भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वक्षस्थलमहागिरिम् ॥ ५० ॥ कृत्वा तमसुभिहीनं दैत्येशं केशवः स्वयम् ॥ असुराणां विनाशं च क्रूरो नह्यविध्यद्वात् ॥ ५१ ॥ हत्वासुरं शोणितबिन्दुचित्रं संपूज्य देवाः सह वासवेन ॥ जगुस्सुखच्छिण्यानि मुदा समेता देवोयथान्तान्हितसुत्सिरास ॥ ५२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ शङ्कर उवाच ॥ हते हिरण्यकशिपौ दानवे दृप्तकण्टके ॥ हतेष्वन्येषु दैत्येभ्यः पातालतलमाश्रिताः ॥ १ ॥ पातालतलसंस्थेषु दानवेषु महायशाः ॥ प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ २ ॥ आराध्य तपसोग्रेण वरं लेभे पितामहात् ॥ अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ ३ ॥ वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्महाहवे ॥ प्रहृद्या दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ ४ ॥ संप्राप्य दैत्यराज्यं तु बलेन चतुरंगिणा ॥ जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ ५ ॥ स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः ॥ कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ ६ ॥ ब्रह्मणादभिहितो देवं जगाम शरणं हरिम् ॥ अमूताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ ७ ॥ देवोऽप्यस्मद्यदलेन संयोज्य बलसूदनम् ॥ उवाच वचनं काले मेघगम्भीरया गिरा ॥८॥ श्रीभगवानुवाच ॥ गच्छ शक्र भविष्यामि भ्राता ते बलसूदन ॥ द्वेवरूपधृग् भूत्वा वञ्चयिष्यामि तं बलिम् ॥९॥ शङ्कर उवाच ॥ एवमुक्तस्तदा शक्रः प्रणम्य कश्यपाश्रमम्॥ आदिशेद्वासितेर्गर्भं चशिनाऽथ च सर्वदा ॥१०॥ गर्भञ्च एव तेजोभिः संनवेश्यः महाददे ॥ ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ ११ ॥ यस्मिञ्जाते सुगणाः प्रहर्षमतुलं गताः ॥ ऋषयश्च महात्मानश्च काल्यामलदर्शिनः ॥ १२ ॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ॥ बलिर्दैत्यपतिः श्रीमान्पालियामासुपाश्रितः ॥ १३ ॥ वामनन्कल्प्य तमादाय तस्य यज्ञे बृहस्पतिः ॥ अनयद्गुहाशार्दूल नूनं तन्मय मायया ॥ १४ ॥ यज्ञवाटं न संप्राप्य यज्ञं दृष्ट्वाथ वामनः ॥ आत्मानमात्मना ब्रह्मन्समुच्छ्रन्न इवानलः ॥ १५ ॥ प्रवेशयामास च तं बलिर्धर्मभृतां वरः ॥ दृष्ट्वा नं महाभागं वामनं सुमनेादरम् ॥ १६ ॥ मंचुक्रमकविर्यैः पांतैः संस्मितपंग्विभिः ॥ कृष्णजिनजटादण्डकमण्डलुविराजितम् ॥१७॥ विक्रमन्पश्यन्त्या व्यामोलीयंति म्म स्वांश्वभू ॥ विक्रमिन्यञ्चैतन्थेवांव्या लीनगात्रः स्वविग्रहे ॥ १८ ॥ एतन्मिन्नेव काले तु हयमेधाय दीक्षितः ॥ तन्माद्यु प्रार्थयाञ्चाजग्दि सर्वं क्रमत्रयम् ॥ १९ ॥ एवमुक्तस्तमु देवेन बलिर्दैत्यगणाधिपः ॥ प्रददावुदकं तस्य पा॑च्यम्चंति चाब्रवीत ॥ २० ॥ अन्यच्च यदभीष्टन्ते तद्गृहाण द्विजात्तम ॥ प्रतिजग्राह च जलं


१ 'दानवातां स आददे' इति ख० । २ 'वामनं रूपम् आदाय' इति ख० । ३ 'क्षात्' इति क० । ४ 'सां पश्यंति' इति ख० !

प्रवावृधे तदा हरिः ॥ २१ ॥ उदङ्मुखैर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ॥ अक्रामंस्तु हरेर्लोकान्दानवाः शस्त्रपाणयः ॥ २२ ॥ अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः ॥ गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ २३ ॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ आखुदुर्दुरवक्त्राश्च घोर- वक्त्रमुखास्तथा ॥ २४ ॥ मार्जारशशवक्त्राश्च हंसकान्ताननास्तथा ॥ गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५ ॥ सिंहव्याघ्रशृगालानां द्वीपिनांनरपक्षिणाम् ॥ हस्त्यश्वगोखरोष्ट्राणां भुजगानां समानानाः ॥ २६॥ प्रतिगृह्णञ्जले प्राप्य व्यवर्धत तदा हरिः ॥ उदङ्मुखैर्दानवघोरैर्वीक्ष्यमाण इवाम्बुदः ॥ २७ ॥ विक्रमन्तं हरिं लोकान्दानवाः शस्त्रपाणयः ॥ मत्स्यकच्छपवक्त्राणां दुर्हगाणां समानानाः ॥ २८ ॥ स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ॥ पिङ्गेक्षणा विवृतास्या नानाबाहुशिरोधराः ॥ २९ ॥ स्थूलग्रानसाश्चिपिटा महाहुङ्कारपालिनः ॥ चीनांशुकोत्तरासंगाः केचित्कृष्णाजिनाम्बराः ॥ ३० ॥ भुजङ्गाभरणाश्चान्ये केचित्सुकुटसूपिताः ॥ ३१ ॥ सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१ ॥ धनुर्बाणधराश्चान्ये तथा तोमरपाणयः ॥ खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२ ॥ शतघ्नीचक्रहस्ताश्च गदामुशलपाणयः ॥ अश्मग्रन्थाद्युधोपेता भिण्डिपालयुधास्तथा ॥ ३३ ॥ शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४ ॥ क्रममाणं हृषीकेशमावृण्वन्त सर्वशः ॥ सं तान्ममर्द सर्वात्मा तनुसुखान्दैत्यदानवान् ॥ ३५ ॥ सरसीव महापह्रान्माहस्तीव दानवान् ॥ प्रमथ्य सर्वान्दैत्येयान्हस्तपादतलैस्ततः ॥३६ ॥ रूपं कृत्वा महाभीममाजहारोऽऽशु मेदिनीम्॥ तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७ ॥ परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ॥ ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८ ॥ ततोपि क्रममाणस्य पद्मा द्वै व्यवस्थितौ ॥ जित्वा स मेदिनीं कृत्स्त्रां हत्वा चासुरपुंगवान् ॥ ३९ ॥ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ स्वं रूपञ्च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४० ॥ श्रीभगवानुवाच ॥ यद्ब्रूहि त्वयिदत्तस्मिन्सत्यितामे महासुर ॥ मया निविष्टपादेन मापियंत्वं वसुन्धरा ॥ ४१ ॥ प्रथमं तु पदं जातं नौर्बन्धेयशिखरे मम ॥ द्वितीयं मरुशिखरे तृतीयं नाऽभवक्वचित् ॥ ४२ ॥ तन्मे वय दैत्येन्द्र यन्मयाप्तं प्रतिग्रहम्॥ बलिरुवाच ॥ यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३ ॥ तावती ते न संपूर्णा देवदेव क्रमत्रयम् ॥ न कृतं यत्त्वया देव कृतस्तन्मे महेश्वर ॥ ४४ ॥ न च तद्विद्यते देव तथैवाऽन्यस्य कस्यचित् ॥ श्रीभगवानुवाच ॥ न मे त्वयाप्रयुक्ते मे दानवेन्द्र यथाश्रुतम् ॥ ४५ ॥ दूतलं नाम पातालं वस


१ 'पिङ्गलाक्षा विवृताक्षा' इति ख० । २ 'महावृक्षप्रहरणा' इति ख० । ३ 'मतान्' इति ख० । ४ 'स्वञ्च रूपं समासाद्य' इति ख० । ५ 'तावती वसुधा पूर्णा' इति ख० ।

वि०ध० प्र० सं० अ० ५६

तत्र संशयः ॥ मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥ ज्ञातिभिः सह धर्मिष्ठैस्त्वं तत्र यथासुखमात्मवान् त्वं भोक्ष्यसे भोगान्विविधाञ्छुभा- न्सुदुर्लभान् ॥४७॥ अवाप्स्यसि तथा भोगाँल्लोकेष्विहविविधार्जितान् ॥ प्राक्कामायुक्तश्च तथा लोकेषु विहरिष्यसि ॥४८॥ मन्वन्तरे द्वितीये च महेंद्रत्वं करिष्यसि ॥ तेजसा च महीयेन शक्रेण योत्स्यसे बले ॥ ४९ ॥ तव शत्रुगणान्सर्वान्घातयिष्याम्यहं तदा ॥ ब्रह्मणस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ ५० ॥ तपस्वी दानशीलश्च वेदवेदांगपारगः ॥ तस्माच्छोभामिवृद्ध्यर्थं मया त्वमभिसंन्वितः ॥ ५१ ॥ देवराज्याधिका- न्भोगान्पातालस्यापि भोक्ष्यसे ॥ सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ ५२॥ मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि ॥ शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिफोदन्तरे ॥ ५३ ॥ सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ॥५४॥ शङ्कर उवाच ॥ इत्येवमुक्त्वा सजलम्बुदामः प्रततचामी- करधौतवस्त्रः ॥ अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ ५५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शंकरगीतासु वामन प्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ राम उवाच ॥ तस्य देवातिदेवस्य विष्णोरमिततेजसः ॥ त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ १ ॥ शङ्कर उवाच ॥ न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः ॥ प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ॥२॥ सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः ॥ वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ ३ ॥ दिशश्च विदिशाश्चापि तथा ये च दिगीश्वराः ॥ आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ ४ ॥ साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च ॥ अश्विनौ गुह्यकश्चैव गन्धर्वाप्सरसां गणाः ॥ ५ ॥ पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव ॥ तिर्यङ्मनुष्यदेवाश्च निर्लिङ्गे यच्च नेङ्गत ॥ ६ ॥ नभश्चानल महाभाग प्रकृतिर्विकृतिश्च वः ॥ कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ ७ ॥ विद्याधरास्तथा यक्षा नागाः सर्पाः सकिंन्नराः ॥ राक्षसाश्च पिशाचाश्च पितरः कालसंयमः ॥ ८ ॥ धर्माथकाममोक्षाश्च धर्मद्वाराणि यानि च ॥ यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ ९॥ जगदण्डान्डजान्येव संप्रवृद्धमथाण्डिजम् ॥ एकाशीति- स महतां वसूनां स च पावकः॥१०॥ अहिश्चैव्यश्च रुद्राणां नाँदेवां विनियोनया ॥ नागराद्यश्च साध्यानां सुप्राण्यज्य तथा क्रतुः ॥ ११ ॥ आदित्यानां तथा विष्णुराशुरिंद्रासां तथा ॥ विश्वेषाञ्चेव देवानां गन्धर्वानां मकीर्तितः ॥१२॥ वासवः नवदानानां ज्योतिषां च हुताशनः ॥ यमः संयमश्रीं भर्ता विरूपाक्षः क्षमाष्टताम् ॥ १३ ॥ यादसां वरुणश्चैव पवनः पुवतां तथा ॥ धनाध्यक्षश्च यक्षाणां रुद्रा रुद्रन्तधान्नरः ॥ १४ ॥ अनन्तः सर्पतानां

॥ ३३॥


^१ 'भूयः कथयतः कथयम्' इति ख० । २ 'संहारे च तत्परस्तथा इति ...

