भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

४०२ तैत्तिरीये आरण्यके

आधूप॑यतु । मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा^{(१)} । ^{(२)}अ॒र्चिषे॑ त्वा शो॒चिषे॑ त्वा । ज्योति॑षे त्वा । तप॑से त्वा^{(२)}। ^{(३)}अ॒भी-

अनेन मन्त्रेण माध्यं धूपनं विधत्ते । “अश्वशकेन धूपय- ति । प्राजापत्यो वा अश्वः सयोनित्वाय” इति । (५ प्र० । ३ अ० । १७ म०) । शकशब्देन शकृदुच्यते, ‘अश्वस्य’ प्राजापत्यादि- जन्यत्वात् ‘प्राजापत्यत्वं’ । अतः अश्वसम्बन्धिधूपेन सर्वकारण- भूतप्रजापतिसम्बन्धसिद्धेः ‘सयोनित्वं’ भवति ॥

मन्त्रोक्तमश्वं शकृच्चादित्यरूपेण छन्दोरूपेण च प्रशंसति । “वृष्णो अश्वस्य निष्पदसेत्याह । असौ वा आदित्यो वृषाश्वः । तस्य छन्दाꣳषीति निष्पत् ॥५॥ छन्दोभिरेवैनं धूपयति” इति । (५ प्र० । ३ अ० । १८ म०) ॥

कल्पः । अथैण गार्हपत्यमवटं खात्वा लोहितपचनीयैः सम्भारैः अवस्तीर्य तेषु महावीरानुपारुहरति । लोहितपच- नीयैः सम्भारैः प्रच्छाद्य गार्हपत्येऽमुञ्चानादीष्या* पोषत्यर्चिषे- त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशमपि वा सर्वैः सर्वत इति । पाठस्तु । (१)“अर्चिषे त्वा शोचिषे त्वां तपसे त्वा”(२) इति । ‘अर्चिषे’, अर्चिरादयः शब्दाः ज्वालाविशेषवाचिनः । हे महावीर त्वां अर्चिरादिभ्यः समर्पयामि ॥

एतैर्मन्त्रैर्यजमानस्य शरोरकान्तिः सम्पद्यते इति दर्श-

* मुञ्चानातांप्यो तै० पाठः ।

४ प्रपाठके ३ अनुवाकः। १०३

मं महि॒ना दि॒वं । मि॒त्रो ब॑भूव स॒प्रथाः॑ । उ॒त श्रव॑सा पृथि॒वीं ॥ १ ॥ . मि॒त्रस्य॑ चर्षणी॒धृतः॑ । श्रवो॑ दे॒वस्य॑ सान॒-

यति । “अर्चिषे त्वा शोचिषे त्वेत्याह । तेज एवास्मिन् दधाति । वारुणाभीडूः । मैत्रियोपैति शान्त्यै” इति । (५ प्र० । ३ अ० । १८ म०) ॥

कल्पः । पच्यमानान् मैत्र्योपजगत्यभीमं महिना दिवमित्युत्तरया चेति* । तयोरुभयोः ऋचोः । पाठस्तु । (१)“अभीमं महिना दिवं ० द्युम्नं चित्रश्रवस्तमं”(२) इति । ‘दिवं’ दीप्यमानमिमं महावीरमभिलक्ष्य, ‘मित्रो’ देवः, ‘सप्रथाः’ विस्तारसहितो, बभूव । स्वकीयां मैत्रीं विस्तृतवान् ‘उत’ अपि च, ‘पृथिवीं’ अभिलक्ष्य, ‘श्रवसा’ कीर्त्या, ‘सप्रथा’ बभूव । अस्यां† सर्वस्यां पृथिव्यां महावीरस्य कीर्त्तिं ‘विस्तृतवान्’ इत्यर्थः । ‘दिवं’ दिवि द्युलोके इति वा व्याख्येयं । ‘चर्षणीधृतः’ मनुष्यान्मैत्र्याधारयतो ‘मित्रस्य’ देवस्य ‘सानसिं’ दानशीलं ‘श्रवः’ श्रवणं कीर्त्तिरूपं, सर्वे वदन्तीति शेषः । ‘द्युम्नं’ मित्रेण दत्तं धनं, ‘चित्रश्रवस्तमं’ अतिशयेन विचित्रकीर्त्तियुक्तं वर्त्तते ॥‡


* उत्तरया चेति D चिह्नितपुस्तकपाठः ।
† अस्यां इति पदं H पुस्तके नास्ति ।
‡ मन्त्रयोः फलं दर्शयति च ऽरुण इति पाठः D पुस्तकेऽतिरिक्तो वर्त्तते ।

४०४ . तैत्तिरीये आरण्यके

सिं॑ । द्यु॒म्नं चि॒त्रश्र॑वस्तमं^(३) । ^(४)सि॒ध्यै त्वा॑^(४) । ^(५)दे॒वस्त्वा॑ सवि॒तोद्व॑पतु । सु॒पा॒णि स्व॒ङ्गुुरिः॑ । सु॒बा॒हुरुत श॒क्त्या॑^(५) ।

कल्पः । पक्वेषु ^(४)“सिद्ध्यै त्वा”^(४) इति धृष्टीं आदाय भस्मा- पोह्येति । हे महावीर त्वां ‘सिद्ध्यै’ समीचीनस्वरूपसिद्ध्यै महा- वीरगतभस्मापोह्तसिद्ध्यर्थं त्वां स्वीकरोमि इति शेषः ॥

मन्त्रस्य स्पष्टार्थतां दर्शयति । “सिद्ध्यै त्वेत्याह । यथा यजुरेवैतत्” इति । (५ प्र० । ३ अ० । २० म०) ॥

