तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
४ प्रपाठके ५ अनुवाकः। ४१३
त्वा म॒खाय॑ त्वा। सूर्य्य॑स्य हर॑से त्वा^(२)। ^(३)प्रा॒णाय॒ स्वाहा॑
कल्पः। यमाय त्वा मखाय त्वेति सर्व्वं परिघर्म्ममभिपूवैँ स्त्रिः प्रोक्षतीति। पाठस्तु। ^(२)“यमाय त्वा * हरसे त्वा”^(२) इति। हे घर्म्म पात्रसमूह, ‘यमाय’ नियमार्थं त्वां प्रोक्षा- मीति शेषः। तथा• ‘मखाय’ यज्ञार्थं त्वां प्रोक्षामि। ‘सूर्य्यस्य हरसे’ सूर्य्यसम्बन्धितेजोऽर्थं सूर्य्यमण्डलपर्य्यन्तं ज्वालाङ्गमार्थं त्वां प्रोक्षामि॥
यममखसूर्य्यशब्दैः सूचिताभिः प्रवर्ग्यदेवताभिः सर्व्वाभिः सम्पादितां प्रवर्ग्यसमृद्धिं दर्शयति। “यमाय त्वा मखाय त्वे- त्याह। एता वा एतस्य देवताः। ताभिरेवैनँ समर्द्धयति” इति। (५प्र०।४अ०।२म०)॥
प्रोक्षणद्रव्यं विधत्ते। “मदन्तीभिः प्रोक्षति। तेज एवा- स्मिन् दधाति” इति। १॥ (५प्र०।४अ०।३म०)। तप्ता आपो ‘मदन्त्यः ताभिः प्रोक्षणे यजमाने कान्तिः सम्पद्यते॥
तत्रानुक्रमं विधत्ते। “अभिपूव्वाँ प्रोक्षति। अभिपूव्वँमेवा- स्मिन् तेजो दधाति” इति। (५प्र०।४अ०:४म०)। ‘पूर्व्वं’ प्रथमं महावीरमभिलक्ष्य, ‘अभिपूव्वँ’ तदादिकमेव प्रोक्षेत् न तु विपर्य्ययेण। एवं सति यजमाने पितृपुत्रादिक्रमेणैव तेजः सम्पद्यते॥
आवृत्तिं विधत्ते। “त्रिः प्रोक्षति। त्र्यावृद्ध्वि यज्ञः। अथोमेध्याय” इति। (५प्र०।४अ०।५म०)। अग्निचयसाध्य-
४१४ तैत्तिरीये आरण्यके
त्वं सवनत्रयरूपत्वेन वा यज्ञस्यावृत्तिचयोपेतत्वं, अपि च प्रोक्षणावृत्त्या मेध्यत्वातिशये मति* यज्ञयोग्यता सम्पद्यते ॥
होतर्घर्ममभिद्युहोति प्रैषस्योक्तत्वाद्धोतृकृत्यमनुवचनं विध- त्ते । "होतान्वाह । रक्षसामपहत्यै" इति । (५ प्र० । ४ अ० । ६ म०) । होतुरनुवचनं यज्ञविघातिनां रक्षसां वधाय भवति ॥
अयञ्चानुवाकप्रकार† आश्वलायनेन स्पष्टमभिहितः । स्पृ- ष्टोदकं प्रवर्ग्येण चरिष्यन् स्तृत्तरेण खरं परिव्रज्य पश्चादस्थाप- विश्य प्रेषितोऽभिद्युयाद्दुगावानं ऋचमृचमन्ववानमुक्ता प्रणू- त्यावसेत् ब्रह्मजज्ञानमित्यादिः तत्रैकस्या ऋचोमध्ये श्वासरा- हित्यं विधत्ते । "अनवानं । प्राणाना सन्त्यै" इति । (५ प्र० । ४ अ० । ७ म०) । अनवानः श्वासः तद्रहितं यथा भवति तथा पठेत् । तच्च यजमानप्राणानामविच्छेदाय भवति ॥
तास्वेतुगायत्रीधर्ममतिदिशति । "त्रिष्टुभः सतीर्गायत्री- रिवान्वाह ॥ २॥ गायत्री हि प्राणः । प्राणमेव यजमाने दधा- ति" इति । (५ प्र० । ४ अ० । ८ म०) । यद्यपि ब्रह्मजज्ञानमि- त्यादय स्त्रिष्टुभः तथापि गायत्रीवदनुवचनं कुर्यात् । गायत्री- रूपं ध्यात्वा पठेहित्यर्थः । प्राणस्य गायत्रत्वात् । गायत्री- समानानुवचनेन यजमाने प्राणं स्थैर्येण स्थापयति, गायत्र्या रक्ष्यमाणत्वात् प्राणस्य गायत्रत्वं । तद्रक्ष्यत्वञ्च प्राणस्य वाजस- नेयिनः समामनन्ति । प्राणा वै गयास्तत् प्राणांस्तत्रे तद्यद्ग- यांस्तत्रे तस्मात् गायत्री नामेति ॥
* सिध्यतीत्याशय सात D चिह्नितपुस्तकपाठः ।
† अनुवचनप्रकार इति तै० पुस्तकपाठः ।
४ प्रपाठके ५ अनुवाकः । ४१५
व्या॒नाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॑ । मन॑से॒ स्वाहा॒ वाचे॒ सर॑स्वत्यै
अनुवचनकाले व्यापारान्तरेण व्यवधानं निवारयति । “स- न्ततमन्वाह । प्राणानामन्नाद्यस्यासन्तत्यै । अथो रक्षसामप- हत्यै” इति । (५ प्र० । ४ अ० । ६ म०) । एकासृचमुक्ता प्राणा- वसानं कृत्वापि पुनरप्यन्यामृचमेव ब्रूयात्, न त्वन्यं वाग्- व्यापारं कुर्यात् । तदिदं सान्तत्यं एतेन प्राणा अविच्छिन्ना भवन्ति, अन्नञ्च न विच्छिद्यते । रक्षाँसि चापहन्वन्ते ॥