गानां सूर्यस्तेजस्विनां तथा ॥ ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका ॥ १६ ॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ॥ कल्पं मन्व न्तरैशाश्च मनवश्च चतुर्दश ॥ १७ ॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ॥ संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥ मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ॥ शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥१८॥ कारणानां वधः प्रोक्तो गुरुर्हन्तां तथाऽसिमर्जित् ॥ पातालानां सुतलञ्च समुद्राणां पयोदधिः ॥ १९ ॥ जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ॥ मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २० ॥ हिमालयः स्थावराणां जाह्नवी सरितां तथा ॥ पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१ ॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥ ऋषीणाञ्च भृगुर्देवो देवर्षीणां च नारदः ॥ २२॥ तथा ब्रह्मर्षीणाञ्च अंगिराः परिकीर्तितः ॥ विद्याधराणां सर्व्वेषो देवोऽह्वोगन्दस्तथा ॥२३॥ कुंबरः किन्नराणां च सर्पाणामथ वासुकिः ॥ प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४ ॥ उच्चैःश्रवमश्वानां धेनूनां चैव कामधुक् ॥ ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५ ॥ आयुधानां तथा वज्रो नराणाञ्च नराधिपः ॥ क्षमा क्षमावतां द्वेवो ह्यद्भुईन्दिनतमपि ॥ २६ ॥ धर्मो विरुद्धः कामश्च तथा धर्मभृतां नृणाम् ॥ धर्म्मो धर्म्मभृतां दैवस्तपस्विनामास् ॥२७॥ यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ॥ वेदानां साम वेदश्च अंशुनां ज्योतिषां पतिः ॥ २८॥ गायत्री सर्व्वमंत्राणां वाचः प्रवदतां तथा ॥ अक्षराणामकारश्च वृन्त्राणाञ्च तथा धनुः॥२९॥ अध्यात्मविद्या विद्यानां कवीनामुशना कविः ॥ चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३० ॥ ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ॥ कीर्त्तिः श्रीर्वा क् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१ ॥ आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ॥ स्कन्दः सेनाप्रणेतृणां सङ्घश्च द्या वताम ॥ ३२ ॥ जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ॥ अश्वत्थः सर्ववृक्षाणामपिर्षीनां तथा यवः ॥ ३३ ॥ मृत्युः स एव प्रिपतामुद्भवश्च भविष्यताम् ॥ झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४ ॥ मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ॥ धृतिर्भूमी रसस्तेजस्तेजश्चैव हुताशने ॥ ३५ ॥ वायुः स्पृशिणूनां च खञ्च शब्दगुणस्तथा ॥ एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६ ॥ एकांशेन भृगुश्रेष्ठ तस्यांशतितयं दिवि ॥ देवांश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव ॥ ३७॥ चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज ॥ ज्ञाता ज्ञेयतया ध्याता ध्येयश्चासो जनार्दनः ॥ ३८ ॥ यत्नो यथा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ॥ अन्नमन्नाद एवोक्तः


१ 'पयोनिधिः' इति ख० । २ 'स्रोतसाम्' इति ख० । ३ 'धर्म्मोविरुद्धकामश्च तथा काम्यमनां नृणाम्' इति ख० । ४ 'पश्यामि' इति ख० । ५ 'ज्ञाता ज्ञेयं तथा ज्ञानं त्रयं चोक्तो जनार्दनः' इति ख० ।

स एव च गुणत्रयम् ॥ ३९ ॥ गामाविश्य च भूतानि धारयत्योजसा विभुः ॥ पुष्णामि चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४० ॥ प्राणिनां जठरस्थोऽग्निसूर्यरूपाच्चौ स भार्गव ॥ चेष्टाकृत्प्राणिनां ब्रह्मन्त्स च बाह्यः शरीरगः ॥ ४१ ॥ यथादित्यगते तेजो जगद्भासयतेऽखिलम् ॥ यच्च न्दुर्मास यच्चाग्नौ तत्तेजस्त्वं कीर्तितम् ॥ ४२ ॥ सर्वस्य चाऽसौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनञ्च ॥ सर्वैश्च वेदैश्च स एव वन्द्यो वेदा न्तकृद्वेदकृदेव चाऽसौ ॥ ४३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु १विष्णोर्वर्त्तनं नाम षट्पञ्चाशत्तमो ऽध्यायः ॥ ५६ ॥ ॥ छ ॥ ॥ राम उवाच ॥ आगच्छते स भगवाञ्कर्मणा येन शङ्कर ॥ तन्ममाचक्ष्व भगवन्सर्वसत्त्वसुखप्रदम् ॥ १ ॥ ॥ शङ्कर उवाच ॥ साधु राम महाभाग साधु दानवनाशन ॥ यन्मां पृच्छसि धर्मज्ञ केशवागमनं प्रति ॥ २ ॥ दिवसं दिवसाधं वा मुहूर्त्तमेक मेव वा ॥ नाशाशाऽशेषपापस्य भक्तिर्भवति केशवे ॥ ३ ॥ अनेकजन्मसाहस्रैर्नानायोनिचरैर्नृपु च ॥ जन्तोः कल्पमहीतस्य भक्तिर्भवति केशवे ॥ ॥ ४ ॥ नाऽधन्यः केशवं स्तौति नाऽधन्योऽर्चयति प्रभुम् ॥ नमत्यधन्यश्च हरिं नाऽधन्यो वेत्ति माधवम् ॥ ५ ॥ मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्त्तते ॥ सा बुद्धिरुद्गतायैव सततं प्रतितिष्ठति ॥ ६ ॥ सा वाणी केशवं देवं या स्तौति भृगुनन्दन ॥ श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ ७ ॥ अवहि धर्मज्ञ तया तत्पूजकगुणात्मकौ ॥ तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ ८ ॥ गतो मुख्यफला वातो करणं सम्प्रयोजनम् ॥ मनसा तेन किं कार्यं यत्र तिष्ठति केशवः ॥ ९ ॥ बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् ॥ गगः सा र सना वाऽपि यथा न स्तूयते हरिः ॥ १० ॥ गतौ गतवतो कणौ याभ्यां तत्कर्म न श्रुतम् ॥ भार्गवेन्द्रः कैः कार्य कि तस्य नृपशोऽञ्ज ॥ ११ ॥ येन संपूजितो देवः शङ्खचक्रगदाधरः ॥ पादौ तौ सफलौ गम केशवालयागामिनौ ॥ १२ ॥ ते न नृत्र महाभाग याभ्यां संदृश्यते हरिः ॥ किं तस्य चरणैः कार्यं कृतस्य निपुणोऽद्य ॥ १३ ॥ याभ्यां न व्रजते जन्तुः केशवालयदर्शने ॥ जान्त्वन्यतुल्यौ ते मन्ये पुरुपं पुरुषाधमम् ॥ १२ ॥ यो न पश्यति धर्मज्ञ केशवार्चा पुनःपुनः ॥ कलशमंजननं कर्म वृथा तद्मृगुनन्दन ॥ १५ ॥ केशवं प्रति बद्ध्वाम क्रियतेऽद्यति मवेद्वा ॥ पूज्य केशवशमारातथ मोदमानं शचीपतिम् ॥ १६ ॥ यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् ॥ देवेन्द्रत्वनिमित्तेति नृपत्वनिमित्तं पदम् ॥ १७ ॥ हरिर्भक्तिमुतान्पुष्यं गज्जसात्मार्विकं फलम् ॥ अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ १८ ॥ ईशित्वञ्च वशित्वञ्च यत्र कामावसा


१ 'वर्त्तीरणं' इति ख० । २ 'तस्य' इति घ० । ३ 'तत्कथाऽम्वृक्षं' इति ख० । ४ 'कर्म दुर्दर्शन्मनं वदत' इति ख० ।

... यिता ॥ आराध्य केशवं देवं प्राप्यन्ते नाऽत्र संशयः ॥ १९ ॥ हतप्रत्यर्थिमातङ्गो रुधिराप्लुतभूतले ॥ संग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ ॥ २० ॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः ॥ अकलङ्कशशाङ्काभा वदना नीलमूर्धजाः ॥ २१ ॥ गम्यन्ति नरं स्वर्गे देवरामा मनोहराः ॥ सकृदर्चितो देवो हेलया वा नमस्कृतः ॥ २२ ॥ वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम् ॥ कुपितमपि धर्मेण विज्ञेयं तत्प्रसादजम् ॥ २३ ॥ रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ॥ अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४ ॥ रत्नपर्यङ्कशायिनो महाभोगाश्च भोगिनः ॥ वीज्यन्ते सह रामाभिः केशवस्मरणदपि ॥ २५ ॥ सौगान्धिके वने रम्ये कैलासपर्वते द्विज ॥ यदृच्छा विहरन्तिस्म तत्याहुः कुसुमं नराः ॥ २६ ॥ रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ॥ क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७ ॥ चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ॥ धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८ ॥ तस्मात्तवाऽहं वक्ष्यामि यद्यदा चरतः सदा ॥ पुरुषस्येह भगवान्सुतोषस्तुष्यते हरिः ॥ २९ ॥ पूज्यः स नित्यं वरदो महात्मा स्तव्यः स नित्यं जगदेकवन्द्यः ॥ ध्येयः स नित्यं सकलापहर्ता चैवानुकम्प्यं तव राम गुह्यम् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्कर गीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ ॥ शङ्कर उवाच ॥ अहिंसा सत्यवचनं दया भूतेष्वनुग्रहम् ॥ इत्येतानि सदा राम तस्य तुष्यन्ति केशवः ॥ १ ॥ मातापितृगुरूणाञ्च यः सम्यगिह वर्त्तते ॥ वर्जको मधुमांसस्य तस्य तुष्यति केशवः ॥ २ ॥ वराहमत्स्यमांसानि यो नात्ति भृगुनन्दन ॥ विरतो मद्यपानाच्च तस्य तुष्यति केशवः ॥ ३ ॥ न धारयति निर्माल्यमन्यदेवोद्भूतं तु यः ॥ भुंक्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः ॥ ४ ॥ अवैष्णवे देवभृतं निर्माल्यं यः प्रयच्छति ॥ नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥ ५ ॥ विभर्ति मूर्ध्नि निर्माल्यं केशवार्चोद्भूतं तु यः॥ अनिन्द्य न चाश्नाति तस्य तुष्यति केशवः ॥ ६॥ परपीड़ाकरं कर्म यस्य नास्ति महात्मनः॥ संविभागी च भूतानां तस्य तुष्यति केशवः ॥ ७ ॥ शृणुते सर्वधर्मांश्च सर्वान्देवान्नमस्यति ॥ अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ॥ ८ ॥ तीर्थोपवाससेवी च द्विजातिगणसेवकः ॥ पूजको विष्णुभक्तानां तस्य तुष्यति केशवः ॥ ९ ॥ पञ्चरात्रविदो मुख्यांस्तु संपूजयेत्सदा ॥ देववद्ब्राह्मणशार्दूल तस्य तुष्यति केशवः ॥ १० ॥ पितृदेवार्चनरतः स्वदारनिरतः सदा ॥ ऋतुकालाभिगामी च तस्य तुष्यति केशवः ॥ ११॥ नाम्नां सहस्रेण तथा यश्च


१ 'कैलासविखरे द्विज' इति ख० । २ 'क्रीडन्ति च सहस्राणि गन्धर्व्वैःसत्कथाश्रुतेः' इति ख० । ३ 'भक्तानाम्' इति ख० । ४ 'पञ्चरात्रविधानेन यो विष्णुं पूजयेत्सदा' इति ख० ।

