विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
वि० ध० ॥ ३४६ ॥ तृ० खं० अ० ७८ ॥ ३४६ ॥
ग्यञ्च धर्मज्ञ तयोश्चैौग्यस्य मे वद ॥ १ ॥ मार्कण्डेय उवाच ॥ चतुर्वक्त्रश्चतुष्पादश्चतुर्बाहुस्सिताम्बरः ॥ सर्वाभरणवाञ्छेतो धर्मः कार्यो विजान- ता ॥ २ ॥ दक्षिणे चाक्षमालां च तस्य वामे तु पुस्तकम् ॥ मूर्तिमान्व्यवसायस्तु कार्यो दक्षिणभागगः ॥ ३ ॥ वामभागगतः कार्यः सुखः परम- रूपवान् ॥ कामौ धर्मकरौ मूर्ध्नि विन्यस्तौ च तथा तयोः ॥ ४ ॥ अक्षमालास्मृतः कालः पुस्तकं चागमं स्मृतम् ॥ यज्ञः सत्यं तपो दानं तस्य वक्त्रचतुष्टयम् ॥ ५ ॥ देशकालौ तथा शौचं शुद्धिश्चास्य गुणाः स्मृताः ॥ *१ श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ॥ ६ ॥ तस्य देवस्य धर्मज्ञ ज्ञेयं पादचतुष्टयम् ॥ सत्त्वार्याकनकन्ताञ्चकुस्तद् ज्ञानवासश्च कीर्त्यते ॥ ७ ॥ अथवा चास्य कर्तव्याः पत्न्यश्चैव चतुर्दश ॥ कीर्तिर्लक्ष्मी- र्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥ ८॥ बुद्धिलज्जा वपुः शान्तिः सिद्धिस्तुष्टिश्चतुर्दशी ॥ द्वाराण्येतानि धर्मस्य सर्वाणि कथितानि ते ॥ ९ ॥ कामाः सख्या द्विसंज्ञाश्च सर्वास्तेजोन्वितास्तथा सुभूषणाश्च ॥ धर्मः स्थितः स्याद्यदि चैक एव भार्यान्वितश्चेह यथोपदिष्टः ॥ १० ॥
इति श्रीविष्णुध० तृ० ख० मा० सं० धर्मरूपनिर्माणो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥
मार्कण्डेय उवाच ॥ य एव भगवान्विष्णुर्नारसिंह- वपुर्धरः ॥ ध्यानविधिः स एवोक्तो ज्ञानः परुषराद्र्दनः ॥ १ ॥ पीनस्कन्दकटिग्रीवः कृशमध्यः कृशोदरः ॥ सिंहासने बृहद्वक्षु नीलवासाः प्रभान्वितः ॥ २ ॥ आलीढस्थानसंस्थानः सर्वाभरणभूषितः ॥ ज्वालामालाकुलमुखो ज्वालाकेशरमण्डलः ॥ ३ ॥ हिरण्यकशिपोर्वक्षः पाटयन्नखरैः खरैः ॥ नीलोत्पलाभः कर्तव्यो देवोऽसृग्गतस्तथा ॥ ४ ॥ हिरण्यकशिपोर्हेतुर्यतस्तमज्ञानं विदुर्बुधाः ॥ सङ्कर्षणतामा भगवान्ज्ञानस्य विनाशनः ॥ ५ ॥ वाङ्मनः कायसम्भूतं विविधं जगतो मलम् ॥ एतत्सङ्कर्षणो देवः सदा पाटयति द्विज ॥ ६॥ हरिः सङ्कर्षणोंशेन नरसिंहवपुर्धरः ॥ तमसास्त्रिविधस्यापि नाशनो जगतो हरिः ॥ ७ ॥ हर्द्धसंज्ञितिमस्तस्य नान्यो जगति विद्यते ॥ नृसिंहमूर्त्तिर्देवस्य सर्वाज्ञानविनाशिनी ॥ ८ ॥ सिंहासने सुवासीनः कार्यो वा भगवान्हरिः ॥ गदासक्तकरोद्विन्यस्तकराङ्कितभूषणः ॥ ९ ॥ ज्वालामालाकुलवपुः शङ्खचक्रधरः प्रभुः ॥ मूतिमत्पृथिवीहस्तन्यस्तपादयुग बोधितवेः ॥ १० ॥ शङ्खचक्रगदापद्मलान्छनैः शोभितः करैः ॥ अग्निज्वलाकुलवतीर्विभूषिततनूरुहः ॥ ११ ॥ नरसिंहोऽथ वा कार्यः प्रभामण्डलदुर्द्दशः ॥ सर्वाभरणसम्पन्नः कार्यो भूषणवर्जितः ॥ १२ ॥ ज्ञानं नृसिंहो जगतामधीशस्तेजोनिवासीम्बरसन्निभ्रकाशः ॥ रूपं मयेतद्विविधं प्रदिष्टं तस्याप्रमेयस्य जनार्दनस्य १३ ॥ इति श्रीवि० ध० तृ०
१ 'दोध्व्यार्थिनः' इति क०।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवरूपनिर्माणो नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ वज्र उवाच ॥ लिङ्गस्य रूपनिर्माणं कथयस्व ममानघ ॥ १ ॥ मार्कण्डेय उवाच ॥ लिङ्गे हि पूजिते पूजा कृता तु जगतो भवेत् ॥ भोगोस्य वृत्ततः कर्तव्यो भागमष्टास्रमेव तु ॥ २ ॥ चतुरस्रं तथा भागं कर्तव्यं भूरिदक्षिणम् ॥ वृत्तं दृश्यं तु कर्तव्यं अष्टास्रं पिण्डिकागतम् ॥ ३ ॥ चतुरस्रं तु कर्तव्यं ब्रह्मपीठगतं तथा ॥ अष्टतालाङ्घ्रिपीठस्य ब्रह्मपीठे विदुर्बुधाः ॥ ४ ॥ लिङ्गोपरिष्टात् गता पुरस्ताल्लेखा सुवृत्ता तु तथैव कार्या ॥ ऊर्ध्वगता द्विगुणा तथाऽन्या या ब्रह्मसूत्रे विबुधैः प्रदिष्टा ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गरूपनिर्माणो नाम चतुःसप्ततितमो ऽध्यायः ॥ ७४ ॥ वज्र उवाच ॥ व्योमरूपं साम्प्रदं च सर्वधर्मभृतां वर ॥ व्योम्नि तु पूजिते पूजा कृता स्याज्जगतो भवेत्तदा ॥ १ ॥ मार्कण्डेय उवाच ॥ चतुरस्रं भवेन्मूले ततो वृत्तं महाभुज ॥ ततोल्पचतुरस्रं च चतुरस्रं ततो भवेत् ॥ २ ॥ ततोल्पचतुरस्रं च मेरुवत्संस्थितं ततः ॥ भद्रपीठं मिदं प्रोक्तं व्योमभागं तृतीयकम् ॥ ३ ॥ सर्वेषां भद्रपीठानामप्येतल्लक्षणमुच्यते ॥ सम्बधश्चतुरस्रं तु मध्यभागं प्रकीर्तितम् ॥ ४ ॥ भद्रपीठे ततो मानं तत्र पद्मं निवेशयेत् ॥ शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरम् ॥ ५ ॥ पत्रेषु कल्पयेत्तत्र दिक्पालांश्च यथादिशम् ॥ भद्रपीठे मध्यस्तद्वा पृथिवी परिकल्पयेत् ॥ ६ ॥ अन्तरिक्षं तथा स्तम्भमूर्ध्वभागं ततो विदुः ॥ तत्र सन्निहिताः सर्वे भवन्ति त्रिदशोत्तमाः ॥ ७ ॥ सर्वदेवमयं व्योम कथितं ते महाभुज ॥ तस्य सम्पूजनं कृत्वा सर्वान्कामानवाप्नुयात् ॥ ८ ॥ इति व्योमः स्वरूपं कथितं मयैतद्व्योमस्तु पूज्यं करणात्समग्रम् ॥ सम्पूजिते स्याज्जगदेकवीरे चराचरं यादववंशमुख्य ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे व्योमरूपनिर्माणो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ वज्र उवाच ॥ नरनारायणौ कार्यौ केन रूपेण संव्रतौ ॥ द्वारि कृष्णश्च कर्तव्यः कथं वा भुवनन्दन ॥ १ ॥ मार्कण्डेय उवाच ॥ दुर्वादलश्यामो नरः कार्यो द्विभुजश्च महाभुज ॥ नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ॥ २ ॥ तयोर्मध्ये च बदरी कार्या फलविभूषणा ॥ बदर्यामङ्के¹ तौ कार्यावक्षमालाधरावुभौ ॥ ३ ॥ अष्टाचक्रे स्थितौ याने सितुक्ते² मनोहरे ॥ कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥ ४ ॥ पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन ॥ कार्यो हरिश्चाथ नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ॥ ५ ॥ इति श्रीविष्णु ध० तृ० ख० मा० सं० नरनारायणरूपनिर्माणो नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ वज्र उवाच ॥ धर्मस्य रूपनिर्माणं ज्ञानस्य च परन्तप ॥ वैरा
१ 'पद्मो' इति क० । २ 'द्युतयुक्ते' इति क० 'भूतयुक्ते' इति ख० ।
वि० ध० ॥ ३४५॥
तृ० खं० अ० ७२
कथिता सैव सर्वसत्त्ववशङ्करी ॥ २८ ॥
तथैवाननेन्दुमुखी^१ शुष्का कार्या विशेषतः ॥
बहुबाहुयुता देवी सृग्जैः परिवेष्टिता ॥ २९ ॥
कपालमालिनी भीमा तथा खट्वाङ्गधारिणी ॥
शिवा दूती तु कर्तव्या शृगालवदना शुभा ॥ ३० ॥
आलीढस्थानसंस्थाना तथा राक्षसघातिनी ॥
असृक्पात्रधरा देवी खड्गशूलधरा तथा ॥ ३१ ॥
चतुर्थं तु करं तस्यास्तथा कार्यं तु सामिषम् ॥
देवतुल्येन चिह्नेन पृथग्रूपेण मातरः ॥ ३२ ॥
कर्तव्या देवनामाङ्का या मया ते पुरोदिताः ॥
असृक्पात्रकराः कार्याः सामिषैश्च तथा करैः ॥ ३३ ॥
नृत्यमाना महाभागा यासां रूपं तु नोदितम् ॥
पूर्वा गजगता बाला रक्तवर्णा तु दिग्भवेत् ॥ ३४ ॥
करेणुगा बृहत्कन्या श्यामा दक्षिणे पीता तथा श्यामा समुन्मना ॥ ३५ ॥
उष्ट्रगा कृष्णपीता च वारुणी याम्यपश्चिमे ॥
यौवनादियुता कृष्णा पश्चिमा तुरगस्थिता ॥ ३६ ॥
आसाञ्चातुलिता नीला वडवा युद्धनन्दन ॥
श्वेता नरगता वृद्धा तथा भवति चोत्तरा ॥ ३७ ॥
अतिवृद्धा वृषस्था च शुक्ला पूर्वोत्तरा भवेत् ॥
अधस्तात्पृथिवी तुल्या चोर्ध्वा गगनसन्स्थिता ॥ ३८ ॥
कालः करालवदनो नित्यमुग्रश्च विभीषणः ॥
पाशहस्तश्च कर्तव्यः सर्पविकीर्णरोमवान् ॥ ३९ ॥
ज्वरस्त्रिपादः कर्तव्यस्त्रिनेत्रो दण्डरासभः ॥
भस्मप्रहरणो रौद्रस्त्रिबाहुर्व्याकुलेक्षणः ॥ ४० ॥
धन्वन्तरिश्च कर्तव्यः सुरूपः प्रियदर्शनः ॥
कराभ्यां चास्य सामृते कलशे भवेत् ॥ ४१ ॥
