदस्थानम् = मनोविनोददायकं प्रदेशं मम भविष्यतीति भावः तत्तदा तमेव मार्गं = तमेव पन्थानम् ( यो माधवीलतामण्डपं याति ) आदेशय = वद।
विदूषकः—इत इतो भवान् = अनेन पथा, भवान् = त्वं आगच्छतु। ( उभो = द्वौ अपि परिक्रामतः = मण्डलाकृतिं गच्छतः। सानुमती = अप्सरा, अनुगच्छति = अनुसरति ) ।
विदूषकः—एषः = अयं मणेः = रत्नस्य शिलायाः = प्रस्तरस्य पट्टकेन = खण्डकेन सनाथः युक्त इति मणिशिलापट्टकसनाथः = मणिशिलाफलकशोभितः उपहारेण = पुष्पोपायनेन रमणीयतया = कमनीयतया इति पुष्पोपायनरमणीयता = पुष्पाद्युपहाररमणीयतया
विदूषक—अरे, भूल गये समीपवर्तिनी सेविका चतुरिका को आपने आदेश दिया है कि माधवी लता के मण्डप में इस बेला को बिताऊँगा। वहीं मेरे द्वारा अपने हाथ से चित्रपट पर अङ्कित आदरणीया शकुन्तला का चित्र लाओ।
राजा—मन बहलाने की ऐसी जगह है तो उसी का मार्ग बताओ।
विदूषक—महाराज ! आप इधर आवें, इधर से आवें। (दोनों घूमते हैं। सानुमती प्रच्छन्नरूप से उनके पीछे-पीछे जाती है)
विदूषक—यह मणिमय शिलापट्ट से अलंकृत माधवीलता का मण्डप फूलों के उपहार से
| ३१२ | अभिज्ञानशाकुन्तलम् |
|---|
मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति। तत्प्रविश्य निषीदतु भवान्। ] (उभौ प्रवेशं कृत्वोपविष्टौ।)
सानुमती—लतासंसिसदा देखिस्सं दाव सहीए पडिकिर्दि। तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं। [ लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम्। ततोऽस्या भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि। (इति तथा कृत्वा स्थिता।)
राजा—सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम्। कथितवानस्मि भवते च। स भवान् ^२प्रत्यादेशवेलायां^३मत्समीपगतो नासीत्। पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम। कच्चिदहमिव विस्मृतवानसि त्वम्?
निसर्गमारुतेन = सहजेन मन्दमन्दमारुतेन च निःसंशयं = ध्रुवं स्वागतेन इव = शुभागमनमसौ समुच्चरन्निव प्रतीच्छति = सत्कारमाचरन् त्वां = भवन्तं नौ = आवां वा प्रतीच्छति = प्रत्युद्गमनेन सम्भावयतीव। तत् = तस्मात् प्रविश्य = अन्तर्गत्वा भवान् = त्वं निषीदतु = उपविशतु। ( उभौ = द्वावपि प्रवेशं कृत्वा = अन्तः प्रविश्य उपविष्टौ = निषण्णौ)।
सानुमती—लतां = वल्लरीं संश्रिता = आश्रिताऽपि लताश्रिता, लतालीना भूत्वा तावत् सख्याः = आल्याः शकुन्तलायाः प्रतिकृतिं = चित्रम् द्रक्ष्यामि = विलोकयिष्यामि ततः = तदनन्तरम् सख्याः = शकुन्तलायाः भर्तुः = पत्युः बहुमुखं = बहूनि मुखानि यस्य तत् बहुमुखं = अनेकप्रकारकम् अनुरागं = प्रेमाणं निवेदयिष्यामि = वदिष्यामि (इति = एवं विचार्य ततो वा तथा = पूर्वोक्तप्रकारेण कृत्वा = विधाय लतामाश्रित्य स्थिता = स्थिरीभूता)।
राजा—तत्रा मनोविनोदायोपविष्टो राजा शकुन्तलावृत्तान्तं स्मरन्नाह—सखे = मित्र माढव्य! इदानीं = साम्प्रतं शकुन्तलायाः = मुनिदुहितुः प्रथमवृत्तान्तं = आश्रमे परिचयादिकं प्रारम्भिकप्रेमवृत्तम्, स्मरामि = स्मृतिपथमानयामि। भवते = तुभ्यमपि मित्राय च कथितवानस्मि। स भवान् = कथनेन ज्ञातवृत्तान्तः त्वं प्रत्यादेशवेलायां = निराकृत्यवसरे मत्समीपं गतः मम समीपे न आसीत् मया हंसपदिका समीपे प्रेषित आसीत्। पूर्वमपि = प्रागपि त्वया = मित्रेण कदाचित् = कदापि तत्रभवत्याः = मान्यायाः शकुन्तलाया नाम नामधेयादिकं न संकीर्तितम् = नहि वर्णितम्। क्वचित् = किम् अहमिव = यथा अहं तथैव त्वमपि विस्मृतवानसि? यदि भवान् प्रत्यादेशवेलायां मत्समीपेऽभविष्यत् तर्हि मामवश्यं प्रबोधयिष्यत्। ततः प्रत्यादेशोऽपि नाभविष्यत्। इति भावः।
मनोहर होने के कारण मानो स्वागत करता हुआ हमलोगों को बुला रहा है तो इसमें प्रवेश कर आप बैठें (दोनों प्रवेश करके बैठ गये)
सानुमती—सम्प्रति लता में तिरोहित होकर सखी शकुन्तला के चित्र को देखूँगी, पुनः उसके पति के अनेक प्रकार से प्रगट हुए अनुराग को उसे बतलाऊँगी। (ऐसा कहकर लता में तिरोहित होकर खड़ी होती है)
राजा—मित्र! अब शकुन्तला के विषय की समूची पहली घटनाएँ याद हो रहीं हैं और आप से तो उसी समय कहा भी था। उसके परित्याग के समय आप मेरे पास नहीं थे, किन्तु इसके पहले भी कभी आपने उन आदरणीया शकुन्तला का नाम नहीं लिया। शायद हमारी तरह आप भी भूल गये थे?
पाठा०—१. प्रथमदर्शनम्। २. प्रत्याख्यानकाले। ३. मत्समीपगत एव नासीत्।
षष्ठोऽङ्कः ३१३
**विदूषकः—**ण विसुमरामि । किं तु सव्वं कहिअ अवसाणे उण तुए परिहास-विअप्पओ एसो ण भूतत्थो त्ति आचक्खिदं । मए वि मट्टिपिण्डबुद्धिणा तह एव्व गहीदं । अहवा भविदव्वदा खु बलवदी । [ न विस्मरामि । किंतु सर्वं कथयित्वाऽवसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । ]
**सानुमती—**एव्वं एदं । [ एवमेवैतत् । ]
राजा—( ध्यात्वा ) सखे ^१त्रायस्व माम् ।
**विदूषकः—**भोः किं एदं ? अणुववण्णं खु ईदिसं तुइ । कदा वि सप्पुरिसा सोअवत्तव्वा ण होंति । णं पवादे वि णिवकंपा गिरीओ। [ भोः किमेतत् ? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः । ]
**विदूषकः—**न विस्मरामि, किन्तु सर्वं = सकलं कथयित्वा अवसाने वाक्यशेषे, अन्ते पुनः त्वया परिहासविजल्पितं एषः न भूतार्थं इत्याख्यातम् = परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः—इत्यादिनोक्तम् । मृत्पिण्डबुद्धिना = मृत्पिण्डमिव बुद्धिर्यस्य स तेन मृत्पिण्डबुद्धिना = मृत्पिण्डमतिना मयापि जडबुद्धित्वात् = कपटानभिज्ञेन यथोक्तग्राहिणा ब्राह्मणेन तथैव = तद्रूपमेव, सत्यमेव, गृहीतं = स्वीकृतम्, ज्ञातम् । अथवा = यद्वा किमनया पर्यालोचनया भवितव्यता = भावानामवश्यं भाविता बलवती = प्रबला खलु भवति । अतोऽत्र भवितव्यतैव हेतुरित्यर्थः ।
**सानुमती—**एवं = सत्यमेव एतत् पूर्वोक्तं भवितव्यता निबन्धनमेवेति भावः ।
**राजा—**शकुन्तलां चिन्तयन् कामसन्तापमसहमानो माधव्यमाह—सखे = मित्र ! मां त्रायस्व = रक्ष-भवानेव दुःखपथस्य मे शरणमित्यर्थः ।
**विदूषकः—**राजानमाश्वासयन् माधव्यो ब्रूते—भोः = अहो । किम् = अनौचित्यमेतत् पूर्वोक्ता प्रलापावस्था अनुपपन्नं = अयुक्तम् खलु त्वयि = भवति धैर्यादिगुणशालिनि राजनि ईदृशं = एतत् प्रकारकम् । कदापि = कस्मिन्नपि काले सत्पुरुषाः = श्रेष्ठा जनाः शोकेन वक्तव्या शोकवक्तव्या = परोपदेशयोग्याः निन्द्याः न भवन्ति = न जायन्ते । ननु = निश्चयेन प्रवाते = अतिवाते झंझावातेऽपि अपि गिरयः = पर्वताः निष्कम्पाः = अचलाः एव तिष्ठन्ति । अतो विरहदशायामपि त्वं निश्चलो भवेतिभावः ।
**विदूषक—**मैं भूला नही हूँ, किन्तु सब कुछ कहकर अन्त में पुनः आपने कहा था कि ये सब बातें हंसी की हैं, सत्य नहीं हैं। अत्यन्त मोटी बुद्धिवाले मैंने भी वैसा ही समझ लिया था। अथवा यों कहिए कि होनी अवश्य होकर ही रहती है। अतः जो होना था, वह हो गया।
**सानुमती—**यह ऐसा ही है।
राजा—( ध्यानकर ) मित्र ! मुझे बचाओ।
**विदूषक—**अभी यह क्या ? तुम्हारे विषय में यह सब निश्चय ही अनुचित है। सत्पात्र कभी कभी भी शोकसन्तप्त नहीं होते। पर्वत भी आंधी में निश्चय ही अडिग रहते हैं ?