गायति तन्मनाः ॥ सततं कल्यमुत्थाय तस्य तुष्यति केशवः ॥ १२॥ पौरुषेण च सूक्तेन जपहोमादिकं सदा॥ यः करोत्यमितप्रज्ञस्तस्य तुष्यति केशवः ॥ १३ ॥ मित्रस्वामिगुरुद्रोहो यस्य नाऽस्ति महात्मनः ॥ परदाररतेच्छा न तस्य तुष्यति केशवः ॥ १४ ॥ गजा शाखोपदेशेन राज्यं यश्च प्रशास्ति ॥ राजधर्मरतिर्नित्यं तस्य तुष्यति केशवः॥ १५॥ या तु नारी पतिप्राणा पतिभक्ता पतिव्रता ॥ तस्याः सुतोषो भगवांस्तोपयामायाति केशवः॥ १६॥ अग्निहोत्रपरो विद्वान्यज्ञैर्नित्यमतन्द्रितः ॥ यस्तु तर्पयते देवांस्तस्य तुष्यति केशवः॥ १७॥ स्ववर्णधर्मस्थः पूजयन्मधुसूदनम् ॥ कालं नयति यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ १८॥ सोपवासस्तु पक्षान्ते द्वादश्यां वा भुङ्क्तम् ॥ वोधयति श्रवणैर्वा वा ततोयायान्तु वा पुनः ॥ सोपवासोऽर्चयति यस्तस्य तुष्यति केशवः ॥ १९ ॥ पुष्पं विना हरिं प्राप्य फलं रत्नं क्षुमां पि वा ॥ निवेदयति यः कृष्णे तस्य तुष्यति केशवः॥२०॥ कृष्णे पश्यति यत्सर्वं कृष्णं सर्वत्र पश्यति ॥ महात्मा बुद्धिसम्पन्नस्तस्य तुष्यति केशवः ॥ २१ ॥ तत्कथायाञ्च रमते तत्कथां यः करोति च ॥ तन्मनास्तद्गतप्राणस्तस्य तुष्यति केशवः ॥२२॥ सर्वभूतहिते युक्तः सर्वभूतहिते रतः ॥ सर्वभूतानुकम्पी च तस्य तुष्यति केशवः ॥ २३ ॥ अप्रणम्य क्रियां काञ्चित्तु नाऽऽरभते हरिम् ॥ असन्निधायशार्ङ्गस्य तुष्यति केशवः ॥ २४ ॥ नामसंकीर्तनं नित्यं श्रुत पुस्तकलनादिषु ॥ यः करोति महाभागस्तस्य तुष्यति केशवः ॥ २५ ॥ नैवं पत्रं फलं पुष्पं निवेद्य मधुसूदने ॥ पश्चाद्भुङ्क्ते स्वयं यश्च तस्य तुष्यति केशवः ॥ २६ आद्यपि च कपट्यां देवशपार्थं नरः ॥ न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ २७॥ द्वादश्यामुद्धृत्य निर्माल्यं छायां नाक्रामते च यः ॥ धूपानग्निभस्म च तथा तस्य तुष्यति केशवः ॥२८॥ दृष्ट्वा सम्पूजितामर्चां यश्च भक्त्याभिनन्दति ॥ मर्च्यं मंजर्जयेद्यन्तु तस्य तुष्यति केशवः ॥ २९ ॥ नित्यं संपूजयेद्यस्तु देवदेवञ्च भक्तितः ॥ यथाशक्त्या महाभाग तस्य तुष्यति केशवः ॥ ३० ॥ न गम विवि धैर्दानैर्न रत्नधनसञ्चयैः ॥ तोषमायाति देवेशो भक्त्या तुष्यति केशवः ॥ ३१ ॥ दानेसुयैश्च बहुप्रकारैर्गोभिर्वाप्यवामव्रतदर्शनैश्च ॥ तथा न तोपं भगवान्ययाति भक्त्या यथा तद्गतमानसानाम् ॥ ३२ ॥ एतावदुक्तं तव गूढं न देयमेतद्भुवि मत्स्यगाणाम् ॥ न तर्कशास्त्रानुकुलमानसानां नाऽवैष्णवानां न च नास्तिकानाम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भक्तिलक्षणो नामाष्टपञ्चाशत्त मोऽध्यायः ॥ ५८ ॥ श्रीराम उवाच ॥ उपांगिनेत् यंनेद्यं यंयं कोयं प्रयच्छति ॥ तदहं श्रोतुमिच्छामि गदन्तम् वृषभध्वज ॥ १ ॥ शंकर उवाच॥


१ 'पठताञ्चवेच्छा च' इति ख० । २ 'देव्यं' इति ख० । ३ 'नाम मन्त्रम् ' इति क० । ४ 'मेधयति' वा 'इति ग० ।

पूजितः प्रयतः स्वान्तैः सोपवासैर्दिने रवेः॥ संवत्सरं महाभाग दीर्घमायुः प्रयच्छति ॥ २ ॥ सोमवारे महाभाग चारोग्यं संप्रयच्छति ॥ तथा भौमदिने राम वैश्वर्यं संप्रयच्छति ॥ ३ ॥ वासरे सोमपुत्रस्य सर्वान्कामान्प्रयच्छति ॥ अभीष्टांश्च तथा विद्यामाखण्डलगुरोर्दिने ॥ ४ ॥ सौभाग्यमतुलं लोके भार्गवार्हि प्रयच्छति ॥ तथा शनैश्चरस्याहि रिपून्र्सवान्व्यपोहति ॥ ५ ॥ कृत्तिकासु तथाऽभ्यर्च्य यज्ञानाप्नोत्यनुत्तमान् ॥ प्राजापत्ये तथाऽभ्यर्च्य प्रजां प्राप्नोति शोभनाम् ॥ ६ ॥ विन्दते ब्रह्मवर्चस्यं मृगशीर्षेऽर्चयन्हरिम् ॥ रौद्रकर्म त्वमाप्नोति सिद्धिं रौद्रे समर्चयन् ॥ ७ ॥ च्युतः स्थानमवाप्नोति पूजयानः पुनर्वसौ ॥ पुष्ये संपूजितो देवः पुष्टिंमग्र्यां प्रयच्छति ॥८॥ आश्लेषा यां तथोऽभ्यर्च्य श्रियं विन्दति मानवः ॥ पितृप्रसादमाप्नोति पित्र्ये संपूजयन्हरिम् ॥ ९ ॥ सौभाग्यं महदाप्नोति फाल्गुनीष्वर्चयंस्तथा ॥ तथैव चोत्तरायोगे गतिं विन्दति शोभनाम् ॥ १० ॥ १ हस्ते संपूजयन्देवं गजान्प्राप्नोत्यनुत्तमान् ॥ चित्रासु च तथाऽभ्यर्च्य वस्त्राण्याप्नोति मानवः ॥ ११ ॥ आध्ये समर्चयन्देवं रत्नभागी भवेन्नरः ॥ तथोत्तरास्वाषाढासु कीर्तिं प्राप्नोति शाश्वतीम् ॥ १२ ॥ सर्वान्कामानवाप्नोति श्रवणेऽभ्यर्चयन्हरिम् ॥ धनिष्ठासु तथा वित्तमारोग्यं वारुणे तथा ॥ १३ ॥ आजे पशूनवाप्नोति गावश्च तदनन्तरम् ॥ पौष्णे शीलमवाप्नोति चाश्वन्याम्रोति चाऽश्विनौ ॥ १४ ॥ दीर्घं जीवितमाप्नोति भरणीषु महाभुज ॥ प्रतिपद्यर्चयन्प्राप्नोति रूपं प्राप्नोत्यनुत्तमम् ॥ १५ ॥ सर्वान्कामान् वाप्नोति तृतीयायां समर्चयन् ॥ पञ्चैश्चतुर्थ्यामाप्नोति पञ्चम्यां श्रियमुत्तमाम् ॥ १६ ॥ षष्ठ्यां प्राप्नोत्यथाऽऽरोग्यं सप्तम्यां सुहृदस्तथा ॥ अष्टम्यां च तथा भृत्यान्नवम्यां च तथा यशः ॥ १७ ॥ कर्मसिद्धिमवाप्नोति दशम्यां पूजयन्हरिम् ॥ एकादश्यां प्रजायन्तः श्रीमान्ही स सदा भवेत् ॥ १८ ॥ अभीष्टां गतिमाप्नोति द्वादश्यां पूजयन्हरिम् ॥ त्रयोदश्यां पूजयानो रूपं प्राप्नोत्यनुत्तमम् ॥ १९ ॥ न दुर्गतिमवाप्नोति पूजयानश्चतुर्दशीम् ॥ सर्वान्कामानवाप्नोति पञ्चदश्यां महामुने ॥ २० ॥ इत्येतदुक्तं तव मानवानां काम्यं फलं सम्पुषुपोषितानाम् ॥ देवेश्वरं पूजयतां यथावत्परं पुराणं पुरुषं वरेण्यम् ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीशंकरगीतार्तूपवासफलो नामकोनषष्टितमोऽध्यायः ॥ ५९ ॥ राम उवाच ॥ उपवासाससमर्थानां किं स्यादेकसुपोषितम् ॥ महाफलं महादेवं तत्समाचक्ष्व पृच्छतः ॥ १ ॥


१ 'समभ्यर्च्य' इति ख० । २ 'हस्त्य्' इति ख० । ३ 'हस्ते संपूजयन्देवं राज्यं प्राप्नोत्यनुत्तमम्' इति ख० । ४ 'महानयन्' इति ख० । ५ 'प्राप्नोत्यनन्तरम्' इति ख० । ६ 'तथा मुने' इति ख० ।

