अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
३३४ | अभिज्ञानशाकुन्तलम्
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु।
बिम्बाधरं १स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम्॥२०॥
विदूषकः—एव्वं तिक्खणदंडस्स किं ण भाइस्सदि। ( प्रहस्य आत्मगतम् ) एसो दाव उम्मत्तो। अहं वि एदस्स संगेण ईदिसवण्णो विअ संवृत्तो। ( प्रकाशम् ) भो ! वित्तं खु एदं [ एवं तीक्ष्णदण्डस्य किं न भेष्यति। एष तावदुन्मत्तः। अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः। भोः ! चित्रं खल्वेतत्। ]
अन्वयः--हे भ्रमर ! अक्लिष्टबालतरुपल्लवशोभनीयं मया रतोत्सवेषु सदयं पीतं प्रियाया बिम्बाधरं स्पृशसि चेत् त्वां कमलोदरबन्धनस्थं कारयामि।
उन्मादास्थापन्नो राजा चित्रेऽङ्कितं वार्यमाणमपि भ्रमरं प्रति क्रुद्धो तस्मै दण्डं दातुं भीषयन् आह—क्लिष्टेति। हे भ्रमर ! = हे मधुप ! अक्लिष्टः = न केनापि मर्दितः बालः नूतनः तरोः = वृक्षस्य पल्लवः=किसलयं दलं तद्वत् लोभनीयं=सुन्दरमिति अक्लिष्टबालतरुपल्लवशोभनीयम् मया = तत्सौन्दर्यवशीभूतेन दुष्यन्तेन रतमेवोत्सवा रतोत्सवाः तेषु रसोत्सवेषु = सुरतमहोत्सवेष्वपि रतिक्रीडासु सदयं = सानुकम्पं स्वादं स्वादं पीतम् = आस्वादितम्, न तु निर्दयमुपभुक्तम्, प्रियायाः = मम दयितायाः शकुन्तलाया. बिम्बाधरं-विम्बसदृशफलम धरोष्ठं स्पृशसि = दशसि चेत् त्वाम् = अपराधिनम् कमलस्य = पद्मस्य उदररूपं यद् बन्धनं कारागृहम् तत्र तिष्ठति यः स तं = कमलोदरबन्धनस्थं पद्मोदरकुहरकागारनिबद्धं कारयामि करिष्यामि। राजाऽहं त्वां परदारधर्षणोपराधेन निरुणध्मि। अर्थात् अये मधुकर ! कामुकवृत्तिः त्वं मया सुरते सदयं स्वादं स्वादं चुम्बितं मे प्रियाया बिम्बफलसदृशं सुन्दरमधरोष्ठं स्पृशसि चेत् तर्हि त्वामहं कमलोदरे घनान्धकारे निधाय दण्डयिष्यामीति भावः। अत्रातिशयोक्तिः समासोक्तिश्चालङ्कारौ छन्दश्चास्ति वसन्ततिलका ॥२०॥
विदूषकः--एवं = इत्थं तीक्ष्णदण्डस्य तीक्ष्णो दण्डो यस्य स तस्य कठोरनिग्रहस्य, पञ्चम्यर्थे षष्ठी उग्रशासनात् त्वत्तः किं = कथं न भेष्यति = भीतो भविष्यति, भीतो भविष्यतीत्येवेत्यर्थं आक्षेपगर्भमेयमुक्तिः। सुकुमारोऽयं दण्ड इति भावः। प्रहस्य = स्वावस्थाया अनुसन्धानात् हास्यं कृत्वा, उपहासपूर्वकम् एषः = अयं दुष्यन्तः तावत् = तु उन्मत्तः = वातुलः, विक्षिप्तः, अहमपि एतस्य = दुष्यन्तस्य सङ्गेन = सङ्गत्या ईदृशाः = एवंभूतो वर्णः रूपं स्वभावो वा यस्य स ईदृशवर्णः = एवंविधः, एवंरूपः, इव = यथा संवृत्तः = संजातः संसर्गजा दोष गुणा भवन्ति इति न्यायेन उन्मत्तसंसर्गादहमपि तत्समान एव जातोऽस्मीति भावः। भोः ! = अये ! चित्रम् = आलेख्यम् खलु = निश्चयेन एतत् = पुरोदृश्यमानम् चित्रस्थस्य मधुकरस्य दण्डनं भवतोऽशक्यमिति भावः।
हे भ्रमर ! किसी के द्वारा न छुए गये नवोद्गत तरुपल्लव की तरह मनोहर तथा मेरे द्वारा संभोगानन्द के समय दयापूर्वक ही पिया गया प्रियतमा का रक्त अधरोष्ठ यदि तुम छुओगे तो कमल के मध्यभागरूपी कारागार में बन्द करवा दूँगा ॥ २७ ॥
विदूषक —इस प्रकार कठोर दण्ड देनेवाले आप से यह क्यों नहीं डरेगा ? ( हँसकर अपने आप ) ये अब पागल हो गये हैं। मैं भी इनके साथ के कारण इसी प्रकार का हो गया हूँ, ( प्रगट रूप में ) अजी, यह तो चित्र है, न कि वास्तविक दृश्य।
पाठा—१. दशसि।
षष्ठोऽङ्कः | ३३५
**राजा—**कथं चित्रम्।
**सानुमती—**अहं वि दाणिं अवगदत्था किं उण जहालिहिदाणुभावी एसो।
[ अहमपीदानीमवगतार्था किं पुनर्यथालिखितानुभाव्येषः। ]
**राजा—**वयस्य किमिदमनुष्ठितं पौरोभाग्यम्।
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ २१ ॥
( इति बाष्पं ^१विहरति )
राजा--कथं = किम् एतत् चित्रम् = आलेख्यम् ?
**सानुमति --अप्सरा वदति--**सानुमत्यपि राजवचनात् सत्यमियं शकुन्तलेति भ्रमः तन्मयतया चित्रे जातः स च विदूषकवचसा निरस्तः इति स्थितिः । तदाह—अहमपि इदानीम् = अधुना अवगतार्था—अवगतः = ज्ञातः अर्थः = वस्तु चित्रत्वं यथा तादृशी संजाता चित्रमिति ज्ञानं ममापि साम्प्रतमेव जातमित्यर्थः । किं पुनः यथालिखितानुभावी—लिखितं = चित्रितम् अनतिक्रम्य यथालिखितं लिखितानुरूपं तत् अनुभवति = ध्यायतीति यथालिखितानुभावी = यथाचिन्तानुसारी, चित्रे प्रियां भावयन् एषः = राजा दुष्यन्तः किं पुनः = यदाहं स्वस्वबुद्धिरपि चित्रे सत्यं शकुन्तलैवेयमिति भ्रान्ता विदूषकवचनादेवेदानीं प्रतिबुद्धा तर्हि शकुन्तलागतमानसो चित्रस्थामिमां शकुन्तलां मन्यमानो राजा दुष्यन्तो भ्रान्तश्चेत्तत्र किमु वक्तव्यम् ? तद्रसाविष्टचेतसो राज्ञस्तु भ्रान्तिरुचितैवेत्याशयः ।
राजा--वयस्य ! = मित्र माधव्य ! किम् = किमर्थम्, व्यर्थमेव, इदं = पूर्वोक्तरीत्या अनुष्ठितं = कृतम् पौरोभाग्यम् = पुरोभागिनः दुष्कर्मनिरतस्य कार्यम् दोषदर्शित्वम्—'दोषैकदृक् पुरोगामी' इत्यमरः । अस्मिन् हि चित्रे नेयं शकुन्तलेति दोषः कथममुद्भावितः त्वयेत्युपलम्भः । नेदमुचितमाचरितं मत्सुखस्वप्नं विनाशयता त्वयेति भावः । तदेव विवृण्वन्नाह--दर्शनसुखेति ।
अन्वयः--स्मृतिकारिणा त्वया तन्मयेन हृदयेन साक्षादिव दर्शनसुखमनुभवतः मे कान्ता पुनरपि चित्रीकृता ।
शकुन्तलाचित्रं तन्मयतयाऽवलोकयन् राजा दुष्यन्तो माधव्येन प्रतिबोधितो तमपराधं मन्यमानो ब्रवीति--दर्शनसुखेति । स्मृतिकारिणा = इदं चित्रं न साक्षात् शकुन्तलेति स्मृतिं
**राजा—**क्या चित्र है।
**सानुमती—**मैं भी अब यथार्थ को समझ सकी हूँ। जैसा चित्र में लिखा है उसी प्रकार अनुभव करने वाले इस राजा का तो कहना ही क्या है ?
