भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० प्र० ॥३३५॥ तृ० खं० अ० ४२ ॥३३६॥

मार्कण्डेय उवाच ॥ यथा देवस्तथाचित्रे कर्तव्यः पृथिवीश्वर ॥ १ ॥ एकैकं हृत्के रोम कर्तव्यं पृथिवीक्षिताम् ॥ २ ॥ ऋषयश्च सुगन्धर्वा दैत्याश्च सह दानवाः ॥ मन्त्रिणश्च महाराज संवत्सरपुरोहितौ ॥ २ ॥ कार्या भद्रप्रमाणेण ब्राह्मणाश्च नरेश्वर ॥ ऋष- यस्तत्र कर्तव्या जटाजूटोपशोभिताः ॥ ३ ॥ कृष्णाजिनोत्तरीयाङ्गा दुर्बलास्तेजसा युताः ॥ देवताश्चापि गन्धर्वा मुकुटेन विवर्जिताः ॥ ४ ॥ कर्तव्यास्ते महाराज शिरसोरूपशोभिताः ॥ ब्रह्मन्यस्विनो विप्राः शुक्लाम्बरधरास्तथा ॥ ५ ॥ मन्त्रिणश्च महाराज संवत्सरपुरोहितौ ॥ सर्वालङ्कारसंयुक्तानेतोष्णीषाणिरूपयेत् ॥ ६ ॥ मुकुटेन विहीनांस्तु सोष्णीषान्कारयेच्च तान् ॥ दैत्याश्च दानवाश्चैव कर्तव्या भ्रुकुटीमुखाः ॥ ७ ॥ वर्तुलाक्षास्तथा कार्या भीमवक्त्रांस्तथैव च ॥ तेषामभ्युद्धतो वेषः कर्तव्यः पृथिवीपते ॥ ८ ॥ रुद्रप्रमाणाः कर्तव्यास्तथा विद्याधरा नृप ॥ सपत्नीकाश्च ते कार्या माल्यव्यालङ्कारधारिणः ॥ ९ ॥ खड्गहस्ताश्च ते कार्या गगने वाथ वा भुवि ॥ मालव्यपरिमाणेन किन्नरोरगराक्षसाः ॥ १० ॥ रुचकस्य प्रमाणेन गुह्यः कार्या नराधिप ॥ शशकस्य प्रमाणेन प्रधानं मानवं लिखेत् ॥ ११ ॥ पिशाचा वामनाः कुब्जाः प्रमथाश्च महीभुजः ॥ मानित्रियमतः कार्यं रूपविप्रममस्तथा ॥ १२ ॥ स्वायुरुद्रप्रमाणाश्च सर्वा वै योषितः स्मृताः ॥ किन्नरा द्विविधाः प्रोक्ता नृवक्त्रा हयविग्रहाः ॥ १३ ॥ नृदेहाश्चाश्ववक्त्राश्च तथान्ये परिकीर्तिताः ॥ अश्ववक्रास्तु कर्तव्याः सर्वालङ्कारधारिणः ॥ १४ ॥ गीतवाद्यसमायुक्ता द्युतिमन्तस्तथैव च ॥ उक्तञ्चा राक्षसाः कार्या विकलाक्षा विभीषणाः ॥ १५ ॥ देववत्काराश्च कर्तव्या नागाः फणविराजिताः ॥ सालंकाराः स्मृताः सर्वे यशस्तेऽभिमहिता मया ॥ १६ ॥ सुपूर्णा प्रमथाः कार्याः प्रमाणेन विवर्जिताः ॥ पिशाचाश्च तथा कार्या प्रमाणेन विवर्जिताः ॥ १७ ॥ नानावस्त्रावृतव्याः कार्या देवतानां तथा गणाः ॥ नानावेषा महाराज नानायुधधरास्तथा ॥ १८ ॥ नानाकोडाप्रमत्तश्च नानाकर्मकरास्तथा ॥ एकरूपास्तु कर्तव्या वैष्णवानान्तथा गणाः ॥ १९ ॥ तथापि तेषां कर्तव्या भेदाश्चत्वार एव च ॥ वासुदेवसमाः कार्या वासुदेवगणाः शुभाः ॥ २० ॥ संकर्षणेन सदृशास्तद्वत्प्रद्युम्ननिभास्तथा ॥ प्रद्युम्नसंनिकाशाश्च तद्गुणाः सदृशास्तथा ॥ २१ ॥ तत्स्वभावाः स्मृताः सर्वे तदायुधधरास्तथा ॥ नीलोत्पलदल श्यामाश्चन्द्रशुम्भ्रांस्तथैव च ॥ २२ ॥ तथा मरकतक्राभाः सिन्दूरसदृशप्रभाः ॥ रुचकस्य तु मानेन वेश्याः कार्यास्तथा स्त्रियः ॥ २३ ॥ वैश्यानामुद्धृते वेशे कार्यं शृङ्गारसम्मतम् ॥ मालव्यायास्ततः कार्या लज्जावत्यः कुलस्त्रियः ॥ २४ ॥ नाट्यश्रुतेन वेशेन सालंकारास्तथैव च ॥ दैत्यदानवयक्षाणां राक्षसानां तथैव च ॥ २५ ॥ हंसरूपस्यतथा कार्याः पत्न्यो मनुजसत्तम ॥

शृङ्गद्रव्याणि कनकं रजतं ताम्रमेव च ॥ अभ्रकं राजवर्तं च सिन्दूरं त्रपुमेव च ॥ २५ ॥ हरितालं सुधा लाक्षा तथा हिङ्गुलकं नृप ॥
नीलं च मनुजश्रेष्ठ तथान्ये सन्त्यनेकशः ॥ २६ ॥ देशेदेशे महाराज कायस्ते रत्नसंयुताः ॥ लोहानां पत्रविन्यासं भूयोऽपि
रसक्रिया ॥ २७ ॥ संकटं लोहविन्यस्तमभ्रकं द्रावणं भवेत् ॥ एवं भवति लोहानां लेखने कर्मयोग्यता ॥ २८ ॥
अभ्रकद्रावणं प्रोक्तं सुरसेन्दुजसम्भवैः ॥ चुम्बाकुष्ठोद्भव बकुला निर्यासस्तमभाङ्गत्वेत ॥ सर्वमेषामिव रङ्गाणां सिन्दूरक्षीर्
इष्यते ॥ २९ ॥ मातङ्गदन्तवज्रस्पर्शबद्धैः संस्तम्भितं चित्रसुदशरापुच्छैः ॥ धौतं जलेनपि न नाशयेत तिष्ठत्यनेकान्यपि वत्सरा
णि ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शृङ्गल्यक्तिकरो नाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥ मार्कण्डेय
उवाच ॥ सत्यं च वैणिकं चैव नागरं मिश्रमेव च ॥ चित्रं चतुर्विधं प्रोक्तं तस्य वक्ष्यामि लक्षणम् ॥ १ ॥ यत्किञ्चिल्लोकसादृश्यं चित्रं तत्सत्य
मुच्यते ॥ दीर्घाङ्गं सप्रमाणं च सुकुमारं सुभूमिकम् ॥ २ ॥ चतुरस्रं सुसम्पूर्णं न दीर्घं नोल्वणाकृतिम् ॥ प्रमाणं स्थानलम्भाढ्यं वैणिकं तन्निगद्यते ॥ ३ ॥
दृढोपचितसर्वाङ्गं वर्तुलं नघनोल्बणम् ॥ चित्रं तं नागरं ज्ञेयं स्वल्पमाल्यविभूषणम् ॥ ४ ॥ चित्रमिश्रे समाख्यातं समासान्मनुजोत्तम ॥ तिस्रश्च
वर्तनाः प्रोक्ताः पत्राद्रेहिकबिन्दुजाः ॥ ५ ॥ पत्राकृतियी रेखाभिः कथिता च वर्तना ॥ अतीव कथिता सूक्ष्मा तथाऽहैरिकवर्तना ॥ ६ ॥
तथा च स्तम्भनायुक्ता कथिता बिन्दुवर्तना ॥ ८ ॥ दौर्बल्यविद्विरेडस्सर्वमविभक्तत्वमेव च ॥ ७ ॥ बृहद्गण्डोष्ठनेत्रत्वमविरुद्धत्वमेव च ॥ मानवा
कारता चेति चित्रदोषाः प्रकीर्तिताः ॥ ८ ॥ स्थानप्रमाणभूलम्बो मधुरत्वं विभक्तता ॥ सादृश्यं पदवृद्धिश्च गुणाश्चित्रस्य कीर्तिताः ॥ ९ ॥
रेखा च वर्तना चैव भूषणं वर्णमेव च ॥ विज्ञेया मनुजश्रेष्ठ चित्रकर्मसु भूषणम् ॥ १० ॥ रेखां प्रशंसन्त्याचार्या वर्तनां च विचक्षणाः ॥
स्त्रियो भूषणमिच्छन्ति वर्णाढ्यमितरे जनाः ॥ ११ ॥ इति मत्वा तथा यत्नः कर्तव्यश्चित्रकर्मणि ॥ सर्वस्य चित्तग्रहणं यथा स्यान्मनु
जोत्तम ॥ १२ ॥ दुरासनं दुरानीतं पिपासा चान्यचित्तता ॥ एते चित्रविनाशस्य हेतवः परिकीर्तिताः ॥ १३ ॥ स्वावृत्तिकायकाशा च
निदेशां मधुका शुभा ॥ सुप्रसन्नाभियुक्ता च भूमिः स्याच्चित्रकर्मणि ॥ १४ ॥ सुस्निग्धविस्पष्टसुवर्णरेखं विद्धान्वयथोद्देशविशेषवेशम् ॥ प्रमाणशोभा
भिरहीयमानं कृतं भवेच्चित्रमतीव चित्रम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० मा० सं० वर्तनो नामकश्चत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥


१ 'रते शृङ्गाकर्म' इति ख० । २ 'रच्यार्यास्तोऽस्य' - इति ख० ।

वि० पु० ॥३३४॥ तृ० सं० अ० ४०

वज्रसंवादे चित्रसूत्रे शेषवृद्धिनमोक्तश्चत्वारिंशत्तमोऽध्यायः॥ ३९ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ स्निग्धकर्कशिकाचूर्णं त्र्यंशं दित्त्वा सुदस्ततः ॥ गुग्गुलं सम्प्रगृह्यैवं मधुकं सुरकं गुडम् ॥ १॥ कुसुमं तैलसंयुक्तं कृत्वा दद्यात्समांशकम्॥ त्रिभागमसिदग्धाया सुधायास्त्व चूर्णितम् ॥२॥ बिल्वजं द्र्व्यसम्मिश्रं तद्दद्याच्च सपकं कषमावालुकांशं ततो दद्यात्स्वालुकरूपेण बुद्धिमान्॥३॥ ततः शक्लतोयेन प्लावयेच्चिच्छलेन तमापरीकृतं सम्भ्रं तन्मासमात्रं निधापयत्ता॥४॥मादेकं मासमात्रेण गतसुद्रव्य यत्नतः ॥ दृथाप्यलेपं निपुणः शुष्के कुड्ये विमृश्य तु ॥५॥ सूक्ष्मं समं सववद्वन्धं निम्नन्नोन्नतिविना कृतम् ॥ न चातिघ्नन्तं यात न चातितनुलाङ्कलम् ॥ ६॥ यदा शुष्कं भवेत्कुड्यं तत्प्रतिप्रससङ्कृतम् ॥ तया मृदा सर्जरसा तैलभागावियुक्तया ॥७॥ सृक्ष्णीकुर्यात्प्रयत्नेन लेपनैः श्लक्ष्णमन्तैः ॥ मुहुर्मुहुश्च क्षीरेण सिक्त्वा मार्जनयत्नतः ॥ ८ ॥ सद्यः शोषमुपायाते कुड्यं तन्न्युवजेन्नर ॥ अपि वर्षशतस्यान्ते न प्रणश्येत्तु कर्हिचित् ॥ ९ ॥ अनेनैव प्रकारेण द्विविधेयंस्कृताः ॥ कर्तव्याश्चित्रवृत्तौषा विविधा मणिभूमयः ॥ १० ॥ कुड्ये शुष्के तिथौ शस्ते रूपे च गुणसंयुते ॥ चित्राचार्यौ विशेषेण श्वेतावासा यतात्मवान्॥ ॥ ११ ॥ ब्राह्मनान्पूजयित्वा तु स्वस्ति वाच्य प्रणम्य च ॥ तद्विदुश्च तथाप्यान्यं गुरुंश्च गुरुवत्सलः ॥ १२ ॥ प्राङ्मुखो देवताध्यायी चित्रकर्म समाचरेत् ॥ १३ ॥ श्वेतरक्तारुणैर्वापिनानैर्वापि कथंचिद्भवम् ॥ १३ ॥ आदिख्य स्थापयीद्वान्प्रमाणं स्थानके तथा ॥ ततस्तं रञ्जयेद्रङ्गैर्यास्थानगा नुकूचतः ॥ १४ ॥ श्यामा गौरी तथा तस्य च्छविः ख्यातां प्रदर्शयेत् ॥ तस्याश्च लक्षणं प्रोक्तं माताया नृप विस्तरे ॥ १५ ॥ मूलरङ्गाः स्मृताः पञ्च श्वेतः पीतो विलोमतः ॥कुरूपो नीलश्च राजेन्द्र शतरशोशतस्तः स्मृताः ॥ १६॥ पूर्णरङ्गविभागेन भावकल्पनया तथा।स्वबुद्ध्या कारयेद्रङ्गान् ऽशतशोऽथ सहस्रशः ॥ १७॥ नीलोच्छ्रित्यान्तिकैः पालाश इति शम्यते ॥ स गुरुः श्वेतामिश्रश्च नीलासम्भ्राधिक एव च ॥ १८॥ एकाधिकं न भवति च्छवीनम्मनुरूपतः ॥ श्वेताधिको वा न्यूनो वा समांशोवेति स त्रिधा ॥१९॥ स एकस्तन्मनायुक्तो बहुधैवं विकल्पते ॥ तेन दूर्वाङ्कुरा पीतः कपित्थवद्वरैस्तैः शुभाः ॥ २० ॥ क्षुद्रश्यामश्चकृत्तयः कर्तव्याश्छवयौ नृप ! ॥ नीलः पाण्डुरसम्भूतो विरूङ्गः सोऽप्यनेकथा ॥ २१ ॥ अन्यो न्यास्याधिकं न्यूनं समांशराविकल्पना ॥ तेन नीलोत्पलन्निभा मापसच्छद्रणप्रभा ॥ २२ ॥ क्रियते च्छवयो रम्या यथाप्रोगिविनिश्चयात् ॥ लाक्षया श्वेतया युक्ता लाक्षारोगोपिन्द्वृया॥२३॥गक्ता रक्तोत्पलरुश्यामा च्छविर्भवति शोभना ॥ सापि नानाविधानन्यान्वर्णान्कुर्वीत वर्हुत ॥२४॥