ऋचां बहुत्वं विधत्ते । “यत् परिमिता अनुब्रूयात् । परि- मितमवरुन्धोत । अपरिमित्ता अन्वाह । अपरिमितस्यावरुद्ध्यै” इति । (५ प्र० । ४ अ० । १० म०) । ऋचामल्पत्वे फलमप्यल्पं स्यात् । अतः फलबाहुल्याय बह्वीरनुब्रूयात् ॥
यदुक्तं सूत्रकारेण 'अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याविच्छिन्नाग्रेण वेदेनोपरिष्टात्* सम्मार्ष्टीति । तत्र वेदस्य दर्भमयत्वं वारयितुं मौञ्जत्वं विधत्ते । “शिरो वा एतद्यज्ञस्य ॥ ३ ॥ यत् प्रवर्ग्यः । ऊर्गुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्द्धयति” इति । (५ प्र० । ४ अ० । ११ म०) । प्रवर्ग्यस्य यज्ञशिरस्त्वं† प्रथमानुवाके प्रपञ्चितं । ‘मुञ्जाः’ तृणविशेषाः, तेषां पशुभिर्भक्ष्यत्वादूर्ग्रूपत्वं, अतो
* वेदेनाहवनीयस्योपरिष्टात् इति तै० पुस्तकपाठः ।
† यज्ञस्य शिरस्त्वं इति D चिह्नितपुस्तकपाठः ।
3 F
४१६ तैत्तिरीये आरण्यके
स्वाहा॑ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा॑(^{(३)}) । (^{(४)})दे॒वस्त्वा॑ सवि॒तामध्वा॑नक्तु(^{(४)}) ॥ १ ॥
वेदस्य मौञ्जले सति ऊर्त्तूपेण वेदेन, ‘यज्ञस्य’ ‘शिरः’, सम्मृद्धं करोति ॥
कल्पः । प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्जुहोति । पाठस्तु । (^{(३)})“प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा ॰ बलाय स्वाहा”(^{(३)}) इति । प्राणादिदेवेभ्यः स्वाहुतमिदमस्तु । ‘वाचे’ इत्यनेन सरस्वती विशिष्यते, शब्दात्मिकाया वाग्देवताया इत्यर्थः। ‘दक्षः’ उत्साहः, ‘क्रतुः’ सङ्कल्पः, ‘ओजः’ अष्टमोधातुः, तत्कार्यं ‘बलं’ ॥
एतैर्मन्त्रैः साध्यान् होमान् विधत्ते । “प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति” इति । (५ प्र०।४ अ०।१२ म०) ।
तत्र सप्तसङ्ख्यापक्षं विधत्ते । “सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन् दधाति” इति । (५ प्र०।४ अ०।१३ म०) । शिरोगतसप्तच्छिद्रवर्त्तिप्राणानां सप्तत्वात् सङ्ख्यया तत्प्राप्तिः ॥
कल्पः । देवस्त्वा सवितामध्वानक्तिरिति स्रुवेणोपर्याहवनीये महावीरमङ्क्तेति । (४ मन्त्रः) । हे महावीर ‘त्वां’ ‘सविता’ ‘देवः’, ‘मध्वा’ मधुरेण घृतेन, ‘अनक्तु’ अक्तं करोतु ॥
४ प्रपाठके ५ अनुवाकः। ४१७
⁽४⁾पृथिवी॑न् तप॑सस्त्रायस्व⁽५⁾। ⁽६⁾अ॒र्चिर॑सि शो॒चिर॑सि
मध्वेति प्रयोगाद्यजमानस्य तेजो व्याप्तिं दर्शयति। “देवस्वा सविता मध्वानक्तित्याह ॥ ४ ॥ तेजसैवेनमक्ति” इति। (५ प्र० । ४ अ० । १४ म०) ॥
कल्पः । पृथिवीं तपसस्त्रायस्वेति अपरस्मिन् खरे राजतं रुक्मं निधायेति । (५ मन्त्रः) । हे रुक्म ‘पृथिवीं’, एतां ‘तपसः’ ‘त्रायस्व’ अग्निसन्तापाद्रक्ष ॥
मन्त्रस्य तात्पर्य्यं दर्शयति । “पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति । अस्या अनतिदाहाय” इति । (५ प्र० । ४ अ० । १५ म०) । ‘अस्याः’ पृथिव्या इत्यर्थः ॥
रुक्मस्योपरि प्रदीप्तानां मुञ्जानां प्रक्षेपं विधत्ते । “शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रतिदधाति” इति । (५ प्र० । ४ अ० । १६ म०) । अग्नेः सर्व्वदेवतात्वं ते देवा अग्नौ तनूः सन्न्यदधतेति श्रुतेरवगन्तव्यं । ‘प्रलवाः’ प्रकर्षेण लूनाः मुञ्जामुष्टयः, तानग्नौ सर्व्वतः प्रदीष्य रुक्मस्योपरि निदध्यात् । एवं सत्यग्निरूपासु ‘देवतास्वेव’ प्रवर्ग्यरूपं यज्ञशिरः स्थापनं भवति । प्रदीपनप्रकारस्तु सूत्रकृता स्पष्टमुक्तः । द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्रणि गार्हपत्ये प्रदीप्याभ्यर्चिषे* लेति,
* प्रदीपयत्यर्चिषे इति तै० पाठः ।
