विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
द्वि० खं० अ० ५२
^१मूलस्यैष निश्चयः ॥ ३८॥ नस्यान्येषां दद्याच्च चत्वार उन्मूला द्रुमविन्दवः ॥ तस्मिन्नहनि सा तेन गर्भं धत्ते वरांगना ॥ ३९ ॥ एवमप्यभवन्ती तु पुत्रीयां राम सप्तमीम् ॥ पुत्रीयमथवा स्नानं केशवाराचनं व्रतम् ॥ ४० ॥ पुत्रीयमेव वा कुर्यात्क्लेशवाराचनं प्रिया ॥ स्नाताऽनुलिप्ता भर्तारं दृष्ट्वैहितमेव च ॥ ४१ ॥ यायाद्भाद्रौ तथा नारी गन्धधूपानुवासिता ॥ आन्तगर्भा चिकित्सित तस्तमपराजित ॥ ४२ ॥ मधुरौषधिसिद्धेन पयसा सर्पिषा तथा ॥ इच्छाविमानगाः काश्चित्स्त्रास्याः कार्याः कथञ्चन ॥ ४३ ॥ कटुतिक्तकषायाणि चात्युष्णलवणानि च ॥ आयासं च व्यवायं च गर्भिणी वर्जयेत्सदा ॥ ४४ ॥ विना कर्म न तिष्ठेत तथा सा राहुदर्शने ॥ प्रादुर्भावानि वेदस्य विष्णोरमिततेजसः ॥ ४५ ॥ शृणुयात्तन्मना भूत्वा चरितं च महात्मनः ॥ पुन्नाम्नि नामनक्षत्रे ह्यासन्नप्रसवा गृहम् ॥ ४६ ॥ प्रविशेत्सूतिकायुक्तं कृतरक्षं समन्ततः ॥ सुभूमौ निर्मितं रम्यं वास्तुविद्याविशारदैः ॥ ४७ ॥ प्राग्द्वारमुत्तरद्वारमथवा सुदृढं शुभम् ॥ देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ॥ ४८ ॥ विप्र पुण्याहघोषेण शंखवाद्यरवेण च ॥ प्रसूता बहुशस्तत्र तथा कुशशमाश्व याः ॥ ४९ ॥ हृष्टा विश्वसनीयाश्च परिचरेयुः स्त्रियश्च ताम् ॥ वातातुल्रोमनेर्दृष्ट्यैस्तत्रेतांसमुपचारयेत् ॥ ५० ॥ आहारैश्च विहारैश्च प्रसवाय सुखं द्विज ॥ एरण्डमूलमिश्रेण सचूतेन तथैव ताम् ॥ ५१ ॥ सुखप्रसवनार्थाय पश्चात्काये तु म्रक्षयेत् ॥ वलाकल्ककषायेण सिद्धं क्षीरं चतुर्गुणम् ॥ ५२ ॥ तैलमभ्यञ्जनार्थाय सुतायामुपकल्पयेत् ॥ अथ जातान्नपानेच्छां पञ्चकोलप्रसादिताम् ॥ ५३ ॥ पिबेद्यवागूं सस्नेहां तथा वै नीलकूशिकाम् ॥ दशाहे सूतिकागारं वायुंश्चैव विशेषतः ॥ ५४ ॥ वह्निक्रातितकुर्वालतैः पूर्णकुम्भैः प्रदीपकैः ॥ मुसलेन तथा द्वारि वर्णकैश्चित्रितेन च ॥ ५५ ॥ रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ॥ राम जागरणं कार्यं जन्मदानां तथार्चनम् ॥ ५६ ॥ पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ॥ रात्रौ जागरणं कुर्युर्द्धशमेऽहनि सूतिका ॥ ५७ ॥ स्नाता पूर्वविधानेन रक्षणीया समीरण तात् ॥ बालस्य जातमात्रस्य नाभिं छित्त्वा यथाविधि ॥ ५८ ॥ तालुष्ठुतापयत्क्वारी पितृणा शोधयेन्मुखम् ॥ ब्राह्मी सुवर्चला सोमं सैन्धवं पिप्पलीं वचा ॥ ५९ ॥ कनकं सर्पिषा दद्याल्लेह्यमेतद्विजोत्तम ॥ लेहनेनानेन मेधावी शूरः पण्डित एव च ॥ ६० ॥ दर्शनीयो यशस्वी च सुभगः स भविष्यति ॥ बिभीतकास्थि क्षौद्रेण घृष्टं श्रेष्ठमथाञ्जनम् ॥ ६१ ॥ नेत्ररोगेषु बालानां सहारिद्रं च गोरसम् ॥ शारिवा चन्दनं कुष्ठं समभागानि कारयेत् ॥ ६२ ॥ शिरोलेपमिदं दद्याच्छिरोरोगविनाशनम् ॥ आत्रास्थि सैन्धवं लाजा मधुना सह लेहयेत् ॥ ६३ ॥
१ 'तन्मूलस्य' इत्यपि पाठः ।
वि० ध० ॥२११॥
एष लेहवरः श्रेष्ठश्छर्द्दिप्रशमनः शुभः ॥ अपामार्गविडङ्गानि पिप्पली मरिचं तथा ॥ ६४ ॥ सैन्धवं तण्डुलं चैव मधुसर्पिःसमन्वितम् ॥ व्याघ्रीरसेन लेहोऽयं हिक्काश्वासविनाशनः ॥ ६५ ॥ बिभीतकत्वचा श्रेष्ठं हरितालं मनःशिला ॥ एतैस्तैलं पचेद्गुप्तामार्त्तिकिभिनाशनम् ॥ ६६ ॥ क्षौद्रेण लेह्या तुवरा पिप्पलीत्वतिवापहा ॥ श्लेष्मारेगेषु सर्वेषु बालानां भेषजं परम् ॥ ६७ ॥ रोध्रन्धवऽमधुन सहधृतमतिसारविनाशिनी ॥ सप्त- पर्णत्वक् च दूर्वा तथा कटुकरोहिणी ॥ ६८ ॥ एतदुद्वर्त्तनं श्रेष्ठं सर्वग्रहविनाशनम् ॥ भङ्गां वचां शङ्खपुष्पीमेरण्डं सप्तपर्णकम् ॥ ६९ ॥ सम- न्तपुष्पीसंयुक्तमपामार्गं च पुष्करम् ॥ क्वाथयित्वा च दातव्यं स्नानं सद्यः सुखावहम् ॥ ७० ॥ सर्पिषा निम्बपत्राणि गोविषाणं घृतं मधु ॥ एतेन धूपितो बालो महदोषैर्विमुच्यते ॥ ७१ ॥ अपामार्गस्य बीजानि बिल्वमूलफलानि च ॥ अगुरुं चन्दनं चैव सप्तपर्णस्य वल्कलम् ॥ ७२ ॥ एतदालेपनं कुर्यात्सर्वग्रहविनाशनम् ॥ मातरश्च ग्रहाश्चैव बालं तु बलिकर्मणा ॥ ७३ ॥ क्षिपमेव प्रमुञ्चन्ति तस्माद्यालेन कारयेत् ॥ तरुवृक्षं वराहाणां दंष्ट्रा गोरोचना वचा ॥ ७४ ॥ रत्नान्यन्यस्तथा कृष्णं वस्त्रं धार्यं तु बालकैः ॥ जातस्य राम बालस्य हेमन्ते प्रथमेऽथवा ॥ ७५ ॥ शिशिरे वापि कर्त्तव्यं कर्णवेधं तथा शृणु ॥ ग्रहाणां तत्र सर्वेषां दिनवारः प्रशस्यते ॥ ७६ ॥ तिथिं चतुर्थी नवमीं वर्जयित्वा चतुर्दशीम् ॥ सावित्रं वैष्णवं त्वाष्ट्रमादित्यं पौष्णमाश्विनम् ॥ ७७ ॥ कर्णवेधे प्रशस्यन्ते सोमदेवं तथैव च ॥ पूर्वाह्ने पूजनं कृत्वा केशवस्य हरस्य च ॥ ७८ ॥ ब्रह्मणश्चेन्दुसूर्य्याभ्यां दिगीशानां तथैव च ॥ नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तथा ॥ ७९ ॥ गुरूणां मण्डलं कृत्वा तत्र दत्त्वा सुवासनम् ॥ दत्त्वोपवेशयेत्तत्र धात्रीं शुक्लाम्बरां तथा ॥८०॥ स्वलंकृतां तदुत्सङ्गे बालं कृत्वा तु सान्त्वितम् ॥ धृतस्य निश्चलं सम्यग्गले कनकसूचिकाम्॥८१॥ विध्येद्देवकृते छिद्रे सकृदेव तु लाघवात् ॥ प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ॥ स्नेहाक्तं सूच्यनुस्यूतं सूत्रं वायुनिधापयेत् ॥ ८२ ॥ तैलाभ्यक्ते ततः कर्णे कार्यमाभरणं भवेत् ॥ कर्णवेधाद्दिने विप्रं सांवत्सरचिकित्सकौ ॥ पूज्याश्वाविधवा नार्यः सुहृदश्च तथा द्विजाः ॥ ॥ ८३ ॥ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ॥ सौरभौमादिनं चैव तिथिं रिक्तां च वर्जयेत् ॥ ८४ ॥ चतुर्थी नवमीं चैव रिक्तां चैव चतुर्दशीम् ॥ आग्नेयं वैष्णवं हस्तमादित्यं पौष्णमश्विनम् ॥ ८५ ॥ भाग्यं त्वाष्ट्रं च पुष्यं च तत्र कर्मणि शस्यते ॥ दिगीशानां दिशं तत्र तथा चन्द्राकँयोर्द्विज ॥ ८६ ॥ पूजनं वासुदेवस्य गगनस्य च कारयेत् ॥ तत्र स्वलंकृता धात्री बालमादाय पूजितम् ॥ ८७ ॥
१ 'बला' इत्यादि० ।
| वि० ध० | दि० सं० |
|---|---|
| ॥२१२॥ | अ० ५२ |
बहिर्निष्क्रामयेद्वाह्याच्छुद्धेऽप्यह्रिनिरुत्स्वनैः ॥ ततस्तत्र पठेन्मन्त्रं यं तु राम निबोध मे। अटाटनाचन्द्रार्कौदिक्पतींशाशनां दिशां च गगनस्य च ॥ निक्षेपार्थं
मिदं दद्मि ते मे रक्षन्तु सर्वदा ॥८९॥ अप्रमत्तं प्रमत्तं वा दिवा रात्रावथापि वा ॥ रक्षन्तु सर्वतः सर्वे देवाः शक्रपुरोगमाः ॥ ९० ॥ क्षीणामाविवध-
वानां तु द्विजानां सुहृदां तथा ॥ तदा तु पूजा कर्तव्या गीतनृत्यैस्तथोत्सवैः ॥ ९१ ॥ पञ्चमे च तथा मासि भूमौ तमुपवेशयेत् ॥ तत्र सर्वे ग्रहाः
शस्ता भौमो राम विशेषतः ॥ ९२ ॥ तिथिं च वर्जयेद्रिक्तामृक्षाणि शृणु भार्गव ॥ उत्तरात्रितयं सौम्यं चाश्वत्थं शक्रदैवतम् ॥ ९३ ॥ प्राजापत्यं
च हस्तं च शस्तमाश्विनदैवतम् ॥ वराहं पूजयेद्देवं पृथिवीं च द्विजोत्तम ॥ ९४ ॥ पूजनं सर्वतः कृत्वा गुरुदेवद्विजन्मनाम् ॥ भूभागमुपलि-
प्याथ कृत्वा तत्र तु मण्डलम् ॥ ९५ ॥ शङ्खपुण्याहशब्देन भूमौ तमुपवेशयेत् ॥ मन्त्रश्चात्र भवेद्राम तन्मे निगदतः शृणु ॥ ९६ ॥ रक्षणे वसुधे
देवि सदा सर्वगते शुभे ॥ आयुःप्रमाणं सकलं निक्षिपस्ते हरिम्रिये ॥ ९७ ॥ अन्तराद्यापुस्तस्य ये केचित्पारिपन्थिनः ॥ जीवितारोग्यवित्तेषु