॥३३४॥


१ 'नीलोत्पलन्निभैर्विस्तैः' - इति ग० ।

स्थित्यर्धमुन्मुखश्चाङ्गैः परिवृत्तवशोद्भवेत् ॥ किञ्चिद्व्यत्यागतौ कार्यावुपरिष्टादधः पुरः ॥ २७ ॥ अर्धाविक्षिप्तसाहच्यं विरसम्प्रम्यसंस्थितम् ॥ मध्येन नेत्ररन्ध्रेण पृथग्भागविलोपिना ॥ २८ ॥ विज्ञेयं दधतः कायं परिवृत्तं नरेश्वर ॥ समदृष्टिशिरस्कैस्तौ दृश्यौदृष्टौ तु यत ॥ २९ ॥ ऊर्ध्वतः क्षीणदृष्ट्यर्थं दृश्या शेषं कटिस्थलम् ॥ क्षुत्तषादाङ्गुलितलं दृश्याशेषतलद्वयम् ॥ ३० ॥ चतुरस्रं सुसम्पूर्णमसंभ्रान्तकदर्शनम् ॥ प्रकाशिताहृतबाहुश्च दृष्टसुव्यक्तकन्धरम् ॥ ३१॥ क्षुतं जङ्केतौ ज्ञेयं नाम्ना स्थानं समानतः ॥ नीचान्येतानि सर्वाणि तथोक्तेर्विभराजितम् ॥ ३२ ॥ ललितैर्ललितव्यानितै त्वयायुक्तमथो नव ॥ एषां प्रज्ञाविशेषेण विकाराणि बहून्यपि ॥ ३३ ॥ एकैकशश्च भूभागैः कर्तव्यानि यथाविधि ॥ त्वया मन्तः समासाद्य सम्यङ् मानं तु भूतले ॥ ३४ ॥ स्थानान्येतानीमानि मानाद्यैर्गुणैर्लक्षणैर्यानि शृण्वतः ॥ नैवैतानिह्यानि सर्वाणि वैष्णवनिन्दत ॥ ॥ ३६ ॥ स्थानानि नाधिकमतः परमस्ति हि किचन ॥ जीवलोके परिक्रम्य सतत स्थाणुजङ्गमम् ॥३६॥ उत्तमाधममध्येषु प्रमाणगुणतः सदा। चित्रं विचित्रं विविधं प्रमाणं ज्ञेयमेव च ॥३७॥ क्षयवृद्धी च कात्स्न्येन मया तेऽभिहितेऽनघ ॥ अतः परं प्रवक्ष्यामि क्षयवृद्धिर्विधिं क्रमात्॥३८॥ चित्रवृद्धिसंज्ञेयं समासेनेतरेण च ॥ त्रयोदशविधेनात्र क्षयवृद्धिरुदाहृता ॥ ३९ ॥ स्थानानां बहुसंस्थानत्वाङ्गवयवसम्भवा ॥ स्थानं पृष्ठ- गतं पूर्वमवर्जगतमेव च ॥ ४० ॥ मध्यार्धार्थं तथार्धार्थं साचीकृतमुखं तथा ॥ नतं गण्डपरावृत्तं पृष्ठगतमथापि च॥ ४१॥ पार्श्वगतं च विज्ञेय- मुत्क्षेपं चलितं तथा ॥ उत्तानं वलितं चेति स्थानानि तु त्रयोदश ॥ ४२ ॥ कार्याण्येतानि सर्वाणि नामसंस्थानतो नृप ॥ मण्डल्यनीह वैशाखप्रत्यलीढक्रियाक्रमैः ॥ ४३ ॥ समासाद्वाह्यसंस्थाः पादाः सुस्थितानि चलानि च ॥ समाससम्पदस्य च द्विविधं स्थानकं भवेत् ॥ ४४ ॥ तद्गत्या पद्धयुगिष्टं स्थानं सम्पदं स्मृतम् ॥ मण्डलञ्च द्वितीयं स्यात्स्थानान्यन्यानि यानि च ॥ ४५ ॥ तान्येकसम्पदानि विचित्राणि चलानि च ॥ तत्र वैशाखमालीढं प्रत्यालीढं च धन्विनाम् ॥ ४६ ॥ चित्रगोमूत्रकगते विषमं खड्गचर्मिणाम् ॥ चलितं सवितागतम्ताललीढेकपद क्रमम् ॥ ४७ ॥ शक्तितोमरपाषाणभिन्दिपालादिधारिणाम् ॥ सर्वत्रलितं चक्रशूलगदाकुणपधारिणाम् ॥ ४८ ॥ एकापदस्- मस्थानं द्वितीयन्तु विद्रुतम् ॥ शरीरं च सलीलं स्यात्सावधैर्मैः क्वचिल्लुतम् ॥ ४९ ॥ लीलाविलासविभ्रान्तं विशालं जघनस्थलम् ॥ स्थिरैकपादविन्यासं स्त्रीरूपं विलिखेद्बुधः ॥ ५० ॥ प्रमाणहीनस्तु जनोऽभ्युत्थानकालस्य भावस्य चलात्तु श्चित्थ्याम् ॥ इति प्रतिपन्नस्यात्मधिया बुधेन कार्यं प्रमाणं क्षयवृद्धियोगे ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय-

वि० ध० ॥ ३२२ ॥ तृ० खं० अ० ३१ ॥ ३२३ ॥

ऋजुवागतं भवेद्द्यंस्तु तदनन्तरम् ॥ साचीकृतशरीरं च सव्यग्रीर्विलोचनम् ॥ २ ॥ ततः पार्श्वगतं नाम पुरावृत्तमतःपरम् ॥
पृष्ठागतमयः कार्यं पूर्वावृत्तं समागतम् ॥ ३ ॥ एतान्यनेकभेदानि नव स्थानानि भूपिते ॥ एकैकस्येह भवतः शृणु मे
नृप लक्षणम् ॥ ४ ॥ तत्राभिमुखमेवादी स्पद्यमानगुणान्वितम् ॥ सुसम्पूर्णं सुचाव्वङ्गं सुसूक्ष्मलक्षणैर्वकम् ॥ ५ ॥ सुशुद्धं मधुरं
स्पष्टरेखासंस्कारशोभितम् ॥ बद्धस्वस्थानसम्पन्नमलीणगात्रं पृष्टगं न तु ॥ ६ ॥ मुखस्यपादविततांशोनं वक्षस उदरं तथा ॥ कट्या च स्कन्ध-
देशश्च ऊरूश्च क्षयं गता ॥ ७ ॥ नासापुटाग्रघोणानां चतुर्थांशं च वृद्धिमत ॥ क्षयं नीतं त्रिभागं न यस्य गात्रेष्व्य एव च ॥ ८ ॥ कान्तरूपं
परं स्थानं स्थानलक्षणचोपपादितम् ॥ एतद्व्यंजनानामुक्तंमनेकगुणान्वितम् ॥ ९॥ गतियुग्मस्मिल्लग्नेन नेवद्वारे सुवर्तनाम्॥ सुकुमारं चतुर्भागं हीणं
सर्वांगशोभनम् ॥ १० ॥ अध्यर्धभ्रूललाटे चाप्यर्धचैवांगसुत्कटम् ॥ भागद्वयावशेषार्धं कलापादार्धलोचनम् ॥ ११ ॥ कलावद्बालभ्रूलेवं लिखितं
स्निग्धलेखया ॥ न च च्छायागतं काले न चावक्त्रंञ्जकोपनम् ॥ १२ ॥ चेकारीकत्वचैव नृप साचीकृतमिहोच्यते ॥ अर्धं नेत्रं मुखे यस्य लुप्सम
चक्षुर्ने तथा ॥ १३ ॥ भद्रो ललाटमात्रञ्च दृश्यानां सग्भव तु ॥ मात्रार्धा चैकतो गण्डं दृश्यमर्धकुतस्तथा ॥ १४ ॥ मात्रार्धं कण्ठदेशाच्चा ग्रव-
र्माविष्कृतं हनोः ॥ १५ ॥ उत्सोडवं मुखं लिप्तं नान्यस्याच्छिद्यमूल्यम् ॥ १६ ॥ अध्यर्धशेषा च कटी अन्यश्च दर्शनीकृतम् ॥ अध्यर्धांशं परिज्ञेयमा
कारणेनोत्तमादिना ॥ १७ ॥ एकांशमक्रक्रैलेवसप्तमनामा ललाटवत् ॥ १८ ॥ यस्यावलोक्यते पार्श्वं दक्षिणं सव्यमेव वा ॥ १७ ॥ कृत्स्नमन्य-
र्हिगतं तदङ्गमङ्गवितस्तथा ॥ एकांशमक्रकेलेवसप्तमनामा ल्लाटवत् ॥ १८ ॥ एकं श्रोत्रं यदर्थं स्याच्चिबुकार्थं शिरोरुहम् ॥
गृहीतंमानलावण्यमधुनादिगुणान्वितम् ॥ १९ ॥ पार्श्वगतमिति प्रोक्तं तत्स्याद्विज्ञित्संज्ञितम् ॥ अपाङ्गेकूं कण्ठशेणे कण्ठदेशे तथैव च ॥ २० ॥
बाहुमण्डललाटेषु कालाख्यं क्षयमागतम् ॥ बाहुवक्षःकटितटिप्रथयितु...... ॥ २१ ॥ द्विकले द्विकले ज्ञात्वा पृथाभागं कृषीकतम् ॥
अनुक्तंप्रप्रमाणेण नातितिरोष्णडामेव च ॥ २२ ॥ एतद्वण्डपरावृत्तं स्थानं च परिकीर्तितम् ॥ पृष्ठतो यदपि व्यक्तं देहबन्धे मनोहरम् ॥ २३ ॥
वक्रस्फुटिसर्व्वंगसन्रिवन्धनमेव च ॥ ईषच्च दर्शितापाङ्गकपोलजठरं पुनः ॥ २४ ॥ प्रकारितैकपार्श्वेन सुस्थिरं दृष्टिहारि च ॥ स्वहीनेमानला-
वण्यमधुरादिगुणान्वितम् ॥ २६ ॥ लेखेषु पुस्तकेषु पृष्ठागतमिति स्मृतम् ॥ यस्योर्ध्वमङ्गत्येन भागेन समवस्थितम् ॥ २६ ॥


