अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
षष्ठोऽङ्कः ३४१
मात्येन लिखितम्। कष्टं खल्वनपत्यता। बहुधनत्वाद्वहुपत्नीकेन तत्रभवता भवितव्यम्। विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात्।
प्रतीहारी—देव! दाणिं एव्व साकेदअस्स सेट्ठिणो दुहिआ णिव्वुत्तपुंसवणा जाआ से सुणीअदि। [ देव, इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते। ]
राजा—ननु गर्भः पित्र्यं रिक्थमर्हति। गच्छ एवममात्यं ब्रूहि।
अंशे' इत्यमरः। विपन्नः = मृतः नौकादुर्घाटनया अनपत्यः = सन्ततिरहितः किल = निश्चयेन स तपस्वी = अनुकम्पापात्रम् वराकः राजानं = देशशासकं गच्छति मिलतीति राजगामी = राज्यकोषगामी, राजैकलभ्यः तस्य धनमित्रस्य वणिजः अर्थसंचयः = धनसंग्रहः राजैव तस्याधिकारीति निश्चीयतेऽस्माभिरिति = एतत् अमात्येन = मन्त्रिणा लिखितम् = अङ्कितम् यथा भवते रोचते तथानुज्ञायतां भवानिति भावः ‘इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः’ । इति मनुः। धनमित्रस्यावस्थां विचिन्त्य राजा सविषादमाह—कष्टं = दुःखप्रदम् दुःखोत्पादिका खलु = निश्चयेन अनपत्यता = निःसन्तानता बहुधनं यस्यासौ बहुधनः तस्य भावः तत्त्वं तस्मात् बहुधनत्वात् = आढ्यत्वात् बह्व्यः पत्न्यो यस्य सः बहुपत्नीकः तेन बहुपत्नीकेन = अनेकभार्येण, भार्याबाहुल्यवता तत्रभवता श्रेष्ठिना = धनमित्रेण भवितव्यं = भाव्यम् । विचार्यतां = निपुणं निरीक्ष्यताम्, अन्विष्यताम् तस्य = धनमित्रस्य वणिजः भार्यासु = पत्नीषु यदि = चेत् काचित् = कापि भार्या आपन्नसत्त्वा—आपन्नं = प्राप्तं सत्त्वं = जीवः या सा आपन्नसत्त्वा = गर्भिणी स्यात् = भवेत्।
प्रतीहारी—देव ! = महाराज ! इदानीमेव = अधुनैव साकेतस्य = अयोध्यायाः श्रेष्ठिनः = धनिकस्य वणिजः दुहिता = पुत्री निर्वृत्तपुंसवनानिर्वृत्तं पुंसवनं = गर्भाधानोत्तरं कर्तव्यः पुसवनाख्यसंस्कारविशेषो यस्यासौ निर्वृत्तपुंसवना, जातपुंसवनसंस्कारा अस्य = समुद्रवणिजः जाया = भार्यास्तीति, श्रूयते = आकर्ण्यते।
राजा—ननु = निश्चयेन गर्भः = गर्भस्थो जीवः गर्भस्थमपत्यं वा पित्र्यं पितुरागतं पैतृकं पितृसम्बन्धिरिक्थं = धनं, ‘रिक्थमृक्थं धनं वसु’ इत्यमरः। अर्हति = लब्धुं योग्योऽस्ति। गच्छ = याहि एवं = इत्थं पूर्वोक्तम् अमात्यं = मन्त्रिणं पिशुननामानं ब्रूहि = वद।
धनसंग्रह राजा को प्राप्त होना चाहिए। यह अमात्य ने लिखा है। निश्चय ही निःसन्तान होना महान् कष्टकारक है। वेत्रवती उस व्यक्ति के पास अधिक धन है। अतः उसकी अनेक स्त्रियाँ होनी चाहिए। पता लगाया जाय, शायद उसकी स्त्रियों में कोई गर्भिणी हो।
प्रतीहारी—महाराज! सुनने में आ रहा है कि अयोध्या के निवासी सेठ की पुत्री जिसका पुंसवन संस्कार अभी-अभी सम्पन्न हुआ है, इसकी पत्नी है।
विशेष--पुंसवन संस्कार संस्कारों में दूसरा संस्कार है जो गर्भ का निश्चित पता चल जानेपर तीसरे माह में किया जाता था। इस संस्कार से पिता पुत्र की उत्पत्ति की कामना करता था। यदि तीसरे माह में पता न चले तो चतुर्थ मास में यह किया जाता है—
व्यक्ते गर्भे तृतीये तु मासे पुंसवनं भवेत्।
गर्भेऽव्यक्ते तृतीये चतुर्थे मासि वा भवेत्॥ (शौनकसंहिता ४।२२)
राजा—तो गर्भस्थ बालक पैतृक धन का अधिकारी है, आओ ऐसा मन्त्री से कह दो।
३४२ अभिज्ञानशाकुन्तलम्
प्रतीहारी—जं देवो आणवेदि । [ यद्देव आज्ञापयति । ] ( इति प्रस्थिता )
राजा—एहि तावत् ।
प्रतीहारी—इअम्हि । [ इयमस्मि । ]
राजा—किमनेन संततिरस्ति नास्तीति ।
येन तेन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां 'दुष्यन्त इति घुष्यताम् ॥ २३ ॥
प्रतीहारी—यत् = यथा देवः = महाराजः आज्ञापयति = आदिशति तथा क्रियते ( इति = एवमुक्त्वा ततः प्रस्थिता = प्रचलिता ) ।
राजा—नृपोऽपरमपि किञ्चिद्वक्तुकामः प्रस्थितामपि प्रतिहारीं निवर्तयितुमाह— एहि तावत् = प्रतिनिवर्तस्व तावत् किञ्चित् श्रुत्वा गन्तव्यम् ।
प्रतीहारी—इयं = एषा उपस्थिता अस्मि । आज्ञापयतु महाराज इत्याशयः ।
राजा—सन्ततिरस्ति = सन्तानो विद्यते, नास्ति = न वर्तते इति अनेन विचारेण किं = किं प्रयोजनं व्यर्थं मद्रराज्ये प्रजानां सन्ततिरस्तु वा, मास्तु वेति विचारो न कर्तव्य इति तात्पर्यम् ।
अन्वयः—प्रजाः येन येन स्निग्धेन बन्धुना वियुज्यन्ते, पापात् ऋते दुष्यन्तः तासां स स इति घुष्यताम् ।
धनमित्रस्यार्थजातं तद्बान्धवैरैवोपभुज्यतामित्यर्थं दर्शयितुं सामान्यतया निजप्रजाजनेषु घोषणीयमर्थं विवृणोति—येन येनेति । प्रजाः = जनाः येन येन स्निग्धेन = स्नेहयुक्तेन प्रियेण बन्धुना = बान्धवेन पितृमातृपुत्रादिना स्वजनेन आत्मीयेन वियुज्यन्ते वियुक्ता भवन्ति पापादृते = दुरितेन विना पातकिनं विहाय यद्वा स्त्रीणां भर्तृत्वेन विना पुंसां भार्यात्वेन दुष्यन्तः = तन्नामकोऽहं राजा तासां = प्रजाजनानां स स = येन येन बन्धुना प्रजाः वियुक्ताः स स बन्धुः इति = इत्थं घुष्यतां भेरीप्रहारपूर्वकमावेद्यतां प्रजायां घोषयितव्यमितिभावः ।
अर्थ भावः—मम राज्ये प्रजासु यः कश्चित् जनः येन येनात्मीयेन जनेन वियुक्तो-
विशेष—इससे पता चलता है कि दुष्यन्त अत्यन्त न्यायशील राजा थे मन्त्री ने सुझाव दिया कि धन खजाने में ले लिया जाय, किन्तु उन्होंने गर्भस्थ बालक को पिता के धन का उत्तराधिकारी बनाने का आदेश देकर न्यायप्रियता का प्रदर्शन किया । न्याय का कर्म मन्त्री करता था, अन्तिम निर्णय देना राजा का कार्य था । मन्त्री मुकदमे का निष्कर्ष निकाल कर निर्णय के लिए राजा के पास उपस्थित कर देता था ।
प्रतीहारी—जैसी महाराज की आज्ञा । ( ऐसा कहकर चल पड़ती है )
राजा—जरा इधर आओ ।
प्रतीहारी—महाराज मैं यह उपस्थित हूँ ।
राजा—इससे क्या मतलब कि सन्तान है या नहीं ?