निर्दहस्वाचिरेण तान् ॥ ९८ ॥ वरेण्यशभभूतानां माता त्वमसि कामधुक् ॥ अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥ ९९ ॥ चराचराणां
भूतानां प्रतिष्ठात्वं त्वमेवसि ॥ कुमारं पाहि मातस्त्वं बालं तदनुमन्यताम् ॥ १०० ॥ तस्योपवेशनं कृत्वा भूमौ ब्राह्मणभोजनम् ॥ शक्त्या कृत्वा
ततः कार्यश्चोत्सवः पूर्ववद्द्विज ॥ १०१ ॥ षष्ठेऽन्नप्राशनं मासि कर्तव्यं भौमवर्जिते ॥ दिनवारे तिथिं रिक्तां वर्जनीयां तथैव च ॥ १०२ ॥
नक्षत्राणि तथैवात्र दारुणानि चर्जयेत् ॥ साधारणे तथा राम ज्येष्ठानेन्वपि शस्यते ॥ १०३ ॥ ब्रह्माणं शङ्करं विष्णुं चन्द्रार्कौ च दिशीश्व-
रान् ॥ भुवं दिशश्च सम्पूज्य हुत्वा वह्नौ तथा चरूम् ॥ १०४ ॥ एतेषामेव देवानां कृत्वा ब्राह्मणपूजनम् ॥ देवतापुरतस्तस्य धात्र्युत्सङ्गगतस्य
च ॥ १०५ ॥ अलङ्कृतस्य दातव्यं क्षीरं कांस्ये तु काञ्चने ॥ मध्वाज्यकनकोपेते प्राशयेत्पायसं ततः ॥ १०६ ॥ ततस्तल्लक्षणहेतं राम मन्त्रश्वान्नं
विधोयते ॥ कृतप्राशं तदोत्सङ्गाद्धान्त्री बालं तु विन्सृसेत ॥ १०७ ॥ देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः ॥ शस्त्राणि चैव शास्त्राणि
ततः पश्येत लक्षणम् ॥ १०८ ॥ प्रथमं यं स्पृशेद्वारुः शिल्पभाण्डं स्वयं तथा ॥ जीविका तस्य बालस्य तेनेव तु भविष्यति ॥ १०९ ॥ दन्त-
जन्मनि बालानां तेनैव तु भविष्यति ॥ दन्तजन्मनि बालानां लक्षणं तु निबोध मे ॥ ११० ॥ उपरे प्रथमं यस्य जायन्ते च शिरोर्द्विजाः ॥
दन्तैर्वा सह यस्य स्याज्जन्म भार्गव जायते ॥ १११ ॥ मातरं पितरं वापि खादतेवात्मानमेव च ॥ तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥
॥११२॥ गजपृष्ठगतं बालं नौस्थं वा स्थापयेद्द्विज ॥ तदभावे तु धर्मज्ञ काञ्चने तु वरासने ॥ ११३॥ शास्रौषधैः सर्वगन्धैर्बीजैः पुष्पैः फलैस्तथा ॥
पश्चाद्गव्ये तु रत्नैश्च पताकाभिश्च भार्गव ॥ ११४॥ स्थालीपाकेन धातारं पूजयेत्तदनन्तरम् ॥ सप्ताहं चात्र कर्तव्यं तथा ब्राह्मणभोजनम् ॥ ११५ ॥ अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ॥ काञ्चनं रजतं गाञ्च भुवं चात्मानमेव वा ॥ ११६ ॥ दन्तजन्मनि मासान्त्यसम्भवे सप्तमादपि ॥ अष्टमेऽहनि विप्राणां शृणु स्नानमतः परम् ॥११७॥ भद्रासने निवेश्यैनं मृद्भिर्मूलैः फलैस्तथा ॥ सर्वौषधैः सर्वगन्धैः सर्वबीजैस्तथैव च ॥११८॥ स्नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम् ॥ पूर्वतश्च तथा ख्यातान्देवान्देवं च केशवम् ॥११९॥ एतेषामेव जुहुयाद्वृतमग्नौ यथाविधि ॥ ब्राह्मणानां च दातव्या ततः पूजा च दक्षिणा ॥ १२० ॥ ततस्त्वलंकृतं बालं चासने तूपवेशयेत् ॥ आसनं छत्रसुशभं बीजैरस्तं स्नापयेत्ततः ॥ १२१ ॥ सुस्त्रियैर्बालकानां च तैश्च कार्यं च पूजनम् ॥ पूज्याश्चाविधवा नार्यो ब्राह्मणाः सुहृदस्तथा ॥ १२२ ॥ प्राप्तेऽथ पञ्चमे वर्षे त्वम्पुते जनार्दने ॥ प्रतिपदां तथा षष्ठीं वर्जयित्वा तथाष्टमीम् ॥१२३॥ रिक्तां पञ्चदशीं चैव सौरभौमादिने तथा ॥ ध्रुवाणि याम्यं च तथा नक्षत्राणि विवर्जयेत्॥१२४॥ सौम्यवर्गेऽथरे लग्ने हिते तत्र नवांशके ॥ त्रिकोणकेन्द्रगाः सौम्याः पापाश्चोपचये शुभाः ॥ १२५ ॥ नक्षत्राणां विवर्ज्यानां मुहूर्तांश्च विवर्जयेत् ॥ एवं सुनिश्चिते काले विद्यारम्भं च कारयेत् ॥ १२६ ॥ पूजयित्वा हरिं लक्ष्मीं तथा देवीं सरस्वतीम् ॥ सुधियां सूत्रकारांश्च स्वां विद्यां च विशेषतः ॥ १२७ ॥ एतेषामेव देवानां नाम्ना तु जुहुयाद्धृतम् ॥ दक्षिणाभिद्विजेन्द्राणां कर्तव्यं चात्र पूजनम् ॥ १२८ ॥ धात्र्युत्सङ्गादथादाय बालं तु कृतवापनम् ॥ स्वलंकृतं प्रदातव्यमुत्सङ्गे तु तदा गुरोः ॥ १२९ ॥ गुरुश्चात्र भवेद्विद्वान्स्नातः शुचिरम्बरः शुचिः ॥ प्राङ्मुखं तं तु निक्षिप्य गुरुरप्यथ भार्गव ॥ १३० ॥ प्राङ्मुखः सखुवासीनो वारुणाशासुखं शिशुम् ॥ अध्यापयेत्तु प्रथमं कुर्याद्ब्राह्मोऽपि वन्दनम् ॥ १३१ ॥ ब्राह्म णानां गुरूणां च देवतानामनन्तरम् ॥ ततस्तु पूज्या वित्तेन धात्री राम गुरुस्तथा ॥ १३२ ॥ दक्षिणाभिर्द्विजेन्द्राणां कर्तव्यं तर्पणं तथा ॥ ततः प्रभृत्यनध्यायान्नैर्वांच्वैर्जयेत ॥ १३३ ॥ अष्टमीद्वितयं राम पक्षान्ते च दिनद्वयम् ॥ अशेोचमिन्दुयात्रां च भूकम्पं राहुदर्शनम् ॥ १३४ ॥ व्यतीतं वाप्यहोरात्रमुल्कापातं च भार्गव ॥ अकास्तनितं चैव निर्ज्योतिषमथास्वरम् ॥ १३५ ॥ तथा काले प्रचण्डश्व यदा वायुस्तदा भवेत् ॥ प्रदीपे चायसंत्रेदे चेत्यवृक्षचतुष्पथे ॥ १३६ ॥ गोयाने कुञ्जरे चाश्वे न च नावि तथा भवेत् ॥ श्वशृगालरवे घोरे तथा च खरानस्वने॥१३७॥ तथा वाग्दिशशब्दे च तथैव नगरोत्सवे ॥ १३८ ॥ कालेष्वेतेषु मयोदितेषु पठन्ति ये नाम न तेषु विद्या ॥ फलं प्रयच्छेत्यथवाऽदिरात्रोलोके परे वा यदि वाऽपि चास्मिन् ॥ १३९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने बालतन्त्रो नाम द्विपञ्चाशत्तमो
वि० ध०
॥२१३॥
द्वि० खं०
अ० ५६
ऽध्यायः॥५२॥ श्रीपरशुराम उवाच ॥ पुत्रीयं भगवन्स्नानं पुत्रीयमथ सप्तमीम् ॥ पुत्रीयं च समाचक्ष्व तथा वै केशवव्रतम्॥१॥ पुष्कर उवाच ॥
उपोषितौ कृत्तिकासु यजमानपुरोहितौ ॥ रोहिण्यां स्नपनं कुर्य्याद्यजमानस्य भार्गव ॥ २ ॥ क्षीरवृक्षप्ररोहाभ्यां सितमाल्यविभूषितम् ॥
प्रियङ्गुचन्दनेोपेतमपञ्च कुम्भानप्रपूजयेत् ॥ ३ ॥ प्राङ्मुखं व्रीहिराशिश्च कुम्भैस्तैरेभिषेचयेत् ॥ विष्णुं शशाङ्कं वरुणं रोहिणीं च प्रजाप-
तिम् ॥ ४ ॥ पूजयेत्प्रयतः श्रद्धी गन्धमाल्यानुलेपनैः ॥ धूपः प्रजापतेर्देयस्तथैव शतर्कैशयाः ॥५॥ पञ्चपुष्पैश्चन्दिग्धांश्चा व विनिवेदयेत् ॥
प्रजाध्यक्षाय होमञ्च देवतानां तु कारयेत् ॥६॥ घृतेन सर्वबीजैश्च शुक्लवासा जितेन्द्रियः ॥ दक्षिणां गुरवे देयत्कांस्यं गौर्वाससी शुभे ॥ ७ ॥
सुवर्णं च महाभाग विप्राणामथ शक्तितः ॥ शुक्ला च गौर्वृषः शुक्लोस्तयोलोम शर्क तथा ॥८॥ शृङ्गाणि त्रिवृतं कृत्वा मणिर्र्घण्टेस्ततो भवेत् ॥९॥
अलंकृतं केशमिदं सदैव स्नानं तु कुर्वन्पुरुषोऽथवा स्त्री ॥ पुत्रानावप्नोति तथैधतां च पुष्टिं तथाग्र्यां विपुलां च कीर्तिम् ॥ १० ॥ इति श्रीविष्णु
धर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयरोहिणीस्नानवर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ पुष्कर उवाच ॥
मार्गशीर्षे शुभे मासि शुक्लपक्षे द्विजोत्तम ॥ पुत्रीयां सप्तमीं राम गृहीयान्नियतः शुचिः ॥ १ ॥ अथवा पुत्रकामा स्त्री विधिना येन तच्छृणु ॥
हविष्याशी शिरःस्नातः कृत्वा ब्राह्मणपूजनम् ॥ २ ॥ अधःशायी द्वितीयेऽह्नि गोविषाणोदकेन च ॥ स्नातोपविष्य च तथा शुभे देशे तु
मण्डलम् ॥ ३ ॥ तत्राष्टपत्रं कमलं विन्यसेद्गन्धकैः शुभैः ॥ तस्यैव कर्णिकामध्ये भास्करं पूजयेद्देवं गन्धमाल्यानुले
पनैः ॥ भक्ष्यैर्भोज्यैस्तथा पेयैर्धूपैर्दीपैस्तथैव चा॥४॥ एवं संपूजनं कृत्वा सर्वकामप्रदस्य तु ॥ नक्तं भुंजीत धर्मज्ञ सर्वकर्मविवर्जितः ॥५॥ दन्तो-
लूखलो भूत्वा कृत्वा संवत्सरव्रतम् ॥ व्रतावसाने दातव्या ब्राह्मणदक्षिणा ॥६॥ तथा त्रिरात्रमुपवायं कर्तव्यं द्विजभोजनम् ॥ अधःशाय्य
निशं तां च भूय एव तथा भवेत् ॥८॥ पुत्रीयमेतद्द्रुतसुत्तमं ते मयोदितं कल्मषनाशकारि ॥ आराध्यनं देववरस्य राम सर्वामयं च तथैतदुक्तम्