अथर्ववेदस्तु कर्तव्यः किं तु श्ववदनः प्रभुः ॥
अथ वा देवरूपेण वेदाः कार्या विचक्षणैः ॥ ४२ ॥
ऋग्वेदस्तु स्मृतो ब्रह्मा यजुर्वेदस्तु वासवः ॥
सामवेदस्तथा विष्णुः शम्भुरथर्वणो भवेत् ॥ ४३ ॥
शिक्षा प्रजापतिर्ज्ञेया कल्पो ब्रह्मा प्रकीर्तितः ॥
सरस्वती व्याकरणं निरुक्तं वरुणः प्रभुः ॥ ४४ ॥
छन्दो क्षितिस्तथैवाग्निर्ज्योतिषं भगवान्रविः ॥
मीमांसा भगवान्सोमो न्यायमार्गः समीरणः ॥ ४५ ॥
धर्मश्च धर्मशास्त्राणि पुराणं च तथा मनुः ॥
इतिहासः प्रजाध्यक्षो धनुर्वेदः शतक्रतुः ॥ ४६ ॥
आयुर्वेदस्तथा साक्षाद्देवो धन्वन्तरिः प्रभुः ॥
धनुर्वेदं मही देवी नृत्यशास्त्रं महेश्वरः ॥ ४७ ॥
सङ्कर्षणः पाञ्चरात्रं रुद्रः पाशुपतं तथा ॥
पातञ्जलमनन्तश्च सांख्यश्च कपिलो मुनिः ॥ ४८ ॥
अर्थशास्त्राणि सर्वाणि धनाध्यक्षः प्रकीर्तितः ॥
कलाशास्त्राणि सर्वाणि कामदेवो जगद्गुरुः ॥ ४९ ॥
अन्यानि यानि शास्त्राणि यत्कर्तृणि प्रचक्षते ॥
स चैव देवता तस्य शास्त्रकाव्यस्य दैवतम् ॥ ५० ॥
रूपं तु कालोद्भवस्य कार्यं स्वदेवतादिरूपसमं रिपुघ्न ॥
एतत्तवोक्तं सुरसत्तमानां रूपं मया ते यदुवंशचन्द्र ॥ ५१ ॥
^१ 'तथैव त्रिमुखी' इति ख० ।
॥३४५॥
उवाच ॥ प्रजापत्येन रूपेण कर्तव्यः कश्यपः प्रभुः ॥ अदितिर्दितिश्चैव काष्ठा दनायुः सिंहिका सुरभिः॥२॥ क्रदूः क्रोधा दरा प्राथा विनता सुरभिः स्वशा ॥ सर्वाः सुरूपाः कर्तव्या द्विभुजाः पूर्वमातरः ॥ ३ ॥ अदितिश्च दितिश्चैव विनता सुरभिस्तथा ॥ ददिरसां तु कर्तव्या सौम्या यादृ वनन्दन ॥ ४ ॥ अनेनैव तु रूपेण सर्वा वै देवमातरः ॥ कर्तव्या यादृवेश्वेह रूपनिर्माणकर्मणा ॥ ५ ॥ कश्यपस्यापराः पत्न्यः कार्या व्याकुल लोचनाः ॥ विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः ॥ ६ ॥ चक्ररश्मिकरः श्रीमान्द्विभुजः सौम्यदर्शनः ॥ मविष्यमनुरूपेण कार्योऽगस्त्यो महामुनिः ॥ ७ ॥ रूपं तदेव कथितं सुन्वादीनों महात्मनाम् ॥ शुक्रपुत्रौ ज्वलन्तश्च कर्तव्यौ रूपसंयुतः ॥ ८ ॥ चापबाणकरः श्रीमान्द्विभुजः सौम्यदर्शनः ॥ बलो यमसुतः कार्यश्चर्मखड्गधरः प्रभुः ॥ ९ ॥ पुष्करश्च तथा कार्यः पद्मपत्रसमप्रभः ॥ खड्गं च पुस्तकं चोभौ करयोस्तस्य कारयेत ॥ १० ॥ चन्द्रपुत्रौ तथा व्योमंस्ता रूपेणाप्रतिमा भुवि ॥ बासपार्श्वे तु कर्तव्या सर्वरत्नभूषणा ॥ ११ ॥ सुरूपरूपः कर्तव्यो रत्नपात्र करो विभुः ॥ द्विन्द्रप्रयुक्तवदनो धनादिर्नलकुबरः ॥१२॥ चनदस्य तु रूपेण मणिभद्रं विदुर्बुधाः ॥ न कार्या शिविका तस्य सभायां नरवाहनः ॥ १३ ॥ वायुरूपस्तु कर्तव्यो वायुरूपः पुरोजवः ॥ अतीव रूपवान्कार्यो वर्चः सोमसुतः प्रभुः ॥ १४ ॥ लीलाकम्लपाणिस्तु वर्चस्वी येन जायते ॥ नन्दी कार्योऽग्निनेत्रस्तु चतुर्बाहुर्महाभुजः ॥ १५ ॥ सिन्दूराशणसङ्काशो व्याघ्रचर्माम्बरच्छदः ॥ त्रिशूलभिन्दिपालौ च करयोस्तस्य कारयेत ॥ १६ ॥ शिरोगतं तृतीयन्तु तर्जयन्तं तथा परम् ॥ आलोकमानं कर्तव्यं दूरादागामिकं जनम् ॥ १७ ॥ अनेनैव च रूपेण वीरभद्रं विदुर्बुधाः ॥ उपरिष्ठात्प्रवक्ष्यामि धर्मरूपमहं तव ॥ १८ ॥ अधः कारयर्तु रूपेण धनदस्य महात्मनः ॥ कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि ॥ १९ ॥ अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ॥ चापबाणकरश्चैव मदादुद्वितलोचनः ॥ २० ॥ रतिः प्रीतिस्तथा शक्तिर्मदशक्तिस्तथो ज्ज्वला ॥ चतस्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः ॥ २१ ॥ चत्वारश्च करास्तस्य कार्या भृगारंस्तनोपगाः ॥ केतुश्च मकरः कार्यः पञ्चबाण मुखो महान् ॥ २२ ॥ करेण कटिनेनाथ निद्रां वामेन कारयेत ॥ दक्षिणे तु तथा पार्श्वे तस्याः सङ्कर्षणो भवेत् ॥ २३ ॥ बाहुद्वयस्तथा वामे मकनेशा तथा सुतः ॥ एवं लक्ष्म्याः प्रवक्ष्यामि उपरिष्टात्तवानघ ॥ २४ ॥ चतुर्भुजा च कर्तव्या तथा देवी सरस्वती ॥ अक्षमाला त्रिशूले च पुस्तकं च कमण्डलम् ॥ २५ ॥ तस्या करेषु कार्याणि यथावदनुन्दन ॥ कार्या सकलक्षा देवी वारुणी चातिसुन्दरी ॥ २६ ॥ लम्बोदरी तु कर्तव्या रक्ताम्बरपयोधरा ॥ शूलहस्ता महाभागा सुप्रभेरणा तथा ॥ २७ ॥ वृद्धेद्धा च कर्तव्या बहुबाहुस्तथैव सा ॥ चामुण्डा
वि० ध० ॥३४४॥ तृ० खं० अ० ७३ ॥३४४॥
स्वासनः ॥ ४ ॥ कुक्कुटश्च तथा घण्टा तस्य दक्षिणहस्तयोः ॥ पताका वैजयन्ती च शक्तिः कार्या च वामयोः ॥ ५ ॥ स्कन्दो विशालश्च गुहः कर्तव्यश्च कुमारवत् ॥ षण्मुखास्तं न कर्तव्या न मयूरास्तथा ॥ ६ ॥ चतुरात्मा हि भगवान्वासुदेवः सनातनः ॥ प्रादुर्भूतः कुमारस्तु देवसेनानिनीपयो ॥ ७ ॥ अष्टादशभुजा कार्या भद्रकाली मनोहरा ॥ आलीढस्थानसंस्थाना चतुःसिंहे रथे स्थिता ॥ ८ ॥ अक्षमाला त्रिशूलं च खड्गं चर्म च यादव ॥ बाणचापौ च कर्तव्यौ शङ्खचक्रौ तथैव च ॥ ९ ॥ सुस्रुवौ च तथा कार्यों तथा वेदीकमण्डलू ॥ दण्डशक्ती च कर्तव्ये कृष्णाजिनहुताशनौ ॥ १० ॥ हस्तानां भद्रकाल्यास्तु भवेच्छान्तिंकरः करः ॥ एकञ्चैव महाभाग रत्नपात्रधरो भवेत् ॥ ११ ॥ हंसासनेन कर्तव्यो न च कार्यश्चतुर्मुखः ॥ ब्रह्मोपमपरं रूपं सर्वं कार्यं प्रजापतेः ॥ १२ ॥ विनायकस्तु कर्तव्यो गजवक्त्रश्चतुर्भुजः ॥ शूलञ्च चाक्षमालां च तस्य दक्षिणहस्तयोः ॥ १३ ॥ पात्रं मोदकपूर्णं तु परशुश्चैव वामतः ॥ दन्त श्चास्य न कर्तव्यो वामो रिपुनिषूदन ॥ १४ ॥ पादपीठकृतः पाद एक आसनगो भवेत् ॥ पूर्णमोदकपात्रं तु कराग्रे तस्य कारयेत् ॥ १५ ॥ लम्बोदरस्तथा कार्यः स्तब्धकर्णश्च यादव ॥ व्याघ्रचर्माम्बरधरः सर्पयज्ञोपवीतवान् ॥ १६ ॥ विश्वकर्मा तु कर्तव्यः सूरूपश्चरः प्रभुः ॥ स दशपाणिर्दुस्सहोस्तेजोभीतरथो भवेत् ॥ १७ ॥ विश्वं करोति वै यस्माद्विश्वकर्मा ततः स्मृतः ॥ विश्वकृद्भगवान्विष्णुर्विश्वकर्मा स उच्यते ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कुमारभद्रकालीगजवक्त्रविश्वकर्मरूपनिर्माणो नामकसप्ततितमोऽध्यायः ॥ ७१ ॥ ॥ वज्र उवाच ॥ ॥ वसूनां देव मे रूपं तथैवादित्यरुद्रयोः ॥ विश्वेषां चैव देवानां रुद्राणामपि देवताः॥ १॥ मरुद्गणस्य साध्यानां चादित्यानां तथैव च ॥ मरुतां चतथा रूपमाचक्ष्व सुरपूजित ॥ २ ॥ मार्कण्डेय उवाच ॥ प्राजापत्येन रूपेण धरो नाम वसुर्भवेत् ॥ वैश्वानरेण च रूपेण ध्रुवो नाम प्रकीर्तितः॥३॥सोमश्चाब्जेण रूपेण वायुश्चैव तथाऽनिलः॥ अग्नेरूपेणनलः कार्यः प्रभासो वरुणेन च॥४॥विश्वेदेवास्तथा कार्याः शक्ररूपधराःसुराः॥ तिर्यग्गल्लाटेनदृश्या च नागराजो विवर्जितः ॥ ५ ॥ जीवरूपेण कर्तव्या देवाश्चाङ्गिरसस्तथा ॥ माहेश्वरेण रूपेण रुद्राश्च साध्याश्चा वैष्णवेन तु ॥ ६ ॥ आदित्याः सूर्यरूपेण चेति द्वादश यादव ॥ पृथक्क्रियायां तेषां तु नकार्यास्सदृशाः स्मृताः ॥७॥ विष्ण्वङ्गरूपाः कार्याः यथा पूर्वं मयोदिताः ॥ कर्तव्याः शुक्लरूपेण मरुतो नाम देवताः ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसुरूपनिर्माणो नाम द्विसप्ततितमो ऽध्यायः ॥ ७२ ॥ ॥ वज्र उवाच ॥ अन्येषामपि देवानां रूपनिर्माणमेव च ॥ कथयस्व महाभाग त्वं हि सर्वविदुच्यसे ॥ १ ॥ मार्कण्डेय