१ 'परात्तम्' इति ख० ।

चतुरस्रं सुसम्पूर्णं प्रशस्तं शुभलक्षणम् ॥ अविकोपानमर्कं च अधिकारमुखं भवेत् ॥ ४ ॥ दीर्घमण्डलचक्राणि त्रिकोणादीनि यानि च ॥ वर्ज्यानि तानि देवानां प्रजासु शिवमिक्षता ॥ ५ ॥ कार्या हंसप्रमाणेन देवा युद्धकुलोद्भवे ॥ तेषां च लोम कर्तव्यमधिपक्ष्मासु च ध्रुवोः ॥ ६ ॥ अतः शेषेषु गात्रेषु देवाः स्थूलोमवर्जिताः ॥ द्विरष्टवर्षकाराश्च तथा कार्या दिवौकसः ॥ ७ ॥ प्रसन्नवदना नित्यं तथा च स्मितदृष्टयः ॥ सुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा ॥ ८ ॥ भूषितास्तोडयैः कर्तव्याः सुप्रसन्नदामधारिणः ॥ श्रोणीसूत्रेण महता पादामभरणचारिणा ॥ ९ ॥ यज्ञोपवी तवंतश्च सवंतस्त्रांस्तथैव च ॥ जान्वधोलम्बिना कार्याः शोभिना कटिवाससा ॥ १० ॥ वामं मनुजशार्दूल दक्षिणं जानु दर्शयेत् ॥ अंशुकं च तथा कार्यं देवतानां मनोहरम् ॥ ११ ॥ प्रभा च तेषां कर्तव्या मूर्ध्नि मूर्ध्नि प्रमाणतः ॥ मण्डलाभा महाराज देवतातोजस्कारिणी ॥ १२ ॥ ऊर्ध्वा दृष्टिरधोदृष्टिस्तथैव तेषां विवर्जयेत् ॥ हीनाधिका वा दीना वा क्रुद्धा रूक्षा तथैव च ॥ १३ ॥ ऊर्ध्वा तु मरणायोक्ता शोकायोधः प्रकी र्तिता ॥ तिर्यग्विनशनिनाशाय हीना भवति मृत्यवे ॥ १४ ॥ अधिका शोकजननी दीना च नृपसत्तम ॥ रूक्षा धनक्षयाय स्यात्क्रुद्धा भयविव र्धिनी ॥ १५ ॥ शातोदरी न कर्तव्या न कार्या चाधिकोदरी ॥ सुलता च न कर्तव्या तथा युद्धकुलोद्भवे ॥ १६ ॥ हीनाधिकप्रमाणा च रूक्षा वर्णा तथैव च ॥ विवृतेन च वक्रेण नता च यदुनन्दन ॥ १७ ॥ प्रमाणहीनैरङ्गैश्च त्यधिकैरपि पार्थिव ॥ शातोदरी क्षुद्भया मरणाय्याधिको दरी ॥ १८ ॥ सूखता मरणायोक्ता हीना धनविनाशिनी ॥ अधिका शोकजननी रुक्षवर्णा भयप्रदा ॥ १९ ॥ विवृतेन च वक्रेण कुलनाशकरी भवेत् ॥ प्राच्याश्चा धननाशाय दक्षिणेन च मृत्यवे ॥ २० ॥ पश्चिमेन सुतघ्नी च चोद्गम्यर्थविवृद्धये ॥ प्रमाणहीना नाशाय अधिका देशनारिश नी ॥ २१ ॥ अङ्गैश्चा मरणायोक्ता क्रुद्धा रूपविनाशिनी ॥ प्रमाणहीनां प्रतिमां तथा लक्षणवर्जिताम् ॥ २२ ॥ आवाहितांश्च विप्रेन्द्रेनीवि शन्ति दिवौकसः ॥ २३ ॥ आविशन्ति तु तां नित्यं पिशाचा दैत्यदानवाः ॥ तस्मात्सर्वप्रयत्नेन मानहीनां विवर्जयेत् ॥ २४ ॥ चित्रलक्षणसंयुक्ता प्रशस्तं सर्वसुच्यते ॥ आयुष्यं च यशस्यं च धनधान्यविवर्धनम् ॥ २५ ॥ तदैव लक्षणापेतं धनधान्यविनाशनम् ॥ देवा नरेन्द्र कर्तव्याः शोभा वन्तः सदैव तु ॥ मृगेन्द्रवृषनागानां हंसानां गतिभिः समाः ॥ २६ ॥ सुलक्षणं चित्रमुशन्ति धन्यं देशस्य कर्तुर्वसुधाधिपस्य ॥ तस्मात्प्रयत्नेन सल्हक्षणं तत्कार्यं नरेन्द्रत्नपरेण्यर्थावत् ॥ २७ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिमालक्षणवर्णनन्नामाष्टत्रिंशत्तमो ऽध्यायः ॥ ३८ ॥ मार्कण्डेय उवाच ॥ शुभाकारविधारण पश्चाद्दारूणि नानारूपवन्ति च ॥ नव स्थानानि रूपाणां शृणु तान्यनुपूर्वशः ॥ १ ॥

वि० ध० तृ० खं० अ० ३८

रक्तास्यामस्तु शशकः किंचिद्वक्रस्तथा ॥ पूर्णागणश्च चतुरो मयश्चाथ प्रकीर्तितः ॥ ६६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रमाणवर्णनो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥ मार्कण्डेय उवाच ॥ अङ्गप्रत्यङ्गमानेन यथा पञ्च नराः स्मृताः ॥ १॥ स्त्रियः पञ्च तथा ज्ञेयास्ता एव मनुजोत्तम ॥ १ ॥ पुरुषस्य समीपेच्या कर्तव्या योषितीश्वर ॥ नरस्कन्धप्रमाणेण कार्या सा नृपभामिनी ॥ २ ॥ अङ्गुलौ द्वौ नरात्तासां हियो मध्यं विधीयते ॥ ४॥ अधिका च कटिः कार्या तथैव चतुरङ्गुलम् ॥ ३ ॥ उरःप्रमाणतः कार्यों स्तनौ नृप मनोहरौ ॥ तुर्यांश च स्तनौच्या महापुरुषलक्षणाः ॥ ४ ॥ जाळपादकराः कार्यास्तथा वै चक्रवर्तिनः ॥ ऊर्णैव च भ्रुवोर्मध्ये तेषां कार्यं तथा शुभम् ॥ ॥ ५ ॥ रेखाश्च करयोः कार्यास्तिस्रो राज्ञां मनोहराः ॥ शशांकसदृशकाशाः शंखा वै चामकोटिकाः ॥ ६ ॥ तदर्द्धमाङ्गिनः सूक्ष्मा निजस्नेहसमुत्कृताः ॥ घनेन्द्रनीलसदृशाः केशाः कार्यास्तथा शुभाः ॥ ७ ॥ कुन्तला दक्षिणावर्तनाऽङ्गिनः सिंहकेसराः ॥ वर्मगा जूटसमरा इत्येताः केशजातयः ॥ ८ ॥ चापाकारं भवेन्नेत्रं मत्स्योदरमथापि वा ॥ नेत्रमुत्पलपत्राभं पद्मपत्रनिभं तथा ॥ ९ ॥ शराकृतिर्महाराज पञ्चमं परिकीर्तितम् ॥ चापाकारं भवेन्नेत्रं प्रमाणेन यथा स्त्रियः ॥ १० ॥ मत्स्योदरश्च कथितं तथा यवचतुष्टयम् ॥ नेत्रमुत्पलपत्राख्यं प्रमाणान्षड्यवं स्मृतम् ॥ ११ ॥ पद्मपत्रनिभं नेत्रं प्रमाणेन यवा नव ॥ शराकृति च विज्ञेयं तथैव च यवा दश ॥ १२ ॥ नेत्रमङ्गलमानस्य यवमानं प्रकल्पयेत् ॥ चापाकारे भवेन्नेत्रे योगिनिमिलितेक्षणम् ॥ १३ ॥ मत्स्योदराकृति कार्यं नारीणां कामिनां तथा ॥ नेत्रमुत्पलपत्राभं निर्विकारस्य शस्यते ॥ १४ ॥ त्रस्तस्य रुदतोवापि पद्मपत्रनिभं भवेत् ॥ क्रुद्धस्य वेदनान्तस्य नेत्रं शराकृतिर्भवेत् ॥ १५ ॥ ऋषयः पितरश्चैव देवताश्च नराधिप ॥ स्वप्रमाणप्रमाणाः कार्या ह्युत्तमन्तस्तथैव च ॥ सुष्णन्तस्तेजसां तेजः परेषां नृपसत्तम ॥ १६॥ सम्यग्विचार्य नृपतिः स्वधिया गृहीतै हेतत्यणाणमजुढरूपमनिन्दितं च ॥ स्थानैरनेकरुचिरैः स्थिरभूमिलग्नैः कार्यं तदेव सुकुमारमसिद्धिरेखम् ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० सामान्यमानवर्णनो नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७॥

॥ मार्कण्डेय उवाच ॥ नेत्रमुत्पलपत्राभं रक्तान्तं कृष्णतारकम् ॥ प्रसन्नं दीर्घपक्ष्मान्तं मनोज्ञं मृदु सत्प्रभम् ॥ १ ॥ देवतानां करं राजन्यथा हितकरं भवेत् ॥ समे गोक्षीरवर्णाभे स्निग्धे जिह्याग्रदृक्फले ॥ २ ॥ प्रसन्ने पद्मनेत्रान्ते मनोज्ञे प्रियदर्शने ॥ कृष्णतारे विशाले च नयने श्रीसुखप्रदे ॥ ३ ॥


१ किञ्चिः रज्जुसकस्तथा' इति ख० । किञ्चिद्सुकस्तथा' इति ख० । २ 'चापा' इति ख० ।

॥३३२॥

सामान्यतस्ते नृपतेर्न मानं प्रोक्तं मया हंसनरधिपस्य ॥ प्रत्यक्षमानं च मयोच्यमानं समासतरत्वं शृणु राजसिंह ॥ ३८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे आयामोच्छ्रयप्रमानवर्णनो नाम पञ्चविंशतितमोऽध्यायः ॥ ३६ ॥ मार्कण्डेय उवाच ॥ अथ प्रत्यक्षेवि भागो भवति तत्र द्वादशाङ्गुलपरीणाहौ मूर्धा । चतुरङ्गुलोच्छ्रयं अष्टाङ्गुलं ललाटम् । शङ्खौ चतुरङ्गुलौ व्यङ्गुलोच्छ्रयौ पञ्चाङ्गुलौ गण्डौ चतुरङ्गुलो च्छ्रुः । द्व्यङ्गुलौ कर्णौ चतुरङ्गुलोच्छ्रयौ। कर्णमध्यमङ्गुलं तद्रन्ध्रमुदकम् ॥ पाशिरनियमोने । (कर्णस्य त्रुटिकापालिः) नासा चतुरङ्गुला अग्रे द्व्यङ्गलोच्छ्रया त्रिकायामा च नासापुटद्वंगुलिविस्तारौ द्विगुणद्विगुणायामौ । नासोष्ठमध्यमर्धाङ्गुलम् । ओष्ठश्चाङ्गुलः । चतुरङ्गुलायाम मास्यम् । अधरोऽङ्गुलं द्व्यङ्गुलं चिबुकम् । चत्वारिंशद्दन्ताः । तेष्वष्टौ दंष्ट्राः । अर्धाङ्गुलोच्छ्रिता दन्ताः । अङ्गुलद्वादशभागिका दंष्ट्रा । अङ्गुलं विस्तृता व्यङ्गुलायाम नेत्रे । नेत्रविभागं कृष्णमण्डलमापञ्चभागस्तारा । अर्धाङ्गुलिविस्तृतेद्व्यङ्गुलायामे भ्रुवौ । तयोर्मध्यमन्तरम् । चतुरङ्गुलं नेत्रान्तकर्णविवरम् । दशाङ्गुलिविस्तृता ग्रीवा एकाविंशत्यङ्गुलपरीणाहा षोडशाङ्गुले स्तनान्तरम् । षडङ्गुलं स्तननक्षवन्तरम् । षोडश बाहूर्ध्व लक्षणोगाहः। द्वादशाश्वः सप्ताङ्गुले करतलम् । पञ्चाङ्गुलं विस्तृतं पञ्चाङ्गुलप्रमाणा मध्यमिका । तत्पूर्वदलहीना प्रदेशिनी । तत्तुल्या चानामिका । तत्पर्वहीना कनिष्ठिका सर्वाः समाग्निभागपर्वाः । पर्वाधी नखाः । व्यङ्गलमङ्गुष्ठं द्विपर्वः। जठरपरीणाहो द्वाचत्वारिंशदङ्गुलः । वेधप्रमाणाभ्यामङ्गुष्ठं नाभिः । कण्ठिरष्टादशाङ्गुला विपुला । तत्परिविधुश्चत्वारिंशत् । चतुरङ्गुलोविस्तृतौ वृषणौ । षडङ्गुलं तावत्परीणाहं मेद्रम् । तन्मध्यत ऊरुः चतुरङ्गुलौ । तद्विगुणपरीणाहाङ्ङ्गुलिविपुले जानुनी । तद्विगुणपरीणाहं जङ्घाद्वयम् । पश्चाङ्गुलं चतुर्दशपरीणाहं द्वादश दीर्घौ षडङ्गलविस्तृतौ पादौ त्रिकायतौऽङ्गुष्ठौ । अङ्गुष्ठतुल्या प्रदेशिनी । तदर्द्धांशोनाः शेषाः । अङ्गुलचतुर्भागहीनोऽङ्गुष्ठनखः । तदर्धप्रमाणं प्रदेशिन्याः । तदष्टभागः शेषा णाम् । सर्वपादम्ङ्गलमष्ठांङ्गुलोन्सेधः । व्यङ्गुले पाष्णीं चतुरङ्गुलोच्छ्रयौ इति हंसप्रमाणं भवति । भवंति चात्र ॥ शेषाणां पार्थिवेन्द्राणां मानं युक्त्या प्रकल्पयेत्। अनेनैवानुसारेण स्वमानस्याप्यनुसारतः॥१॥ मध्वक्षश्चन्दगौरस्तु नागराजसुजो बली। हंसगामी सुमध्यश्च हंसश्च सुमुखो भवेत् ॥ ॥२॥ रोमरुद्धकपोलस्तु गजगामी महामतिः ॥ वृतोपचितबाहुस्तु भद्रः पद्माननो भवेत् ॥३॥ मुद्रश्यामस्तु मालव्यः कृशमध्यस्त्वकृशविः ॥ आजाजुबाहुः पीनांसो दन्तिघोणो महाहनुः ॥ ४ ॥ शशाङ्करश्मिरस्तु रुचक्रः कम्बुग्रीवो महामतिः ॥ सत्यस्तु सिकताश्वैव बलवर्यश्च प्रकीर्तितः ॥ ५ ॥