॥ ९॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने पुत्रीयासप्तमीव्रतं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
पुष्कर उवाच ॥ प्रोष्ठपादामतीतायां कृष्णपक्षाष्टमीं तु या ॥ सोपवासो नरस्तस्यां योषिद्वा तनयार्थिनी ॥१॥ स्नाता सरसि धर्मज्ञ तोये चाप्यथ
सारसे ॥ पूजनं वासुदेवस्य यथा कुर्य्यात्तथा शृणु ॥ २ ॥ घृतमप्स्वेन गोविन्दं स्नापयित्वा जगद्गुरुम् ॥ क्षौद्रेण च ततः पश्चाद्दध्ना च स्नपयेत्ततः
॥ ३ ॥ क्षीरेण स्नपनं कृत्वा ततः पश्चाद्विकल्पितम् ॥ सर्वोषधैश्च गन्धैश्च सर्वबीजफलैस्तथा ॥ ४ ॥ स्नापयित्वाथविलिप्येत चन्दनागुरुकुङ्कुमैः ॥
॥२१३॥
कर्पूरेण तथा राम तथा जातीफलैः शुभैः ॥ ५ ॥ ततः कालोद्भवैः पुष्पैः पूजयित्वा जनार्द्दनम् ॥ धूपं चागुरुणा दत्त्वा कृत्वा नैवेद्यमुत्तमम् ॥ ६ ॥ विशेषाद्घोरसम्पायं पुन्नागैरन्वितैः फलैः ॥ पौरुषेण च सूक्तेन हुत्वा चानन्तरं घृतम् ॥ ७ ॥ शूद्रो वाप्यथवा नारी नाम्ना हुत्वा जगद्गुरुम् ॥ यवपात्राणि दद्यात्तु फलानि कनकं तथा ॥ ८ ॥ पुत्रार्थं प्राशनं कुर्यात्फलैः पूगादिभिः शुभैः ॥ स्त्रीनामभिश्च कन्यार्थी ततो भुक्त्वा यथेप्सितम् ॥ ९ ॥ पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ॥ हविष्यं देवदेवस्य भूमिशोभां तु कारयेत् ॥ १० ॥ संवत्सरमिदं कृत्वा व्रतमाप्नोत्यभीप्सितम् ॥ पुत्रकामानवाप्नोति तथा सर्वानभीप्सितान् ॥ ११ ॥ पुत्रीयमेतद्व्रतमुक्तं ते मयेरितं यद्यपि धर्मनित्यम् ॥ तथाप्यनेनैव समस्तकामान्कृतेन लोके पुरुषा लभन्ते ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पुत्रीयाष्टमीव्रतं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ ॥ श्रीपरशुराम उवाच ॥ भगवञ्छ्रोतुमिच्छामि पुरुषाणां चिकित्सितम् ॥ तन्ममाचक्ष्व देवेश तत्र मे संशयो महान् ॥ १ ॥ पुष्कर उवाच ॥ रक्ष त्वं महाभाग लङ्घयेज्ज्वरितं नरम् ॥ सविश्वं लाजमण्डं तु लंघितं तच्च भोजयेत् ॥ २ ॥ मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः ॥ शृतं शीतं पयश्चात्र दातव्यं तृट्प्रशान्तये ॥ ३ ॥ षडहे च व्यतिक्रान्ते तिक्तकं पाययेद्रसम् ॥ स्नेहयेत्पक्वदोषं च ततस्तं च विरेचयेत् ॥ ४ ॥ जीर्णषष्टिकनीवाररक्तशालिप्रमोदकाः ॥ तद्विधाश्चतुराः श्रेष्ठाः यवानां विकृतिस्तथा ॥ ५ ॥ मुद्गा मसूराश्चणकाः कुलत्थाः समकुण्ठकाः ॥ आढकी च फलं मूले यूषार्थे ज्वरिणां हितम् ॥ ६ ॥ कृष्णशुक्लकवन्तीकीर्त्तितैरेणकपिञ्जलाः ॥ लावाद्या जाङ्गलाःश्रेष्ठाः ज्वरिणां तद्विधाश्च ये ॥ ७ ॥ पटोलं सफलं निम्बं कर्कोटककटिल्लकम् ॥ शाकं पर्पटकं चाद्याद्द्रव्यार्थे दाडिमं हितम् ॥ ८ ॥ अयोगे वमनं शस्तमूर्द्धगे च विरेचनम् ॥ रक्तपित्ते तथा पाने षडङ्गं शुण्ठिवर्जितम् ॥ ९ ॥ लाजा सिञ्चिति कामं तु यवगोधूमशालयः ॥ मसूरमुद्गचणकाः खण्डिताः समकुष्ठिकाः ॥ १० ॥ हृद्या गोधूमिका भक्ष्या घृतक्षीरोपसाधिताः ॥ सक्षौद्रशर्करापेतास्तथा वृषरसो हितः ॥ ११ ॥ अतीसारे पुराणानां शालीनां भक्षणं हितम् ॥ अनभिष्यन्दि वा चान्यद्रोद्रवृत्तसकसंस्युतम् ॥ १२ ॥ मारुतानां जये यत्नः कार्यो गुल्मेषु सर्वथा ॥ वातक्षीरेण चाश्नीयाद्घृतयुक्तं घृतसाधितम् ॥ १३ ॥ कुक्कुटा बर्हिणः श्रेष्ठास्तिक्ता गोधूमशालयः ॥ हिता जठरिणां भोज्ये यवगोधूमशालयः ॥ १४ ॥ मुद्गाः कुलत्थाः कोलानि जाङ्गला मृगपक्षिणः ॥ पटोलनिम्बधान्याम्रशुण्ठिकामूलकैः सर्व्वैः ॥ १५ ॥ मातुलुङ्गरसाजातिसिद्धवृक्षाम्लवेतसैः ॥ आहारं जठरे युक्त्या यथादोषं प्रकल्पयेत् ॥ १६ ॥ कुष्ठिनां च तथा शस्तं पानार्थे खदिरोदकम् ॥ मसूरमुद्गौ यूषार्थे
वि० ध० ॥२१४॥ द्वि० खं० अ० ५६ ॥२१४॥
भोज्ये जीर्णाश्च शालयः ॥ १७ ॥ निम्बपर्पटको शाकौ छागलानां तथा रसः ॥ विडङ्गं मरिचं शुण्ठी कुष्ठं रोधं ससर्जकम् ॥ १८ ॥ मनःशिलैः कृतो लेपः कुष्ठहा मूत्रपेषितः ॥ अपूपसक्तुकलमाषवाजाद्या मेहिनां हिताः ॥ १९ ॥ यवान्नविकृतिःशुद्धाः कुलत्था जीर्णशालयः ॥ तिक्तवृक्षाणि शाकानि तिक्तानि हरितानि च ॥ २० ॥ तैलानि तिलशिग्रूत्था विभीतकदुद्भवानि तु ॥ अनभिष्यन्दि यच्चान्यद्भोजने तत्प्रशस्यते ॥ २१ ॥ मुद्गाः सयवगोधूमा धान्यं वर्षस्थितं च यत् ॥ जाङ्गलरसवरैः प्रोक्तो भोजने राजयक्ष्मिणाम् ॥ २२ ॥ कुलत्थमुद्गकालंबुशुष्कमूलकजाङ्गलैः ॥ यूषैर्वा वार्तिकैः स्निग्धैर्ह्रद्वैर्दाडिमसाधितैः ॥ २३ ॥ मातुलुङ्गरसोन्मिश्रैर्दाडिमाम्वोपिदंस्कृतैः ॥ यवगोधूमशाल्योत्थैर्भोजयेद्व्यञ्जनैः पयः ॥ २४ ॥ दशमूलफलाम्लारत्नान्कुलत्थेरुपसाधितैः ॥ पयोव्यूपुरसक्वाथः श्वासहिक्कानिवारणः ॥ २५ ॥ शुष्कमूलककोलत्थोमज्जोजांगलेन रसैः ॥ यवगोधू- मशाल्यन्नं जीर्णशौंडार्सं समाचरेत् ॥ २६ ॥ जीर्णं पक्वरसं शीचुमाद्रीकाँस्त्वथ वा पिबेत् ॥ शोथ्यान्सगुडकां पथ्यां खाद्वा गुडप्लवान्भक्षान् ॥ ॥ २७ ॥ चित्रं विचित्रकं चोभौ ग्रहणीरोगनाशनौ ॥ पुराणयवगोधूमशालयो जाङ्गलं रसम् ॥ २८ ॥ मृतामलकखर्जूरमृद्वीकाबदराणि च ॥ मधुसर्पिःप्रयुक्तकं निम्बपर्पटको वृष्यं ॥ २९ ॥ तक्रेणबुद्ध्वाचतुरस्यन्ते सततं वातरोगिणाम् ॥ हृद्रोगिणे प्रदातव्यं प्रयत्नेन विरेचनम् ॥३०॥ पिप्पलीनां प्रयोगश्च प्रसूते धर्मिणस्तथा ॥ चकार नाडीं शीघ्रेण युक्ता च शिशिराम्भसा ॥ ३१ ॥ युक्तसौवर्चलाजामिषमथ शस्तं मदात्यये ॥ सक्षौद्रपयसा लाक्षां पिवेत क्षतवान्नरः ॥ ३२ ॥ क्षयं मांससहारो वह्निंलक्षणमाजयत् ॥ शालयो भोजने शक्ता नीवारकलमादयः ॥ ३३ ॥ यवान्नविकृतिमांसं शाकं सौवर्चलं सुधीः ॥ पथ्यं तथैव तासां च मण्डं तक्तं च वारुणी ॥ ३४ ॥ मुस्ताम्ब्यास्तथा लेपः चित्रकेण हरिद्रया ॥ यवान्नविकृतिः शालिवास्तुको च सुवर्चलम् ॥ ३५ ॥ त्रपुसो चारुगोद्यमाः क्षीरैक्षुघृतसंयुताः ॥ मूत्रकृच्छ्रे च शस्ताः स्युः पाने मण्डसुरादयः ॥ ३६ ॥ लजा सक्तु तथा क्षौद्रं शाल्यं मांसप्रहृपकम् ॥ वृन्ताकालंबुगिरिव्रिक्षुद्भिद्वाः पानकानि च ॥ ॥ ३७ ॥ शाल्यन्त्रं तोयपयसी केवलोष्णेनाश्रितेऽपि वा ॥ तृष्णाग्ना वृत्तयुर्डेगुलिका वा मुखे धृता ॥ ३८ ॥ यवान्नविकृतिंयूषं शुष्कमूलकजं तथा ॥ शाकं पटोलवार्त्ताभ्रूमरुस्तम्भाविनाशनम् ॥ ३९ ॥ मुक्ताढकमसूरानपामार्ततोर्जाडलैस्तथा ॥ ससैन्धवघृतद्राक्षाशुण्ठ्यामलककोलिकैः ॥ ४० ॥ यूषैः पुराणगोधूमयवशल्यन्नमभ्यसेत् ॥ विसर्पे सर्पिसालोढमृद्वीकादाडिमोदरः ॥ ४१ ॥
१ ‘शफरीकायम्’ इति पुस्तके ।
२ ‘रुढी’ इत्यपि पाठः ।