सूतः ॥ तस्मिन्स्सृष्टे जगत्सर्वं परं हर्षमुपैति च ॥ १७॥ सौम्यमूर्तिः परा ज्ञेया सा च विष्णोर्महात्मनः ॥ हर्षप्रसादौ विज्ञेयौ कुमुदौ चन्द्रहस्तयोः ॥ १८ ॥ शोभामान्तीं विनिर्दिष्टे स्वरूपं भृगुनन्दन ॥ अपां सारमयंत्वाद्धि शुक्लरूपंस्तु चन्द्रमाः ॥ १९ ॥ अपां हि धाममृतमुद्ग्राह्या गवा स्तु तच्चद्रमसः प्रदिष्टम् ॥ सिंहध्वजं धर्मसुगन्धि राजन्दिष्टश्चतुरङ्गुलः शशिनः प्रदिष्टः ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डे- यवज्रसंवादे शशिरूपनिरूपणो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥ वज्र उवाच ॥ ग्रहाणां रूपनिर्माणं समाचक्ष्व महाभुज ॥ अनेनैव प्रसङ्गेन सर्वज्ञस्त्वं मतो मम ॥ १॥ मार्कण्डेय उवाच ॥ सौमोऽङ्गितल्पः कर्तव्यश्चाष्टाश्वे काञ्चने रथे ॥ विष्णुतुल्यो बुधः कार्यो भौमस्तल्पे तथा रथे ॥ २ ॥ तप्तजाम्बूनदः कार्यो द्विभुजश्च बृहस्पतिः ॥ पुस्तकं चाक्षमालां च करयोस्तस्य कारयेत् ॥ ३ ॥ सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः ॥ अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनोहरे ॥ ४ ॥ शुक्रः श्वेतवपुः कार्यः श्वेताम्बरधरस्तथा ॥ द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ ॥ ५ ॥ दशाश्वे च रथे कार्यो राजते भृगुनन्दन ॥ कृष्णवासास्तथा कृष्णः शनिः कार्यस्सितासितः ॥ ६॥ दण्डाक्षमालासंयुक्तः करद्वितयभूषितः॥ कार्ष्णायसे रथे कार्यस्तथैवार्जुनकुञ्जरे ॥ ७ ॥ रौरवे रथे तथाष्टाश्वे राहुः कार्यो विचक्षणः ॥ केवलं मस्तकं कार्यं भुजेनेकेन संयुतम् ॥ ८ ॥ कूरूर्भकं तु कर्तव्यं तस्य शून्यं तु दक्षिणम् ॥ भौमस्य च तथा कार्यं केतो रूपं विजानता ॥ ९ ॥ केवलं चास्य कर्तव्या दशराजं- स्तुरङ्गमाः ॥ १०॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भौमादिरूपनिर्माणे नामैकोनसप्ततितमोऽध्यायः ॥ ६९॥ वज्र उवाच ॥ मनूद्वयस्य मे रूपं कथयस्वर्षिसत्कृते ॥ देवेन्द्रस्य च धर्मज्ञ यमस्यासीत्हिते त्वया ॥ १॥ मार्कण्डेय उवाच ॥ वर्तमानो मनुः कार्यो राजलक्षणसंयुतः ॥ भविष्यत्तु तथा कार्यः सर्वोभरणवर्जितः ॥ २ ॥ जटायुक्तोऽक्षमाली च कमण्डलुधरस्तथा ॥ कुशोडपि तेजसा युक्त- स्सप्तर्षिभिरस्तथा ॥ ३ ॥ कार्या योगेन चाप्येऽपि भविष्या मानवश्च ये ॥ ४ ॥ सावर्णिमनुस्तुल्येन कार्यो रूपेण यादव ॥ ५ ॥ अतीता मनवः कार्या राजलक्षणलक्षिताः ॥ पृष्ठेऽश्वं सूर्यतनयौ रेवन्तश्च तथा प्रभुः ॥ ६ ॥ इति श्रीवि० तृ० ख० मा० सं० मनुरूपनिरूपणो नाम सप्ततित- मोऽध्यायः ॥ ७० ॥ वज्र उवाच ॥ ग्रहाणां देवता प्रोक्ता यास्त्वया पूर्वमेव तु ॥ तासां स्वरूपनिर्माणं कथयस्वर्षिमत्कृते ॥ १ ॥ मार्कण्डेय उवाच ॥ पूर्वमेव मया प्रोक्तं रूपं वह्नेर्मुखनाभयोः ॥ तथा च कथितं तुभ्यं विष्णुदेवद्वयंग्योः पुरा ॥ २ ॥ चतुर्मूर्तः कुमारस्य रूपं ते वच्म्यि यादव ॥ कुमारश्च तथा स्कन्दो विशाखश्च गुहस्तथा ॥ ३ ॥ कुमारः षण्मुखः कार्यः शिखण्डकविभूषणः ॥ रक्ताम्बरधरः कार्यो मयूरव
वि० ध० ॥ १३२ ॥
चतुर्बाहुर्महातेजाः कञ्चुकेनाभिसंवृतः ॥ कर्तव्या रशना चास्य यावियङ्गेति संज्ञिता ॥ ३ ॥ रश्मयस्तस्य कर्तव्या वामदक्षिणहस्तयोः ॥ ऊर्ध्वस्रग्दामसंस्थानाः सर्वपुष्पविचित्रिताः शुभाः॥४॥ सुरूपरूपः स्वाकारो दण्डी कार्योस्य वामतः॥ दक्षिणे पिङ्गलो भागो कर्तव्यश्चातिपिङ्गलः ॥५॥ उदीच्यवेषौ कर्तव्यौ तावुभावपि यादव ॥ तूर्णीसन्निधिनि विन्यस्तौ करौ कार्यों विभावसोः ॥ ६ ॥ लेखनीपत्रककरः कार्यो भवति पिङ्गलः ॥ चर्मशूलधरो देवस्तथा चानलदिग्विजयी ॥ ७ ॥ दिशो ध्वजश्च कर्तव्यस्तथा सूर्यस्य वामतः ॥ चत्वारश्चास्य कर्तव्यास्तनयास्तस्य पार्श्वयोः ॥८॥ रेवन्तः सा यमश्चैव मनुर्दण्डस्तथैव च ॥ माठरो राज्ञः कार्यो भद्रैर्वा परिवारितः ॥ ९ ॥ राज्ञी च निक्षुभा छाया तथा देवी सुवर्चसा ॥ माठराश्चास्य कर्तव्याः पत्न्यश्च परिपार्श्वयोः ॥ १० ॥ एकचक्रश्च सप्ताश्वे षडरे च रथोत्तमे ॥ उपविष्टस्तु कर्तव्यो देवो चारुणसारथिः॥११॥ गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ त्रिष्टुप् च जगती सप्त छन्दांस्यर्कस्य हयाः ॥ १२ ॥ रश्मिभिः करसंस्थैस्तु धारयत्यखिलं जगत् ॥ दिशो ध्वजगताश्चास्य सोलोकाः प्रकीर्तिताः ॥ १३ ॥ रशनास्थं जगत्सर्वं देवो धारयते तथा ॥ राज्ञी द्यौर्निक्षुभा भूश्च च्छाया छाया प्रकीर्तिता ॥१४॥ प्रभा सुवर्चसा प्रोक्तास्तस्य देवस्य पत्नयः ॥ स्वकर्मभिः स भगवांस्तेजसां धाम कारणताम् ॥१५॥ अस्मद्गतेजोरूपत्वाद् ग्रहाणां स्तस्तथैव च ॥ एवं सर्वमयं धाम सूर्यं एवं प्रकीर्तितः ॥ १६ ॥ रूपं तथैतद्देवस्य मूर्तमूर्त्तिरिति सर्वजगन्मयस्य ॥ तेजोनिधानस्य परोज्ज्वलस्य सर्वाधिनाथस्य सनातनस्य ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० सं० आदित्यरूपवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥६७॥ मार्कण्डेय उवाच॥ चन्द्रः श्वेतवपुः कार्यस्तथा श्वेताम्बरः प्रभुः ॥ चतुर्बाहुर्महातेजाः सर्वाभरणभूषितस्तथा ॥ १ ॥ कुमुदौ च सितौ कार्यों तस्य देवस्य हस्तयोः ॥ कान्तिर्लक्ष्मिरिती कार्या तस्य पार्श्वे तु दक्षिणे ॥ २ ॥ वामे शोभा तथा कार्या रूपेणाप्रतिमा भुवि ॥ कुण्डं तथास्य सितार्कं वामपार्श्वकवन्दनम् ॥ ३ ॥ दशाश्वो वा रथः कार्यो द्विचक्रेोम्बुजसारथी ॥ सज्जश्च त्रिमनाश्चैव धूमो बन्दी नरो हयः ॥ ४ ॥ अथो वत्समतिघातुश्च हंसो व्योमो मृग स्तथा ॥ ५ ॥ एते ते वामतः सर्वे दशा चन्द्रमसो हयाः ॥६॥ अथ देवस्य कर्तव्या अष्टाविंशतिसङ्ख्यकाः॥ ऊर्ध्वमूर्ध्वं रूपसंयुक्ताः पत्न्यो नक्षत्रसंज्ञिताः ॥ ६ ॥ अशीतिश्चाधिकाः कार्या भावा वा देहभेदयोः ॥ पुरा देवासुरे युद्धे प्राकाम्येन नृपोत्तमैः ॥ ७ ॥ कृतानि स्वशरीराणि बहूनि यदुन- -न्दन ॥ स्वनाथार्द्धेवरूपाणि ततस्ते दानवा हताः ॥ ८ ॥ नक्षत्राणां हृते रूपं यस्य यस्य सुरस्य तु ॥ सा चैव देवता तस्य नक्षत्रस्य प्रकीर्तिता ॥ ९ ॥ देवासुरे ततो वृत्ते प्राकाम्येनैव यादव ॥ स्त्रीरूपधारिणो देवास्तावन्तस्तु ततः कृताः ॥ १० ॥ सर्वलोकस्य धर्मज्ञ चन्द्रमा वै पिता
तृ० खं० अ० ६८ ॥ १३४॥
पारिकीर्तिता ॥ ५ ॥ चन्द्रार्कलोचना ज्ञेया सा च राजीवलोचना ॥ ६ ॥ सारस्वतं ते कथितं मयातद्रूपं पवित्रं परमं मनोज्ञम् ॥ ध्येयं च कार्यं च महीपमुख्य सर्वार्थसिद्धिं समभीप्समानेः ॥ ७॥ इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सरस्वतीरूपनिर्माणो नाम चतुःषष्टि- तमोऽध्यायः ॥ ६४ ॥ वज्र उवाच ॥ आचक्ष्व रूपनिर्माणं समानन्तस्य देवज ॥ विष्णोरमितवीर्यस्य रूपस्य धरणीपतेः ॥ १ ॥ मार्कण्डेय उवाच ॥ कुर्याच्छशाङ्कसङ्काशं रत्नोज्ज्वलफणान्वितम्॥ नीलवस्त्रं चतुर्बाहुं सर्वाभरणधारिणम् ॥२॥ फणाश्च बहवः कार्या यत्फणं तस्य मध्यगम्॥ तत्र रूपवती कार्या वसुधा यदुनन्दन॥३॥ पञ्च सप्तऽसप्त वा कार्या देवदक्षिणहस्तयोः ॥ वामयोस्सोरशिखे च करे तस्य सुराम्बुधिः ॥४॥ तालवृक्षं जगत्सर्वं कथितं तु महाभुज ॥ विस्तीर्तो सोऽसुसङ्ख्ली पूर्वमेव मया तव ॥ ५ ॥ वनमाला च विख्याता तथा प्रतिष्ठा क्रमास्तु ते यादवेश्वरास्यस्य ॥ तेन सार्गलवनाकनानना ॥ ६ ॥ पृथिवी तेन कर्तव्या फणे तस्य तु मध्यमे ॥ ७ ॥ फणाविस्तितस्य तया प्रतिष्ठा क्रमास्तु ते यादवेश्वरास्यस्य ॥ एतद्धि रूपं परमेश्वरस्य विष्णोरोनन्त्यस्य मयोदितं ते ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽननन्तरूपनिरूपणो नाम पञ्चषष्टितमोऽध्यायः ॥६५॥ मार्कण्डेय उवाच ॥ कर्तव्यस्तुम्बुरुर्देवी मातृमध्यगतः प्रभुः ॥ उपविष्टो वृषे कार्यः शवेत्तस्य चतुर्मुखः ॥ १ ॥ उपविष्टस्तु कर्तव्यः स तु पार्थिवसत्तम ॥ महादेवैन तस्योक्तं रूपं ते सकलं मया ॥ २ ॥ कपालं तस्य कर्तव्यं मातृलिङ्गेधरे करे ॥ मातृ- लिङ्गं च कर्तव्यं त्र्यम्बकण तदीरितम् ॥ ३ ॥ तस्य दक्षिणतः कार्यं तथा वैचापराजिता ॥४॥ वामतस्तस्य कर्तव्यं मातॄणांस्तृतमेव च ॥ ४ ॥ जया च विजया चैव कर्तव्या दक्षिणन तु ॥ जयन्ती वामतः कार्या तथा चैवापराजिता ॥ ५ ॥ सर्वाह्न द्विसुजाः कार्याश्चतुर्वक्त्रैकसंस्थैश्च च ॥ सर्वासामं वामहस्तेषु कपालांनि तु कारयेत् ॥ ६ ॥ दण्डः कार्यो महाराज दक्षिणे तु जयाकरे ॥ विजयायाः करे खङ्गः कार्यों मित्राञ्जनप्रभः ॥ ७ ॥ अक्षमालापरंकरो जयन्त्यों नृप कारयेत् ॥ भिन्दिपालकरा कार्या तथा देव्यपराजिता ॥ ८ ॥ पादपीठगते पादं सर्वासामेव कारयेत् ॥ दक्षिण यानमगं वामं कर्तव्यं नृप कुञ्चितम् ॥ ९ ॥ जया पुरुषाया कार्या विजया कौरवोपमा ॥ जयन्ती तुरगारूढा मेषगा चापराजिता ॥ ॥ १० ॥ चन्द्रांगगौरः कर्तव्यो महादेवस्तु तुम्बुरुः ॥ ११ ॥ देवीप्रियश्च भुवनस्य गोप्ता तत्सां स मध्ये भगवान्यरेशः ॥ मध्येतु कामान्विद्वेधश्चध्र्यास्ते स पुजनीयद्विजशिशेवन्ता ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवीचतुष्टयसहि- ततुंबुरुदूपनिर्माणाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥ वज्र उवाच ॥ प्रागुक्तं रूपनिर्माणं त्वया चन्द्रशुभाथयोः १ ॥ तयोरुचापरे ब्रूहि रूपमंर्केंदुरूपयोः ॥ १ ॥ मार्कण्डेय उवाच ॥ रविः कार्यः शुभश्मश्रुः सिन्दूरसमप्रभम्ः ॥ सुदीप्तिवेशाः स्वाकारः सर्वाभरणसंयुतः ॥ २ ॥
१ 'वह्वग्रभुजनाथयोः' इति ख० ।
५८
वि० ध०
॥४४२॥
तृ०खं०
अ० ६४
विष्णुसूक्ष्मस्वरूपाणां तंत्रं शृणुष्व तथा विभो ॥ रूपनिर्माणमात्रञ्च भृगुवंशविवर्धन ॥ १ ॥ मार्कंडेय उवाच ॥ एकवक्त्रो द्विबाहुश्च शशलाञ्छनः प्रभुः ॥ दर्शनीयसमग्रूपं प्रागुक्तं कीर्त्तितं हरेः ॥ २ ॥ गान्धारी तु स्मृता माया जगद्धान्धाय वैष्णवी ॥ गदा द्वेकरे नित्यं सर्वभूतवशङ्करी ॥ ३ ॥ सैव लक्ष्मीरिति कीर्त्तिः पुष्टिः श्रद्धा सरस्वती ॥ गायत्री वेदजननी कल्याणीत्रितयैव सा ॥ ४ ॥ संसारमग्नां चक्रे चक्रं विष्णुकरा स्थितम् ॥ धर्मचक्रं कालचक्रं भचक्रं च महाभुज ॥ ५ ॥ ध्रुवो हि विष्णुर्भगवान्भादिश्चक्रं सदा भ्राम्यते स वीरः ॥ एतेन रूपेण जगत्प्रपालः स चक्रहस्तो भगवान्प्रदिष्टः ॥६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम षष्टितमोऽध्यायः ॥६०॥ मार्कण्डेय उवाच ॥ शुक्लवर्णा मही कार्या दिव्याभरणभूषिता ॥ चतुर्भुजा सौम्यवपुश्चन्द्रांशुसदृशाम्बरा ॥१॥ रत्नपात्रं सस्यपात्रं पात्रमौषधिसंयुतम् ॥ पद्मं करे च कर्त्तव्यं भुवो यदुनन्दन ॥ २ ॥ दिङ्नागानां चतुर्णां सा कार्या पृष्ठगता तथा ॥ सर्वौषधियुता देवी शुक्लवर्णा ततः स्मृता ॥३॥ धर्मं वस्त्रं सितं तस्याः पद्माब्धं तथा करे ॥४॥ हेतुश्च शेषो विदितो बुधानान्मतो मया ते कथितोऽथ राजन् ॥ रूपं त्वरूपस्य तु वच्म्यथोद्दिष्टं प्रकीर्त्तितं यद्भुवनस्य सिद्धेः ॥ ५ ॥ इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भूमिरूपनिर्माणो नामकषष्टितमोऽध्यायः ॥ ६१ ॥ मार्कण्डेय उवाच ॥ नीलोत्पलाभं गगनं तद्वन्निष्क्रूषसंयुगम् ॥ चन्द्रार्कहस्ते कर्तव्यं द्विसुजं सौम्यदर्शनम् ॥१॥ एतद्धि रूपं गगनस्य राजञ्छ्रोति मया ते परिकीर्त्तितं यत् ॥ रूपं प्रवक्ष्याम्यथ ते निबोध पितामहस्याप्रतिमस्य तस्य ॥ २ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गगनरूपवर्णनो नाम द्विशष्टितमोऽध्यायः ॥ ६२ ॥ मार्कंडेय उवाच ॥ पद्मपद्मासनस्थस्तु ब्रह्मा कार्यश्चतुर्मुखः ॥ सावित्री तस्य कर्तव्या वामोत्सङ्गगता तथा ॥ १ ॥ आदित्यवर्णा ध्वंश्च साक्षमालाकरा तथा ॥ रूपं ध्रुवोदितं कार्यं सर्वमन्यज्जगत्पते ॥ २ ॥ एतद्धि रूपं वरदस्य कार्यं पितामहस्याप्रतिमस्य सौम्य ॥ पूर्वोदितं वा वरदस्य तस्य लोकं समग्रं वशगं हि यस्य ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मारूपनिर्माणो नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥ मार्कंडेय उवाच ॥ देवी सरस्वती कार्या सर्वाभरणभूषिता ॥ चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता ॥ १ ॥ पुस्तकं चाक्षमालां च तस्या दक्षिणहस्तयोः ॥ वामयोश्च तथा कार्या वैणवी च कमण्डलुः ॥ २ ॥ समपादप्रतिष्ठा च कार्या सोममुखी तथा ॥ वेदस्तस्य भुजा ज्ञेयाः सर्वशास्त्राणि पुस्तकम् ॥ ३ ॥ सर्वशास्त्रास्तसो देया ज्ञेयः कमण्डलुः ॥ अक्षमाला करे तस्याः कालो भवति पार्थिव ॥ ४ ॥ सिद्धिमूर्त्तिमती ज्ञेया वैणवी नात्र संशयः ॥ सावित्री वदनं तस्याः सर्वाद्या
ष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अग्निरूपनिरूपणो नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥ मार्कण्डेय उवाच ॥ ॥ विरूपाक्षो विवृताक्षः प्रशुष्कदोर्ज्वलत्स्तनः ॥ ऊर्ध्वकेशो हरिश्चश्मश्रुर्द्विबाहुर्भीषणाननः ॥ १॥ वर्णेन रक्तकृष्णोऽङ्गः कृष्णाम्बरधरस्तथा ॥ सर्वाभरणधारी च दण्डरोम करस्तथा ॥ २॥ भार्या च तस्य कर्तव्या देवी निर्ऋतिसंस्थिता ॥ कृष्णाङ्गी कृष्णवदना पार्श्वस्था तु वामतः ॥ ३॥ कालः प्रोक्तो विरूपाक्षो मृत्युर्हि निर्ऋतिस्तथा ॥ विभर्ति ताभ्यां रूपं वासांसि च ततो नृप ॥ ४॥ मारणं तस्करं दण्डं बन्धनं¹ चोद्यमस्तथा ॥ महामोहास्तथैवोग्राः कथिता स्तस्य वामतः ॥५॥ नृपेन्द्रपालमिदं गदितं रक्षोधिपस्यप्रतिमस्य तस्य ॥ अतः परं वच्मि तवाद्य राजनवायोस्तु रूपं परमस्य धाम्नः ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विरूपाक्षरूपनिरूपणो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ मार्कण्डेय उवाच ॥ वायुरम्बर वर्णस्तु तदाकाराम्बरो भवेत् ॥ वायुश्चापूरितवस्त्रश्च द्विभुजो रूपसंयुतः ॥ १॥ गमनेच्छा स्थिता भार्या तस्य कार्या च वामतः ॥ कार्यों गृहीत वस्त्रान्तः कराभ्यां पवनो द्विज ॥ २॥ तथैव देवी कर्तव्या शिवा परमसुन्दरी ॥ व्यथितारतस्यस्था कार्यों देवी व्याकुलमूर्धजा ॥ ३ ॥ वायु राश्रयतो यत्तो गन्धवर्णादिकं यतः ॥ तस्मादनेनवर्णेस्तु गमनस्य समाश्रयात् ॥ ४ ॥ तदेव वसनं तस्य गगनं परिकीर्तितम् ॥ या गतिः सा शिवा देवी गोऽनिरुद्धश्च सोऽनिलः ॥ ५ ॥ एतद्धि रूपं पवनस्य राजंस्तेलोदितं सर्वजगन्मयस्य ॥ देव्याः शिवायाश्च महासुभावं² एवं पवित्रं विदितं द्विजानाम् ॥ ६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० वायुरूपनिर्माणोनामअष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ मार्कण्डेय उवाच ॥ अथातो रूपनिर्माणं वक्ष्येऽहं भैरवस्य ते ॥ ऊर्ध्वोदरं तथा कुर्याद्वृत्तपीनत्रिलोचनम् ॥ १॥ दंष्ट्राकरालवदनं फुल्लनासापुटं तथा ॥ कपालमालिनं रौद्रं सर्वतः सर्पभूषणम् ॥ २ ॥ व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम् ॥ सजलाम्बुदसंकाशं गजचर्मोत्तरीयकम् ॥ ३ ॥ बाहुभिर्बहुभिर्व्यग्रैर्नाना सर्वायुधैर्विभूषणैः ॥ ॥ बृहतसालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः ॥ ४॥ साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम् ॥ महाकालस्य कथितमेतदेव च सम्मुखम् ॥ ५ ॥ देवी तु वामतः कार्या करे कार्यस्तु पन्नगः ॥ न चास्य पुरतः कार्या देवी पर्वतनन्दिनी ॥ ॥ ६॥ शुद्धा न कार्या न तथाम्यस्य रक्ता समीपती मातृगणप्रधाने ॥ कार्यस्त्वन्यः परिवेषमस्य गणाश्च कार्या बहुरूपरूपाः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भैरवरूपनिर्माणो नामकोनषष्टितमोऽध्यायः ॥ ५९ ॥ ॥वज्र उवाच ॥