कल्पः । प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति देवस्त्वा सवितोद्वपत्विति । पाठस्तु । ^(५)“देवस्त्वा सवितोद्वपतु • सुबाहुरुत शक्त्या”^(५) इति । हे महावीर त्वां ‘सविता’ देवः, स्व'शक्त्या ‘उद्वपतु’ इतोऽवटादूर्ध्वं नयतु । कीदृशः सविता, ‘सुपाणि’ शोभनाभ्यामुद्यमनकुशलाभ्यां पाणिभ्यां युक्तः, ‘स्व- ङ्गुरिः’ शोभनाभिरुद्वपनक्षमाभिरङ्गुलिभिर्युक्तः, ‘उत’ अपि च ‘सुबाहुः’ शोभनाभ्यां बाहुभ्यां युक्तः । पाणिशब्देन मणि- बन्धादूर्ध्वं अङ्गुल्याधारभाग उच्यते । ‘बाहुशब्देन’ मणिबन्धा- दर्वाचीनभागः ॥

सवितृशब्दस्य तात्पर्यं दर्शयति । “देवस्त्वा सवितोद्वपत्वि- त्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिः उद्वपति” इति । ५ प्र० । ३ अ० । २१ म०) । सवित्राप्रेरितः सन् मन्त्रेण ‘देवता- भिस्’ सहोद्वपनं कृतवान् भवति ॥

४ प्रपाठके ३ अनुवाकः । ४०५

(६)अप॑च्यमानः पृथि॒व्यां॑ । आशा॒ दिश॒ आपृ॑ण । उत्ति॑ष्ठ बृह॒न्भव॑ ॥ २ ॥ ऊ॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वं(६) । (७)सूर्य॑स्य त्वा॒ चक्षु॑षा-


कल्पः । उद्दास्यापच्यमानः पृथिव्यामाशादिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्येति । पाठस्तु । (६)“अपच्यमानः पृथिव्यां ॰ ऊर्ध्वस्तिष्ठ ध्रुवस्त्वं”(६) इति । हे महावीर त्वं ‘पृथिव्यां’ भूमौ ‘अपच्यमानः’ असि भङ्गमप्राप्नुवन्, ‘आशा दिशः’ प्राच्याद्या मुख्यदिशः, आग्नेय्याद्या मुख्यदिशः, ‘आपृण’ सर्वतः पूरय, सर्वत्र प्रसिद्धो भव । ‘उत्तिष्ठ’ उत्सहस्व, ‘बृहन् भव’ स्वव्यापारेण प्रख्यातो भव, इह सिकतासूर्द्ध्वमुखः स्थिरः ‘त्वं’ तिष्ठ ॥

दिश आपृणेत्यस्य तात्पर्य्यं दर्शयति । “अपच्यमानः पृथिव्यामाशा दिश आपृणेत्याह॥६॥ तस्मादग्निः सर्वा दिशोऽनुविभाति” (५ प्र०।३ अ०।२२ म०) इति । यस्मात् महावीरस्य सर्वदिक्षूर्त्तिः* प्रार्थ्यते ‘तस्मात्’ महावीरेणाभिन्नः ‘अग्निः’ स्वतेजसा ‘सर्वा दिशः’ प्रकाशयति ॥

ऊर्ध्वस्तिष्ठेत्यस्य तात्पर्य्यं दर्शयति । “उत्तिष्ठ बृहन् भवोर्द्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्त्यै” इति (५ प्र०।३ अ०।२३ म०) ॥

कल्पः । सूर्यस्य त्वा चक्षुषान्वीक्ष इत्यन्वीक्षत इति । पा-


* सर्व्वदिक्पूर्त्तिः तै० पाठः ।

४०६तैत्तिरीये आरण्यके

न्वी॑क्षे । ऋ॒जवे॑ त्वा । सा॒धवे॑ त्वा । सु॒क्षित्यै॑ त्वा॒ भूत्यै॑ त्वा^(७)।
^(८)इ॒दम॒हम॒मुमा॑मुष्याय॒णं वि॒शा प॒शुभि॒र्ब्रह्म॑वर्च॒सेन॒

टसु। ^{(७)}“सूर्यस्य त्वा चक्षुषान्वीक्षे ॰ भूत्यै त्वा”^{(७)} इति । हे महावीर त्वां ‘सूर्यस्य’ चक्षुषाहमनुक्रमेण ‘ईक्षे’ । ‘ऋजवे’ आर्जवयुक्तायै भूम्यै त्वामीक्षे । ‘साधवे’ समीचीनायान्तरिक्षाय त्वामीक्षे । ‘सुक्षित्यै’ शोभननिवासाय द्युलोकाय त्वामीक्षे । ‘भूत्यै’ ऐश्वर्ययुक्ताभ्यो दिग्भ्यस्त्वामीक्षे । त्वदीक्षणेन सर्वे लोकाः स्वस्वकार्यक्षमा भवन्तीत्यर्थः ॥

सूर्यस्य चक्षुषेत्यस्य तात्पर्यं दर्शयति। “ईश्वरो वा एषोऽन्धो भवितोः । यः प्रवर्ग्यमन्वीक्षते । सूर्यस्य त्वा चक्षुषान्वीक्ष इत्याह । चक्षुषा गोपीथाय” इति । (५ प्र० । ३ अ० । २४ म०) स्व‘चक्षुषा’ ‘प्रवर्ग्यं’ पश्यन् अन्धो भवितुं समर्थो भवति, अतः स्वचक्षुषो ‘गोपीथाय’ सूर्यस्य, चक्षुषेत्युक्तम् ॥

ऋज्वादिशब्दैः पृथिव्यादयो वच्यन्ते इत्येतद्दर्शयति । “ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै लेत्याह । इयं वा ऋजुः । अन्तरिक्षग्ँ साधु । असौ सुक्षितिः ॥ ७ ॥ दिशो भूतिः । इमानेवास्मै लोकान् कल्पयति । अथो प्रतिष्ठित्या” इति । (५ प्र० । ३ अ० । २५ म०) ॥