रक्तपित्तेऽधिको गोधूमयवसुहादिवल्लषु ॥ काकमाची च वेत्राग्रं वास्तुकं च सुवर्चला ॥ ४२ ॥ वातशोणितनाशाय तोयं शस्तं सिता मधु ॥ नासारोगे च सहितं घृतदूर्वाप्रसाधितम् ॥ ४३ ॥ भृङ्गराजरसे सिद्धं तैलं धात्रीरसोऽपि वा ॥ न स्यात्सर्वामयोन्निर्धूं मूर्द्धजश्वश्वेवथ ॥ ४४ ॥ शीततोयान्वपत्तं तिलानां रात्र भक्षणम् ॥ द्विजदार्थ्यकरं प्रोक्तं तथा पथिकरं शुभम् ॥ ४५ ॥ गण्डूषास्तिलतैलेन द्विजदार्थ्यकरः परः ॥ विडङ्गचूर्णं गोमूत्रं सर्वत्र कृमिनाशनम् ॥ ४६ ॥ धात्रीफलान्वयाच्चं च शिरोलेपनमुत्तमम्॥शिरोरोगविनाशाय स्निग्धशीतं च भोजनम्॥४७॥ तैलं वा वस्ति मूत्रं वा कर्णपूरणमुत्तमम् ॥ कर्णशूलविनाशाय शुद्धं तैलं निषेचयेत् ॥ ४८ ॥ गिरिशृङ्गनन्दनं माल्यं मालतीकलिकास्तथा ॥ संयोज्य या कृता वर्तिः शतचक्रहरी तु सा ॥४९॥ व्योषं त्रिफलया युक्तं शुक्तं च रसाञ्जनम् ॥ सर्वशिरोरोगशमनं तथा चेद्र साञ्जनम् ॥ ५० ॥ आज्यमृष्टं शिलापिष्टं रोधं काञ्जिकसैन्धवैः ॥ आश्च्योतनाद्विनाशाशाय सर्वरोगामयेषु च ॥ ५१ ॥ गिरिशृङ्गनन्देनलेपो बर्हिल्लेपस्य शस्यते ॥ नेत्रामयविधातार्थं त्रिफलां शीलयेत्सदा ॥ ५२॥ रात्रौ तु मधुसर्पिभ्यां दीर्घमायुर्जिजीविषुः ॥ शतावरं रसे सिद्धो वृष्यो क्षीरघृतौ स्मृतौ॥५३॥ कलविङ्कानि माषाश्च वृषो क्षीरं घृतं तथा ॥ आयुष्ण्या त्रिफला चैव पूर्वमन्त्रमुकान्विता ॥ ५४ ॥ मधुकायोरजोपेता वलीपलितनाशिनी ॥ वचासिद्धं घृतं रात्र तथा भूतविनाशनम् ॥ ५५ ॥ कण्ठे बुद्धिप्रदं चैव तथा सर्वाथसाधकम् ॥ वल्गकल्ककषायेण सिद्धमभ्यञ्जनं हितम् ॥ ५६॥ रास्ना सहचरैर्वापि तैलं वातविकारिणाम् ॥ अनभिष्यन्दि यच्चान्यत्तच्छ्रोणे प्रशस्यते ॥ ५७ ॥ पक्वस्य च तथा भेद् निम्बशीलं च रोपणे ॥ तथा तस्योपचारश्च बलिकर्मीर्थिशेषतः ॥ ५८ ॥ सूतिका च तथा रक्षा व्रणिनां तु सदा हिता ॥ जङ्गमे विषदेशे तु द्वात्तव्यं स्थावरं विषम् ॥ ॥५९॥ स्थावरे सर्पदष्टस्य हितं मांसस्य भक्षणम् ॥ भक्षणं निम्बपत्राणां सर्पदष्टस्य भेषजम् ॥ ६० ॥ वन्ध्याकार्कोटजं मूलं छागम्बूत्राभिभा वितम् ॥ नस्यं काञ्जिकसंपिष्टं विषवेगविनाशनम् ॥६१॥ बन्धनाद्दहण च्छेदाद्दहास्त्रावाः प्रकीर्तिताः ॥ पूर्वदृष्टस्य पाने च हृद्यावरण घृतम् ॥ ॥६२॥ तालतिम्ब्वदलं केशा जीर्णेचेतं गवा घृतम् ॥ धूषो वृश्चिकविदष्टस्य शिखिपत्रं वृतेन वा ॥६३॥ अर्कक्षीरेण संपिष्टं लेपबीजं पलाशजम् ॥ वृश्चिकार्तस्य कृष्णा वा शिरीषफलसंयुता ॥ ६४ ॥ तिलकास्फोट्योदंनं गिरिकर्ण्यस्तित्वस्त्य च ॥ शर्करामधुसर्पींपि पानमाशुविषापहम् ॥ ॥६५॥ अर्कक्षीरं तिलस्तैलं पललं च गुरु समम् ॥ पानाज्जयति दुर्वारंविषं शीघ्रमेव च ॥६६॥ पीत्वा मूलं त्रिष्टुतुल्यं तण्डुलीयस्य सर्पिषा॥ सर्पकीटविषाण्याशु जयत्यतिबलान्यपि ॥ ६७ ॥ चन्दनं पद्मकं कुष्ठं नताम्बूशीरपाटलाः ॥ निर्गुण्डीशशिरेखल्पूर्नाताविषह्रदोगदः ॥ ६८ ॥
वि० ष० ॥२१५॥
द्वि० खं० अ० ५६
शिरोविरेचनं शस्तं गुडनागरकं द्विज ॥ नस्यकर्मणि वर्त्तौ च तथा भृङ्गे च भार्गव ॥ ६९ ॥ तैलेनैव परं विद्यात्स्नेहपाने तथा घृतम् ॥
स्वेदनीयः परो वह्निः सिताम्भःस्तम्भनं परम् ॥ ७० ॥ त्रिवृद्धि रेचने श्रेष्ठा वमने मदनं तथा ॥ बस्तिविरेके वमनं तैलं सर्पिस्तथामधु ॥७१॥
रक्तपित्ते बला रास्ना क्रमेण परमौषधम् ॥ शरीरमानसांस्तु सहजा व्याधयो मताः ॥ ७२ ॥ शारीरज्वरकुष्ठाद्याः क्रोधाद्या मानसा मताः ॥
आगन्तवोऽभिघातोत्थाः सहजाः क्षुत्तृषादयः ॥ ७३ ॥ शारीरागन्तुनाशाय सततं सूर्यवासरे ॥ गुडराज्यलवणोपेतं सहिरण्यं द्विजातये ॥७४॥
दद्याच्च धूपं धर्मज्ञ प्रीणयेच्च दिवाकरम् ॥ आरोग्येनेतरान्कामान्प्राप्नोति कामांश्च मनसेप्सितान् ॥ ७५ ॥ सततं दिवसे चान्द्रे स्नानमभ्यङ्गपूर्वकम् ॥
यः प्रयच्छति विप्राय सोऽपिरोगैर्विमुच्यते ॥ ७६ ॥ शनैश्चरादिने दत्त्वा तैलं विप्रेषु शक्तिसः ॥ नित्यमेव महाभाग रोगनाशनमाप्नुयात् ॥ ७७ ॥
आज्यस्नूतं सकलं मासं प्रत्यहं गोऽसृग्द्विजान् ॥ भोजयित्वा महाभाग रोगनाशनमाप्नुयात् ॥७८॥ स्नापयित्वा तथा लिङ्गं देवदेवस्य शूलिनः ॥
घृतेन पयसा चैव सर्वरोगैर्विमुच्यते ॥ ७९ ॥ गात्रव्याधिहरैश्चूर्णेस्त्रिमध्वाप्लुतमर्चयेत् ॥ घृतैश्च ब्राह्मणाञ्छ्रेणीः सर्वरोगैर्विमुच्यते ॥ ८० ॥
यस्मिन्भे व्याधिमाप्नोति कृत्वा तस्य बलिक्रियाम् ॥ पूजाविधानेन राम तस्माद्रोगाद्विमुच्यते॥८१॥कर्त्तव्यमथवा स्नानं तथारोग्यविवर्धनम् ॥
आरोग्यदां द्वितीयां वा प्रतिपद्वा भृगूत्तम ॥ ८२ ॥ कर्तव्यं वैष्णवं वापि व्रतमारोग्यकारकम् ॥मानसानां निजानां च तथा चैवाविपत्तये ॥८३॥
शरणं देवदेवेशं व्रजेत मधुसूदनम् ॥ सर्वगं तं जगन्नाथमजेयं पुरुषोत्तमम् ॥ ८४ ॥ स्तुवन्नामसहस्रेण व्याधीन्सर्वान्व्यपोहति ॥
दोषधातुमलाधारं शरीरं प्राणिनां द्विज ॥ ८५ ॥ वातपित्तकफा दोषा धातवश्च तथा शृणु ॥ भुक्तं पक्वाशयादन्नं द्विधा याति भृगूत्तम ॥ ८६ ॥
अंशेनैकेन किट्टत्वं रसतां चापरेण च ॥ किट्टभागो मलस्तत्र विण्मूत्रस्वेददूषकः ॥ ८७ ॥ नासामलं देहमलं तथा कर्णमलं च यत् ॥ रसभागं
रसं तत्र सम्यक्शोणिततां व्रजेत् ॥ ८८ ॥ मांसं रक्तत्ततो मेदो मेदसोऽस्थीं च सम्भवः ॥ अस्थ्नो मज्जा ततः शुक्लं शुक्राद्गर्भ ततो रसः ॥८९॥
सर्वेषामेव धातूनां सारमोजः प्रकीर्तितम् ॥ देशं सात्म्यं च यां शक्तिं कालं प्रकृतिमैव च ॥९० ॥ ज्ञात्वा चिकित्सितं कुर्याद्रूपजस्य तथा बलम् ॥
तिथिं रिक्तां दिनेशं च तथैव च कुजार्कजौ ॥ ९१ ॥ दारुणेष्वपि चक्राणि वर्जयेद्रूपजे सदा ॥ हरेर्गोविन्दचन्द्रार्कसुराग्नीन्प्रतिपूज्य च॥ ९२ ॥
श्रुत्वा मन्त्रमिमं विद्वान्भेषजारम्भमाचरेत् ॥ ब्रह्मकृशाश्विविहगेन्द्रसूर्यचन्द्रार्कनलानिलाः ॥ ९३ ॥ ऋषय ओषधिग्रामा भूतसङ्घाश्च पान्तु ते ॥
॥२१६॥
१ च रोगाणां इति ख० ।
रसायनमिवर्षीणां देवानाममृतं यथा ॥ ९४ ॥ स्वक्षेत्रोत्तममंगानां भैषज्यमिदमश्नुते ॥ वातश्लेष्मात्मको देशो बहुवृक्षो बहुदकः ॥ ९५ ॥ अनूप इति विख्यातो जाङ्गलस्तद्विवर्जितः ॥ किंचिद्वृक्षाल्पिको देशस्तथा साधारणः स्मृतः ॥ ९६ ॥ जाङ्गलः पित्तबहुलो मध्यः साधारणो मतः ॥ रूक्षशीतबलो वातः पित्तमुष्णकटुद्रवम् ॥ ९७ ॥ स्थिरस्निग्धमधुरं श्लेसं च प्रचक्षते ॥ वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः ॥ ९८ ॥ समाः स्वाद्वम्ललवणाः श्लेष्मला वायुनाशनाः ॥ कटुतिक्तकषायाश्च वातलाः श्लेष्मनाशनाः ॥ ९९ ॥ कट्वम्ललवणा ज्ञेयास्तथा पित्तविवर्धनाः ॥ तिक्ताः स्वादुकषायाश्च तथा पित्तविनाशनाः ॥ १०० ॥ स्वभावस्तत्कथा कर्म ते च कुर्वन्ति भार्गव ॥ शिशिरे च वसन्ते च निदाघे च तथा क्रमात् ॥ १०१ ॥ चयप्रकोपप्रशमास्तथा पित्तस्य कीर्त्तिताः ॥ निदाघे वारिदा रात्रे तथा शरदि भार्गव ॥ १०२ ॥ चयप्रकोपप्रशमास्तथा वातस्य कीर्त्तिताः ॥ चयप्रकोपप्रशमाः श्लेष्मणश्च प्रकीर्तिताः ॥ १०३ ॥ संवत्सरो द्वादशाङ्गो मासभेदेन कीर्तितः ॥ द्विधा तु मतभेदेन भूय एव प्रकीर्तितः ॥ १०४ ॥ आदानश्च विसर्गश्च तत्रापि परिकीर्तितौ ॥ वर्षादयो विसर्गाश्च हेमन्ताद्याः स्मृतास्त्रयः ॥ १०५ ॥ मेघकाले च शरदि हेमन्ते च यथाक्रमात् ॥ चयप्रकोपप्रशमास्तथा पित्तस्य कीर्तितः ॥ १०६ ॥ शिशिराद्यास्तथादानं ग्रीष्मान्ता ऋतवस्त्रयः ॥ सौम्यो विसर्ग स्त्वादानं चाग्नेयं परिकीर्तितम् ॥ १०७ ॥ वर्षादीन्द्दीनृतून्नाम चतुःपर्याययोगरसान् ॥ विवर्धयेत्तथा तिक्तकषायकटुकाक्रमात् ॥ १०८ ॥ यथा राजन्यो वर्धन्ते बलमेवं विवर्धते ॥ क्रमशौश्च मनुष्याणां हीयमानासु हीयते ॥ १०९ ॥ रात्रिभुक्तं दिनान्ते तु दिवसम्य तथैव च ॥ आदिमध्या वसानेषु कफपित्तसमीरणाः ॥ ११० ॥ प्रकोपं यान्ति कोपादौ काले येषां चयः स्मृतः ॥ प्रकोपानन्तरजे काले शमस्तेषां प्रकीर्तितः ॥ १११ ॥ अतिभोजनतो राम तथा चाभोजनेन च ॥ सर्वेऽपि रोगा जायन्ते वेगोदीरणधारणैः ॥ ११२ ॥ अनेन कुशेलोर्द्धांशौ पानेनैकं प्रपूरयेत् ॥ आश्रयं पवनादीनां तथैक्रमवशोषयेत् ॥ ११३ ॥ व्याधिनिदानस्य तथा विपरीतमोषधम् ॥ कर्तव्यमेतद्देवात्र मया सार्धं प्रकीर्तितम् ॥ ११४ ॥ नाभे रूर्ध्वमधश्चैव गुदश्रोण्योस्तथैव च ॥ बलसपित्तवातानां देहे स्थानं प्रकीर्तितम् ॥ ११५ ॥ तथापि सर्वगा एते देहे वायुर्विशेषतः ॥ देहस्य मध्ये हृदयं स्थानं तु मनसः स्मृतम् ॥ ११६ ॥ कृशोल्पकेशश्चपलो बहुवाग्विपथमानसः ॥ व्योमगश्च तथा स्वप्ने वातप्रकृतिकिरुच्यते ॥ ११७ ॥ अकालपलितः क्रोधी प्रस्वेदी मधुरप्रियः ॥ स्वप्ने च दीप्तिमत्प्रेक्षी पित्तप्रकृतिरुच्यते ॥ ११८ ॥ दृढाङ्गः स्थिरचित्तश्च सुभगः स्थिरसूर्यजः ॥ शुक्लाम्बुदर्शी स्वप्ने च कफप्रकृतिको नरः ॥ ११९ ॥ तामसा राजसाश्चैव सात्त्विकाश्च तथा स्मृताः ॥ मानुषा भृगुशार्दूल वातपित्तकफा