3 F 2
४१८ तैत्तिरीये आरण्यके
ज्योति॑रसि तपो॒ऽसि॑^(६) । ^{(७)}स॒ꣳ सी॑दस्व म॒हाꣳ अ॑सि ।
तेषामग्रैरुत्तरेषां मूलानि शोचिषे लेति, तेषां मूलैर्दक्षिणेषाम् मूलानि ज्योतिषे लेति, तेषां मूलैरुत्तरेषामग्राणि तपसे लेति ॥
प्रदीप्तमुञ्जस्थापने कञ्चिद्विशेषं विधत्ते । “अप्रतिशीर्णाग्रं भवति । एतद् बर्हिर्ह्येषः” इति ॥ ५ ॥ (५ प्र० । ४ अ० । १७ म०) । दीप्तमुञ्जानां ‘अग्रं’, ‘प्रतिशीर्णं’ इतस्ततो विप्रसृतं यथा न ‘भवति’ तथा समूहत्यैव स्थापयेत् । यस्मादयं प्रवर्ग्यः, ‘एतत्’ ‘बर्हिः’ मुञ्जरूपबर्हिर्युक्तः, तस्मादेचास्तरणबर्हिष इवाप्रतिशीर्णाग्रं* युक्तं ॥
कल्पः । तान् व्यत्यस्तानुपरि रुक्मे निदधाति । ^{(६)}“अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि”^{(६)} इति । हे दक्षिणमुञ्जाग्रभाग त्वं ‘अर्चिः’ ज्वालारूपः ‘असि’, हे उत्तरमुञ्जमूलभाग त्वं ‘शोचिः’ शुचिरूपः ‘असि’, हे दक्षिणमुञ्जमूलभाग त्वं ‘ज्योतिः’ प्रकाशरूपः ‘असि’, हे उत्तरमुञ्जाग्रभाग त्वं ‘तपः’ सन्तापरूपः ‘असि’ ॥
मन्त्रतात्पर्यं दर्शयति । “अर्चिरसि शोचिरसीत्याह । तेज एवास्मिन् ब्रह्मवर्चसं दधाति” इति । (५ प्र० । ४ अ० । १८ म०) । शरीरकान्तिः श्रुताध्ययनसम्पत्तिश्चेत्युभयविधप्रकाशस्तेन मन्त्रेण यजमानं सम्पद्यते ॥
* शीर्णाग्रत्वं इति तै० पु० पाठः।
४ प्रपाठके ५ अनुवाकः । ४१६
शोच॑स्व देव॒वीत॑मः । वि॒धूमम॑ग्ने अ॒रुषं॑ मि॑येध्य । सृ॒ज प्र॑शस्त दर्श॒तं⁽७⁾ । ⁽८⁾अ॒ञ्जन्ति॑ यं प्रथय॑न्तो॒ न विप्राः॑ । व॒पाव॑न्तं॒ नाग्निना॒ तप॑न्तः । पि॒तुर्न पु॒त्र उप॑सि॒ प्रेष्ठः॑ । आघ॒र्मो अ॒ग्निमृ॑त॒यन्न॑सादीत्⁽८⁾ ॥ २ ॥
कल्पः । सꣳसीदस्व महाꣵ असीति तेषु महावीरं प्रतिष्ठा- प्येति । पाठस्तु । ⁽७⁾“सꣳसीदस्व महाꣵ असि ० प्रशस्तदर्श॑तम्”⁽७⁾ इति । हे महावीर ‘सꣳसीदस्व’ अत एतेषु प्रदीप्तमुञ्चेषु सम्यगुपविश, ‘महाꣵअसि’ त्वं गुणैरधिकोऽसि, अतः ‘देव- वीतमः’ अति शयेन देवैः काम्यो भूत्वा, ‘शोचस्व’ दीप्यस्व । हे ‘मियेध्य’ मेधार्ह, ‘प्रशस्त’ उत्कृष्ट ‘अग्ने’, ‘अरुषं’ अरोषण- मनुग्रं, ‘दर्शतं’ द्रष्टुं शक्यं, शान्तं ‘धूमं’ विशेषेण, ‘सृज’ ॥ प्रौढस्य कर्मणो हेतुत्वान्महच्छब्दार्थः प्रसिद्ध इत्येतद्दर्शयति । “सꣳसीदस्व महाꣵ असीत्याह । महान् ह्येषः” इति । (५ प्र० । ४ अ० । १६ म० ) ॥
कल्पः । अञ्जन्ति यं प्रथयन्त इति स्रुवेण महावीरमनक्त्य- भिपूरयति चेति । पाठस्तु । ⁽८⁾“अञ्जन्ति यं प्रथयन्तो न विप्राः ० आघर्मो अग्निमृतयन्नसादीत्”(८) इति । ‘विप्राः’ ब्राह्मणा ऋत्विजः, ‘वपावन्तं’ मध्ये रन्ध्रयुक्तं, ‘यं’ महावीरं, ‘प्रथयन्तः’ ‘न’, प्रख्यापयन्त इव, ‘अञ्जन्ति’ घृतेनाक्तं कुर्वन्ति । कीदृशाः ‘विप्राः’ ‘अग्निना तपन्तः’ प्रज्वालयात्मानं दाहमकुर्व्वन्तः,
४२० तैत्तिरीये आरण्यके
(९)अ॒ना॒धृ॒ष्या पु॒रस्ता॑त् । अ॒ग्नेराधि॑पत्ये । आयु॑र्मे दाः।
पु॒त्रव॑ती दक्षि॑णतः । इन्द्र॑स्याधि॑पत्ये । प्र॒जां मे॑ दाः।
सु॒षदा॑ प॒श्चात् । दे॒वस्य॑ सवि॒तुराधि॑पत्ये । प्रा॒णं मे॑ दाः।
आ॒श्रुति॑रुत्त॒रतः॑ ॥ ३ ॥
मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्रं॑ मे दाः । वि॒धृति॑-
रु॒परि॑ष्टात् । बृह॒स्पते॒राधि॑पत्ये । ब्रह्म॑ मे दाः क्ष॒त्रं मे॑
अञ्जनाभावे ह्यतितापेन महावीरस्य भङ्गोऽपि प्रसज्येत । स- धर्मो, विप्रैरक्तो महावीरः 'ऋतधन्' ऋतं यज्ञं निष्पादयन्, 'अग्निं' एतं 'असादीत्' आसन्नवान् प्राप्तवान् । तत्र दृष्टान्तः, 'पितुः', 'उपस्थि' उपान्तिके, 'प्रेष्ठः' 'पुत्रः' 'न', प्रियतमः पुत्र इति ॥