प्रजाजन जिस-जिस स्नेही भाई बन्धुओं से वियुक्त होते हैं, पाप के कार्य के अतिरिक्त ( मै ) दुष्यन्त उनका वह वह है, यह घोषित कर दिया जाय ॥ २३ ॥
विशेष—दुष्यन्त न्याय-प्रिय राजा थे । यदि किसी का पिता मर गया तो, दुष्यन्त ने उस युवक का भरणपोषण पिता के समान किया । किसी का भाई मर गया हो तो दुष्यन्त ने भाई की
पाठ०—१. दुःषन्त इति वृष्यताम् ।
षष्ठोऽङ्कः
३४३
प्रतोहारी—एव्वं णाम घोसइदव्वं । ( निष्क्रम्य, पुनः प्रविश्य ) काले पवुट्ठं विअ अहिणंदिदं देवस्स सासणं । [ एवं नाम घोषयितव्यम् । काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् । ]
राजा—( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिच्छेदनिरावलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रीरकाल इवोप्तबीजा भूरेव वृत्ता ।
भवेत् तेन तेनाहमेव स स आत्मीयो बन्धुरित्युद्घुष्यतां केवलं पापिनां जनानां बन्धुनाहं भविष्यामि। यस्य पिता मृतः तस्य दुष्यन्त एव पिता भ्रातृविगमे दुष्यन्त एव भ्राता पुत्रविरहे दुष्यन्त एव पुत्रः किन्तु यस्याः पतिः मृतः तस्यास्तु नाहं पतिः तथा सति उभयोरेव पातक्तित्वं प्रसज्येत । इत्येवमेव प्रजायां घोषणा क्रियताम् । तस्माद् धन-मित्रस्यानपत्यत्वे तदीययमर्थजातं तद्बान्धवा एव सुखमुपभुञ्जन्तु, अत्र छेकवृत्त्यनुप्रासाव-लङ्कारो अनुष्टुब् वृत्तं च ।। २३ ।।
प्रतीहारो—द्वारपालिका कथयति—एवं नाम घोषयितव्यं पूर्वोक्तप्रकारेणैव निश्चयेन घोषणा करिष्यते एवमेव घोषयिष्यामीत्यर्थः ( निष्क्रम्य = निर्गत्य पुनः = भूय प्रविश्य = अन्तरागत्य ) काले = यथासमयं अपेक्षितसमये प्रवृष्टं = प्रवर्षणं वर्षंव प्रभूतवृष्टिरिवं अभिनन्दितं = साधुप्रशंसितम् स्वागतविषयीकृतम् देवस्य = महाराजस्य शासनम् = राज-घोषणा आज्ञा । उचितसमये पर्जन्यागमनमिव राजशासनं लोकैः पूजितम् ।
राजा—नृपोऽनपत्यावस्थायामेव चिन्तयन् स्वयमाह—( दीर्घम् = आयतं, उष्णं = तप्तम्, च निःश्वस्य ) एवं = एवमेव, धनमित्रश्रेष्ठिवत्, भोः = अये ! सन्ततेः = सन्ता-नस्य छेदेन = अभावेन निरवलम्बानां = निराश्रितानाम्, कुलानां = वंशानाम्, मूलपुरुषा-वसाने = कारणपुरुषस्यान्ते कारणपुरुषनाशे सम्पदः = वसूनि परं = अन्य जनम् उपतिष्ठन्ति = संगच्छन्ते । मम = दुष्यन्तस्यापि अन्ते = अवसाने, परलोकगमने पुरोः वंशस्य श्रीः पुरुवंशश्रीः = पुरुकुलराजलक्ष्मी अकाले = असमये, उप्तबीजा उप्तं बीजं
तरह उसकी सहायता की, किन्तु यदि किसी युवती स्त्री का पति मर जाय और वह चाहे कि दुष्यन्त मेरे पति हो जाय तो यह सम्भव न था, क्योंकि उसमें पाप का सम्बन्ध है। इस पापकर्म में दुष्यन्त की प्रवृत्ति न थी। ऐसा समझने में पाप है। अतः इन परिस्थितियों को अपवाद बनाया गया है। यदि कोई पापी मरे तो उसकी जगह दुष्यन्त अपने को प्रस्तुत करने को उद्यत नहीं। पापी के सम्बन्धी कष्ट उठावें उसमें राजा सहानुभूति नहीं। इससे प्रजा के प्रति राजा दुष्यन्त की आत्मीयता व्यक्त होती है। अर्थात् यदि किसी स्त्री का पति मर जायेगा तो मैं उसका पति तो नहीं हो सकता, क्योंकि इसमें पाप लगेगा, किन्तु यदि किसी का पुत्र या पिता मर जाये तो मैं ही उसका पुत्र या पिता या भाई की जगह हूँ। अतः मेरी प्रजा में किसी को किसी प्रकार चिन्ता करने की आवश्यकता नहीं है यह घोषणा राज्य में करा दें।
प्रतीहारी—ठीक ही है ऐसा ही घोषित कर दिया जायेगा ( निकलकर, पुनः प्रवेश करके ) महाराज की घोषणा समय पर हुई वृष्टि के समान अभिनन्दित की गई है। अर्थात् आपकी घोषणा का हार्दिक अभिनन्दन प्रजा ने किया है।
राजा—( लम्बी साँस लेकर ) ओह, इस प्रकार सन्तति के अभाव में निराश्रित कुलों की सम्पत्तियाँ वंश के व्यक्ति के मर जाने पर दूसरे को प्राप्त हो जाती हैं। मेरे अभाव में भी पुरुवंश की लक्ष्मी की यही हालत होगी।
| ३४४ | अभिज्ञानशाकुन्तलम् |
|---|
प्रतीहारी—पडिहदं अमंगलं [ प्रतिहतममङ्गलम् । ]
राजा—धिक् मामुपस्थितश्रेयोऽवमानिनम् ।
सानुमती—असंशअं सहि एव्व हिअए करिअ णिंदिदो णेण अप्पा । [ असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा । ]
राजा—
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कलिपष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥ २४ ॥
यस्यां सा उसबीजा = आरोपितबीजा भूरिव = भूमिरिव एवं वृत्ता = ईदृशीं दशां गता । शोचनीया संवृत्तेत्यर्थः ।
प्रतीहारी—अमङ्गलं = अपशकुनं, भवदन्तरूपम् पौरवश्रियः पराश्रयणे च प्रतिहतं = निराकृतं नष्टं भवतु ।
राजा—आत्मानमेवापराधिनं मन्यमानो नृपः सनिर्वेदमाह—उपस्थितं = स्वयं प्राप्तं यच्छ्रेयः सगर्भशकुन्तलारूपं कल्याणम् तत् अवमन्यते निराकरोतीति उपस्थितश्रेयोऽवमानी तमुपस्थितश्रेयोऽवमानिनम् = स्वयमुपस्थितशकुन्तलातिरस्कारिणम् मा धिक् ।
सानुमती = अप्सराः स्वगतमाह—असंशयं = निःसन्देहं सखीमेव = आलीमेव शकुन्तलामेव हृदये = मनसि कृत्वा = विधाय विचार्य अनेन = दुष्षन्तेन आत्मा = स्वः निन्दितः = गर्हितः ।
अन्वयः—काले उसबीजा महते फलाय कल्पिष्यमाणा वसुन्धरेव कुलप्रतिष्ठा धर्मपत्नी आत्मनि संरोपिताऽपि मया त्यक्ता नाम ।
प्रागुक्तमेवार्थं दुःखातिशयेन विशदीकुर्वन्नब्रवीत्—समारोपितेति । काले = बीजारोपणसमये, अपेक्षिते समये उप्तानि आहितानि बीजानि यस्यां सा उसबीजा कृतबीजवपना न्यस्तबीजा महते = प्रभूताय परिणामाय, फलोत्पत्तये फलाय = कल्याणलाभाय सन्तानरूपाय कल्पिष्यमाणा प्रसवित्री सम्पत्स्यमाना वसुन्धरेव रत्नमयी भूमिरिव काले = ऋतुकाले निहितवीर्या महत् = वृहते फलाय = सन्तानरूपाय कल्पिष्यमाणा = प्रसवित्री कुलप्रतिष्ठा = वंशालम्बनभूता—
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररशना चोर्वी सखी च युवयोरियम् ॥ इति प्रागुक्तेः ॥
प्रतीहारी—अमङ्गल विनष्ट हो। अर्थात् ऐसा अमङ्गल वचन आप न कहें।
राजा—प्राप्त (उपस्थित) कल्याण (आपन्नसत्वा शकुन्तला) का अपमान करने वाले मुझे धिक्कार है।
सानुमती—निश्चय ही सखी शकुन्तला को ही मन में रखकर इन्होंने अपनी निन्दा की है।
राजा—उचित समय पर बोया बीज, महान् फल को देने में समर्थ पृथ्वी की तरह ऋतुकाल की समाप्ति पर गर्भाधान की गई, महान् पुत्ररूप परिणाम को देने में समर्थ वंश की अधारभूत अर्द्धाङ्गिनी अपने आपके समारोपित कर देने पर भी मेरे द्वारा परित्याग कर दी गई। यह अत्यन्त कुत्सित कार्य है ॥ २४ ॥
विशेष—भारत में धार्मिक साहित्य की मान्यता है कि पुत्र पिता के अभिन्न होता है, पिता ही पुत्र के रूप में जन्म लेता है। वह अपना ही गर्भ के रूप में आधान करता है। इस प्रकार मनुष्य
षष्ठोऽङ्कः
३४५
सानुमती—अपरिच्छिण्णा दाणिं दे संददी भविस्सदि। [ अपरिच्छिन्नेदानीं ते संततिर्भविष्यति। ]
चतुरिका—( जनान्तिकम् ) अए इमिणा सत्थवाहवुत्तंतेण द्विउणुव्वेओ भट्टा। णं अस्सासिदुं मेहप्पडिच्छंदादो अज्जं माढव्वं गेण्हिअ आअच्छामि। [ अयि अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्त्ता। एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माढव्यं गृहीत्वा-गच्छामि। ]
कुलस्य = पुरुवंशस्य प्रतिष्ठा = अवलम्बनरूपा स्थितिहेतुभूता धर्मपत्नी = धर्मभार्या अर्द्धाङ्गिनी शकुन्तला आत्मनि = स्वस्मिन् संरोपिते पुनर्गर्भे उत्पादितेऽपि वीर्य्यनिषेकात् गर्भ-रूपेण आत्मनि तस्या शकुन्तलायां योजितेऽपि—
पतिः भार्या संप्रविश्य गर्भो भूत्वेह जायते।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः॥ (म० स्मृ० ९।८)
'आत्मा प्रविश्य जायायां पुत्ररूपेण जायते।' इति स्मृतेः 'आत्मा वै पुत्रनामासि' (आश्वलायनगृह्यसूत्रे १।१५) इत्यात्मनः पुत्रत्वं श्रुतेश्च मया = दुष्यन्तेन धार्मिकेण त्यक्ता नाम = परित्यक्ता निराकृता नाम। मयैव निहितगर्भायाः आसन्नप्रसवाया तस्याः तत्काले परित्यागोऽत्यन्तमनुचित आसीदित्यहो दौर्भाग्यविलसितम्। अत्रोपमा काव्यलिङ्गं चालङ्कारौ छन्दश्चोपजातिः।
**सानुमती—**अनपत्यताविषये दुष्यन्तस्य विलापं निशम्य सानुमती दयमाना स्वगतं तस्मै शुभाशंसनं कुरुते—इदानीं = साम्प्रतं शकुन्तलायां तव पुत्रे सर्वदमने जाते सति सन्ततिः = वंशपरम्परा कुलप्रवाहः अपरिच्छिन्ना = विच्छेदरहिता, निर्वाधा भविष्यति।
चतुरिका—(जनान्तिकम्) अये ! अनेन = प्रस्तुतेन सार्थवाहवृत्तान्तेन सार्थवाहस्य धनमित्रस्य वणिक्पतेः वृत्तान्तेन = वार्त्तया द्विगुणः = द्विगुणितः **उद्वेगः=**आकुलता यस्य स द्विगुणितपीडः, भर्त्ता = स्वामी, एनं = इमम् आश्वासयितुं = उपशान्त्वयितुं मेघप्रतिच्छन्दात् = तन्नामकात् सौधात् आर्यं = श्रीमन्तम् माढव्यं = विदूषकं गृहीत्वा = आनीय, आगच्छामि।