हिक्काः ॥ १२० ॥ कृशशीतव्यवायाध्वगुरु कर्म प्रवर्त्तते ॥ कट्वम्ल म जलक्षारैरुद्देहे शौचञ्च कुर्व्वति ॥ १२१ ॥ विवर्दिनां तथोष्णानामुषेवेध्वनिषेविणाम् ॥ पित्तं प्रकोपमायाति भयेन च तथा द्विज ॥ १२२ ॥ अत्यंबुपानविषमभोजिनां भुवि शायिनाम् ॥ रूक्ष्मा प्रकम्पयत्यग्निं तथा ये चाल्पभोजनाः ॥ १२३ ॥ वातपित्तकफोत्यानि सर्वरोगाणि देहिनाम् ॥ लक्षणैर्लक्षणं विद्वांस्तन्मेतच्छृणुसत्तत्त्वतः ॥ १२४ ॥ अस्थिभङ्गः कषायित्वमास्ये शुष्कास्यता तथा ॥ जृंभणं लोमहर्षश्च वातिकस्यान्यविक्षयः ॥ १२५ ॥ नखनेत्रशिरोगण्डं च पीतता कटुका मुखे ॥ तृष्णा दाहोऽरुता चैव पित्तव्याधिनिदर्शनम् ॥ १२६॥ आलस्यं च प्रसेकश्च गुरुता मधुरास्यता ॥ उष्णाभिलाषिता चेति श्लैष्मिके व्याधिलक्षणम् ॥ १२७ ॥ शिरोधोषोन्नमन्नं ससुखा च शय्या मनोऽनुकूलाः सुहृदः कथाश्च ॥ अभ्यंजनं चाप्यहितत्वपानं वातप्रकोपप्रशमाय दृष्टम् ॥ १२८ ॥ सरांसि वाप्यः सरितः सुशीताश्चन्द्रांशुचन्दनपङ्कलेपाः ॥ मनोविनोदाश्च शमं प्रयाति विलासस्रग्वं मरुतः प्रहर्षात् ॥ १२९ ॥ सर्वमप्यतिपशाम्यथैकमर्का त्वमपोषधीं गम निबोध गुह्याम् ॥ भक्तिः प्रमादाद्वरदस्य विष्णोर्या सर्वकर्मैः पुरुषं पुनक्ति ॥ १३० ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० पुरुषचिकित्सानाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ ॥ राम उवाच ॥ ॥ आरोग्यकरणं नाम द्वितीया प्रतिपत्तथा ॥ आरोग्यदं व्रतं चैव वैष्णवं कथयस्व मे ॥ १ ॥ पुष्कर उवाच ॥ ॥ अनिष्टातु महाभाग यजमानपुरोहितौ ॥ उपोष्य वारुणं स्नानं यजमानस्य कारयेत् ॥ २ ॥ कृत्वा कुम्भास्ततं साग्रं शंखशुक्त्याफलोदकैः ॥ भङ्गलानोतविद्दैस्तैः स्नातश्चेवाहताम्बरः ॥ ३ ॥ केशवं वारुणं चन्द्रं नक्षत्रं वरुणं तथा ॥ पूजयेत्प्रयतो गम गन्धमाल्योनुलेपनैः ॥ ४ ॥ ॥ धूपदीपनमस्कारैर्नक्तंवा चेत्रवान्त्सपद्य ॥ देवतानां यथोक्तानां कुर्वीत हवनं तथा ॥ ५ ॥ सर्वोषधैस्तथाऽनेन यथाशक्ति विधानतः ॥ कुरुवे वाससी देयं रक्तकुम्भं च काञ्चनम् ॥ ६ ॥ ब्राह्मणानां प्रदातव्या वित्तशक्त्या च दक्षिणा ॥ शमीशाल्मलिजैः पत्रैर्दशभ्रेण तथैव च ॥ ७ ॥ त्रिबृतस्त बलिः कार्यः सर्वयोगविनाशनः ॥ शाकानि हरेतं माल्यं सर्वसस्यानि वामसी ॥ वरुणायाशु निक्षिप्य गन्धैर्धूपैर्निवेदयेत् ॥ ८ ॥ अलक्ष्मीयमानस्य हि वारुणं तं स्नातित द्रानेन कृतेन सम्यक् ॥ रोगाः समस्ताः प्रशमं प्रयान्ति वक्षस्तथा मोक्षमवाप्नुयाच्च ॥ ९ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वित्तीयखण्ड मा० सं० गमं प्रति पुष्करोपाख्याने शतभिषास्नानवर्णनं नाम सप्तपञ्चाशतत्तमोऽध्यायः ॥ ५७ ॥ ॥ पुष्कर उवाच ॥ ॥ पापशुक्लबिद्वितीयायां गवां शुक्लोदकेन तु ॥ सात्वा शुक्माम्बरी भूत्वा सूर्य्यस्तं समुपोगते ॥ १ ॥ बालेन्दोः पूजनं कृत्वा गन्धमाल्यानुलेपनैः ॥ धूपदीपनमस्कारस्तथा चैवा ॥ २१६ ॥
त्रसम्पदा ॥ २ ॥ दध्ना च परमान्नेन गुडेन लवणेन च ॥ पूजनेर्ब्राह्मणानां च पूजयित्वा निशाकरम् ॥ ३ ॥ यावदस्तं न यातीन्दुस्तावदेव समाचरेत् ॥ आहारं गौरसपिष्पञ्चःशायी निशं नयेत् ॥ ४ ॥ ततः संवत्सरे पूर्णे सौम्यमासे द्विजोत्तम ॥ बालेन्दोः पूजनं कृत्वा ब्राह्मणानां च पूजनम् ॥ ५ ॥ वाससी रक्तकुम्भं च काञ्चनं च द्विजातये ॥ दत्त्वा च पूजयित्वा च व्रतपारङ्गतो भवेत् ॥ ६ ॥ व्रतेनानेन धर्मज्ञ रोग- मेवं व्यपोहति ॥ सर्वसौख्यं तथा द्रव्यं पुष्टिं च मनुजोत्तम ॥ ७ ॥ कामं समाप्नोत्यथवैकमिष्टं येन व्रतेनाथ समस्तमधर्मम् ॥ अभ्यासास्तत्तमस्य समस्तकामान्नरः समाप्नोति किमत्र चित्रम् ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने आरोग्यप्रद- तीया नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥ ॥ पुष्कर उवाच ॥ ॥ संवत्सरावसाने तु पञ्चदश्यामुपोषितः ॥ पूजयेद्भास्करं देवं वर्णकैः कमलैः कृते ॥ १ ॥ शुक्लेन गन्धमाल्येन चन्दनेन सितेन च ॥ तथा कूर्मेण धूपेन घृतदीपेन भार्गव ॥ २ ॥ अपूपैः सैकतैर्द्वाभ्यां परमान्नेन स्रपिषा ॥ ओदनेन च शुक्लेन सितालवणसर्षिषा ॥ ३ ॥ क्षीरेण च फलैः शुक्लैर्द्विजांस्तर्पयेत् ॥ पूजयित्वा जगद्धात्रीं दिनभागे चतुर्थके ॥ ४ ॥ आहारं प्रथमं कुर्यात्सघृतं मनुजोत्तमः ॥ रसं च मनुजश्रेष्ठ घृतहीनं विवर्जयेत् ॥ ५ ॥ भुक्त्वा च सकृद्देवान्नाहारं समुपाचरेत् ॥ पानीयपानं कुर्वीत ब्राह्मणामुमते पुनः ॥ ६ ॥ संवत्सरमिदं कृत्वा ततः कृत्वा त्रयोदशम् ॥ पूजनं देवदेवस्य तस्मिन्नहनि भार्गव ॥ ७ ॥ समापयेद्व्रतं पुण्यं राम कुम्भं द्विजातये ॥ सहिरण्यं सवस्त्रं च तथा दद्याद्द्विजोत्तम ॥ ८ ॥ व्रतेनानेन धर्मज्ञ रोगमेव व्यपोहति ॥ आरोग्यमाप्नोति गतिं तथाग्र्यां यशस्तथाग्र्यं विपुलंश्च भोगान् ॥ व्रतेन सम्यक्पुरुषो धनार्थी सम्पूजयेश्चाथ जगत्प्रधानम् ॥ ९ ॥ इति श्रीवि- ष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यप्रतिपन्नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥ पुष्कर उवाच ॥ शुक्लपक्षावसाने तु यद्राम दिनपञ्चकम् ॥ तत्र सम्पूजयेद्विष्णुं विधिना येन तं शृणु ॥ १ ॥ गोमूत्रं गोमयं क्षीरं दधिसर्पिस्तथैव च ॥ एकैकेन चरेत्स्नानमेकाद- श्यादिषु क्रमात् ॥ २ ॥ कौपताडागनाद्यैः पञ्चभिस्सारसैर्जलैः ॥ कर्तव्यं क्रमशः स्नानं स्नातः सम्पूजयेद्धरिम् ॥ ३ ॥ तैलेनमिश्रगुग्गुलं क्षौद्रं क्षीरं सर्पिञ्च भार्गव ॥ स्नपयेद्देवदेवस्य कर्तव्यं स्याद्दिनक्रमात् ॥ ४ ॥ कालागुरुमुशीरं च तथा जातीफलं द्विज ॥ कर्पूरं चन्दनं चैव कल्पयेद्बहुलेपने ॥५॥ कुसुमैरम्बुजातेषु गन्धवस्तु सितेषु च ॥ एकैकं कल्पयेज्जातिं श्रद्धया दिवसक्रमात् ॥६॥ कृष्णा गौरा तथा ताम्रा कपिला च सिता तथा ॥ दद्याद्धेनुस्तद्घृतं देयं दीपार्थं दिवसक्रमात् ॥ ७ माषमुद्गकलापानां चणकस्य तिलस्य च ॥ भक्ष्याणि विनिवेद्यानि तथैव दिवसक्रमात् ॥ ८ ॥ ३७
वि० ध० ॥२१७॥
द्वि० खं० अ० ६१