बि० घं० ॥३६॥

प्र० खं० अ० ६० ॥३६॥

॥ शङ्कर उवाच ॥ या राम श्रवणोपेता द्वादशी महती च सा ॥ तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् ॥ २ ॥ प्राप्नोत्ययत्नतो धर्मं द्वाद- शद्वादशीफलम् ॥ दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ॥ ३ ॥ वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ॥ न दुर्गतिमवाप्नोति गतिमन्याञ्च विन्दति ॥ ४ ॥ अक्षय्यं स्थानमाप्नोति नाऽत्र कार्या विचारणा ॥ श्रवणाद्वादशीयोगे दुर्भगे भविताहि ॥ ५ ॥ अत्यन्तं महती नाम द्वादशी सा प्रकीर्तिता ॥ स्नानं जप्यं तथा दानं होमं श्राद्धं सुरार्चनम् ॥ ६ ॥ सर्वमक्षय्यमाप्नोति तस्य भृगुकुलोद्वह ॥ तस्मिन्दिने तथा स्नातो यत्र क्वचन संगमे ॥ ७ ॥ स क्रतुस्नानजं पुण्यं फलमाप्नोत्यसंशयम् ॥ श्रवणे मणमाः सर्वे फलपुष्पप्रदाः सदा ॥ ८ ॥ विशेषाद्भाद्रपूर्णिर्युक् इत्युक्तं विशेषतः ॥ यथैव द्वादशी प्रोक्ता बुधश्रवणसंयुता ॥ ९ ॥ तृतीया च तथा ज्ञेया पूर्वकल्पसमन्विता ॥ यथा तृतीया वर्मना तथा पञ्चदशी शुभा ॥ १० ॥ त्र्यहःस्पृशोऽपि दिवसे चोपवासे महाफलः ॥ केशवस्यार्चने राम दानजप्यादिकेषु च ॥ ११ ॥ गम उवाच ॥ त्र्यहःस्पृक्त्वम् कीदृक्कदा भवति वा प्रभो ॥ तस्य मे संशयं ब्रूहि देवदेव वृषध्वज ॥ १२ ॥ शंकर उवाच ॥ दिवा विनिर्गता यत्र व्यतीता स्यात्तिथिर्द्विजः ॥ रात्रि शेषे तथोवेक्ष्य भविष्या स्पृशती तिथिः ॥ १३ ॥ तिथिस्त्रितयसंस्पर्शादहोरात्रे भुमुक्तम ॥ त्र्यहस्पृक्त्वं विनिर्दिष्टः पुण्यः परमपावनः ॥ १४ ॥ तत्रोपोग्य शिरःस्नातैः कर्तव्यं देवतार्चनम् ॥ जपं होमं तथा दानं काम्यमिष्टमिमन्तथा ॥ १५ ॥ कर्मणां परिणामानामक्षय्यं हि तद्ध्रुवम् ॥ भोज्यं त्रिपुरं गम ब्राह्मणांस्तत्र भोजयेत ॥ १६॥ महत्पुण्यां भवन्त्येका पौर्णमासी द्विजोत्तम ॥ प्रतिपद्वन्धसं तस्यां नोपवासो जताऽनृजः ॥ १७॥ यः पूजयति धर्मेण तेन संवत्सरी हरिः ॥ पूजितः पौर्णमासीषु भवतीति ह निश्चयः ॥ १८ ॥ तस्यां कृतं स्वल्पमपि महत्भवति भार्गव ॥ कुर्या जप्यं ततो होमो यच्चान्यत्सुकृतं भवेत् ॥ १९ ॥ गम उवाच ॥ मत्वन्मे पौर्णमासी महत्त्वपूर्वा वृषध्वज ॥ कथं जया जगन्नाथ तन्मम वदत्व पृच्छतः ॥ २० ॥ शंकर उवाच ॥ यस्यां पूर्णेन्दुना योगं यायाज्जीवो महाबलः ॥ पौर्णमासी तु सा ज्ञेया महत्पूर्वा द्विजोत्तम ॥ २१ ॥ आदित्यग्रहणे गम ग्रहेण वा निशाभूतः ॥ उपवासाद्भवेत्प्रीति मर्किक्लिस्वतनागतम् ॥ २२ ॥ स्नानं दानं तथा जप्यं वा क्षय्यं परिकीर्तितम् ॥ श्राद्धञ्च भार्गवेन्द्रष्ट वह्निंसंपुजनं तथा ॥ २३ ॥ गम उवाच ॥ नक्षत्रं द्व्यृडवण तिथिकृत्यात्र विनिर्गताम् ॥ दृष्टा यथावत्कर्तव्यं तिथि शङ्कर जानता ॥ २४ ॥ शङ्कर उवाच ॥ मा तिथिनन्दनांगरात्रं अन्यमसिवादिना गवः ॥ तथा कर्माणि कुर्वीत दानवृद्धिरि-


१ 'सर्वतीर्थस्नानजं नाम' इति व० । २ 'परं पुष्टिमता' इने व० । ३ 'स्मृता' इति व० । ४ 'यथा' इति व० । ५ 'नेष्टा' इति व०

कारणं ॥२६॥ शुक्लपक्षे तिथिर्ज्ञेया यस्यामभ्युदितो रविः ॥ उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ॥ २६ ॥ यश्च वा युज्यते राम निशीथे शशिना सह ॥२७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासूपवासविधिर्नाम षष्टितमोऽध्यायः॥६०॥ राम उवाच ॥ तस्य मायाशरीरस्य विष्णोरिमिततेजसः ॥ प्राप्नुवन्ति कथं स्थानं नित्यमक्षय्यमव्ययम् ॥ १ ॥ शङ्कर उवाच ॥ अखण्डकारिणो राम विष्णोरमिततेजसः ॥ प्राप्नुवन्ति परं स्थानं नित्यमक्षय्यमव्ययम् ॥ २ ॥ राम उवाच ॥ अखण्डकारी भवति भगवन्कथं भवति शङ्कर ॥ एतन्मे संशयं ब्रूहि देवदेव वृषध्वज ॥ ३ ॥ शङ्कर उवाच ॥ पञ्चकालविधानज्ञस्तत्कर्मकरणे रतः ॥ अखण्डकारी भवति राम दानवनाशन ॥ ४ ॥ राम उवाच ॥ भगवन्पूज्य के कालाः कथं तेषां तथा विधिः ॥ एतन्मे देवदेवेश कौतूहलमुपावृदु ॥ ५ ॥ शङ्कर उवाच ॥ रामाभिगमनं पूर्वमुपादानमतः परम् ॥ इज्यास्वाध्यायकालौ च योगकालस्तथैव च ॥६॥ तेषां प्रत्येकशो वक्ष्ये विधिं ते भृगुनन्दन ॥ तन्निबोध महाभाग प्रयतेनान्तरात्मना ॥ ७॥ राम कल्पे समुत्थाय दन्तधावनपूर्वकम् ॥ स्नानं कृत्वा यथाशास्त्रं स्वाचान्तः सुसमाहितः ॥ ८ ॥ यश्चैव भगवन्मन्त्रं पठन्द्वैगृहं विशेत् ॥ प्रविश्याङ्गाम जानुभ्यां पाणिभ्यां शिरसा तथा ॥ ९ ॥ ॐकारं सनमस्कारं प्रयुज्य सुसमाहितः ॥ योगकालं तु सन्दध्याद्पाद्यादनन्तरम्॥ १०॥ रामाभिगमकालं तु तत्र मन्त्रं तथापयेत्॥ भगवतो बलेनेति वीर्येणैतेन तेजसा॥ ११॥ शुभकीर्तिततेजोयेन वेदिं प्रक्षालयेद्बुधः ॥ सौवर्णीं राजतीं ताम्रीं मृण्मयीमायसीं तथा॥ १२ ॥ शालिलां चन्दनजां वापि देवदारुमयामथा॥ शिंशापाक्षोटसरलकदम्बार्जुनजामथा॥ ॥ १३॥ साल्वाश्वकर्णजां राम स्वायोमेन तथैव च ॥ वामप्रवाणां प्रक्षाल्य पूर्णकुम्भांश्चावस्ततः॥ १४॥ कल्पनीयास्तु कलशाश्चत्वारो भृगुनन्दन॥ सौवर्णा राजतास्ताम्रा अथवापि ह रीतियाः॥ १५॥पाद्याचमनीयं च त्वर्घ्यं स्नानीयमेव च ॥ पाद्यात्पाद्यं तु दातव्यं स्नानीयात्स्नानमेव च॥ १६॥ तथाप्याचमनीयाद्धेयाचामनं भवेत् ॥दानं प्रणयनं प्रीतिविसर्गं विस्तरं तथा ॥ १७॥ तर्पणं चार्हणं चैव त्वर्घ्यादेतानि कारयेत् ॥ द्वादशाक्षरकं मन्त्रं ततो जप्त्वा समाहितः ॥ १८ ॥ ततः पवित्रमन्त्रेण वेदिमभ्युक्षयेद्विज ॥ आत्मानं च तथा भोगान्कुर्यान्यंग्राम्बुतयं ततः॥ १९॥ विद्या ज्ञानं ततः कर्म ब्रह्मचक्रं तथैव च ॥ मार्गेणञ्च कर्तव्यं नामाच्येकलशान्सदा ॥ २० ॥ पाणिमार्गं कूर्ममार्गं मधुमार्गं तथैव च ॥ उशीरमूलजं कूर्चं जीव गोपालसम्भवम् ॥२१॥ जीवश्च मरणं चापि कर्तव्यं भृगुनन्दन ॥ प्रतिस्नानं ततः कार्यं समानांनां क्रमाद्द्रवेत् ॥ २२ ॥ तथैव पादपीठानां प्रभवेन


१ 'अक्षमं' इति ख० । २ 'प्रत्यक्षतो' इति ख० । ३ 'महाबाहु' इति ख० । ४ इत आरम्य सार्धः श्लोकः बहुपुस्तके नास्ति । ५ ' आयासे ब' इति ख० । ६ ' समासानाम्' इति ख० । ७

पृ० सं० अ० ६२

वि० ध० ॥ ३७ ॥

महाभुज ॥ आसनान्यथ कार्याणि रत्नचित्राणि भार्गव ॥ २३ ॥ सौवर्णान्यथ रौप्याणि ताम्रशैलमयानि च ॥ ततस्सर्वाह्नं कार्यं ततोऽग्निगमनं ततः ॥ २४ ॥ नमस्कारस्ततः कार्यः प्रणीतेन १ ततः पुनः ॥ ब्रह्मकर्मान्नौ मन्त्रं प्रश्वेतापि येन च। रक्षेत् ततो जन्त्वा महाभाग प्रणवेन निवेदयेत् ॥ आसनेऽर्चयेद्देवं ततः प्रयतमानसः ॥ २५ ॥ अर्ध्याभिरुद्भिरेव ततो भोगैः सर्वैरनन्तरम् ॥ पद्मश्रितियेत्याथ पाद्याभिर्ध्याप्यनन्तरम् ॥ ॥ २६ ॥ पादुकाभिस्ततो राम देवदेवं समर्पयेत् ॥ ततस्त्वाचमनीयंार्थ देवदेवमतिष्ठमर् ॥ २७ ॥ देवमाचमनीयञ्च पाद्योष्ठामृतमेव च २ ॥ दन्तकाष्ठं ततो दद्याज्जिह्वानिर्लेखनं ततः ॥ २८ ॥ गण्डूषणं ततो दद्यान्मुखप्रक्षालनं तथा ॥ भूयस्त्वाचमनं देयं तर्पणं चाप्यनन्तरम् ॥ २९ ॥ पुष्पं दीपमलङ्कारं धूपमकरमेव च ॥ निवेद्य विधिवत्सर्वं ततः पश्चान्निवेदयेत् ॥ ३० ॥ सेन्त्यानि राम बीजानि त्वेणीवीयं ततः पुनः ॥ मधुपर्कं ततो दद्याद्दधि सर्पिस्तथा मधु ॥ ३१ ॥ दध्यलाभे पयः कार्यं मध्वलाभे तथा गुडम् ॥ घृतप्रतिनिधिर्नास्ति तत्र यत्नस्तमभ्यवेत् ॥ ३२ ॥ एकोगो वा समस्तो वा मधुपर्को विधीयते ॥ व्यंगं वर्ज्यं प्रयत्नेन नित्यमेव विजानता ॥ ३३ ॥ दर्पणे ३ तु ततो दद्यात्ततो निर्माल्यनं बुधः ॥ ततस्त्वाचमनीयं च विधिवत्सुसमाहितः ॥ ३४ ॥ हस्तनिर्पुञ्छनार्थाय ५ ततो दद्यात् गंधकम् ॥ ततः पशुं बुधः कुर्याद्ध्यानमन्त्राधुपाक्तिकम् ६ ॥ ३५ ॥ मायुपाक्तिकमभ्यर्च्य व विनिर्वदयेत् ॥ घृतावक्षं ततो दद्यात्ताम्बूलाञ्चायनन्तरम् ॥ ३६ ॥ मात्राश्च दक्षिणार्थाय ब्राह्मणाय निवेदयेत् ॥ मंगलानि यथाशक्त्या ततो देवे निवेदयेत् ॥ ३७ ॥ ततोऽभिगमकाल्तु ४ सर्वव्याप्तपुरोत्तमो ॥ उपादानमथो दद्यात्कुर्याच्चैव विसर्जनम् ॥ ३८ ॥ ततोऽग्निश्शरणं गत्वा वह्नि संतर्पयेद्बुधः ॥ ब्राह्मणानां यथाशक्ति दानं दद्यादनन्तरम् ॥ ३९ ॥ एतन्मया ते कथितं समग्रं यथातथुर्व्याभिगममस्य कालम् ॥ गच्छेदुपादानकृतप्रयत्नस्ततो यथावद्गुणुवंशचन्द्र ॥ ४० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्खशीतास्त्वभिगमकालो नामैकषष्टितमोऽध्यायः ॥ ६१ ॥ ॥ शङ्क उवाच ॥ भोगानामर्जनं कार्यं ततो राम स्वकर्मणा ॥ स्थिराणामस्थिराणां च यथावच्छ्रणुन्दन ॥ १ ॥ आसनाद्यास्तु ये भोगाः कालनाय्याविनाशिनः ॥ स्थिरांन्त गम निर्दिश्य परिगृह्णास्तथा चगः ॥ २ ॥ पुष्पं पत्रं फलं मूलं तथा हरितकं शुभम् ॥ उदकं चार्चनीयं म्यात्संन्निधेहनि भार्गव ॥ ३ ॥ उपादानाय निष्क्रान्ते कुर्द्धम्वित्य सत्वरम् ॥