१ कोष्ठान्तर्गतः पाठो नास्ति बहुपुस्तके २ 'चतुरङ्गुलायामं'इति ख० । ३ 'मध्यकुन्द'इति ख० । ४ 'कृशमध्यतुलङ्घ्रिः'इति ख० ।

वि० ध०
॥३३॥

आप्यायनं परं ह्येतत्कथितं तु दिवौकसाम् ॥२४॥ एतदेव हि देवत्वं दीव्यतां सततं दिवि ॥ पुष्ट्यन्नैवैद्यदानेभ्यो नृत्तदानं विशिष्यते ॥ २५ ॥
स्वयं नृत्तेन यः कुर्याद्देवदेवस्य पूजनम् ॥ विशेषेण महाभाग तस्य तुष्यति केशवः ॥ २६ ॥ नृत्तं गीतं तथा वाद्यं दत्त्वा देवाय विष्णवे ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ २७ ॥ नृत्तेन धृतिं यः कुर्यात्स तु वर्ज्यः प्रयत्नतः ॥ कुशीलावधयैः कुर्यान्नृत्तनैमित्तिकान्यकः ॥ २८ ॥
देवतायाश्चनं कुर्यान्नृत्तं नृत्तेन धर्मवित् ॥ स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ॥ २९ ॥ धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ॥
ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ॥ ३० ॥ मूढानाम्बुद्धिवृद्धेश्च तत्क्षीणां सौभाग्यवर्धनम् ॥ शान्तिकं पौष्टिकं काम्यं वासुदेवेन
निर्मितम् ॥३१॥ एतावदुक्तं तव नृत्तशास्त्रं समासतो लोकहिताय राजन् ॥ नृत्तेन यत्नः पुरुषेण कार्यों लोकद्वयञ्जेतुमभीप्सता वै ॥ ३२ ॥ इति
श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रवर्णनो नाम चतुस्त्रिंशत्तमोऽध्यायः॥३४॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि चित्र
सूत्रं तवानघ॥उर्व्वंशी सृजतः पूर्वं चित्रसूत्रं नृपात्मज ॥१॥ नारायणेन मुनिना लोकानां हितकाम्यया ॥ प्राप्तानां वञ्चनार्थाय देवस्त्रीणां महामुनिः ॥ २॥
सहकाररसं गृह्य उर्व्या चक्रे वरस्त्रियम् ॥ चित्रेण सा ततो जाता रूपयुक्ता वराप्सराः ॥ ३ ॥ यां दृष्ट्वा व्रीडिताः सर्वा जग्रमुस्ता देवयोषितः ॥
एवं महामुनिः कृत्वा चित्रं लक्षणसंयुतम् ॥ ४ ॥ ग्राहयामास स तदा विश्वकर्माणमच्युतम् ॥ यथा नृत्ते तथा चित्रे त्रैलोक्यानुकृतिः स्मृता
॥ ५ ॥ दृष्टयश्च तथा भावा अङ्गोपाङ्गानि सर्वशः ॥ कराश्च ये महादत्ते पूर्वोक्ता नृत्तसत्तम ॥ ६ ॥ त एव चित्रे विज्ञेया नृत्तं चित्रं परं मतम् ॥
नृत्ते प्रमाणं येनोक्तं तत्त्ववद्व्याहतः शृणु ॥ ७ ॥ हंसो भद्रोऽथ मालव्यो रुचकः शशकस्तथा ॥ विज्ञेयाः पुरुषाः पञ्च तेषां वक्ष्यामि लक्षण
म् ॥ ८ ॥ उच्चैश्चायमम तुल्यस्ते सर्वे ज्ञेयाः प्रमाणतः ॥ स्वेनैवाङ्गुलमानेन शतमष्टाधिकं भवेत् ॥९॥ प्रमाणं नृप हंसस्य भद्रस्य तु षडुत्तरम् ॥
चतुरशीत्यधिकं ज्ञेयं मालव्यस्य तथा नृप ॥ १० ॥ शतं च रुचकस्योक्तं दशोने शशकस्य च ॥ द्वादशाङ्गुलिविस्तारस्ताल इत्यभिधीयते ॥ ११ ॥
अङ्गुलन्वन्तमुत्तमांगं पादोत्थञ्चायः प्रकीर्तितः ॥ द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी ॥ १२ ॥ जंघातुल्यौ तथा चोरू नाभिस्तालं तु
मेढ्रतः ॥ तावन्न नाभिमेद्ध्यं हृदयात्कक्ष्व एव च ॥ १३ ॥ कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत् ॥ तालषड्भागमप्युक्तं ललाटोपरि
मस्तकम् ॥ १४ ॥ मध्यं मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम् ॥ तालः प्रोक्तः करौ राजनूबाहु सप्तदशाङ्गुलौ ॥ १५ ॥ प्रबाहू तावदेवोक्तौ वक्षसो
धर्म्याष्टकम् ॥ एतदायाममतः प्रोक्तं मानं हंसस्य पार्थिव ॥ १६॥ अनेनैवानुसारेण शेषाणामपि कल्पयेत्॥ आयामपरिणाहाभ्यां समाः सर्वे नराधिपा॥१७॥

तृ० खं०
अ० ३६
॥३३॥

तु विज्ञेयो नियोगो नृप इष्यते ॥ १२३ ॥ एतावदुक्तं नृप नृपशास्त्रं समासतः पार्थिववंशसूनो ॥ निःशेषमेतद्वदितं महार्थं विस्तारतः सर्वजग- त्प्रधानम् ॥ १२४॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ॥ नृपशास्त्रोद्धारो नाम त्र्यत्रिंशत्तमोऽध्यायः ॥ ३३ ॥ वज्र उवाच ॥ नृत्तमुत्पादितं केन ऋषिणा दैवतेन वा ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ १ ॥ मार्कण्डेय उवाच ॥ एकार्णवे पुरा लोके नष्टस्थाव- रजङ्गमे ॥ शेषपर्यङ्कशयने सुप्ते मधुनिषूदने ॥ २ ॥ संवाह्यमानचरणे लक्ष्म्या मुकुलितेदृशि ॥ नाभ्यां तस्य समुत्पन्नं पद्मं पद्मनिभेशण ॥ ॥ ३ ॥ तत्र जातः स्वयं ब्रह्मा देवैः सुभवतुर्मुखः ॥ देवैः सह महाभाग सशरीरैर्नराधिप ॥ ४ ॥ पद्मोदविन्दु- सम्भूतौ तत्रैव मधुकैटभौ ॥ रजस्तमोमयौ घोरौ दानवौ तौ भयानकौ ॥ ५ ॥ ततो जगृहतुर्वेदान्ब्रह्मणस्तो नराधिप ॥ हत- वेदस्ततो ब्रह्मा तुष्टाव मधुसूदनम् ॥ ६ ॥ वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ॥ दानवापहृता वेदा अन्धीभूतोऽतोस्मि शत्रुहन् ॥ ७ ॥ एवमुक्तेस्तदा विष्णुरंशाणा पुरुषोत्तमः ॥ उत्थाय सलिलात्तस्माद्भश्रम सलिलाशये ॥ ८ ॥ अङ्गैरधैः सुललितैस्तथा पदपरिक्रमैः ॥ तथा भ्रमन्तन्तं देवं ददर्शायतलोचना ॥ ९ ॥ अतीव ललितं लक्ष्मीर्गीतज्ञा विशेपतः ॥ देवोऽप्यथशिरो भूत्वा पाताललगः क्षणात् ॥ १० ॥ स दैत्यान्दधृषान्वेदांस्त्वत्वाशीरशसतस्तुम ॥ जघान तौ महाकायो दानवौ मधुकैटभौ ॥ ११ ॥ हत्वा वेदसदाद्यस्तु सम्प्राप्तो ब्रह्मणोऽन्तिके ॥ ददौ वेदान्स्ततस्तस्मै देवदेवः स्वयम्भुवे ॥ १२ ॥ दत्वा वेदान्स्ततः प्राह सृष्टिं कुरु पितामह॥ वेदमृत्युतो ब्रह्मा सर्गं चक्रे ततः प्रभुः ॥ १३ ॥ शेषम्यङ्गागते देवे लक्ष्मीः पप्रच्छ पार्थिव॥ दृष्टम्भूयाव ॥ देवदेव जगन्नाथ शङ्खचक्रगदाधर ॥ १४ ॥ पारिक्रमं मया तोये दृष्टः सललितः प्रभो ॥ अतीव रमणीयाङ्ग किं तत्प्रब्रूहि मे प्रभो॥१५॥ श्रीभगवानुवाच॥ नृत्तमुत्पादितं ह्येतन्मया पञ्चनिभेशणे॥अङ्गैरहारैः सकरणैः संयुक्ते सपरिक्रमैः १६॥ सुरेनारायिष्यन्ति भक्तिमन्तस्तु मां शुभे ॥ त्रैलोक्यस्यानुकण्र्णं नृत्ते देवि प्रतिष्ठितम् ॥ १७ ॥ एतावदुक्त्वा तां देवी ब्रह्माणं वाक्यमब्रवीत् ॥ गृहाण नृत्तं धर्मज्ञ लक्ष्मलक्षणसंयुतम् ॥ १८ ॥ एतावदुक्त्वा ब्रह्माणं ग्राहयामास केशवः ॥ तद्वर्त्तयित्वा ततो ब्रह्मा ददौ रुद्राय वेधसे ॥ गृहीत्वा तच्च रुद्रोपि तोषयामास केशवम् ॥ तेन नृत्तेन सततं देवेशं भक्तवत्सलम् ॥ २० ॥ एवमुत्पादितं नृत्तं वासुदेवेन पार्थिव ॥ एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ॥ २१ ॥ ततः प्रभृति देवेशः शङ्करः शङ्करो नृणाम् ॥ नृत्तेनाराधयाञ्चस्ते देवं चक्रगदाधरम् ॥ २२ ॥ नृत्तेश्वरत्वं चागाप तुष्टाय मधुसूदनम् ॥ सोऽपि तुष्यति नृत्तेन सम्यगारार्धितो हरः ॥ २३ ॥ अन्ये च देवास्तुष्यन्ति सम्यक् नृत्तेन तोषिताः ॥