**राजा—**मित्र ! तुमने यह ईर्ष्या प्रकृति का कैसा प्रदर्शन किया ?
तल्लीन चित्त से प्रत्यक्ष की तरह दर्शन सुख का अनुभव करने वाले मुझे स्मरण करा देने वाले तुम्हारे द्वारा प्रियतमा पुनः चित्रित कर दी गई है ॥ २१ ॥
( ऐसा कहकर आँसू बहाता है )
पाठ०—१. विसृजति ।
३३६ अभिज्ञानशाकुन्तलम्
सानुमती—पुव्वावरविरोहो अपुव्वो एसो विरहमग्गो। [ पूर्वापरविरोध्यपूर्वं एष विरहमार्गः। ]
राजा--वयस्य ! १कथमेवविश्रान्तदुःखमनुभवामि ।
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ २२ ॥
कारितवता त्वया = माधव्येन तन्मयेन = शकुन्तलामयेन हृदयेन = चेतसा कान्तेवेयमिति दृढबुद्ध्या साक्षादिव = प्रत्यक्षमिव दर्शनसुखं = प्रियदर्शनानन्दम्, अनुभवतः = उपलभमानस्य मे = मम कान्ता = दयिता प्रिया शकुन्तला पुनरपि = भूयोऽपि चित्रीकृता = चित्ररूपेण परिणमिता, आश्चर्यरूपा कृता 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । अर्थात् मित्र माधव्य ! आत्मनो विरहविनोदाय प्रियाया शकुन्तलाया प्रतिमूर्ति निर्माय तन्मयतया तां साक्षादिवोपस्थितां मत्वा तद्दर्शनसुखानि अनुभवती मम नेयं शकुन्तला, किन्तु तच्चित्रमिति कथनेन पुनस्त्वं त्वया स्मृतिपथमुपनीता। तस्माद्भवतोऽयं महानपराधोऽस्ति । अत्रोत्प्रेक्षालङ्कार आर्याजातिश्च वृत्तं ॥ २१ ॥
( इति = एवमुक्त्वा ततः बाष्पं = अश्रु विहरति = त्यजति । मम प्रिया प्राक् नष्टा पुनः प्राप्ता, भूयोऽपि नष्टेति हेतोरश्रुजलं विमुञ्चतीत्यर्थः । )
सानुमती—पूर्वापरविरोधी–पूर्वस्य = प्रथमावस्थायाः अपरस्य अपरावस्थायाश्च यो विरोधः = परस्परप्रतिषेधः तद्वान् पूर्वापरविरोधी, पूर्वं प्रियायाः परिग्रहः पश्चादनास्थया परित्यागः = सहसा शकुन्तलायाः प्रत्याख्यानम्, पुनरधुना तदर्थं पश्चात्तापेन शोकातिशयः इति पूर्वापरविरोधः यद्वा पूर्वं चित्रस्य चित्रत्वेन ज्ञानम् स्वयमेवलेखनात् पुनः तस्योन्मादावस्थायां सत्यत्वेन ज्ञानम्, पुनरपि चित्रत्वेन ज्ञानमिति पूर्वापरविरोधः। अत एव अपूर्वंः = आश्चर्यकारी नवीनो वा विरहमार्गः—विरहस्यं = इष्टजन वियोगशोकस्य मार्गः = पन्थाः रीतिरित्यर्थः ।
राजा—आलेख्यदर्शनात्मकस्य विनोदस्य वाष्पादिना प्रतिहननात् नृपः सखेदं विदूषकमाह—वयस्य = सखे ! कथं = केन प्रकारेण एवम् = इत्थम्, अविश्रान्तदुःखम् = अपरम्, अनवरतवेदनाम् अनुभवामि = प्राप्नोमि, सहे । इदृक् निरन्तरदुःखमनुभवितुं नाहं शक्नोमीतिभावः । कुत इत्याह—प्रजागरादिति ।
अन्वयः—प्रजागरात् तस्याः स्वप्ने समागमः खिलीभूतः । बाष्पस्तु चित्रगताप्येनां द्रष्टुं न ददाति ॥ २२ ॥
आत्मनो दुःखसहनाशक्तत्वं कथयन् राजा दुष्यन्तो माधव्यं ब्रूते—प्रजागरेति । प्रजागरात् = रात्रिजागरणात् तस्याः = मम प्रियायाः शकुन्तलायाः स्वप्ने = निद्रायां
सानुमती—यह विरह का मार्ग आगे तथा पीछे की बातों से तालमेल न रखने वाला है अपूर्व होता है ।
राजा—मित्र ! मैं क्यों इस प्रकार निरन्तर वेदना का अनुभव कर रहा हूँ ।
रातभर जागरण के कारण उस शकुन्तला का स्वप्न में मिलन रुक गया है और आंसू चित्र में अङ्कित इस शकुन्तला को देखने नहीं देते ॥ २२ ॥
पाठ०—१. कथमविश्रामं दुःखमनुभवामि ।
षष्ठोऽङ्कः ३३७
सानुमती—सव्वहा पमज्जिदं तुए पच्चादेसदुक्खं सउंदलाए । [ सर्वथा प्रमाजितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः । ]
( प्रविश्य )
चतुरिका—जेदु जेदु भट्टा । वठ्ठिआकरंडअं गेण्हिअ इदोमुहं पत्थिद म्हि । [ जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि । ]
राजा—किं च ।
चतुरिका—सो मे हत्थादो अंतरा तरलिआदुदीआए देवीए वसुमदीए अहं एव्व अज्जउत्तस्स उवणइस्सं त्ति सबलक्कारं गहीदो । [ स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याऽहमेवार्यपुत्रस्यापनेष्यामीति सबलात्कारं गृहीतः । ]
समागमः = मत्सामीप्यागमनमिति स्वप्नसमागमः दर्शनं तु खिलीभूतः = उपहतः प्रतिहतः निषिद्धः, अनिद्रया विनाशितः विधिनतः किञ्च बाष्पः तां तां पूर्वावस्थां स्मरतो मे दुःखान्नेत्राभ्यां स्रवदश्रुजलम् तु चित्रगतामपि = आलेख्ये लिखितामपि एनां प्रियां द्रष्टुं = अवलोकयितुं न ददाति = दर्शनं प्रतिसन्धे, चित्रादिना मनोविनोदनमपि मे देवं न सहते किं करोमि मन्दभाग्यः इति भावः । अत्र हेतुनुप्रासौ अलङ्कारौ अनुष्टुप् छन्दश्च ।
सानुमती—अथ राज्ञोऽवस्थामलोक्यप्सरा सानुमती सकरुणमाह—सर्वथा सर्वप्रकारेण वाङ्मनःकायकैर्व्यापारैः शकुन्तलायाः = सख्या प्रत्यादेशदुःखं प्रत्यादेश एव दुःखं प्रत्यादेशदुःखं अन्वादेशदुःखम् परित्यागकष्टं प्रमाजितं = दूरीकृतम् प्रोञ्छितम् ।
( प्रविश्य = अन्तरागत्य )
चतुरिका—जयतु जयतु भर्ता = स्वामी महाराजः सर्वोत्कर्षेण वर्तताम् वर्तिका = चित्रलेखनसाधनं करण्डकं = रङ्गभाजनम् । वर्तिकायाः करण्डकमिति वर्तिकाकरण्डकम् = वर्णकमञ्जूषाम् । गृहीत्वा = आदाय इतः = इह अस्यां दिशि मुखं = वदनं यस्मिन् कर्मणि यथास्यात्तथा इतोमुखम् = भवदभिमुखम्, प्रचलिता = प्रस्थिता अस्मि ।
राजा—ततः किम् = त्वं प्रस्थितासि ततः किं जातम् ? तत् कथयेत्यर्थः ।
चतुरिका—स तूलिकाकरण्डकः मे = मम हस्तात् = करात् अन्तरा = मध्येमार्गं तरलिकाद्वितीया = तरलिका सङ्गिनी यस्याः सा तया तरलिकाद्वितीया देव्या राजमहिष्या वसुमत्य अहमेव आर्यपुत्रस्य = स्वामिनः उपनेष्यामि = समीपे प्रापयिष्यामि इति = इद-
सानुमती—वस्तुतः इस कथन से तुमने शकुन्तला के परित्याग का दुःख सब तरह से धो दिया है ।
( प्रवेश करके )
चतुरिका—जय हो, जय हो स्वामी की, महाराज ! मैं ब्रुश और रंग की पेटी को लेकर इधर की ओर आ रही थी ।
राजा—तो फिर क्या हुआ ?
चतुरिका—तरलिका के द्वारा अनुगमन की जाती हुई महारानी वसुमती ने बीच में ही 'मैं ही इसे महाराज के पास पहुँचाऊँगी' ऐसा कहकर जबर्दस्ती मेरे हाथ से छीन लिया ।
२२ शाकु०
| ३३८ | अभिज्ञानशाकुन्तलम् |
|---|
विदूषकः—दिट्ठिआ तुमं मुक्का। [ दिष्ट्या त्वं मुक्ता । ]
चतुरिका—जाव देवीए विडवलग्गं उत्तरीअं तरलिआ मोचेदि ताव मए णिव्वाहिदो अत्ता [ यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वार्हित आत्मा । ]
राजा—वयस्य, उपस्थिता देवी बहुमानगर्विता च। भवानिमां प्रतिकृतिं रक्षतु।
विदूषकः—अत्ताणं ति भणाहि। जइ भवं अंतेउरकालकूडादो मुंचीअदि तदो मं मेहप्पडिच्छंदे प्पासादे सद्ावेहि। [ आत्मानमिति भण। यदि भवानन्तःपुरकालकूटान्मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय । ] ( इति द्रुतपदं निष्क्रान्तः )।
मुक्त्वा सबलात्कारं = बलात्कारेण सहितं सबलं हठात् गृहीतः । वर्तिकाकरण्डकनयनं विनोदार्थं राज्ञः शकुन्तलाप्रतिकृति लेखनोपयोगि भवेदिति मत्वा प्रणयकोपेन तद्विघटनाय देव्या वसुमत्या एवमाचरितमिति तात्पर्यम् ।
विदूषकः—दिष्ट्या=सौभाग्येन विमुक्ता = परित्यक्ता न दण्डिता वर्तिका करण्डकवत् त्वमपि देव्या न गृहीतेति स्वं सौभाग्यं मन्यस्वेतिभावः ।
चतुरिका—यावत् देव्याः राज्ञ्या। विटपे = वृक्षशाखायां लग्नं = संसक्तमिति विटपलग्नं = कोपेन ससंभ्रमगमनात् वृक्षशाखासंसक्तं उत्तरीय = चेलाञ्चलं यावत् तरलिका मोचयति तावत् मया आत्मा = स्वदेहः निर्वार्हितः=पलाय्य रक्षितः इमं देशं प्रापितः सुरक्षितः पलायितास्मि तेनाहं मुक्ता नहि तयाः स्वेच्छया परित्यक्तेतिभावः। 'आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु' इति विश्वः।
राजा—वयस्य । हे = मित्र ! उपस्थिता = आगतप्राया प्राप्ता, देवी = राज्ञी बहुः = अधिकः मानः = सम्मान। तेन गर्विता इति बहुमानगर्विता च इयदिदनपर्यन्तं मस्कृतैकेण बद्धादरेण गर्विता अहमेवार्यपुत्रस्य बहुमतेत्यभिमानवतीत्यर्थः । भवान् = त्वं, इमां = एताम्, दीपमानां प्रतिकृतिं = शकुन्तलाचित्रम् रक्षतु = त्वया एतच्चित्रं गोपनीयम् । यदि देवी एतदवस्थं मामवलोकयेत्तदा कुपितायाः तस्याः प्रसादनं दुःशकं स्यात् । यदि च सा मया प्रयत्नलिखितामिमां शकुन्तलाप्रतिकृतिम् पश्येत् तर्हि नूनमीर्ष्याया एनां नाशयेत् । अतो भवानिमां प्रतिकृतिं गृहीत्वा इतः शीघ्रमपयातु इति तात्पर्यम् ।