**पाठा०—**१. परित्रायस्व ।
३१४ || अभिज्ञानशाकुन्तलम्
राजा—वयस्य निराकरणविकलवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरर्णोऽस्मि। सा हि—
इतः ^१प्रत्यादेशात् स्वजनमनुगन्तुं व्यवसिता
मुहुस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे।
पुनर्द्दृष्टि बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ९ ॥
राजा—नृपो दुष्यन्तः माधव्यं स्वस्य शोकस्य प्राबल्यमाह—वयस्य != हे मित्र ! निराकरणेन विक्लवा निराकरणविकलवास्तस्या निराकरणविकलवायाः= प्रत्याख्यानव्याकुलायाः प्रियायाः = दयितायाः शकुन्तलाया समवस्थां = दशाम् अनुस्मृत्य = ध्यात्वा बलवत् = अत्यर्थम् अशरणोऽस्मि = परवशोऽस्मि । उक्तमर्थं वा वृणोति—सा हि = यतः ।
अन्वयः—इतः प्रत्यादेशात् ( हि सा ) स्वजनमनुगन्तुं व्यवसिता गुरुसमे गुरुशिष्ये तिष्ठ इत्युच्चैः वदति स्थिता बाष्पप्रसरकलुषां दृष्टिं पुनः क्रूरे मयि अर्पितवती इति ; यत् तत् सविषं शल्यमिव मां दहति ॥ ९ ॥
प्रमदवने माधव्येन सह समुपविष्टो राजा मोहान्निराकृतायाः शकुन्तलायाः दशां संस्मृत्य शोकसन्तः तात्कालिकी निजां मनोव्यथां माधव्यं प्रति प्रकाशते—इत इति । इतः = अस्मात् जनात् मत्सकाशात्, अस्मात् प्रवेशात् राजभवनाद्वा प्रत्यादेशात् = निराकरणात् ( हि सा ) स्वजनं = स्वकीयं बन्धुजनं शार्ङ्गरवादिकम् अनुगन्तुं = अनुयातुं व्यवसिता = उद्युक्ता भर्तृपरित्यागे स्वजनगमनानुव्यवसायो युक्त एव । गुरुणा = पित्रा कण्वेन समे गुरुसमे = गुरुतुल्ये-गुरुशिष्ये = गुरोरन्तेवासिनि शार्ङ्गरवे तिष्ठ विरम अनुगमनात् इत्युच्चैः = गम्भीरं वदति = कथयति सति स्थिता = अनुगमनाद्विरता पुनः = भूयः बाष्पप्रसरकलुषां बाष्पाणाम् = अश्रूणां प्रसरेण = प्रवृत्त्या कलुषामनाविलाम् दृष्टि = चक्षुः क्रूरे = निर्दये मयि = निर्घृणहृदये दुष्यन्ते अर्पितवती = निहितवती इति सर्वं यत् यत् विषेण = गरलेन सह वर्तमानं सविषं = विषदिग्धं शल्यं = शङ्कुरिव मां दहति = ज्वलयति सन्तापयति । मयाऽनङ्गीकृतायाः शार्ङ्गरवभर्त्सितायाश्च तस्याः मयि अर्पितां कातरां तां दृष्टिं स्मृत्वा नितरां खलु व्यथते मे मनः । इत्थं तथाविधस्य तस्या दृष्टिक्षेपस्य यदा यदाहं स्मरामि तदा तदा च खिद्यते मामकीनं मनः । अत्रोपमालङ्कारः, शिखरिणी वृत्तञ्च ॥९॥
राजा—मित्र, परित्याग के कारण विह्वल प्रियतमा शकुन्तला की तात्कालिक अवस्था का स्मरणकर अत्यन्त असहाय हो गया हूँ, क्योंकि वह —
यहाँ से अस्वीकार कर देने के कारण अपने साथ आये हुए व्यक्तियों के अनुसरण में प्रवृत्त हुई, किन्तु गुरु के समान गुरुशिष्य शार्ङ्गरव के 'रुको' ऐसा डाँट कर कहने पर रुक गई । उस समय उसने आँसुओं के प्रवाह से मलिन दृष्टि को फिर एक बार मुझ क्रूर पर जो डाला वह विष से बुझे हुए तीर के नोक के समान मुझे जला रहा है ॥ ९ ॥
पाठा०—१. प्रत्यादिष्टा ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
षष्ठोऽङ्कः
३१५
सानुमती—अम्महे ईदिसी स्वकज्जपरदा। इमस्स संदावेण अहं रमामि।
[ अहो ईदृशी स्वकार्यपरता। अस्य संतापेनाहं रमे। ]
विदूषकः—भो अत्थि मे तक्को केण वि तत्तहोदी आआससंचारिणा णीदेत्ति।
[ भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशसंचारिणा नीतेति। ]
राजा—कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत। मेनका किल सख्यास्ते जन्म-प्रतिष्ठेति श्रुतवानस्मि। तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते।
सानुमती—संमोहो खु विम्हअणिज्जो ण पडिबोहो। [ संमोहः खलु विस्मयनीयो न प्रतिबोधः। ]
विदूषकः—जह एव्वं अत्थि खु समाअमो कालेण तत्तहोदीये। [ यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या। ]
सानुमती--दुष्यन्तोक्तं श्रुत्वा सानुमती स्वगतमाह-अहो ! ईदृशी = एतादृशी स्वकार्य-परता = स्वार्थनिष्ठता सर्वेषाम् अस्य = राज्ञः सन्तापेन अहं रमे = हृष्यामि। अस्य सन्तापेन मम सन्तोषः। यथा यथाऽस्य तापः तथा तथा शकुन्तलानयनोपायं प्रति यत्न-वान् भविष्यतीत्याशयः।
विदूषकः--किञ्चित्सन्तापशमनाय माधव्यो राजानं रसान्तरे प्रवेशयन्नाह भोः ! शृणु अस्ति मे = मम तर्कः = अनुमानम्, अत्रभवती = आदरणीया शकुन्तला केनचित् आकाशसञ्चारिणा = व्योमविहारिणा नीता = अपहृतेति। अतस्तत्प्रतीकाराय प्रयत्नः कार्य इति भावः।
राजा—पतिः = भर्त्ता देवता इष्टदेवः यस्याः सा तां पतिदेवतां = पतिव्रतां पराम्रष्टुं= स्पृष्टुम् कः अन्यः = परकीयः उत्सहेत = क्षमेत। ते = तव सख्या = आल्याः, शकुन्तलाया जन्मप्रतिष्ठा = उत्पत्तिस्थानम्, मेनका अप्सरा इति = इदं श्रुतवान् = आकर्णितवानस्मि। तस्याः = मेनकाया सहचारिणीभिः = सहचरीभिः अप्सरोभिः ते = तव सखी = आली शकुन्तला हृता = नीता इति = इयं मे = मम हृदयं = आन्तरम् आशङ्कते = मन्यते।
सानुमती--सम्मोहः = अज्ञानं, विस्मृतिः खलु एव विस्मयनीयः = आश्चर्यजनकः, न प्रतिबोधः = ज्ञानं, स्मृतिः आश्चर्यजनकः।
विदूषकः—यदि = चेत् एवं = पूर्वोक्तं अस्ति = तर्हि तत्र भवत्या माननीयायाः शकुन्तलाया कालेन = कियतापि समयेन समागमः = मिलनम् भविष्यति खलु = निश्चयेन।
सानुमती—अहो ऐसी ही स्वार्थरता होती है कि मैं इनके सन्ताप से प्रसन्न हो रही हूँ।
विदूषक—अजी, मेरा तो ऐसा अनुमान है कि उन आदरणीया शकुन्तला को कोई आकाश-चारी ले गया है।
राजा—पतिव्रता स्त्री को कौन छू सकता है, मेनका तुम्हारी सखी की जन्मदात्री है, ऐसा मैंने सुना है। उसी की सखियों के द्वारा तुम्हारी सखी ले जाई गई होगी, ऐसी मेरे हृदय की आशङ्का है।
सानुमती—राजा को शकुन्तला को भुलाना ही आश्चर्यजनक है। स्मरण करना आश्चर्य-जनक नहीं है।
विदूषक—यदि ऐसी बात है तो उस आदरणीया शकुन्तला से यथासमय आपका मिलन होगा।
| ३१६ | अभिज्ञानशाकुन्तलम् |
|---|
**राजा—**कथमिव ?
**विदूषकः—**ण खु मादापिदरा भत्तुविओअदुक्खिअं दुहिदरं पेक्खिदुं पारेंति ।
[ न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः । ]
**राजा—**वयस्य !
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥ १० ॥
यदि मेनकाज्ञया तत्सहकारिणीभिरेव सा हृता तर्हि किञ्चित्कालानन्तरं तया सह समागमो भविष्यतीत्यर्थः ।
**राजा—**कथं = केन प्रकारेण इव ।
**विदूषकः—**न खलु = निश्चयेन मातापितरौ = जननीजनकौ भर्तृवियोगदुःखितां = भर्तुः = पत्युः वियोगेन = विरहेण दुःखिताम् = आकुलां दुहितरं = तनयाम् द्रष्टुं = अवलोकयितुम् न पारयतः = न शक्नुतः । अतो मेनका त्वया सह तां शकुन्तलां संयोजयिष्यतीत्यर्थः ।
**राजा—**वयस्य = मित्र !
**अन्वयः—**असन्निवृत्त्यै अतीतं तत् स्वप्नो नु माया नु मतिभ्रमो नु तावत्फलमेव क्लिष्टं पुण्यं नु (हे वयस्य) मनोरथानाम् अतटप्रपातः यद्वा एते मनोरथाः तटप्रपातः नाम ॥१०॥
भूयोऽपि शकुन्तलायाः समागमो भावीत्युक्त्वाऽऽत्मान आश्वासं दातारं विदूषकं प्रति राजा दुष्यन्तः तस्याः सम्भोगमसम्भाव्यं मन्वानो ब्रवीति—स्वप्न इति । असन्निवृत्त्यै = न सन्निवृत्तिः असन्निवृत्तिः तस्यै असन्निवृत्त्यै पुनर्नावर्तनाभावाय, पुनरागमनाय, पुनरलाभाय अतीतं = गतं तम् = पूर्वानुभूतं शकुन्तलासमागमरूपवस्तु, तत्संगमनं, तद्वस्तु वा स्वप्नो नु निद्रावस्थायां विषयानुभवः किम् स्वप्नश्चेत् जाग्रदवस्थायाम् नानुभूयेत ) माया नु = ऐन्द्रजालिकादिनिर्मितं वस्तु मतिभ्रमो नु बुद्धिभ्रान्तिः नु =