५३

वि० सं० ॥३३०॥

तृ०खं० अ० ३३ ॥३३०॥

एवमध्येष्य संयुक्ता वीरमुद्रा प्रकीर्तिता ॥ ९९ ॥ एवमध्येष्य संस्यूतै भैरवी चापरा भवेत् ॥ द्वेऽन्योन्या तु संग्राह्या इत्यमध्येन संयुतम् ॥ १०० ॥ पृष्ठमध्येन च क्रान्तं स्तम्भनी चापरा भवेत् ॥ उत्सङ्गमध्यगा तु संग्राद्याहेममध्यव्येन चाहतम् ॥ १०१॥ पातालभञ्जनी नाम शुद्धमध्यपरा भवेत् ॥ तर्जन्यौ मध्यमा चैव तथा चैव त्वनामिकाम् ॥ १०२ ॥ मध्यपर्वसु संयुक्तां पृष्ठतः कारयेन्नरः ॥ शङ्खमुद्रेयमुद्दिष्टा पूर्वमुक्ता तथपरा ॥ १०३ ॥ प्रसार्य सर्वाश्वाङ्गुल्यः कण्ठपृष्ठे च योजयेत् ॥ चक्रमुद्रा भवेत्सेषां पूर्वमुक्ता तथपरा ॥ १०४ ॥ कटिभागप्रदेशे तु मुष्टिस्तु विशिखा भवेत् ॥ गदा मुद्रा भवेत्त्येषा सर्वविघ्नप्रणाशिनी ॥ १०५ ॥ अन्योन्याभिमुखौ कृत्वा करौ संवेष्टिताङ्गुली ॥ सह्वाह्वेन निदिष्टा मुद्रा कौस्तुभसंज्ञिता ॥ १०६ ॥ संस्पृश्य वेतिक्षिपिकां वामचक्रिणकं स्पृशेत् ॥ इयं मुद्रा विनिर्दिष्टा वनमालेति पार्थिव ॥ १०७ ॥ अनामीनौरंतरे द्वव्ये संजं द्वव्य कूर्कुट्ये ॥ जंघामध्यगतौ कृत्वा चिबुकौडर्घसमुद्यतौ ॥ १०८ ॥ मुखं विधृतकं कुर्याज्ज्वलजिह्वा तु लेलिहा ॥ एषा मुद्रा महामुद्रा नारसिंहेति कीर्तिता ॥ १०९॥ अङ्गुष्ठं मुदिना ग्राह्यं हृत्प्रदां परिकीर्तिता ॥ मुष्टिं बद्ध्व चाङ्गुष्ठं तिर्यग्भं कारयेच्छिरः ॥११०॥ स्पृष्ट्वा तु तर्जनीमुष्ठौ शिरसामुद्रा प्रकीर्तिता ॥ तर्जनीप्रान्तसंस्पृष्टे द्वे सृष्टी कवचं भवेत् ॥ १११॥ सृष्टी बद्ध्वा तु हस्तौ द्वे उभयोरंसयोजितौ॥ गदामुद्रा समाख्याता सर्वकर्मकरी शुभा ॥ ११२॥तार्जनी तु तथाङ्गुष्ठं प्रातिष्ठित्तौ तु कारयेत् ॥ शेषाः प्रसारिताङ्गुल्यो नेत्रमुद्रा भवेन्नृप ॥ ११३॥उत्तानमूर्ध्वोऽञ्जलीं कृत्वा तर्जन्यन्तानां सप्त श्ग्रवातामध्यम्यौ चोत्रितौ कृत्वा अङ्गुष्ठौ क्षेपिताौ समौ ॥ ११४॥एषा मुद्रा समाख्याता दिव्या च शिरसो नृप॥अञ्जलिः प्रमदा मुद्रा क्षिप्रं देवम सातितम् ॥ ११५॥ वन्दने हृदया मग्ना पूर्वदक्षिणतोऽपरा ॥ ऊर्ध्वोऽङ्गुष्ठौ वामसव्यैर्दिक्षणोऽङ्गुष्ठबन्धनः ॥ ११६॥ संन्यस्य तस्य चाङ्गुष्ठौ यस्या ऊर्ध्वं प्रतिष्ठितम् ॥ वासुदेवस्य मुद्रेषा बद्धा स्थापनघातिनी ॥ ११७ ॥ हस्तयोरुभयोरेव कनिष्ठाङ्गुष्ठगर्भेको ॥ शेषाः प्रसारिताः स्थिता मुद्रा सङ्कर्षणस्य तु ॥ ११८ ॥ तर्जन्यावधतः स्थिता समाङ्गुष्ठा तु लेलिता ॥ एषा मुष्टि ततः कृत्वा मुद्रा प्रद्युम्नसंज्ञिका ॥ ११९ ॥ अङ्गुलीं वलितां यत्र सूपकणगौ तु कारयता। वेष्टयाङ्गुष्ठमध्यस्थः कार्यवनिर्निरुद्ध तु कारयेत् ॥ १२० ॥ इत्युद्देशे तु ते प्रोक्ता मुद्राहस्ता मया नृप ॥ दर्शनेनन्त्व युक्तानां परां सिद्धिमभीप्सिताम् ॥ १२१॥ यथामन्त्रं यथादेवं यथाविधिविनिर्दितः ॥ मन्त्रैर्मुद्रेवतायुक्ता बहवो मुद्राः प्रकीर्तिताः ॥ १२२॥ तासां मन्त्रं


१ 'शिखरे वामदक्षिणकम्' इति ख० । २ 'कण्ठामे नामतो' इति ख० । ३ 'उच्चार्य' इति 'कूर्कुटो' इति ०ख। ४ 'लोहिता' इति ख० । ५ 'हृन्मुद्रा' इति ख० । ६ 'मध्यामौ वह्निगौ' इति ख० । ७ 'तर्जन्या नम' -इति ख० ।

उत्तानी तूसतौ हस्तौ कृत्वाङ्गुष्ठौ तु कुञ्चितौ ॥ मध्यसंस्थौ करौ कृत्वा आवाहन्यास्तु लक्षणम् ॥ ७५ ॥ अङ्गुष्ठौ कुञ्चितौ द्वौ तु स्वकीयाङ्गु लिवेष्ठितौ । ऊर्ध्वो चाभिमुखौ हस्तौ योजयित्वा तु रीङ्गण ॥ ७६ ॥ उत्तानं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ॥ भ्रामयेद्दुर्लभा मुद्रा मुद्रा प्रोक्ता विसर्जने ॥ ७७ ॥ विस्रस्तिसद्गयसंयोगाद्गङ्गामुद्रा प्रकीर्तिता ॥ सृष्टिः प्रभासिता ज्ञेया लिङ्गमुद्रा तथैव च ॥ ७८॥ सन्दष्टे मार्जितोबष्ठौ जीर्णमुद्रा प्रकीर्तिता ॥ प्रसारितौ भुजौ कृत्वा भुजाग्रे कुञ्चितौ तथा ॥ ७९ ॥ अप्राप्यौ कुञ्चितांशेन कल्पहृक्षसत्रिभौ ॥ तर्जनी कुञ्चितां कृत्वा अङ्गुष्ठोपरि विन्यसेत् ॥ ८० ॥ निक्कुब्जौ बाहुदण्डौ तु बन्धीयाच्च पृथक्पृथक् ॥ क्षेपिणी नाम मुद्रेषा कथिता सूर्यदेवता ॥ ८१ ॥ पद्माकारौ करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलिः ॥ अङ्गुल्या कारयेत्तस्मिन्त्रिष्वङ्गुलि प्रकीर्तिता ॥ ८२ ॥ सम्मुखौ तु करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः ॥ कनिष्ठामध्यमे योज्यौ तर्जन्यौ मध्यमे तथा ॥ ८३ ॥ हृदि मूर्ध्नि शिखाबन्धे मूर्द्धे व्योमसंज्ञिता ॥ मूर्ध्निन्योच्छ्रितां कृत्वा मध्यहस्तस्य तर्जनीम् ॥ ८४ ॥ तारेशचन्द्वदन्तासौ तु मुद्रा चान्द्रम्य कीर्तिता ॥ मध्यमा तर्जनी चैव स्पृष्टहस्तस्य चोच्छ्रिते ॥ ८५ ॥ कनिष्ठानमिके कुब्जे साङ्गुष्ठेनैव संज्ञिता ॥ नेत्रप्रदर्शिता ज्ञेया गोपुच्छागमने तथा ॥ ८६ ॥ उत्तानौ तु करौ कृत्वा सर्वाङ्गुल्यो विकुञ्चिताः ॥ कृत्वा चोपरि चाङ्गुष्ठं चालयेत पुनः पुनः ॥ ८७ ॥ सर्वासानेव शक्तीनां सर्वज्ञा मुद्रप्रकीर्तिता ॥ दीप्ता मुद्रेयमाख्याता मृदा विसर्जितामला तथा ८८ ॥ अमोघा विहृता चैव नवमा सर्वतोमुखी ॥ इति नामानि शक्तीनां सर्वसस्यानि निर्दिशेत ॥ ८९ ॥ सम्मुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ ॥ इयं मुद्रा नमस्कारे रवि सान्निध्यकारिणी ॥ ९० ॥ अनामिकाग्रिकायाः सन्दंशो रविसुद्रा प्रकीर्तिता ॥ सोममुद्रा मध्यकया भौममुद्रा धनाग्रया ॥ ९१ ॥ कनीयस्या बुधे मुद्रा उत्फुल्ले जीवसंज्ञिता ॥ अनामिका सुलगा तु शुक्रमुद्रा प्रकीर्तिता ॥९२ ॥ मध्यमासुलगाङ्गुष्ठा शनिमुद्रा प्रकीर्तिता ॥ ९३ ॥ तर्जनीमूलगाङ्गुष्ठे राहु मुद्रा प्रकीर्तिता ॥ ९३ ॥ तर्जनी चलनाज्ज्ञेया केतुमुद्रा नराधिप ॥ वासस्तेन शिरस्यः कौचमुद्रा प्रकीर्तिता ॥ ९४ ॥ सम्पुटौ तु करौ कृत्वा बाधोल्ङ्ख्यां नराधिप ॥ एषा वराहमुद्रा तु सर्वकर्मकरी शुभा ॥ ९५ ॥ वामेन वेष्टितो हस्तौ दक्षिणा भैरवी भवेत् ॥ हस्तद्विधौ कुर्याद्यत्र हृद्विद्यापस्तथा भवेत् ॥ ९६ ॥ पातालगासिनी नाम मुद्रेषा कथिता नृप ॥ कंपित्थानाममनामिका दीर्घस्तम्भनी तु निगद्यते ॥ ९७ ॥ करमध्यगतु संत्राणिमिव मध्येन चाहतम् ॥ एवं मध्यन संयुक्ता क्रोधिनी परिकीर्तिता ॥ ९८ ॥ सहमध्या तु संप्राह्या स्वतमध्ये द्विहस्तम् ॥


१ 'विध्यम्यभिमतांगुली' इति ख० ।

वि० ध० बृ० सं० अ० ३३ ॥ ३२९ ॥

मध्यमे द्वे च संकोच्य अनामा पृष्ठतो न्यसेत् ॥ दत्वा चैव तु तर्जन्यौ मध्यमाः परिविन्यसेत् ॥ ५० ॥ महामुद्रा मयख्या सर्वद्रव्यप्रपूरणी ॥
अनामा मध्यमे द्वे तु अन्योन्यान्तर्गते कृते ॥ ५१ ॥ संयोज्य मध्ये स्वाग्रं तर्जनीद्वयमथ च ॥ कनिष्ठाग्रे तथा द्वेदे स्वाग्रे नाभिन
नियोजयेत् ॥ ५२ ॥ अर्थोन्मत्तो नथांगुष्ठौ अमृताख्या प्रकीर्तिता ॥ चण्डीशमुद्रा कथिता अंजलिः कुब्जतर्जनी ॥
॥ ५३ ॥ अक्षांबुद्रा भवेद्राजन् पद्मः स्यात्संहतांजलिः ॥ दक्षिणेन तु हस्तेन मुष्टिं बद्धा प्रयत्नतः ॥ ५४ ॥ अङ्गुष्ठमु
न्नतं कृत्वा वामाङ्गुष्ठे तु निक्षिपेत् ॥ दक्षिणां च तथा मुष्टिं वामाङ्गुल्या तु वेष्टयेत् ॥ ५५ ॥ सद्योजातस्य मुद्रेषा कथिता
पापनाशिनी ॥ इयमेव विपर्य्यस्ता वामदेवस्य कीर्तिता ॥ ५६ ॥ करसम्पुटकं कृत्वा वामां नासां तु कारयेत् ॥ दक्षिणे मध्यमांकुञ्च्य अङ्गुष्ठौ
कुञ्चयेत्तथा ॥ ५७ ॥ शूलाग्रकं ततः कृत्वा हृदयं परिवेष्टयेत् ॥ अघोरस्य स्मृता मुद्रा सर्वविघ्नविनाशिनी ॥ ५८ ॥ उत्तानौ तु करौ कृत्वा
अनामाङ्गुष्ठयोजितौ ॥ तन्मूर्द्धापरि चाङ्गुष्ठौ तर्जन्यौ द्वे च कुञ्चिते ॥ ५९ ॥ मध्यनामे तु तेद्वे तु कनिष्ठामकतो न्यसेत् ॥ मुद्रेषा वक्रसं
ज्ञस्य सर्वदुरुतिनिवारणी ॥ ६० ॥ कनिष्ठोनामिके द्वेद्वे अन्तरानान्तरयोजिते ॥ आकुञ्च्यान्तारिते योज्ये शेषं चैव प्रसारिते ॥ ६१ ॥ ईशानस्य
भेन्मुद्रा सर्वकर्मार्था गुह्या ॥ तर्जन्त्यौ कुञ्चिते कृत्वा तथैव च कनीयसी ॥ ६२ ॥ अथोमुखं स्पृष्टनखां स्थितां मध्ये करस्य तु ॥ चतस्रश्चो
च्छ्रिताः पृष्ठे त्वङ्गुष्ठकन्तः कुरु ॥ ६३ ॥ नाल्व्यवास्तितौ द्वौ तु मुद्रा व्योमः प्रकीर्तिता ॥ मुष्टिं बद्धा तु वामेन तर्जनीं सम्प्रसारयेत् ॥ ६४ ॥
आद्या दक्षिगपुञ्ज्या तु मुद्रा सर्वार्थमना भवेत् ॥ वाममुष्टीं तथाङ्गुष्ठं दक्षिणं प्रक्षिपेदधः ॥ ६५ ॥ करजा पृष्ठतो योज्या मुद्रेषा शिवसंज्ञिता ॥
अङ्गुष्ठोन्नांतोहिताः सर्वा वर्तुल्या गर्भसंस्थिता ॥ ६६ ॥ प्रसृता मध्यमा युक्ता शिखामुद्रा प्रकीर्तिता ॥ अथोमुखास्तु वे तिस्रः तिर्यक्तस्य सुसंस्थि
ताः ॥ ६७ ॥ कनीथ्वस्पुरि त्वार्सों त्वाश्च सर्वा अथोमुखाः ॥ तासामुपरि चाङ्गुष्ठे दक्षिणं सम्प्रयोजयेत् ॥ ६८ ॥ वामे चर्मद्रमुद्रा कथिता लङ्गि
लस्य तु ॥ बन्ध्ये त्वनामिका त्वरिमन्मुद्रा ह्वक्षस्य कीर्तिता ॥ ६९ ॥ उत्तानौ तु करौ कृत्वा उभामेक्त योजयेत् ॥ करजास्तु स्मृताः सर्वा मुद्रा
गायत्रिसंज्ञिताः ॥ ७० ॥ मुष्टी प्रसारयेत्कामंगुली तु क्रमात्त्वप ॥ तर्जन्यन्तां कनिष्ठार्थ्यां शक्तिमुद्रा प्रकीर्तिता ॥ ७१ ॥ बदि न्यस्तोऽञ्जलिर्ज्ञेयो
नमस्कारो नराधिप ॥ कपित्थव्यजनौ गुह्य रित्सरेणु व्यजो भवेत् ॥ ७२ ॥ अङ्गुष्ठे योज्य तर्जन्यौ हस्तोत्तानों स्मृताङ्गली ॥ मणिबन्धौ
निपीड्यैव शशिकर्णो भवेन्नृप ॥ ७३ ॥ सम्पुटीकृत्य हस्तौ द्वौ किंचित्सङ्कुचिताङ्गुलिः ॥ मुकुला तु समाख्याता पङ्कजं प्रस्ततं सा ॥ ७४ ॥

दिक्पालानाञ्च मुद्रैषा सर्वेन्मध्यप्रसारिता ॥ २६ ॥ उत्ताने प्रसृतांगुल्यः करे भवति वारुणी ॥ तामेव तु यदा तिर्यक्तदा भवति मारुती ॥ २७॥
निक्षिप्योर्ध्वञ्च ताः सर्वाः कौवेरी तु प्रकीर्तिता ॥ मध्ये प्रसारितास्तिस्रो मुद्रेशानी प्रकीर्तिता ॥ २७ ॥ अङ्गुष्ठौ पद्ममुद्रा स्याद्द्योगोऽनन्तस्य
कीर्तिता ॥ वामासक्तस्य वामां तु दक्षिणानामपक्रमे ॥ २८ ॥ तयोश्चापि गृहीत तर्जन्यग्रेण तु ॥ संकोचयेत्पडलानि स्वांगुष्ठे तर्जनीं
न्यसेत् ॥ २९ ॥ वज्र एषः समाख्यातः शक्तिः पूर्वसमुदाहृता ॥ करौ बाह्वोश्च चैव दण्डमुद्रा प्रसारिता ॥ ३० ॥ कनिष्ठामनामिके द्वन्द्वे अन्त-
र्बहिर्मुखीकृतौ ॥ चत्वारः प्रसृता युग्मः खड्गमुद्रा प्रकीर्तिता ॥ ३१ ॥ वर्तुलं तर्जनीं कृत्वा अंगुष्ठोपरि विन्यसेत् ॥ दक्षिणं तर्जनीं चैव
तस्यास्य तु नियोजयेत् ॥ ३२ ॥ दक्षिणं कुंचितं कृत्वा तिस्रो वामाः प्रसारिताः ॥ मुष्टिं कृत्वा तु वामेन त्वंगुष्ठं तु समुच्छ्रयेत् ॥ ३३ ॥
अंगुष्ठेन तु संरुद्ध्य पताका प्रसृता करा ॥ तिर्यक्करं तु कृत्वा वै सङ्ख्य चतुरंगुलीः ॥ ३४ ॥ अंगुष्ठं प्रसृतं कृत्वा गदामुद्रा तथा परा ॥ अन्योन्यं
योजयेद्धस्तौ कनिष्ठाङ्गुष्ठयोजितौ ॥ ३५ ॥ तदेव युग्मं प्रसृता शूलमुद्रा प्रकीर्तिता ॥ नित्यं प्रसारयेद्धस्तं स्वल्पाकारं तु योजयेत् ॥ ३६ ॥
मध्यमंकल्यसंसिद्धे प्रसृताग्रे नियोजयेत् ॥ तर्जनीद्वयं संकुच्य मध्यमापृष्ठसंस्थिता ॥ ३७ ॥ द्व्यङ्कपा स्मृता ह्येषा आत्मभावे नियोजयेत् ॥
उत्तानों तु करौ कृत्वा पदेङ्गुल्यः स्मृताः ॥ ३८ ॥ समानाः सुसमानाश्च योजिता वैष्णवी भवेत् ॥ तर्जन्यौ कुंचिते कृत्वा मध्यमा पृष्ठतो
न्यसेत् ॥ ३९ ॥ कनिष्ठोपरि चांगुष्ठौ धेनुमुद्रा प्रकीर्तिता ॥ उत्तानं वामहस्तं च दक्षिणं चाप्यधोमुखम् ॥ ४० ॥ मध्यमानामनामिके द्वे द्वे संकुच्यां-
ङ्गुष्ठसंस्थिते ॥ तर्जनीकन्यका चैव मध्यमाभ्यां समाक्रमेत ॥ ४१ ॥ द्वितीया द्व्यरूपी च गन्धमुद्रा प्रकीर्तिता ॥ उत्तानौ तु करौ कृत्वा
कनिष्ठेनानामिला तथा ॥ ४२ ॥ संकोचयित्वा चत्वारो मध्यमे द्वे प्रसारयेत् ॥ अंगुष्ठे च तर्जन्यौ पुष्पमुद्रा प्रकीर्तिता ॥ ४३ ॥ उत्तानौ तु
करौ कृत्वा पर्युदञ्चितनिकुञ्चितौ ॥ प्रसृते तर्जनीं कृत्वा चाग्रमग्रे नियोजयेत् ॥ ४४ ॥ तयोर्मूले तथैवाङ्गुष्ठौ धूपमुद्रा प्रकीर्तिता ॥ तर्जन्या तर्जनीं
यत्र कनीयस्या कनीयसी ॥ ४५ ॥ चतस्र उत्थिताः कृत्वा पृष्ठे पृष्ठे नियोजयेत् ॥ अंगुष्ठाग्रनिकुञ्चितौ कृत्वा दीपमुद्रा प्रकीर्तिता ॥ ४६ ॥ उत्क्षिप्तौ
तांवुलयः सर्वाः कनीगोष्ठमथोरपि ॥ पृष्ठे पृष्ठे तु संयोज्य अंगुष्ठाग्रे नियोजयेत् ॥ ४७ ॥ नैवेद्यमुद्रा कथिता फलकारकरा शुभा ॥ अंगुल्यः
संहताः सर्वास्तथा संकुचिताश्च याः ॥ ४८ ॥ पुष्पमुद्रा विनिर्दिष्टा द्वितीया युडनन्दन ॥ अंगुष्ठौ चैकतः कृत्वा अनामा च कनीयसी ॥४९॥


१ 'श्रवणा'—इति ख० ।
२ 'हृत्मुद्रा' इति ख० ।
३ 'कन्यसीनामिका' इति ख० ।

वि० ध० ॥३२८॥ तृ० खं० अ० ३३ ॥३२८॥

स्तात्त्रिलोचन मे ॥ इति श्रीवि०ध०सं०तृतीयखण्डे रहस्यमुद्रावर्णनो नाम द्वात्रिंशत्तमोऽध्यायः॥ ३२॥ मार्कण्डेय उवाच॥ उत्तानं तु करं कृत्वा चतुरंगुलिकुञ्चितम् ॥ अंगुष्ठपर्वतो योज्यो भस्ममुद्रा प्रकीर्तिता ॥ १॥ सा तिसृर्भिस्त्वंगुलिभिर्लङ्गमद्रा प्रकीर्तिता ॥ अंगुल्यस्त्रयः सङ्कोच्या ग्रांगुष्ठपरिसंस्थिताः ॥ २ ॥ तर्जनीं प्रसृतां कृत्वा जटामुद्रा प्रकीर्तिता ॥ ३ ॥ वेणुमुद्रा गदा तस्यां नेत्रांन्ते तर्जनी भवेत् ॥ ३ ॥ बन्धस्यौ तु प्रकुर्वीत चांगुष्ठं प्रसृतं तथा ॥ ५॥ उत्तानं मुष्टिं संयोज्य शशाङ्कं तु विनिर्दिशेत् ॥४॥ अंगुल्यः प्रसृताः सर्वा वर्तूलाः शृङ्गरूपकाः ॥ मूत्तिं कृत्वा तु तां मुद्रां गोवृषं तु विनिर्दिशेत् ॥ ६ ॥ तिर्यक्कृत्वा तु तं हस्तं सर्वसङ्कुचितांगुलिम् ॥ अंगुष्ठं मध्यमार्थेणपर्यस्तं तु विनिर्दिशेत् ॥ ६ ॥ कनिष्ठिकां सङ्कुचितामंगुष्ठापरि विन्यसेत् ॥ कनिष्ठिकामिकामध्यं दशांगुष्ठं प्रकीर्तितम् ॥ ७ ॥ उत्तानौ तु करौ कृत्वा अन्योन्यान्तरितांगुली ॥ कनिष्ठिकान्तरे चांगुष्ठमन्तर्नि प्रकीर्तिता ॥ ८ ॥ उत्तानं दक्षिणं हस्तं तथो वामं तथोपरि ॥ करजान्योन्यसंयोगाद्दक्षस्य परिकीर्तिता ॥ ९ ॥ सा चैव विपरीता तु ज्ञानस्य परिकीर्तितम् ॥ कनिष्ठिके द्वे चांगुष्ठौ युग्मीकृत्या प्रसारयत् ॥ १० ॥ वैराग्यस्य भवेन्मुद्रा सर्वकर्मकरी शुभा ॥ पृष्ठे पृष्ठं तु संयोज्य करयोरुभयोरपि ॥ ११ ॥ कनीन्यङ्गुष्ठयोगेन भवेत्तथैवामेव च ॥ पद्माकारौ भवद्धस्तः कनिष्ठान्तर्जनीयुतः ॥ १२ ॥ चतस्र उच्च्छ्रिताः कृत्वा पृष्ठेन्योन्यं तु योजयेत् ॥ अंगुष्ठविकृतः कृत्वा प्रणालं चैव कारयेत् ॥ १३ ॥ सकलस्य भवेन्मुद्रा इयंनार्णा शमनी शुभा ॥ त्रयः सङ्कोचिता यत्र कनिष्ठांगुष्ठकर्कलाः ॥ १४ ॥ उत्तान दक्षिणांगुष्ठं वामांगुष्ठेन वेष्टयेत् ॥ दक्षिणांगुलिभिश्चात्र वामांगुष्ठं तु वेष्टयेत् ॥ १५ ॥ वामस्यांगुलिभिर्भयान्न लघुलौ परिवेष्टयेत् ॥ तर्जन्यों कुञ्चितौ कृत्वा मुद्रा निष्कळारूपिणी ॥१६॥ उत्तानौ तु करौ कृत्वा अंगुष्ठांगुलिकुञ्चितौ ॥ कस्यचत्त्यस्थिता ह्येता नखस्तांसां तु गोपयेत् ॥ १७ ॥ पृष्ठे पृष्ठे तु संयोज्य त्वंगुष्ठौ विन्यसेत्समम् ॥ मालाकारं ततः कृत्वा दूत्या मुद्रा प्रकीर्तिता ॥ १८ ॥ अंगुष्ठगुष्ठेके योज्यः कनिष्ठियां कनिष्ठिका ॥ करमथ्यं तु तां कृत्वा पद्माभ्यमीरुतेः कुरु ॥ १९ ॥ संकुच्य तु पदान्तानि शस्याकारं तु कारयेत् ॥ स्कन्दस्य तु स्मृता मुद्रा अथैषा त्रिदशैरपि ॥ २० ॥ अधोमुखं करं कृत्वा तिलाङ्गल्यग्रं कुञ्चिताः ॥ विताला मध्यमा तत्र किंचित्सङ्कोचिता भवेत् ॥ २१ ॥ तर्जन्यां योजयेदंगुष्ठं दन्ताकारं तु दर्शयेत् ॥ विघ्नराजस्य मुद्रेषा सर्वविघ्नप्रणाशिनी ॥ २२ ॥ उत्तानौ प्रसृतौ हस्तौ तर्जन्यङ्गुष्ठसंहतौ ॥ अस्य वामौ तु संयोज्य शङ्खमुद्रा प्रकीर्तिता ॥ २३ ॥ संकोच्य करजां मध्यां हस्तयोरुभयोरपि ॥ प्रसृताङ्गुष्ठसुप्तानां योज्या मुद्रा हुताशने ॥ २४ ॥ अर्धमुखं करं कृत्वा यस्य स्यात्कुंचितांगुलिः॥