१ 'प्रणते च' इति क० 'प्रणतश्च' इति ख० ।
२ 'देवमाचमतोयार्थं पाद्यमोटासथैव च' इति क०, ख० ।
३ 'दृष्टम्' इति ख० ।
४ 'ततो' इति ख० ।
५ 'हस्तनिपुञ्जन' भार्थीयम्' इति क० ।
६ 'साधुपार्क्तिकमध्यार्थं मात्रांम्' इति क० ।
७ 'ततस्त्वन्' इति ख० ।

॥ ३७ ॥

कुटुम्बिनी सुप्रयाता धौतोपस्करभाजना ॥४॥ साध्यानां राम बीजानां पशूंश्च सुकृतेस्य च ॥ शाकानां व्यञ्जनानां च स्वजातानां गतेऽहनि ॥५॥ शक्तिं कुर्यात्सदा तस्य वहिनोपदमनेन च ॥ देशे शुचौ सुप्रयाता सुसहायगुणान्विता ॥ ६ ॥ सर्वं प्रक्षालितं कार्यं केशकीटादिवर्जितम् ॥ भूमावुत्तु- पलितायां स्थार्थं राम न किञ्चन ॥७॥ सर्वं साध्यमथान्नार्थं गन्धवर्णरसान्वितम् ॥ नित्यं परिपंचेद्राम नास्त्वार्थं केनचित् क्वचित् ॥८॥ उपादान- मथादाय प्रविश्य च गृही गृहम् ॥ शुचौ प्रक्षालितं सर्वं चोपादानमुपस्यसेत ॥ ९ ॥ सुप्रक्षाल्य तथा भागं पवित्रिण समुत्क्षिपेत् ॥ ११ ॥ नम- ह्युपादानं साद्यात्तु विधिना ततः ॥ १० ॥ धौतवासाः सुप्रयतः स्वाचान्तः सुसमाहितः ॥ प्रविश्य देवताबेश्म प्राग्वद्गुकुलोद्वह ॥ ११ ॥ नम- स्कारादिकं सर्वं प्रकुर्वीत समाहितः ॥ उपादानानुसंधानं त्वादामं चाप्यनन्तरम् ॥ १२ ॥ इज्याकालस्य धर्मज्ञ कुर्यात्प्रयतमानसः ॥ १३॥ आस्त्र- भोगः प्रयतन्तात्मा कुर्याद्देव्येज्यां रणचण्डक ॥ क्रोधं नियम्यात्माहिति निविष्टस्तद्भावाभावपहितश्च नित्यम् ॥ १४ ॥ इति श्रीविष्णोधर्मोत्तरे प्रथमखण्डे मा०सं० शङ्करगीतासूपादानकरणो नाम द्विपष्ठितमोऽध्यायः ॥६२॥ ॥ शङ्कर उवाच ॥ पाद्योपान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ॥ निवेद्य दर्पणे देवे ततो मात्रां निवेदयेत् ॥ १ ॥ बर्जितस्तु परिधोनार्थं प्रयततः सुसमाहितः ॥ तैलमुद्वर्तनं चैव चमसं चाप्यनन्तरम् ॥ २ ॥ ततो निष्पुंसनं कृत्वा देयान्यन्यामनानि च ॥ रोपं कार्लियकं चैव तथा वै बीजपूरकम् ॥ ३ ॥ वणंके तगरं चैव प्रियङ्गुं गौरसर्षपाः ॥ सर्वोषधीवृक्षंवीजं सर्वौषधीश्च भार्गवा॥४॥ रत्नोदकं च विविधं स्नानीयमुदकं तथा ॥ स्नानीयं च ततो राम सुगन्धं च दापयेत्॥५॥ ततः सुवर्णमणीर्थ्यायाः कलशाः सुमनोहराः ॥ स्वलंकृताः प्रदातव्याः फलपुष्पपूरिताः॥६॥ पुष्पगन्धयुता राम पवित्रण पवित्रिताः ॥ शुभानं तीर्थसारितां राम पुण्यजलैः शुभैः॥ ॥७॥ यथाविभवतस्तेषां बहुत्वमपि कारयेत् ॥ तस्मिन्काले तथा कार्यं क्वेडितोत्कृष्टनिःस्वनम् ॥८॥ जयशब्दं च विपुले शङ्खभेरीविमिश्रितम्॥ उदकुम्भणार्थायं ततो दद्याच्च शाटकम् ॥ ९ ॥ ततो राम प्रदालतव्यं धौतवासोयुगं शुभम् ॥ ततस्तू पूर्णकलशात्स्नानानां प्रदक्षिणम् ॥ १० ॥ कृत्वा राम क्षिपेद्देवां पुष्पपृष्टशोभितम् ॥ ततस्त्वाचमनीयं च पूर्ववद्विनिवेदयेत् ॥ ११ ॥ मङ्गलानि च मुख्यानि ततो दद्याद्विचक्षणः ॥ सत्यासनस्थं देवेशं मर्चयिष्याम्यतः परम् ॥ १२ ॥ स्नानानानि त्यजन्तामित्यवं परिकीर्तितयेत् ॥ मार्गयाश्चाद्यारभ्य पाद्योपान्तकं पुनः ॥ १३ ॥ कर्तव्यं सकलं कर्म त्वावाहनविसर्जनम् ॥ ततोऽनुलेपनं दद्याद्व्यजनेन च वीजयेत् ॥ १४ ॥ ततश्च वीटकं दद्यात्तथा कूर्चप्रसादनम् ॥


  • १ ‘सुप्रबन्धं’ इति ख० । २ ‘परिच्छेदाम’ इति ख० । ३ ‘परिदानार्थं तथा वै बीजपूरकम्’ इति ख० । ४ ‘साम्यानानाम्’ इति क० । ५ ‘कूर्चप्रसाधनम्’ इति ख० ।

वि० ध० ॥ ३८॥

प्र० खं० अ० ६३

वस्त्रं विभूषणं चैव पुष्पाणि विविधानि च ॥ १५ ॥ वेष्टनं च स्रजं चैव कङ्कणं च मनोहरम् ॥ तथा रम्यं प्रतिसरं सुपिष्टं च तथाञ्जनम् ॥ १६ ॥ दर्पणे चौपचारं च प्रदीपं धूपमेव च ॥ तथैवाचमनीयं च गीतवाद्यस्वनं तथा ॥ १७ ॥ पुण्याहजयशब्दं च स्तोत्रोदीरणमेव च ॥ तथैवोपनहौ देये छत्रं चामरमेव च ॥ १८ ॥ यानं च वाहनं चैव पताकाश्च ध्वजानि च ॥ भोगानां पूरणार्थायों ततो मात्रां निवेदयेत् ॥ १९ ॥ भोगानां सञ्जनं कृत्वा यथाशक्त्या द्विजोत्तम ॥ अविद्यमाना ये भोगा मात्रास्त्वेव प्रकल्पयेत् ॥ २० ॥ एवमभ्यर्च्य देवेशं सर्वभोगैस्समाहितः ॥ अर्चयेन्मधुपर्केण पशुयागो न चेद्भवेत् ॥ २१ ॥ पशुयागाभिगमने मधुपर्को विधीयते ॥ अध्यर्च्य मधुपर्केण ततस्स्वन्वेन पूजयेत् ॥ २२ ॥ अन्नासनाद्यीच्छन्ति केचिदप्यपराणि तु ॥ आदौ स्थालीं च तेनाथ प्रद्यादर्घाणिं ततः ॥ २३ ॥ अन्नं हवित्कोपिते भक्ष्यं व्यञ्जनसंयुतम् ॥ निवेद्य दर्पणे दध्यात्तथा निष्पुंसनं ततः ॥ २४ ॥ कृत्वा ह्याचमनीयं तु मात्रां च तदनन्तरम् ॥ ततस्तु संविभागाथं दातव्यं त्वेहणं ततः ॥ २५॥ भूयो निवेद्येदर्पणं पूर्ववत्सुसमाहितः ॥ दर्पणे च ततो दद्यात्पाद्यं निष्पुंसनं ततः ॥ २६ ॥ दत्वा चाचमनीयं च शाटकं च निवेदयेत् ॥ हस्तनिष्पुंसनार्थाय मात्रां च तदनन्तरम् ॥ २७ ॥ निवेद्य पश्चात्ताम्बूलं देवं वह्नौ समर्चयेत् ॥ वह्निसंपूजनं कृत्वा कार्याकारिसमर्पणम् ॥ २८ ॥ अतिथीनां ततः कार्यं भर्त्तव्यानां च भार्गव ॥ ततोऽनुयागकाले तु पवित्रेण समुत्क्षिपेत् ॥ २९ ॥ आसनं भाजनं चैव स्नाने प्रयत्नमानसः ॥ उपविश्य ततः पश्चादात्मनेवानयेच्च च ॥ ३० ॥ इममभिमन्त्रेण प्राच्यां प्रासादृष्टकं भवेत् ॥ ततस्तु प्रयतो भूत्वा विशेद्दृष्टं ततः ॥ ३१ ॥ इज्याकालानुसंधानं ततः कुर्यात्समाहितः ॥ कुर्यात्सन्व्यापकालस्य चापादानमनन्तरम् ॥ ३२ ॥ विमर्जनं ततः कुर्यात्प्रयतेनान्तरात्मना ॥ इज्याकालविधिश्चैष मया ते राम कीर्तितः ॥ ३३ ॥ भगवानाद्युबुवन्तु दृवस्संक्रपणन्ततः ॥ प्रद्युम्नश्चानिरुद्धश्च प्रभावोऽड्यमुदाहृतः ॥३४॥ संकर्षणस्तथात्मक आत्मा प्रद्युम्न उच्यते ॥ द्ववन्तत्वगतस्त्ववं अनिरुद्धो महायशाः ॥ ३५ ॥ स नाथमसर्वलोकानां सृष्टिसंहारकारकः ॥ ( पुरुषोऽपि तथा सत्य अच्युतश्च द्विजोत्तम ॥ ३६ ॥ भगवानासुदेवश्च त्वव्ययाऽस्यानुद्वाहतः ॥ चत्वार एते धर्मज्ञ वासुदेवाः प्रकीर्तिताः ॥३७॥ भगवच्छब्दवाच्याश्च सर्वभूतभवादवाः ॥ यः परः पुरुषो राम वासुदेवः प्रकीर्तितः ॥ ३८ ॥ भगवच्छब्दवाच्यश्च सर्वभूतभवोद्भवः ॥ शेषतत्वं गतः सर्वमनिरुद्धो महायशाः ॥ ३९ ॥ स नाथः सर्वलोकानां सृष्टिसंहारकारणः ॥ ) तदनूत्पद्यते मुक्तः पौरुषं द्विजसत्तम ॥ ४० ॥ ॥३८॥