कल्पः । अथैनान् प्रदक्षिणं सिकताभिः पर्यूहित । ^{(८)}“इदमहममुमामुष्यायणं ॰ पर्यूहामि”^{(८)} इति । राजन्यस्य ‘पशुभिरिति’ वैश्यस्येति, ‘अहं’ अध्वर्युः, ‘अमुष्यायणं’

४ प्रपाठके ३ अनुवाकः । १०७

पर्य्यूहामि^(८) । ^(९)गायत्रेण॑ त्वा॒ छन्द॑साङ्कृण॒द्मि । त्रैष्टु॑- भेन त्वा॒ छन्द॑साङ्कृण॒द्मि । जाग॑तेन त्वा॒ छन्द॑-

अमुष्य देवदत्तस्य पुत्रं, 'अमुं' यज्ञदत्तनामानं महावीर- रूपेणावस्थितं, 'विशा' प्रजया, 'पशुभिश्च्ब्रह्मवर्चसेन' च एतत् चितयरूपाभिः सिकताभिः 'इदं' प्रत्यक्षं यथा भवति तथा, 'पर्य्यूहामि' परितः स्थिरं करोमि ॥

मन्त्रपाठेन तदर्थस्तथैव फलतीत्येतद्दर्शयति । "इदमह- ममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्य्यूहामीत्याह। विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्य्यूहति" इति । (५ प्र० । ३ अ० । २६ म०) ॥

क्षत्रियवैश्ययोर्मन्त्रप्रयोगे विशेषं दर्शयति । "विशेति राजन्यस्य ब्रूयात् । विशैवैनं पर्य्यूहति । पशुभिरिति वैश्यस्य । पशुभिरेवैनं पर्य्यूहति" इति । (५ प्र० । ३ अ० । २७ म०) । 'प- शुभिश्च्ब्रह्मवर्चसेन' इत्येतावत् क्षत्रियं प्रति परित्यजेत् । वैश्यं प्रति तु 'विशा' 'ब्रह्मवर्चसेन' इत्येतावत् परित्यजेदित्यर्थः ॥

कल्पः । अथैनान् प्रभूतेनाजापयसाङ्कृणत्ति गायत्रेण त्वा छन्दसाङ्कृणद्मि । इत्येतैस्तिसृभिस्तिरश्चैकैकं अपि वा सर्व्वैरै- कैक॑मिति । पाठस्तु । ^(९)'गायत्रेण त्वा ० कृन्धि हविः'^(९) इति । हे महावीर त्वां गायत्रीच्छन्दोदेवतारूपेणाजक्षी- रेण 'आङ्कृणद्मि' सर्व्वतः सिञ्चामि । एवं त्रैष्टुभजागतमन्त्र-

३ E

१०८ तैत्तिरीये आरण्यके

साङ्छृ॑णद्भि । छृ॒णत्तु॑ त्वा॒ वाक् ॥ छृ॒णत्तु॒ त्वार्क॑ । छृ॒णत्तु॑ त्वा ह॒विः । छृ॒न्धि वाच॑म् । छृ॒न्ध्यूर्ज॑म् । छृ॒न्धि

योरपि योज्यं । तथा वागन्नहविरभिमानिन्यो देवतास्त्वां सिञ्चन्तु, त्वमपि वागादीन् सिञ्च ॥

एतन्मन्त्रसाध्यं सेचनं विधत्ते । “असुर्यं पात्रमनाच्छृणं ॥८॥ आकृणत्ति । देवत्राकः” इति । (५ प्र०। ३ अ०। २८ म०) । ‘अनाच्छृत्तं’ क्षीरसेचनरहितं पात्रं, ‘असुर्यं’ उष्णत्वेनात्युग्रत्वात् असुरेभ्यो हितं न तु देवेभ्यः, अतो देवार्थमासिञ्चेत् तेन शान्तं शीतलं पात्रं देवेषु करोति ॥

तत्र द्रव्यं विधत्ते । “अजक्षीरेणाकृणत्ति । परमं वा एतत्पयः । यदजक्षीरं । परमेणैवेनं पयसाकृणत्ति” इति । (५ प्र०। ३ अ०। २८ म०) । सर्व्वव्याधिहरत्वादजक्षीरस्य परमत्वं ॥

तत्र सेचने देवस्वासवितेत्यादिकं यजुर्विनियुङ्क्ते । “यजुषा व्यावृत्यै” इति । (५ प्र०। ३ अ०। ३० म०) । उष्णशान्त्यर्थे लौकिके सेचने मन्त्रो नास्ति । अत्र तु ‘यजुषा’ मन्त्रेण सिञ्चेदिति तद्यावृत्तिः ॥

मन्त्रगतान् छन्दोवागूर्क्शब्दान् प्रशंसति । “छन्दोभिराकृणत्ति । छन्दोभिर्वा एष क्रियते । छन्दोभिरेव छन्दाँस्याच्छृणत्ति” इति । (५ प्र०। ३ अ०। ३१ म०) । पूर्व्वं गायत्रेण छन्दसा करोमीत्येवं छन्दोयुक्तैर्मन्त्रैरेष महावीरः कृतः,

४ प्रपाठके ३ अनुवाकः । ४०६

ह॒विः(९) । (१०)दे॒वं पु॑रश्च॒रस॒घ्यासं॑ त्वा(१०) ॥ ३ ॥ पृथि॒वीं, भव॑, वाक्, षट् च॑ ॥ अनु० ३ ॥

अतोऽयमेव च्छन्दांसि अत्रापि छन्दोवागूक्शब्दयुक्तैर्मन्त्रैः सेचने सत्यत्रत्यैश्छन्दोभिरिव पूर्व्वोक्तानि च्छन्दांसि सिक्तानि भवन्ति ॥