अपनी स्त्री के पेट में वीर्य्यद्वारा स्वयं ही गर्भ रूप में प्रविष्ट होकर उत्पन्न होता है। इसीलिए पुत्र को आत्मा कहते हैं—'आत्मा वै जायते पुत्रः' 'गर्भो भूत्वा जायां प्रविशति'। 'आत्मा वै पुत्रः नामासि'। (आ० गृ० सू० १।५) इत्यादि वचन इसमें प्रमाण है। पुत्र प्रसव से कुल चलता है, नष्ट नहीं होता। अतः सपुत्रा स्त्री कुल-प्रतिष्ठा कही गई है। इस पद में सम्भावना के लिए नाम शब्द का प्रयोग है क्योंकि शकुन्तला को गर्भवती जानकर यह संभावना थी कि इसके गर्भ में पुत्र है। यहाँ आत्मा और बीज, धर्मपत्नी और वसुन्धरा, तथा प्रतिष्ठा एवं फल समारोपित तथा उस की तुलना कर जोड़ी लगाई गई है।
**सानुमती—**अब तुम्हारी वंशपरम्परा अविच्छिन्न होगी।
**विशेष—**सानुमती अप्सरा का संकेत शकुन्तला के गर्भ से है। पुत्र हो चुका है। अब वंश विच्छेद का भ्रम व्यर्थ है।
चतुरिका—( मुख के बगल हाथ से आड़कर एक ओर ) अरे, सार्थवाह के इस वृत्तान्त से स्वामी को व्याकुलता दुगनी हो गई है। इनकी सान्त्वना प्रदान करने के लिए मेघ-प्रतिच्छन्द नामक प्रासाद से माधव्य को लेकर आओ।
३४६ अभिज्ञानशाकुन्तलम्
**प्रतीहारी—**सुट्ठु भणसि। [ सुष्ठु भणसि ] ( इति निष्क्रान्ता )
**राजा—**अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः। कुतः—
अस्मात्परं बत ^१यथाश्रुति संभृतानि को नः कुले निवपनानि ^२नियच्छतीति।
नूनं प्रसूतिविकलेन मया प्रसिक्तं ^३धौताश्रुशेषमुदकं पितरः पिबन्ति ॥ २५ ॥
( इति मोहमुपगतः )
**प्रतीहारी—**सुष्ठु भणसि = समीचीनं कथयसि ( इति = एवमुक्त्वा निष्क्रान्ता = निर्गता )।
**राजा—**अनपत्यतया न केवलमिह लोकस्य, अपितु परलोकस्यापि कल्याणस्य विघात उपस्थितम् उत्पन्नं शोचति—अहो = हन्त दुष्यन्तस्य मम संशयं = संकटम् अतः परमस्माकं पिण्डलोपो भविष्यतीति सन्देहम् आरूढाः = प्राप्ताः पिण्डभाजः = पिण्डभोगिनः पितरः नूनमन्नकृच्छ्रमुत्पश्यन्ति पितरः।
**अन्वयः—**नूनं बत अस्मात् परं नः कुले यथाश्रुति संभृतानि निवपनानि कः करिष्यति ? इति पितरः प्रसूतिविकलेन मया प्रसिक्तम् उदकम् धौताश्रुशेषं पिबन्ति।
सन्तत्यभावादस्मात्परं पिण्डदातुरभावात् पितरः संशयारूढा जायन्ते। इति तेषां तात्कालिकीं स्थितिं संभावयन् प्रजा ब्रवीति—अस्मात्परमिति। बत = हन्त, अस्मात् इतो दुष्यन्तात् परं = पश्चात् नः = अस्माकं कुले = वंशे पुरुवंशे श्रुतिमतिक्रम्य यथाश्रुति = वेदोदितेन विधिना, वेदोक्तविधानपूर्वकम् संभृतानि सञ्चितानि, बहूपकरणयुक्तानि निवपनानि श्राद्धादीनि पितृतर्पणादीनि पिण्डदानानि ‘पितृदानं निवापः स्यात्’ इत्यमरः। को नियच्छति = को दास्यति, न कोऽपीत्यर्थः। इति= एवं सञ्चित्य पितरः= पितृलोकं गताः मम पूर्वजाः प्रसूतिविकलेन प्रसृत्या = सन्तत्या विकलेन = रहितेन अनपत्येन मया दुष्यन्तेन प्रसिक्तम् = पितृभ्यः प्रदत्तम् उदकम् = जलम् तिलमिश्रितं जलं तिलाञ्जलि धौताश्रुशेषं धोतानि = क्षालितानि अश्रूणि = वाष्पजलानि येन तस्मात् शेषम् = अवशिष्टं यथा स्यात्तथा धौताश्रुशेषं पिबन्ति = आचामन्ति। शोकाश्रुणाविलं मुखं प्रक्षाल्येव तर्पणजलं पिबन्ति। ( इति = एवमुक्त्वा मोहमुपगतः = मूर्छितः )
**अयं भावः—**इदानीं यावत् मया वेदविधानानुसारं श्राद्धतर्पणादिभिः संभाविताः परलोकं गता मे पितरः ममानपत्यतया मत्तः परं तेभ्यः कः श्राद्धादिकं करिष्यति। मन्ये, अग्रे कोऽपि पिण्डोदकादिदाता नास्तीति रुदन्तस्ते मयार्पितेन तर्पणोदकेन पूर्वं वाष्पं प्रमाज्यं पश्चात्तच्छेषं जलं पिबन्तीति भावः। अत्रोत्प्रेक्षाकाव्यलिङ्गालङ्कारौ वसन्ततिलकावृत्तं च ॥ २५ ॥
**प्रतिहारी—**ठीक कह रही हो। ( ऐसा कहकर बाहर निकल जाती है )।
**राजा—**ओह, मेरे पितर संशय में पड़ गये हैं, क्योंकि—
बड़े खेद की बात है कि मेरे बाद मेरे वंश में वेदोक्तविधि से तैयार किये गये श्राद्ध तथा तर्पण को कौन प्रदान करेगा, यह सोचकर निश्चय ही हमारे पितर लोग सन्तानहीन मेरे द्वारा दिये गये जल के अश्रुमार्जन से अवशिष्ट भाग को ही पाते हैं। ( ऐसा कहकर मूर्च्छित हो जाता है )
**पाठा०—**१. यथास्मृति। २. करिष्यतीति। ३. धौताश्रुसेकमुदकं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
षष्ठोऽङ्कः
३४७
चतुरिका—( ससंभ्रममवलोक्य ) समस्ससदु भट्टा। [ समाश्वसितु भर्त्ता। ]
सानुमती—हद्धी हद्धी। सदि खु दीवे ववधानदोसेण एसो अंधआरदोसं अणुहोदि। अहं दाणि एव्व णिव्वुदं करेमि। अहवा सुदं मए सउंदलं समस्ससंतोए महेंदजणणीए मुहादोजण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्संति जहअइरेण धम्मपदिणिं भट्टा अहिणंदिस्सदि त्ति। ता ण जुत्तं कालं पडिपालिदुं। जाव इमिणा वुत्तंतेण पिअसहिं समस्सासेमि। [ हा धिक् ! हा धिक् ! सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति। अहमिदानीमेव निर्वृतं करोमि। अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्यया मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्त्ताभिनन्दिष्यतीति। तन्न युक्तं कालं प्रतिपालयितुम्। यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि। ] ( इत्युद्भ्रान्तकेन निष्क्रान्ता )
चतुरिका—( ससंभ्रमं = संभ्रमेण सहितं ससंभ्रमं सावेगम् अवलोक्य = दृष्ट्वा ) समाश्वसितु = धैर्यं धारयतु भर्ता = स्वामी।
सानुमती—अथ सानुमती अप्सरा दुष्यन्तस्य तादृशीमवस्थामलोक्य सकरुणमाह— हा धिक् हा धिक् = हा हन्त दैवं धिक् हा धिक् सति खलु = वर्तमानऽपि दीपे = वंशदीपके वंशाङ्कुरे पुत्रे सर्वदमने व्यवधानदोषेण देशान्तरावरणदोषेण अज्ञ नदोषेण वा एषः = अयं राजर्षि दुष्यन्तः अन्धकारदोषं = अन्धकारः शोक एव दोषः बाधा अन्धकारदोषः तम् अज्ञानदुःखम् अनुभवति = प्राप्नोति। अहं = सानुमती इदानीमेव = अधुनैव निर्वृतं = शान्तं करोमि = विदधामि पुत्रसद्भावं निवेदयामि अथवा यद्वा न विवेक्ष्यामि यद्वा श्रुतं = आकणितम् मया शकुन्तलां सखीम् समाश्वासयन्त्याः = उपशान्तयन्त्या महेन्द्रस्य = इन्द्रस्य मातुः = जनन्या अदितिदेव्या मुखात् = वदनात् यज्ञभागसमुत्सुका यस्य भागय समुत्सुका इति = यागांशग्रहीतुकामाः देवा = सुरा एव तथा = तेन प्रकारेण अनुष्ठास्यन्ति = करिष्यन्ति यथा = यत् न चिरेण अविलम्बेन शीघ्रम् धर्मपत्नीं = अर्द्धाङ्गिनीं धर्मभार्यां शकुन्तलां भर्ता स्वामी दुष्यन्तः अभिनन्दिष्यति = सादरं नेष्यति इति। तत् = अतः न युक्तं नोचितम् कालं = समयं प्रतिपालयितुं अत्र प्रतीक्षितुम् विलम्बं कर्तुं यावत् अनेन वृत्तान्तेन आलेख्यविनोदनमोहोपगतादिवार्तया प्रिया = हृद्या च सा सखी = आली तां
चतुरिका—( घबराहट के साथ देखकर ) आश्वस्त हो, आश्वस्त हो, स्वामी।
सानुमती—हाय ! हाय ! वंश चलाने वाले पुत्र के रहते हुए भी व्यवधान दोष से ही यह राजर्षि इस प्रकार अन्धकार में पड़ा हुआ शोक का अनुभव कर रहा है। मैं अभी ही शकुन्तला का समाचार बतलाकर सुखी कर देती हूँ। अथवा मैंने शकुन्तला को धीरज बँधाती हुई इन्द्र की माता अदिति के मुख से सुना है—कि यज्ञभाग के लिए उत्सुक देवता लोग ही ऐसा उपाय करेंगे जैसे शीघ्र ही धर्मपत्नी शकुन्तला को स्वामी दुष्यन्त स्वागतपूर्वक स्वीकार करेंगे, तो इस समय की प्रतीक्षा करना ही ठीक होगा तो जबतक वृत्तान्त से प्रियसखी शकुन्तला को आश्वस्त करूंगी कि यज्ञभाग के लिए उत्सुक देवता लोग अतिशीघ्र ऐसा उपाय करेंगे जिससे तेरा पति तुझे पुनः पाकर तेरा आदर करेगा और पुत्रसहित तुझे पाकर परम प्रसन्न होगा। अतः अब मुझे यहाँ ज्यादा विलम्ब नहीं करना चाहिए। जाकर अपनी आँखों देखा वृत्तान्त बताकर शकुन्तला को धैर्य धराऊँ। ( ऐसा कहकर उद्भ्रान्त-नृत्य के साथ निकल जाती है )
विशेष—यहाँ प्रयुक्त दीप पद से ध्वनित होता है कि दीपक के समान तेजस्वी पुत्र पैदा हो चुका है। पुत्र कुल का दीपक होता है। यहाँ शकुन्तला के पुत्र सर्वदमन की ओर संकेत है।
३४८ अभिज्ञानशाकुन्तलम्
(नेपथ्य) अब्बम्हण्णं । [ अब्रह्मण्यम् । ]
राजा—(प्रत्यागतचेतनः कर्णं दत्त्वा) अये, माधवस्येवार्तस्वरः। कः कोऽत्र भोः।
(प्रविश्य)
प्रतिहारी—(ससंभ्रमम्) परित्ताअदु देवो संसअगदं वअस्सं। [परित्रायतां देवः संशयगतं वयस्यम् ।]
राजा—केनात्तगन्धो माणवकः ।
प्रियसखीं शकुन्तलाम् समाश्वासयिष्यामि = उपशान्तवयिष्यामि । (इति=ततः उद्भ्रान्त-केन उत्पतिकरणेन निष्क्रान्ता निर्गता सानुमती)
अथ राजानं दुष्यन्तं रसान्तरे प्रवेशयितुं इन्द्रसारथेः मातलेः प्रवेशं प्रस्तौति—
(नेपथ्ये=जवनिकायाम्) ब्रह्मणि साधु ब्राह्मणस्य हितं वा ब्रह्मण्यं न ब्रह्मण्यं अब्रह्मण्यम् = नाहं वन्ध्यः, अवन्ध्योऽस्मीति भावः। 'अब्रह्मण्यमवध्योक्तौ' इत्यमरः।
राजा—(प्रत्यागतं = निवृत्तं चेतनं=संज्ञा यस्य स प्रत्यागतचेतनः सन् कर्णं दत्त्वा=श्रवणमारोप्य) अये ! भो ! माधवस्य = विदूषकस्येव आर्तस्वरः = क्लेशजनको नादः = करुण क्रन्दनम् कः कः इति सम्भ्रमे द्विरुक्तिः अत्र = इह भो ! अये ?