कल्पः । अध्यधि महावीरमसंस्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपत्यनाधृष्या पुरस्तादित्येतैर्यथालिङ्ग- मिति । पाठस्तु । $^{(९)}$“अनाधृष्या पुरस्तात् ० मनो मे धाः”$^{(९)}$ इति । 'पुरस्तात्' पूर्व्वस्यां दिशि, वर्त्तमाने हे देवते 'अनाधृष्या' केनाप्यतिरस्कार्य्या, त्वं 'अग्नेराधिपत्ये' वर्त्तमाना सती 'आयु- र्मे दाः' मे देहि एवं दिगन्तरेषु योज्यं । 'पुत्रवती' पुत्र- युक्ता देवता, 'सुषदा' सुखेनोपविष्टा, 'आश्रुतिः' सर्व्वत्र प्रख्याता, 'विधृतिः' सर्व्वस्य विधारयित्री, 'ब्रह्म' मन्त्रजातं, 'क्षत्रं' बलं, तत् सर्व्वशः देहि । 'तेजः' शरीरकान्तिः, 'वर्चः'
४ प्रपाठके ५ अनुवाकः। ४२१
दाः। तेजो॑ मे॒ धा॒ वर्चो॑ मे धाः। यशो॑ मे॒ धास्तपो॑ मे॒ धाः।
दीप्तिः, 'यशः' ख्यातिः, 'तपः' नियमविशेषः, 'मनः' चित्तदाढ्यँ, एतत्सर्व्वं 'धाः' सम्पादय ॥
मन्त्रस्य तात्पर्य्यं दर्शयितुमादौ तावत् ब्रह्मवादिनां प्रश्नोत्तरमाह । “ब्रह्मवादिनो वदन्ति । एते वावत ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाशिषो नाशास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादाशीरन्यः” इति ॥ ६ ॥ (५ प्र० । ४ अ० । २० म०) । 'दर्शपूर्णमासयोः' ब्रह्मा होताध्वर्य्युरग्नीदित्याम्नाता ऋत्विजः 'ये' सन्ति ते 'ऋत्विजः' सर्व्वेऽपि 'एते' एव अत्रापि वर्त्तन्ते । 'अथ' एवं सति, तत्र 'होता' यजमानस्यायुराद्याशिषः प्रार्थितवान्, सूक्तवाकं आशास्ते यं यजमानोऽसावित्यादिमन्त्रपाठात् अत्र तु स एव 'होता', 'कथा' कथं 'आशिषः', 'नाशास्ते', इति ब्रह्मवादिनां प्रश्नः । तत्राभिज्ञैस्तदुत्तरं द्विविधो हि यज्ञः 'पुरस्तादाशीः' 'उपरिष्टादाशीः' चेति तथा सति यत्र प्रधानकर्मण ऊर्द्धमाशीराशासनीया तत्रैव होतुस्तत्कर्त्तव्यता इह तु 'पुरस्तादाशीः' इतिकृत्वा होता नाशास्ते ॥
अथ मन्त्रतात्पर्य्यं दर्शयति । “अनाधृष्या पुरस्तादिति यदेतानि यजूंष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽवरुन्धे” इति । (५ प्र० । ४ अ० । २१ म०) । महावीरस्योपरि प्रादेशधारणेन एतेषु यजुःषु यजमानेन पठितेषु, यज्ञशिरो-
४२२ तैत्तिरीये आरण्यके
मनौ॑ मे धाः^(९)। ^(०१)मनो॑रश्वा॑सि॒ भूरि॑पुत्रा। विश्वा॑भ्यो॒ मा॒नाष्ट्राभ्यः॑ पाहि ॥ ४ ॥
सूप॒सदा॑ मे भूया॒ मा मा॑हिꣳसीः^(१०) ।
रूपमहावीरसकाशादेव, 'यजमानः' सर्वा अपि 'आशिषः' प्राप्नोति, एतेषां च यजुषां प्रधानकर्मणः पुरा* पठनीयत्वात् अयं यज्ञः पुरस्तादाशीः ॥
कास्ता मन्त्रोक्ता आशिष इत्याशङ्क्य दिग्भेदेन व्यवस्थिता-स्ता दर्शयति । "आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृ॑तिमुपरिष्टात् । प्राणानेवास्मै समीचोदधाति" इति । (५ प्र०।४ अ०।२२ म०) । 'विधृति' शब्देन ब्रह्मक्षत्रादयः सर्व्वेऽपि विधार्य्यत्वात्† उपलक्ष्यन्ते । अनेन मन्त्रपाठेनायं यजमानः, 'अस्मै' स्वदेहार्थं, 'प्राणान्' 'समीचः' अनुकूलानवस्थापयति ॥
कल्पः । मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमन्त्र-यतीति । पाठस्तु । ^(१०)"मनोरश्वासि ० माहिꣳसीः"^(१०) इति । हे भूमे त्वं 'मनोरश्वा', मनुष्यजातेर्व्यापिका सती, 'भूरिपुत्रा' बहुभिः पुत्रैर्युक्तासि, ये प्राणिनो भूमेरुत्पन्नाः ते सर्व्वेऽपि भूमेः पुत्राः तादृशी त्वं 'विश्वाभ्यः', 'नाष्ट्राभ्यः' विनाशकारणेभ्यः सर्व्वेभ्यः, मां 'पाहि', 'मे' मम 'सूपसदा' सुखेन सेवितुं योग्या 'भूयाः', 'मां' 'माहिꣳसीः' हिंसितं माकुरु ॥
* पुरस्तात् इति तै० पु० पाठः ।
† विधेयत्वात् इति D चिह्नित पु० पाठः ।