१ 'वन्दनं,' इति क० । २ 'देवी त्रासनकं' इति ख० ।
वि० ध० तृ० खं० अ० ५६ ॥ २४१॥ ॥२४१॥
करद्वयं तु कर्तव्यं न्यग्रोधस्य ^१गिलाकृतिः ॥ तथास्य भगवान्पृष्ठे व्युज्जृम्भधरो करो ॥ ६ ॥ न कर्तव्यो तु कर्तव्यो देवपादधुरन्धरो ॥ किञ्चिन्नग्नोद्गतः कार्यः सर्वलक्षणभूषितः ॥ ६ ॥ तालस्तस्याधृतिः कार्यो मकरो मकराकृतिः ॥ विपरीतार्थेत्येवास्य कार्यो ^२ऋक्षवदच्युतः ॥ ७ ॥ मनो जगत्प्राण रूपं कंसं चेतो क्रमात्स्मृताः ॥ वासुदेवद्युतश्चैव प्रद्युम्नश्च महाभुजः ॥ तथा वैखानसश्चैव कर्मणैते प्रकीर्तिताः ॥ ८ ॥ तादृशः सततो मकरस्तस्याधो देवसङ्कीर्तनंऽजटाप्रकीर्णाश्च ॥ अन्यत्कर्तव्योविषयनिनादस्त एव लोकेषु बुधैः प्रदिष्टाः ॥ ९ ॥ इति श्रीविष्णुधर्मो- त्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गरुडरूपनिर्माणो नाम चतुःपञ्चाशत्तमोऽध्यायः ॥५४॥ वज्र उवाच ॥ शिवस्य रूपनिर्माणं वदेदं नि- केतिसतया ॥ वायोश्च युहि धर्मज्ञ तत्र मे संशयो महान् ॥ १॥ मार्कण्डेय उवाच ॥ वामार्थे पार्वती कार्या शंभोः कार्यश्चतुर्भुजः॥ अक्षमालां त्रिशूलं च तस्य दक्षिणहस्तयोः ॥ २ ॥ दर्पणञ्च वरदं कार्यो वामयोर्भृगुनन्दन ॥ एकवक्त्रो भवेच्छम्भुः सौम्यश्च दयिता तनुः ॥ ३ ॥ द्विनेत्रश्च महाभाग सर्वाभरणभूषितः ॥ उभयोरिहता प्रकृतिः पुरुषेण महाभुज ॥ ४ ॥ गौरीशंवेति विख्याता सर्वलोकनमस्कृता ॥ कारणं कथितं पूर्वं मूलादीनां मया तव ॥ ५ ॥ ईशानेन च संप्रोक्तं रूपं कथं तथाशः शृणु धर्मभृतां वर ॥ यदा यदर्धं जगति प्रभुता मुखं च यत्सर्वसुरसुराणाम् ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गौरीशरूपवर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ मार्कण्डेय उवाच ॥ रक्तं जटाधरं वह्निं कुर्याद्वै धूम्रवाससम् ॥ ज्वालामालाकुलं सौम्यं त्रिनेत्रं श्मश्रुधारिणम् ॥ १ ॥ चतुर्बाहुं चतुर्दंष्ट्रं देवेशं वातसार- थिम् ॥ २ ॥ चतुर्भिस्तु शुकैर्युक्ते धूम्रचिह्नस्थे स्थितम् ॥ २ ॥ वामोत्सङ्गगता स्वाहा शक्रस्येव शची भवेत् ॥ रत्नपात्रकरा देवी वह्नेर्दक्षिणहस्तयोः ॥ ३ ॥ ज्वालात्रिशूलौ कर्तव्यौ चाक्षमाला तु वामके ॥ रक्तं हि तेजसो रूपं रक्तवर्णं ततः स्मृतम् ॥ ४ ॥ वातसारथिता तस्य प्रत्यक्षां धूम्र- केतुता ॥ प्रत्यक्षा च तथा प्रोक्ता यागधूमप्रभवता ॥ ५ ॥ अक्षमालां विदुर्हतं च जटाजूटोऽग्निनेत्रता ॥ सर्वाभरणधारित्वं व्याप्त्यार्तं तस्य शम्भुना ॥ ६ ॥ ज्वालाकारं परं धाम हुतं तेन प्रतीच्छति ॥ गृहीत्वा सर्वदेवेभ्यो ततो नयति शङ्करम् ॥ ७ ॥ वाग्दण्डमथ धिग्दण्डं धनदण्डं तथैव च ॥ एतत्सर्वं वदन्दण्डं च दंष्ट्रास्तस्य प्रकीर्तिताः ॥ ८ ॥ श्मश्रु तस्य विनिर्दिष्टं दर्भाः परमपावनम् ॥ ये वेदास्ते शुकास्तस्य ह्युक्ता महा- त्मनः ॥ ९ ॥ आज्यपात्रंस्तस्य रूपद्धृतं पापनाशं सिद्धिकरं नराणाम् ॥ ध्येयं तदन्त्यं होमकाले सर्वाग्निकर्मण्यपराजितेन ॥ १० ॥ इति श्रीवि-
^१ 'यदा' इति क० व० । ^२ 'ऋक्षवद्युतः' इति क० ।
लवणाक्षीराज्यादि दधिमण्डसुरोदकाः ॥ तथैवेक्षुरसोदश्च सुरोदश्च तथापरः ॥ १७ ॥ समुद्रास्ते तु विख्याता लोके नगरोत्तम ॥ सवत्सा रथ तस्य वरुणस्य महात्मनः ॥ १८ ॥ भार्या तु यमुना ज्ञेया सिद्धिर्भागीरथी द्विज ॥ वीचीकलो विनिर्दिष्टौ तथा मकरकच्छपौ ॥ १९ ॥ सर्वाङ्गाकर्कं पद्मं ध्रुवद्यासुतमुत्पलम् ॥ २० ॥ रूपं जलेशस्य तवैतदुक्तं मया शिरःपाशभृतस्य तस्य ॥ अतः परं वित्तपतेर्ब्रवीमि रूपं तवाहं गदतोऽवधारय ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वरुणरूपनिर्माणो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
मार्कण्डेय उवाच ॥ कर्तव्यः पद्मपत्राभो धनदो नरवाहनः ॥ चामीकराभो धनदः सर्वभरणभूषणः ॥ १ ॥ लम्बोदरश्चतुर्बा- हुर्व्यासिपिङ्गललोचनः ॥ अपीच्यवस्त्राः¹ कवची हारभारार्पितोदरः ॥ २ ॥ द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः ॥ वामेन विनता कार्या मौलिरत्नस्यधारिणी ॥ ३ ॥ वामोत्सङ्गगता कार्या ऋद्धिर्देवी वरप्रदा ॥ देवप्रसूतं पाणिं द्विभुजायास्तु दक्षिणम् ॥ ४ ॥ रत्नपात्रकरं कार्यं वामं रिपुनिषूदन ॥ गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः ॥ ५ ॥ सिंहाङ्कलक्षणं छत्रं शिविकामपि पादयोः ॥ शङ्खपद्मौ निधी कार्यों स्वरूपौ निधिसंस्थितौ ॥ ६ ॥ शङ्खपद्मान्तनिष्क्रान्तं वदनं तस्य पार्श्वतः ॥ अनिरुद्धस्तु विज्ञेयस्तस्या देवो धनाधिपः ॥ ॥ ७ ॥ ब्राह्मणा कथितं तस्य सर्वभरणसाधनम् ॥ सुवर्णं नाम विख्यातं धनानामुत्तमं धनम् ॥ तस्यायुधहतो धत्ते वासः कनकप्रतिमम् ॥ शक्तिरेव स्मृता शौलिर्दण्डनीतिस्तथा गदा ॥ ९ ॥ लोकयात्रा च कथिता ऋद्धिर्भग्या स्वभावतः ॥ ८ ॥ तत्करे रत्नपात्रं तु गुणाधारं प्रचक्षते ॥ १० ॥ नरं राज्यं विजानीहि यत्रस्थस्तु सदा विभुः ॥ स्वरूपतस्तु विज्ञेयो शङ्खपद्मौ तथा निधी ॥ ११ ॥ वित्तेशेशो जयत्यर्च्यस्तस्माद्ध्यै प्रसवेत्सुतः ॥ अर्थः सर्वमया ज्ञेयः केतुः² सिंहाङ्कलक्षणः ॥ निग्रहानुग्रहे दंष्ट्रे तस्य तात महात्मनः ॥ १२ ॥ यक्षाधिपस्यैतदनन्तरुद्रं नामे वने यक्षनदस्य राजन् ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वार्च्यतलोहिताक्ष ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वैश्रवणरूपनिर्माणो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
वज्र उवाच ॥ सुपर्णस्य च तालस्य मकरस्य मृगस्य वा । मरुतां रूपनिर्माणं श्रोतुमिच्छामि भार्गव ॥ १ ॥
मार्कण्डेय उवाच ॥ तार्क्ष्यो मारकतप्रख्यः कौशिकारुणनासिकः ॥ चतुर्भुजस्तु कर्तव्यो वृत्तेने- त्रमुखस्ततः ॥ २ ॥ सुभ्रूरुजुजतुचरणः पक्षद्वयविभूषनः ॥ ३ ॥ प्रभासंस्थानसौवर्णः कर्तव्येन विवर्जितः ॥ छत्रं च पूर्णकुम्भं च करयोस्तस्य कारयेत् ॥ ४ ॥
¹ अपीच्यवासितुसुन्दरम् । ² 'केतुम्' इति ख० ।
वि० ध० ॥३४०॥ तृ० खं० अ० ५२
तस्य पाशः करे योज्यो यममार्गः सुदुष्करः ॥ १४ ॥ वज्र उवाच ॥ संहारहेतुको मूर्तिर्विष्णोः सङ्घर्षणो मतः ॥ सा तु देवस्वरूप्या प्रोक्तैश्चन्द्रमुखेक्षण पुम्वान ॥ १५ ॥ तस्य संहारकर्तृत्वं कृष्णमूर्त्तिः कथं यमः ॥ एतं मे संशयं छिन्धि भुवनार्तिविनाशन ॥ १६॥ मार्कण्डेय उवाच ॥ मूर्तिः साङ्कर्षणो विष्णो रुद्रः संहारकारकः ॥ कल्पक्षये तु संहारं करोति जगतां हि सा ॥ १७ ॥ प्रकृतौ याति धर्मज्ञ संहृतं तु तदा जगत् ॥ तेन प्रकृतिवर्णस्यः करोति जगतां क्षयम् ॥ १८ ॥ कृत्वापि प्रतिसंहारं यमरूपी पुनःपुनः ॥ प्राणिनां प्रकृतौ योजं न विद्यते कदाचन ॥ १९ ॥ विकारे योजयत्येष सुखदुःखान्वके तदा ॥ विकाररूपवर्णं तु तेन संहरते जगत् ॥ २० ॥ रूपमिदं कथितं तव गम्यं पापनाशनकरं विबुधानाम् ॥ दुःषमतः कथयामि महात्मंल्लोपगतैकवर्णमथ त्वाहम् ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमस्कन्दनिर्माणो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ मार्कण्डेय उवाच ॥ सन्नद्धंसे रथे कार्यो वरुणो यादसाम्पतिः ॥ स्निग्धवैडूर्यसङ्काशः श्वेताम्बरधरस्तथा ॥ १॥ किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषणः ॥ सर्वासामपरावाजा¹ तथा देवश्चतुर्भुजः ॥ २ ॥ वामभागगते कर्तुं मकरस्य तु कारयेत् ॥ छत्रं च सुसितं मूर्ध्नि भार्य्या सर्वाङ्गसुन्दरी ॥ ३ ॥ वामोत्सङ्गगता कार्या गौरी तद्विभुजा नृप ॥ उत्पलं तु करे वामे दक्षिणे देवपृष्ठगम ॥ ४ ॥ पद्मधरो करे कार्यो देवदक्षिणहस्तयोः ॥ शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत् ॥ ५ ॥ भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ॥ देवी पद्मकरा कार्या चन्द्रगौरी वराङ्गना ॥ ६ ॥ वामे तु यमुना कार्या कूर्मसंस्था सचामरा ॥ नीलोत्पलकरा सौम्या नीलनीरदसन्निभा ॥ ७ ॥ स्निग्धवैडूर्य सङ्काशस्त्वपांपोर्णो² गतो नृप ॥ तयोश्चमध्यगोयर्था तद्रूपो वरुणस्ततः ॥ ८ ॥ स्वरूपवर्णाः सुसितास्ता एव द्विजपुंगव ॥ वसनं तस्य कथितं ता एव सुसितं नृप ॥९॥ वज्र उवाच ॥ उभयस्मरस्तु कथं वर्णः सत्यासत्ये तयोरिति ॥ एतत् श्रोतुमिच्छामि परं कौतूहलं हि मे ॥१०॥ मार्कण्डेय उवाच ॥ वैडूर्य्याभमपां वर्णमथर्व्व युदुनन्दन ॥ छायागतस्य नमसस्तद्रूपं ताहू दृश्यते ॥ ११॥ प्रभातपातयेत्यैद्रूपममस्तं नृप दृश्यते ॥ शशाङ्कांश्रुप्रतीकाशं तस्यरूपं प्रतिष्ठितम् ॥ १२ ॥ प्रद्युम्नो वासुदेवस्तु वरुणो यादसां पतिः ॥ तस्य भार्य्या गतिर्ज्ञेया गौरी यादवनन्दन ॥१३॥ सौभाग्यमुत्पलं तस्याः करे सुस्तनं विभो ॥ वरुणस्य करे पद्मं विचिन्त्यं महाभुज ॥ १४ ॥ शङ्खमर्थं विजानीहि पाशं संसारबन्धनम् ॥ रत्नपात्रं करे ज्ञेयं सर्वरत्नधरा भग ॥ १५ ॥ मूर्धस्थं सुसितं छत्रं सौख्यं मकर एव च ॥ ब्रह्मणा कथितं तस्य भुजामरणधारणम् ॥ १६ ॥
॥३४०॥
¹ 'तासाम्' इति क० व० । ² 'वर्णं' इति ख० ।
सुरेश्वरः ॥ वामोत्सङ्गगता कार्या रक्षमाणा तथा शची ॥२॥ नीलवस्त्रः सुवर्णाभः सर्वाभरणवाँस्तथा ॥ तिर्यग्गलाटगेनाङ्गुष्ठा कर्तव्यश्च विसर्पि-
तः ॥३॥ शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शची ॥ पद्मश्चाङ्कुशकर्तव्यौ शक्रदक्षिणहस्तयोः ॥४॥ वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ॥
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी ॥५॥ दक्षिणं पृष्ठविन्यस्तं देवनाथस्य कारयेत् ॥ ऋग्वेगेन विनिर्दिष्टं तस्याभरणधारणम् ॥ ६ ॥
तेनेव तस्य कथितं तथा बाहुचतुष्टयम् ॥ त्रिनेत्रता च तस्योक्ता देवदेवेन शम्भुना ॥ ७ ॥ रुक्मप्रसववर्णेता तस्य तेजसां धामकारणात् ॥ ग्रीवां
वसने तस्य तदाकारा प्रकीर्तिताम् ॥ ८ ॥ आज्ञा तस्याङ्कुशो हस्ते सर्वसत्त्ववशाङ्कुरी ॥ पद्मस्य सहरूपेन विभूतिं सुवनाधिप ॥ ९ ॥ करेण
धारयञ्छ्रीमान्भववान् सुरसत्तमः ॥ दुःसहशमनं क्रोधो वज्रः शक्रकरः स्मृतः ॥ १० ॥ वासुदेवः स्मृतः शक्तस्तेन लक्ष्मीः शची मता ॥ तस्याः
करे च सन्तानं ज्ञेया सन्तानमञ्जरी ॥ ११ ॥ अर्थेनैश्वर्यरावेणो ज्ञेयो दन्तास्तलस्य तु कीर्तिताः ॥ देवमन्त्रप्रभूतसाहशराक्षस्येन्द्रो महाबलः ॥ १२ ॥
एतद्रूपं वासुदेवस्य शक्रं तूम्यं प्रोक्तं देवराजस्य राजन् ॥ गाम्यं रूपं तेऽधुनाहं ब्रवीमि यस्यार्चिते सुख दुःखं नराणाम् ॥ १३ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसम्वादे शक्ररूपनिर्माणो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ मार्कण्डेय उवाच ॥
सजलाम्बुदसङ्काशस्तप्तचामीकराम्बरः ॥ महिषस्थश्च कर्तव्यः सर्वरत्नविभूषणः ॥ १॥ नीलोत्पलाभमा धूम्रोर्णा वामोत्सङ्गे च कारयेत् ॥
धूम्रोर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः ॥ २ ॥ दण्डखड्गधरौ कार्यों यमदक्षिणहस्तयोः ॥ दण्डोपरि सुखं कार्यं ज्वालामालाविभूषणम् ॥३॥
धूम्रोर्णापृष्ठगं वामं चर्मयुक्तं तथापरम् ॥ धूम्रोर्णादक्षिण हस्तं यमपृष्ठगतं भवेत् ॥ ४ ॥ वामे तस्याः करे कार्यं मातुलिङ्गं सुदर्शनम् ॥ पार्श्वे तु
दक्षिण तस्य चित्रगुप्तं च कारयेत् ॥ उदीच्य वेशं स्वाकारं द्विभुजं सौम्यदर्शनम् ॥ ५ ॥ दक्षिणे लेखिनी तस्य वामे पत्रं तु कारयेत् ॥ ६ ॥
वामे पाराशरः कार्यः कालो विकटदर्शनः ॥ एवं सङ्कीर्णं विधि तामसी तनुमाश्रितम् ॥ ७ ॥ मर्यादापालनाथार्य लोकसंहारकारणम् ॥ नीलो-
त्पलदलच्छायमस्तसमस्तबाप्रकीर्तिः ॥ ८ ॥ वसने तस्य विख्यात तामसी वासुदेवन शङ्खदन ॥ चतुर्थभुजत्वं विख्यातं ब्रह्मण परमात्मनः ॥ ९ ॥
ब्रह्मणा तस्य निर्दिष्टं सर्वाभरणधारणम् ॥ यो मोहो मरणं नृणां विज्ञेयो महिषस्तु सः ॥१०॥ अमोघं तु करे दण्डं मृत्युं धारयते यमः ॥ अग्नि
रूढेन तस्योक्तं धारणं खड्गचर्मणोः ॥ ११ ॥ कालरात्री तु विज्ञेया धूम्रोर्णा युडनन्दन ॥ तस्यास्तु शूलिना प्रोक्तं बीजपूरकधारणम् ॥ १२ ॥
चित्रगुप्तो विनिर्दिष्टस्तथात्मा सर्वदेहगः ॥ पत्रं धर्ममधर्मं च करस्था तस्य लेखिनी ॥ १३ ॥ काल एव स्वरूपेण कालो यमसमीपगः ॥
वि० ध० ॥३३९॥
तृ० खं० अ० ५० ॥३३९॥
वक्त्रं च विज्ञेयं तस्य देवस्य चोत्तरम् ॥ सदाशिवस्य विज्ञेयं पावनं तस्य पञ्चमम् ॥ ६ ॥ त्रिलोचनानि सर्वाणि वामदेवं द्विलोचनम् ॥ महादेवमुखं भूमिसत्त्वतः स्याद्विभावसोः मुखम् ॥ ७ ॥ नन्दिवक्त्रे तथा बाणो रौद्र्ये चाप उच्यते ॥ सदाशिवमुखे ज्ञेयमाकाशं यदुनन्दन ॥ ८ ॥ माहेश्वरं दिशो दश भुजास्तस्य विज्ञेयं वदनं प्रति ॥ महादेवकरे ज्ञेया त्वक्षमालाकमण्डलू ॥ ९ ॥ सदाशिवमुखे ज्ञेयो चापबाणौ महाभुज ॥ महेश्वरं ततश्चापि पिनाकमिति शोभितम् ॥ १० ॥ तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन ॥ दण्डश्च मातुलिङ्गश्च करयोर्भैरवस्य तु ॥ ११ ॥ मृत्युं दण्डो विनिर्दिष्टो मातुलिङ्गोऽक्षता करे ॥ जगद्वीजस्य सर्वस्य ये राजन्य परमाणवः ॥ १२ ॥ पूर्णं बीजजलं तु भैरवस्य करे स्मृतम् ॥ चर्मशूले करे ज्ञेये नन्दिनो यदुनन्दन ॥ १३ ॥ पूर्वमेव च ते प्रोक्ते धर्मव्याकरणं मया ॥ त्रिशूलदण्डमध्यस्थैः शूलेषु व्यक्ततां गतम् ॥ १४ ॥ सत्त्वं रजस्तमश्चैव विज्ञानात्त्वं नृपोत्तम ॥ दर्पणेन्दीवरे ज्ञेये तथा देव्याः करद्वये ॥ १५ ॥ आदर्श निर्मलं ज्ञानं वैराग्यं च तथोत्पलम् ॥ महादेवस्य देवस्य व्याख्याता ब्राह्मणा जटाः ॥ १६ ॥ ऐश्वर्यं तु कला चान्द्री मूर्तिः शम्भोः प्रकीर्तिता ॥ त्रैलोक्यशमनः क्रोधो वासुकिर्नागसत्तमः स्मृतः ॥ १७ ॥ तृष्णा विशाला चित्रा च व्याघ्रचर्म प्रकीर्तितम् ॥ वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ॥ १८ ॥ जगद्व्यापकं वस्तु प्रकृतिः सा प्रकीर्तिता ॥ शुक्ला च प्रकृतिः सर्वा तेन शुक्लो महेश्वरः ॥ १९ ॥ एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ॥ एवं शरीरेण जगत्समग्रं संधारयत्येष जगत्प्रधानः ॥ २० ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महादेव रूपनिर्माणो नामाष्टाचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥
वज्र उवाच ॥ नासत्ययोश्चौषधदेव रूपनिर्माणमुच्यताम् ॥ नासत्यरूपयोश्चैव त्वं हि सर्वविदुच्यसे ॥ १ ॥
मार्कण्डेय उवाच ॥ पद्मपत्रसवर्णाभौ पद्माक्षावमलाम्बरौ ॥ द्विभुजौ देवभिषजौ कर्तव्यौ देवसुव्रतौ ॥ २ ॥ सर्वाभरणसंपन्नौ विशेषाच्चारुलोचनौ ॥ तयोरौषधयः कार्या दिव्या दक्षिणहस्तयोः ॥ ३ ॥ वामयोः पुस्तके कार्ये दर्शनीयौ तथा द्विज ॥ एकस्य दक्षिणे पार्श्वे वामे चान्यस्य यादव ॥ ४ ॥ नारीयुगं तु कर्तव्यं सुरूपं चारुदर्शनम् ॥ तयोश्च नामनी प्रोक्ते रूपसंपत्तथाकृतिः ॥ ५ ॥ मधुकपुष्पसंकाशा रूपसंपत्प्रकीर्तिता ॥ आकृतिः कथिता लोके शरकाण्डनिभा तथा ॥ नृप माङ्गल्ये कार्ये चन्द्रद्युतिसिताम्बरे तथा ॥ ६ ॥ नासत्ययो रूपमिदं तवोक्तं मयाद्य मुख्यं यदुवंशमुख्य ॥ ध्यानेन सर्वामयनाशकारि सम्पूजितं वा भुवि मानवानाम् ॥ ७ ॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नासत्यरूपनिर्माणो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