**राजा—**कैसे ?
**विदूषक—**माता-पिता पुत्री को अधिक दिनों तक पति के वियोग से दुःखित नहीं देख सकते हैं ।
**विशेष—**विदूषक के कहने का आशय यह है कि शकुन्तला की मां मेनका अधिक समय तक अपने पास उसे नहीं रख पायेगी, क्योंकि मां होकर उसकी दुर्दशा न देख सकेगी, विवश होकर वह उसे आपके पास पहुँचाने का प्रयत्न करेगी ।
**राजा—**मित्र ! वह शकुन्तला का प्रथम मिलन स्वप्न था क्या ? वह इन्द्रजाल=माया थी क्या, क्या वह मेरा मतिभ्रम था ? वह उतना ही फलवाला नष्टप्राय मेरा पुण्य था क्या ? वह पुनः वापस न आने के लिए चला गया । ये मेरे मिथ्या मनोरथ बरसाती नदी के किनारे पतन के समान हैं ।
**विशेष—**अंगूठी मिल जानेपर दुर्वासा के शाप का प्रभाव समाप्त हो गया। राजा को पहले की सारी बातें एक-एक कर के याद आने लगीं । शकुन्तला के मिलने की घटना इसके सामने नाचने लगी । तब वह चार विकल्प करता है तथा पहले विकल्प से दूसरे विकल्प को काटता जाता है । प्रथम विकल्प ( १ ) क्या शकुन्तला का वह प्रथम मिलन स्वप्न था, नहीं वह स्वप्न
षष्ठोऽङ्कः ३१७
विदूषकः—मा एव्वं णं अंगुलीअअं एव्व णिदंसणं अवस्संभावी अचिन्तणिज्जो समाअमो होदि त्ति । [ मैवम् नन्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमो भवतीति । ]
तावत् किम् एव फलं = परिणामः यस्य तत् तावत् फलं = अल्पदिन संभाषणादिक-फलकं क्लिष्टं = अत्यल्पं पुण्यं सुकृतं नु = किपूर्वजन्मनि अत्यल्पमेव पुष्पमाचरितम् एव चतुर्ष्वपि पक्षेषु तया प्रियया पुनः समागमः असम्भवः अत आह हे वयस्यः=हे मित्र माधव्य ! एते स्वप्नादयः चत्वारः पक्षा मनोरथानां = अभिलाषाणां पुनः समागमा-भिलाषाणाम् अतटप्रपाता अतटरूपा, तुङ्गशैलाग्रहरूपाः प्रपाताः = अधः पतनस्थानानि स्वप्नमायामतिभ्रमैः कृतानां मिथ्यात्वात् तेषां पुनः प्राप्तिरसंभवा, पुण्यस्य च क्लिष्ट-त्वात्तथैव तद्यथा शैलाग्रात् प्रयातो न पुनः प्रत्यावर्तंते तथैव ममाप्ययं पुनः समागमा-भिलाषो मे सम्पत्स्यते इत्यर्थः । यद्वा एते त्वया उच्यमाना मया वा आशस्यमाना मनोरथाः = मनोरथविषयाः ते तटप्रपाताः = नदीकूलस्य प्रपात इव प्रपातो येषां ते तटप्रपाताः । अयं भावः मित्र ! यथा वर्षाकाले गङ्गादि नदी तटा ओघेन संघट्टमाना निपतन्ति तथैव विलोकन्ते च इत्थं सर्वथा ते अलीका एव तथैव मनोरथाः प्रतिक्षण-मुत्पद्यन्ते, विलीयन्ते च यथा वा शैलाग्रात्पतितो ग्रावा न पुनः प्रत्यावर्तते तथैव स्वप्नादि सुखवत् मम पुनः शकुन्तला समागमाभिलाषः लब्धुं न शक्य इति भावः । अत्रार्थान्तर-न्याससन्देहकाव्यलिङ्गालङ्कारा, उपजातिः वृत्तञ्च ॥ १० ॥
**विदूषकः—**अथ माधव्य राज्ञो नैराश्यं निरस्यन् प्रतिसमाधत्ते—मैवं नेत्थं भण । अङ्गुलीयकमेव = मुद्रिकैव निदर्शनम् = उदाहरणम् दृष्टान्तः यथार्थंत्वे प्रमाणम् अवश्यं भावी = अनिवार्यणीयः अचिन्तनीयः = अतर्कितः समागमः = शकुन्तलामिलनम्, भवति = जायते इति । अयं भावः यथा भवितव्यताबलेन शचीतीर्थजले पतितस्य मत्स्येन निगलित-
कैसे हो सकता है ? क्योंकि उस समय तो मैं सोया हुआ नहीं था, जाग रहा था (२) तो क्या वह कोई जादू था, यह भी संभव नहीं, क्योंकि मेरे ऊपर कोई जादू कामयाब नहीं हो सकता । (३) तो क्या यह मेरी बुद्धि का भ्रम था ? नहीं उस समय के सारे व्यवहार मुझे ठीक-ठीक याद हैं । अतः इसे बुद्धि का विश्रम नहीं कहा जा सकता है । (४) तो क्या वह मेरा कोई अत्यल्प पुण्य था ? जिसका सहवास मुझे स्वल्पकाल के भोग के लिए था । इस प्रकार राजा निष्कर्ष निकालता है कि मेरा पुण्य अल्प था । अतः थोड़े कालतक ही उसका सहवास मुझे मिल सका । अर्थात् शकुन्तला के साथ आनन्द से बिताया समय अवर्णनीय होने के साथ क्षणिक था, जिससे स्वप्न, माया, मतिभ्रम, तथा अल्पपुण्य का फल कहा है ।
वर्षाऋतु में जब नदियाँ उमड़कर बहती हैं तब उनके ऊँचे नीचे तट ढहते हैं वे पुनः लौटकर अपने स्थान पर नहीं आते, नदी धारा में विलीन हो जाते हैं । ठीक इसी प्रकार शकुन्तला के मिलन के मेरे मनोरथ अब पुनः सत्य नहीं होंगे । वह शकुन्तला के समागम का मधुर, स्पृहणीय सुख अब पुनः मिलना तो असंभव ही है, अब उसका पुनः प्राप्त होना सर्वथा दुर्लभ ही है ।
**विदूषक—**नहीं, नहीं मित्र ऐसा मत कहो, देखो वह अंगूठी ही इस बात का उदाहरण है कि अवश्यंभावी बात अकस्मात् होकर ही रहती है । अर्थात् जैसे अनिश्चित स्थान पर गिरी हुई यह अंगूठी स्वयं ही दैवात् आपके पास पहुँच गई वैसे ही वह शकुन्तला भी आपको पुनः मिल जायेगी ।
३१८ अभिज्ञानशाकुन्तलम्
राजा—( अङ्गुलीयकं विलोक्य ) अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् ।
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु ॥ ११ ॥
स्यादङ्गुलीयकस्य पुनः समागमो जातः तथैव भवतः प्रियतमायाः शकुन्तलाया अपि समागमः संभवमिति । अवश्यम्भावी हि यथाऽकस्मादेव भवति तथा तस्या अपि समागम सहसैव भवतीति भवता न शोचनीयः ।
**राजा—**माधव्येन अङ्गुलीयकनिदर्शनेनोद्बोधितो राजा अङ्गुलीयकविलोलोकनपूर्वकं तदचेतनवदनुशोचति —अये । अहो ! इदम् = एतत् असुलभं = न प्राप्यं च तत् स्थानं = आधारश्च तटभ्रंशि = तस्मात् च्युतम् इति असुलभस्थानभ्रंशि = दुर्लभस्थानाद् भ्रष्टं शकुन्तलाहस्ताङ्गुलिगैलितमिति यावत् । अतः शोचनीयम् शोचितुमर्हम् । इदं तावदङ्गुलीयं प्रथमं शोचनीयम् पश्चात् साशोचनीयेति तात्पर्यम् ।
**अन्वयः—**हे अङ्गुलीय ! फलेन विभाव्यते ( यत् ) तव सुचरितम् नूनं ममेव प्रतनु । यत् अरुणनखमनोहरासु तस्या अङ्गुलीषु लब्धपदं च्युतमस्ति ॥ ११ ॥
अङ्गुलीयकं दृष्ट्वा भूयो भाविसमागमसंभावनया राजा ब्रवीति **तवेति—**हे अङ्गुलीय । अङ्गुलिभूषणमुद्रिके ! फलेन = अल्पकालेन सङ्गमसुखेन विभाव्यते = निश्चीयते अनुमीयते यत्तव सुचरितं पुण्यं नूनं = निश्चयेन ममेव = मत्पुण्यमिव प्रतनु अत्यल्पम् । अतीन्द्रियस्य धर्मस्य प्रतनुत्वं ज्ञातुं शक्यमित्याह **यत्-**यस्मात् अरुणैः = आरक्तैः नखैः = नखरैः मनोहरासु = मनोरमासु हृदयकर्षिणीषु इति अरुणनखमनोहरासु तस्याः त्रिभुवन सुन्दर्याः मयि निर्व्याजमनुरक्तायाः पुरः परिस्फुरन्त्याः इव शकुन्तलायाः अङ्गुलीषु = करशाखावत्सु लब्धपदं = प्राप्तस्थानं महता भाग्योदयेन यथा कथञ्चित् प्राप्तस्थितिं अपि सत् च्युतमसि = पतितं भ्रष्टमसि । अत्रारुणेति विशेषणं नखस्येव करतलस्यापि उपलक्षकम्स्ति । अङ्गुलीनां मनोहरत्वं च नातिस्थूलत्वेन, नातिह्रस्वत्वेन नातिदीर्घत्वेन, अवक्रत्वेन, सरलत्वेन च । अङ्गुलीलक्षणं च सामुद्रे स्त्रीलक्षणे प्रोक्तमस्ति । यथा हि—
नातिह्रस्वा नातिदीर्घा न स्थूला न कृशा अपि ।
अवक्रा सरला रक्तनखा रक्ततला अपि ॥
कोमला सितविन्द्वार्या मङ्गुरा दीप्तिमन्नखा ।