१ 'कनीयामागुष्ट' इति ख० । २ 'योजगोष्ठे' इति ख० । ३ 'संयुतौ'-इति ख० । ४ 'सङ्कोशां' इति क० 'सकोरा' इति ख० ।

गतासु सर्वास्वंगुलीषु क्रमात्कुब्जीकृतास्वङ्गुष्ठासु अ इ उ ए ओ प्रसारितासु अै इ उ ऋ ऌ ऐ औ अं मुकुलः अः मुकुलविशेषः अङ्गुष्ठमूलगतया परहस्ततर्जन्या क्रमात्कवचं। सर्वाधःपरं रेखागतया तवर्गः। तदुपरि ववशराख्यैः पवर्गः। तर्जन्याद्यस्तु प्रथमपर्वगतया षवर्गः। अग्रेषु शवर्गः। मध्यमा नखस्पर्शे र अ इति । अ वासुदेवः । आ सङ्कर्षणः। अं प्रद्युम्नः । अः अनिरुद्धः । अञ्जलिपुरुषः करयोः परस्परपृष्ठलयोः । कनीयस्या कनी- यसी चेति, तर्जन्या तर्जनी अङ्गुष्ठेनाङ्गुष्ठ इति तार्क्ष्यमुद्रा । पताकः कुञ्चिताग्रस्तालः तिर्यक्प्रसारिताङ्गुष्ठो मकरः। कुञ्चिताङ्गुलिरर्धचन्द्रः । द्व्यग्रशिखरो कनीयस्यङ्गुष्ठौ श्लिष्टौ । संहताङ्गुष्ठः शंखः । अः कारो संहतो स्पष्टाङ्गुलो पद्मः ॥ कुब्जाङ्गुष्ठो लक्ष्मीः । मकरः प्रसारिताङ्गुलिः । शेषस्तदुपरि शिखरो भोगशयनः । अः कार एव प्रसारितमध्यमाङ्गुलीर्ध्व उर्ध्वः । तत्रैव मध्यमाङ्गुलिः शिखरागृहीता गरुडवाहनम् । मध्यमाना- सिकायोर्द्वयङ्गुष्ठश्रोत्राभियोगे चक्रः । उपर्युपरि कपित्थयोश्चोपरि चिबुकं गदा । कपित्थकुब्जमध्यमिकौ हलः । कर्केटके मुसलम् । कपित्थमध्यमा- ङ्गुलिः । चर्म कपित्थं पृष्ठतलाङ्गुलिः खड्गःशिखरो मध्यमाङ्गुल्यूर्ध्वः तर्जनीमध्यमिकोर्ध्वनां संहतानां वियोगाच्छरः। मुकुलास्थितकनीनिकः कोदण्डम् । द्वौ शिखरो पृथक् वनमाला । अः कारो पृथगल्यौ नृसिंहः । शिखरप्रसारितकनीनिकायो वराहः । इ हयशिराः । ओं वामनः । वितस्ति- स्त्रिविक्रमः । अर्धचन्द्रो मत्स्यः। उग्रोमुखः कुब्जपताकः कूर्मः।शिखरप्रसारितकनीयानुद्वृत्तसंज्ञो हंसः। पताकः कुब्जाग्रमध्यो दशांग्रियः।। कपित्थः परशुरामः । द्वौ शिखरो युक्तौ दाशरथी। पताकः कृष्णः। द्विपताको बलदेवः। शिखरो विष्णुः । उत्तानपताकः पृथिवी । कुब्जः पताकः प्रसारितोङ्गुष्ठ- स्ताम्यः । अङ्गुष्ठाङ्गुलिसंस्पर्शमार्जतोदधिः । चलत्पताको वायुः । तिर्यक्सुप्रसारिततर्जनीकोऽन्तरिक्षम् । वितस्तिसदृशयोगो वर्तुलीकृतोऽर्कः अनामिकाग्रेण चक्रचन्द्रः । सर्वासुकुञ्चितासु प्रसारितो मध्यमा तर्जनी नरानारायणौ । तत्रैव प्रसारितभगन्धनासिका गुणाः ब्रह्मैविष्णुमहेश्वराः । वासस्य प्रसारिताङ्गुलेस्तदुपरि तथाविध एव दक्षिणः कपिलः । चतस्रोप्यङ्गुल्यः प्रसारितास्तन्मूले कुञ्चिताङ्गुष्ठान्तरागता तोयः । प्रसारितात्कनि- ष्ठिका ऋग्वेदः । सैवानासिकया सह प्रसारिता यजुर्वेदः ॥ चतुरानना प्रसारितांस्तुतः सामवेदः । वेष्ट्यमानासर्वांगुलीषु करमध्यगमनेन गायत्री । सामवेदोद्योसुसर्वांगुलिः शिक्षा । सैव दक्षिणादिशि नीता कल्पः । तर्जन्यंगुष्ठयोगे व्याकरणम् । शिखरांगुष्ठेन तर्जनीमध्ययोगेन निरु- क्तम् । खटकामुखवान्यां ज्योतिषम् । अथोमुखश्छन्दोविचितिः ॥ एता रहस्यमुद्रास्ते मयोक्ता नृपसत्तम ॥ अतः परं प्रवक्ष्यामि सामान्यां


१ 'मध्यमिकयोः' - इति क० ।

वि० ध० ॥३२४॥

तृ० खं० अ० ३० ॥३२४॥


चौर्यादिजातसम्भ्रान्तस्य ग्लानिः कार्या प्रयोक्तृभिः ॥ ३६ ॥ वातप्रायस्तथोन्मादो यथा ज्ञेयो वियोगजः ॥ असमवेक्ष्याप्रलापेन तस्याभिनयकारणम् ॥ ३७ ॥ व्याधिभिर्वा प्रहारैर्वा मरणं नाम जायते ॥ कर्तव्योऽभिनयस्तस्य मूढेन्द्रियविवेचनैः ॥ ३८ ॥ महाभैरवनादाच्चैत्रासः समुपजायते ॥ संक्षिप्ताङ्गप्रकम्पाभ्यामेतस्य त्वभिनयो भवेत् ॥ ३९ ॥ विचाराणाञ्च सन्देहः कार्यो भ्रूक्षेपकम्पनैः ॥ क्रोधादुपशयाद्भवति क्रोधाच्चाभिनयदर्शनः ॥ ४० ॥ मद्योपशमजोज्ञेयो हर्षग्लानिनयात्मकः ॥ मनोवृत्त्यात्मजो हर्षो रोमाञ्चेन प्रदर्शयेत् ॥ ४१ ॥ भीतिक्रोधेष्व उभये रोमाञ्चस्य समुद्भवः ॥ स्वरभेदो भयाद्धास्यत्रासभेदेन दृश्यते ॥ ४२ ॥ शोकानन्दसमुद्भूतम् अश्रु स्याद्रोदनेन तु ॥ वर्णाविपर्ययाद्भिन्नेयं वैवर्ण्यं नाट्ययोगिभिः ॥४३॥ वैवर्ण्यनापिनेतव्यं प्रयत्नाद्धि दुःखरूप ॥ ४४ ॥ ग्लानिः शङ्काऽभ्यसूया च श्रमश्चापलता तथा ॥ ४५ ॥ रोमाञ्चहर्षे निद्रा च उन्मादो मद एव चा¹॥ स्वेदश्चैव विहिताश्च भावा हास्यरसे स्मृताः ॥ ४६ ॥ आलस्योग्रत्वजुगुप्साऽविभावा हि परिकीर्त्तिताः ॥ उद्वहन्ति शृङ्गारे रसमास्वादसंश्रयम् ॥ ४६ ॥ स्वेदश्चैव च चिन्ता च दैन्यग्लान्यनुपातनम् ॥ जडता मरणं चैव व्याधिश्च करुणारसे ॥ ४७ ॥ असम्मोहस्तथोन्मादो विषादो मद एव च ॥ असूयाऽव्यभिचारं चैव भावा बीभत्सरसंश्रयाः ॥ ४८ ॥ स्तम्भः स्वेदश्च रोमाञ्चो जुगुप्सा विस्मयस्तथा ॥ प्रवेगो जडता हर्षोऽसूया त्वद्भुते रसे ॥ ४९ ॥ स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा ॥ मतिश्चैव तथोन्मादोऽमर्षो मद एव च ॥ ५० ॥ रोमाञ्चः स्वरभेदश्च क्रोधाऽसूया धृतिस्तथा ॥ गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति वै ॥५१॥ ये चान्ये सात्त्विका भावा नानाभिनययोजिताः ॥ रसेष्वेतेषु ते सर्वे विज्ञेया नाट्यकोविदैः ॥५२॥ बहूनां समवेतानां रूपं यस्य भवेद्बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणः स्मृताः ॥ ५३ ॥ शृङ्गारे त्रिविधं विद्याद्वाग्नेपथ्यक्रियात्मकम् ॥ अङ्गनेपथ्यभावश्च हास्यरौद्रौ प्रकीर्तितौ ॥५४॥ धर्मार्थश्चानुघातेन करुणो द्विविधः स्मृतः ॥ युद्धवीरे दयावीरे दानवीरे तथैव च ॥ ५५ ॥ रसं वीरमिति प्राहुस्तज्ज्ञाश्चोभयसम्भवे च ॥५६॥ व्याजात्त्रासापराधे च त्रिधा विद्याद्भयानकम् ॥ ५६ ॥ न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगजम् ॥ भावो वापि रसो वापि प्रवृत्तिरितरेण च ॥५७॥ एकोनपञ्चाशदिमे सप्रभावा ह्यवस्था गदिता मया ते ॥ युक्त्या च ये यत्र रसे नियुक्ताः प्रोक्तं तदग्र्यं नृपसुप्रसन्नम् ॥ ५८॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे एकोनपञ्चाशद्भावनिरूपणो नामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥


श्रीमार्कण्डेय उवाच ॥ अथातो मुद्रास्ता व्याख्यास्यामः ॥ वामस्य प्रसारिताङ्गुष्ठस्योपरि यदा कुञ्चिततर्जनी भवति तदोद्वेगकरः ॥ करमध्य