वागादिदेवता महावीरं सिञ्चन्तीत्येतद्युक्तं महावीरस्तु वागादीन् सिञ्चतीत्यत्र प्रयोजनं दर्शयति । “कृन्धि वाचमि- त्याह । वाचमेवावरुन्धे । कृन्ध्यूर्जमित्याह । ऊर्जमेवावरुन्धे । कृन्धि हविरित्याह । हविरेवाकः” इति । (५ प्र० । ३ अ० । ३२ म०) । ते एतैर्मन्त्रैर्वागन्नप्राप्तिर्हविर्विद्धिसिद्धिश्च भवति ॥

कल्पः । अथेनान् कृष्णाजिन उपनह्यामजति । (१०)“देव- पुरश्चरसघ्यासन्त्वा”(१०) इति । ‘पुरश्चरं’ पुरतोवर्त्तमान, हे महावीर ‘देव’ द्योतनात्मक, त्वां ‘सघ्यासं’ कृष्णाजिने बध्वा क्वचिदूर्ध्वदेशे सक्तं कुर्य्यां ॥

मन्त्रस्य स्पष्टार्थतां दर्शयति । “देवपुरश्चरमघ्यासं त्वेत्याह । यथा यजुरेवैतत्” इति ॥ ६ ॥ (५ प्र० । ३ अ० । ३३ म०) ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥

3 E 2

४१० तैत्तिरीये आरण्यके

अथ चतुर्थोऽनुवाकः।

(१)ब्रह्म॑न् प्रव॒र्ग्येण॑ प्रच॒रिष्या॑मः। होत॑र्घ॒र्मम॑भिष्टु॑हि। अग्नी॒ द्रौहि॑णौ पुरो॒डाशा॑वधिश्रय। प्रति॑प्रस्थात॒र्विह॑र। प्रस्तो॑तः सामा॑नि गाय(१)। (२)यजु॑र्युक्तँ॒ साम॑-


अथ चतुर्थोऽनुवाकः।

तृतीये महावीरसंस्कारा उक्ताः। चतुर्थे प्रैषा उच्यन्ते। कल्पः। प्रोक्षणीनामावृत्त्या प्रोक्षणीः सं॒स्कृत्य ब्रह्माणमामन्त्रयते। ब्रह्मन् प्रवर्ग्येणेति। पाठस्तु। (१)“ब्रह्मन् प्रवर्ग्येण ० सामानि गाय”(१) इति। हे ‘ब्रह्मन्’ वयं सर्वे, प्रवर्ग्याख्येन कर्मणा प्रचरं अनुष्ठानं सम्पादयिष्यामः। हे ‘होतः’ त्वं ‘घर्मं’ प्रवर्ग्यं ब्रह्मजज्ञानमित्यादिभिर्मन्त्रैरभिष्टुतं कुरु। हे आग्नीध्र रौहिणाख्यौ, ‘पुरोडाशावधिश्रय’ श्रपणार्थं कपालयोपरि स्थापय। हे ‘प्रतिप्रस्थातः’ विहरणं कुरु। तच्च विहरणं बोधायनेन च दर्शितं। अथ प्रतिप्रस्थाता प्रवर्ग्यं विहरत्याहवनीये *कार्ष्मर्यमयान् परिधीन् प्रहरतीत्यादि। हे ‘प्रस्तोतः’ प्रवर्ग्यार्थानि, सामानि गाय ॥

कल्पः। यजुर्युक्तँ सामभिराक्रखमित्युपाँशूक्त्वोमिन्द्रवन्तः

*कार्श्यम्यङ् इति तै० पुस्तकपाठः।

४ प्रपाठके ४ अनुवाकः। ४११

भि॒राक्ते॑खं त्वा। विश्वै॑र्दे॒वैरनु॑मतं म॒रुद्भिः॑। दक्षि॑णाभिः प्र॒ततं॑ पारयि॒ष्णुं। स्तुभो॑ वहन्तु सु॒मन॒स्यमा॑नं। स नो॒ रुचं॑ धेह्यहृ॑णीयमानः॥ भूर्भुवः॒ सुवः॑। ओ-मिन्द्र॑वन्तः प्रचरत^{(२)}॥ १ ॥


प्रचरतेत्युच्चैरनुजानाति इति। पाठस्तु। $^{(१)}$"यजुर्युक्तम् मामभि- राक्तेखं त्वा ॰ इन्द्रवन्तः प्रचरत"$^{(१)}$ इति। हे प्रवर्ग्र त्वां 'स्तुभः' सामसु प्रयुज्यमानाः स्तोभाः, 'वहन्तु' विघ्नपरिहारेण समाप्ति- पर्य्यन्तं निर्वहन्तु। कीदृशं त्वां, 'यजुर्युक्तं' यजुरुपलक्षितैर्मन्त्रैः सम्बद्धं, 'सामभिराक्तेखं' आक्तान्याप्यायितानि खानीन्द्रियाणि अवयवा यस्य प्रवर्ग्रस्य सोऽयमाक्तेखः तादृशं, सामगानेन हि प्रवर्ग्र आप्यायितो भवति, तथा 'विश्वैर्देवैर्मरुद्भिः' 'अनुमतं' अङ्गीकृतं प्रवर्ग्रमुद्वासयिष्यन् अजामग्नीधे ददातीत्यादिभिः 'दक्षिणाभिः', 'प्रततं' विस्तीर्णं, 'पारयिष्णुं' निर्विघ्नेन समाप्तिं गन्तुं शक्तं, 'सुमनस्यमानं' यजमाने स्नेहातिशयेन सौमनस्य युक्तं। हे प्रवर्ग्र 'स' त्वं, 'अहृणीयमानः' केनाप्यहिंस्यमानः, 'नः' अस्मदर्थं, 'रुचं धेहि' महतीं ज्वालां धारय। भूरादय- स्त्रयोलोका अनुगृह्णन्तु। प्रणवशब्दवाच्यः परमात्माप्यनुगृ- ह्णातु। हे ऋत्विजो यूयं 'इन्द्रवन्तः' इन्द्रदेवतास्वामिकाः सन्तः, 'प्रचरत' प्रवर्ग्रमनुतिष्ठत। अयमनुवाकः स्पष्टार्थबुद्ध्या ब्राह्मणेनोपेक्षितः ॥