ताहगङ्गुलयो यस्या सा भवेद् राजवल्लभा ॥
अर्थात् हे अङ्गुलीयक ! यथा मम पुण्यमल्पमेवास्ति तथैव तवापि मदल्पमेवेति फलेन अनुमिनोमि । लोकोत्तरलावण्यायाः मेनकासम्भवायाः शकुन्तलायाः क्षणिक-समागमुखमासाद्य क्षीणे पुण्ये शचीतीर्थं वन्दमानायाः तस्या अङ्गुलितः अधो
राजा—( अंगूठी को देखकर ) अहो, यह अंगूठी उस दुर्लभ स्थान ( शकुन्तला की कोमल अंगुलियों ) से गिरकर शोचनीय हो गई है ।
हे अंगूठी तुम्हारा पुण्य मेरे पुण्य के समान निश्चय ही क्षीण हो गया है । यह परिणाम से ही प्रतीत हो रहा है जो कि तुम लाल नाखूनों से मनोहर शकुन्तला की अंगुलियों में स्थान प्राप्त कर पुनः गिर पड़ी हो ॥ ११ ॥
षष्ठोऽङ्कः ३१९
सानुमती—जइ अण्णहत्थगदं भवे सच्चं एव्वं सोअणिज्जं भवे । [ यद्यन्यहस्त-गतं भवेत्सत्यमेव शोचनीयं भवेत् । ]
विदूषकः—भो इमं णाममुद्दा केण उग्घादेण तत्तहोदोए हत्थाव्भासं पाविदा । [ भो इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्याशं प्रापिता । ]
सानुमती—मम वि कोदूहलेण आआरिदो एसो । [ ममापि कौतूहलेनाकारित एषः । ]
राजा—श्रूयताम् स्वनगराय प्रस्थितं मां प्रिया सवाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यति इति ।
विदूषकः—तदो तदो । [ ततस्ततः । ]
निपत्य मत्स्योदरं विलीना। तन्मन्ये शकुन्तलाहस्ताद् यत् पतितमसि तन्नूनं त्वमपि अहमिवाल्पपुण्यमेव नितरां शोच्यमसि। अत्रोपमानुमानसमासोक्तिकाव्यलिङ्गालङ्कारा, पुष्पिताग्रा वृत्तं च ॥ ११ ॥
सानुमती—अथाङ्गुलीयकमिदानीमत्युच्चस्थानास्थितमतो न शोच्यम्—यदि = चेत् अन्यहस्तगतं भवेत् = दुष्यन्तं विहाय अन्यस्य कस्यचित् हस्तगतं = करोपगतं भवेत्तर्हि सत्यमेव = नूनमेव वस्तुतः, अवश्यं शोचनीयं भवेत्–अमविष्यत्।
विदूषकः—भोः = शृणु, कथय इयं = एषा मुद्रयतेऽनयेति मुद्रा नाम्नो मुद्रानाम-मुद्रा उत्कीर्णनामाक्षरं मवन्नामाङ्कितमङ्गुलीयकम् केन उद्घातेन समुपक्रमेण उद्देश्येन अभिप्रायेण 'उद्घातः कथ्यते धीरैः संवलिते समुपक्रमे' इति धरणिः। तत्रभवत्या माननीयायाः शकुन्तलायाः हस्ताभ्यासं शकुन्तलाकरसंयोगहस्तनैकट्यम् प्रापिता = भवता। त्वया तस्यै किमर्थं दत्तेति भावः।
सानुमती—ममापि कौतूहलेन जिज्ञासाया—आकारितः = आहूतः प्रेरित अङ्कुरित इव ममापि एतच्छ्रवणे कौतूहलमासीत्, तदनेन पृष्टमिति भावः।
राजा—श्रूयतां = आकर्ण्यताम् स्वनगराय निजराजधान्यै प्रस्थितं = प्रचलितं मां = दुष्यन्तं प्रिया = दयिता शकुन्तला सवाष्पं साश्रु आह = पृष्टवती कियच्चिरेण = कियता विलम्बेन कतिभिः दिवसैः आर्यपुत्रः = स्वामी प्रतिपत्ति = प्रवृत्तिं वार्ता = सन्देशम् 'प्रतिपत्तिः प्रवृत्तौ स्यात्' इति धारामिः दास्यति = प्रेषयिष्यति इति ।
विदूषकः—ततः तत्पश्चात् किं जातम् ?
सानुमती—यदि दूसरे के हाथ में पड़ती तो वस्तुतः शोक का विषय होती, किन्तु राजा के हाथ में आ जाने से यह शोचनीय नहीं रह गई है।
विदूषक—हे मित्र ! आपके नामाक्षरों से युक्त इस अंगूठी को आपने किस उद्देश्य से श्रीमती शकुन्तला के हाथ में पहिना दिया था।
सानुमती—हाँ, यही कौतूहल तो मुझे भी हो रहा था। अतः यह तो मेरे ही मन की बात मानो पूछ रहा है।
राजा—वयस्य ! सुनो, जब मैं आश्रम से नगर को वापिस आने लगा, तब मेरी प्रिया शकुन्तला ने मुझसे कहा था कि हे प्राणनाथ ! अब आप मेरा स्मरण कब तक (कितने दिनों में) करेंगे ?
विदूषक—हाँ, तब फिर क्या हुआ ?
३२० | अभिज्ञानशाकुन्तलम्
राजा—पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता—
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय ^१गच्छति यावदन्तम् ।
तावत्प्रिये ^२मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥ १२ ॥
राजा—नृपः पुनरुत्तरयति–पश्चात् = अनन्तरम् इमां मुद्रां = इदं मन्नाममुद्राङ्कित-मङ्गुलीयकं निवेशयता = परिधापयता मया प्रत्यभिहिता = प्रियां प्रत्युक्ता ।
अन्वयः—हे प्रिये ! अत्र दिवसे दिवसे एकैकं मदीयं नमाक्षरं गणय, यावदन्तं गच्छति तावत् मदवरोधगृहप्रवेशं नेता जनः तव समीपमुपैष्यति इति ॥ १२ ॥
स्वनामाङ्कितमुद्रायाः शकुन्तलाहस्तगमने वृत्तान्तं विदूषकं प्रति प्रकाशयति राजा दुष्यन्तः = एकैकमत्रेति हे प्रिये ! अयि दयिते ! अत्र = अस्मिन् अङ्गुलीयके दिवसे दिवसे = प्रतिदिनम् एकैकं = एकम् एकम् एकमेव न द्वे त्रीणि वा मदीयं = मत्सम्वन्धि नामाक्षरं = नामात्मकम्अक्षरजातम् गणय = एक द्वे त्रीणि इति क्रमेण संख्यानं कुरु यावत् = यावत्कालं तद्गणनं अन्तं = मन्नामाक्षराणामनवसानं गच्छति, यावद्गणनासमाप्तिः तावत् त्रिचतुरैर्दिनै मदवरोधगृहप्रवेशं = मम अवरोधगृहं = अन्तःपुरमवनं तव प्रवेशः नेता = प्रापयिता जनः = त्वदानयनं योग्यः कश्चन मदीयो जनः 'तव = भवत्या समीप = निकटं सविधम् उपैष्यति = अभिगमिष्यति इति इत्थं ममापि प्रत्यभिहिता ।
अयं भावः—हे सखे माधव्य ! कण्वतपोवने गान्धर्वविवाहानन्तरं निजराजधान्यै प्रस्थितं मां प्रिया शकुन्तला अश्रुपूर्णं लोचनं विधाय मामपृच्छत् यत् कतिभिर्दिनैः आर्यपुत्रः स्वसन्देशं दास्यति । ततो मया इदमङ्गुलीयकं तदङ्गुलौ परिधापयता सा प्रोक्तं प्रिये ! अत्राङ्कितं मन्नामाक्षरं प्रत्यहमेकैकमक्षरं गणय यावदेव मन्नामाक्षराणामन्त्यं दु-ष्-य-न्त इत्यत्र तकारं गमिष्यति तावत् कालं कश्चन मदीयः कुलीनः राजपुरुषः त्वदन्तिकमागत्य त्वां स बहुमानं ममावरोधं प्रापयिष्यतीत्येवं मया साभिहिता । तदनन्तरं राजधानीमुपेत्य हतबुद्धिना मया न कश्चनात्मीयो जन तत्समीपे प्रहितः । अत्रापि चिरं प्रतीक्ष्य तत्तातेन महर्षिणा कण्वेन सरलहृदया सा स्वयमेव मे समीपे समुपस्थापिता परं मतिभ्रमात् मया तदानीं सा प्रत्याख्याता । सांप्रतमङ्गुलीयकदर्शनेन लब्धस्मृतिः एवं विलपामि । अत्र काव्यलिङ्गमलङ्कारः वृत्तं च वसन्ततिलका ॥ १२ ॥
राजा—तब मैंने इस अंगूठी को उसकी अंगुली में पहनाते हुए कहा था कि—
हे प्रिये ! इस अंगूठी में मेरे नाम के जो अक्षर हैं उनको तुम प्रतिदिन एक-एक कर गिनती रहना जब तुम मेरे नाम के अक्षरों के अन्तिम अक्षर पर पहुँचोगी तभी मेरे अन्तःपुर के अधिकारी पुरुष मेरी आज्ञा से तुमको लेने के लिए तुम्हारे पास पहुँच जायेंगे ॥ १२ ॥
विशेष—दुष्यन्त का नाम अंगूठी पर खुदा था, जिसमें पाँच अक्षर थे । अतः पाँच दिन के भीतर तुम्हारे पास हस्तिनापुर से कोई न कोई प्रामाणिक व्यक्ति आ जायेगा । यहाँ सीधे-सीधे स्पष्ट रूप से पाँच दिन न कहकर अप्रत्यक्ष रूप से कहने के कारण पर्यायोक्त अलङ्कार है । गच्छति क्रिया वर्तमानकालिक है, फिर भी आसन्न भविष्य बता रहा है । इस प्रकार राजधानी में मेरे पास पहुँच जाने के बाद वहाँ से मेरे आदेश पर चल पड़े दूत को यहाँ तक पहुँचने भर की देर है ?