वज्र उवाच ॥ शक्रकिंनाशवरुणधनदानां सुरोत्तम ॥ सर्वमुक्तं समाचक्ष्व रूपनिर्माणमुच्यताम् ॥ १ ॥
मार्कण्डेय उवाच ॥ चतुर्दन्ते गजे शक्रः श्वेतः कार्यः
परस्य पुरुषस्यैषा संसारे विकृतिर्मता ॥ १ ॥ सर्वा च विकृतिः कृष्णा तेन संसारपालनम् ॥ १ ॥ कृष्णारूपं स भगवान्विधत्ते भूतभावनः ॥ भूषणैश्च हरेः प्रोक्तं सर्वभरणधारणम् ॥ २ ॥ बिभर्ति वक्षसा ज्ञानं कौस्तुभं विमलं हरिः ॥ शुक्ला दीर्घा विचित्रा च वनमाला प्रकीर्तिता ॥ ३ ॥ यया सर्वमिदं बद्धं जगद्गङ्गाधराग्रज ॥ अविद्या वसनं तस्य संसारपरिपालिनी ॥ ४ ॥ विद्या शुक्ला विनिर्दिष्टा कृष्णमज्ञानमुच्यते ॥ अज्ञानविद्या मध्यस्था त्वविद्या परिकीर्तिता ॥ ५ ॥ न कृष्णा न तथा शुक्ला तेन विद्येहसुत्तमा ॥ अन्तरालं विभर्त्येवं सुवर्णकनकोपमम् ॥ ६॥ मनस्तु गरुडो ज्ञेयः सर्वभूतशरीरगम् ॥ तस्माच्छीघ्रतरं नास्ति तथैव बलवत्तरम् ॥ ७ ॥ दिशश्चतस्रो धर्मश्च तावत्यो विदिशस्तथा ॥ बाहवोऽष्टौ विनिर्दिष्टास्तस्य देवस्य शार्ङ्गिणः ॥ ८ ॥ बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन ॥ विज्ञेयं देवदेवस्य तस्य वक्त्रचतुष्टयम् ॥ ९ ॥ वासुदेवश्च भगवान्संख्या सङ्कर्षणः प्रभुः ॥ प्रद्युम्नश्चानिरुद्धश्च बलाद्याः परिकीर्तिताः ॥ १० ॥ द्वौद्वौ भुजौ तु विज्ञेयो प्रतिवक्त्रं महात्मनः ॥ वासुदेवस्य करयोर्ज्ञातव्यौ सूर्यराविणौ ॥ ११ ॥ सङ्कर्षणस्य करयोस्तथा मुसललाङ्गलौ ॥ प्रद्युम्नस्य तथा ज्ञेयौ चापबाणौ महाभुज ॥ १२ ॥ चानिरुद्धस्य विज्ञेयौ चर्मखड्गौ विचक्षणैः ॥ पुरुषप्रकृतौ ज्ञेयौ सूर्याचन्द्रमसावुभौ ॥ १३ ॥ एते च वासुदेवस्य करे चक्रगदे मते ॥ काले च लाङ्गलं सिद्धिं मुसुलं च मुसलं तथा ॥ १४॥ ताभ्यां सङ्कर्षणो रूढः कर्षतीदं चराचरम्॥प्रद्युम्नस्य करे वह्निः शार्ङ्गं चापं च यत्सत्तम॥ १५॥ ध्येयं तु परमं लक्ष्यं ताभ्यां छिन्दन्ति योगिनः ॥ ब्रह्मतत्त्वमनिरुद्धस्य करे चर्म महाभुज ॥ १६ ॥ अज्ञानावरणं ज्ञेयं जगतस्सृष्टिप्रयोजनम् ॥ वैराग्यं नन्दकं खड्गं छित्त्वा वै तेन बन्धनम् ॥ नदन्ति योगिनो यस्मात्तस्मान्नन्दकं स्मृतम् ॥ १७ ॥ एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ॥ एवं शरीरेण जगत्समग्रं बिभर्त्ति देवः स जगत्प्रधानः ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥ ॥ छ् ॥ मार्कण्डेय उवाच ॥ सद्योजातं वामदेवमघोरं च महाभुज ॥ तथा तं पुरुषं ज्ञेयमेशानं पञ्चमं मुखम् ॥ १ ॥ सद्योजातं मही प्रोक्ता वामदेवं तथा जलम् ॥ तेजस्त्वघोरं विद्यात्तं वायुंस्तत्पुरुषं मतम् ॥ २ ॥ ईशानं च तथाकाशमूर्द्धस्यं पञ्चमं मुखम् ॥ ३ ॥ विभागेनाथ वक्ष्यामि शम्भोर्वदनपञ्चकम् ॥ ३ ॥ महादेवमुखं ज्ञेयं पूर्वं शम्भोर्महात्मनः ॥ नेत्राणि त्रीणि तस्याङ्कः सोमसूर्यहूताशनाः ॥ ४ ॥ दक्षिणं तु मुखं रौद्रं भैरवं तत्प्रकीर्तितम् ॥ पश्चिमं यन्मुखं तस्य नन्दिवक्त्रं तदुच्यते ॥ ५ ॥ उमा
१ 'चन्द्रमार्कौ' इति पुस्तकान्तरे पाठः ।
वि० ध० ॥ ३८८ ॥ तृ० सं० अ० ४६ ॥ ३८८ ॥
तत्र पूजयेत ॥ शृण्वन्मनसोद्दिश्य देवं पद्मं प्रतिष्ठितम् ॥ तमेव पूजयेत्तत्र नान्यं देवं कथञ्चन ॥ ७ ॥ पद्मस्य रूपं कथितं तवैतत्पद्मं समग्रा वसुधा निरुक्ता ॥ तत्रार्चनं कार्मुकधर्मशत्रोर्गुणांस्त्वितांस्ते वरदा भवन्ति ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पद्मरूपनिरूपणो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥ ॥ वज्र उवाच ॥ रूपगन्धरसैर्हीनः शब्दस्पर्शविवर्जितः ॥ पुरुषस्तु त्वया प्रोक्त स्तस्य रूपमिदं कथम् ॥ १ ॥ मार्कण्डेय उवाच ॥ प्रकृतिर्विकृतिस्तस्य रूपेण परमात्मनः ॥ अलक्ष्यं तस्य तद्रूपं प्रकृतिस्सा प्रकीर्त्तिता ॥ ॥ २ ॥ साकारा विकृतिर्ज्ञेया तस्य सर्वं जगत्स्मृतम् ॥ पूजाध्यानादिकं कर्तुं साकारस्यैव शक्यते ॥ ३ ॥ स्वतस्तु देवस्याकारः पूजनीयो यथाविधि ॥ अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ४ ॥ अतो भगवतानेन स्वेच्छया तत्प्रदर्शितम् ॥ प्रादुर्भावेष्व थाकारं तं दिशन्ति दिवौकसः ॥ ५ ॥ एतस्मात्कारणात्पूजा साकारस्य विधीयते ॥ हेतुमच्च तदाकारं तन्मे निगदतः शृणु ॥ ६ ॥ अरुणं रजसो वर्णं तेन पद्माग्रसन्निभः ॥ ब्रह्मा देववरो ज्ञेयस्सर्वसत्त्वनमस्कृतः ॥ ७ ॥ ऋग्वेदः पूर्ववदनं यजुर्वेदस्तु दक्षिणम् ॥ पश्चिमं सामवेदः स्यादथर्वणमथोत्तरम् ॥ ८ ॥ ये वेदस्ते मुखा ज्ञेयाश्चतस्रो बाहवो दिशः ॥ आप एव जगत्सर्वं स्थावरं जङ्गमं तथा ॥ ९ ॥ ताश्च धारयते ब्रह्मा तेन हस्ते कमण्डलुः ॥ अक्षमाला विनिर्दिष्टा कालस्तु ब्रह्मणः करे ॥ १० ॥ कलनात्सर्वभूतानां काल इत्यभिधीयते ॥ यज्ञो विततस्तेन सर्वः शुक्लांशुकेन कर्मणा ॥ ११ ॥ शुक्लांशुकमतो ज्ञेयं वासः कृष्णाजिनं विभोः ॥ भूलोकोऽथ भुवो लोकः स्वर्लोकोऽथ महस्तथा ॥ १२ ॥ जनस्तपश्च सत्यं च सप्त लोकाः प्रकीर्तिताः ॥ ये च लोकास्ते रथे हंसा ब्रह्मणः परमेष्ठिनः ॥ १३॥ विष्णोर्नाभौ समुत्पन्नं यत्पद्मं सा महीभुजः ॥ मेरुस्तु कर्णिका तस्य विज्ञेया राजसत्तम ॥ १४ ॥ सर्वत्र पार्थिव स्थैर्यं ध्यानसम्मीलितेक्षणः स्थितम् ॥ पद्मासनस्थं भगवन्तमन्विच्छेत्पार्थिवेन तु ॥ १५ ॥ आत्मनः परमं धाम रूपहीने विचिन्तयेत् ॥ हृद्यस्थं जगतामास्ते ध्यानसम्मीलितेक्षणः ॥ १६॥ तथैवौषधयो राजन्सङ्ग्रहणकारणाः ॥ ब्रह्मणस्त्वथ ता जटा ज्ञेयाः सर्वगस्य महात्मनः ॥ १७ ॥ प्रकाशकानि लोकस्य विद्यास्थानानि यानि च ॥ तस्याश्वा गगजातानि ज्ञेयानि परमेष्ठिनः ॥ १८ ॥ एतद्धि तस्याप्रतिमस्य रूपं कथितं सर्वजगन्मयस्य ॥ एवं शरीरेण जगत्समग्रं सन्धारयन्नेव जगत्प्रधानः ॥ १९॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०सं० ब्रह्मारूपनिर्माणो नाम षट्चत्वारिंशत्तमोऽध्यायः ॥४६॥ मार्कण्डेय उवाच ॥
१ 'सर्वत्र पार्थिवं स्थैर्यं ध्यानसन्न्यस्तः परम्' इति पा० ।
त्रिमूर्तेस्तव पार्थिव ॥ २ ॥ विष्णोरमितवीर्यस्य प्रतिमालक्षणं शुभम् ॥ ब्राह्मी तु राजसी मूर्तिस्तस्य सर्वप्रवर्तिनी ॥ ३ ॥ सात्विकी वैष्णवी ज्ञेया संसारपरिपालिनी ॥ तामसी च तथा रौद्री ज्ञेया संहारकारिणी ॥ ४ ॥ शृणुष्व कारयेद्विद्वान्देवं सौम्यं चतुर्मुखम् ॥ बद्धपद्मासनं तोष्यं तथा कृष्णाजिनाम्बरम् ॥ ५ ॥ जटाधरं चतुर्बाहुं सप्तहंसे रथे स्थितम् ॥ वामे न्यस्तं करंतले तस्योक्तं दीर्घमं भवेत् ॥ ६ ॥ एकस्मिन्दक्षिणे पाणौह्यक्षमाला तथा शुभा ॥ कमण्डलुद्वितीयं च सर्वाभरणधारिणः ॥ ७ ॥ सर्वलक्षणयुक्तस्य शान्तरूपस्य पार्थिव ॥ पद्मगर्भद- लाभाभं ध्यानसम्मोलितेक्षणम् ॥ ८ ॥ अर्चायां कारयेद्देवं चित्रे वा पुस्तकंर्मणि ॥ देवदेवं तथा विष्णुं कारयेद्गरुडस्थितम् ॥ ९ ॥ कौस्तुभो- द्भासितोरस्कं सर्वाभरणधारिणम् ॥ सजलाम्बुदसंकाशं पीतदिव्याम्बरं तथा ॥ १० ॥ मुखाश्च कार्याश्चत्वारो बहवो द्विगुणास्तथा ॥ सौम्यं तु वदनं पूर्वं नारसिंहं तु दक्षिणम् ॥ ११॥ कापिलं पश्चिमं वक्त्रं तथा वाराहमुत्तरम् ॥ तस्य दक्षिणहस्तेषु बाणाक्षमुसलादयः ॥ १२ ॥ चर्म चौरं धनुश्चैन्द्रचापेषु वनमालिनः ॥ कार्याणि विष्णोर्धर्माद्यैः शृणु रूपं पिनाकिनः ॥ १३॥ देवदेवं महादेवं वृषारूढं तु कारयेत् ॥ तस्य वक्राणि कार्याणि पञ्च यादवन्दन ॥ १४ ॥ सर्वाणि सौम्यरूपाणि दक्षिणं विकटं मुखम् ॥ कपालमालिनं भीमं जगत्संहारकंरकम् ॥ १५॥ त्रिनेत्राणि च सर्वाणि वदनं ह्युत्तरं विना ॥ जटाकलापे महति तस्य चन्द्रकला भवेत् ॥ १६ ॥ तस्योपरिह्यदादग्नं पञ्चमं तु विधीयते ॥ यज्ञोपवीतं च तथा वासुकिं तस्य कारयेत् ॥ १७ ॥ दशबाहुस्तथा कार्यो देवदेवो महेश्वरः ॥ अक्षमालों त्रिशूलं च शरन्दण्डमथात्पलम् ॥ १८ ॥ तस्य दक्षिणहस्तेषु कर्त- व्यानि महाभुज ॥ वामेषु मातुलिङ्गं च चापादर्शौ कमण्डलुम् ॥ १९ ॥ तथा चर्म च कर्तव्यं देवदेवस्य शूलिनः ॥ वणस्तिथा च कर्तव्या श्चन्द्रांशुसदृशप्रभाः ॥२०॥एतत्त्रिमूर्तेस्तव रूपमुक्तं महाद्युभावस्य जनार्दनस्य॥पद्मस्वरूपं तव वच्मि राजन्यथाऽर्चनं कार्यमथेश्वराणाम् ॥२१॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० त्रिमूर्तिर्निर्माणनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ मार्कण्डेय उवाच ॥ सौवर्णं राजतं ताम्रमार्कूटमय तथा ॥ द्विरस्तमात्रं कर्तव्यं कमलं चारुकेसरम् ॥ १ ॥ तस्याष्टभागाः कर्तव्याः कर्णिका नृप वर्तुला ॥ अष्टभागोच्छ्रिता चैव पत्रे न्यस्ता तु कारयेत् ॥२॥ एकैनानेनपुष्पांशत्कर्णिकायां तु कारयेत् ॥ वर्तला कर्णिकाच्छेदा यवमात्रसमन्विताः ॥ ३ ॥ षोडशांशेन कर्तव्यं तद्धि विस्तारतस्तथा ॥ शेषं पत्रेषु संस्निग्धैः पूरयेद्धयमितस्तथा ॥ ४ ॥ तस्य प्रतिष्ठा कर्तव्या तत्र देवांस्तु पूजयेत् ॥ ब्रह्माणं पूजयेत्तत्र तत्र सम्पूजयेद्धरिम् ॥ ५ ॥ तत्र सम्पूजयेद्रुद्रं तत्र सम्पूजयेद्विधुम् ॥ तत्र सम्पूजयेदर्कं देवराजं जगत्पतिम् ॥ ६ ॥ तत्र सम्पूजयेत्सूर्य शूलिनं
वि० ध० ॥१३७॥ त० खं० अ० ४५ ॥१३९॥
स्थानप्रमाणं भूलाभो मधुरत्वं विभक्तता ॥ सादृश्यं क्षयवृद्धी च गुणाष्टकमिदं स्मृतम् ॥ १९ ॥ स्थानहीनं गतरसं शून्यदृष्टिमलीससम् ॥ चेतनारहितं वा स्यात्तदप्रशस्तं प्रकीर्तितम् ॥ २० ॥ लसतीव च भूलाभो विध्यतीव तथा नृपा हसतीव च माधुर्यं सजीव इव दृश्यते ॥ २१ ॥ सश्वास इव यच्चित्रं तच्चित्रं शुभलक्षणम् ॥ हीनाङ्गं मलिनं शून्यं बद्धव्याधिभयाकुलैः ॥ २२ ॥ वृतं प्रकीर्णकेशैश्च सुमङ्गल्यैर्विवर्जयेत् ॥ प्रतेतं च लिखेल्लक्ष्मीमप्रतीतेः कञ्चन ॥ २३ ॥ शास्त्रोक्तैः सुकृतैर्लक्ष्म्याश्चित्रं हि मनुजाधिप ॥ दिव्यमावहति क्षिप्रमलक्ष्मीं चापकर्षति ॥ २४ ॥ निर्णेजयति शोकंस्तु निरुन्द्ध्याद्भागते सुखम् ॥ शुद्धां प्रयच्छति प्रीतिं जनयत्यतुलामपि ॥ २५ ॥ दुःस्वप्नदर्शनं हन्ति प्रीणाति गृहदैवतम् ॥ न तु शून्यमिवोभाति यत्र चित्रं प्रतिष्ठितम् ॥ २६ ॥ ॐ ................... दृक्कर्णं चाप्यनलंकृतम् ॥ शल्यविद्धं च वृद्धं च यः करोति स चित्र- वित् ॥ २७ ॥ तस्माद्विधिरिहस्वाध्यं देजवन्त्यवरादिकम् ॥ वायुगत्या लिखेद्यस्तु विज्ञेयो मतिचित्रवित् ॥ २८ ॥ सुतं च चेतनार्युक्तं मृतं चेतन्यवर्जितम् ॥ निम्नोन्नतविभागं च यः करोति स चित्रवित् ॥ २९ ॥ एतेषां खलु सर्वेषामज्ञो ज्ञेयः प्रशस्यते ॥ सम्मुखत्वमथोतेषां चित्रे यत्नाद्विवर्जयेत् ॥ ३० ॥ एथाचित्रे तथैवोक्तं खातपूर्वं नराधिप ॥ सुवर्णरजताम्राणि तथ लोहेषु दर्शयेत् ॥ ३१ ॥ शिलादारुषु लोहेषु प्रतिमा करणा भवेत् ॥ अनेनैव विधानेन यथा चित्रमुदाहृतम् ॥ ३२ ॥ तथानेन विधानेन पुस्तकर्म विधीयते ॥ द्विविधं तच्च कथितं घनं सुशिरमेव च ॥३३॥ घनलोहैः शिलाभिश्च दारुवृद्भिः सदा भवेत् ॥ चर्मणा सुशिरः कार्यो दारुलोहैस्तथैव च ॥ ३४ ॥ इष्टो मृत्तिकया लेपः पुस्तै चर्मकृते दृढः ॥ सूडेन विधानेन चित्रवच्चे तथा लिखेत् ॥ ३५ ॥ एतद्देशेषुमात्रेण यदा ते कथितं नृप ॥ अशक्यो विस्तराद्वक्तुं बहुवर्षशतैरपि ॥ ॥ ३६ ॥ यदत्र नोक्तं तन्त्रसाद्धिज्ञेयं बहुर्थापिच ॥ हतेऽपि लोके तच्चित्रं नात्र योज्यं नराधिप ॥ ३७ ॥ कलानां प्रवरं चित्रं धर्मकामार्थ मोक्षदम् ॥ मङ्गल्यं प्रथमं चैतद्गृहे यत्र प्रतिष्ठितम् ॥ ३८ ॥ यथा सुमेरुः प्रवरो नगानां यथाण्डजानां गरुडः प्रधानः ॥ यथा नराणां प्रवरः क्षितीशस्तथा कलानामिह चित्रकर्मः ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शृङ्गारादिभावकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥ समाप्तं चित्रसूत्रम् ॥ वज्र उवाच ॥ देवतारूपनिर्माणं कथयस्व ममानघ ॥ यस्मात्सन्निहिता नित्यं शास्त्रवत्सा कृता भवेत् ॥ १ ॥ मार्कण्डेय उवाच ॥ देवतारूपनिर्माणं वदतः शृणु पार्थिव ॥ आदावेव प्रवक्ष्यामि
ॐ पुस्तकान्तरे पाठो न । १ 'तोविभावतो' इति छ० ।
स्थानं तथा शून्यसुशून्यम् ॥ सनीहारादिगन्तं च हेमन्तं दर्शयेद्बुधः ॥ ७८ ॥ दह्यमानसमारूढं शीतातुरजनसङ्कुलम् ॥ शिशिरं तु लिखेद्विद्वान् सच्छन्नदिगन्तरम् ॥ ७९ ॥ वृक्षाणां पुष्पफलतः प्राणिनां मदतास्तथा ॥ ऋतूनां दर्शनं कार्यं लोकान्वृष्ट्वा नराधिप ॥ ८० ॥ रसभावाश्च कर्तव्या यथापूर्वमुदाहृताः ॥ यथाप्रोगे तु युञ्जीत नृत्ताभिनिहितस्त्व च ॥ ८१॥ शुष्कं वर्ततया वस्तु चित्रं तन्मध्यमं स्मृतम् ॥ शुष्काद्रमभयं प्रोक्तं चार्द्रं मथ तथोत्तमम् ॥ ८२ ॥ यथादेशं यथाकालं यथादेशं यथावयः ॥ क्रियमाणं भवेद्धन्यं विपरीतमतोऽन्यथा ॥ ८३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे तेः करणक्रानितविलासरासादिभिः ॥ लिखितव्यंमीक्षणलोचनमादादङ्कयति चित्रममीप्सितकामदम् ॥ ८४ ॥ मार्कण्डेय उवाच ॥ शृङ्गारहास्यकरुणवीररौद्रभयानकाः ॥ बीभत्साद्भुतशा मा० व० सं० रूपनिर्माणं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥ तत्र यत्कान्तिलावण्यलेखामधुर्यसुन्दरम् ॥ विद्वांश्चेववरामरणं शृङ्गारे तु रसे भवेत् ॥ २ ॥ यत्कुब्जवाम न्ताश्चैव नव चित्ररसाः स्मृताः ॥ १ ॥ वृथा च हस्तं संकोच्य तत्स्याद्धास्यकरे रसे ॥ ३ ॥ याच्ञाविरहसंन्यासगतान्किकृपण्यसनादिषु ॥ अनुकम्पितकं यत्स्या नश्रामशीर्षादिकप्रदर्शनम् ॥ वृथा च हस्तं संकोच्य तत्स्याद्धास्यकरे रसे ॥ ३ ॥ दीप्तशस्त्राभरणयुक्तं रौद्ररसे भवेत् ॥ ५ ॥ प्रतिज्ञागर्मशौर्यादिव्यथैर्यो ल्लिखेत्तत्करुणारसे ॥४॥ पारुष्यविकृतिकोधविपयस्थार्थ न दर्षणम् ॥ दीप्तशस्त्राभरणयुक्तं रौद्ररसे भवेत् ॥ ५ ॥ प्रतिज्ञागर्मशौर्यादिव्यथैर्यो दार्यदर्शनम् ॥ सस्मयं सश्रुभुकुटिवीरं वीररसेऽद्भुतम् ॥६॥ दुष्टदर्शनेनभ्यात्संहस्यापादकद्धि यत् ॥ तत्स्याद्भयानकरसे प्रयोगे चित्रकर्मणः ॥७॥ श्मशानागर्हितं वातत्करणं स्थानदारुणम्। विचित्तवद्धचेष्टं तद्बीभत्सरसे भवेत् ॥८॥ अद्भाविनीतरमश्रीचिन्तं ताहृद्यमुखानतम् ॥ प्रदर्शयति चान्योऽन्यं तदद्भुतरसाश्रयम् ॥९ ॥ यच्चतत्सौम्याकृतिध्यानधारणासनबन्धनम् ॥ तपस्विजनभूयिष्ठं तत्तु शान्ते रसे भवेत् ॥ १० ॥ शृङ्गारास्य शान्त्याख्या लेखनीया गृहेषु ते ॥ ११ ॥ परशेषा न कर्तव्या कदाचिदपि कस्यचित् ॥ देववेश्मनि कर्तव्या रसाः सर्वे नृपालये ॥ १२ ॥ राज वेश्मनि नो कार्या राज्ञां वासगृहेषु ते ॥ समावेद्मसु कर्तव्या राज्ञां सर्वरसा गृहे ॥ १३ ॥ वर्जयित्वा सभां राज्ञो देववेश्म तथैव च ॥ युद्धश्मशान करुणातृडःस्वांतंकृतिस्तथा ॥ १४ ॥ अमङ्गल्यांश्च न लिखेत्कदाचिदपि वेश्मसु ॥ निधिशृंगान्नृपान्प्राज्ञाञ्जीविद्धिहस्तवात्रांङ्कजान् ॥ १५ ॥ निधि विद्याधरा राजन्ऋषयो गरुडस्तथा ॥ हृत्सम्यंच सुमाङ्गल्यं ये च लोके प्रकीर्तिताः ॥ १६ ॥ लिखितव्या महाराज गृहेषु सततं नृणाम् ॥ चित्रकर्म न कर्तव्यमात्मना स्वगृहे नृप ॥ १७ ॥ दौर्बल्यं स्थूलरेखत्वमविभक्तत्वमेव च ॥ वर्णानां सङ्करश्चात्र चित्रदोषाः प्रकीर्तिताः ॥१८॥
१ 'दृष्टके दर्शनेनोक्ष्यम्' इति क०, 'दुष्टदर्शनाल्लक्ष्य' इति ख० ।