(प्रविश्य = अन्तररागत्य)
प्रतिहारी—(ससंभ्रममाह—) देवः = महाराजः संशय-गतं = सङ्कटप्राप्तं वयस्यं = मित्रं माधवम् परित्रायताम् = रक्षतु ।
राजा—केन जनेन, विधिना वा आत्तगन्धः = अभिभूतः 'आत्तगन्धाऽभिभूतः स्यात्' इत्यमरः। केनाभिभूतो माणवकः = मूर्खो मानवः। मनोरपत्यं मानवः कुत्सितो मानवः माणवः, माणव एव माणवकः तथा चोक्तं महाभाष्ये—
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य मूर्धन्यस्तेन सिध्यति माणवः ॥ ४।१।१६१
दूसरी बात यह है कि राजर्षि दुष्यन्त शकुन्तला के विरह की व्यग्रता के कारण यज्ञादि शुभ कार्य नहीं कर रहे हैं, जिससे देवताओं का आप्यायन नहीं हो रहा है, वे उदासीन होकर, खिन्न हो रहे हैं। शकुन्तला के मिल जाने पर वे उसे राजमहिषी बनाकर सपत्नीक हो यज्ञों का अनुष्ठान करेंगे जिससे कर्म का संवर्द्धन होगा।
(नेपथ्य में) महान् अनर्थ हो रहा है।
राजा—(होश में आकर कान लगाकर) अरे ! यह तो माधव्य का आर्तनाद = करुणक्रन्दन मालूम पड़ता है। क्या बात है ? कौन है यहाँ, पहरे पर कौन है ?
(प्रवेश कर)
प्रतिहारी—(घबराहट के साथ) संकट में फँसे हुए मित्र माधव्य को बचावें ।
**राजा—**किसने माणवक=माधव्य को अभिभूत = तिरस्कृत किया है ?
विशेष—'आत्तगन्धोऽभिभूतः स्यात्, आत्तः = गृहीतो गन्धः गर्वो यस्य सः आत्तगन्धः ।' मानव माणव है—जब कुत्सित अर्थ में प्रयुक्त होता है तब मनोरपत्यं कुत्सितं माणव बनता है।
राजा दुष्यन्त का अनुमान है कि माधव्य ने कोई ढिठाई की होगी । अतः उसे माणव कहता है। दूसरी बात यह है कि राजा सोचता है कि चित्र-पट ले जाते हुए बेचारे माधव्य को मार्ग में महाराना की पिंगला आदि चेटियों ने कदाचित्त पकड़ लिया है और उसे पीडित कर रही हैं।
षष्ठोऽङ्कः ३४९
प्रतीहारी—अदिट्ठरूवेण केण वि सत्तेण अदिक्रमिअ मेहप्पडिच्छंदस्स प्पासा- दस्स अग्गभूमिं आरोविदो । [ अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः । ]
राजा—( उत्थाय )—मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथवा—
अहन्यह्न्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा ^१प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ २६ ॥
प्रतीहारी—अदृष्टरूपेण न दृष्टं = नावलोकितं रूपं = आकृतिना केन अपि सत्वेन तथा विधं स्वरूपं यस्य स तेन प्रच्छन्न=जन्तुना भूतपिशाचाद्यन्यतमत्वेन अतिक्रम्य=अभिभूय मेघ- प्रतिच्छन्दस्य तन्नाम्नः प्रासादस्य अग्रभूमि = शिखराग्रम् आरोपितः=प्रापितः निवेशितः ।
राजा—( नृपतिरुत्थाय ) मा तावत् = एवं न ब्रूहि, मम सत्त्वाभिभाविनो दुष्यन्त- स्यापि गृहाः = भवनानि सत्त्वैः = भूतादिभि अभिभूयन्ते = आक्रम्यन्ते अथवा = यद्वा ।
अन्वयः—अहनि-अहनि आत्मनः एव प्रमादस्खलितं तावत् ज्ञातुं न शक्यम्, प्रजासु कः केन पथा प्रयाति इति अशेषतो वेदितुं शक्तिरस्ति ?
सत्त्वैरभिभूतमात्मनो गृहमनुभूय राजा दुष्यन्तः किञ्चिद्विचिन्त्य पक्षान्तरमाह— अहन्यहनीति । अहनि अहनि = प्रतिदिनम्, आत्मनः = स्वस्य एव प्रमादस्खलितं प्रमादेन = अनवधानतया स्खलितं विपरीताचरितं, धर्मप्रच्युतिः तावत् साकल्येन ज्ञातुं न शक्यं = बोद्धुं न पार्यते जनैः मया वा अन्यथा कथं मे अज्ञानाद्धर्मपत्नी परि- त्यागः ? यदि सन्निहिततमे आत्मन्यप्येवं भवेत् तदा अगोचरासु प्रजासु = प्रकृतिषु कः को जनः केन पथा सत्पथेन अपथेन वा प्रयाति = चरति, गच्छति व्यवहरति इति = एतत् अशेषतः = साकल्येन वेदितुं = ज्ञातुं शक्तिः = सामर्थ्यम् अस्ति = वर्तते ? नास्त्येवेति काकुः ।
अयं भावः—यदि अनवधानोद्भूतं स्वस्यैव धर्मलङ्घनादि कार्यं कार्त्स्न्येन न कोऽपि ज्ञातुं शक्नोति तर्हि किं पुनः सकलस्य लोकस्य सन्मार्गगमनमसन्मार्गगमनं वा परिज्ञातुं शक्नोति । यस्य आत्मसम्बन्धेऽपि पूर्णं ज्ञानं नास्ति सकलं कथयितुं मे प्रजासु न कोऽपि पापं करोति कथयितुं शक्नोति तस्मात् किं निमित्तोऽयमपचार इति सर्वथाऽशक्य एव । अत्रार्थापत्तिरप्रस्तुतप्रशंसालङ्कारौ वृत्तञ्चोपजातिः ॥ २६ ॥
प्रतीहारी—दृष्टिगोचर न होने वाले किसी प्राणी के द्वारा जबर्दस्ती पकड़ कर मेघप्रतिच्छन्द नामक प्रसाद की ऊपरी मंजिल पर ले जाया गया है ।
राजा—( उठकर ) ऐसा मत कहो, क्या मेरे घर भी भूत-प्रेत आदि के द्वारा आक्रान्त किये जा रहे हैं । अथवा—
प्रतिदिन अपने ही प्रमादवश होने वाली त्रुटि को जाँचना संभव नहीं है तब प्रजाजनों में कौन किस मार्ग में जा रहा है, वह पूर्ण रूप से जानने में किसी की शक्ति नहीं है ॥ २६ ॥
विशेष—राजा के कहने का तात्पर्य यह है कि मैं धर्मपूर्वक प्रजाशासन करता हूँ । और बड़े-बड़े यज्ञ करता हूँ । अतः मेरे घर कोई भूत-प्रेत कैसे आक्रमण कर सकता है ? किन्तु राजा तो समूचे राष्ट्र के पुण्य-पाप का भागी होता है । अतः प्रजाजनों के दोष से भी मेरे यहाँ भूत-प्रेत बाधा आ सकती है । इसलिए किसी भूत-प्रेत का आक्रमण यहाँ भी संभव है ।
पाठा०—१. प्रयातीत्यशेषतः कस्य पुनः प्रभुत्वम् ।
३५० अभिज्ञानशाकुन्तलम्
( नेपथ्ये ) भो वअस्स ! अविहा अविहा । [ भो वयस्य अविहा अविहा । ]
राजा—( गतिभेदेन परिक्रान्त ) सखे न भेतव्यं न भेतव्यम् ।
( नेपथ्ये )
( पुनस्तदेव पठित्वा ) कहं ण भाइस्सं ? एस मं को वि पच्चवणद सिरोहरं इच्छं विअ तिण्णभंगं करेदि । [ कथं न भेष्यामि ? एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति । ]
राजा—( सदृष्टिक्षेपम् ) धनुस्तावत् ।
( प्रविश्य शार्ङ्गहस्ता )
यवनी—भट्टा ! एदं हत्थावावसहिदं सरासणं । [ भर्तः ! एतद्धस्तावापसहितं शरासनम् । ]
( नेपथ्ये = जवनिकायाम् ) भो वयस्य ! = अरे मित्र ! अविहा, अविहा अविहेति निर्वेदे 'अविहा अविहा' निर्वेदे इत्युक्तेः ।
राजा--( गतिभेदेन = गतिपरिवर्तनपूर्वकं, क्रोधोद्धतगत्या ) सखे ! = मित्र ! न भेतव्यं, न भेतव्यम् एव भयं नानुभवितव्यम् ।
( नेपथ्ये = जवनिकायाम् )
( पुनः तदेव पठित्वा = अविहा, अविहेति पठित्वा ) कथं न भेष्यामि = भयं कथं न करोमि एषः कोऽपि अदृश्यो जनः मां = त्वत्सखायं माधव्यं प्रत्यवनता पृष्ठतः वक्रीकृता शिरोधरा = ग्रीवा यस्य स तथाविधं प्रत्यवनतशिरोधरं = तिर्यग्ग्रीवं इक्षुमिव = इक्षुदण्डमिव त्रिभङ्गं त्रिषु स्थानेषु भङ्गः वक्रता यस्य स तथाविधं त्रिभङ्गं = त्रिखण्डम् करोति = विदधाति ।
राजा--( सदृष्टिक्षेपं = दृष्टिक्षेपेण सह स दृष्टिक्षेपं = सर्वतोऽवलोक्य ) धनुः = चापं तावत् आनय ।
( प्रविश्य = प्रवेशं कृत्वा शृङ्गस्य विकारः शार्ङ्गं = शृङ्गनिर्मितं धनुः हस्ते। = करे यस्या। सा शार्ङ्गहस्ता = चापहस्ता )
यवनी--भर्तः ! = स्वामिन् ! हस्तं = करं आनूपति ज्याघाताद्रक्षतीति हस्तावापः
( नेपथ्य में ) हे मित्र ! बचाओ, बचाओ ।
राजा—( चाल बदलकर चारों ओर घूमते हुए ) मित्र ! डरो मत, डरो मत ।
( नेपथ्य में )