पाठा०—१. यासि न यावदन्तम् । २. मदवरोधनिदेशवर्ती ।
षष्ठोऽङ्कः । ३२१
¹तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती—रमणीओ खु अवही विहिणा विसंवादिदो । [ रमणीयः खल्ववधिर्विधिना विसंवादितः । ]
विदूषकः—कहं धीवलकप्पिअस्स उदलब्भंतले आसिं । [ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् । ]
राजा—²शचीतीर्थं ³वन्दमानायाः सख्यास्ते हस्ताद् गङ्गास्रोतसि परिभ्रष्टम् ।
विदूषकः—जुज्जइ । [ युज्यते । ]
सानुमती—अदो एव्व तवस्सिणीए सउंदलाए अधम्मभीरुणो इमस्स राएसिणो परिणए संदेहो आसि अथवा ईदिसो अणुराओ अहिण्णाणं अवेक्खदि । कहं विअ एदं । [ अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरुस्य राजर्षे परिणये संदेहं आसीत् अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ]
तत् दूतप्रेषणं च दारुणात्मना=कठोरहृदयेन मया मोहात् = अज्ञानात् न अनुष्ठितं = न कृतम् ।
सानुमती— अथ सानुमत्यप्सरा राजस्तत्रानुरागातिशयं सविस्मयं पश्यन्ती वदति— रमणीयः = प्रतिदिनमिष्टजननामकीर्तने व्यापृतत्वात् कमनीयः सुन्दरः खलु = निश्चयेन अवधि = त्रिचतुरपञ्च वा दिनात्मकः विरहस्य समयः विधिना = दैवेन विसंवादितः = पर्यस्तः मिथ्याकृतः ।
विदूषकः—कथं = केन प्रकारेण अङ्गुलीयकं धीवरेण कल्पितस्य = कैवर्तेन खण्डशः कृतस्य रोहितमत्स्यस्य = रोहितनामकस्य मीनस्य उदराभ्यन्तरे = उदरान्तः आसीत् ।
राजा—शचीतीर्थं वन्दमानायाः=नमन्त्याः ते = तव सख्याः = आल्याः शकुन्तलायाः हस्तात् = करात् गङ्गायाः = सुरसरितः स्रोतसि = प्रवाहे परिभ्रष्टं = च्युतम् एतत् अङ्गुलीयकम् ।
विदूषकः—युज्यते = उचितमस्ति ।
सानुमती—अत एव = अस्मात् कारणात् एव तपस्विन्याः = अनुकम्पार्हायाः शकुन्तलायाः परिणये = पाणिग्रहे अधर्मभीरुः = पापभीतस्य अस्य राजर्षेः =दुष्यन्तस्य सन्देहः =
पर यही कार्य कठोर हृदय वाला मैं यहाँ आकर अज्ञानवश भूल गया ।
सानुमती—हाँ राजा ने तो उसे बुलाने की यह बहुत ही सुन्दर और रमणीय अवधि रक्खी थी, पर विधाता=दुर्भाग्य ने ही सब काम बिगाड़ दिया । अर्थात् वह उत्तम अवधि गड़बड़ा गयी ।
विदूषक—अच्छा तो मित्र ! शकुन्तला के हाथ में पहनाई हुई यह अंगूठी रोहित = रोहू मछली के पेट में कैसे पहुँच गई ।
राजा—शचीतीर्थ की वन्दना करती हुई तुम्हारी सखी शकुन्तला के हाथ से यह गङ्गा के प्रवाह में गिर गई थी ।
विदूषक—यह संभव है । यह बात ठीक जँचती है ।
सानुमती—इसीलिए अधर्म से डरने वाले इस राजर्षि को बेचारी शकुन्तला के साथ गुप्त
21 पाठा०—१. तच्च मोहाद्दारुणमनुष्ठितम् ? २. शचीतीर्थे सलिलं । ३. वन्दमानायास्तव सख्याः परिभ्रष्टम् ।
२१ शाकु०-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१९९ अभिज्ञानशाकुन्तलम्
राजा— ^१उपालप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः—( आत्मगतम् ) गहीदो णेण पन्था उम्मत्तआणं । [ गृहीतोऽनेन पन्था उन्मत्तानाम् । ]
राजा—( अङ्गुलीयकं विलोक्य ) मुद्रिके !
कथं नु तं ^२बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि ।
अथवा—
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया ॥ १३ ॥
शङ्का आसीत् । अथवा = यद्वा ईदृशः एतादृशः = प्रगाढः अनुरागः = प्रेम अभिज्ञायते = परिचीयते इति अभिज्ञानं = परिचयचिन्हम् अपेक्षते कथमिव = केन प्रकारेण इव, एतत् = इदं पूर्वोक्तम् ।
**राजा—**उपालप्स्ये = निन्दिष्यामि तावत् इदम् = एतत् अङ्गुलीयकं = मुद्रिकाम् ।
विदूषकः—( आत्मगतमेव ) अनेन = राज्ञा दुष्यन्तेन उन्मत्तानां = उन्मादपदवी-मारूढानां वातुलानां पन्थाः = मार्गः गृहीतः = अङ्गीकृतः ।
राजा—( अङ्गुलीयकं विलोक्य वदति— ) मुद्रिके = अङ्गुलीयक !
अन्वयः—( हे अङ्गुलीयक ! ) बन्धुरकोमलाङ्गुलिम् तं करं विहाय कथं नु अम्भसि निमग्नमसि । अथवा अचेतनं नाम गुणं न लक्षयेत् मयैव प्रिया कस्मात् अवधीरिता ॥ १३ ॥
अथ राजा दुष्यन्तो दुःखितो भूत्वा मुद्रामुपालभते—कथमिति । हे अङ्गुलीयक ! बन्धुराः = सुन्दरा उन्नतानता ( पर्वसु नताः तन्मध्ये उदरे उन्नताः ) कोमलाः = मृदवः अङ्गुलयः = करशाखाः यस्मिन् स तं बन्धुरकोमलाङ्गुलि रक्तोत्पलच्छविमृदुसुन्दराङ्गुलि-ललितम्—'बन्धुरं सुन्दरं रम्ये' इति विश्वः । शकुन्तलायाः करं = हस्तं विहाय = त्यक्त्वा अम्भसि = जले निमग्नम् कथं = बुडितमसि आत्मानं मज्जयसि असि । अथवा = यद्वा अचेतनं = चेतनाहीनं जडं वस्तु नाम गुणं सौन्दर्यादिकं = प्रेमादिकमुत्कर्षं न लक्षयेत् = न पश्येत् न विचारयेत् । अचेतनं गुणान् लक्षयितुं शक्नुयादित्यसंभाव्यम् । तत्तर्हि क्षमार्हम् । मया गुणपक्षपातिना सचेतनेन एव = अपि कस्मात् = केन कारणेन, अकारणं
रूप से किए हुए अपने विवाह में सन्देह हो गया, परन्तु ऐसा बढ़ा हुआ अनुराग भी निशानी की अपेक्षा रखता है। यह कहाँ तक ठीक है।
**राजा—**मित्र ! अब मैं अंगूठी को ही उलाहना दूँगा।
विदूषक—( मन ही मन ) अब इन्होंने पागलों का सा मार्ग पकड़ लिया है।
राजा—( अंगूठी को देखकर ) मुद्रिके !
उस शकुन्तला के कोमल कोमल अंगुलियों से सुन्दर हाथ को छोड़कर तू पानी में क्यों गिर गई ? अथवा अचेतन वस्तु यदि गुणों को न समझे जो कदाचित् ठीक भी है, परन्तु चेतन होकर भी मैंने ऐसी गुणवती प्रिया को क्यों त्याग दिया ॥ १३ ॥
**विशेष—**जब मैंने सचेतन होकर भी अपनी प्रिया का त्याग कर दिया तो तुम अचेतन होकर उसे त्याग दिया तो कौन बड़ी बात है ?
**पाठा०—**१. भवतु, उपालप्स्ये । २. कोमलबन्धुराङ्गुलिं ।
षष्ठोऽङ्कः । ३३३
विदूषकः—( आत्मगतम् ) कहं बुभुक्खाए खादिदव्वो म्हि [ कथं बुभुक्षया खादितव्योऽस्मि । ]
राजा—अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन ।
( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता )
चतुरिका—इअं चित्तगदा भट्टिणी । [ इयं चित्रगता भट्टिनी । ] ( इति चित्रफलकं दर्शयति । )
प्रिया = दयिता शकुन्तला अवधीरिता = अस्वीकारेण तिरस्कृता । त्यक्तायाः पुनरुपादाने महापुरुषस्यानौचित्यात् । अतोऽहमेवोपलम्भ्ये इति भावः । जडमेतत् गुणं न वीक्षते इति युक्तमेव ।
अर्थात्—हे मम मुद्रिके मया समये सस्नेहं प्रियाङ्गुली परिधापितमपि त्वं रक्तोत्पलम् अतिमृदुलच्छविं प्रियायाः पाणिं परिहाय विरक्तमिव जले निमग्नं तदनुचितमेव त्वयाचरितम् । यद्वा अचेतनस्य सौन्दर्यादिकमनपेक्षमाणस्य तव को दोषः, गुणपक्षपातिनः सचेतनस्य ममैवायमपराधः । न तु तव अतोऽहमेवोपलब्धव्यः । अत्र विभावना-विशेषोक्ति-समासोक्त्यर्थान्तरन्यासा अलङ्कारा, वंशस्थवृत्तञ्च ।
विदूषकः—अथ माधव्य आत्मगतं = यथा राज्ञः श्रवणगतं न भवेत् तथा ब्रूते—कथं = किम् भोक्तुमिच्छा बुभुक्षा तयातिप्रबलतया बुभुक्षया = क्षुधया खादितव्यः = भक्षितव्यः अस्मि = भवामि बुभुक्षया अतिपीडितोऽहं यत् सा मां भक्षयिष्यतीति । राजाऽसौ उन्मत्त अतो विषयान्तरसंचाराभावात् मया भोजनार्थं गन्तुमशक्यमिति तात्पर्यम् ।
राजा—अथ राजा प्रियावियोगेन परितप्यमानहृदयः प्रियां प्रार्थते—प्रिये ! अकारणं यः परित्यागः = प्रत्याख्यानं तस्मात् य अनुशयाः = पश्चात्तापः तेन तप्तं = शोकाकुलं हृदयं यस्य सः अकारणपरित्यागानुशयतप्तहृदयः = वृथात्वत्परित्यागदुःखितमनसोऽयं = एषः जनोऽहं पुनर्दर्शनेन भूयोदर्शनदानेन अनुकम्पताम् = अनुगृह्यताम् दयापात्रीक्रियताम् ।