४१२ तैत्तिरीये आरण्यके

अह॑णीयमानो द्वे च॑ ॥ अनु० ४ ॥


अथ पञ्चमोऽनुवाकः ।
$^{(१)}$ब्रह्म॑न् प्रचरिष्यामः॑। होत॑र्घ॒र्मम॒भिष्टु॑हि$^{(१)}$।$^{(२)}$य॒माय॑


इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥


अथ पञ्चमोऽनुवाकः ।

चतुर्थे प्रैषा उक्ताः । पञ्चमे तु खरगतेष्वङ्गारेषु महावीरस्थापनमुच्यते । तत्रादौ पूर्वोक्तप्रैषमन्त्रे पाठान्तरं दर्शयति । (१)“ब्रह्मन् प्रचरिष्यामः । होतर्घर्ममभिष्टुहि”(१) इति । पूर्वमाम्नाते मन्त्रे प्रवर्ग्येणेति शब्दोऽस्ति । अस्मिंस्त्वसौ नास्तीत्येतावान् पाठविशेषः ॥

ब्रह्मन्निति सम्बोधनस्य तात्पय्र्यं दर्शयति । “ब्रह्मन् प्रचरिष्यामो होतर्घर्ममभिष्टुहीत्याह । एष वा एतर्हि बृहस्पतिः। यद् ब्रह्मा । तस्मा एव प्रतिप्रोच्य प्रचरति । आत्मनो नार्त्यै” इति । (५ प्र०।४ अ०।१ म०) । 'एतर्हि' कर्मकाले, यो ब्रह्मास्ति, एष एव बृहस्पतिस्थानीयः, 'तस्मै' बृहस्पतये 'कथयित्वा' प्रचारे सति, स्वस्यार्त्तिवैकल्यनिमित्तोऽपराधो न भवति ॥

४ प्रपाठके ५ अनुवाकः। ४१३

त्वा म॒खाय॑ त्वा। सूर्य्य॑स्य हर॑से त्वा^(२)। ^(३)प्रा॒णाय॒ स्वाहा॑

कल्पः। यमाय त्वा मखाय त्वेति सर्व्वं परिघर्म्ममभिपूवैँ स्त्रिः प्रोक्षतीति। पाठस्तु। ^(२)“यमाय त्वा * हरसे त्वा”^(२) इति। हे घर्म्म पात्रसमूह, ‘यमाय’ नियमार्थं त्वां प्रोक्षा- मीति शेषः। तथा• ‘मखाय’ यज्ञार्थं त्वां प्रोक्षामि। ‘सूर्य्यस्य हरसे’ सूर्य्यसम्बन्धितेजोऽर्थं सूर्य्यमण्डलपर्य्यन्तं ज्वालाङ्गमार्थं त्वां प्रोक्षामि॥

यममखसूर्य्यशब्दैः सूचिताभिः प्रवर्ग्यदेवताभिः सर्व्वाभिः सम्पादितां प्रवर्ग्यसमृद्धिं दर्शयति। “यमाय त्वा मखाय त्वे- त्याह। एता वा एतस्य देवताः। ताभिरेवैनँ समर्द्धयति” इति। (५प्र०।४अ०।२म०)॥

प्रोक्षणद्रव्यं विधत्ते। “मदन्तीभिः प्रोक्षति। तेज एवा- स्मिन् दधाति” इति। १॥ (५प्र०।४अ०।३म०)। तप्ता आपो ‘मदन्त्यः ताभिः प्रोक्षणे यजमाने कान्तिः सम्पद्यते॥

तत्रानुक्रमं विधत्ते। “अभिपूव्वाँ प्रोक्षति। अभिपूव्वँमेवा- स्मिन् तेजो दधाति” इति। (५प्र०।४अ०:४म०)। ‘पूर्व्वं’ प्रथमं महावीरमभिलक्ष्य, ‘अभिपूव्वँ’ तदादिकमेव प्रोक्षेत् न तु विपर्य्ययेण। एवं सति यजमाने पितृपुत्रादिक्रमेणैव तेजः सम्पद्यते॥

आवृत्तिं विधत्ते। “त्रिः प्रोक्षति। त्र्यावृद्ध्वि यज्ञः। अथोमेध्याय” इति। (५प्र०।४अ०।५म०)। अग्निचयसाध्य-

४१४ तैत्तिरीये आरण्यके

त्वं सवनत्रयरूपत्वेन वा यज्ञस्यावृत्तिचयोपेतत्वं, अपि च प्रोक्षणावृत्त्या मेध्यत्वातिशये मति* यज्ञयोग्यता सम्पद्यते ॥

होतर्घर्ममभिद्युहोति प्रैषस्योक्तत्वाद्धोतृकृत्यमनुवचनं विध- त्ते । "होतान्वाह । रक्षसामपहत्यै" इति । (५ प्र० । ४ अ० । ६ म०) । होतुरनुवचनं यज्ञविघातिनां रक्षसां वधाय भवति ॥

अयञ्चानुवाकप्रकार† आश्वलायनेन स्पष्टमभिहितः । स्पृ- ष्टोदकं प्रवर्ग्येण चरिष्यन् स्तृत्तरेण खरं परिव्रज्य पश्चादस्थाप- विश्य प्रेषितोऽभिद्युयाद्दुगावानं ऋचमृचमन्ववानमुक्ता प्रणू- त्यावसेत् ब्रह्मजज्ञानमित्यादिः तत्रैकस्या ऋचोमध्ये श्वासरा- हित्यं विधत्ते । "अनवानं । प्राणाना सन्त्यै" इति । (५ प्र० । ४ अ० । ७ म०) । अनवानः श्वासः तद्रहितं यथा भवति तथा पठेत् । तच्च यजमानप्राणानामविच्छेदाय भवति ॥