४ प्रपाठके ५ अनुवाकः । ४२३
(११)तपो॑ष्वग्ने॒ अन्त॑रा॒ँ अ॒मित्रां॑न् । तपा॒ शंस॑मर॒रुषः॒ पर॑स्य । तपो॑ वसो चिकिता॒नो अचि॑त्तान् । वि
अनेन मन्त्रेण साध्यं भूमिसंस्पर्शं विधत्ते । “ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनुव्यास्थापयन्ति ॥ ७ ॥ मनोरश्वासि भूरिपुत्रेतीमामभिमृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रतितिष्ठत्यनुन्मादाय” इति । (५ प्र० । ४ अ० । २३ म०) । लोके ‘यं’ पुरुषं, मनुष्याः ‘दिशः’ ‘व्यास्थापयन्ति’ वक्रोर्दिग्शोऽनुक्रमेण, विविधं सञ्चारयन्ति, ‘एषः’ सञ्चारी पुरुषः, ‘दिशः’ ‘अनु’लक्ष्य ‘उन्मदितोः’ ‘ईश्वरः’ उन्मत्तो भवितुं समर्थो भवति दिग्भ्रमं प्राप्नोतीत्यर्थः । तस्यानेन मन्त्रेण भूमिसंस्पर्शे सति उन्मादो न भवति ॥
मा हिꣳसीरित्यस्य तात्पर्यं दर्शयति । “सूपसदा मे भूया मा मा हिꣳसीरित्याहाहिꣳसायै” इति । (५ प्र० । ४ अ० । २४ म०) ॥
कल्पः । तपोष्वग्ने अन्तराँ अमित्रानिति गार्हपत्यादुदीचोऽङ्गारान्निरूह्येति* । पाठस्तु । (११)“तपोष्वग्ने अन्तराँ • अजरा अयासः”(११) इति । हे ‘अग्ने’ ‘अन्तरान्’ देवयजनमध्ये गूढत्वेन वर्त्तमानान्, ‘अमित्रान्’ रक्षोरूपान् शत्रून्, ‘सुतपः’ सुष्ठु तपस्तप्तान् कुरु । ‘अरुषः’
* अभ्युपोहेति इति तै० पुस्तकपाठः ।
३ G
४२४ तैत्तिरीये आरण्यके
ते॑ तिष्ठन्ताम॒जरा॑ अया॒सः॑। (११) । (१२)चित॑: स्थ॒ परि॑ चित॑:।
अररुर्वै नामासुर आसीदिति श्रुतस्याररुनामकस्य, 'परस्य' शत्रोः, 'शꣳसं' संस्तवं, 'तप' विनाशय । हे 'वसो' वासहेतो वह्ने, 'चिकित्वान्' अभिज्ञः, त्वं 'अचित्तान' अस्मासु चित्तरहितान् विरोधिनः, 'तप' 'ते' सर्व्वेऽप्यमित्राः, 'वि' 'तिष्ठन्तां' परस्परमेलनं परित्यज्य विविधं यथा भवति तथा तिष्ठन्तु । ततो वयं 'अजराः' वयोहानिरहिताः, 'अयासः' आयासरहिताश्च भूयास्मेति शेषः ॥
कल्पः । चितः स्थ परिचित इति प्रदक्षिणमङ्गारैः पर्यूहेति । स्वाहा मरुद्भिः परिश्रयस्वेति मन्त्रशेषः । (१२ मन्त्रः) । हे अङ्गाराः यूयं गार्हपत्यात् पृथक्कृताः सन्तः 'चितः' महावीरसमीपे सञ्चिताः, 'परि चितः स्थ' परितः समूहरूपा भवथ । हे महावीर 'मरुद्भिः' अङ्गाररूपैर्देवैः, 'स्वाहा' 'परिश्रयस्व' सुष्ठु परितो व्याप्तो भव । स्वाहाशब्दो निपातत्वादनेकार्थवाची इति ॥
मन्त्रे पूर्व्वभागस्य तात्पर्य्यं दर्शयति । “चितः स्थ परि चित इत्याह । अपचितिमेवास्मिन् दधाति” इति । (५ प्र० । ४ अ० । २५ म०) । अङ्गारेषु परितः सेवकवत्स्थितेषु मध्ये स्थितस्य महावीरस्य राज्ञ इव पूजा सम्पद्यते ॥
उत्तरभागे मरुच्छब्देन विवक्षितमर्थं दर्शयति । “शिरो वा एतद्यज्ञस्य । यत् प्रवर्ग्यः । असौ खलु वा आदित्यः प्रव-
४ प्रपाठके ५ अनुवाकः। ४२५
स्वाहा॑ म॒रुद्भिः॒ परि॑श्रयस्व॑^{(१२)}। ^{(१३)}मा अ॑सि। प्र॒मा अ॑सि। प्र॒ति॒मा अ॑सि॥ ५॥
र्ग्यः। तस्य मरुतो रश्मयः॥८॥ स्वाहा मरुद्भिः परिश्रयस्वे- त्याह। अमुमेवादित्यग्ं रश्मिभिः पर्यूूहति। तस्मादसावा- दित्योऽमुष्मिँल्लोके रश्मिभिः पर्यूूढः। तस्माद्राजा विशा पर्यूूढः। तस्मात् ग्रामणीः सजातैः पर्यूूढः” इति। (५ प्र०। ४ अ०।२६ म०)। यज्ञशिरोरूपः ‘प्रवर्ग्यः’ आदित्यस्थानीयः, देवतात्वेन भाविता अङ्गारा रश्मिस्थानीयाः अतो महावीर- स्याङ्गारैः पर्यूूहणेनात्र ‘आदित्यं’ एव ‘रश्मिभिः’ परितो व्या- पयति, यस्मादेवं ‘तस्मात्’ स्वर्गे ‘लोके’ अपि ‘आदित्यः’ ‘रश्मि- भिः’ व्याप्तो दृश्यते। तथा भूलोकेऽपि महावीरवन्मुख्यः ‘राजा’ अङ्गारवत् उपसर्जनीभूतया प्रजया व्याप्तो भवति, एकस्मिन् ग्रामे ‘ग्रामणीः’ मुख्यः पुरुषः, ‘सजातैः’ सहोत्पन्नैरुपसर्जनैः पुरुषैः, परितो व्याप्तो दृश्यते॥