( राज्ञा प्रार्थितं प्रियादर्शनं सम्पादयितुं चित्रफलकहस्तायाश्चतुरिकायाः प्रवेशं दर्शयति कविः—अपटीक्षेपेण—अपटी=जवनिका तस्याः क्षेपम् = चालनम् अपसारणम्कृत्वा चित्रफलकहस्ता चित्रफलक आलेख्यपटो, हस्ते=करे यस्याः सा चित्रफलकहस्ता प्रविश्य = अन्तरागत्य )
चतुरिका—इयं = एषा चित्रे = आलेख्ये गता = अर्पिता लिखितेति चित्रगता = चित्रार्पिता भट्टिनी = अनभिषिक्ता राजदाराः, शकुन्तला ‘देवी कृताभिषेकायामितरासु च भट्टिनी’ इत्यमरः । ( इति = एवमुक्त्वा ततः चित्रफलकं = चित्रपटं दर्शयति ) ।
विदूषक—( मन ही मन ) मित्र ! तुम मुझको भूख से सचमुच ही मार डालोगे ।
राजा—प्रिये ! बिना कारण के ही तुम्हारा परित्याग करने से अब पश्चात्ताप से मेरा हृदय जल रहा है । अतः अब तो मुझे अपना दर्शन देकर पुनः मुझे कृतार्थ करो ।
( हाथ में चित्रपट लिए हुई पर्दा हटाकर प्रवेश करके )
चतुरिका—यह चित्र में अङ्कित स्वामिनी है ( ऐसा कहकर चित्र दिखलाती है )
विशेष—राजा ने पुनः दर्शन चाहा और संयोगवश वह चित्र रूप में आ गया ।
३९४ | अभिज्ञानशाकुन्तलम्
विदूषकः—साहु वअस्स। महुरावत्थाणदंसणिज्जो भावाणुप्पवेसो। क्खलदि विअ मे दिट्ठी णिण्णुण्णअपद्देसेसु। [ साधु वयस्य ! मधुरा वस्थानदर्शनीयो भावानुप्रवेशः। स्खलतीव मे दृष्टिनिम्नोन्नतप्रदेशेषु। ]
सानुमती—अंमो एसा राएसिणो णिउणदा। जाणे सही अग्गदो मे वट्टदित्ति। [ अहो ! एषा राजर्षेर्निपुणता जाने सख्यग्रतो मे वर्तत इति । ]
राजा—
यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥ १४ ॥
विदूषकः—माधव्यो राजानं विनोदयितुं चित्रं श्लाघते—हे वयस्य ! = हे मित्र ! साधु = अद्भुतं धन्योऽसि मधुरावस्थादर्शनीयः मधुरं = चेतोहरं, यत् अवस्थानं = रेखास्थानोत्पन्नस्तनजघनाद्याकृतिविशेष विन्यासः तेन दर्शनीयः= हृद्यां सुस्पष्टमालक्ष्यो भावानुप्रवेशः = प्रेमाविर्भावः। निम्नाः = अवनताश्च उन्नताः = उच्चाश्च ते प्रदेशाः = स्थानानि चेति ते तेषु निम्नोन्नतप्रदेशेषु = नाभिस्तनादिषु स्खलतीव = चलतीव उच्चेषु प्रतिहता निम्नेषु अधः पतितेव भवति मे = मम दृष्टिः = चक्षुः। यथा प्रत्यक्षदृष्टायामाकृतौ निम्नोन्नतेषु दृष्टिः स्खलति तथा चित्रेऽपीति महदालेख्यकौशलमिति तात्पर्यम्।
सानुमती—माधव्योक्तमेवानुसन्धायाप्सरा सानुमती ब्रवीति—अहो = आश्चर्यम् एषा = इयं चित्रे = दुष्यन्तस्य निपुणता = पटुता, चित्रनिर्माणकौशलम् जाने = प्रतीये संभावयामि, सखी = आली शकुन्तला अग्रतः = समक्षं मे = मम वर्तते = विद्यते इति। चित्रलिखितापि तादात्म्यात् साक्षात् सखी प्रत्यक्षवत् पुरोभासत इति तात्पर्यम् ।
राजा—नृपो हि प्रकृत्यपेक्षया चित्रापितप्रकृतेरपकर्षमाह—यद्यदिति ।
अन्वयः—चित्रे यत् यत् साधु न स्यात् तत्तदन्यथा क्रियते तथापि रेखया तस्या लावण्यं किञ्चिदन्वितम् ॥ १४ ॥
वास्तविक प्रकृत्यपेक्षया चित्रगतप्रकृतेरपकर्षं राजा दुष्यन्तो ब्रवीति—यद्यदिति। चित्रे = मत्कृते आलेख्ये यद्-यत् = विलिख्यमानमङ्गं यद्-यद्वस्तु साधु न स्यात् = सम्यङ् न भवेत् मया स्वदोषादेव साधु न लिखितम् तत् तदेव तत्सर्वम् = अन्यथा क्रियते = प्रवृत्त्यपि लिख्यते। मया चित्रे तस्या लावण्यं सर्वं सम्पादयितुं पौनःपुन्येन यत्नः कृत इत्यर्थः तथापि = कृतेऽपि महति श्रमे संमार्ज्यं संमार्ज्यं भूयो भूयो लिख्यमानमपि रेखया = तूलिकाविहितचित्रेण तस्याः = शकुन्तलायाः लावण्यं = कमनीयता किञ्चित् =
विदूषक— मित्र ! बहुत अच्छा, सुन्दर रीति से अवयव विन्यास के कारण भावों का सञ्चार दर्शनीय है। ऊँचे-नीचे स्थानों पर मेरी दृष्टि फिसल सी रही है।
सानुमती— राजर्षि दुष्यन्त की चित्रनिर्माण की निपुणता आश्चर्यजनक है। मुझे प्रतीत हो रहा है कि मेरी सखी शकुन्तला मेरे सामने विद्यमान है।
राजा— चित्र में जो कुछ अच्छा नहीं है वह सब पुनः ठीक बनाया जा रहा है। तो भी उस शकुन्तला का सौन्दर्य रेखाओं द्वारा थोड़ा ही प्रगट किया जा सका है ॥ १४ ॥
विशेष— दुष्यन्त चित्रनिर्माण में बड़े ही प्रवीण हैं। उनकी कलाकारिता पर विदूषक और सानुमती मुग्ध हैं, फिर भी उनका कहना है कि यद्यपि मैंने इस चित्र के बनाने में कई अंश बार-बार मिटाकर बनाये हैं किन्तु फिर भी शकुन्तला का सौन्दर्य थोड़ा ही उभर सका है।
षष्ठोऽङ्कः ३२५
सानुमती—सरिसं एदं पच्छात्तावगुरुणो सिनेहस्स अणवलेवस्स अ। [ सदृशमेतत् पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च। ]
विदूषकः—भो दाणिं तिण्णिओ तत्तहोदीओ दीसंति। सव्वाओ अ दंसणोआओ। कदमा एत्थ तत्तहोदी सउंदला। [ भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते। सर्वाश्च दर्शनीयाः। कतमात्र तत्रभवती शकुन्तला। ]
सानुमती—अणभिण्णो खु ईदिसस्स रूवस्स मोहदिट्ठी अअं जणो। [ अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः। ]
राजा—त्वं तावत्कतमां तर्कयसि ?
अत्यल्पम् अन्वितम् = अनुगतम्, अनुकृतं पौनःपुन्येन कृतेऽपि प्रयत्ने तस्या लावण्यं स्वल्पमेव समायातम्। अर्थात्—स्वयं विधात्रा मनसा कल्पिता सा शकुन्तलेति च मया मानुषेण कथं सम्यगालिखितुं शक्यते ? तस्मात् हे सखे माढव्य ! व्यर्थमेव ते प्रशंसा वाक्यम् संगीतरत्नाकरे रेखालक्षणं च एवमुक्तमस्ति।
शिरोरत्नकरादीनामङ्गानां मेलने सति।
कार्यस्थितियंतो नेत्रहरा रेखा प्रकीर्तिता ॥
अत्र पद्येऽनुष्टुभ्भेद एव पथ्यावक्त्रं नामकमस्ति वृत्तम् ॥ १४ ॥
सानुमती--राज्ञ पश्चात्तापवचनमाकर्ण्य सानुमती स्वगतं वदति यत् सदृशमनुरूपमनुकूलमेव एतत् दुष्यन्तोक्तः पश्चात्तापवचने पश्चात्तापगुरोः पश्चात्तापेन = परितापेन गुरोः = अधिकस्य स्नेहस्य प्रेम्णः अनवलेपस्य = अविद्यमानः अवलेपः = दोषो यत्र तादृशस्य अनवलेपस्य = विनयस्य।
विदूषकः--चित्रे लिखितानां तिसृणां स्त्रीणां मध्ये कतमा शकुन्तलेत्यजानन् विदूषको राजानं पृच्छति-भो = अये ! इदानीं = अधुना तिस्रः त्रिसंख्याकाः तत्र भवत्याः = माननीया दृश्यन्ते = अवलोक्यन्ते सर्वाः = सकला दर्शनीयाः = दर्शनयोग्याः रूपवत्यः आसां मध्ये कतमा = का तत्र भवती शकुन्तला ?
सानुमती—विदूषकवचनेन सा तमुपहसति—अनभिज्ञः = अपरिचितः खलु = निश्चयेन ईदृशस्य = एतत्प्रकारकस्य रूपस्य = शकुन्तलासौन्दर्यस्य मोहदृष्टिः मोहः = मुग्धता दृष्टौ = चक्षुषि यस्य स मोहदृष्टिः जडबुद्धिः निष्फलनेत्रः अयं = एष जनः। एष माढव्यो विदूषकः चित्र पश्चप्रमापटलं दृष्ट्वा मूढदृष्टिरसौ सञ्जात इत्यर्थः।
राजा—नृपः माढव्यं पृच्छति—मित्र ! त्वं तावत् आसु कतमां = काम् तर्कयसि = मन्यसे विचारयसि ? निश्चिनोषि ?
सानुमती—पश्चात्ताप के कारण बढ़े हुए प्रेम तथा अभिमान शून्यता के अनुरूप ही यह वक्तव्य है।
विदूषक—अजी, इसमें तो तीन आदरणीया युवतियाँ दिखाई दे रही हैं। सभी देखने लायक हैं। इनमें श्रीमती शकुन्तला कौन हैं ?
सानुमती—निष्फल दृष्टिवाला यह व्यक्ति इस तरह के अनुपम रूप से अनभिज्ञ ही है।
राजा--अच्छा तो तुम इनमें किसको शकुन्तला समझते हो ?