तास्वेतुगायत्रीधर्ममतिदिशति । "त्रिष्टुभः सतीर्गायत्री- रिवान्वाह ॥ २॥ गायत्री हि प्राणः । प्राणमेव यजमाने दधा- ति" इति । (५ प्र० । ४ अ० । ८ म०) । यद्यपि ब्रह्मजज्ञानमि- त्यादय स्त्रिष्टुभः तथापि गायत्रीवदनुवचनं कुर्यात् । गायत्री- रूपं ध्यात्वा पठेहित्यर्थः । प्राणस्य गायत्रत्वात् । गायत्री- समानानुवचनेन यजमाने प्राणं स्थैर्येण स्थापयति, गायत्र्या रक्ष्यमाणत्वात् प्राणस्य गायत्रत्वं । तद्रक्ष्यत्वञ्च प्राणस्य वाजस- नेयिनः समामनन्ति । प्राणा वै गयास्तत् प्राणांस्तत्रे तद्यद्ग- यांस्तत्रे तस्मात् गायत्री नामेति ॥


* सिध्यतीत्याशय सात D चिह्नितपुस्तकपाठः ।
† अनुवचनप्रकार इति तै० पुस्तकपाठः ।

४ प्रपाठके ५ अनुवाकः । ४१५

व्या॒नाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ । मन॑से॒ स्वाहा॒ वाचे॒ सर॑स्वत्यै

अनुवचनकाले व्यापारान्तरेण व्यवधानं निवारयति । “स- न्ततमन्वाह । प्राणानामन्नाद्यस्यासन्तत्यै । अथो रक्षसामप- हत्यै” इति । (५ प्र० । ४ अ० । ६ म०) । एकासृचमुक्ता प्राणा- वसानं कृत्वापि पुनरप्यन्यामृचमेव ब्रूयात्, न त्वन्यं वाग्- व्यापारं कुर्यात् । तदिदं सान्तत्यं एतेन प्राणा अविच्छिन्ना भवन्ति, अन्नञ्च न विच्छिद्यते । रक्षाँसि चापहन्वन्ते ॥

ऋचां बहुत्वं विधत्ते । “यत् परिमिता अनुब्रूयात् । परि- मितमवरुन्धोत । अपरिमित्ता अन्वाह । अपरिमितस्यावरुद्ध्यै” इति । (५ प्र० । ४ अ० । १० म०) । ऋचामल्पत्वे फलमप्यल्पं स्यात् । अतः फलबाहुल्याय बह्वीरनुब्रूयात् ॥

यदुक्तं सूत्रकारेण 'अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याविच्छिन्नाग्रेण वेदेनोपरिष्टात्* सम्मार्ष्टीति । तत्र वेदस्य दर्भमयत्वं वारयितुं मौञ्जत्वं विधत्ते । “शिरो वा एतद्यज्ञस्य ॥ ३ ॥ यत् प्रवर्ग्यः । ऊर्गुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्द्धयति” इति । (५ प्र० । ४ अ० । ११ म०) । प्रवर्ग्यस्य यज्ञशिरस्त्वं† प्रथमानुवाके प्रपञ्चितं । ‘मुञ्जाः’ तृणविशेषाः, तेषां पशुभिर्भक्ष्यत्वादूर्ग्रूपत्वं, अतो


* वेदेनाहवनीयस्योपरिष्टात् इति तै० पुस्तकपाठः ।
† यज्ञस्य शिरस्त्वं इति D चिह्नितपुस्तकपाठः ।
3 F

४१६ तैत्तिरीये आरण्यके

स्वाहा॑ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा॑(^{(३)}) । (^{(४)})दे॒वस्त्वा॑ सवि॒तामध्वा॑नक्तु(^{(४)}) ॥ १ ॥

वेदस्य मौञ्जले सति ऊर्त्तूपेण वेदेन, ‘यज्ञस्य’ ‘शिरः’, सम्मृद्धं करोति ॥

कल्पः । प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्जुहोति । पाठस्तु । (^{(३)})“प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा ॰ बलाय स्वाहा”(^{(३)}) इति । प्राणादिदेवेभ्यः स्वाहुतमिदमस्तु । ‘वाचे’ इत्यनेन सरस्वती विशिष्यते, शब्दात्मिकाया वाग्देवताया इत्यर्थः। ‘दक्षः’ उत्साहः, ‘क्रतुः’ सङ्कल्पः, ‘ओजः’ अष्टमोधातुः, तत्कार्यं ‘बलं’ ॥

एतैर्मन्त्रैः साध्यान् होमान् विधत्ते । “प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति” इति । (५ प्र०।४ अ०।१२ म०) ।

तत्र सप्तसङ्ख्यापक्षं विधत्ते । “सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन् दधाति” इति । (५ प्र०।४ अ०।१३ म०) । शिरोगतसप्तच्छिद्रवर्त्तिप्राणानां सप्तत्वात् सङ्ख्यया तत्प्राप्तिः ॥

कल्पः । देवस्त्वा सवितामध्वानक्तिरिति स्रुवेणोपर्याहवनीये महावीरमङ्क्तेति । (४ मन्त्रः) । हे महावीर ‘त्वां’ ‘सविता’ ‘देवः’, ‘मध्वा’ मधुरेण घृतेन, ‘अनक्तु’ अक्तं करोतु ॥