फाणितं च गुडं चैव तथा मत्स्याण्डिका शुभा ॥ खण्डं च शर्करां चैव क्रमशो विनिवेदयेत् ॥ ९ ॥ क्षीरवृक्षस्य समिधस्तथा दूर्वांस्तिलानपि ॥ सिद्धार्थकान्यथाज्यं च भावयेद्दिवसक्रमात् ॥ १० ॥ अनिरुद्धाय देवाय प्रद्युम्नाय तथैव च ॥ संकर्षणाय देवाय वासुदेवाय चाप्यथ ॥ ११ ॥ नाम्ना तु जुहुयाद्देहि प्रणवेनान्तिमंऽहनि ॥ अयः सीसं तथा ताम्रं रजतं कनकं तथा ॥ १२ ॥ दक्षिणाथं प्रदातव्यं द्विजेभ्यो दिवसक्रमात् ॥ नक्तं च गौरसप्रायं भोक्तव्यं तैलवर्जितम् ॥ १३ ॥ भूशोषनं च कर्तव्यं देवस्य पुरतस्तथा ॥ गीतवाद्यस्तवेनैव पूजयेद्दिनपञ्चकम् ॥ १४ ॥ एवं संवत्सरं कृत्वा सर्वरोगान्व्यपोहति ॥ ग्रहणे च व्रतस्यास्य न कालनियमः स्मृतः ॥ १५ ॥ नित्याभ्यासेन चैवास्य विष्णुलोके महीयते ॥ व्रतं श्रेष्ठमिदं प्रोक्तं मया ते भृगुनन्दन ॥ १६ ॥ धन्यं यशस्यं पितृनाशकारि सौभाग्यदं पापहरं पवित्रम् ॥ आयुष्यमग्र्यं सुगतिप्रदं च व्रतोत्तमं विघ्नविनाशनं च ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने आरोग्यव्रतनाम षष्ठितमोऽध्यायः ॥ ६० ॥ पुष्कर उवाच ॥ राजधर्मव्रतं श्रेष्ठं कृत्वा पुरुषविग्रहम् ॥ पुरुषान्विनियुञ्जीत चोत्तमाधममध्यमेषु ॥ १ ॥ ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं तथा ॥ शताम्रामाधिपं चापि तथैव विषयेष्वथ ॥ २ ॥ तेषां भागविभागाश्च भवेत्कर्मानुरूपतः ॥ नित्यमेव तथा कार्यं तेषां चारैः परीक्षयेत् ॥ ३ ॥ ग्रामदोषान्समुत्पन्नान्यामेशः प्रशमं नयेत् ॥ अशक्तौ देशपालस्य स तु गत्वा निवेदयेत् ॥ ४ ॥ श्रुत्वा तु देशपालोऽपि तत्र युक्तिमुपाचरेत् ॥ सोप्यशक्तः शतेषाय यथावद्विनिवेदयेत् ॥ ५ ॥ शतेशो विषयेषाय सोपि राज्ञे निवेदयेत् ॥ अशक्तौ शक्तिमान् राम स्वयं युक्तिमुपाचरेत् ॥ ६ ॥ राजा सर्वात्मना कुर्याद्विषये राम रक्षणम् ॥ वित्तमाप्नोति धर्मेण विषयाच्च सुरक्षितात् ॥ ७ ॥ द्विगुधातसमर्थः स्याद्वित्तवानेव पार्थिवः ॥ परंकोप मदेषु वित्तवानेव मुच्यते ॥ ८ ॥ वित्तवानेव सहति दुर्दिषमपि विग्रहम् ॥ बहुदण्डानपि परांस्तथा भिन्द्यान्नराधिपः ॥ ९ ॥ अल्पप्राणाः प्रजाः सर्वा धने तत्र प्रतिष्ठितम् ॥ धनवान्धर्ममाप्नोति धनवान्काममश्नुते ॥ १० ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ॥ यस्यार्थः स पुमाँल्लोके यस्यार्थः सोपि पण्डितः ॥ ११ ॥ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ॥ विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ १२ ॥ विशेषो नास्ति लोकेषु पतितस्याधनस्य च ॥ पतितानां न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ १३ ॥ धनहीनस्य भार्यापि नैव स्याद्वशवर्तिनी ॥ गुणोद्यमपि चौवाल्ये नैव कश्चित्प्रकाशयेत् ॥ १४ ॥ बान्धवा विनिवर्त्तन्ते धनहीनतया नरात् ॥ यथा पुष्पफलैर्हीनाच्छकुन्ता दिश पादपात् ॥ ॥ १५ ॥ दारिद्र्यमरणे चोभे केषांचित्सदृशे मते ॥ सत्यं ह्यसाद्दरिद्रस्य मृतः श्रेयान्नते मम ॥ १६ ॥ कोशं राज्यतरोर्मूलं तस्माद्यत्नं तद्
॥ २१७ ॥
जने ॥ धर्मेणैव ततः कुर्यादधर्मेण कथंचन ॥ १७ ॥ धनैरधर्मसम्प्राप्तेर्यद्दृढं हि पिधीयते ॥ तदेव याति विस्तारं विनाशाय दुरात्मनाम् ॥ १८ ॥
सुकृतस्य पुराणेस्य बलेन बलिनां वर ॥ यच्चधर्मात्फलं शीघ्रं नानुवन्ति दुरात्मनः ॥ १९ ॥ तथापि पूर्वकर्मान्ते तेन पापेन कर्मणा ॥ विन
श्यन्ति समूलास्ते सपुत्रधनबान्धवाः ॥ २० ॥ नरकेषु तथा तेषां यातना विविधाः स्मृताः ॥ बहून्यब्दसहस्राणि ये नृपा राष्ट्रपीडकाः ॥ २१ ॥
नित्यं राज्ञा तथा भाव्यं गर्भिणीसधर्मिणा ॥ यथा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत् ॥ २२ ॥ गर्भिणी तद्वदेवं भाव्यं भूपतिना सदा ॥
प्रजासुखं तु कर्तव्यं सुखमुद्दिश्य चात्मनः ॥ २३ ॥ किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिताः ॥ सुरक्षिताः प्रजास्तस्य स्वर्गस्तस्य गृहोपमः ॥
॥ २४ ॥ अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥ राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि ॥ २५ ॥ धर्मो नाम महाभाग सम्पद्भूषणं
ततरः ॥ अरक्षितस्तथा सर्वं पापमाप्नोति भार्गव ॥ २६ ॥ नैव किञ्चिद्वाप्नोति पुण्यभाक्पृथिवीपतिः ॥ आपन्नमपि धर्मिष्ठं प्रजा रक्ष्यत्यथाप
दि ॥ २७ ॥ तस्माद्धर्मोऽकमेन प्रजा रक्ष्या महीक्षिता ॥ सुमृगैश्चाथ दुर्घत्तराज्ञवद्धमतस्करैः ॥ २८ ॥ भक्ष्यमाणाः प्रजा रक्ष्या कायस्थैश्च
विशेषतः ॥ रक्षितास्तद्भवन्त्येतु प्रजा राज्ञां भवन्ति ताः ॥ २९ ॥ अरक्षिता सा भवति तेषामेवेह भोजनम् ॥ साधुसंरक्षणार्थाय राजा दुष्ट
निबर्हणम् ॥ ३० ॥ तृणानिमिव निर्मार्ता सदा कुर्याज्जनेन्द्रियः ॥ शास्त्रोक्तं बलिमादद्याद्धर्मं तत्तस्य जीवितम् ॥ ३१ ॥ तस्य सन्त्यजनं
राजा न सम्बुद्धोपि कारयेत् ॥ आकारणानि च सर्वाणि शुक्लं शास्त्रोदितो बलिः ॥ ३२ ॥ दण्डं विनयनाद्राज्ञो धर्मं तत्तस्य जीवितम् ॥
घर्ता कराणां सर्वेषां प्रभुरुक्तो महीपतिः ॥ ३३ ॥ निधिं पुराणं संप्राप्य केशवं तु प्रवेरायेत् ॥ अथ ब्राह्मणसात्कुर्याद्धर्मकामो महीपतिः ॥
॥ ३४ ॥ निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा ॥ जगतोस्य समग्रस्य प्रभुरुक्तो द्विजोत्तमः ॥ ३५ ॥ निधिं ज्ञात्वा पुराणं तुक्षत्रविद्रूद्र
योनयः ॥ निवेद्येषुर्नृपाय राजा लब्ध्वापि तं निधिम् ॥ ३६ ॥ चतुर्थमष्टमं चांशं तथा षोडशमं द्विज ॥ वर्णक्रमेण विसृजेद्दात्वात् धर्म
कारणम् ॥ ३७ ॥ तेऽपि लब्ध्वा तदा तेन संविभज्य द्विजोत्तमान् ॥ शेषं कुर्युः कामायां विदितो पृथ्वीपतेः ॥ ३८ ॥ प्रकाशाविभवो लोके
यस्य राज्ञः स भूपतिः ॥ अप्रकाशधनो यस्तु नरकं तस्य मन्दिरम् ॥ ३९ ॥ ममेदमिति यो ब्रूयान्निधिं सत्येन मानवः ॥ तस्याददीत नृप
तिर्भागंब्राह्मणस्य तु ॥ ४० ॥ चतुर्विंशतिकं राज्ञ ग्राह्यं षष्ठमेव च ॥ क्षत्रियाश्च तथा वैश्याः शुद्राश्च भृगुनन्दन ॥ ४१ ॥ अनृतं च वद
न्दण्ड्यः स्ववित्तस्यांशमष्टकम् ॥ प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ॥ ४२ ॥ अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥
वि० ध० द्वि० खं० अ० ६१
ममेदमिति यो ब्रूयादनुक्तो यथाविधि ॥ ४३ ॥ संवाद्य रूपं द्रव्यादीन्त्स्वामी तद्द्रव्यमर्हति ॥ अवेद्यानो नष्टस्य देशं कालं च तत्त्वतः ॥ ४४ ॥ वर्णरूपं प्रमाणं च तत्समं दण्डमर्हति ॥ निधिवद्भग्नभाण्डान्नष्टनाधिगतान्नृपः ॥ ४५ ॥ बालदायादिकं रिक्थं तावद्राजा तु पालयेत् ॥ यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥ ४६ ॥ बालपुत्रेषु चैवं स्याद्रक्षणं निष्कुलासु च ॥ पतिव्रतासु च स्त्रीषु विधवास्वात्मनासु च ॥ ४७ ॥ जीवन्तीनां तु तासां ये धारयेयुः स्वबान्धवाः ॥ ताञ्छिष्याच्चोरदण्डेन धार्मिकः पृथिवीपतिः ॥ ४८ ॥ सर्वेषामेव वर्णानां चौरपहृतं धनम् ॥ तत्प्रमाणं स्वकोशाद्वाद्यात्स्वाम्यमविचार्यन् ॥ ४९ ॥ ततस्तु पश्चात्कर्तव्यं चौरान्वेषणमञ्जसा ॥ चौरशक्त्यतिरिक्तो राजापि तदवाप्नुयात् ॥ ५० ॥ अहते च तथा वित्ते ह्यमित्यैव वादिनम् ॥ निर्धनं पार्थिवः कृत्वा विषयात्स्वाद्दिवासयेत् ॥ ५१ ॥ न तद्राज्ञा प्रदातव्यं गृहे यत्परिचारकैः ॥ प्रचरद्भिर्हृतं द्रव्यं कार्यं तत्रान्ववेक्षणम् ॥ ५२ ॥ स्वराष्ट्रात्पण्यादाद्याद्राज्ञा विंशतिमं द्विज ॥ शुल्कंशं परदेशाच्च निबोध गदतो मम ॥ ५३ ॥ क्षयव्ययप्रवासांश्च यथायामं द्विजोत्तम ! ॥ ज्ञात्वा तु कल्पयेत्तत्र शुल्कंशं पृथिवीपतिः ॥ ५४ ॥ तथा कार्यं यथा लाभं वणिजः समवाप्नुयुः ॥ पुण्यच्छेद्येष्व नैव स्यात्सर्वदेशे पृथिवीपतेः ॥ ५५ ॥ व्ययं शुल्कप्रवासादि लङ्घयित्वा तथा द्विज ॥ विंशांशभागमादद्याद् षण्णीया अतोऽन्यथा ॥ ५६ ॥ दिशि दिश्येवमेव स्याच्छुल्कस्थानं नृपस्य तु ॥ तदतिक्रमतौ द्रव्यं राजाऽपि विधीयते ॥ ५७ ॥ दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा ॥ स्त्रीणां प्रब्रजितानां च तारशुल्कं विवर्जयेत् ॥ ५८ ॥ मित्रक्रोपार्पणं शुल्कं न ग्राह्यं पृथिवीक्षिता ॥ तारेषु दद्याद्दोषेण नष्टं दाशात्प्रदापयेत् ॥ ५९ ॥ देवदोपविनष्टं च नष्टं यस्यैव तस्य तत् ॥ शूद्रकान्येषु षड्भागं शिल्पिविधयेथचथाष्टकम् ॥ ६० ॥ राजा यत्पञ्चमाद्वादेशकालाद्यनुरूपकम् ॥ राजोशभागमादद्याद्राज्ञा पशुहिरण्ययोः ॥ ६१ ॥ गन्धौषधिरसानांता च पुष्पमूलफलस्य च ॥ पत्राकत्णतृणानां च वत्सरेण च चर्मणाम् ॥ ६२ ॥ वैदलानां च भांडानां सर्वस्याश्ममयस्य च ॥ षड्भागमेव चादद्याद्ब्राह्मणेभ्यस्तथा करम् ॥ ६३ ॥ तेभ्यस्तद्धर्मलोभेन राज्ञो लाभः परं भवेत् ॥ न च क्षुधावसीदेत श्रोत्रियो विषये वसन् ॥ ६४ ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥ तस्य सीदति तद्राष्ट्रं दर्मिक्षव्याधितस्करैः ॥ ६५ ॥ श्रुतवृत्ते तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत् ॥ रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसम् ॥ ६६ ॥ संरक्ष्यमाणो राजा यः कुरुते धर्मसंग्रहम् ॥ तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ ६७ ॥ कर्म कुर्वन्नेरेन्द्रस्य मासेनैकं च शिल्पिनः ॥ भक्तमात्रेण ये चान्ये स्वशरी
॥२१८॥
रोपजीविनः ॥ ६८ ॥ स्नाताश्चुलिताश्च विषपिताश्च वेश्याङ्गनावाराववर्त्तितेन ॥ संवीतगात्रः पृथिवीश्वरस्य सदाभ्युपासां परितत्रिकुर्य्युः ॥ ॥ ६९॥ इति श्रीविष्णुधर्मोत्तरे मा०सं० द्वितीयखण्डे रामं प्रति पुष्करोपाख्याने राजवंशवर्णनोनामैकषष्टितमोऽध्यायः ॥ ६९॥ पुष्कर उवाच ॥ धर्मश्चार्थश्च कामश्च पुरुषार्थः परः स्मृतः ॥ अन्योन्यक्षणपीडां सेवा काया महीक्षिता ॥ १ ॥ धर्ममूलोऽर्थविटपस्तथा कामफलो महान् ॥ त्रिवर्गपादपस्तस्य रक्षणात्फलभागभवेत् ॥ २ ॥ धर्मविरोधिनी कार्या कामसेवा सदैव तु ॥ मूलच्छेदे भवेन्नाशो विटपस्य फलस्य च ॥ ३॥ कामसेवाविहीनस्य धर्मार्थावपि निष्फलौ ॥ ओषधीनां फलार्थाय कीनाशो यत्नवांस्तथा ॥४॥ कामार्थी यत्नवानेवं लोभो धर्मार्थयोर्द्विज ॥ कामस्यापि परं नार्थो धर्मरागमहोलब्धः ॥ ५ ॥ तदर्थं रत्ननिधयो विभवाश्च तथा परे ॥ गीतं वाद्यं सुमधुरं भोज्यं पानं साज स्तथा ॥ ६॥ भूषणानि सुगन्धीनि तदर्थं सर्वमेव हि ॥ तपश्चापि तपस्यन्ति दुःखं पशुपाश्रिताः ॥ ७॥ दुर्गमानि च तीर्थानि व्रजन्ति पुरु षास्तथा ॥ त्यजन्ति समरे प्राणान्मोधेऽप्याधिकं धनम् ॥ ८ ॥ त्यजन्ति ब्रह्मणादिभ्यस्तथा स्वर्गोऽसवो जनाः ॥ स्वर्गस्यापि धनं राम कारणं विद्धि भार्गव ॥ ९॥ ता एव चपलापाङ्गीक्ष्विपर्युपासिताः प्रजाः ॥ क्षयमेव क्षयं तस्य यस्य नाध्युसितं सदा ॥ १० ॥ अधः कृत्त्वेन्दुबिम्बाम्रवदानाभिः पुरन्धिभिः ॥ तस्यैकं सफलं जन्म सम्पदश्च मनोरथाः ॥ ११ ॥ यस्येताश्चञ्चलापाङ्गयस्तरुख्यो वश मागताः ॥ सेव्यास्ता नातिसेव्याश्च भुङ्जा विजिगीषुणा ॥ १२ ॥ असेवनाद्वृथा जन्म दोषप्राभोऽतिसेवनात् ॥ ऊरुस्तम्भश्चयं श्रोक्तं शरीरेषु शरीरिणाम् ॥ १३ ॥ आहारं मैथुनं निद्रा येवृत्तं सकलं जगत् ॥ असेवनाद्वयैतस्य तथैवात्यन्तसेवनात् ॥ १४ ॥ रोगाग्मो नृणां देहे सम्भवत्यतिदारुणः ॥ विश्वासमतिसक्तिं च तीक्ष्णतां स्त्रीषु वर्जयेत् ॥ १५ ॥ न चाधिकारे कर्त्तव्या भूषणच्छाद नाशनेः ॥ सुविभक्ताश्च कर्त्तव्या लालनीयास्तथैव च ॥ १६ ॥ ज्ञेयौ रागपरागो च तथा तासां विशेषतः ॥ नारी रागवते लोके नानृतेन विशिष्यते ॥ १७ ॥ विरक्ताभिर्महीपाल छद्मना बहवो हताः ॥ द्विधन्याचरते या तु नाभिनन्दति तत्कथाम् ॥ १८॥ ऐश्वर्यं द्विपद्विद्रजंति गवं वहति चोद्धता ॥ जुम्भिता मार्ष्टि वदनं दन्तं न बहुमन्यते ॥ १९ ॥ स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यति ॥ स्पृष्टा धुनोति गात्राणि कान्तं चैव रुणद्धि या ॥ २० ॥ ईप्सित्स्तेन वाक्यानि प्रियाण्यपि पराङ्मुखी ॥ नयत्यश्रुतवच्चा तु जघनं च विगृह्णति ॥२१॥ दृष्टे विवर्णवदना मित्रेष्वपि पराङ्मुखी ॥ तत्कामितासु च स्त्रीषु मध्यस्थैव च लक्ष्यते ॥ २२ ॥ ज्ञातमङ्गलकालापि न करोति
वि० ध० ॥ २११॥ द्वि० पं० अ० ६२. ॥२११॥
च मण्डनम् ॥ या सा विरक्ता च निवेद्य गदतो मम ॥ २३ ॥ दृष्ट्वैव रुष्टा भवति वीक्षते च पराङ्मुखम् ॥ दृश्यमाना तथान्यत्र दृष्टिं क्षिपति चञ्चलाम् ॥ २४ ॥ तथाऽप्यावर्तयत्येति नैव शक्नोत्यशेषतः ॥ विवृणोति तथाऽङ्गानि सुगुह्यान्यपि भार्गव ॥ २५ ॥ गर्हितं च तथैवांगं प्रयत्नेन विगूहते ॥ तद्दर्शनेन कुरुते बाललिङ्गनचुम्बनम् ॥ २६ ॥ आभाष्यमाणा भवति स्रस्तवाक्या तथैव च ॥ स्पृष्टा पुलकितैरंगैः सस्वेदैर्वापि भज्यते ॥ २७ ॥ करोति च तथा राम दुर्लभाद्रव्ययाचनम् ॥ ततः स्वल्पमपि प्राप्य प्रयाति परमां मुदम् ॥ २८ ॥ नाम संकीर्त्तनादेव मुदिता बहु मन्यते ॥ नखाङ्कितान्यन्यस्य फलानि प्रेषयत्यपि ॥ २९ ॥ तत्प्रेषितानि हृदये विन्यस्यत्यपि चादरात् ॥ आलिङ्गनैश्च गात्राणि लिम्पन्तीवामृतेन च ॥ ३० ॥ सुप्ते स्वपित्यथादौ तु तथा तस्य विबुध्यते ॥ ऊरू स्पृशति चात्यर्थं सुतं चैनं विचुम्बते ॥ ३१ ॥ एवं रक्तां तु विज्ञाय कामयेतात्मवान्नरः ॥ दानं च भोजनं सख्यं ज्ञेयाः कृत्रिमपुत्रिकाः ॥ ३२ ॥ स्वीकर्तुमिच्छन्बालायाः क्रीडनानि तथैव च ॥ गन्धमाल्यप्रदानेन यौवनस्थां वशं नयेत् ॥ ३३ ॥ वस्त्रभूषणदानेन तथा यौवनविच्युताम् ॥ क्रीडासाधुप्रिया बाला तथा यौवनविच्युता ॥ ३४ ॥ रतिप्रिया तु विज्ञेया तरुणी चोभयप्रिया ॥ आत्मसंभावना स्त्रीषु न कर्तव्या कथञ्चन ॥ ३५ ॥ असूया जायतेऽत्यर्थमात्मसंभाविते नरे ॥ न चासां दर्शनं देयं न चात्यन्तप्रदर्शनम् ॥ ३६ ॥ उभयेनापि चेतांसि या तूत्कण्ठा तु विहन्यते ॥ स्पर्शैः सुविहितैर्भोगैर्गन्धधूपैश्च कौशलैः ॥ कार्यमाराधनं स्त्रीणां रतिकामैः सदैव तु ॥ ३७ ॥ एवं सदा यस्तु करोति राम स्त्रीचेतसां स्वीकरणं मनुष्यः ॥ तस्यान्तराया न भवन्ति किञ्चित्स्त्रीद्वारजाताद्य सदासपत्नः ॥३८॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अन्तःपुरचिन्ता नाम द्विषष्टितमोऽध्यायः ॥ ६२॥
राम उवाच ॥ कल्पना भोजनादीनां गन्धानां या च कल्पना ॥ तानहं श्रोतुमिच्छामि त्वत्तो धर्मभृतां वर ॥१॥
पुष्कर उवाच ॥ भोज्यं भक्ष्यं तथा लेह्यं चोष्यं पानं तथैव च ॥ कल्पना पञ्चधा राम भोज्यस्यैषा प्रकीर्तिता ॥ २ ॥ अभ्यासगम्या चाप्येषा वक्तव्यं तत्र मे शृणु ॥ कटूतोयेनोदकं कार्यं शोधितानामसंशयम् ॥ ३ ॥ पुराणानान्त्वजातीनां गन्धमाशु विनश्यति ॥ श्रेष्ठं सार्षपकं तैलं शाकानां परिशोधने ॥ ४ ॥ मांसं काठिन्यमायाति कोमलं चार्द्रिकांबुना ॥ वरुणक्षारसंयोगात् त्यक्त्वास्थि विलीयते ॥ ५ ॥ गण्डिकाभिः पलाशस्य क्षीरमायाति पक्कताम् ॥ कपित्थचूर्णयोगेन तथा चैव सुजातकैः ॥ ६ ॥ घृतैः सुगन्धी भवति दग्धैः क्षीरमस्तथा यवैः ॥ पद्मवारिणि योगेन काञ्जिकास्याम्लता भवेत् ॥ ७ ॥ गुडान्नं शुद्धिमाप्नोति क्षीरेण च तथा युतम् ॥ पद्मरागसमं वर्णं चास्रस्य तथा...