३२६ अभिज्ञानशाकुन्तलम्
विदूषकः—तक्केमि जा एसा सिढिलकेसबन्धणुव्वंतकुसुमेण केसंतेण उब्भिण्णस्सेअविंदुणा वअणेण विसेसदो आसरिआहिं बाहाहिं अवसेअसिणिद्धि-तरुणपल्लवस्स चूअपाअवस्स पासे इसिपरिससंता विअ आलिहिदा सा सउंतला। इदरोओ सहीओ त्ति। [ तर्कयामि येषा शिथिलकेशबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भि-न्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्वे ईषत्परिश्रान्तेवालिखिता सा शकुन्तला। इतरे सख्याविति। ]
राजा—निपुणो भवान्। अस्त्यत्र मे भावचिह्नम्।
विदूषकः—माधव्यो वदति यत् तर्कयामि = मन्ये या एषा = इयम् शिथिलं = श्लथं केशानां = मूर्धजानां बन्धनं = बन्धः तेन उद्भ्रान्तानि कुसुमानि = प्रसाधनपुष्पाणि यस्मात् स तेन शिथिलकेशबन्धनोद्वान्तकुसुमेन = प्रश्लथकेशकलापबन्धननिर्गलितपुष्पेण केशा-न्तेन = केशपाशहस्तेन उपलक्षिता, उद्भिन्ना = उद्गताः संजाताः स्वेदबिन्दवः श्रमजल-जालानि यस्मिन् तत् तेन उद्भिन्नस्वेदबिन्दुना = संजात घर्मजलाञ्चितेन वदनेन = मुखेन, विशेषतः = विशेषेण, बाहुल्येन, अपसृताभ्यां = आनतांशाभ्यां बाहुभ्यां = भुजाभ्या-मुपलक्षिता, अवसेकेन = अवसेचनेन स्निग्धाः = मसृणाः तरुणपल्लवाः=नवपत्राणि यस्मिन् स तस्य अवसेकस्निग्धाभिनवपल्लवस्य = जलसेकार्द्रीभूतनवकिसलयस्य चूतपादपस्य = आम्रवृक्षस्य पार्श्व = निकटे ईषत्परिश्रान्तेव = पादपेषु जलसेवनात् किञ्चिद् जात-श्रमेव, आलिखिता = चित्रिता सा शकुन्तला इतरे = परिशिष्टे अन्ये द्वे सख्यौ = आल्यो प्रियंवदानसूये इति तर्कयामि। अत्र एव सन्ति श्रमपरिणामाः केशबन्धशैथिल्यं, स्वेदो-द्गमः, भुजापसरणञ्च, ते सर्वे तत्र दृश्यन्ते।
राजा—विदूषकोक्तिमनुमोदमानो नृपस्तं श्लाघते-निपुण = पटुः, विशेषज्ञो भवान्=अस्ति रूपविशेषस्य सूक्ष्मेक्षिकयैव कुशाग्रधिषणैरेव लक्षितुं शक्यत्वादितिभावः। अत्र = शकुन्तलाचित्रे मे = मम, भावचिह्नम् = अनुरागलक्षणम् अयं भावः अस्याः प्रतिकृते-रुपरि वर्तमानं मदीयाश्रुप्रस्वेदादिपतनचिह्नैरेव परिज्ञातुं शक्यते एषा शकुन्तलेति। चित्रकारस्य मम रत्यादेः विभावानुभावादेः अश्रुबिन्दुप्रस्वेदरेखादिकं चिह्नजातमात्र
विदूषक—मेरा अनुमान है कि छिड़काव से चिकने हुए पल्लवों वाले आम के पेड़ के पास वह जो ढीले केशबन्धन से बाहर निकले फूलवाले केशपाश से तथा छलछलाते हुए पसीने की बूँदों वाले मुख से तथा अधिक लटकी भुजाओं से जरा थकी सी चित्रित की गई है, यह शकुन्तला है और अन्य दो सहेलियाँ हैं।
विशेष—दुष्यन्त ने आश्रम में शकुन्तला को उस समय देखा था, जब वह आश्रम के वृक्षों को सखियों के साथ सींच रही थी। उस समय वह श्रान्त-सी थी, उसकी चोटी ढीली पड़ गई थी, अतः उसमें लगाये गये पुष्प रह-रह कर गिर रहे थे, उसके मुखपर पसीने की बूँदें झलझला आई थी; उसकी कोमल बाहें थक गई थी, वह आम्र के पास खड़ी लता-सी प्रतीत हो रही थी, उसके इसी सौन्दर्य पर भारत सम्राट् हस्तिनापुर का अधिपति दुष्यन्त अपने को न्योछावर कर बैठा था। दुर्वासा के शाप का प्रभाव समाप्त हो जाने पर दुष्यन्त ने इसी दृश्य को अपनी कला का विषय बनाया है।
राजा—तुम बड़े चतुर हो, इस चित्र में मेरे सात्विक भावों की निशानी है।
षष्ठोऽङ्कः ३२७
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्तिकोच्छ्वासात् ॥ १५ ॥
राजा—चतुरिके ! अर्धलिखितमेतद्विनोदस्थानम् । गच्छ वर्तिकां तावदानय ।
चतुरिका—अज्ज माढव्व ! अवलंब चित्तफलं जाव आअच्छामि [ आर्य माढव्य ! अवलम्बस्व चित्रफलकं यावदागच्छामि । ]
फलके स्पष्टमवलोक्यते । अस्मिन् चित्रफलके यां प्रतिकृतिं शकुन्तलेयमिति मन्यसे तस्या मदङ्गुलिस्पर्शादिना मत्सात्विकभावचिह्नं प्रस्वेदरेखादिकं जातमित्याशयः ।
अन्वयः—रेखाप्रान्तेषु मलिनः स्विन्नाङ्गुलिविनिवेशः दृश्यते । इदं च कपोलपतितमश्रुवर्तिकोच्छ्वासात् दृश्यम् ।
प्रतिकृतौ लिखितासु तिसृषु ललनासु सावधानतया मुनिकन्यां शकुन्तलां परिचयन्तं विदूषकं श्लाघमानो राजा दुष्यन्तो ब्रवीति-स्विन्नाङ्गुलिरिति । रेखाप्रान्तेषु रेखायाः = प्रान्तेषु = पार्श्वदेशेषु मलिनः आविलः स्विन्नाङ्गुलिनिवेशः—स्विन्नाः भावोदयात् स्वेदयुक्ताः या अङ्गुलयः = करशाखाः तासां सन्निवेशः = संस्थापनं विन्यास इति स्विन्नाङ्गुलिसन्निवेशः = प्रस्वेदाविलाङ्गुलिसम्पर्कः, दृश्यते = विलोक्यते । यद्वा प्रान्तेषु = चित्रफलकपयन्तःभागेषु स्विन्नानामङ्गुलीनां विनिवेशात् = सम्पर्कात्, मलिना = श्यामा रेखा = अङ्गुत्यादिरेखा दृश्यते । चित्रलेखनावस्थायां भावोदयादङ्गुलिषु स्वेदः, स्वेदाच्च अङ्गस्य मालिन्यं अङ्गमालिन्यादेव च भावोदयानूमानम् । इदं च कपोलपतितं-कपोलयोः = चित्रस्थायाः शकुन्तलायाः गण्डयोः पतितं प्राप्तम् अश्रु = मम सात्विकभावोदयेनोत्पन्नं मदीयं नेत्रजलं वर्तिकोच्छ्वासात् वर्तिका = चित्रपटे लेपविशेषः तत्साध्या या रेखायां उच्छ्वासात् = संश्लेषशैथिल्यात् 'पटभेदे पक्षिभेदे तूलिकायां च वर्तिका' इत्यमरः दृश्यम् = लक्ष्यम् ज्ञातुं शक्यम् अर्थात् मित्र ! माढव्य ! त्वं सत्यमसि चतुरः । त्वया नूनं परिचिता मे प्रिया शकुन्तला अस्मिन् चित्रे कश्चन यः श्यामः अङ्गो दृश्यते स चित्रलेखनसमये तां त्वत्सखीं शकुन्तलामन्सुस्मरतों मम भावोदयात्, स्वेदाङ्गुलिविन्यासेन संजातः । यच्च चित्रलिखितायाः तस्याः कपोलयोः पतितं मम नयनजलं तद् वर्तिकोच्छ्वासात् जातम् । अत्रानुमानालङ्कारः आर्यावृत्तञ्च ॥ १५ ॥
राजा--चतुरिके ! एतत् = इदं विनोदस्थानम्, मनोरञ्जनाधारः, मन्मनोमोदावहम् एतच्चित्रम्, अर्धलिखितं = अर्द्धाङ्कितम्, असमाप्तं वर्तते । अतः गच्छ = व्रज वर्तिकां = तुलिकाम् चित्रलेखनद्रव्याणि तावत् आनय ।
**चतुरिका—आय्यंमाढव्य ! एतत्=**चित्रफलकम् = पटं अवलम्बस्व= धारयस्व यावत् = यावत्पर्यन्तमहमागच्छामि = परावर्ते ।
चित्रपट के किनारे-किनारे धूमिल पसीने से युक्त अंगुलियों का निशान दिखाई पड़ रहा है तथा यह चित्रगत शकुन्तला के गालों पर गिरा हुआ आँसू, रंग के फूल जाने से देखा जा सकता है ॥ १५ ॥
राजा—चतुरिके ! मेरे मनोरन्जन का यह साधन अधूरा ही चित्रित हुआ है, तो जाओ तूलिका लाओ ।
**चतुरिका—**आदरणीय माधव्यजी, चित्रपट को तबतक पकडिये जब तक मैं आती हूँ ।
३२८ अभिज्ञानशाकुन्तलम्
राजा—अहमेवैतदवलम्बे । ( इति यथोक्तं करोति । )
( निष्क्रान्ता चेटी ) ।
राजा—( निःश्वस्य ) अहं हि—
साक्षात्प्रियामुपगतामपहाय पूर्वं
चित्रार्पितां पुनरिमां बहुमन्यमानः ।
स्रोतोवहां पथि निकामजलामतीत्य
जातः सखे ! प्रणयवान् मृगतृष्णिकायाम् ॥ १६ ॥
**राजा—**अहमेव = स्वयम्, एतत् = चित्रफलकम्, आत्मविनोदार्थम्, अवलम्बे = धारये । ( इति = एवमुक्त्वा यथोक्तं करोति = चित्रं धारयति )
( चेटी = परिचारिका च निष्क्रान्ता = बहिर्गता ) ।