विदूषकः—देव्यागमनश्रवणेन विदूषकः ससंभ्रममाह—आत्मानमिति भण=आत्मानमपि गोपायेति कुतो न कथ्यते, चित्रं गोपायेत्येव किमुच्यते इति शेषः। आत्मानं विदूषकं राजानं वा इति = एवं भण = वद, भवानात्मानं रक्षतु इति कथयेत्यर्थः। किं
विदूषक—सौभाग्य से तुम छूट गई।
चतुरिका—जबतक महारानी के वृक्ष की शाखा में फँसे दुपट्टे को तरलिका छुड़ाने लगी तबतक मैं भागकर चली आई।
राजा—महारानी आ रही हैं और वह इस समय अत्यधिक मानवती हैं और गर्वीली हो गई हैं। अतः आप इस चित्र की रक्षा करें।
विदूषक—यह कहो कि अपनी रक्षा करो (चित्रपट लेकर उठ जाता है) यदि आप अन्तःपुर के काल से मुक्त हो जाइएगा तो मुझे मेघप्रतिच्छन्द नामक महल में पुकारना। इसका
षष्ठोऽङ्कः
३३९
सानुमती—अण्णसंकंतहिअओ वि पढमसंभावणं अवेक्खदि सिढिलसोहदो दाणिं एसो । [ अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते शिथिलसौहार्द इदानीमेषः । ]
( प्रविश्य पत्रहस्ता )
प्रतीहारी—जेदु जेदु देवो । [ जयतु जयतु देवः । ]
राजा-वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी ।
मन्यसे प्रकृतिमात्रं नाशयेद्देवी ? मामपि हन्याद् यदि पश्येत् तन्न केवलं प्रतिकृतिरपि- तु मया तत्सकाशात् आत्मापि रक्षणीय इति भावः। यदि = चेत् भवान् अन्तःपुरकाल- कूटात् — अन्तःपुरम् = अवरोधनेव कालकूटं महाविषमिति अन्तःपुरकालकूटं तस्मात् अन्तःपुरकालकूटात् = अन्तःपुरदेवीकलहात् वसुमत्याः प्रपञ्चात् मोक्ष्यते=मुक्तो भविष्यति तदा = तर्हि मेघप्रतिच्छन्दके = मेघप्रतिच्छन्दनामके प्रसादे = राजभवने शब्दपय = शब्दं कारय, आह्वय आकारय, इतो विमुच्य मेघप्रतिच्छन्दके भवता आगन्तव्यं तत्रैव चाहमन्वे- ष्टव्य इत्याशयः । ( इति=एवमुक्त्वा ततः द्रुतपदं—द्रुतानि=आशूनि पदानि = चरणक्षेपाः यस्मिन् कर्मणि तद् यथा स्यात्तथा द्रुतपदम् त्वरितपदन्यासम् निष्क्रान्तः = निर्गतः ।
सानुमती—अथाप्सरा राजवचनं निशम्य तस्य देवी विषयेऽसाधारणं दाक्षिण्यमवगत्य च सविस्मयं श्लाघमाना वदति-अन्यसंक्रान्तहृदयोऽपि-अन्यस्यां शकुन्तलायां संक्रान्तं = आसक्तं हृदयं = मनो यस्य स तादृशोऽपि शकुन्तलासक्तचित्तोऽपि प्रथमा = पूर्वमहिषी तत्सम्भावनं=तद्बहुमानम्, पूर्वानुरागम् यद्वा प्रथमा = प्राक्कृता सम्भावना =सत्क्रिया पूर्वं- दर्शिता या वसुमत्यां प्रीतिः ताम् अपेक्षते = मानयति । शिथिलसौहार्दः-शिथिलं = मन्दं सौहार्दं = वसुमत्या प्रेम यस्य सः तथाविधः सर्वेश्वरोऽपि सन्मयं दुष्यन्तः देव्याः = वसुमत्या सकाशात् शकुन्तलाचित्रं निगूहति तत्र कारणं प्रथमदर्शितप्रणयगौरवम्, न तु वसुमतीभयमितिभावः ।
( प्रविश्य = आगत्य पत्रहस्ता पत्रं = लेख्यं हस्ते = करे यस्याः सा तादृशी पत्रहस्ता )
प्रतीहारी—अथ राज्ञो विरहवेदनायाः परिपोषं प्रदर्शयितुमनपत्यतादुःखं वर्णयिष्यन् कविः प्रतीहार्याः प्रवेशमाह—जयतु जयतु देवः = सर्वोत्कर्षेण वर्ततां महाराजः ।
राजा—वेत्रवति ! हे द्वारपालिके ! अन्तरा = मार्गमध्ये त्वया न खलु राज्ञी = देवी वसुमती दृष्टा = अवलोकिता ।
अर्थ है मेघ के समान 'मेघस्य प्रतिच्छन्दः यस्य सः तस्मिन् मेघप्रतिच्छन्द'—उस महल की अधिक ऊँचाई होने के कारण यह नाम दिया जाना उचित ही है ।
( यह कहकर जल्दी जल्दी पैर बढ़ाता हुआ निकल जाता है )
सानुमती—दूसरी स्त्री शकुन्तला में आसक्त भी यह राजा पूर्वप्रणय की रक्षा करता है। सम्प्रति यह वसुमती के प्रति शिथिल प्रेमवाला हो गया है । अर्थात् वसुमती के प्रति अब इसका प्रेम कम हो गया है ।
( हाथ में पत्र ली हुई प्रवेश करके )
प्रतीहारी—जय हो, जय हो महाराज की !
राजा—वेत्रवती तुमने मार्ग में महारानी वसुमती को नहीं देखा है ?
३४० | अभिज्ञानशाकुन्तलम्
प्रतीहारी— अह इं ! पत्तहत्थं मं देखिअअ पडिणिउत्ता । [ अथ किम् ? पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । ]
राजा— कार्यज्ञा कार्योपरोधं मे परिहरति ।
प्रतीहारी— देव अमच्चो विण्णवेदि-अत्थ-जादस्स गणणाबहुलदाए एक्कं एव्व पोरकज्जं अवेक्खिदं तं देवो पत्तारूढं पच्चक्खीकरेदु त्ति । [ देव अमात्यो विज्ञापयति-अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोतु इति । ]
राजा— इतः पत्रिकां दर्शय । ( प्रतिहार्युपनयति )
राजा— ( अनुवाच्य ) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी । 'राजगामी तस्यार्थसंचयः' इत्येतद्-
प्रतीहारी— अथ किं पत्रहस्तां = आलेख्यकरां मां प्रेक्ष्य = दृष्ट्वा अवलोक्य प्रतिनिवृत्ता = स्वभवनमेव गता, अन्तःपुरमेव प्रविष्टा ।
राजा— आवश्यकं कार्यं = करणीयं जानाति = अवगच्छतीति कार्यज्ञा = अवसरज्ञा, कार्याकार्यविवेकिनी राजकार्यविशेषज्ञा राजनियोगगौरवाभिज्ञा सती मे = मम कार्योपरोधं राजकार्यबाधां परिहरति = त्यजति । राजकार्यस्य विघ्नजननमसमीचीनं कार्यमिति मत्वा निवर्तते देवीतिभावः ।
प्रतीहारी— देव ! = महाराज ! अमात्यः = मन्त्री विज्ञापयति = निवेदयति अर्थजातस्य = वित्तकरस्य तैस्तैरधिकरणकैः प्रेषितस्य समूहस्य गणनायाः संख्यानस्य बहुलतया = आधिक्येन एकमेव पौराणां = नगरनिवासिनां कार्यं = कृत्यं, अवेक्षितम् = आलोकितं दृष्टम् तत् = कार्यं देवः = महाराजः पत्रारूढं = आलेखबद्धम् प्रत्यक्षीकरोतु = स्वयमा-लोचयतु इति ।
राजा— इतः पत्रिकां दर्शयं = पत्रिकां मत्समीपमुपनय । ( प्रतिहारी = द्वारपालिका उपनयति = राज्ञः समीपे नयति समर्पयति )
राजा— ( अनुवाच्य = निःशब्दं पठित्वा ) कथं = अहो, समुद्रव्यवहारी = समुद्रेण सागरमार्गेण व्यवहरति = पणते क्रयविक्रयकर्मं कुरुते यः स समुद्रव्यवहारी, सागरमार्गव्यापारी पोतवणिक् सार्थवाहः = सार्थान् व्यवहरति यः सः समुद्र-वाणिज्यकर्तृन् वाहयति देशान्तराणि यः सः सार्थवाहः = वणिक्पतिः धनमित्रः नौव्यसने नवां = पोतानां व्यसनं = भ्रंशः जलमज्जनं तस्मिन् 'व्यसनं विपदि
प्रतीहारी— और क्या ( अर्थात् दिखलाई पड़ी थी ), किन्तु मुझे हाथ में पत्र ली हुई देखकर वापस हो गई ।
राजा— कार्य को समझने वाली महारानी मेरे राजकीय कार्य में विघ्न नहीं डालती है ।
प्रतीहारी— मन्त्री निवेदन करते हैं कि कररूप में प्राप्त द्रव्य समूह की गणना की अधिकता के कारण आज एक ही नागरिक कार्य देखा गया है, वह इस पत्र में चढ़ा हुआ है । महाराज इसे देख लें ।
राजा— पत्र मुझे दिखाओ । ( प्रतीहारी पत्र देती है )
राजा— ( पढ़कर ) यह क्या, समुद्र के मार्ग से व्यापार करने वाला धनमित्र नामक व्यापारियों का मुखिया नौका दुर्घटना में मर गया, वह बेचारा निःसन्तान था । अतः उसका
पाठा०—१. पत्रं ।
षष्ठोऽङ्कः ३४१
मात्येन लिखितम्। कष्टं खल्वनपत्यता। बहुधनत्वाद्वहुपत्नीकेन तत्रभवता भवितव्यम्। विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात्।
प्रतीहारी—देव! दाणिं एव्व साकेदअस्स सेट्ठिणो दुहिआ णिव्वुत्तपुंसवणा जाआ से सुणीअदि। [ देव, इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते। ]
राजा—ननु गर्भः पित्र्यं रिक्थमर्हति। गच्छ एवममात्यं ब्रूहि।
अंशे' इत्यमरः। विपन्नः = मृतः नौकादुर्घाटनया अनपत्यः = सन्ततिरहितः किल = निश्चयेन स तपस्वी = अनुकम्पापात्रम् वराकः राजानं = देशशासकं गच्छति मिलतीति राजगामी = राज्यकोषगामी, राजैकलभ्यः तस्य धनमित्रस्य वणिजः अर्थसंचयः = धनसंग्रहः राजैव तस्याधिकारीति निश्चीयतेऽस्माभिरिति = एतत् अमात्येन = मन्त्रिणा लिखितम् = अङ्कितम् यथा भवते रोचते तथानुज्ञायतां भवानिति भावः ‘इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः’ । इति मनुः। धनमित्रस्यावस्थां विचिन्त्य राजा सविषादमाह—कष्टं = दुःखप्रदम् दुःखोत्पादिका खलु = निश्चयेन अनपत्यता = निःसन्तानता बहुधनं यस्यासौ बहुधनः तस्य भावः तत्त्वं तस्मात् बहुधनत्वात् = आढ्यत्वात् बह्व्यः पत्न्यो यस्य सः बहुपत्नीकः तेन बहुपत्नीकेन = अनेकभार्येण, भार्याबाहुल्यवता तत्रभवता श्रेष्ठिना = धनमित्रेण भवितव्यं = भाव्यम् । विचार्यतां = निपुणं निरीक्ष्यताम्, अन्विष्यताम् तस्य = धनमित्रस्य वणिजः भार्यासु = पत्नीषु यदि = चेत् काचित् = कापि भार्या आपन्नसत्त्वा—आपन्नं = प्राप्तं सत्त्वं = जीवः या सा आपन्नसत्त्वा = गर्भिणी स्यात् = भवेत्।
प्रतीहारी—देव ! = महाराज ! इदानीमेव = अधुनैव साकेतस्य = अयोध्यायाः श्रेष्ठिनः = धनिकस्य वणिजः दुहिता = पुत्री निर्वृत्तपुंसवनानिर्वृत्तं पुंसवनं = गर्भाधानोत्तरं कर्तव्यः पुसवनाख्यसंस्कारविशेषो यस्यासौ निर्वृत्तपुंसवना, जातपुंसवनसंस्कारा अस्य = समुद्रवणिजः जाया = भार्यास्तीति, श्रूयते = आकर्ण्यते।
राजा—ननु = निश्चयेन गर्भः = गर्भस्थो जीवः गर्भस्थमपत्यं वा पित्र्यं पितुरागतं पैतृकं पितृसम्बन्धिरिक्थं = धनं, ‘रिक्थमृक्थं धनं वसु’ इत्यमरः। अर्हति = लब्धुं योग्योऽस्ति। गच्छ = याहि एवं = इत्थं पूर्वोक्तम् अमात्यं = मन्त्रिणं पिशुननामानं ब्रूहि = वद।
धनसंग्रह राजा को प्राप्त होना चाहिए। यह अमात्य ने लिखा है। निश्चय ही निःसन्तान होना महान् कष्टकारक है। वेत्रवती उस व्यक्ति के पास अधिक धन है। अतः उसकी अनेक स्त्रियाँ होनी चाहिए। पता लगाया जाय, शायद उसकी स्त्रियों में कोई गर्भिणी हो।
प्रतीहारी—महाराज! सुनने में आ रहा है कि अयोध्या के निवासी सेठ की पुत्री जिसका पुंसवन संस्कार अभी-अभी सम्पन्न हुआ है, इसकी पत्नी है।
विशेष--पुंसवन संस्कार संस्कारों में दूसरा संस्कार है जो गर्भ का निश्चित पता चल जानेपर तीसरे माह में किया जाता था। इस संस्कार से पिता पुत्र की उत्पत्ति की कामना करता था। यदि तीसरे माह में पता न चले तो चतुर्थ मास में यह किया जाता है—
व्यक्ते गर्भे तृतीये तु मासे पुंसवनं भवेत्।
गर्भेऽव्यक्ते तृतीये चतुर्थे मासि वा भवेत्॥ (शौनकसंहिता ४।२२)
राजा—तो गर्भस्थ बालक पैतृक धन का अधिकारी है, आओ ऐसा मन्त्री से कह दो।
३४२ अभिज्ञानशाकुन्तलम्
प्रतीहारी—जं देवो आणवेदि । [ यद्देव आज्ञापयति । ] ( इति प्रस्थिता )
राजा—एहि तावत् ।
प्रतीहारी—इअम्हि । [ इयमस्मि । ]
राजा—किमनेन संततिरस्ति नास्तीति ।
येन तेन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां 'दुष्यन्त इति घुष्यताम् ॥ २३ ॥
प्रतीहारी—यत् = यथा देवः = महाराजः आज्ञापयति = आदिशति तथा क्रियते ( इति = एवमुक्त्वा ततः प्रस्थिता = प्रचलिता ) ।
राजा—नृपोऽपरमपि किञ्चिद्वक्तुकामः प्रस्थितामपि प्रतिहारीं निवर्तयितुमाह— एहि तावत् = प्रतिनिवर्तस्व तावत् किञ्चित् श्रुत्वा गन्तव्यम् ।
प्रतीहारी—इयं = एषा उपस्थिता अस्मि । आज्ञापयतु महाराज इत्याशयः ।
राजा—सन्ततिरस्ति = सन्तानो विद्यते, नास्ति = न वर्तते इति अनेन विचारेण किं = किं प्रयोजनं व्यर्थं मद्रराज्ये प्रजानां सन्ततिरस्तु वा, मास्तु वेति विचारो न कर्तव्य इति तात्पर्यम् ।
अन्वयः—प्रजाः येन येन स्निग्धेन बन्धुना वियुज्यन्ते, पापात् ऋते दुष्यन्तः तासां स स इति घुष्यताम् ।
धनमित्रस्यार्थजातं तद्बान्धवैरैवोपभुज्यतामित्यर्थं दर्शयितुं सामान्यतया निजप्रजाजनेषु घोषणीयमर्थं विवृणोति—येन येनेति । प्रजाः = जनाः येन येन स्निग्धेन = स्नेहयुक्तेन प्रियेण बन्धुना = बान्धवेन पितृमातृपुत्रादिना स्वजनेन आत्मीयेन वियुज्यन्ते वियुक्ता भवन्ति पापादृते = दुरितेन विना पातकिनं विहाय यद्वा स्त्रीणां भर्तृत्वेन विना पुंसां भार्यात्वेन दुष्यन्तः = तन्नामकोऽहं राजा तासां = प्रजाजनानां स स = येन येन बन्धुना प्रजाः वियुक्ताः स स बन्धुः इति = इत्थं घुष्यतां भेरीप्रहारपूर्वकमावेद्यतां प्रजायां घोषयितव्यमितिभावः ।
अर्थ भावः—मम राज्ये प्रजासु यः कश्चित् जनः येन येनात्मीयेन जनेन वियुक्तो-
विशेष—इससे पता चलता है कि दुष्यन्त अत्यन्त न्यायशील राजा थे मन्त्री ने सुझाव दिया कि धन खजाने में ले लिया जाय, किन्तु उन्होंने गर्भस्थ बालक को पिता के धन का उत्तराधिकारी बनाने का आदेश देकर न्यायप्रियता का प्रदर्शन किया । न्याय का कर्म मन्त्री करता था, अन्तिम निर्णय देना राजा का कार्य था । मन्त्री मुकदमे का निष्कर्ष निकाल कर निर्णय के लिए राजा के पास उपस्थित कर देता था ।
प्रतीहारी—जैसी महाराज की आज्ञा । ( ऐसा कहकर चल पड़ती है )
राजा—जरा इधर आओ ।
प्रतीहारी—महाराज मैं यह उपस्थित हूँ ।
राजा—इससे क्या मतलब कि सन्तान है या नहीं ?
प्रजाजन जिस-जिस स्नेही भाई बन्धुओं से वियुक्त होते हैं, पाप के कार्य के अतिरिक्त ( मै ) दुष्यन्त उनका वह वह है, यह घोषित कर दिया जाय ॥ २३ ॥
विशेष—दुष्यन्त न्याय-प्रिय राजा थे । यदि किसी का पिता मर गया तो, दुष्यन्त ने उस युवक का भरणपोषण पिता के समान किया । किसी का भाई मर गया हो तो दुष्यन्त ने भाई की
पाठ०—१. दुःषन्त इति वृष्यताम् ।
षष्ठोऽङ्कः
३४३
प्रतोहारी—एव्वं णाम घोसइदव्वं । ( निष्क्रम्य, पुनः प्रविश्य ) काले पवुट्ठं विअ अहिणंदिदं देवस्स सासणं । [ एवं नाम घोषयितव्यम् । काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् । ]
राजा—( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिच्छेदनिरावलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रीरकाल इवोप्तबीजा भूरेव वृत्ता ।
भवेत् तेन तेनाहमेव स स आत्मीयो बन्धुरित्युद्घुष्यतां केवलं पापिनां जनानां बन्धुनाहं भविष्यामि। यस्य पिता मृतः तस्य दुष्यन्त एव पिता भ्रातृविगमे दुष्यन्त एव भ्राता पुत्रविरहे दुष्यन्त एव पुत्रः किन्तु यस्याः पतिः मृतः तस्यास्तु नाहं पतिः तथा सति उभयोरेव पातक्तित्वं प्रसज्येत । इत्येवमेव प्रजायां घोषणा क्रियताम् । तस्माद् धन-मित्रस्यानपत्यत्वे तदीययमर्थजातं तद्बान्धवा एव सुखमुपभुञ्जन्तु, अत्र छेकवृत्त्यनुप्रासाव-लङ्कारो अनुष्टुब् वृत्तं च ।। २३ ।।
प्रतीहारो—द्वारपालिका कथयति—एवं नाम घोषयितव्यं पूर्वोक्तप्रकारेणैव निश्चयेन घोषणा करिष्यते एवमेव घोषयिष्यामीत्यर्थः ( निष्क्रम्य = निर्गत्य पुनः = भूय प्रविश्य = अन्तरागत्य ) काले = यथासमयं अपेक्षितसमये प्रवृष्टं = प्रवर्षणं वर्षंव प्रभूतवृष्टिरिवं अभिनन्दितं = साधुप्रशंसितम् स्वागतविषयीकृतम् देवस्य = महाराजस्य शासनम् = राज-घोषणा आज्ञा । उचितसमये पर्जन्यागमनमिव राजशासनं लोकैः पूजितम् ।
राजा—नृपोऽनपत्यावस्थायामेव चिन्तयन् स्वयमाह—( दीर्घम् = आयतं, उष्णं = तप्तम्, च निःश्वस्य ) एवं = एवमेव, धनमित्रश्रेष्ठिवत्, भोः = अये ! सन्ततेः = सन्ता-नस्य छेदेन = अभावेन निरवलम्बानां = निराश्रितानाम्, कुलानां = वंशानाम्, मूलपुरुषा-वसाने = कारणपुरुषस्यान्ते कारणपुरुषनाशे सम्पदः = वसूनि परं = अन्य जनम् उपतिष्ठन्ति = संगच्छन्ते । मम = दुष्यन्तस्यापि अन्ते = अवसाने, परलोकगमने पुरोः वंशस्य श्रीः पुरुवंशश्रीः = पुरुकुलराजलक्ष्मी अकाले = असमये, उप्तबीजा उप्तं बीजं
तरह उसकी सहायता की, किन्तु यदि किसी युवती स्त्री का पति मर जाय और वह चाहे कि दुष्यन्त मेरे पति हो जाय तो यह सम्भव न था, क्योंकि उसमें पाप का सम्बन्ध है। इस पापकर्म में दुष्यन्त की प्रवृत्ति न थी। ऐसा समझने में पाप है। अतः इन परिस्थितियों को अपवाद बनाया गया है। यदि कोई पापी मरे तो उसकी जगह दुष्यन्त अपने को प्रस्तुत करने को उद्यत नहीं। पापी के सम्बन्धी कष्ट उठावें उसमें राजा सहानुभूति नहीं। इससे प्रजा के प्रति राजा दुष्यन्त की आत्मीयता व्यक्त होती है। अर्थात् यदि किसी स्त्री का पति मर जायेगा तो मैं उसका पति तो नहीं हो सकता, क्योंकि इसमें पाप लगेगा, किन्तु यदि किसी का पुत्र या पिता मर जाये तो मैं ही उसका पुत्र या पिता या भाई की जगह हूँ। अतः मेरी प्रजा में किसी को किसी प्रकार चिन्ता करने की आवश्यकता नहीं है यह घोषणा राज्य में करा दें।
प्रतीहारी—ठीक ही है ऐसा ही घोषित कर दिया जायेगा ( निकलकर, पुनः प्रवेश करके ) महाराज की घोषणा समय पर हुई वृष्टि के समान अभिनन्दित की गई है। अर्थात् आपकी घोषणा का हार्दिक अभिनन्दन प्रजा ने किया है।
राजा—( लम्बी साँस लेकर ) ओह, इस प्रकार सन्तति के अभाव में निराश्रित कुलों की सम्पत्तियाँ वंश के व्यक्ति के मर जाने पर दूसरे को प्राप्त हो जाती हैं। मेरे अभाव में भी पुरुवंश की लक्ष्मी की यही हालत होगी।
| ३४४ | अभिज्ञानशाकुन्तलम् |
|---|
प्रतीहारी—पडिहदं अमंगलं [ प्रतिहतममङ्गलम् । ]
राजा—धिक् मामुपस्थितश्रेयोऽवमानिनम् ।
सानुमती—असंशअं सहि एव्व हिअए करिअ णिंदिदो णेण अप्पा । [ असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा । ]
राजा—
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कलिपष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥ २४ ॥
यस्यां सा उसबीजा = आरोपितबीजा भूरिव = भूमिरिव एवं वृत्ता = ईदृशीं दशां गता । शोचनीया संवृत्तेत्यर्थः ।
प्रतीहारी—अमङ्गलं = अपशकुनं, भवदन्तरूपम् पौरवश्रियः पराश्रयणे च प्रतिहतं = निराकृतं नष्टं भवतु ।
राजा—आत्मानमेवापराधिनं मन्यमानो नृपः सनिर्वेदमाह—उपस्थितं = स्वयं प्राप्तं यच्छ्रेयः सगर्भशकुन्तलारूपं कल्याणम् तत् अवमन्यते निराकरोतीति उपस्थितश्रेयोऽवमानी तमुपस्थितश्रेयोऽवमानिनम् = स्वयमुपस्थितशकुन्तलातिरस्कारिणम् मा धिक् ।
सानुमती = अप्सराः स्वगतमाह—असंशयं = निःसन्देहं सखीमेव = आलीमेव शकुन्तलामेव हृदये = मनसि कृत्वा = विधाय विचार्य अनेन = दुष्षन्तेन आत्मा = स्वः निन्दितः = गर्हितः ।
अन्वयः—काले उसबीजा महते फलाय कल्पिष्यमाणा वसुन्धरेव कुलप्रतिष्ठा धर्मपत्नी आत्मनि संरोपिताऽपि मया त्यक्ता नाम ।
प्रागुक्तमेवार्थं दुःखातिशयेन विशदीकुर्वन्नब्रवीत्—समारोपितेति । काले = बीजारोपणसमये, अपेक्षिते समये उप्तानि आहितानि बीजानि यस्यां सा उसबीजा कृतबीजवपना न्यस्तबीजा महते = प्रभूताय परिणामाय, फलोत्पत्तये फलाय = कल्याणलाभाय सन्तानरूपाय कल्पिष्यमाणा प्रसवित्री सम्पत्स्यमाना वसुन्धरेव रत्नमयी भूमिरिव काले = ऋतुकाले निहितवीर्या महत् = वृहते फलाय = सन्तानरूपाय कल्पिष्यमाणा = प्रसवित्री कुलप्रतिष्ठा = वंशालम्बनभूता—
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररशना चोर्वी सखी च युवयोरियम् ॥ इति प्रागुक्तेः ॥
प्रतीहारी—अमङ्गल विनष्ट हो। अर्थात् ऐसा अमङ्गल वचन आप न कहें।
राजा—प्राप्त (उपस्थित) कल्याण (आपन्नसत्वा शकुन्तला) का अपमान करने वाले मुझे धिक्कार है।
सानुमती—निश्चय ही सखी शकुन्तला को ही मन में रखकर इन्होंने अपनी निन्दा की है।
राजा—उचित समय पर बोया बीज, महान् फल को देने में समर्थ पृथ्वी की तरह ऋतुकाल की समाप्ति पर गर्भाधान की गई, महान् पुत्ररूप परिणाम को देने में समर्थ वंश की अधारभूत अर्द्धाङ्गिनी अपने आपके समारोपित कर देने पर भी मेरे द्वारा परित्याग कर दी गई। यह अत्यन्त कुत्सित कार्य है ॥ २४ ॥
विशेष—भारत में धार्मिक साहित्य की मान्यता है कि पुत्र पिता के अभिन्न होता है, पिता ही पुत्र के रूप में जन्म लेता है। वह अपना ही गर्भ के रूप में आधान करता है। इस प्रकार मनुष्य
षष्ठोऽङ्कः
३४५
सानुमती—अपरिच्छिण्णा दाणिं दे संददी भविस्सदि। [ अपरिच्छिन्नेदानीं ते संततिर्भविष्यति। ]
चतुरिका—( जनान्तिकम् ) अए इमिणा सत्थवाहवुत्तंतेण द्विउणुव्वेओ भट्टा। णं अस्सासिदुं मेहप्पडिच्छंदादो अज्जं माढव्वं गेण्हिअ आअच्छामि। [ अयि अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्त्ता। एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माढव्यं गृहीत्वा-गच्छामि। ]
कुलस्य = पुरुवंशस्य प्रतिष्ठा = अवलम्बनरूपा स्थितिहेतुभूता धर्मपत्नी = धर्मभार्या अर्द्धाङ्गिनी शकुन्तला आत्मनि = स्वस्मिन् संरोपिते पुनर्गर्भे उत्पादितेऽपि वीर्य्यनिषेकात् गर्भ-रूपेण आत्मनि तस्या शकुन्तलायां योजितेऽपि—
पतिः भार्या संप्रविश्य गर्भो भूत्वेह जायते।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः॥ (म० स्मृ० ९।८)
'आत्मा प्रविश्य जायायां पुत्ररूपेण जायते।' इति स्मृतेः 'आत्मा वै पुत्रनामासि' (आश्वलायनगृह्यसूत्रे १।१५) इत्यात्मनः पुत्रत्वं श्रुतेश्च मया = दुष्यन्तेन धार्मिकेण त्यक्ता नाम = परित्यक्ता निराकृता नाम। मयैव निहितगर्भायाः आसन्नप्रसवाया तस्याः तत्काले परित्यागोऽत्यन्तमनुचित आसीदित्यहो दौर्भाग्यविलसितम्। अत्रोपमा काव्यलिङ्गं चालङ्कारौ छन्दश्चोपजातिः।
**सानुमती—**अनपत्यताविषये दुष्यन्तस्य विलापं निशम्य सानुमती दयमाना स्वगतं तस्मै शुभाशंसनं कुरुते—इदानीं = साम्प्रतं शकुन्तलायां तव पुत्रे सर्वदमने जाते सति सन्ततिः = वंशपरम्परा कुलप्रवाहः अपरिच्छिन्ना = विच्छेदरहिता, निर्वाधा भविष्यति।
चतुरिका—(जनान्तिकम्) अये ! अनेन = प्रस्तुतेन सार्थवाहवृत्तान्तेन सार्थवाहस्य धनमित्रस्य वणिक्पतेः वृत्तान्तेन = वार्त्तया द्विगुणः = द्विगुणितः **उद्वेगः=**आकुलता यस्य स द्विगुणितपीडः, भर्त्ता = स्वामी, एनं = इमम् आश्वासयितुं = उपशान्त्वयितुं मेघप्रतिच्छन्दात् = तन्नामकात् सौधात् आर्यं = श्रीमन्तम् माढव्यं = विदूषकं गृहीत्वा = आनीय, आगच्छामि।
अपनी स्त्री के पेट में वीर्य्यद्वारा स्वयं ही गर्भ रूप में प्रविष्ट होकर उत्पन्न होता है। इसीलिए पुत्र को आत्मा कहते हैं—'आत्मा वै जायते पुत्रः' 'गर्भो भूत्वा जायां प्रविशति'। 'आत्मा वै पुत्रः नामासि'। (आ० गृ० सू० १।५) इत्यादि वचन इसमें प्रमाण है। पुत्र प्रसव से कुल चलता है, नष्ट नहीं होता। अतः सपुत्रा स्त्री कुल-प्रतिष्ठा कही गई है। इस पद में सम्भावना के लिए नाम शब्द का प्रयोग है क्योंकि शकुन्तला को गर्भवती जानकर यह संभावना थी कि इसके गर्भ में पुत्र है। यहाँ आत्मा और बीज, धर्मपत्नी और वसुन्धरा, तथा प्रतिष्ठा एवं फल समारोपित तथा उस की तुलना कर जोड़ी लगाई गई है।
**सानुमती—**अब तुम्हारी वंशपरम्परा अविच्छिन्न होगी।
**विशेष—**सानुमती अप्सरा का संकेत शकुन्तला के गर्भ से है। पुत्र हो चुका है। अब वंश विच्छेद का भ्रम व्यर्थ है।
चतुरिका—( मुख के बगल हाथ से आड़कर एक ओर ) अरे, सार्थवाह के इस वृत्तान्त से स्वामी को व्याकुलता दुगनी हो गई है। इनकी सान्त्वना प्रदान करने के लिए मेघ-प्रतिच्छन्द नामक प्रासाद से माधव्य को लेकर आओ।
३४६ अभिज्ञानशाकुन्तलम्
**प्रतीहारी—**सुट्ठु भणसि। [ सुष्ठु भणसि ] ( इति निष्क्रान्ता )
**राजा—**अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः। कुतः—
अस्मात्परं बत ^१यथाश्रुति संभृतानि को नः कुले निवपनानि ^२नियच्छतीति।
नूनं प्रसूतिविकलेन मया प्रसिक्तं ^३धौताश्रुशेषमुदकं पितरः पिबन्ति ॥ २५ ॥
( इति मोहमुपगतः )
**प्रतीहारी—**सुष्ठु भणसि = समीचीनं कथयसि ( इति = एवमुक्त्वा निष्क्रान्ता = निर्गता )।
**राजा—**अनपत्यतया न केवलमिह लोकस्य, अपितु परलोकस्यापि कल्याणस्य विघात उपस्थितम् उत्पन्नं शोचति—अहो = हन्त दुष्यन्तस्य मम संशयं = संकटम् अतः परमस्माकं पिण्डलोपो भविष्यतीति सन्देहम् आरूढाः = प्राप्ताः पिण्डभाजः = पिण्डभोगिनः पितरः नूनमन्नकृच्छ्रमुत्पश्यन्ति पितरः।
**अन्वयः—**नूनं बत अस्मात् परं नः कुले यथाश्रुति संभृतानि निवपनानि कः करिष्यति ? इति पितरः प्रसूतिविकलेन मया प्रसिक्तम् उदकम् धौताश्रुशेषं पिबन्ति।
सन्तत्यभावादस्मात्परं पिण्डदातुरभावात् पितरः संशयारूढा जायन्ते। इति तेषां तात्कालिकीं स्थितिं संभावयन् प्रजा ब्रवीति—अस्मात्परमिति। बत = हन्त, अस्मात् इतो दुष्यन्तात् परं = पश्चात् नः = अस्माकं कुले = वंशे पुरुवंशे श्रुतिमतिक्रम्य यथाश्रुति = वेदोदितेन विधिना, वेदोक्तविधानपूर्वकम् संभृतानि सञ्चितानि, बहूपकरणयुक्तानि निवपनानि श्राद्धादीनि पितृतर्पणादीनि पिण्डदानानि ‘पितृदानं निवापः स्यात्’ इत्यमरः। को नियच्छति = को दास्यति, न कोऽपीत्यर्थः। इति= एवं सञ्चित्य पितरः= पितृलोकं गताः मम पूर्वजाः प्रसूतिविकलेन प्रसृत्या = सन्तत्या विकलेन = रहितेन अनपत्येन मया दुष्यन्तेन प्रसिक्तम् = पितृभ्यः प्रदत्तम् उदकम् = जलम् तिलमिश्रितं जलं तिलाञ्जलि धौताश्रुशेषं धोतानि = क्षालितानि अश्रूणि = वाष्पजलानि येन तस्मात् शेषम् = अवशिष्टं यथा स्यात्तथा धौताश्रुशेषं पिबन्ति = आचामन्ति। शोकाश्रुणाविलं मुखं प्रक्षाल्येव तर्पणजलं पिबन्ति। ( इति = एवमुक्त्वा मोहमुपगतः = मूर्छितः )
**अयं भावः—**इदानीं यावत् मया वेदविधानानुसारं श्राद्धतर्पणादिभिः संभाविताः परलोकं गता मे पितरः ममानपत्यतया मत्तः परं तेभ्यः कः श्राद्धादिकं करिष्यति। मन्ये, अग्रे कोऽपि पिण्डोदकादिदाता नास्तीति रुदन्तस्ते मयार्पितेन तर्पणोदकेन पूर्वं वाष्पं प्रमाज्यं पश्चात्तच्छेषं जलं पिबन्तीति भावः। अत्रोत्प्रेक्षाकाव्यलिङ्गालङ्कारौ वसन्ततिलकावृत्तं च ॥ २५ ॥
**प्रतिहारी—**ठीक कह रही हो। ( ऐसा कहकर बाहर निकल जाती है )।
**राजा—**ओह, मेरे पितर संशय में पड़ गये हैं, क्योंकि—
बड़े खेद की बात है कि मेरे बाद मेरे वंश में वेदोक्तविधि से तैयार किये गये श्राद्ध तथा तर्पण को कौन प्रदान करेगा, यह सोचकर निश्चय ही हमारे पितर लोग सन्तानहीन मेरे द्वारा दिये गये जल के अश्रुमार्जन से अवशिष्ट भाग को ही पाते हैं। ( ऐसा कहकर मूर्च्छित हो जाता है )
**पाठा०—**१. यथास्मृति। २. करिष्यतीति। ३. धौताश्रुसेकमुदकं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
षष्ठोऽङ्कः
३४७
चतुरिका—( ससंभ्रममवलोक्य ) समस्ससदु भट्टा। [ समाश्वसितु भर्त्ता। ]
सानुमती—हद्धी हद्धी। सदि खु दीवे ववधानदोसेण एसो अंधआरदोसं अणुहोदि। अहं दाणि एव्व णिव्वुदं करेमि। अहवा सुदं मए सउंदलं समस्ससंतोए महेंदजणणीए मुहादोजण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्संति जहअइरेण धम्मपदिणिं भट्टा अहिणंदिस्सदि त्ति। ता ण जुत्तं कालं पडिपालिदुं। जाव इमिणा वुत्तंतेण पिअसहिं समस्सासेमि। [ हा धिक् ! हा धिक् ! सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति। अहमिदानीमेव निर्वृतं करोमि। अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्यया मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्त्ताभिनन्दिष्यतीति। तन्न युक्तं कालं प्रतिपालयितुम्। यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि। ] ( इत्युद्भ्रान्तकेन निष्क्रान्ता )
चतुरिका—( ससंभ्रमं = संभ्रमेण सहितं ससंभ्रमं सावेगम् अवलोक्य = दृष्ट्वा ) समाश्वसितु = धैर्यं धारयतु भर्ता = स्वामी।
सानुमती—अथ सानुमती अप्सरा दुष्यन्तस्य तादृशीमवस्थामलोक्य सकरुणमाह— हा धिक् हा धिक् = हा हन्त दैवं धिक् हा धिक् सति खलु = वर्तमानऽपि दीपे = वंशदीपके वंशाङ्कुरे पुत्रे सर्वदमने व्यवधानदोषेण देशान्तरावरणदोषेण अज्ञ नदोषेण वा एषः = अयं राजर्षि दुष्यन्तः अन्धकारदोषं = अन्धकारः शोक एव दोषः बाधा अन्धकारदोषः तम् अज्ञानदुःखम् अनुभवति = प्राप्नोति। अहं = सानुमती इदानीमेव = अधुनैव निर्वृतं = शान्तं करोमि = विदधामि पुत्रसद्भावं निवेदयामि अथवा यद्वा न विवेक्ष्यामि यद्वा श्रुतं = आकणितम् मया शकुन्तलां सखीम् समाश्वासयन्त्याः = उपशान्तयन्त्या महेन्द्रस्य = इन्द्रस्य मातुः = जनन्या अदितिदेव्या मुखात् = वदनात् यज्ञभागसमुत्सुका यस्य भागय समुत्सुका इति = यागांशग्रहीतुकामाः देवा = सुरा एव तथा = तेन प्रकारेण अनुष्ठास्यन्ति = करिष्यन्ति यथा = यत् न चिरेण अविलम्बेन शीघ्रम् धर्मपत्नीं = अर्द्धाङ्गिनीं धर्मभार्यां शकुन्तलां भर्ता स्वामी दुष्यन्तः अभिनन्दिष्यति = सादरं नेष्यति इति। तत् = अतः न युक्तं नोचितम् कालं = समयं प्रतिपालयितुं अत्र प्रतीक्षितुम् विलम्बं कर्तुं यावत् अनेन वृत्तान्तेन आलेख्यविनोदनमोहोपगतादिवार्तया प्रिया = हृद्या च सा सखी = आली तां
चतुरिका—( घबराहट के साथ देखकर ) आश्वस्त हो, आश्वस्त हो, स्वामी।
सानुमती—हाय ! हाय ! वंश चलाने वाले पुत्र के रहते हुए भी व्यवधान दोष से ही यह राजर्षि इस प्रकार अन्धकार में पड़ा हुआ शोक का अनुभव कर रहा है। मैं अभी ही शकुन्तला का समाचार बतलाकर सुखी कर देती हूँ। अथवा मैंने शकुन्तला को धीरज बँधाती हुई इन्द्र की माता अदिति के मुख से सुना है—कि यज्ञभाग के लिए उत्सुक देवता लोग ही ऐसा उपाय करेंगे जैसे शीघ्र ही धर्मपत्नी शकुन्तला को स्वामी दुष्यन्त स्वागतपूर्वक स्वीकार करेंगे, तो इस समय की प्रतीक्षा करना ही ठीक होगा तो जबतक वृत्तान्त से प्रियसखी शकुन्तला को आश्वस्त करूंगी कि यज्ञभाग के लिए उत्सुक देवता लोग अतिशीघ्र ऐसा उपाय करेंगे जिससे तेरा पति तुझे पुनः पाकर तेरा आदर करेगा और पुत्रसहित तुझे पाकर परम प्रसन्न होगा। अतः अब मुझे यहाँ ज्यादा विलम्ब नहीं करना चाहिए। जाकर अपनी आँखों देखा वृत्तान्त बताकर शकुन्तला को धैर्य धराऊँ। ( ऐसा कहकर उद्भ्रान्त-नृत्य के साथ निकल जाती है )
विशेष—यहाँ प्रयुक्त दीप पद से ध्वनित होता है कि दीपक के समान तेजस्वी पुत्र पैदा हो चुका है। पुत्र कुल का दीपक होता है। यहाँ शकुन्तला के पुत्र सर्वदमन की ओर संकेत है।
३४८ अभिज्ञानशाकुन्तलम्
(नेपथ्य) अब्बम्हण्णं । [ अब्रह्मण्यम् । ]
राजा—(प्रत्यागतचेतनः कर्णं दत्त्वा) अये, माधवस्येवार्तस्वरः। कः कोऽत्र भोः।
(प्रविश्य)
प्रतिहारी—(ससंभ्रमम्) परित्ताअदु देवो संसअगदं वअस्सं। [परित्रायतां देवः संशयगतं वयस्यम् ।]
राजा—केनात्तगन्धो माणवकः ।
प्रियसखीं शकुन्तलाम् समाश्वासयिष्यामि = उपशान्तवयिष्यामि । (इति=ततः उद्भ्रान्त-केन उत्पतिकरणेन निष्क्रान्ता निर्गता सानुमती)
अथ राजानं दुष्यन्तं रसान्तरे प्रवेशयितुं इन्द्रसारथेः मातलेः प्रवेशं प्रस्तौति—
(नेपथ्ये=जवनिकायाम्) ब्रह्मणि साधु ब्राह्मणस्य हितं वा ब्रह्मण्यं न ब्रह्मण्यं अब्रह्मण्यम् = नाहं वन्ध्यः, अवन्ध्योऽस्मीति भावः। 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः।
राजा—(प्रत्यागतं = निवृत्तं चेतनं=संज्ञा यस्य स प्रत्यागतचेतनः सन् कर्णं दत्त्वा=श्रवणमारोप्य) अये ! भो ! माधवस्य = विदूषकस्येव आर्तस्वरः = क्लेशजनको नादः = करुण क्रन्दनम् कः कः इति सम्भ्रमे द्विरुक्तिः अत्र = इह भो ! अये ?
(प्रविश्य = अन्तररागत्य)
प्रतिहारी—(ससंभ्रममाह—) देवः = महाराजः संशय-गतं = सङ्कटप्राप्तं वयस्यं = मित्रं माधवम् परित्रायताम् = रक्षतु ।
राजा—केन जनेन, विधिना वा आत्तगन्धः = अभिभूतः 'आत्तगन्धाऽभिभूतः स्यात्' इत्यमरः। केनाभिभूतो माणवकः = मूर्खो मानवः। मनोरपत्यं मानवः कुत्सितो मानवः माणवः, माणव एव माणवकः तथा चोक्तं महाभाष्ये—
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य मूर्धन्यस्तेन सिध्यति माणवः ॥ ४।१।१६१
दूसरी बात यह है कि राजर्षि दुष्यन्त शकुन्तला के विरह की व्यग्रता के कारण यज्ञादि शुभ कार्य नहीं कर रहे हैं, जिससे देवताओं का आप्यायन नहीं हो रहा है, वे उदासीन होकर, खिन्न हो रहे हैं। शकुन्तला के मिल जाने पर वे उसे राजमहिषी बनाकर सपत्नीक हो यज्ञों का अनुष्ठान करेंगे जिससे कर्म का संवर्द्धन होगा।
(नेपथ्य में) महान् अनर्थ हो रहा है।
राजा—(होश में आकर कान लगाकर) अरे ! यह तो माधव्य का आर्तनाद = करुणक्रन्दन मालूम पड़ता है। क्या बात है ? कौन है यहाँ, पहरे पर कौन है ?
(प्रवेश कर)
प्रतिहारी—(घबराहट के साथ) संकट में फँसे हुए मित्र माधव्य को बचावें ।
**राजा—**किसने माणवक=माधव्य को अभिभूत = तिरस्कृत किया है ?
विशेष—'आत्तगन्धोऽभिभूतः स्यात्, आत्तः = गृहीतो गन्धः गर्वो यस्य सः आत्तगन्धः ।' मानव माणव है—जब कुत्सित अर्थ में प्रयुक्त होता है तब मनोरपत्यं कुत्सितं माणव बनता है।
राजा दुष्यन्त का अनुमान है कि माधव्य ने कोई ढिठाई की होगी । अतः उसे माणव कहता है। दूसरी बात यह है कि राजा सोचता है कि चित्र-पट ले जाते हुए बेचारे माधव्य को मार्ग में महाराना की पिंगला आदि चेटियों ने कदाचित्त पकड़ लिया है और उसे पीडित कर रही हैं।
षष्ठोऽङ्कः ३४९
प्रतीहारी—अदिट्ठरूवेण केण वि सत्तेण अदिक्रमिअ मेहप्पडिच्छंदस्स प्पासा- दस्स अग्गभूमिं आरोविदो । [ अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः । ]
राजा—( उत्थाय )—मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथवा—
अहन्यह्न्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा ^१प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ २६ ॥
प्रतीहारी—अदृष्टरूपेण न दृष्टं = नावलोकितं रूपं = आकृतिना केन अपि सत्वेन तथा विधं स्वरूपं यस्य स तेन प्रच्छन्न=जन्तुना भूतपिशाचाद्यन्यतमत्वेन अतिक्रम्य=अभिभूय मेघ- प्रतिच्छन्दस्य तन्नाम्नः प्रासादस्य अग्रभूमि = शिखराग्रम् आरोपितः=प्रापितः निवेशितः ।
राजा—( नृपतिरुत्थाय ) मा तावत् = एवं न ब्रूहि, मम सत्त्वाभिभाविनो दुष्यन्त- स्यापि गृहाः = भवनानि सत्त्वैः = भूतादिभि अभिभूयन्ते = आक्रम्यन्ते अथवा = यद्वा ।
अन्वयः—अहनि-अहनि आत्मनः एव प्रमादस्खलितं तावत् ज्ञातुं न शक्यम्, प्रजासु कः केन पथा प्रयाति इति अशेषतो वेदितुं शक्तिरस्ति ?
सत्त्वैरभिभूतमात्मनो गृहमनुभूय राजा दुष्यन्तः किञ्चिद्विचिन्त्य पक्षान्तरमाह— अहन्यहनीति । अहनि अहनि = प्रतिदिनम्, आत्मनः = स्वस्य एव प्रमादस्खलितं प्रमादेन = अनवधानतया स्खलितं विपरीताचरितं, धर्मप्रच्युतिः तावत् साकल्येन ज्ञातुं न शक्यं = बोद्धुं न पार्यते जनैः मया वा अन्यथा कथं मे अज्ञानाद्धर्मपत्नी परि- त्यागः ? यदि सन्निहिततमे आत्मन्यप्येवं भवेत् तदा अगोचरासु प्रजासु = प्रकृतिषु कः को जनः केन पथा सत्पथेन अपथेन वा प्रयाति = चरति, गच्छति व्यवहरति इति = एतत् अशेषतः = साकल्येन वेदितुं = ज्ञातुं शक्तिः = सामर्थ्यम् अस्ति = वर्तते ? नास्त्येवेति काकुः ।
अयं भावः—यदि अनवधानोद्भूतं स्वस्यैव धर्मलङ्घनादि कार्यं कार्त्स्न्येन न कोऽपि ज्ञातुं शक्नोति तर्हि किं पुनः सकलस्य लोकस्य सन्मार्गगमनमसन्मार्गगमनं वा परिज्ञातुं शक्नोति । यस्य आत्मसम्बन्धेऽपि पूर्णं ज्ञानं नास्ति सकलं कथयितुं मे प्रजासु न कोऽपि पापं करोति कथयितुं शक्नोति तस्मात् किं निमित्तोऽयमपचार इति सर्वथाऽशक्य एव । अत्रार्थापत्तिरप्रस्तुतप्रशंसालङ्कारौ वृत्तञ्चोपजातिः ॥ २६ ॥
प्रतीहारी—दृष्टिगोचर न होने वाले किसी प्राणी के द्वारा जबर्दस्ती पकड़ कर मेघप्रतिच्छन्द नामक प्रसाद की ऊपरी मंजिल पर ले जाया गया है ।
राजा—( उठकर ) ऐसा मत कहो, क्या मेरे घर भी भूत-प्रेत आदि के द्वारा आक्रान्त किये जा रहे हैं । अथवा—
प्रतिदिन अपने ही प्रमादवश होने वाली त्रुटि को जाँचना संभव नहीं है तब प्रजाजनों में कौन किस मार्ग में जा रहा है, वह पूर्ण रूप से जानने में किसी की शक्ति नहीं है ॥ २६ ॥
विशेष—राजा के कहने का तात्पर्य यह है कि मैं धर्मपूर्वक प्रजाशासन करता हूँ । और बड़े-बड़े यज्ञ करता हूँ । अतः मेरे घर कोई भूत-प्रेत कैसे आक्रमण कर सकता है ? किन्तु राजा तो समूचे राष्ट्र के पुण्य-पाप का भागी होता है । अतः प्रजाजनों के दोष से भी मेरे यहाँ भूत-प्रेत बाधा आ सकती है । इसलिए किसी भूत-प्रेत का आक्रमण यहाँ भी संभव है ।
पाठा०—१. प्रयातीत्यशेषतः कस्य पुनः प्रभुत्वम् ।
३५० अभिज्ञानशाकुन्तलम्
( नेपथ्ये ) भो वअस्स ! अविहा अविहा । [ भो वयस्य अविहा अविहा । ]
राजा—( गतिभेदेन परिक्रान्त ) सखे न भेतव्यं न भेतव्यम् ।
( नेपथ्ये )
( पुनस्तदेव पठित्वा ) कहं ण भाइस्सं ? एस मं को वि पच्चवणद सिरोहरं इच्छं विअ तिण्णभंगं करेदि । [ कथं न भेष्यामि ? एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति । ]
राजा—( सदृष्टिक्षेपम् ) धनुस्तावत् ।
( प्रविश्य शार्ङ्गहस्ता )
यवनी—भट्टा ! एदं हत्थावावसहिदं सरासणं । [ भर्तः ! एतद्धस्तावापसहितं शरासनम् । ]
( नेपथ्ये = जवनिकायाम् ) भो वयस्य ! = अरे मित्र ! अविहा, अविहा अविहेति निर्वेदे 'अविहा अविहा' निर्वेदे इत्युक्तेः ।
राजा--( गतिभेदेन = गतिपरिवर्तनपूर्वकं, क्रोधोद्धतगत्या ) सखे ! = मित्र ! न भेतव्यं, न भेतव्यम् एव भयं नानुभवितव्यम् ।
( नेपथ्ये = जवनिकायाम् )
( पुनः तदेव पठित्वा = अविहा, अविहेति पठित्वा ) कथं न भेष्यामि = भयं कथं न करोमि एषः कोऽपि अदृश्यो जनः मां = त्वत्सखायं माधव्यं प्रत्यवनता पृष्ठतः वक्रीकृता शिरोधरा = ग्रीवा यस्य स तथाविधं प्रत्यवनतशिरोधरं = तिर्यग्ग्रीवं इक्षुमिव = इक्षुदण्डमिव त्रिभङ्गं त्रिषु स्थानेषु भङ्गः वक्रता यस्य स तथाविधं त्रिभङ्गं = त्रिखण्डम् करोति = विदधाति ।
राजा--( सदृष्टिक्षेपं = दृष्टिक्षेपेण सह स दृष्टिक्षेपं = सर्वतोऽवलोक्य ) धनुः = चापं तावत् आनय ।
( प्रविश्य = प्रवेशं कृत्वा शृङ्गस्य विकारः शार्ङ्गं = शृङ्गनिर्मितं धनुः हस्ते। = करे यस्या। सा शार्ङ्गहस्ता = चापहस्ता )
यवनी--भर्तः ! = स्वामिन् ! हस्तं = करं आनूपति ज्याघाताद्रक्षतीति हस्तावापः
( नेपथ्य में ) हे मित्र ! बचाओ, बचाओ ।
राजा—( चाल बदलकर चारों ओर घूमते हुए ) मित्र ! डरो मत, डरो मत ।
( नेपथ्य में )
( पुनः उसी बात को कहकर ) कैसे न डरूँ, यह कोई मेरी गर्दन को पीछे की ओर मोड़कर ईख की तरह मेरे तीन टुकड़े कर रहा है ।
विशेष—विदूषक राजा को उलाहना देता है कि मेरी रक्षा तो कर नहीं पा रहे हो, यहाँ जान पर बीती जा रही है, कैसे न डरूँ । गर्दन मरोड़ने की ईख का दण्डा मरोड़ने से सटीक उपमा है । भूतप्रेत इसी प्रकार आक्रमण करते हैं । आक्रान्त व्यक्ति आक्रमणकारी को तो देख नहीं पाता, आक्रमण का शिकार हो जाता है ।
राजा—( आँखें इधर-उधर घूमाकर ) धनुष तो लाओ ।
( धनुष हाथ में लेकर प्रवेश करती हुई )
यवनी—महाराज ! हस्तकवचसहित यह धनुष है ।
षष्ठोऽङ्कः ३५१
( राजा सशरं धनुरादत्ते ) ( नेपथ्ये )
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥ २७ ॥
राजा--( सरोषम् ) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन त्वमिदानीं न भविष्यसि । ( शार्ङ्गमारोप्य ) वेत्रवति सोपानमार्गमादेशय ।
= वामहस्तरक्षकं चर्ममयं वस्तु यद्वा हस्तम् अवाप्नोति रक्षकत्वेन लभते इति हस्तावापः = हस्तवारकः तेन सहितं हस्तावापसहितं शरासनं = धनुः ।
( राजा = नृपतिः सशरं = वाणयुक्तं धनुः आदत्ते = यवनीहस्तात् गृह्णाति )
( नेपथ्ये = जवनिकायाम् ) ।
अन्वयः--अभिनवकण्ठशोषणार्थी ( अहम् ) शार्दूलः पशुमिव चेष्टमानं त्वां एष हन्मि आर्तानां भयम् अपनेतुम् आत्तधन्वा दुष्यन्तः इदानीं तव शरणं भवतु ।
नेपथ्ये विदूषकस्य करुणक्रन्दनमाकर्ण्य तद्रक्षणार्थं धनुर्बाणं च गृहीत्वा राजा दुष्यन्त यावत् परिक्रामपि तावदेव नेपथ्ये केनापि अदृश्येन पुंसा प्रोच्यमानं वचनं शुश्राव--एष इति । कण्ठस्य शोणितं कण्ठशोणितं अभिनवं = उष्णं यत् कण्ठशोणितं = गलरक्तं तत् अर्थयते = काङ्क्षति यः सः अभिनवकण्ठशोणितार्थी = उष्णोष्णकण्ठरुधिरपानाभिलाषी एषः एषोऽहम् शार्दूलः = व्याघ्रः पशुमिव = हरिणादिसाधारणं जन्तुमिव चेष्टमानं = इतस्ततो लुण्ठन्तम् प्राणरक्षणार्थं प्रयतमानं त्वां हन्मि = व्यापरायामि आर्तानां भीतानां भयं = भीतिम् अपनेतुं = दूरीकर्तुम्, आत्तधन्वा = अधिज्यधन्वा गृहीतचापः दुष्यन्तो नृपतिः तव सखा इदानीं = अस्मिन् मत्पराक्रमप्रकाशक्षणे तव वध्यमानस्य विदूषकस्य शरणं रक्षकः, सहायकः भवतु = स्यात् यदि तस्य शक्तिरस्ति ।
अयं भावः--नेपथ्येऽश्रूयत् यत् शार्दूलो मृगादीनां रुधिरमिव तव कवोष्णकण्ठशोणितपिपासुरहं त्वां हन्मि । आर्तानां भयनिवारणायात्तधन्वा दुष्यन्तो यदि प्रभवेत् तर्हि समागत्य त्वां रक्षतु । मन्ये, मया गृहीतस्य तव रक्षणे नास्ति तस्य शक्ति, तस्य पश्चात् एव त्वां हन्मीति भावः । अत्रोपमानुप्रासौ अलङ्कारौ प्रहर्षिणी छन्दश्च ।
राजा--( सरोषं = सकोपम् ) कथं = किम् मामेव उद्दिशति = निर्दिशति कुणपाशनं
( राजा बाण सहित धनुष लेता है )
( नेपथ्य में )
गर्दन के ताजे खून का प्यासा मैं शेर के समान छटपटाते हुए तुझे अभी मारता हूँ आर्त-त्राणार्थ धनुष धारण करने वाले दुष्यन्त अब तुम्हारी रक्षा करें ॥ २७ ॥
विशेष--यहाँ दुष्यन्त की शक्ति के लिए चुनौती है । यह सुन राजा को क्रोध जागेगा । इसी अभिप्राय से 'दुष्यन्तः शरणं भवतु' का प्रयोग किया गया है। चीते का स्वभाव है कि वह ताजा-ताजा गले का खून पीता है । ताजे खून का इच्छुक होना तथा हाथ पैर चलाते हुए को मारने की बात बीभत्स रस ध्वनित करती है ।
राजा--( क्रोध पूर्वक ) क्या मुझे ही उद्देश्य करके यह कह रहा है ? ठहर राक्षस अब तुम नहीं बचोगे । ( धनुष उठाकर ) सीढ़ी का रास्ता बताओ ।
विशेष--कुणप कहते हैं शव को, कुणपाशन शब्द का तात्पर्य है--कुणपः = शव अशनं = भोजनं यस्य स कुणपाशनः = मुर्दे को खाने वाला राक्षस । राजा ने अनुमान लगाया था कि मनुष्य का खून चाहने वाला होने से यह आक्रमणकारी कोई राक्षस ही होगा ।
३५२ | अभिज्ञानशाकुन्तलम्
प्रतीहारी--इदो इदो देवो। [ इत इतो देवः। ] ( सर्वे सत्वरमुपसर्पन्ति। ) राजा--( समन्ताद्विलोक्य ) शून्यं खल्विदम्। ( नेपथ्ये ) अविहा अविहा। अहं अत्तभवंतं पेक्खामि तुमं मं ण पेक्खसि। विडालग्ग- हीदो मूसओ विअं णिरासो म्हि जीविदे संवुत्तो। [ अविहा अविहा, अहमत्रभवन्तं पश्यामि। त्वां मां न पश्यसि। विडालगृहीतो मूषिक इव निराशोऽस्मि जीविते संवृत्तः। ] राजा--भोस्तिरस्करिणीगर्वित मदीयं शस्त्रं त्वां द्रक्ष्यति। एष तमिषुं संदधे।
कुणपं = शवम् अश्नातीति कुणपाशनो यद्वा कुणपः शवं अशनं = भक्षणं यस्य स कुणपाशनः तत्सम्बुद्धौ हे कुणपाशनः = हे राक्षस ! 'कुणपः शवमस्त्रियाम्' इत्यमरः। तिष्ठ = विरम, त्वम् इदानीं = अधुना न भविष्यति = न जीविष्यति त्वामधुनैव हन्मि, त्वं त्वरितं मरिष्यसीत्यर्थ शार्ङ्गं = शृङ्गमयं धनुः आरोप्य = बाणयुतं कृत्वा वेत्रवति = द्वारपालिके ! सोपानमार्गं = आरोहणपन्थानम्, आदेशय = प्रदर्शय ।
प्रतीहारी--इत इतो देवः = महाराजः अनेन पथा आगच्छतु। ( सर्वे = सकलाः राजा यवनीप्रतिहारी चेति सत्वरं-स्वरया = शीघ्रतया उपसर्पन्ति = समीपे गच्छन्ति। )
राजा--( समन्तात् = चतसृषु दिक्षु अवलोक्य = दृष्ट्वा तत्र कमप्यनवलोक्य । ) शून्यं = जनरहितं खलु = निश्चयेन इदं = एतत् स्थानम् = स्थलम् ।
( नेपथ्ये = जवनिकायाम् ) अविहा, अविहा हन्त ! आश्चर्यम् । अहम् । अत्रभवन्तं = पूज्यं त्वां पश्यामि = विलोकयामि त्वं = भवान् माम् = माधव्यं न पश्यसि = न विलोकयसि विडालेन = आखुभुजा मार्जारेण गृहीतः = धृतः, वशीकृतः मूषकः = आखुः इव = यथा जीविते = जीवनविषये निराशाः = निर्गता आशा संभावना यस्य स निराशः आशारहितः संवृत्तः = जातः अस्मि = भवामि । अयं भावः यथा मार्जारे गृहीतो मूषकः स्वजीवने निराशो भवति तथैवाहमपि सत्वगृहीतः साम्प्रतं स्वजीवने निराशाी जातोऽस्मीतितात्पर्यम् । विडालधृतमूषक इवाहं जीवने निराशवानस्मि ।
राजा--भोः तिरस्करिणीगर्वित ! तिरस्करिण्या = अदर्शनविद्यया गर्वितः = साहङ्कारः तत्सम्बुद्धौ तिरस्करणीगर्वित ! मदीयं = मामकीनं शस्त्रं त्वां द्रक्ष्यति =
प्रतीहारी—महाराज ! इधर से चलें, इधर से, ( सभी शीघ्रता से पास में आ जाते हैं ) राजा—( चारों ओर देखकर ) खाली ही है यह स्थान ।
( नेपथ्य में )
बचाओ, बचाओ, मैं आपको देख रहा हूँ, क्या आप मुझे नहीं देख रहे हैं ? बिल्ली के द्वारा पकड़े गये चूहे की तरह मैं अपने जीवन के विषय में निराश हो गया हूँ।
विशेष—तिरस्करिणी विद्या के प्रभाव से आक्रमणकारी ने अपने को तथा विदूषक को अदृश्य कर दिया है। बिल्ली और चूहे का दृष्टान्त उपहासास्पद है। संकट में पड़कर भी विदूषक अपनी स्वाभाविक आदत से विवश है। उसके मुख से अभ्यस्त उपमाएँ निकलती रहती हैं। जो मनो-विनोद की हेतु हैं।
राजा—हे तिरस्करिणी विद्या के कारण गर्वीले व्यक्ति ! यद्यपि मैं तुझे नहीं देख रहा हूँ, तथापि मेरा अस्त्र तुझे अवश्य देख लेगा। लो, अपने बाण को धनुष पर चढ़ाता हूँ।
षष्ठोऽङ्कः
३५३
यो हनिष्यति वध्यं त्वां रक्ष्यं¹ रक्षति च द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ २८ ॥
( इत्यस्त्रं संधत्ते )
अवलोकयिष्यति मयाऽदृष्टोऽपि त्वं ममास्त्रेण द्रक्ष्यसे तेन च हनिष्यते । तस्माददृष्टोऽहमिति ते गर्वो माऽभूत् । एषः = दुष्यन्तोऽहं तं वक्ष्यमाणगुणमिषुं = बाणं संदधे = धनुषि योजयामि ।
ननु कदाचित्तव बाणो माधव्यमेव हन्यादित्यतः तस्येषोः कौशलं वर्णयति— यो हनिष्यतीति ।
अन्वयः— यः वध्यं त्वां हनिष्यति, रक्ष्यं द्विजं च रक्षति ( तमिषुमेव सन्दधे ) हि हंसः क्षीरमादत्ते तन्मिश्रा अपः वर्जयति ।
तिरस्कारिणीविद्यागर्वितं सत्वं चक्षुषा अपश्यन् राजा दुष्यन्तः धनुषि वाणं संयोजयन् ब्रवीति—य इति । यः = य इषुः वधमर्हः वध्यस्तं वध्यं पापकरणात् वधार्हं त्वां हनिष्यति = प्रहरिष्यति मारयिष्यति रक्षितुं योग्यो रक्ष्यः तं रक्ष्यं = रक्षणयोग्यं द्विजं = विप्रं माधव्यम् रक्षति = रक्षयिष्यति तमिषुं सन्दधे । हि = यस्मात् कारणात् हंसः = मरालः क्षीरं = दुग्धम् आदत्ते = गृह्णाति तन्मिश्राः = तेन मिश्राः तन्मिश्राः दुग्धसंमिश्राः अपः = जलानि वर्जयति = त्यजति । हंस इव मे बाणः, क्षीरमिव त्वम्, आप इव माधव्यो ब्राह्मणः । तस्मात्त्वमेव मे बाणस्य ग्राह्यः, माधव्यस्त्याज्यः ।
अयं भावः— अये ! अदर्शनविद्यया अहंकारवान् । यद्यप्यहं त्वां द्रष्टुं न पारयामि तथापि ममायुधं त्वां नूनं द्रक्ष्यति, हनिष्यति च । अहमिदानीमेवं विधं दिव्यं बाणं धनुषि संयोजयामि योऽपराधिनं त्वां हनिष्यत्येव रक्षणीयञ्च माधव्यं रक्षिष्यति । यथा पानीये मिश्रिताद् दुग्धात् हंसो दुग्धमात्रमादत्ते पानीयं च परित्यजति तथैव हंससमानो मे बाणो दुग्धतुल्यं त्वां मारयिष्यति पानीयसदृशं माधव्यं परित्यज्येदेव तस्मान्नाधुना किमप्यस्ति ते शरणमिति तात्पर्यम् । अत्र दृष्टान्तालङ्कारोऽनुष्टुभ्वृत्तं च विद्यते ॥ २८ ॥
( इति = एवमुक्त्वा अस्त्रं आयुधं बाणं सन्धत्ते = धनुषि समारोपयति । धनुषा वा योजयति )
जो मारने योग्य तुझको मार डालेगा, और बचाने योग्य इस माधव्य ब्राह्मण को उसी प्रकार बचा लेगा जैसे हंस दूध को ले लेता है और उसमें मिले हुए पानी को छोड़ देता है ॥ २८ ॥
( ऐसा कहकर वह धनुष पर बाण चढ़ाता है )
विशेष— दुष्यन्त के बाण की यह विशेषता थी कि वह नीरक्षीरविवेकी हंस के समान वध्य को मारता है, अवध्य को नहीं । इसी विश्वास से राजा कहता है कि मेरा बाण केवल तुझे ही मारेगा मेरे मित्र ब्राह्मण माधव्य को बचा लेंगा। इस प्रकार दुष्यन्त में अपने बाण की अद्भुत विशेषता बताई गयी है ।
पाठा०— १. रक्षिष्यति ।
२३ शाकु०