( पुनः उसी बात को कहकर ) कैसे न डरूँ, यह कोई मेरी गर्दन को पीछे की ओर मोड़कर ईख की तरह मेरे तीन टुकड़े कर रहा है ।
विशेष—विदूषक राजा को उलाहना देता है कि मेरी रक्षा तो कर नहीं पा रहे हो, यहाँ जान पर बीती जा रही है, कैसे न डरूँ । गर्दन मरोड़ने की ईख का दण्डा मरोड़ने से सटीक उपमा है । भूतप्रेत इसी प्रकार आक्रमण करते हैं । आक्रान्त व्यक्ति आक्रमणकारी को तो देख नहीं पाता, आक्रमण का शिकार हो जाता है ।
राजा—( आँखें इधर-उधर घूमाकर ) धनुष तो लाओ ।
( धनुष हाथ में लेकर प्रवेश करती हुई )
यवनी—महाराज ! हस्तकवचसहित यह धनुष है ।
षष्ठोऽङ्कः ३५१
( राजा सशरं धनुरादत्ते ) ( नेपथ्ये )
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥ २७ ॥
राजा--( सरोषम् ) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन त्वमिदानीं न भविष्यसि । ( शार्ङ्गमारोप्य ) वेत्रवति सोपानमार्गमादेशय ।
= वामहस्तरक्षकं चर्ममयं वस्तु यद्वा हस्तम् अवाप्नोति रक्षकत्वेन लभते इति हस्तावापः = हस्तवारकः तेन सहितं हस्तावापसहितं शरासनं = धनुः ।
( राजा = नृपतिः सशरं = वाणयुक्तं धनुः आदत्ते = यवनीहस्तात् गृह्णाति )
( नेपथ्ये = जवनिकायाम् ) ।
अन्वयः--अभिनवकण्ठशोषणार्थी ( अहम् ) शार्दूलः पशुमिव चेष्टमानं त्वां एष हन्मि आर्तानां भयम् अपनेतुम् आत्तधन्वा दुष्यन्तः इदानीं तव शरणं भवतु ।
नेपथ्ये विदूषकस्य करुणक्रन्दनमाकर्ण्य तद्रक्षणार्थं धनुर्बाणं च गृहीत्वा राजा दुष्यन्त यावत् परिक्रामपि तावदेव नेपथ्ये केनापि अदृश्येन पुंसा प्रोच्यमानं वचनं शुश्राव--एष इति । कण्ठस्य शोणितं कण्ठशोणितं अभिनवं = उष्णं यत् कण्ठशोणितं = गलरक्तं तत् अर्थयते = काङ्क्षति यः सः अभिनवकण्ठशोणितार्थी = उष्णोष्णकण्ठरुधिरपानाभिलाषी एषः एषोऽहम् शार्दूलः = व्याघ्रः पशुमिव = हरिणादिसाधारणं जन्तुमिव चेष्टमानं = इतस्ततो लुण्ठन्तम् प्राणरक्षणार्थं प्रयतमानं त्वां हन्मि = व्यापरायामि आर्तानां भीतानां भयं = भीतिम् अपनेतुं = दूरीकर्तुम्, आत्तधन्वा = अधिज्यधन्वा गृहीतचापः दुष्यन्तो नृपतिः तव सखा इदानीं = अस्मिन् मत्पराक्रमप्रकाशक्षणे तव वध्यमानस्य विदूषकस्य शरणं रक्षकः, सहायकः भवतु = स्यात् यदि तस्य शक्तिरस्ति ।
अयं भावः--नेपथ्येऽश्रूयत् यत् शार्दूलो मृगादीनां रुधिरमिव तव कवोष्णकण्ठशोणितपिपासुरहं त्वां हन्मि । आर्तानां भयनिवारणायात्तधन्वा दुष्यन्तो यदि प्रभवेत् तर्हि समागत्य त्वां रक्षतु । मन्ये, मया गृहीतस्य तव रक्षणे नास्ति तस्य शक्ति, तस्य पश्चात् एव त्वां हन्मीति भावः । अत्रोपमानुप्रासौ अलङ्कारौ प्रहर्षिणी छन्दश्च ।
राजा--( सरोषं = सकोपम् ) कथं = किम् मामेव उद्दिशति = निर्दिशति कुणपाशनं
( राजा बाण सहित धनुष लेता है )
( नेपथ्य में )
गर्दन के ताजे खून का प्यासा मैं शेर के समान छटपटाते हुए तुझे अभी मारता हूँ आर्त-त्राणार्थ धनुष धारण करने वाले दुष्यन्त अब तुम्हारी रक्षा करें ॥ २७ ॥
विशेष--यहाँ दुष्यन्त की शक्ति के लिए चुनौती है । यह सुन राजा को क्रोध जागेगा । इसी अभिप्राय से 'दुष्यन्तः शरणं भवतु' का प्रयोग किया गया है। चीते का स्वभाव है कि वह ताजा-ताजा गले का खून पीता है । ताजे खून का इच्छुक होना तथा हाथ पैर चलाते हुए को मारने की बात बीभत्स रस ध्वनित करती है ।
राजा--( क्रोध पूर्वक ) क्या मुझे ही उद्देश्य करके यह कह रहा है ? ठहर राक्षस अब तुम नहीं बचोगे । ( धनुष उठाकर ) सीढ़ी का रास्ता बताओ ।
विशेष--कुणप कहते हैं शव को, कुणपाशन शब्द का तात्पर्य है--कुणपः = शव अशनं = भोजनं यस्य स कुणपाशनः = मुर्दे को खाने वाला राक्षस । राजा ने अनुमान लगाया था कि मनुष्य का खून चाहने वाला होने से यह आक्रमणकारी कोई राक्षस ही होगा ।
३५२ | अभिज्ञानशाकुन्तलम्
प्रतीहारी--इदो इदो देवो। [ इत इतो देवः। ] ( सर्वे सत्वरमुपसर्पन्ति। ) राजा--( समन्ताद्विलोक्य ) शून्यं खल्विदम्। ( नेपथ्ये ) अविहा अविहा। अहं अत्तभवंतं पेक्खामि तुमं मं ण पेक्खसि। विडालग्ग- हीदो मूसओ विअं णिरासो म्हि जीविदे संवुत्तो। [ अविहा अविहा, अहमत्रभवन्तं पश्यामि। त्वां मां न पश्यसि। विडालगृहीतो मूषिक इव निराशोऽस्मि जीविते संवृत्तः। ] राजा--भोस्तिरस्करिणीगर्वित मदीयं शस्त्रं त्वां द्रक्ष्यति। एष तमिषुं संदधे।
कुणपं = शवम् अश्नातीति कुणपाशनो यद्वा कुणपः शवं अशनं = भक्षणं यस्य स कुणपाशनः तत्सम्बुद्धौ हे कुणपाशनः = हे राक्षस ! 'कुणपः शवमस्त्रियाम्' इत्यमरः। तिष्ठ = विरम, त्वम् इदानीं = अधुना न भविष्यति = न जीविष्यति त्वामधुनैव हन्मि, त्वं त्वरितं मरिष्यसीत्यर्थ शार्ङ्गं = शृङ्गमयं धनुः आरोप्य = बाणयुतं कृत्वा वेत्रवति = द्वारपालिके ! सोपानमार्गं = आरोहणपन्थानम्, आदेशय = प्रदर्शय ।
प्रतीहारी--इत इतो देवः = महाराजः अनेन पथा आगच्छतु। ( सर्वे = सकलाः राजा यवनीप्रतिहारी चेति सत्वरं-स्वरया = शीघ्रतया उपसर्पन्ति = समीपे गच्छन्ति। )
राजा--( समन्तात् = चतसृषु दिक्षु अवलोक्य = दृष्ट्वा तत्र कमप्यनवलोक्य । ) शून्यं = जनरहितं खलु = निश्चयेन इदं = एतत् स्थानम् = स्थलम् ।
( नेपथ्ये = जवनिकायाम् ) अविहा, अविहा हन्त ! आश्चर्यम् । अहम् । अत्रभवन्तं = पूज्यं त्वां पश्यामि = विलोकयामि त्वं = भवान् माम् = माधव्यं न पश्यसि = न विलोकयसि विडालेन = आखुभुजा मार्जारेण गृहीतः = धृतः, वशीकृतः मूषकः = आखुः इव = यथा जीविते = जीवनविषये निराशाः = निर्गता आशा संभावना यस्य स निराशः आशारहितः संवृत्तः = जातः अस्मि = भवामि । अयं भावः यथा मार्जारे गृहीतो मूषकः स्वजीवने निराशो भवति तथैवाहमपि सत्वगृहीतः साम्प्रतं स्वजीवने निराशाी जातोऽस्मीतितात्पर्यम् । विडालधृतमूषक इवाहं जीवने निराशवानस्मि ।
राजा--भोः तिरस्करिणीगर्वित ! तिरस्करिण्या = अदर्शनविद्यया गर्वितः = साहङ्कारः तत्सम्बुद्धौ तिरस्करणीगर्वित ! मदीयं = मामकीनं शस्त्रं त्वां द्रक्ष्यति =
प्रतीहारी—महाराज ! इधर से चलें, इधर से, ( सभी शीघ्रता से पास में आ जाते हैं ) राजा—( चारों ओर देखकर ) खाली ही है यह स्थान ।
( नेपथ्य में )
बचाओ, बचाओ, मैं आपको देख रहा हूँ, क्या आप मुझे नहीं देख रहे हैं ? बिल्ली के द्वारा पकड़े गये चूहे की तरह मैं अपने जीवन के विषय में निराश हो गया हूँ।
विशेष—तिरस्करिणी विद्या के प्रभाव से आक्रमणकारी ने अपने को तथा विदूषक को अदृश्य कर दिया है। बिल्ली और चूहे का दृष्टान्त उपहासास्पद है। संकट में पड़कर भी विदूषक अपनी स्वाभाविक आदत से विवश है। उसके मुख से अभ्यस्त उपमाएँ निकलती रहती हैं। जो मनो-विनोद की हेतु हैं।
राजा—हे तिरस्करिणी विद्या के कारण गर्वीले व्यक्ति ! यद्यपि मैं तुझे नहीं देख रहा हूँ, तथापि मेरा अस्त्र तुझे अवश्य देख लेगा। लो, अपने बाण को धनुष पर चढ़ाता हूँ।
षष्ठोऽङ्कः
३५३
यो हनिष्यति वध्यं त्वां रक्ष्यं¹ रक्षति च द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ २८ ॥