४ प्रपाठके ५ अनुवाकः। ४१७

⁽४⁾पृथिवी॑न् तप॑सस्त्रायस्व⁽५⁾। ⁽६⁾अ॒र्चिर॑सि शो॒चिर॑सि

मध्वेति प्रयोगाद्यजमानस्य तेजो व्याप्तिं दर्शयति। “देवस्वा सविता मध्वानक्तित्याह ॥ ४ ॥ तेजसैवेनमक्ति” इति। (५ प्र० । ४ अ० । १४ म०) ॥

कल्पः । पृथिवीं तपसस्त्रायस्वेति अपरस्मिन् खरे राजतं रुक्मं निधायेति । (५ मन्त्रः) । हे रुक्म ‘पृथिवीं’, एतां ‘तपसः’ ‘त्रायस्व’ अग्निसन्तापाद्रक्ष ॥

मन्त्रस्य तात्पर्य्यं दर्शयति । “पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति । अस्या अनतिदाहाय” इति । (५ प्र० । ४ अ० । १५ म०) । ‘अस्याः’ पृथिव्या इत्यर्थः ॥

रुक्मस्योपरि प्रदीप्तानां मुञ्जानां प्रक्षेपं विधत्ते । “शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रतिदधाति” इति । (५ प्र० । ४ अ० । १६ म०) । अग्नेः सर्व्वदेवतात्वं ते देवा अग्नौ तनूः सन्न्यदधतेति श्रुतेरवगन्तव्यं । ‘प्रलवाः’ प्रकर्षेण लूनाः मुञ्जामुष्टयः, तानग्नौ सर्व्वतः प्रदीष्य रुक्मस्योपरि निदध्यात् । एवं सत्यग्निरूपासु ‘देवतास्वेव’ प्रवर्ग्यरूपं यज्ञशिरः स्थापनं भवति । प्रदीपनप्रकारस्तु सूत्रकृता स्पष्टमुक्तः । द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्रणि गार्हपत्ये प्रदीप्याभ्यर्चिषे* लेति,


* प्रदीपयत्यर्चिषे इति तै० पाठः ।

3 F 2

४१८ तैत्तिरीये आरण्यके

ज्योति॑रसि तपो॒ऽसि॑^(६) । ^{(७)}स॒ꣳ सी॑दस्व म॒हाꣳ अ॑सि ।

तेषामग्रैरुत्तरेषां मूलानि शोचिषे लेति, तेषां मूलैर्दक्षिणेषाम् मूलानि ज्योतिषे लेति, तेषां मूलैरुत्तरेषामग्राणि तपसे लेति ॥

प्रदीप्तमुञ्जस्थापने कञ्चिद्विशेषं विधत्ते । “अप्रतिशीर्णाग्रं भवति । एतद् बर्हिर्ह्येषः” इति ॥ ५ ॥ (५ प्र० । ४ अ० । १७ म०) । दीप्तमुञ्जानां ‘अग्रं’, ‘प्रतिशीर्णं’ इतस्ततो विप्रसृतं यथा न ‘भवति’ तथा समूहत्यैव स्थापयेत् । यस्मादयं प्रवर्ग्यः, ‘एतत्’ ‘बर्हिः’ मुञ्जरूपबर्हिर्युक्तः, तस्मादेचास्तरणबर्हिष इवाप्रतिशीर्णाग्रं* युक्तं ॥

कल्पः । तान् व्यत्यस्तानुपरि रुक्मे निदधाति । ^{(६)}“अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि”^{(६)} इति । हे दक्षिणमुञ्जाग्रभाग त्वं ‘अर्चिः’ ज्वालारूपः ‘असि’, हे उत्तरमुञ्जमूलभाग त्वं ‘शोचिः’ शुचिरूपः ‘असि’, हे दक्षिणमुञ्जमूलभाग त्वं ‘ज्योतिः’ प्रकाशरूपः ‘असि’, हे उत्तरमुञ्जाग्रभाग त्वं ‘तपः’ सन्तापरूपः ‘असि’ ॥

मन्त्रतात्पर्यं दर्शयति । “अर्चिरसि शोचिरसीत्याह । तेज एवास्मिन् ब्रह्मवर्चसं दधाति” इति । (५ प्र० । ४ अ० । १८ म०) । शरीरकान्तिः श्रुताध्ययनसम्पत्तिश्चेत्युभयविधप्रकाशस्तेन मन्त्रेण यजमानं सम्पद्यते ॥


* शीर्णाग्रत्वं इति तै० पु० पाठः।

४ प्रपाठके ५ अनुवाकः । ४१६

शोच॑स्व देव॒वीत॑मः । वि॒धूमम॑ग्ने अ॒रुषं॑ मि॑येध्य । सृ॒ज प्र॑शस्त दर्श॒तं⁽७⁾ । ⁽८⁾अ॒ञ्जन्ति॑ यं प्रथय॑न्तो॒ न विप्राः॑ । व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः । पि॒तुर्न पु॒त्र उप॑सि॒ प्रेष्ठः॑ । आघ॒र्मो अ॒ग्निमृ॑त॒यन्न॑सादीत्⁽८⁾ ॥ २ ॥

कल्पः । सꣳसीदस्व महाꣵ असीति तेषु महावीरं प्रतिष्ठा- प्येति । पाठस्तु । ⁽७⁾“सꣳसीदस्व महाꣵ असि ० प्रशस्तदर्श॑तम्”⁽७⁾ इति । हे महावीर ‘सꣳसीदस्व’ अत एतेषु प्रदीप्तमुञ्चेषु सम्यगुपविश, ‘महाꣵअसि’ त्वं गुणैरधिकोऽसि, अतः ‘देव- वीतमः’ अति शयेन देवैः काम्यो भूत्वा, ‘शोचस्व’ दीप्यस्व । हे ‘मियेध्य’ मेधार्ह, ‘प्रशस्त’ उत्कृष्ट ‘अग्ने’, ‘अरुषं’ अरोषण- मनुग्रं, ‘दर्शतं’ द्रष्टुं शक्यं, शान्तं ‘धूमं’ विशेषेण, ‘सृज’ ॥ प्रौढस्य कर्मणो हेतुत्वान्महच्छब्दार्थः प्रसिद्ध इत्येतद्दर्शयति । “सꣳसीदस्व महाꣵ असीत्याह । महान् ह्येषः” इति । (५ प्र० । ४ अ० । १६ म० ) ॥

कल्पः । अञ्जन्ति यं प्रथयन्त इति स्रुवेण महावीरमनक्त्य- भिपूरयति चेति । पाठस्तु । ⁽८⁾“अञ्जन्ति यं प्रथयन्तो न विप्राः ० आघर्मो अग्निमृतयन्नसादीत्”(८) इति । ‘विप्राः’ ब्राह्मणा ऋत्विजः, ‘वपावन्तं’ मध्ये रन्ध्रयुक्तं, ‘यं’ महावीरं, ‘प्रथयन्तः’ ‘न’, प्रख्यापयन्त इव, ‘अञ्जन्ति’ घृतेनाक्तं कुर्वन्ति । कीदृशाः ‘विप्राः’ ‘अग्निना तपन्तः’ प्रज्वालयात्मानं दाहमकुर्व्वन्तः,

४२० तैत्तिरीये आरण्यके

(९)अ॒ना॒धृ॒ष्या पु॒रस्ता॑त् । अ॒ग्नेराधि॑पत्ये । आयु॑र्मे दाः। पु॒त्रव॑ती दक्षि॑णतः । इन्द्र॑स्याधि॑पत्ये । प्र॒जां मे॑ दाः। सु॒षदा॑ प॒श्चात् । दे॒वस्य॑ सवि॒तुराधि॑पत्ये । प्रा॒णं मे॑ दाः। आ॒श्रुति॑रुत्त॒रतः॑ ॥ ३ ॥
मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्रं॑ मे दाः । वि॒धृति॑- रु॒परि॑ष्टात् । बृह॒स्पते॒राधि॑पत्ये । ब्रह्म॑ मे दाः क्ष॒त्रं मे॑


अञ्जनाभावे ह्यतितापेन महावीरस्य भङ्गोऽपि प्रसज्येत । स- धर्मो, विप्रैरक्तो महावीरः 'ऋतधन्' ऋतं यज्ञं निष्पादयन्, 'अग्निं' एतं 'असादीत्' आसन्नवान् प्राप्तवान् । तत्र दृष्टान्तः, 'पितुः', 'उपस्थि' उपान्तिके, 'प्रेष्ठः' 'पुत्रः' 'न', प्रियतमः पुत्र इति ॥

कल्पः । अध्यधि महावीरमसंस्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्ग- मिति । पाठस्तु । $^{(९)}$“अनाधृष्या पुरस्तात् ० मनो मे धाः”$^{(९)}$ इति । 'पुरस्तात्' पूर्व्वस्यां दिशि, वर्त्तमाने हे देवते 'अनाधृष्या' केनाप्यतिरस्कार्य्या, त्वं 'अग्नेराधिपत्ये' वर्त्तमाना सती 'आयु- र्मे दाः' मे देहि एवं दिगन्तरेषु योज्यं । 'पुत्रवती' पुत्र- युक्ता देवता, 'सुषदा' सुखेनोपविष्टा, 'आश्रुतिः' सर्व्वत्र प्रख्याता, 'विधृतिः' सर्व्वस्य विधारयित्री, 'ब्रह्म' मन्त्रजातं, 'क्षत्रं' बलं, तत् सर्व्वशः देहि । 'तेजः' शरीरकान्तिः, 'वर्चः'

४ प्रपाठके ५ अनुवाकः। ४२१

दाः। तेजो॑ मे॒ धा॒ वर्चो॑ मे धाः। यशो॑ मे॒ धास्तपो॑ मे॒ धाः।

दीप्तिः, 'यशः' ख्यातिः, 'तपः' नियमविशेषः, 'मनः' चित्तदाढ्यँ, एतत्सर्व्वं 'धाः' सम्पादय ॥

मन्त्रस्य तात्पर्य्यं दर्शयितुमादौ तावत् ब्रह्मवादिनां प्रश्नोत्तरमाह । “ब्रह्मवादिनो वदन्ति । एते वावत ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाशिषो नाशास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादाशीरन्यः” इति ॥ ६ ॥ (५ प्र० । ४ अ० । २० म०) । 'दर्शपूर्णमासयोः' ब्रह्मा होताध्वर्य्युरग्नीदित्याम्नाता ऋत्विजः 'ये' सन्ति ते 'ऋत्विजः' सर्व्वेऽपि 'एते' एव अत्रापि वर्त्तन्ते । 'अथ' एवं सति, तत्र 'होता' यजमानस्यायुराद्याशिषः प्रार्थितवान्, सूक्तवाकं आशास्ते यं यजमानोऽसावित्यादिमन्त्रपाठात् अत्र तु स एव 'होता', 'कथा' कथं 'आशिषः', 'नाशास्ते', इति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञैस्तदुत्तरं द्विविधो हि यज्ञः 'पुरस्तादाशीः' 'उपरिष्टादाशीः' चेति तथा सति यत्र प्रधानकर्मण ऊर्द्धमाशीराशासनीया तत्रैव होतुस्तत्कर्त्तव्यता इह तु 'पुरस्तादाशीः' इतिकृत्वा होता नाशास्ते ॥

अथ मन्त्रतात्पर्य्यं दर्शयति । “अनाधृष्या पुरस्तादिति यदेतानि यजूंष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽवरुन्धे” इति । (५ प्र० । ४ अ० । २१ म०) । महावीरस्योपरि प्रादेशधारणेन एतेषु यजुःषु यजमानेन पठितेषु, यज्ञशिरो-