¹ 'एव च' इति क० । २ खपुस्तके तु नास्त्येतत् ।

उद्वेगोऽसहस्तैर्ह्यभिनयो विष्णौ ॥ दारिद्र्याद्दारिविनाशो च निर्वेदो नाम जायते ॥ १७॥ परस्पराविभिः शास्त्रैस्तस्याभिनयक्रिया ॥ वान्ते विरक्ते श्रान्ते च ग्लानिः स्यात्तपसा तथा ॥ १८॥ मन्दक्रिमशक्तकम्पाद्यैः क्षामत्वेन च दर्शयेत् ॥१९॥ चौर्यादिभिर्गृहीतस्य शङ्का नामेह जायते ॥ आकारावरणं तस्याः कार्यं दिगवलोकनम् ॥ परापराधसम्भूत असूया नाम जायते ॥ १४ ॥ गुणनशनिविद्वेषैः साभिनेया तथा बुधैः ॥ मदोपयोगेन मदो जायत च त्रिमस्तथा ॥ १६ ॥ उत्तमाधममध्यत्वाद्रूपगुणां स्वभावतः ॥ दृष्टगर्वोन्नतमत्तमानं स्यान्मध्यमानां वाक्यह्लापतः ॥ १७ ॥ अधमानां च पतनेरसम्बद्धप्रलपनैः ॥ आयासैर्नायनाभ्याञ्च श्रमो नामेह जायते ॥ १७॥ गात्रमर्दनिःश्वासैज्जृम्भणैस्तत्प्रयोजयेत् ॥ गर्वेण खेदद्रोगेण ह्यालस्यं स्यात्स्वभावतः ॥ १८ ॥ तस्य प्रयोगः कर्तव्यः शयना१सनसेवनात् ॥ २० ॥ दौर्गत्येन मनस्तापाद्देन्यं नामेह जायते ॥ १९॥ हृदयस्य वितर्कण तस्य त्वभिनयो भवेत् ॥ अभ्यन्तरे तस्कराद्दृष्ट्वा त्रासनैर्निर्विचेष्टतया ॥ २० ॥ तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ व्यसनेनाभिघातेन वेगात्स्मरणेन च ॥२१॥ सर्वेन्द्रियाणां मोहेन स तु कार्यः प्रयोक्तृभिः ॥ स्मरणात्पूर्ववृत्तानां स्मृतिर्नामेह जायते ॥ २२ ॥ भृभ्रूसुश्लेषणात्तस्याः प्रयोगः कार्यलोचनात् ॥ लोके वृत्तान्तविज्ञानाद् धृतिर्नामेह जायते ॥ २३ ॥ प्रयोक्तव्यो लब्धभोगेन अलब्धस्य विवर्जितम् ॥ क्रीडा नामेह भवति चापल्याद्धर्षसम्भवा ॥ २४ ॥ क्रीडनेन प्रयोक्त्या सा गुरुवाक्यप्रतीक्रमैः ॥ कृताकार्यस्य राजेन्द्र ब्रीडा नामेह जायते ॥२५॥ अधोमुखेन सा कार्या मूले स्वीकरणेन च ॥ ज्ञेया चपलता राजन् विचार्या क्रिययावता ॥ २६ ॥ अयमेव प्रयोगस्य तथैव समुदाहृतः ॥ मनोरथानां लाभे तु हर्षो नामेह जायते ॥२७॥ मुखप्रसादरोमाञ्चस्वेदैरभिनयेद् बुधः ॥ सम्भ्रमाज्जायते राजन्नावेगो इति सर्वदा ॥२८॥ आः शब्दैः सहसानर्थ्या दर्शनेण भुविस्थे ते ॥ विषादस्य समुत्पत्तिः कार्यनाशेण जायते ॥ २९ ॥ निद्रा निःश्वसितन्याजैः साभिनेया तथा भवेत् ॥ उक्त ण्ठाकरणैः संवेरात्सुखैयं नाम जायते ॥ ३० ॥ आलस्यजृम्भणोत्तत्वे ध्यानेनाक्षिनिमेषैश्च तत् ॥ रात्रिजागरणग्लान्याश्रमदैरिनिद्रं तु जायते ॥ ३१ ॥ नेत्राभिमर्दनात्कार्या जृम्भणा गात्रगौरवात् ॥ अपस्मारस्तु भवति देवादीनां प्रकोपततः ॥ ३२ ॥ निःसंज्ञत्वं समृद्धानि तस्येह्याभिनयो भवेत् ॥ निद्रासमर्थं सुतत्वं स्वप्नं तत्र योजयेत् ॥ ३३ ॥ निद्रोच्छेद्वोदि बोधन्तु जृम्भणं तत्र योजयेत् ॥ विधारशौर्यघनाद्यै२र्मर्षोनाम जायते ॥ ३४ ॥ शिरसः कम्पनैस्तस्य कार्यस्त्वभिनयो बुधैः ॥ धाष्ट्याद्यैर्हेतुभिस्सम्पत्तो ह्यवहित्थ्योभयात्मकः ॥ ३६॥ सर्वाङ्गोपगतत्त्कार्योऽभिनयो नर्तनेस्य च ॥


१ 'आस्याने' इति क० पुस्तके तु नास्त्येव ।
२ 'विघासाशौचेर्यधैय्र्ये:' इति पुस्तकान्तरे पाठः ।

वि० ध० ॥३२६॥ तृ० खं० अ० ३० ॥३२६॥

स संव्रादा ॥ १३ ॥ ईषद्विकम्पितैर्गण्डैः कटाक्षैस्सहोन्वितैः ॥ अलक्षितद्विजं चैव उत्स्मानं स्मितं भवेत् ॥ १४ ॥ तथा दर्शितदन्तं तु मध्यमोनं प्रकीर्तितम् ॥ सासं तदुच्यमानं स्यात्सहस्वनं च महीभुजाम् ॥ १५ ॥ शृङ्गारो द्विविधः प्रोक्तः संयोगोविप्रल- म्भथा ॥ विप्रलम्भहेतव्वान निवेडोऽभिमन्त्रयिकः ॥ १६ ॥ विप्रलम्भे तु निर्दिष्टाः कामावस्थास्तथा दश ॥ चक्षुःप्रीतिर्निनादीहा प्रथमायां नराधिप ॥ १७ ॥ मनसश्च तथा सङ्गो द्वितीयायां प्रकीर्तितः ॥ स्मरणं च तथा प्रोक्ते तृतीयायां निरन्तरम् ॥ १८ ॥ निर्दामभेदश्चतुर्थ्यां तु पञ्चम्यां तनुता तथा ॥ व्यावृत्तिर्विषयेभ्यस्तु षष्ठ्यां प्रोक्ता नराधिप ॥ १९ ॥ लज्जाप्रणाशः सप्तम्यामुरुन्मादस्तदनन्तरम् ॥ नवम्यां तु तथा मूर्च्छा दशम्यां मरणं भवेत् ॥२०॥ द्वयोरुज्ज्वलवेषोस्तु सम्भोगोग्निनयो भवेत् ॥ मुखप्रसादेदृष्टिप्रेक्षो यत्र माल्योनुलेपनम् ॥ २१॥ पुरुषप्रमदायुक्तं शृङ्गार इति संज्ञितः ॥ शोकाद्भवति राजेन्द्र तथैव करुणो रसः ॥ २२ ॥ भ्रस्तगात्राङ्गदिनैःश्वासपरिवेदितेरोदनैः ॥ मुखवैवर्ण्य शोषेश्च तस्येहाभिनयो भवेत् ॥ २३ ॥ क्रोधाद्भवति रौद्रस्तु रसस्य तु समुद्भवः ॥ रक्तनेत्रैर्भुकुटिकोधरोष्ठैः ससाहसैः ॥ २४ ॥ पीडनैः शस्त्रसङ्घातैस्तस्येहाभिनयो भवेत् ॥ जुगुप्सा च भवति बीभत्सस्य समुद्भवः ॥ २५ ॥ नासाविक्षेपनिर्नालस्य चोद्वेगेन तथैव च ॥ आश्चर्येण स- मुत्पत्तिरद्भुतं तस्यकीर्तितम् ॥ २६ ॥ प्रस्फुरितशिरोरामैर्जडुलीभ्रमणादिभिः ॥ स्वेदेन चाभिनेयः स्यादङ्गतस्तु तथा रसः ॥ २७ ॥ नाट्यस्य मूले तु रसः प्रदिष्टो रसेनहीनं न हि वृत्तम्स्ति ॥ तस्मात्प्रयत्नेन रसाश्रयस्य वृत्तस्य यत्नं पुरुषेण कार्यम् ॥ २८ ॥ इति श्रीविष्णुध- र्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रसगुणनो नाम त्रिंशत्तमो ऽध्यायः ॥ ३० ॥ मार्कण्डेय उवाच ॥ भावाख्यास्यामतो वह्निय तन्मे निगद- तः शृणु ॥ हासाद्याः कथिता भावाः पञ्चाशत्त्वेकवर्जिताः ॥ १ ॥ परचेष्टानुकरणाद्भवद्वासस्समुपजायते ॥ स्मितहासाभिहस्तेनेरोत्सिनेयस्य पण्डितैः ॥ २ ॥ इष्टार्थविप्रथाघातो रोतिरत्युपजायते ॥ सौम्यत्वादभिनेया सा बाष्पाश्रुद्यादिभिस्तथा ॥ ३ ॥ इष्टबन्धुवियोगेन धननाशेन पार्थिव ॥ शोको भवति तस्य स्याद्रोदितार्सिनिरूपक्रिया ॥ ४ ॥ क्रोधश्चतुःप्रकारश्च कर्तव्यो नाट्यचोदभिः ॥ रिपुजो गुरुजश्चैव भृत्यजः प्रणयोद्भवः ॥ ५ ॥ निर्धियान्तः स शत्रूणां गुरूणां स्वेदसंयुतः ॥ भृत्यानां च दृगाडः स्यात्स्त्रीणां च प्रणयोद्भवः ॥ ६ ॥ कर्मातिरिश्रानिवृतौ विस्मयो हर्षसंभवः ॥ सिद्धस्र्थाने त्वसौ साध्यो रोमाञ्चहस्रसनादिभिः ॥७॥ असौ मोहाद्विनिर्वृत्तो व्यवसायलयात्मकः। उत्साहस्त्वभिनेयः स्याद्दप- गाद्दिक्रियादिभिः॥८॥ सावरागभवसुद्धतं भयं नामेद् जायते ॥ वेपथुस्त्रासपतनेरभिनेयस्य सद्रमः॥९॥ बीभत्सदर्शनानिश्चेत्तु जुगुप्सा नाम जायतो ॥ १०॥

गतिर्भवेत् ॥ व्याधिग्रस्तस्य च तथा तपःश्रान्तस्य चैव हि ॥ २९ ॥ दीर्घाध्वनि गतस्यापि शनैर्मन्दपरिक्रमा ॥ मत्तस्य तु गतिः कार्या स्खलिता पार्श्वयोर्द्वयोः ॥ ३० ॥ उन्मत्तस्यापि कर्तव्या गतिस्त्वनियतक्रमा ॥ असम्बद्धप्रलापी स्यान्मलिनो रोमशस्तथा ॥ ३१ ॥ विक्कवानामपि गतिः कार्या भूषा कार्याणुरूपतः ॥ स्थूलदेहस्य कर्तव्या गतिर्दण्डाकरिणी ॥ ३२ ॥ विद्रूपकस्य कर्तव्या गतिर्हस्यप्रदा तथा ॥ स्वभावजातं विनयंम्य कुटिले वामके करे ॥ ३३॥ गतो स्मृतं चेदानां दृष्टिश्चाधिविचारिणी ॥ नानादेशसमुद्भूता पुरुषाणां स्वभावतः ॥ ३४ ॥ पाददानां पङ्गूनां च गतिः कार्या नराधिप ॥ शेषाणामर्थसंयोगेन स्थानकानि प्रयोजयेत् ॥ ३५ ॥ द्वेषोपपन्ना गतिरुत्तमानां मध्या गतिर्मध्य मसंज्ञितानाम् ॥ द्रुता गतिश्च प्रचुराग्यमानां लघ्वव्य सत्ववरेन योज्यम् ॥ ३६ ॥ रंगे विक्लवा तु नृपप्रधान गतागतेः पादगतिप्रचारः ॥ कार्या वशादेव गृहस्य नित्यं समीक्ष्य रङ्गे तु यथाऽनुरूपम् ॥ ३७ ॥ स्त्रीणां गतिः स्याल्ललितप्रचारा धीरा नराणां च तथोद्धता स्यात् ॥ गति प्रचारोऽप्यवरेन योज्यश्चेष्टाविदुक्ते तव राजसिंहा ॥ ३८ ॥ वयोज्ञेयः प्रथमस्तु वेशो वेषानुरूपश्च गतिप्रचारः ॥ गतिप्रचारागतं च नाट्यं नाट्यात् रूपोऽभिनयश्च कार्यः ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गतिप्रचारवर्णनो नामैकोनविंशतितमोऽध्यायः ॥ १९ ॥

मार्कण्डेय उवाच ॥ हास्यशृङ्गारकरुणाद्रौद्रवीरभयानकाः ॥ बीभत्साद्भुतशान्ताख्या नव नाट्ये रसाः स्मृताः ॥ १ ॥ शान्तो रसः स्वतन्त्रोत्र पृथगेव व्यवस्थितः ॥ शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणोदयः ॥ २॥ वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः ॥ एतेषामङ्गरूपांश्च सात्विकोद्गमि नन्नृपः स्मृतः ॥ ३ ॥ शान्तस्वभाववर्णस्तु रसः प्रोक्तो नराधिप ॥ शृङ्गारस्तु भवेच्छ्यामो रक्तो रौद्रः प्रकीर्तितः ॥ ४ ॥ सितो हास्यश्च विज्ञेयः कृष्णश्चैव भयानकः ॥ गोरो वीरस्तु विज्ञेयः पीतश्चैवाद्भुतः स्मृतः ॥ ५ ॥ कपोतः करुणश्चैव नीलो बीभत्समेव च ॥ हास्यः प्रमथदैवस्त्व शृङ्गारो विष्णुदैवतः ॥ ६ ॥ रौद्रो रौद्राधिदेवश्च करणो यमदेवतः ॥ बीभत्सस्य महाकालः कालदेवो भयानकः ॥ ७ ॥ वीरो महेन्द्रदैवः स्यादद्भुतो ब्रह्मदेवतः ॥ शान्तस्य देवो विज्ञेयः परः पुरुष एव त ॥ ८ ॥ शान्तस्य तु समुत्पत्तिर्नृप वैराग्यतः स्मृता ॥ स चापि ज्ञेयो भवति लिङ्गग्रहणतस्तथा ॥ ९ ॥ सर्वभूतदयाज्ञानमोक्षमार्गप्रवर्तनैः ॥ नास्ति यत्र सुखं दुःखं न द्वेषो नापि मत्सरः ॥ १० ॥ समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ हास्यस्य तु समुत्पत्तिरसम्बद्धप्रलापतः ॥ ११ ॥ असम्बद्धतया वेशद्राद्रवतीति विनिश्चयः ॥ आत्मस्थश्च परस्थश्च द्विविधः स च कीर्तितः ॥ १२ ॥ आत्मस्थश्च स्वयं हासातपरस्थः परहासनात् ॥ उत्तमाधमसुख्यानां त्रिविधः