( इत्यस्त्रं संधत्ते )
अवलोकयिष्यति मयाऽदृष्टोऽपि त्वं ममास्त्रेण द्रक्ष्यसे तेन च हनिष्यते । तस्माददृष्टोऽहमिति ते गर्वो माऽभूत् । एषः = दुष्यन्तोऽहं तं वक्ष्यमाणगुणमिषुं = बाणं संदधे = धनुषि योजयामि ।
ननु कदाचित्तव बाणो माधव्यमेव हन्यादित्यतः तस्येषोः कौशलं वर्णयति— यो हनिष्यतीति ।
अन्वयः— यः वध्यं त्वां हनिष्यति, रक्ष्यं द्विजं च रक्षति ( तमिषुमेव सन्दधे ) हि हंसः क्षीरमादत्ते तन्मिश्रा अपः वर्जयति ।
तिरस्कारिणीविद्यागर्वितं सत्वं चक्षुषा अपश्यन् राजा दुष्यन्तः धनुषि वाणं संयोजयन् ब्रवीति—य इति । यः = य इषुः वधमर्हः वध्यस्तं वध्यं पापकरणात् वधार्हं त्वां हनिष्यति = प्रहरिष्यति मारयिष्यति रक्षितुं योग्यो रक्ष्यः तं रक्ष्यं = रक्षणयोग्यं द्विजं = विप्रं माधव्यम् रक्षति = रक्षयिष्यति तमिषुं सन्दधे । हि = यस्मात् कारणात् हंसः = मरालः क्षीरं = दुग्धम् आदत्ते = गृह्णाति तन्मिश्राः = तेन मिश्राः तन्मिश्राः दुग्धसंमिश्राः अपः = जलानि वर्जयति = त्यजति । हंस इव मे बाणः, क्षीरमिव त्वम्, आप इव माधव्यो ब्राह्मणः । तस्मात्त्वमेव मे बाणस्य ग्राह्यः, माधव्यस्त्याज्यः ।
अयं भावः— अये ! अदर्शनविद्यया अहंकारवान् । यद्यप्यहं त्वां द्रष्टुं न पारयामि तथापि ममायुधं त्वां नूनं द्रक्ष्यति, हनिष्यति च । अहमिदानीमेवं विधं दिव्यं बाणं धनुषि संयोजयामि योऽपराधिनं त्वां हनिष्यत्येव रक्षणीयञ्च माधव्यं रक्षिष्यति । यथा पानीये मिश्रिताद् दुग्धात् हंसो दुग्धमात्रमादत्ते पानीयं च परित्यजति तथैव हंससमानो मे बाणो दुग्धतुल्यं त्वां मारयिष्यति पानीयसदृशं माधव्यं परित्यज्येदेव तस्मान्नाधुना किमप्यस्ति ते शरणमिति तात्पर्यम् । अत्र दृष्टान्तालङ्कारोऽनुष्टुभ्वृत्तं च विद्यते ॥ २८ ॥
( इति = एवमुक्त्वा अस्त्रं आयुधं बाणं सन्धत्ते = धनुषि समारोपयति । धनुषा वा योजयति )
जो मारने योग्य तुझको मार डालेगा, और बचाने योग्य इस माधव्य ब्राह्मण को उसी प्रकार बचा लेगा जैसे हंस दूध को ले लेता है और उसमें मिले हुए पानी को छोड़ देता है ॥ २८ ॥
( ऐसा कहकर वह धनुष पर बाण चढ़ाता है )
विशेष— दुष्यन्त के बाण की यह विशेषता थी कि वह नीरक्षीरविवेकी हंस के समान वध्य को मारता है, अवध्य को नहीं । इसी विश्वास से राजा कहता है कि मेरा बाण केवल तुझे ही मारेगा मेरे मित्र ब्राह्मण माधव्य को बचा लेंगा। इस प्रकार दुष्यन्त में अपने बाण की अद्भुत विशेषता बताई गयी है ।
पाठा०— १. रक्षिष्यति ।
२३ शाकु०
| ३५४ | अभिज्ञानशाकुन्तलम् |
|---|
( ततः प्रविशति विदूषकमुत्सृज्य मातलिः )
मातलिः—राजन् !
कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥ २९ ॥
राजा—( ससंभ्रममस्त्रमुपसंहरन् ) अये मातलिः । स्वागतं ^१महेन्द्रसारथेः ।
( ततः = तदनन्तरं मातलिः = इन्द्रसारथिः विदूषकं = माधव्यं ब्राह्मणम् उत्सृज्य = त्यक्त्वा प्रविशति = रङ्गमञ्चे दृश्यते । )
**मातलिः—**अथेन्द्रसारथिः स्वागमनकार्यं निवेदयितुं राज्ञः कोपप्रशमनायचोपक्रमते—कृता इति ।
**अन्वयः—**हरिणा असुराः तव शरव्यं कृताः, तेषु इदं शरासनं विकृष्यताम् । सतां सुहृज्जने प्रसादसौम्यानि चक्षूंषि पतन्तिः दारुणाः शराः न ॥ २९ ॥
नृपतिं दुष्यन्तं क्रुद्धमवगत्य विदूषकं परित्यज्य मातलिर्ब्रूते—कृता इति । हरिणा = इन्द्रेण असुराः = दैत्याः तव = दुष्यन्तस्य शरव्यं = लक्ष्यं कृताः = विहिताः, दैत्याः त्वया हन्तव्या इति हरेरभिलाषेत्यर्थः । 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । अतः तेषु = लक्ष्यीभूतेषु दैत्येषु इदं = सज्जं शरासनं = संहितशरं धनुः विकृष्यताम् = आकृष्यताम्, तदर्थमेवाहमागतोऽस्मि, स्वयमिन्द्रेण प्रार्थितस्त्वं दैत्यान् जहि, मास्तु ते मयि शरत्यागः इति भावः । सतां = सज्जनानां म्वादृशां सुहृज्जने = स्वमित्रादिबन्धुवर्गे प्रसादसौम्यानि प्रसादेन = प्रसन्नतया सौम्यानि = अनुग्राह्याणि, आह्लादकानि प्रसादमधुराणि चक्षूंषि = नेत्राणि पतन्ति, दृष्टयो निधीयन्ते न तु दारुणाः = भयङ्कराः मर्मभेदिनः शराः = बाणाः न निपतन्ति । अतस्त्वमपि मयि सुहृदि बन्धुवर्गे स्नेहमसृणे लोचने निक्षिप न खलु तव शरपातोचितोऽहम् । अहं हि बान्धवतया समागतो भवतः प्रसन्नदृष्टेरेव पात्रमस्मि न वाणपातस्येति संह्रियतां निजमायुधमिति भावः । अत्राथ्रान्तरन्यास-परिसंख्या-काव्य-लिङ्गमलङ्कारा। वंशस्थं वृत्तञ्च ।
राजा—( नृपः ससंभ्रमं-संभ्रमेण = संभ्रान्त्या सह ससंभ्रमम् अस्त्रम् = आयुधम् उपसंहरन्=प्रत्यावर्तयन् ) अये = कथम् मातलिः, स्वागतं = अभिनन्दनम् महेन्द्रसारथेः = इन्द्ररथचालकस्य ।
( तदनन्तर विदूषक को छोड़कर मातलि प्रवेश करता है )
**मातलि—**राजन् ! इन्द्र के द्वारा राक्षस आपके बाण का लक्ष्य बनाये गये हैं, आप उनके ऊपर यह धनुष चलाइए । सज्जनों के अपने मित्रोंपर कृपावश शान्त नेत्र ही पड़ते हैं, भयङ्कर बाण नहीं।
**विशेष—**यहाँ श्लोक में पूर्वार्द्ध में मातलिने अपने आने का उद्देश्य और इन्द्र का सन्देश बताया, उत्तरार्द्ध में राजा को सज्जन कहकर उनकी प्रशंसा की और अपने को उनका मित्र बताया । मित्र ! बाण मेरे ऊपर क्यों छोड़ते हैं, शत्रुओं पर छोड़िए यह कहकर मातलि मनोरञ्जक ढंग से अपने को दुष्यन्त के समक्ष प्रस्तुत करता है । मातलि इन्द्र के सारथि का नाम है ।
राजा—( शीघ्रता से साथ बाण को धनुष से उतारते हुए ) अरे मातलि, हे देवराज के सारथि, आपका स्वागत है । आइए, आइए !
पाठा०—१. देवराजसारथे ।
षष्ठोऽङ्कः । ३५५
( प्रविश्य )
विदूषकः—अहं जेण इट्ठिपसुमारं मारिदो सो इमिणा साअदेण अहिणंदीअदि।
[ अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते । ]
मातलिः( सस्मितम् )—आयुष्मन्, श्रूयतां ^१यदस्मि हरिणा ^२भवत्सकाशं प्रेषितः ।
राजा—अवहितोऽस्मि ।
मातलिः—अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजा—अस्ति । श्रुतपूर्वं मया नारदात् ।
( प्रविश्य = प्रवेशं कृत्वा )
विदूषकः—राज्ञा क्रियमाणं मातलेः स्वागतं दृष्ट्वा विदूषकः सासूयं वदति—येन मातलिना अहं इष्टिपशुमारं इष्टेः यज्ञस्य पशुबलिः स इव मारति, निहतः = यज्ञपशुवन्मारितः, ग्रीवायां गृहीत्वा मुष्ट्यादिना क्रूरतरं ताडितः। यथा यज्ञे पशु मार्यते तथैव मारितः, सः = मातलिः अनेन = एतेन नृपेण स्वागतेन स्वागत शब्दोच्चारणेन अभिनन्द्यते = समाद्रियते। विसदृशमेतद्वयस्यस्य रिपोरपि स्वागतकरणात् महत्ते औदार्यमेतदित्यशयः ।
मातलिः—इन्द्रसारथिः विदूषकवचनेन सस्मितमाह—आयुष्मन् = चिरजीविन् ! श्रूयताम् = आकर्ण्यतां यदस्मि यदर्थमहं हरिणा = महेन्द्रेण भवतः सकाशं = आयुष्मता समीपे प्रेषितः = प्रहितः ।
राजा—अवहितोऽस्मि = सावधानोऽस्मि ।
मातलिः—कालनेमिप्रसूतिः— कालनेमेः प्रसूतिः सन्ततिः जन्म यस्य स कलिनेमिप्रसूतिः = कालनेमिराक्षसवंशप्रभवः दुर्जयोनाम दानवगणः दैत्यसमूहः अस्ति = वर्तते ।
राजा—अस्तीति श्रुतपूर्वं नारदाद् मया पूर्वमेव श्रुतमस्ति ( नारदात्तद्वृत्तान्तं श्रुतमानस्मीतिभावः ।
( प्रवेशकर )
विदूषक—मैं जिसके द्वारा यज्ञीय पशु के समान मारा जा रहा था, वह इस राजा के द्वारा स्वागतपूर्वक सत्कृत किया जा रहा है ।
मातलि—( मुस्कराहट के साथ ) चिरंजीविन् ! सुनिए, जिसके निमित्त मैं देवराज महेन्द्र के द्वारा आपके पास भेजा गया हूँ ।
राजा—सुनने के लिए सावधान हूँ, कहिए ।
मातलि—कालनेमि का वंशज दुर्जय नामक दानवों = राक्षसों का एक समूह है ।
विशेष—कालनेमि हिरण्यकश्यपु का पुत्र था, इसके सौ सिर और सौ हाथ थे, विष्णु ने इसका वध किया था । कश्यप की पत्नी दनु से उत्पन्न पुत्र दानव कहे जाते हैं। राक्षसों सा व्यवहार करने से उन्हें राक्षस भी कहा जाता है। अस्ति का प्रयोग प्रारम्भ में कथा कहने के लिए आता है और कभी-कभी भूतकाल में भी प्रयोग किया जाता है ।
राजा—हाँ मैंने नारदजी से इसे सुन रखा है ।
विशेष—देवर्षि नारद ब्रह्माजीके १० मानस पुत्रों में एक हैं, जो वीणा लेकर भगवन्नाम-
पाठा०—१. यदर्थमस्मि । २. त्वत्सकाशं ।
३५६
अभिज्ञानशाकुन्तलम्
मातलिः—सख्युस्ते स किल शतक्रतोरजय्य- स्तस्य त्वं रणशिरसि स्मृतो निहन्ता। उच्छेत्तुं प्रभवति यन्न सप्तसप्ति- स्तन्नैशं तिमिरमपाकरोति चन्द्रः॥ ३० ॥
मातलिः—वदति—सख्युरिति।
अन्वयः—स ते सख्युः शतक्रतोः अजय्यः किल त्वं तस्य रणशिरसि निहन्ता स्मृतः। सप्तसप्तिः यत् नैशं तिमिरम् उच्छेत्तुं न प्रभवति तत् चन्द्रः अपाकरोति।
दुर्जयोख्यस्य दानवगणस्य वधाय राजानं दुष्यन्तं प्रेरयन् इन्द्रसारथिर्मातलिराह सख्युस्ते इति सः = दुर्जयो नाम दानवगणः ते = तव सख्युः = मित्रस्य शतक्रतोः = शताव्श्वमेधकर्तुरिन्द्रस्य अजय्यः = प्रयत्नसहस्त्रैरपि जेतुमशक्यः किलेति = प्रसिद्धौ निश्चये वा। त्वं = भवान् दुष्यन्तः तस्य दुर्जयाख्यदानवगणस्य रणशिरसि संग्राममध्ये निहन्ता = घातकः स्मृतोऽसि इन्द्रेण, पूर्वं साहाय्यानुष्ठानादिदानीं दुर्जयाख्यदानवगणस्य निहनाय त्वमेव निश्चितोऽसीति तत्कार्यसम्पत्तये महेन्द्रस्त्वां स्मरतीति ज्ञेयम्। ननु शतक्रतोरप्यजय्यः सः कथं मम जय्यः स्यादित्याशङ्कां परिहर्तुं सहदृष्टान्तमाह—सप्तसप्तिः सप्तसंख्याकाः सप्तयः = अश्वाः यस्य स सप्तसप्तिः =सूर्यः यत् नैशं = निशासम्बन्धिनं रात्रिजातं तिमिरं = तमः अन्धकारं उच्छेत्तुं = नाशयितुं न प्रभवति = न शक्नोति तत् तिमिरं चन्द्रः = शशी इन्दुः अपाकरोति = निरस्यति, दूरी करोति।
अयं भावः—राजर्षे, यद्यपि महाप्रभावस्य ते मित्रस्य शतक्रतोरप्यजय्यः स दानवगणो वर्तते, अथापि देवैरिन्द्रेणैव तस्य भवानेव निहन्ता निश्चितोऽस्ति। अतः शतक्रतोरप्यजय्यं तं कथमहं विजेष्यमीति न शङ्कनीयम्। प्रसिद्धो हि लोके वर्तते दृष्टान्तः यथा सहस्रकरोऽपि दिवाकरो यन्नैशं तमो न दूरीकरोति तदुदीयमान एव चन्द्रः सहसा दूरीकरोति। तस्मादिदानीं निःशङ्केन भवता स्वयं शस्त्रं गृहीत्वा इन्द्ररथमारुह्य अतुलशक्तेरपि महेन्द्रस्यावध्यदुर्जयदानवविजयाय प्रस्थातव्यमिति भावः। अत्र दृष्टान्तालङ्कारः प्रहर्षिणीवृत्तञ्च।
कीर्तन करते हुए हमेशा भ्रमण किया करते हैं। ये गोदोहन मात्र से अधिक कहीं नहीं ठहरते। असुर, किन्नर, गन्धर्व, राजर्षि, महर्षि एवं भगवद्भक्तों के पास आते जाते रहते हैं।
मातलि—वे राक्षस समूह आपके मित्र इन्द्र के लिए अजेय हैं? आप संग्राम में उनको मारने वाले माने गये हैं। भगवान् भास्कर जिस रात के अन्धकार को विनष्ट करने में नहीं सामर्थ होते हैं उसको चन्द्रमा दूर करते हैं॥ ३०॥
विशेष—विपत्ति के समय मित्र की सहायता करना अत्यावश्यक धर्म बताया गया है। भारतीय मान्यता के अनुसार सौ अश्वमेध यज्ञ करने से चक्रवर्ती राजा इन्द्र होता है और हरे रंग के सात घोड़ों के रथ पर सवार होकर चलने के कारण सूर्य सप्तसप्ति कहलाते हैं। नैशं का अर्थ निशा सम्बन्धी है। मातलि ने राजा को चन्द्रमा बनाकर उनको प्रशंसा की साथ ही इन्द्र की असमर्थता छिपाने के लिए उन्हें सूर्य कह दिया और उनकी विवशता भाग्य के कारण बताई दोनों के औचित्य का निर्वाह करते हुए यह दिखाया गया है कि अधीन को अधिकारी के सम्मान का ध्यान सर्वदा रखना चाहिए। अतः आप शस्त्र धारण किए हुए ही इस इन्द्र रथ पर चढ़कर विजय के लिए प्रस्थान करें।
पाठा०—१. शतक्रतोरवध्यस्तस्य।
षष्ठोऽङ्कः ३५७
स भवानात्तशस्त्र एव इदानीं ^१तमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम्।
राजा—अनुगृहीतोऽहमनया मघवतः संभावनया। अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम्।
मातलिः—तदपि कथ्यते। किञ्चिन्निमित्तादपि मनः संतापादायुष्मान्मया विक्लवो दृष्टः। पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि। कुतः—
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते।
^२प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः॥ ३१ ॥
स भवान् = दुष्यन्तः, आत्तशस्त्र एव = गृहीतशस्त्र एव, इदानीं = सम्प्रति, इन्द्र-रथम् = देवराजयानम्, आरुह्य = आरोहणं कृत्वा, विजयाय = जयकरणाय, प्रतिष्ठताम् = प्रस्थितो भवतु।
राजा—अनया = अमुया मघवतः = इन्द्रस्य सम्भावनया = सम्मानदानेन अहं = दुष्यन्तः अनुगृहीतोऽस्मि = नितरामनुकम्पितोऽस्मि। यदि देवेन्द्रोऽत्र कर्मणि मां समर्थं मन्यते तर्हि तस्य महाननुग्रह इति भावः। अथ प्रस्तुतमुपसंहृत्य माधव्यपरिभवे प्रस्तावमारभते मातलिं प्रति = मम मित्रस्यस्य विदूषकस्य विषये एवं = ईदृशमाक्रमणादिकं भवता किमर्थं प्रयुक्तं = अनुष्ठितम् ?
मातलिः—इन्द्रसारथिरुत्तरयति-तदपि = तदाक्रमणात्मककर्मणः कारणमपि कथ्यते = भण्यते, अस्ति विशिष्टः कारण इत्याशयः। श्रूयतां—किञ्चित् = किमपि अज्ञातं वस्तु निमित्तं = कारणं यस्य स तस्मात् किञ्चिन्निमित्तादपि = कुतोऽपि हेतोः समुत्थितात् मनःसन्तापात = मानसक्लेशात् आयुष्मान् = चिरञ्जीवी भवान् मया विक्लवः = आकुलः दृष्टः = वीक्षितः पश्चात् = ततः कोपयितुं = क्रुद्धं कर्तुं आयुष्मन्तं = चिरञ्जीविनं भवन्तं तथा = तादृशं पूर्वोक्तं कृतवान् = विहितवान् अस्मि भवन्नयनार्थमागतवानहं मोहंगतं च भवन्तं दृष्ट्वा भवन्मित्रं माधव्यमाक्रान्तवानस्मीतिभावः। कुतः = यतः।
अन्वयः—अग्निः चलितेन्धनः (सन्) ज्वलति। पन्नगः विप्रकृतः (सन्) फणां कुरुते, हि जनः प्रायः क्षोभात् स्वं महिमानं प्रतिपद्यते ॥ ३१ ॥
राज्ञो दुष्यन्तस्य क्रोधोत्पत्तेः कारणं कथयन् मातरिन्द्रसारथिः कथयति—ज्वलतीति। अग्निः = वह्निः, चलितेन्धनः चलितानि = घट्टितानि इन्धनानि एधांसि यस्य स तादृशः
आप हथियार लेकर ही इस इन्द्र रथपर सवार होकर विजय के लिए चल पड़ें।
राजा—मैं देवराज इन्द्र के इस सम्मान से अनुगृहीत हूँ। अच्छा आपने मेरे मित्र माधव्य के साथ ऐसा व्यवहार क्यों किया?