कल्पः। वैकङ्कतैः परिधिभिः परिधत्ते मा असीति प्रा- ञ्चावध्वर्युर्निदधातीति प्रमा असोत्युदञ्चौ प्रति प्रस्थाता एव- मवशिष्टानां पूर्व्वपूर्वेण मन्त्रेणाध्वर्युरुत्तरेणोत्तरेण प्रति- प्रस्थाताध्वर्युरेव दक्षिणतस्त्रयादग्रं निदधात्यन्तरिक्षस्यान्तर्द्धि- रसीति। पाठस्तु। ^{(१३)}“मा असि ० अन्तरिक्षस्यान्तर्द्धि- रसि”^{(१९)} इति। हे परिधे प्रागग्रत्वेन दक्षिणदिग्वर्त्ती उत्तरदिग्वर्त्ती वा त्वं ‘मा असि’ महावीरस्थानं मातुमि- 3 G 2
| ४२६ | तैत्तिरीये आरण्यके |
|---|
स॒म्मा अ॑सि । वि॒मा अ॑सि । उ॒न्मा अ॑सि । अ॒न्त-
यत्तया परिच्छेत्तुं समर्थोऽस्मि । तथा हे परिधे उदगग्रत्वेन प्राग्दिग्वर्त्ती उत्तरदिग्वर्त्ती* वा त्वं 'प्रमा असि' प्रकर्षेण मातुं समर्थोऽस्मि । तृतीयपञ्चममन्त्रौ प्रथममन्त्रवद्व्याख्येयौ । चतुर्थषष्ठमन्त्रौ द्वितीयमन्त्रवद्व्याख्येयौ । एवं त्रिभिर्मन्त्रैर्विषममङ्गोपेतैरध्वर्युर्दिग्द्वये प्रागग्रान् षट्परिधीन् परिदधाति सममङ्गोपेतैर्मन्त्रैः प्रतिप्रस्थाता दिग्द्वये उदगग्रान् षट्परिधीन् परिदधाति । हे त्रयोदशपरिधे त्वं 'अन्तरिक्षस्य' लोकस्य, 'अन्तर्द्धूः' 'असि' महावीराद् व्यवधानकरः 'असि' । अनेन मन्त्रेणोर्द्ध्वलोकदिग्व्यवधानबुद्ध्या दक्षिणभागेऽध्वर्युरेकं परिधिं परिदध्यात् ॥
तैर्मन्त्रैः परिधेयानां परिधीनां वृक्षविशेषं विधत्ते । "अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवावरुन्द्धे" इति । (५ प्र० । ४ अ० । २७-म०) प्रजापति 'सृष्टस्य' पलायमानस्य, 'अग्नेः' तेजः, 'विकङ्कतं' वृक्षं, प्राविशत् अतो वैकङ्कतपरिधिभिस्तत्तेजः प्राप्नोति ॥
परिधीनां सङ्ख्यां विधत्ते । "द्वादश भवन्ति ॥ ६ ॥ द्वादश मासाः संवत्सरः । संवत्सरमेवावरुन्द्धे" इति । (५ प्र० । ४ अ० ।-२८ म०) ॥
* पश्चिमदिग्वर्त्ती इति तै० पुस्तकपाठः ।
४ प्रपाठके ५ अनुवाकः । ४२७
रि॑क्ष॒स्यान्त॒र्द्धिर॑सि^(१३) । ^(१४)दि॒वं तप॑सस्त्राय॒स्व^(१४) ।
अधिकमेकं* परिधिं विधत्ते । "अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमवरुन्धे" इति । (५ प्र० । ४ अ० । २९ म०) । ज्योतिःशास्त्रविदः कदाचित् कदाचित् सङ्क्रान्तिरहितोऽधिकमासस्त्रयोदशोऽस्तीत्येवमाहुः । त्रयोदशेन परिधिना तन्मासप्राप्तिर्भवति ॥
अन्तर्द्धेरेवं† तात्पर्य्यं दर्शयति । "अन्तरिक्षस्यान्तर्द्धिरसीत्याह व्यावृत्यै" इति । (५ प्र० । ४ अ० । ३० म०) । एतावती महावीरस्य सीमा इत ऊर्द्धमन्तरिक्षलोक इति विभागे‡ व्यावृत्तिः ॥
कल्पः । दिवं तपसस्त्रायस्वेति सौवर्णेन रुक्मेण पिधाय इति । (१४ मन्त्रः) । महावीरस्योपरि पिधानत्वेन स्थाप्यमान हे रुक्म 'दिवं' द्युलोकं, 'तपसः' वह्नितापात्, 'त्रायस्व' पालय ॥
एतन्मन्त्रसाध्यं रुक्मस्थापनं विधत्ते । "दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्मधि निदधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परिगृह्णाति" इति । (५ प्र० । ४ अ० । ३१ म०) । उपरितनरुक्याव्यवधानेन द्युलोकस्यातिदाहो न
* अधिकमप्येकं इति तै० पुस्तकपाठः ।
† अन्तर्द्धिशब्द इति तै० पुस्तकपाठः ।
‡ विभागा इति तै० पुस्तकपाठः ।
४२८ तैत्तिरीये आरण्यके
^(१५)आ॒भिर्गी॒र्भिर्यदतो॑ न ऊ॒नं । आप्या॑यय हरिवो॒ वर्द्ध॑-
मानः । य॒दा स्तो॒तृभ्यो॒ महि॑गोचा रु॒जासि॑ । भूयि॑ष्ठ-
भाजो॒ अध॑ ते स्याम^(१५) । ^(१६)शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑
अ॒न्यत् । ई ॥
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या