प्रजायते ॥ ८ ॥ पानकानां महाभाग यस्याप्यन्यस्य चेच्छति ॥ क्षारयोगेन चाम्लस्य तथाम्लत्वं विनश्यति ॥ ९ ॥ लवणाधिकविक्षेपं संजातविरसं ध्रुवम् ॥ सिकतापिण्डिकाक्षेपैः सुरसत्वमवाप्नुयात् ॥ १० ॥ चणकक्षारयोगेन पुष्पाणि च फलानि च ॥ सर्वाणि द्रुतिमायान्ति द्रुतानां कल्पना भवेत् ॥ ११ ॥ गन्धवर्णरसार्थानं पानकादिषु सर्वतः ॥ यथाकालं यथादेशं यथासात्म्यं च कारयेत् ॥ १२ ॥ नात्यर्थदा तेन हुताशनेन नात्यन्तसन्देन च साध्यमन्नम् ॥ रसं न चाप्यत्र भवेत्प्रभूतं नात्यल्पमेतत्कथितं मया ते ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मा०सं० श्रीपरशुरामं प्रति पुष्करोपाख्याने भोज्यकल्पने नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ पुष्कर उवाच ॥ शोधनं वसनं चैव तथैव च विरेचनम् ॥ भावना चैव पाकश्च बोधनं धूपनं तथा ॥ १ ॥ वासनं चैव निर्दिष्टं कर्माष्टकमिदं शुभम् ॥ कपित्थबिल्वजम्ब्वाम्रबीजपूरकप ल्लवैः ॥ २ ॥ कृतोदकं तु यद्द्रव्यं शोधितं शौचितं तु तत् ॥ तेषामभावे शौचं तु मृत्दृशद्भिर्मसा भवेत् ॥ ३ ॥ तदभावे तु कर्तव्यं तदा मु स्ताम्भसा द्विज ॥ शुष्कं शुष्कं पुनर्द्रव्यं पञ्चपल्लववारिणा ॥ ४ ॥ प्रक्षालितं चाप्यसकृन्निर्मलं तत्प्रकीर्तितम् ॥ पञ्चपल्लवतोयेन क्वाथयित्वा पुनःपुनः ॥ ५ ॥ द्रव्यं संशोषितं कृत्वा चूर्णं तस्य तु कारयेत् ॥ हरीतकीं ततः पिष्ट्वा पञ्चपल्लववारिणा ॥ ६ ॥ तेन पथ्याकषायेण तच्चूर्णं भावयेत्सकृत् ॥ शोषितं शोधयेत्तद्वद्विरेकं तत्प्रकीर्तितम् ॥ ७ ॥ ततस्तु गन्धद्रव्येण यथेष्टं कुसुमादिना ॥ भावयेत्तेन तद्द्रव्यं भावना सा प्रकीर्तिता ॥ ८ ॥ तेनैव भावयेद्द्रव्यं पञ्चपल्लववारिणा ॥ आश्वत्थेनैव तेनाथ द्रव्यं राम तथास्तु तत् ॥ ९ ॥ मृदा पिहितसत्त्वौ तु मृण्मये भाजनेद्वये ॥ विपचेत्तु विधूमाग्नावतंधूमः पुनःपुनः ॥ १० ॥ तावेव क्वाथयेत्तावत्तावच्चैवानुगतो रसः ॥ एतत्पाकविधानं ते पञ्चमं परिकीर्तितम् ॥ ११ ॥ ततस्तु भावनाद्द्रव्यं कल्कीपिष्टं नियोजयेत् ॥ कल्कीपिष्टे तथा द्रव्ये बोधनं परिकीर्तितम् ॥ १२ ॥ ततस्तु पूजयेद्द्रव्यं पूर्वमेव तु पथ्यया ॥ ततस्तु गुरुशुक्त्यर्थं चन्दनागरुभिमस्ततः ॥ १३ ॥ कर्पूरमृगदर्पाभ्यां ततश्चैवं प्रधूपयेत् ॥ इत्येतद्वासनं राम कर्म तेऽभिहितं मया ॥ १४ ॥ ततस्तु गुलिकां कृत्वा यथाकाममतन्द्रितः ॥ पुष्पैरैर्वकुलजातीनां तथान्यैर्वा सुगन्धिभिः ॥ १५ ॥ छायासु शोष्यमाणस्य वासना क्रियते तु या ॥ वासना सा विनिर्दिष्टा कर्मैतच्चाष्टमं शुभम् ॥ १६ ॥ कर्माष्टकमिदं कृत्वा वचां पिण्डनिभां तथा ॥ सुप्ते शेल्यंकं वापि सेव्यं वा द्विजसत्तम ॥ १७ ॥ शोधयेद्वह्निको विद्याद्ध्यान्यत्कर्मसेत्स्यति ॥ निर्यासानां च पुष्पाणां कर्माष्टकमिदं शुभम् ॥ १८ ॥ विदुषा नैव कर्तव्यं कार्यमन्यत्र भार्गव ॥ अशोधितेस्तथा धूपाः कार्या द्रव्यैस्तथाविधि ॥ १९ ॥ अतः परं तु ते योगाञ्कञ्चिद्वक्ष्यामि ताञ्शृणु ॥
वि० ध० १२२-४ द्वि० खं० अ० ६४
नखं कुष्ठं घनं मांसीस्पृक्का शैलेयकं जलम् ॥ २० ॥ तथैव कुङ्कुमं लाक्षा चन्दनागुरुणी नतम् ॥ सरला देवकाष्ठं च कर्पूरं नतिका तथा ॥ २१ ॥
बोलं कन्दुरुकोश्चैव गुग्गुलः श्रीनिवासकः ॥ सह सर्जरसेनायं धूपद्रव्यैर्विंशतिः ॥ २२ ॥ धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया ॥ द्वे द्वे द्रव्ये
समादाय सर्जभागे नियोजयेत् ॥ २३ ॥ नवे पिण्याकवलयेः संयोज्य मधुना तथा ॥ धूपयोग्या भवन्तीह यथावत्स्वेच्छया कृताः ॥ २४ ॥
त्वचं जातीफलं तैलं कुङ्कुमं ग्रन्थिपर्णकम् ॥ शैलेयं तगरं काष्ठं ताम्बूलं तगरं तथा ॥ २५ ॥ मांसीमुरात्वक्कुष्ठं च नव द्रव्याणि निर्दिशेत् ॥
एतेभ्यस्तु समादाय द्रव्यं तत्र यथेच्छया ॥ २६ ॥ सुगन्धपूतं स्नानं कार्यं कन्दर्पवर्धनम् ॥ द्रुमसुरानलद्वैस्तैलैर्यवक्षारसमायुतैः ॥ २७ ॥
स्नानमुत्पलगन्धि स्यात्तैलैः कुङ्कुमैर्युतम् ॥ जातीपुष्पसुगन्धि स्यात्तगरेण योजितम् ॥ २८ ॥ बालकाञ्जनसंयुक्तैः पाटलाकुसुमयुतैः ॥
सध्यापकं स्याद्बकुलेस्तुल्यगन्धि मनोहरम् ॥ २९ ॥ नालिकावंशसहितं अष्टपादेन चार्थकम् ॥ द्विकैस्सरं वेणुपादं कुन्दपुष्पायते तथा ॥ ३० ॥
शैलपादांशसंयुक्तं व्यक्तं मदनकं भवेत् ॥ मञ्जिष्ठा तगरं बालं द्वयं व्याघ्रनखं नवम् ॥ ३१ ॥ गन्धमन्त्रं च विचक्ष्य गन्धतैलं भवेच्छुभम् ॥
तैलं निष्पीडितं राम तिलैः पुष्पाधिवासितैः ॥ ३२ ॥ वासनापुष्पसदृशं गन्धेन तु भवेद्द्भुतम् ॥ पूर्ववच्छोधयित्वा तु मुस्तं सेव्यं वचां निशाम्
॥ ३३ ॥ अभीष्टमन्यत्कल्पेतु यथावदनुलेपयेत् ॥ उद्धृत्य चन्दनादिं च शोधनं वमनं तथा ॥ ३४ ॥ वर्जयित्वा विरेकं च शेषकर्म्माणि
कारयेत् ॥ तद्वा भवति घर्मज्ञ वर्णकं त्रिदिवप्रियम् ॥ ३५ ॥ पटवासोसि कार्याणि वर्णकैः श्लक्ष्णचूर्णितैः ॥ एलालवङ्गकोलाजातीफलैर्नशा
कराः ॥ ३६ ॥ जातिपत्रिकया सार्द्धं स्वतन्त्रं मुखवासकम् ॥ कर्पूरं कुङ्कुमं कान्तं मृगदर्प हरेणुकम् ॥ ३७ ॥ कक्कौलोललवङ्गं च जाती को
शकमेव च ॥ द्रुमपत्रं त्रुटिर्मुस्तं च लताकस्तूरिकं तथा ॥ ३८ ॥ कण्टकानि लवङ्गस्य फलचैवंक्ष जातितः ॥ कटुकं च फलं राम कपिका
पण्डां प्रकल्पयेत् ॥ ३९॥ तच्चूर्णं खादिरं सारं दद्यात्तत्तुल्यलोपितम् ॥ सहस्रधासर्वसेनास्य कर्तव्या गुलिकाः शुभाः ॥ ४० ॥ मुखे न्यस्ताः सुगन्धा
स्ता मुखरोगविनाशनाः ॥ पूर्वं प्रक्षालितं सम्यक्कषायपल्लववारिणा ॥ ४१ ॥ शक्त्या तु गुलिकद्वैय्यांसिक्तं मुखवासकम् ॥ कटुकं दन्तकाष्ठं
च गोमूत्रे वासितं त्र्यहम् ॥ ४२ ॥ कृतं च पूगवद्राम मुखसौगन्ध्यकारकम् ॥ त्वक्पयस्याः समावेशो सितभागांर्धसंयुतो ॥ ४३ ॥ ॥१२२-॥
नागवल्लीसमा भाति मुखवासो मनोहरः ॥ ४४॥ कटुकफललताबुजत्वग्द्वियाचिपत्रैर्नलदनतसुगन्धैर्भामतुल्यभागान्वितानि ॥ द्विगुणितकृतमात्राया
तिक्तकोशैलसैयैः शरिसरसमसोऽयं गन्धपत्रं विदध्यात् ॥ ४५ ॥ निहितमिदमन्वहं कर्षणं युवतयाः शमयति विविधानि श्रोत्रापलीगदानि ॥
अपरमपि च यावत्कामामोदमदं भ्रमदलिपटेलेन व्याप्यते वक्त्रभागः ॥४६॥ इतिश्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपा- ख्याने गन्धयुक्तिर्नाम चतुष्षष्टितमोऽध्यायः ॥६४॥ पुष्कर उवाच ॥ एवं कुर्यात्सदा स्त्रीणां रक्षणं पृथिवीपतिः ॥ न चैनां विश्वसेज्जातु पुत्रमात्रावि- शेषतः ॥ १ ॥ न स्वपेत्सद्मोगृहे रात्रौ विश्वासं कृत्रिमं भजेत् ॥ राजपुत्रस्य रक्षा च कर्तव्या पृथिविक्षिता ॥ २ ॥ आचार्याश्चास्य कर्तव्यं नि- त्यं युक्तस्य रक्षणम् ॥ धर्मार्थकाममोक्षाणां धनुर्वेदं च शिक्षयेत् ॥ ३॥ रथेऽश्वे कुञ्जरे चैनं व्यायामं कारयेत्सदा ॥ शिल्पानि शिक्षयेच्चैवमसिमीम- थ्या प्रियंवदैः ॥ ४ ॥ शरीररक्षायोजेन रक्षिणोऽस्य नियोजयेत् ॥ न चास्य सङ्गो दातव्यः क्रुद्धलुब्धाभिमानितैः ॥ ५ ॥ तथा च विनयेदेनं यथायौवनगं सुखै ॥ विषयैर्यैन रूप्येत सतां मार्गानुसुर्गमात् ॥ ६ ॥ गुणाधानं न शक्यं तु यस्य कर्तुं स्वभावतः ॥ बन्धनं तस्य॑ कर्तव्यं गुप्तदेशे सुखान्वितम् ॥ ७ ॥ अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ॥ ८ ॥ आदौ स्व- ल्पे ततः पश्चात्कर्मेणाय महत्यपि ॥ मृगयापानमक्षांश्च वर्जयेच्च महीपतिः ॥ ९ ॥ एतान्यसेवमानास्तु विनष्टाः पृथिवीक्षितः ॥ बहवो भृगु- शार्दूल येषां संख्या न विद्यते ॥ १० ॥ दिवास्वापं वृथा वादं विशेषेण विवर्जयेत् ॥ वाक्पारुष्यं न कर्तव्यं दण्डपारुष्यमेव च ॥ ११॥ परोक्षनिन्दा च तथा वर्जनीया महीक्षिता ॥ अर्थस्य दूषणं राम द्विप्रकारं विवर्जयेत् ॥ १२ ॥ अर्थानां दूषणं चैकं तथा चार्थेन दूषणम् ॥ प्राकाराणां समुच्छेदो दुर्गादीनां समक्रिया ॥ १३ ॥ अर्थानां दूषणं प्रोक्तं विप्रकीर्णोत्समैव च ॥ अदेशकाले यद्दानमपात्रे दानमेव च ॥१४॥ अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्तनम् ॥ कामः क्रोधो मदो मानं लोभो हर्षस्तथैव च ॥ १५ ॥ जेतव्यमरिषड्गोऽयंमादृस्तु पृथिवीक्षिताम् ॥ एतेषां विजयं कृत्वा कार्यों भृत्यजयस्ततः ॥ १६ ॥ कृत्वा भृत्यजयं राजा पौरजानपदान्जयेत् ॥ कृत्वा च विजयं तेषां शत्रून्बाह्यांस्ततो ज- येत् ॥ १७ ॥ बाह्याश्च त्रिविधा ज्ञेयास्तुल्यानन्तरकृत्रिमाः ॥ गुरवस्ते यथापूर्वं तेषु यत्नः सदा भवेत् ॥ १८ ॥ पितृपैतामहं मित्रमा- त्माश्रितश्च तथा रिपोः ॥ कृत्रिमं च महाभाग मित्रं त्रिविधमुच्यते ॥ १९ ॥ तथापि च गुरुः पूर्वं भवेत्तच्चापि चारितम् ॥ स्वाम्यमात्यजनपदा बलं दुर्गं तथैव च ॥ २०॥ कोशो मित्रं च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ सप्ताङ्गस्यापि राज्यस्य मूले स्वामी प्रकीर्तितः ॥ २१ ॥ तन्मूलत्वात्तथाङ्गानां स तु रक्ष्यः प्रयत्नतः ॥ षडङ्गरक्षा कर्तव्या तेन चापि प्रयत्नतः ॥ २२ ॥ ॥ अङ्गेभ्यो यस्त्वथैकस्य द्रोहमाचरेदल्पधीः ॥ वधस्तस्य तु कर्तव्यः शीघ्रमैव महीक्षिता ॥ २३ ॥ न राज्ञा मृदुना भाव्यं मृदुर्हि परिभूयते ॥ न भाव्यं दारुणेनापि तीक्ष्णादुद्विजते जनः ॥ २४ ॥