१ 'छत्रमासनमेव च' इति क० । २ 'वीटकम्' इति ख० । ३ 'प्राच्याम्' इति क० । ४ कोष्ठकान्तर्गतः पाठः कपुस्तके नास्ति ।

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ॥ ४१ ॥ प्रतिस्तस्यैवार्चिः प्राणस्तर्पणमर्हणम् ॥ ४१ ॥ निवेदनञ्चाचमनमथ्या मन्त्रनिर्णयः ॥ मन्त्रेण चार्हणान्तेन प्रदद्यादर्हणं पुनः ॥ ४२ ॥ तथैवाचमनान्तेन देयमाचमनं भवेत् ॥ प्राशनान्तेन मन्त्रेण तर्पणं विनिवेदयेत् ॥ ४३ ॥ प्रतिस्रहेषु मात्रासु पादुकासु च दर्पणे ॥ छत्रे च वालव्यजने तालवृन्ते तथैव च ॥ ४४ ॥ उपानत्सु तथा याने वाहनेषु भृगूत्तम ॥ अश्विध्वजेषु च तथा पताकासु च कीर्तिताः ॥४५॥ शेषाणां कामभोगानां नित्यं संकीर्तयेत्तु वै ॥ सर्वत्र प्रीणनं कार्यमेतावान्मन्त्रनिर्णयः ॥४६॥ देवानां पादपीठानां कलशानां तथैव च ॥ वह्नेस्थाससस्तानां च चतुर्द्ध विनिवर्तते ॥ ४७ ॥ कलशासनावहीनां संकरं तु न कारयेत् ॥ तथैव पदपीठानां तेषां चिह्नं च कारयेत् ॥ ४८ ॥ प्रापणे मधुपर्के च मात्रासु च भृगूत्तम ॥ सुमनस्सु सदा राम यत्नः कार्यः समर्चने<sup></sup> ॥ ४९ ॥ सौमनस्यं परं राम देवदेवं निवेदितम् ॥ यस्मात्तु वर्तते तस्मात्तस्माल्लोकाः सुमनसः सदा ॥ ५० ॥ मां त्रास्यति भयाद्घोरातस्मान्मात्रा प्रकीर्तिता ॥ प्रापयिष्यति च स्थाने नित्यं दुःखविवर्जिते ॥ ५१ ॥ यस्मात्तस्माद्धिराज्ञेषु प्रोक्ते प्रापणके सदा ॥ परं यत्परं राम मधुसंज्ञं तदुच्यते ॥ ५२ ॥ तदाप्यते यदा तेन मधुपर्कस्तदा स्मृतः ॥ इत्येवंविधानोऽसमुदीरितास्ते समावतो भार्गववंशचन्द्र ॥ अतः परं राम निबोध पुण्यं स्वाध्यायकालं गदतो ममाद्य ॥ ५३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु इज्याका लविधिर्नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ ॥ शङ्कर उवाच ॥ ॥ आदौ देशे तथा राम प्रयतः सुसमाहितः ॥ स्वाध्यायेनार्चयेद्देवं प्रयतेनान्तरात्मना ॥ १ ॥ तावत्कार्यं द्विजश्रेष्ठ स्वाध्यायं विधिवत्सदा ॥ यावदस्तं गतो राम सविता दीप्तदीधितिः ॥ २ ॥ ततस्त्वस्तं गते सूर्ये स्वाचान्तः सुसमाहितः ॥ प्रविश्य देवतावेश्म नैराज्यं कर्म कारयेत् ॥ ३ ॥ पादपीठान्तकं कर्म कृत्वा प्रागुक्तमञ्जसा ॥ अर्च्यमाचमनीयं च दत्वा पाद्यं च भार्गव ॥ ४ ॥ स्थालोमालिक्रमेणैवद्यादन्तेष्वयाभिहितं ततः ॥ कर्तव्यमवयुगानान्तं प्रयतः सुसमाहितः ॥ ५ ॥ कृत्वालुयागं विधिवत्प्रावृत्य सुरमन्दिरम् ॥ स्वाध्यायस्याप्यनुसंधानं ततः कुर्यात्समाहितः ॥ ६ ॥ योगकालमुपादाय पश्चात्कुर्याद्विसर्जनम् ॥ कृत्वा विसर्जनं युक्तस्तिष्ठेदद्याममतन्द्रितः ॥७॥ योगानन्तरं स्वप्याद्देवं युक्त्य भार्गव ॥ स्वयं कालोऽपि सततं योगमभ्येदभिधीयते ॥८॥


१ 'समर्जने' इति क० ।

वि०ध० ॥ ३१ ॥

प्र० खं० अ० ६९ ॥ ३१ ॥

ज्ञानाहंकृत्यं यदि नास्ति तत्त्वं यामे विशुद्धस्तु तथा चतुर्थे ॥ युञ्जीत योगं रिपुकालभूतं योगेन बुद्धिं संपुषोति सर्गम् ॥ ६४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शङ्करगीतासु स्वाध्यायकालकथने नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ शङ्कर उवाच ॥ जानुद्वयं सुदृङ्गुमं चेलाजिनकुशोत्तरम् ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ १ ॥ चतुर्णामासनानां च बद्धा तत्रैकमासनम् ॥ योगं युञ्जीत विविधमथावदवदूर्ध्वशः ॥ २ ॥ राम उवाच ॥ योगासनानि चत्वारि भगवन्कानि ब्रूहि मे ॥ येषामेकसमाश्रित्य योगं युञ्जीत मानवः ॥ ३ ॥ शङ्कर उवाच ॥ स्वस्तिकं सर्वतोभद्रं पर्यङ्कं कमलासनम् ॥ योगासनानि चत्वारि तेषां वक्ष्यामि लक्षणम् ॥ ४ ॥ आसने जानुनी कृत्वा यथावस्तुसमाहितः ॥ वामं कृत्वाेतरे पादे वामजङ्घोपरिस्थितम् ॥ ५॥ स्वस्तिकं नाम तत्प्रोक्तमासनं प्रथमं शुभम् ॥ ऊरू च जानुनी जङ्घे पद्ममासनगतः समम् ॥ ६॥ आसनं सर्वतोभद्रं तद्विद्धि मनुजोत्तम ॥ पर्यङ्कं योगपट्टेन बध्नीयात्पुष्टयोगतः ॥ ७॥ आकुञ्च्य जानुनी सम्यक्पादौ कृत्वा च बाह्यतः ॥ दक्षिणं वामजङ्घायां पर्यङ्गासनकारणम् ॥ ८ ॥ आसने सर्वतोभद्रे यदा भवति मानवः ॥ ऊरूभ्यांतान्तरांश्चरणांस्तदा म्यात्कमलासनम् २ ॥ ९ ॥ आसनस्थस्य कर्म निबोध गदतो मम ॥ समानानीयोरुमूलेन हस्तौ भार्गव नियतौ ३ ॥ ०कृत्वांचोत्तानों समौ विद्वान्नाभ्योरुपरि दक्षिणामाऽङ्गुल्यैच्छाद्यकं विद्धानङ्गुलीनां तु विन्यसेत ॥ ११ ॥ किंचिदाकुञ्चिताङ्गुष्ठौ कर्तव्यौ च तथा करौ ॥ उत्थाप्याथ विततं कृत्वा गात्रं परिपुष्टयम् ॥ १२ ॥ पृष्ठमाकुञ्च्ययत्नतस्य देहमुन्नामयत्सुधीः ॥ निष्कम्पो सुदृढम्पुज्वौ नातिनम्त्यां न कुञ्चिताम् ॥ १३ ॥ ग्रीवां विधायग्यद्नालिच्छिद्रः कार्यं समं सदा ॥ संपश्यन्नासिकाग्रं ४ स्वं दिशश्चानवलोकयन् ॥ १४ ॥ किञ्चिन्निमीलिते नेत्रे दन्तैर्दन्तान्न संस्पृशेत् ॥ तालुमध्यगतनेव जिह्वाग्रेण समाहितः ॥ १५ ॥ स बद्धकङ्कणो विद्वानभ्यासांमात्यनं जयेत् ॥ जित्वा वायुं यथाशक्ति योगं युञ्जीत बुद्धिमात् ॥ १६ ॥ आदौ तु चिन्तयेन्मूर्ध्ना भूमिं पञ्चगुणान्विताम् ॥ लब्धलक्षो महायोगी भूमियोगं समुत्सृजेत ॥ १७ ॥ ततश्चतुर्गुणं ध्यानं कर्तव्यमुदके द्विज ॥ लब्धलक्ष अपां योगी जलद्यागं समुत्सृजेत ॥ १८ ॥ ततस्तु योगं युञ्जीत त्रिगुणे द्विज तेजसि ॥ लब्धलक्ष्य तत्रापि वह्नियोगं समुत्सृजेत ॥ १९ ॥ ततस्तु योगं युञ्जीत पवने द्विगुणं द्विज ॥ लब्धलक्षश्च तत्रापि वायुयोगं समुत्सृजेत ॥ २० ॥ ततस्त्वेकगुणं योगे युञ्जीत गगने बुधः ॥ लब्धलक्ष्य तत्रापि मनोयोगमथाभिवेतू ॥ २१ ॥ मनसश्चन्द्रमाः प्रोक्तः प्रथमं चन्द्रमण्डले ॥ अर्चेवलं बुधः कृत्वा चन्द्रमण्डलमध्यगे ॥ २२ ॥


१ 'बुद्धिम्' इति क० । २ 'मत्वाकमलमिति' इति ख० । ३ 'योगपादेन' इति ख० । ४ 'नासग्रां पश्यनं जपेत्' इति ख० । ५ 'सहमान' इति-