भवति । अपि चोर्द्धाधोगताभ्यां रुक्माभ्यां ‘एनं’ महावीरं,
‘उभयतः’ दृढं ‘परिगृह्णाति’ ॥
कल्पः । आभिर्गीर्भिरिति तिसृभिरभिमन्त्र्येत । तत्र प्रथ-
मामाह । ^(१५)“आभिर्गीर्भैर्यदतो न ऊनं ॰ अध ते स्याम”^(१५)
इति । हे ‘हरिवः*’ अश्वयुक्तेन्द्रत्वेन स्तूयमान महावीर
‘आभिर्गीर्भिः’ अस्मदीयस्तुतिभिः, ‘वर्द्धमानः’ त्वं ‘अतः’ अस्मात्
कर्मणः, ‘ऊनं’ अङ्गं, ‘नः’ अस्मदर्थं, ‘आप्यायय’ अभिवर्द्धय ।
‘यदा’ यस्मिन् काले, ‘स्तोतृभ्यः’ स्तोत्रानुग्रहार्थं, ‘महिगोचा’
महतो मेघान्, ‘रुजासि’ भग्नान् करोषि, ‘अध’ तदा, वयं
‘ते’ तवानुग्रहात्, ‘भूयिष्ठभाजः’ ‘स्याम’ प्रभूतधनानां
लब्धारो भूयास्म
अथ द्वितीयामाह । ^(१६)“शुक्रन्ते ॰ पूषन्निह रातिर-
स्तु”^(१६) इति । हे ‘पूषन्’ पोषक महावीर आदित्यत्वेन स्तूय-
मान, ‘ते’ तव, ‘शुक्रं’ शुद्धं स्वरूपं, ‘अन्यत्’ अनेकप्रकारं,
* हरिवन् इति तै० पुस्तकपाठः ।
४ प्रपाठके ५ अनुवाकः । ४२६
अर्व॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु^(१६) । ^(१७)अर्ह॑न् बिभर्षि सायक॑ानि॒ धन्व॑ । अर्ह॑न्निष्॒कं य॑ज॒तं वि॒श्वरू॑पं । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मद्भु॑वं । न वा
उदयकाले रक्तवर्णं रूपमन्यत् । मध्याह्नकाले श्वेतवर्णं रूपमन्यत् । इत्येवमनेकप्रकारत्वं तथा 'ते' तव, 'यजतं' पूजनमपि 'अन्यत्' । प्रातःकाले मित्रस्य चर्षणी धृत इत्यादिभिर्मन्त्रैः पूज्यसे । मध्याह्ने आसत्येनेत्यादिभिः तथाविधया निष्पादिते 'अहनी', अपि 'विषुरूपे' नानारूपे, अहःशब्दः छत्रिन्यायेन रात्रिमप्युपलक्षयति अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वं एवं विचित्रकार्य्यकृदपि त्वं 'द्यौरिवासि' आकाशं यथैकरूपं तद्वत् त्वमपि सर्व्वत्र पक्षपातराहित्यादेकरूपोऽसि । मीयन्ते प्रमीयन्ते पदार्था आभिश्चिचवृत्तिभिस्ताश्चित्तवृत्तयः 'मायाः' कव्यदानवाचिना स्वधाशब्देन कृत्स्नमप्यन्नमुपलक्ष्यते । हे 'स्वधावः' अन्नवन्, 'विश्वा' 'हि' 'मायाः' सर्व्वा अप्यस्मदीयचित्तवृत्तीः, 'अवसि' रक्षसि, हे 'पूषन्' 'ते' तव, 'राति' 'भद्रा' 'अस्तु' फलप्रदानं समीचीनं भवतु ॥
अथ तृतीयामाह । ^(१७)“अर्हन्॒ बिभर्षि सायकानि धन्व ० ओजीयो रुद्र त्वदस्ति”^(१७) इति । हे 'रुद्र' महावीर रुद्रत्वेन स्तूयमान, 'अर्हन्' योग्यः सन्, 'सायकानि' बाणान्, 'धन्व' धनुश्च, 'बिभर्षि' हस्तयोर्धारयसि । तथैव 'अर्हन्' योग्यः सन्, 'यजतं' पूजासाधनं, 'विश्वरूपं' नानाविधं, 'निष्कं' आभरणं,
४३० तैत्तिरीये आरण्यके
ओजी॑यो रुद्र त्वद॑स्ति⁽१७⁾। ⁽१८⁾गाय॒त्रम॑सि। त्रैष्टुभम॑- सि। जा॑गतमसि⁽१८⁾॥ ⁽१९⁾मधु॒ मधु॒ मधु॑⁽१९⁾॥ ७॥ अ॒न॒क्तु॒, असा॑दी॒त्, उत्त॑रतः॒, पा॒हि, प्रतिमा, अं॒सि, यज॒तन्त्रं॑, अ॒न्यत्, जाग॑तम॒सि, एक॑ञ्च॥ अनु० ५॥
‘बिभर्षि’ कर्णकण्ठहस्तादौ धारयसि। तथैव ‘अर्हन्’ योग्यः सन्, ‘अब्भुवं’ अब्वादिभ्यः पञ्चभूतेभ्यः उत्पन्नं, ‘इदं’ जगत्, ‘दयसे’ पालयसि, अतो हे ‘रुद्र’ ‘त्वत्’ ‘ओजीयः’ त्वत्तो बलवद्वस्तु किमपि ‘न’ एव, ‘अस्ति’॥
एतन्महावीरस्य सायकादिधारणासम्भवमाशङ्क्य स्तुतित्वेन परिहरति। “अर्हन् बिभर्षि सायकानि धन्वेत्याह॥१०॥ स्तौत्येवैनमेतत्” इति। (५ प्र०।४ अ०।३२ म०)। अनेनैव न्यायेन पूर्वोक्तमन्त्रद्वयार्थासम्भवशङ्कापि परिहर्त्तव्या। एवमुत्तरयो- रपि योज्यं॥
कल्पः। धवित्राण्यादत्ते गायत्रमसीति प्रथमं त्रैष्टुभमसीति द्वितीयं जागतमसीति तृतीयमिति। (१८ मन्त्रः)। वायुना ज्वालोत्पादकं व्यजनं धवित्रं हे प्रथमधवित्र त्वं ‘गायत्रमसि’ गायत्रीच्छन्दोदेवतारूपमसि॥
एतैर्मन्त्रैः साध्यमादानं विधत्ते। “गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्यादत्ते। छन्दोभिरेवैनान्यादत्ते” इति। (५ प्र०।४ अ०।३३ म०)। गायत्र्यादिशब्दैर्महावीरस्य व्यवहार- च्छन्दोदेवताभिरादानसिद्ध्यर्थो द्रष्टव्यः॥
४ प्रपाठके ५ अनुवाकः । ४३१
कल्पः । तैरेनं त्रिरूर्द्धमुपवीजयतीति मधु मध्विति तृतीये मधुशब्दो मन्त्रशेषः । (१६ मन्त्रः) । हे धवित्रत्रय 'मधु' समी- चीनं ज्वालोत्पादनं यथा भवति तथा वायुं कुर्व्विति शेषः ॥
एतन्मन्त्रसाध्यां क्रियां विधत्ते । “मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति” इति । (५ प्र० ।- ४ अ० । ३४ म०) । समीचीनवायुरूपत्वात् प्राणस्य मधुत्वं ॥
यदुक्तं सूत्रकारेण । तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमा- ग्नीध्रायाग्नीध्रप्रथमास्तिः प्रदक्षिणमूर्द्धं धून्वन्तः परियन्तीति । तदिदं विधत्ते । “त्रिः परियन्ति । त्रिवृद्धिप्राणः” इति । (५ प्र० । ४ अ० । ३५ म०) । प्राणापानव्यानाख्यवृत्तिभेदात् प्राणस्य त्रैगुण्यं प्रदक्षिणत्रयेण सिध्यति ॥
तमेव विधिमनूद्य पुनः प्रशंसति । “त्रिः परियन्ति । व्या- वृद्धियज्ञः ॥ ११ ॥ अथो रक्षसामपहत्यै” इति । (५ प्र० । ४- अ० । ३६ म०) । सवनत्रयानुष्ठानेन यज्ञस्यावृत्तिन्त्रयं* । अपि च प्रदक्षिणत्रयेण रक्षांस्यपहन्यन्ते ॥
यदुक्तं सूत्रकारेण । अध्वर्य्युप्रथमा अनभिधून्वन्तः त्रिः परियन्तीति । तदिदं विधत्ते । “त्रिः पुनः परियन्ति । षट्- सम्पद्यन्ते । षड् वा ऋतवः । ऋतुष्वेव प्रतितिष्ठन्ति” इति । (५ प्र० । ४ अ० । ३७ म०) । पूर्वोक्ताः प्रदक्षिणावृत्तयस्तिस्र एताश्च विपरीतावृत्तयस्तिस्र इत्येवं षट्सम्पत्तिः ॥
चतुर्थावृत्तिं निषेधति । “यो वै घर्मस्य प्रियान्तन्व॒मा-
* त्रयत्वं इति तै० पु० पाठः ।
3 H
४३२ तैत्तिरीये आरण्यके
क्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियांस्तनुवमा- क्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताᳪ ह वा अस्योग्र- देवो राजनिराचक्राम ॥ १९ ॥ ततो वै स दुश्चर्माभवत् । तस्मात् त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपी- थाय । प्राणा वै धवित्राणि” इति । (५ प्र० । ४ अ० । ३८ म०) । ‘घर्मस्य’ महावीरस्य, प्रियशरीराक्रमणे त्वग्दोषः स्यात्, ‘यः’ पुमान्, अपेक्षितं प्रदक्षिणत्रयं कृत्वा ततश्चतुर्थं प्रदक्षिणमनपे- क्षितमपि कुर्य्यात् । ‘सः’ एव प्रियशरीरं ‘आक्रामति’ इति । त्वग्दोषं ‘सः’ प्राप्नुयात् । न चैतद्वार्त्तामात्रं किन्तु कश्चित् ‘रा- जनि’ नामकः पुरुषः, ‘उग्रदेवः’ । उग्राणामृत्विजां शास्त्रा- र्थमुल्लङ्घयतां स्वामी सन् कदाचिदेतां प्रियतनूं ‘आचक्राम’ । ‘ततः’ अपराधात्, कुष्ठरोगवानभूत् । अतः स्वदेहरक्षार्थं चतुर्थावृत्तिं न कुर्य्यात् । धवित्राणि प्रशंसति प्राणा इति ॥
यदुक्तं सूत्रकारेण । तमभिमुखाः पर्युपविशन्ते पुरस्ताद- ध्वर्य्युः दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रोऽव्यतिषङ्गमूर्द्ध्वं धुन्वन्त इति । तत्र धवित्रदण्डानां यः परस्परसंश्लेषाभावः तमिमं विधत्ते । “अव्यतिषङ्गं धुन्वन्ति । प्राणानामव्यतिषङ्गाय क्लृप्त्यै” इति । (५ प्र० । ४ अ० । ३९ म०) । प्राणादिवृत्तीनां साङ्कर्य्य- परिहारेण स्वव्यापारसामर्थ्यार्थो धवित्राणामयमव्यतिषङ्गः ॥
तमभिमुखाः पर्युपविशन्तीति यदुक्तं तद्विधत्ते । “विनिषद्य धुन्वन्ति । दिक्ष्वेव प्रतितिष्ठन्ति” इति । (५ प्र० । ४ अ० । ४० म०) । पुरस्तादध्वर्य्युरित्याद्यभिधानात् ‘दिक्षु’ प्रतिष्ठा ॥