**राजा—**नृपो दुष्यन्तः निःश्वस्य = दीर्घश्वासं गृहीत्वा आत्मनोऽविमृश्यकारित्वमनु सन्धाय पश्चात्तापमनुभवन्नाह—अहं हि—साक्षादिति ।
**अन्वयः—**सखे ! अहं हि पूर्वं साक्षात् उपगतां प्रियाम् अपहाय चित्रार्पिताम् इमां पुनः बहु मन्यमानो निकामजलां स्रोतोवहाम् पथि अतीत्य मृगतृष्णिकायां प्रणयवान् जातोऽस्मि ॥ १६ ॥
आत्मनोऽविमृश्यकारित्वमनुसन्धायह्यन्तमनुतप्यमानो राजा दुष्यन्तः नैजीमवस्थां वर्णयति—साक्षादिति । हे सखे माढव्य ! पूर्वं = प्रथमं साक्षात् = प्रत्यक्षं स्वयमेव उपगतां = समीपे समागतां प्रियां = दयितां शकुन्तलाम् अपहाय = अवगणय्य निरस्य चित्रार्पिता = आलेख्ये लिखिताम्, इमां = पुरतोदृश्यमानां पुनः बहुमन्यमानः = प्रीतिसाधनं विभावयन् आदरेणावलोकमानः तस्यां श्रद्दधानः अहं हि पथि = मार्गे निकामजलां = निकामं जलं यस्यां सा ताम् तादृशीं पूर्णजलाम्, प्रभूतसलिलां वहतीति वहा = स्रोतसां वहा स्रोतोवहा तां स्रोतोवहां = नदीम् अतीत्य = पृष्ठत उपेक्ष्य उल्लङ्घ्य मृगाणां = हरिणानां तृष्णा = पिपासा अस्ति अस्यामिति मृगतृष्णां सैव मृगतृष्णिका तस्यां मृगतृष्णिकायां = मरुमरीचिकायां प्रणयवान् = प्रीतियुक्तः, सतृष्णः जातोऽस्मि = सम्पन्नोऽस्मि अर्थात् पूर्वं मार्गे अनायासेनोपगतां पूर्णसलिलां महानदीमुत्तीर्य गतवतः पिपासोः पुंसः पश्चात् पिपासो शान्त्यर्थं मृगतृष्णिकायां प्रणयवान् इव प्रथमं स्वयमुपस्थितां प्रियामवधीरिवततो मम चित्रार्पितायामस्यां मनोविनोदं कुर्वन् मूढ एवाहं संजातः । तथा च वर्त्मनि स्वयं प्राप्तां स्वादूदकां निर्झरिणीं विहाय मृगमरीचिमनुसरणमिव स्वयमेवोपस्थितां प्रियां परिहाय काल्पनिकेन चित्रेण चेतोविनोदम् हास्यकरम् ॥ १६ ॥
**राजा—**मै ही इसे पकड़ता हूँ ( ऐसा कहकर चित्रपट को पकड़ता है )
( चेटी = चतुरिका निकल जाती है )
राजा—( श्वास लेकर ) मित्र ! पहले साक्षात् समीप आई प्रिया का तिरस्कार कर अब चित्र में बनी हुई प्रिया को अधिक मानता हुआ मैं रास्ते में पड़ी हुई प्रभूत जलवाली नदी को पीछे छोड़कर मृगतृष्णिका का अनुगामी हो गया हूँ ॥ १६ ॥
षष्ठोऽङ्कः
३२९
विदूषकः—(आत्मगतम्) एसो अत्तभवं णदिं अदिककमिअ मिअतिण्हिआं संकंतो। (प्रकाशम्) भो ! अवरं किं एत्थ लिहिदव्वं ? [ एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः। भो अपरं किमत्र लिखितव्यम् ? ]
सानुमती—जो जो पदेसो सहीए मे अहिरूवो तं तं आलिहिदुकामो भवे। [ यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितुकामो भवेत्। ]
राजा—श्रूयताम्—
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः। शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १७ ॥
विदूषकः—राजोक्तं सत्यमिति समर्थयन् माधव्यः स्वगतमाह—एषः = अयम् अत्र भवान् = माननीयो राजा दुष्यन्तः नदीं = सरितम् शकुन्तलाम् अतिक्रम्य = उल्लङ्घ्य मृगतृष्णिकाम् = मृगमरीचिकाम् सङ्क्रान्तः = प्राप्तः। प्रकाशं=स्पष्टम्। भो=अये वयस्य ! अपरं = अन्यत् किम् अत्र = अस्मिन् चित्रपटे लिखितव्यम् = अङ्कितव्यम् ? अस्मिन् चित्रे भवान् किमन्यल्लिखितुमिच्छसीत्याशयः।
सानुमती—सानुमती स्वगतं वदति मे = मम सख्याः = शकुन्तलायाः अभिरूपः = रम्यः, ‘अभिरूपो बुधे रम्ये’ इति विश्वमेदिन्यौ। प्रदेशः = स्थानम् तं तं प्रदेशम् आलिखितुं = चित्रेऽर्पितुं कामः = इच्छा यस्य स आलिखितुं कामः राजा भवेत् = स्यात्। ममाली शकुन्तला येषु येषु स्थानेषु रमते तानि तानि स्थानानि राज्ञा चित्रेऽस्मिन् लिखितुमिष्टानीत्यर्थः।
राजा—अथ प्रगाढोन्मादो राजा शकुन्तलाचित्रनिर्माणशेषं पूरयितुमुपक्रममाणो विदूषकप्रश्नमुत्तरयति श्रूयताम्—कार्येति।
अन्वयः—सैकतलीनहंसमिथुना स्रोतोवहा मालिनी कार्या, तामभितः निषण्णहरिणा गौरीगुरोः पावनाः पादा कार्याः शाखालम्बितवल्कलस्य तरोरधः कृष्णमृगस्य शृङ्गे कण्डूयमानां च मृगीं निर्मातुमिच्छामि ॥ १७ ॥
मित्र ! चित्रं किमन्यल्लेखनीयमिति पृच्छन्तं माधव्यं ब्रवीति राजा दुष्यन्तः—कार्येति। सैकते = सिकतामये पुलिने = तटे लीनं = सुखासीनं हंसमिथुनं = हंसयोः मिथुन मरालयुगलं यस्याः सा सैकतलीनहंसमिथुना स्रोतांसि वहतीति स्रोतोवहा = नदी मालिनी = मालिनी नाम्नी कार्या = रचयितव्या तां = मालिनीमभितः = समीपे निषण्णाः = उप-
विदूषक—(मन ही मन) यह श्रीमान्जी नदी पार करके मृगतृष्णिका में प्रविष्ट हो गये हैं (प्रगट) अजी और क्या इसमें लिखना है।
**सानुमती—**जो जो स्थान हमारी सखी शकुन्तला को पसन्द हैं उसको-उसको वह चित्रित करने के इच्छुक हो सकते हैं।
**राजा—**सुनो, जिसके बालुकामय तट पर सुखपूर्वक हंस की जोड़ी बैठी हुई है, ऐसी मालिनी नदी बनानी है। उसके दोनों ओर हिमालय के पवित्र तलहटी के प्रदेश बनाने हैं। जिनमें हरिण
| ३३० | अभिज्ञानशाकुन्तलम् |
|---|
विदूषकः—(आत्मगतम्) जह अहं देखाामि पूरिदव्वं णेण चित्तफलं लंबकुच्चाणं तावसाणं कदंबेहिं। [यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः।]
राजा—वयस्य अन्यच्च शकुन्तलाया ^१प्रसाधनमभिप्रेतमस्माभिः।
विष्टाः हरिणाः = हरिण्यश्चेति हरिणा हरिणमिथुनानि मृगा यत्र सा निषण्णाः सुखोपविष्टहरिणयूथाः गौरीगुरोः गौर्याः = पार्वत्याः गुरुः = पिता तस्य हिमालयस्य पावनाः = पवित्राः तज्जनकाः वा पादाः = चरणाः निम्नभूमयः प्रत्यन्तपर्वताः कार्याः = लेखयितव्याः शाखासु = वृक्षस्कन्धेषु आलम्बितानि = अवलम्बितानि, अवसक्तानि वल्कलानि = वृक्षवल्कलवस्त्राणि यस्य स तस्य शाखालम्बितवल्कलस्य आतपशोषणाय शाखा प्रसारितवल्कलस्य तरोः = आश्रमवृक्षस्य अधः = तले कृष्णमृगस्य = कृष्णसारस्य हरिणस्य शृङ्गे = विषाणे वामं सव्यं नयनं लोचनमिति वामनयनं = वामाक्षि कण्डूयमानां = निघर्षन्तीं मृगीं = हरिणीं च निर्मातुं = चित्रे लिखितुम् इच्छामि = वाञ्छामि। कामतन्त्रकाराणां सिद्धान्तश्चायं—
रिरंसा यत्र जायेत कण्डूतिस्तत्र जायते।
मृगीणां वामनयने योषितां मदनालये॥
अर्थात् चित्रे किमपरं लिखितव्यमवशिष्टमिति विदूषकप्रश्नमुत्तरयता राज्ञा दुष्यन्तेन प्रोच्यते मित्र माधव्य ! हिमालयप्रान्तवाहिन्या मालिन्याः तटे परिसरे बालुकामयप्रदेशे सुखासीनं हंसयुगलसनाये आश्रमामोदतरुतलनिलिन कृष्णसारस्य शृङ्गकोणे स्वनाम लोचनं कण्डूयमानां मृगीं लिखितुमिच्छामि। अत्रोदात्तस्वभावोक्तौ अलङ्कारौ शार्दूलविक्रीडितं छन्दश्च ॥ १७ ॥
विदूषकः—माधव्यश्चित्रे राज्ञा लिखितव्येषु स्वयमूहति—आत्मगतं = स्वगतम्। यथा अहं पश्यामि = अवलोकयामि मयानुमीयते तदनुसारम् अनेन दुष्यन्तेन लम्बं = लम्बायमानं कूर्चं = कपोलचुबुककेशाः येषां ते तेषां लम्बकूर्चानां प्रलम्बश्मश्रूणां जटिलानां तापसानां = तपस्विनाम् कदम्बकैः समूहैः एतत् चित्रफलकं पूरयितव्यम्। 'कूर्चोऽस्त्री श्मश्रूपीठयोः' इति विश्वः।
राजा—वयस्य = मित्र ! अन्यत = अपरं च शकुन्तलायाः प्रसाधनं = अलंकरणं, सज्जा अभिप्रेतम् = अभीष्टम्, अतिप्रियम्, अस्माभिः = मया उद्दिष्टम् प्रियायाः शकुन्तला अतिप्रियं प्रसाधनं यल्लिखितुं मया विस्मृतं तदत्राहं लेखिष्यामीत्याशयः।
बैठे हुए हैं, जिनकी डालियों में सूखने के लिए वल्कल वस्त्र लटक रहे हैं, ऐसे वृक्ष के नीचे काले हरिण की सींग में बांई आंख को खुजलाती हुई हरिणी को बनाना चाहता हूँ ॥ १७ ॥
विशेष—हंस का जोड़ा, स्रोतोवहा नदी, हरिणपरिवार, मृग की सींग से अपनी बाईं आंख रगड़ती हुई हरिणी ये सब उद्दीपन विभाव हैं, आलम्बनविभाव शकुन्तला साथ में थी ही।
विदूषक—(मन ही मन) जैसा मैं समझता हूँ कि यह इस चित्र को लम्बी-लम्बी दाड़ी बालों के समूहों से भर देंगे।
राजा—मित्र ! और यह भी करना है। प्रिया शकुन्तला को जो आभूषण प्रिय थे, उन्हें मैं यहाँ बनाना भूल गया हूँ।
पाठा०—१. प्रसाधनमभिप्रेतमत्रा लिखितुं विस्मृतमस्माभिः।