अङ्गुष्ठमात्रे पुरुषे लब्धन्धे चिन्तयेत् ।। शशाङ्कशतसंकाशं सर्वालङ्कारभूषितम् ।। २३ ।। लब्धलक्ष्य स्तत्रापि बुद्धियोगान्नितिर्भवेत् ।। बुद्धिश्च भगवांत्सूर्यः प्रथमं सूर्यमण्डले ॥ २४ ॥ समग्रमेव संपश्येद्ध्यानयोगेन बुद्धिमान् ॥ सूर्यमण्डलमध्यस्थं शतसूर्यसमप्रभम् ॥ २५ ॥ अङ्गुष्ठमात्रं पुरुषं सर्वाभरणभूषितम् ॥ चिन्तयेत्प्रयतो नाम तत्परः सुसमाहितः ॥ २६ ॥ लब्धलक्ष्य स्तत्रापि नित्यमात्मानमात्मना ॥ आत्मस्थमेव संपश्येद्ध्यानयोगेन भार्गव ॥ २७ ॥ अङ्गुष्ठमात्रं पुरुषं सूर्यबिम्बगतं यथा ॥ ध्यानयोगेन संपश्येत्तथा पश्येत्तथात्मनि ॥ २८ ॥ अधोमुखे हृत्कमले कर्णिकायां भूपूत्तम ॥ लब्धलक्ष्य स्तथापि अव्यक्तं चिन्तयेत्पद्मं ॥ २९ ॥ वह्निन्तश्च सर्वत्र तेजसा तत्र चिन्तयेत् ॥ नैवाङ्केन न चन्द्रेण सर्वं व्याप्तमशेषतः ॥ ३० ॥ लब्धलक्ष्य स्तथापि पुरुषं चिन्तयेत्परम् ॥ शून्यं तु पुरुषं ध्यानं प्रवदन्ति मनीषिणः ॥ ३१ ॥ साकारे बद्धलक्षस्तु शून्यं शक्नोति चिन्तितुम् ॥ अन्यथा तु सुखं स्यान्निरालम्बस्य किं न्ततम् ॥ ३२ ॥ चित्तवृत्तिनिरोधो हि दुष्करः प्रतिभाति मे ॥ तत्र यत्नः सदा कार्यो विजये पवनस्य च ॥ ३३ ॥ चित्तवृत्तिनिरोधेन पवनस्य जयेन च ॥ उपासनाया शून्यस्य निष्फलत्वं विधीयते ॥ ३४ ॥ अरूपगण्यमनसं शब्दस्पर्शविवर्जितम् ॥ सर्वेन्द्रियगुणं गम सर्वस्वं सर्वगं च यत ॥३६॥ ( तं ध्यायन्पुरुषं तस्य ध्यानं शून्यं प्रकीर्तितम् ॥) तस्य स्वरूपं विज्ञाय राम शून्यमुपासतः ॥ ३६ ॥ सर्वसम्बन्धमुक्तस्य निष्फलत्वं विधीयते ॥ ३८ ॥ अखण्डकारिणस्त्वंवं नित्यं भृगुकुलोद्वह ॥ ३७ ॥ संवत्सरशते पूर्णे सत्रिभागं महाभुज ॥ निष्फलत्वं परं स्थानं ध्रुवं भवति भार्गव ॥ ३८ ॥ राम उवाच ॥ संवत्सरशतं पूर्णं त्रिभागसहितं विभो ॥ अजीवतो निष्फलत्वं कथं भवति शङ्कर ॥ ३९ ॥ शङ्कर उवाच ॥ अखण्डकारी भवति यद्येकमापि जन्मनि ॥ जन्मक्रमादवश्यं हि राम जन्मनिजन्मनि ॥ ४० ॥ पूर्णांशं सत्रिभागं ध्रुवं तेन समाः शतम् ॥ अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४१ ॥ अखण्डकारिणो राम प्रवृत्तस्य द्विजन्मनः ॥ अवश्यमेव तत्स्थानं याहिष्णोः परमं पदम् ॥ ॥ ४२ ॥ राम उवाच ॥ अखण्डकारिता प्रोक्ता त्वया देव द्विजन्मनाम् ॥ शूद्रो वा यदि वा नारी कथं स्थानमवाप्नुयात् ॥ ४३ ॥ शङ्कर उवाच ॥ अखण्डकारिणी पत्नी प्राप्नोति परमं पदम् ॥ शूद्रः स्वकर्मनिरतः केशवार्पितमानसः ॥ ४४ ॥ जात्यन्तरमथासाद्य भक्तियोगेन भावितः ॥ अखण्डकारी भवति ततः प्राप्नोति तत्पदम् ॥ ४५ ॥ मार्कण्डेय उवाच ॥ एतावदुक्तं देवेन त्र्यम्बकेण महात्मना ॥ तदा तुष्टेन रामाय रहस्यं


१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'अखण्डकारिणः' इति ख० ।

वि० ध०प्र० खं०
अ० ६६

ऋषिप्रपूजितम् ॥ ४६ ॥ एतद्भक्तिविहीनाय न तु वाच्यं यदृच्छया ॥ न नास्तिकाय मूर्खाय तर्कदुष्टाय वा तथा ॥ ४७ ॥ एतच्छृण्वते वाच्यं शिष्याय च सुताय च ॥ यो वा दद्यान्महीं कृत्स्नां सशैलवनकाननाम् ॥ ४८ ॥ एतद्ब्रह्म परं पुण्यं पवित्रं पापनाशनम् ॥ आयुष्यं च यशस्यं च कलिदुःस्वप्ननाशनम् ॥ ४९ ॥ अध्येतव्यमिदं सम्यग्वचनं शंकरस्य च ॥ सर्वबन्धविनिर्मुक्तः प्राप्नोति परमं पदम् ॥ ५० ॥ एतावदुक्तं त्रिपुरान्तकेन तुष्टेन रामस्य महाबलस्य ॥ मया तथा तेऽभिहितं नरेन्द्र धार्यं त्वयेदं सततं यथावत् ॥ ५१ ॥ इति विष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शार्ङ्गगीतासमाप्तिर्नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ कैलासशिखरे रम्ये रामस्य रमतस्तदा ॥ आजगाम हरं द्रष्टुं देवदेवः पुरन्दरः ॥ १ ॥ स समासाद्य देवेशं प्रणम्य वृषभध्वजम् ॥ उवाच वचनं सम्यक्स मुदा रामस्य सन्निधौ ॥ २ ॥ शक्र उवाच ॥ त्वत्प्रसादेन देवेश मया प्राप्तं त्रिविष्टपम् ॥ रामेण घातिताः सर्वे यथा मे देवशत्रवः ॥ ३ ॥ अवध्यास्त्रिदशानां ये वरदानबलोद्धताः ॥ नरवध्याः कृतास्ते हि ब्रह्मणा सुमहात्मना ॥ ४ ॥ पातालनिलया देव अवध्या देवनागयोः ॥ वाध्यन्ते नरवध्या मलोकानां च जगत्पते ॥ ५ ॥ तांश्च घातय देवेश रामेणाक्लिष्टकर्मणा ॥ मार्कण्डेय उवाच ॥ एवं करिष्यतीत्युक्त्वा विसृज्य त्रिदशेश्वरम् ॥ ६ ॥ उवाच वचनं रामं भार्गवं पुरतः स्थितम् ॥ शङ्कर उवाच ॥ गच्छ भार्गव पातालं पातालनिलयाञ्जहि ॥ ७ ॥ राक्षसांन्दुष्टाचारान्ब्राह्मण्यान्महासुरान् ॥ वैष्णवं चापमेतत् ते मया न्यस्तं पितुः करे ॥ ८ ॥ तदादाय शार्ङ्गिणाँस्त्रिजहि तान्राम दानवान् ॥ अक्षयं तूणमादाय शरपूर्णमिदं तथा ॥ ९ ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा ददौ चास्य तूणमक्षयसायकम् ॥ दत्त्वा च भगवानाह रामं परबलार्दनम् ॥ १० ॥ शङ्कर उवाच ॥ तूणमेतन्महात्म्यं त्वयागम्याथ भार्गव ॥ चापमेतत्तु रामाय कृते कर्मणि सुव्रत ॥ ११ ॥ अगम्योऽपि महातेजास्तत्तूणमक्षयसायकम् ॥ राघवायतिवीर्याय रामायैव प्रदास्यति ॥ १२ ॥ रामसंदर्शनाद्देव मा कृथाः शस्त्रधारणम् ॥ रामसंदर्शने राम तव तेजो दिवा वैष्णवम् ॥ १३ ॥ रामं प्रवेक्ष्यति तदा सुरकार्यार्थमुपार्जितम् ॥ यावत्त्वं तेजसा युक्तो वैष्णवेन परंतप ॥ १४ ॥ तावच्छत्रूगणान्सर्वान्समरेषु विजेष्यसि ॥ स्थातुं न शक्तास्तव दैत्यमुख्या अथापि चायुधस्य प्रभावे द्विजेन्द्र ॥ आदाय चापं युधि वैष्णवं तत्पुण्यं नित्यं जहि देवशत्रून् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे मा० नृ० प्रथमखण्डे रामं प्रति शङ्करानुशासनं षट्षष्टितमोऽध्यायः ॥ ६६ ॥ राम उवाच ॥ वैष्णवं चापमेतत्


॥ ४० ॥ | ॥ ४० ॥

१ 'गुणाञ्चितः' इति ख० । २ 'सर्वव्याधिविनिर्मुक्तः' इति ग० ।

तत्किमर्थं भवता करे ॥ न्यस्तं च तन्मे भगवाँश्चापरत्वं च कीदृशम् ॥ १ ॥ शङ्कर उवाच ॥ माया हि वैष्णवी राम यया संमोहिताः पुरा ॥
देवाश्च ऋषयश्चैव गत्वान्तः प्रणताः स्थिताः ॥ २ ॥ यजतां परमाधारं देवं कमलसंभवम् ॥ भूतमव्यभिविष्ण्वस्य पृष्टं लोकनमस्कृतम् ॥
॥ ३॥ देवा ऊचुः ॥ वासुदेवस्य देवस्य महादेवस्य चाप्यथ ॥ अन्तरं ज्ञातुमिच्छामः कः कस्मादतिरिच्यते ॥ ४ ॥ शङ्कर उवाच ॥ एवमुक्तस्सुरैः
सर्वै ऋषिभिश्च पितामहः ॥ विहस्योवाच तान्सर्वांस्त्वन्तर्गत्वो परस्परम् ॥ ५ ॥ ब्रह्मोवाच ॥ जनयध्वं सुराः सर्वे विरोधमृषिभिस्सह ॥
विरोधे तु समुत्पन्ने तयोर्युद्धं उपस्थिते ॥ ६ ॥ ज्ञास्यध्वमन्तरं देवास्तयोर्नास्त्यत्र संशयः ॥ शङ्कर उवाच ॥ एवमुक्ताः सुराः सर्वे सर्षयश्चैव
गणैस्तदा ॥ ७ ॥ आवयोर्जनयामासुर्बिरोधं भृगुनन्दन ॥ विष्णोरधिक्यमन्विच्छंस्तस्य मायाविमोहिताः ॥ ८ ॥ कृतवानस्मि देवेन त्व
वाक्येन विग्रहम् ॥ प्रभावदर्शनार्थाय त्वावयोर्द्विधे तदा ॥ ९ ॥ आसन्नमभवद्युद्धं सर्वसत्त्वभयङ्करम् ॥ आवयोर्भृगुशार्दूल तदा युद्धे उप
स्थिते ॥ १० ॥ आजगामाथ तं देशं ब्रह्मा सुरगणैर्युतः ॥ देवा ब्रह्मर्षयश्चैव तथा राजर्षयोऽमलाः ॥ ११ ॥ सर्वेषां समवेतानामावयोर्युद्धसंगरे ॥
उवाच वचनं ब्रह्मा सर्वलोकनमस्कृतः ॥ १२ ॥ ब्रह्मोवाच ॥ न कर्तव्यं जगन्नाथौ युद्धं परमदारुणम् ॥ युष्मद्युद्धेन सकलं नश्यतीदं
जगत्त्रयम् ॥ १३ ॥ गृहीतं चापरत्नं यत्स्वयं देवेन चक्रिणा ॥ तदारोपयतां शूली शूलिचापं जनार्दनः ॥ १४ ॥ ज्ञास्यामि चान्तरं देवौ
चापारोपणकर्मणा ॥ शङ्कर उवाच ॥ एवमुक्ते मम कराद्धनुर्जग्राह केशवः ॥ आरोपितं न मे शक्तिः सर्वयत्नेन चाभवत् ॥ १५ ॥ ततश्च
गतमोहेन मया ज्ञातो महेश्वरः ॥ ज्ञात्वा विष्टुष्टचापेन स्तुतश्च भगवांस्तदा ॥ १६ ॥ नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते सर्वगु
णात्मताय ॥ नमोऽस्तु ते देवगणार्चिताय नमोऽस्तु ते सर्वगुणोत्तराय ॥ १७ ॥ उन्मेषमात्रेण तवाप्रमेय दिनं समग्रं प्रपितामहस्य ॥
निमेषमात्रेण निशा प्रदिष्टा यस्यां समादाय जगत्स शेते ॥ १८ ॥ न कारणं वेत्सि तवेश सृष्टौ संहारकार्ये च तथा न वेद्मि ॥ आद्यं न मध्यं
न तथैव चान्तं त्वमेक ईशः पुरुषः पुराणः ॥ १९ ॥ सर्वेषु भूतेषु तथा स्थितस्त्वं सर्वाणि भूतानि तथा तवेश ॥ भूतान्तरस्थोऽपि न भूतसंस्थ
आश्चर्यमेतन्मम देवदेव ॥ २० ॥ भूतान्तरस्थोपि न भूतनाथः भूताजितैः कर्मभिरायस्ये त्वम् ॥ कर्माणि सर्वाणि जगतस्त्वमस्य धर्मे सदा
यन्महदद्भुतं तत् ॥ २१ ॥ गन्धः पृथ्वियां च रसोऽप्सु देव वायौ यथा स्पर्शगुणस्त्वदीयः ॥ रूपं तथाग्नौ गगने च शब्दो गुणाः समाप्तास्त्व
भूतसंघे ॥ २२ ॥ मनोगतस्त्वं च तथा वितर्को बुद्धौ गतस्त्वं च विनिश्चयोऽत्र ॥ चिद्रूपमात्मन्यथ देवदेव अव्यक्तसंस्थस्य गुणत्रय