मातलि—उसे भी कह रहा हूँ, सुनिए—मैंने आपको किसी कारण वश मानसिक सन्ताप से विकल देखा। अतः आपको कुपित करने के निमित्त मैंने वैसा किया, क्योंकि अग्नि इन्धन के हिला देने से प्रज्वलित हो जाता है, सर्प अपमानित होने पर अपने फन को फैलाता है। इसी प्रकार तेजस्वी पुरुष भी किसी बात से क्षोभ दिखाए जाने पर ही प्रायः अपने तेज, पौरुष या वीरता का स्मरण करते हैं।
विशेष—जब जलती लकड़ियों से ठीक-ठीक लपट न निकलने पर उसे कुछ ठोक ठाक करके ठीक कर दिया जाता है तब बीच में हवा पहुँचने से आग धधकने लगती है।
पाठ०—१. देवरथमारुह्य।
२. तेजस्वी संक्षोभात्प्रायः प्रतिपद्यते तेजः।
३५८ अभिज्ञानशाकुन्तलम्
राजा—( जनान्तिकम् ) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । $^१$तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥ ३२ ॥
विपर्यस्तकाष्ठः प्राप्तेन्धनः ज्वलति = निजस्वरूपं प्रकाशयति भृशं दीप्यते । पन्नगः = फणी विप्रकृतः = कोपितः तिरस्कृतो वा उद्वेजितो वा फणां कुरुते = फटाटोपं कुरुते फटा-मूर्ध्वं नयति ‘फटायां तु फणा द्वयोः’ इत्यमरः । हि = निश्चितम् जनः = सर्वोऽपि लोकः प्रायः = बाहुल्येन क्षोभात् = संक्षोभात् चित्तक्रौर्यात् अभिघातात् एव स्वं = निजं महि-मानं = प्रभावं प्रतिपद्यते = गृह्णाति प्राप्नोति वा । वयस्यमाधव्यस्य निग्रहात् मया क्षोभितो भवान् प्रकृतिमापन्नः । इदमस्य तात्पर्यम्—दुष्यन्तस्य क्रोधोत्पादनकरणमुपक्रमते इन्द्रसारथिः—राजन् ! केनापि हेतुना परं सन्तापमनुभवन्तं भवन्तमालोक्याहं विचारितवान् यत्क्रोधोत्पादनमन्तरा न भवान् पूर्ववत् प्रकृतिस्थमापादयितुं शक्य इति भवतः क्रोधोत्पादनार्थं भवन्मित्रं माधव्यमहमाक्रान्तवान् । तत्रैव **दृष्टान्तः—**यथा हुताशनः प्राप्तेन्धनः सन्नैव भृशं देदीप्यते, विलेशयोऽपि फणी केनापि अन्यादाहतः सन्नैव स्वां फणामूर्ध्वं कुरुते । एवमेव लोकोऽपि कथञ्चित्क्षोभमापादित एव स्वीयां प्रकृतिं प्रतिपद्यते । अत्रदृष्टान्ताप्रस्तुतप्रशंसाऽर्थान्तरन्यासा अलङ्काराः आर्या छन्दश्च ।
**राजा—**इन्द्रसारथेर्मातलेर्वचनं निशम्य राजा दुष्यन्तः जनान्तिकं माधव्यं वदति—वयस्य = माधव्य ! दिवस्पतेः = स्वर्गाधिपतेः महेन्द्रस्य आज्ञा = आदेशः अनतिक्रमणीया = अलङ्घनीया साम्प्रतमेव मया तत्सम्पादनाय तत्र गम्यते । तत् = तस्मात् कारणात् अत्र-विषये अमात्यपिशुनं = पिशुनाख्यममात्यं परिगतार्थं = विदितसंवृत्तं विधाय मद्वचनात् = मम वचनमालम्ब्य ब्रूहि = कथय सत्वरं जिगमिषुरहं स्वयं वक्तुमसमर्थोऽस्मि त्वं मदीयगमनकारणमभिधाय वक्ष्यमाणं वचो ब्रूहि—
**अन्वयः—**केवला त्वन्मतिः तावत् प्रजाः परिपालयतु, अधिज्यं इदं धनुः अन्यस्मिन् कर्मणि व्यापृतम् ।
देवराजस्यादेशेन दुर्जयं दानवगणं निहन्तुं तत्कालमेव प्रस्थास्यन् नृपतिः दुष्यन्तो विदूषकद्वारा मन्त्रिणमार्यपिशुनं संदिशति—त्वन्मतिरिति । केवला = एकाकिनी, असहाया, त्वन्मतिः = सर्वदर्शिनी त्वदीया बुद्धिरेव तावत् = अद्यावधि मत्प्रत्यागमनपर्यन्तम्, प्रजाः = प्रकृतीः सर्वजनान् परिपालयतु= सुष्ठु रक्षतु अधिज्यं = आरोपितमोर्वीकम्, इदं = मदद्धस्तवर्ति धनुः = चापम् अन्यस्मिन् कर्मणि दानवहनने दानवमारण-
राजा—( हाथ से आड़कर विदूषक के प्रति ) हे मित्र ! स्वर्ग के अधिपति देवराज इन्द्र की आज्ञा अनुलंघनीय है । अतः इस बात को पूरी तरह बतला कर मेरी ओर से मन्त्री पिशुन से कहना कि—
कुछ दिन तक तो तुम्हारी बुद्धि ही अब प्रजा की रक्षा करे, और हमारा चढ़ा हुआ यह धनुष अब दूसरे काम में = दानवों के मारने में लगने जा रहा है ॥ ३२ ॥
**विशेष—**राजा का धनुष और मन्त्री की बुद्धि दोनों मिलकर राज्य का सञ्चालन करते थे,
पाठा०—१. तद्गच्छ ।
षष्ठोऽङ्कः ३५९
विदूषकः— जं भवं आणवेदि [ यद्भवानाज्ञापयति । ] ( इति निष्क्रान्तः। )
**मातलिः—**आयुष्मान् रथमारोहतु । ( राजा रथाधिरोहणं नाटयति । )
( इति निष्क्रान्ताः सर्वे )
( इति षष्ठोऽङ्कः )
पर्यन्तं व्यापृतं = नियुक्तम् योजितम् । अहं दानववधाय गच्छामि, प्रजारक्षाभारः साम्प्रतं केवलं त्वयि एव निवेशितोऽस्माभिः । मम प्रत्यागमनपर्यन्तं त्वं स्वबुद्ध्यनुसारं प्रजाः परिपालनीया तव बुद्धेः सहायभूतमधिज्यं मे धनुः महेन्द्रस्याज्ञया दानवविजयाय संलग्न-मितिभावः अत्र काव्यलिङ्गमलङ्कारः अनुष्टुप्च्छन्दश्च ॥ ३२ ॥
**विदूषकः—**भवान् यदाज्ञापयति = तत् करिष्यामि ( इति = एवमुक्त्वा निष्क्रान्तः = रङ्गमञ्चाद् बहिर्गतः । )
**मातलिः—**आयुष्मान् = चिरञ्जीवी रथं = स्यन्दनम् आरोहतु = उपविशतु ( राजा = नृपः रथाधिरोहणं = स्यन्दनोपवेशनं नाटयति = ऊर्ध्वजानुचर्यया अभिनयति । )
तल्लक्षणं यथा संगीतरत्नाकरे—
कुञ्चितोत्क्षिप्तपादः स्याज्जानुस्तनसमं यदा ।
न्यस्तस्याधः कृतोन्योऽङ्घ्रिरूर्ध्वजानुस्तदामवेत् ॥
( इति = ततः सर्वे सकलाः = अभिनेतारः निष्क्रान्ता = रङ्गमञ्चाद् बहिर्गताः )
( इति = एवं षष्ठः = षट्संख्याकः अङ्कः = प्रकरणं समाप्तः )
इति कविवर कालिदासप्रणीतस्याभिज्ञानशाकुन्तलनामकस्य नाटकस्य
षष्ठेऽङ्के पं० श्रीकृष्णमणित्रिपाठिना संस्कृते कृता
विमलाख्या व्याख्या समाप्ता ।
अब राजा का धनुष दानवों के विध्वंस के लिए जा रहा है। अतः मन्त्री की अकेली बुद्धि राज्य को देखभाल करे। इसी बात को भारवि ने भी कहा है :—
सदानुकूलेषु हि कुर्वतेरतिं नृपेष्वमात्येषु च सर्वसम्पदः ।
यजुर्वेद में भी यही भाव व्यक्त किया गया है—‘इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम्’।
**विदूषक—**जो आप आज्ञा दे रहे हैं, वही करूँगा। ( बाहर निकल जाता है। )
**मातलि—**चिरञ्जीविन् ! आप रथ पर सवार हों।
( राजा रथ पर सवार होने का अभिनय करते हैं )
( इस प्रकार सभी बाहर चले जाते हैं )
॥ षष्ठ अङ्क समाप्त ॥
सप्तमोऽङ्कः (मारीच आश्रम व पुनर्मिलन)
सप्तमोऽङ्कः
( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )
राजा—मातले, अनुष्ठितनिदेशोऽपि मघवता सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये।
अस्मिन् सप्तमेऽङ्केऽङ्कसमाप्तिपर्यन्तं निर्वहणसन्धिः बोद्धव्यः। तल्लक्षणं यथा सुधाकरे—
मुख्यसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः।
महाप्रयोजनं यान्ति तन्निर्वहणमुच्यते॥
साहित्यदर्पणे तु—
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्।
एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत्॥
केचित्तु अत्राभिज्ञानात् परं निर्वहणसन्धिः, ततः पूर्वं तु सप्तमेऽङ्के विमर्शसन्धिरेव कथयन्ति। युद्धस्य नाटके साक्षाददर्शनीयतया कृतकार्यस्य स्वर्गात् प्रतिनिवर्तमानस्य राज्ञो दुष्यन्तस्य वाक्यैरेवासुरयुद्धसूचनमत्र बोध्यम्। अत्राङ्कस्य नाम अङ्कोपक्षेपकम्। तदुक्तं—'अङ्कान्तपात्रैरङ्कस्यमुत्तरायाङ्कसूचना'। प्रकृते हि द्वाभ्यां षष्ठाङ्कान्तपात्राभ्यां मातलिदुष्यन्ताभ्यां सप्तमाङ्के प्रवेशः कृतः। षष्ठाङ्कान्ते च 'आयुष्मन्! श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः' इत्यनेन सप्तमाङ्कार्थः सूचितः।
अथ राज्ञो दुष्यन्तस्य इन्द्रसारथिना मातलिना सह प्रवेशमाह—तत इत्यादिना।
( ततः = तत्पश्चात् प्रविशति = रङ्गमञ्चे दृश्यते आकाशयानेन = नभोमार्गेण गच्छन् रथाधिरूढः = इन्द्रस्यन्दनोपविष्टः राजा = दुष्यन्तः मातलिः = इन्द्रसारथिश्च। )
राजा—विजितदुर्जयदानववर्गः, महेन्द्रेण सबहुमानं विसृष्टः, इन्द्ररथेन भूलोकमवतरन् राजा दुष्यन्तः स्वर्गानुभूतं देवराजस्य सत्कारातिशयं विमृशन् मातलिं कथयति—मातले=हे देवेन्द्रसारथे! अनुष्ठितः = पालितः निदेशः = शासनमादेशो महासुखरूपः येन स अनुष्ठितनिदेशः = पालितेन्द्रशासनोऽपि अहम् त्रिभुवनमहनीयस्य मघवतः = इन्द्रस्य सत्क्रियाविशेषात् सत्क्रियायाः विशेषात् = सत्कारगौरवात् संमानाधिक्यात् सत्काररातिशयं सम्पादनं विलोक्येत्यर्थः आत्मानं = स्वम् अनुपयुक्तं = अकृतोपकारम् इव = यथा समर्थये = सम्भावयामि। मन्ये न मया महेन्द्रस्य किञ्चिदपिकार्यमनुष्ठितमिति असन्तुष्टमिवात्मानं तर्कयामि मत्कार्यादप्यधिको महेन्द्रकृतः मत्सत्कारः। इन्द्रं प्रति यन्मया कार्यं कृतं तदिन्द्रसत्कारस्य सहस्त्रांशेनापि तुलीतुं न क्षममिति भावः। तदित्थं-मया युद्धे दानवा निपातिताः, तुष्टेनेन्द्रेण च महती मे सत्कृतिः कृतेति राज्ञा सूचितम्।
( तदनन्तर रथ पर सवार राजा दुष्यन्त और मातलि आकाश-मार्ग से प्रवेश करते हैं )
**राजा—**मातले! इन्द्र के आदेश का परिपालन कर देने पर भी मैं उनके विशिष्ट सत्कार की तुलना में अपने को अनुपयुक्त-सा समझ रहा हूँ।
**विशेष—**राजा दुष्यन्त के कहने का तात्पर्य है कि मैंने कार्य तो राई जैसा छोटा किया, किन्तु उसके लिए इन्द्र ने मेरा सम्मान हिमालय जैसा बड़ा किया। अतः मैं अपने को उनके सम्मान के अनुकूल नहीं समझता। इस प्रकार राजा ने इन्द्र के प्रति विनय, गुणग्राहकता तथा कृतज्ञता दिखाई है।