त्त्वम् ॥ २३ ॥ त्वमेव भूतानि च तद्गुणाश्च मूर्त्तिर्विभिन्नैर्न भूतैर्विभिन्नः ॥ तत्त्वानि सर्वाणि च तद्व्यतीतः त्वमेव देवः पुरुषः प्रदिष्टः ॥ २४ ॥
तवेच्छया स्यात्सकला त्रिलोकी तवेच्छया देव तथा विनश्येत् ॥ इत्थंविधस्यानघ कर्मणस्ते स्तुतिः कथं स्यात्परमस्य धाम्नः ॥ २५ ॥ एवं
स्तुतो देववरो मयासावुवाच मां देवगणस्य मध्ये ॥ गोऽहं स देवः परमेश्वरस्त्वं गोऽहं स देवः प्रपितामहश्च ॥ २६ ॥ आश्रित्य मूर्त्तित्रितयं मयेदं
कर्मत्रयं शङ्कर साध्यते वै ॥ उत्पत्तिनाशौ परिपालने च कालेऽस्य शङ्कर देवकार्यात् ॥ २७ ॥ मूर्त्तिमन्माया जगतां तवेयं संहारकार्यार्थसुदीर्णदर्पा ॥
त्वमुग्रमेवः कारणाकारणानां पूज्यश्च सर्वेश्वर सर्वदेवैः ॥ २८ ॥ ये त्वां नमस्यन्ति जगत्प्रधानं भक्तिं परां ये च वहन्ति तुभ्यम् ॥ भक्त्या च नित्यं
तव पूजयन्ति स्थानं हि तेषां सुलभे मदीयम् ॥ २९ ॥ मदीयमेतत्तुहवि चापरंत्वं प्रदीयतां भार्गवनन्दनाय ॥ ऋचीकपुत्राय गुणाधिकाय तस्मात्स्य
माहास्याति तस्य पुत्रः ॥ ३० ॥ स तेन चापेन निहत्य शत्रून्कृत्वा च लक्ष्मीं वसुधां सुरेश ॥ तञ्चापरत्नं भुवि राघवाय प्रदास्यते गाम इति
श्रुताय ॥ ३१ ॥ कृत्वा स रामोपि हि तेन कर्म प्रदास्यते तद्गुणाय चापम् ॥ तस्मात्समादास्यति फाल्गुनोऽपि देवार्थकार्येकरुणिर्महात्मा ॥ ३२ ॥
स्वं चापरत्नं जनकस्य देहि निमित्तनाम्ना भुवि शङ्किताय ॥ तेनापि चापेन स तत्सुतो राजा महस्कर्म करिष्यतीति ॥ ३३ ॥ एतावदुक्त्वा भगवां
न्महात्मा जगाम काष्ठां मनसस्त्वभीष्टाम् ॥ मया तथा ते भुवि चापरत्ने द्विजप्रथान क्षितिषेषु दत्ते ॥ ३४ ॥ गृहेऽथवं चापवरं पितुस्ते न्यस्तं करे
वाङ्कृतिकृत्यरुपेव ॥ तदेवकार्येण विना न शक्यं केनाप्यविज्य भुवि गाम कर्तुम् ॥ ३५ ॥ अजातवस्तुचरितं सुकार्यदक्षं गोविन्दवाहुविटपाथ
वलब्धमानम् ॥ न्यस्तं पुरा पितृकरे तव युद्धशौण्ड चैत्यं मया हविरुचः परमम्धिय राम ॥ ३६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० वैष्ण
वधनुःप्रादुर्भावो नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तदा रामो देवदेवेन शम्भुना ॥ प्रणम्य शिरसा देवं पार्वतीं
वरदां तथा ॥ १ ॥ प्रमथैश्च परिष्क्तस्सोत्कण्ठेनतागतमना ॥ जगामाश्रममुद्दिश्य पितुः परबलार्द्दनः ॥ २ ॥ सोऽचिरेणैव संप्राप्य दुर्दर्शश्रम
मण्डले ॥ वयोवृद्धं तपोवृद्धं पितरं दीप्ततेजसम् ॥ ३ ॥ सोऽभिवाद्य पितुः पादौ मातुश्च परवीरहा ॥ भ्रातृणामातृपूर्वञ्च धर्मनित्यो जितेन्द्रियः ॥
॥ ४ ॥ तैश्च सूर्य्यानुप्राप्तः मानितस्तस महातपाः ॥ स मत्प्रसादं पृष्टश्चेत्युक्त्वा सर्वमशेषतः ॥ ५ ॥ आख्यातवांस्ततः पश्चात्पातलागमनं तदा ॥
आसनं देवकार्यं च चापरत्नं च वैष्णवम् ॥ ६ ॥ जमदग्निर्महातेजाः श्रुत्वा रामवचस्तदा ॥ चापनं च रामाय प्रददौ देवपूजितम् ॥ ७ ॥ दत्त्वोवाच
स तं रामं हुताशनसमप्रभम् ॥ पश्चिमं समुद्देश्य प्रविश्य वरुणालयाम् ॥ ८ ॥ संपूज्य वरुणं रामस्तस्यैवदितुमतं तदा ॥ शक्राशंहुदुरावरानपालनाल निलय

असि ॥ अनेन चापरत्नेन वैष्णवेन महाबल ॥ दैत्यान्संगरे हत्वा गत्वा च वरुणालयं ॥ १० ॥ पृष्टव्यो वरुणो देवस्त्वया धर्मभृतां वरः ॥ स पुत्र वरुणाद्धीमुं^१क्त्वा राम यथाविधि ॥ ११ ॥ आगच्छेद्या यथाकालं मत्समपं महाभुज ॥ एवमुक्तस्तदा रामः पित्रा धर्मभृतां वरः ॥ १२ ॥ पितरं मातरं भ्रातॄनभिवाद्य यथाविधि ॥ जगाम वरुणावासं रामो वैश्वानरद्युतिः ॥ १३ ॥ स प्रविश्य समुद्रं महादेवप्रसादातः ॥ ततोऽपश्यं नगरं रामो ददर्श पुरुषोत्तमम् ॥ १४ ॥ मनोऽभिरां स्फटिकाश्मचित्रं उपेन्द्रनागेन्द्रकुलं च ॥ विसर्पितं पन्नगदैत्यनाथैर्द्यावापृथिव्याशत संकुलं च ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० रामस्याश्मनगरदर्शनं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ मार्कण्डेय उवाच ॥ तस्मिन्पुरे रम्ये रत्नचित्रसभागतम् ॥ रत्नवासनगतं वीरं चारुकुण्डललोचनम् ॥ १ ॥ स्निग्धवैदूर्यसंकाशं शुक्लाम्बरविभूषितम् ॥ हार भारापिंततनुं चारुकेयूरधारिणम् ॥ २ ॥ प्रवालमणिमुक्ताढ्यं गम्भीरं भुजगाश्रयम् ॥ किरीटेनार्कसंशन्नं यादोगणसमाश्रयम् ॥ ३ ॥ आदित्य मुदकावासमंशभृतं पतिर्मूर्जितम् ॥ लोकनाथं महद्भूतं भक्तानामभयप्रदम् ॥ ४ ॥ विष्णोर्भागं विशालाक्षं विशालाक्षं महाभुजम् ॥ पूज्यमानं महाभागैर्जलैशैर्न्नागैस्तथा ॥ ५ ॥ दैत्यैश्च महाभागैर्भीमभीमपराक्रमैः ॥ सुन्दोपसुन्दशक्राक्षबाणरमरकण्टकैः ॥ ६ ॥ दृश्यग्रीवमहाभीमै र्वदृश्राश्र्वासुरान्तकैः [^१॥ भीमभीमाक्षनक्रविकटोत्कटमारणैः ॥ ७ ॥ अतिकायमहाकायभीमकायबलोद्धतैः ॥ नगैश्च सुमहाकायैर्नागैश्चापी महाभोगैर् गदिंदैतैः ॥ ८ ॥ नागराज्ञा वासुकिना शङ्खेन करुणार तथा ॥ (महापद्मेन पद्मेन कर्कोटकेनचैजयैः ॥ ९ ॥ ऐरावतेन नागेन तक्षकेण बलेन च ॥ कंबलाश्र्वतराभ्यां च ह्वार्यकेण महात्मना ॥ १० ॥ ) बालव्यजनहस्तास्तमुपवीर्जन्ति निम्बगाः ॥ गङ्गा च चमू राजन् वितस्ता यमुना तथा ॥ ११ ॥ इरावती चन्द्रभागा नर्मदा च महानदी ॥ पयोष्णी ब्राह्मणी गौरी विपाशा देविका तथा ॥ १२ ॥ शतद्रुः कम्पना सिन्धुस्तथा चान्यास्तसहस्रशः ॥ सेव्यमानस्तया कूपैस्तथादोश्च सवियहैः ॥ १३ ॥ सरोवरेस्तसागरैश्च सपुद्देश्व यदत्तम ॥ तं दृष्ट्वा वरुणं राजन्स ववन्दे भृगुत्तमः ॥ १४॥ पूजयामास च तथा वरुणोऽपि भृगूत्तमम् ॥ पाद्यार्थ्याचमनीयौघैरासनेनोदकेन च ॥ १५॥ आसीनश्च तदा रामो दैत्यानां वधं वृत्तः ॥ महादेववचस्तत्त्वं वरुणाय न्यवेदयत् ॥ १६ ॥ स च तेनाभ्यनुज्ञातो ययौ दैत्यपुरं महत् ॥ वरुणोऽपि महातेजा रामवाक्येन यादव ॥ १७ ॥ संवाद्यामास तदा रामं रणकृतक्षणम् ॥ तदा वरुण्डूतेम्यो दैत्याः श्रुतिविस्तराः ॥ १८ ॥ निष्क्रम्यः नगराद्राजंश्चतु


१ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति ।