तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
३१६ तैत्तिरीये आरण्यके
(१५) अच्यु॒तां बहु॒लाꣳ श्रियँ॑। स हरि॒र्वसु॑वित्त॒मः। पे॒रु- रिन्द्रा॑य पिन्वते^(१५)। ^(१६)बह्व॑श्वामिन्द्र॒ गोम॑तीं। अच्यु॒तां बहु॒लाꣳ श्रियँ॑। मह्य॒मिन्द्रो॒ निय॑च्छतु^(१६)। ^(१७)श॒तꣳ श॒ता अ॑स्य यु॒क्ता हरी॑णां। अ॒र्वाङ्ङाया॑तु॒ वसु॑भी र॒श्मिरिन्द्र॑ः।
अथ पञ्चमीमाह। ^(१५)“अच्युतां ० पेरुरिन्द्राय पिन्वते” ^(१५) इति। ‘सः’ देवः सप्तहोत्राख्यः, ‘इन्द्राय’ कर्मस्वामिने यज- मानाय, ‘श्रियं’, ‘पिन्वते’ सिञ्चति, प्रयच्छतीत्यर्थः। कीदृशः स देवः, ‘हरिः’ पापहरणशीलः, ‘वसुवित्तमः’ अतिशयेन धन- स्य लब्धा, ‘पेरुः’ पालकः। कीदृशीं श्रियं, ‘अच्युतां’ विनाश- रहितां, ‘बहुलां’ गवाश्वादिभिः प्रभूतां ॥
अथ षष्ठीमाह। ^(१६)“बह्वश्वामिन्द्र गोमतीं ० नियच्छतु” ^(१६) इति। ‘इन्द्रः’ परमैश्वर्ययुक्तः सप्तहोतृदेवः। स्पष्टमन्यत् ॥
अथ सप्तमीमाह। ^(१७)“शतꣳ शता ० नियच्छतु” ^(१७) इति। ‘अस्य’ आदित्यरूपस्य सप्तहोतृदेवस्य, ‘हरीणां’ अन्धकारहर- णशीलानां रश्मीनां, ‘शतꣳ शता’ शतसङ्ख्याकानि शतानि, अयु- तसङ्ख्यानीत्यर्थः। ‘युक्ता’ युक्तानि, सम्पादितानि, ‘इन्द्रः’ पर- मैश्वर्ययुक्तः ‘रश्मिः’ बहुविधरश्मियुक्तः आदित्यः, ‘वसुभिः’ धनैः, सह ‘आयातु’ आभिमुख्येनागच्छतु। आगतश्च सविता ‘बहुलां श्रियं’ प्रभूतां धनादिसम्पदं, ‘मे’ मह्यं, ‘नियच्छतु
३ प्रपाठके ११ अनुवाकः । ३१७
प्रमꣳ॑ह॒माणो॑ बहु॒लाꣳ श्रिय॑म् । र॒श्मिरिन्द्र॑: सवि॒ता मे॒ निय॑च्छतु⁽१७⁾ ॥ ७ ॥
⁽१८⁾घृ॒तन्तेजो॒ मधु॑म॒दिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु⁽१८⁾ । ⁽१९⁾हरि॑: पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒विक्षयो॒ नभ॑सा य एति॑ । स न॒ इन्द्र॑: कामव॒रं द॑दातु⁽१९⁾ । ⁽२०⁾प॒ञ्चारं॑ च॒क्रं परि॑वर्त्तते॒ पृथु॑ । हिर॑ण्यज्योतिः सरि॒रस्य॒ मध्ये॑ । अजस्रं॑
नितरां ददातु । कीदृशः सविता, 'प्रमꣳहमाणः' अस्मदीयस्तु- तिभिः प्रकर्षेण वर्द्धमानः, 'रश्मिः' बहुविधरश्मियुक्तः, 'इन्द्रः' परमैश्वर्ययुक्तः ॥
अथाष्टमीमाह । ⁽१८⁾“घृतन्तेजो ० मय्ययमग्निर्दधातु”⁽१८⁾ इति । 'अयं' सप्तहोतृदेवः, द्रव्यात्मकः सन् 'मयि' यजमाने, 'मधुघृतं' मधुररसोपेतं घृतादिद्रव्यं, 'तेजः' कान्तिं, 'इन्द्रियं' चक्षुरादिसामर्थ्यं च, 'दधातु' सम्पादयतु ॥
अथ नवमीमाह । ⁽१९⁾“हरिः पतङ्गः ० ददातु”⁽१९⁾ इति । 'हरिः' अन्धकारहरणशीलः, 'पतङ्गः' सूर्यरूपः, 'पटरी' तेजः- पटलवान्, 'सुपर्णः' पक्षिसदृशः, 'दिविक्षयः' स्वर्गनिवासी, 'यः' सप्तहोतृदेवः, 'नभसा' आकाशमार्गेण, 'एति' गच्छति । 'सः' देवः, 'नः' अस्माकं, 'कामवरं' कामानां मध्ये श्रेष्ठं, 'ददातु' ॥
अथ दशमीमाह । ⁽२०⁾“पञ्चारं चक्रं ० कामवरं ददातु”
३१८ तैत्तिरीये आरण्यके
ज्योति॒र्नभ॑सा सर्प॑देति॑। स न॒ इन्द्रः॑ काम॒वरं॑ द॑दातु⁽²⁰⁾।
⁽²¹⁾स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रं ॥ ८ ॥
एको॒ अश्वो॑ वहति सप्तनामा॑। त्रि॒नाभि॑ च॒क्रम॒जर॒* म-
(२०) इति। ऋतुपञ्चात्मका आरा यस्य कालचक्रस्य तत् ‘पञ्चारं’, ‘पृथु’ विस्तृतं, ‘चक्रं’ संवत्सरात्मकं कालचक्रं, ‘परिवर्त्तत’ परितः प्रवर्त्तते। ‘सरिरस्य मध्ये’ मेघवर्तिजलस्य मध्ये, ‘हिरण्यज्योतिः’ रश्मिसञ्चारणविद्युद्रूपपरिणामे सति सुवर्णसमानं ज्योतिर्यस्य मण्डलस्य तद्धिरण्यज्योतिः, तादृशं ‘ज्योतिः’ आदित्यमण्डलं संवत्सरचक्रनिष्पादकं, ‘अजस्रं’ निरन्तरं ‘नभसा’ आकाशमार्गेण, ‘सर्पदेति’ शनैः सञ्चरति गच्छति। ‘सः’ ज्योतिर्मण्डलात्मा ‘नः’ अस्माकं ‘कामवरं ददातु’ ॥
अथ एकादशीमाह। (२१)“सप्त युञ्जन्ति ० भुवनानि तस्थुः” (२१) इति। सप्तसङ्ख्याकाः साकञ्जानामित्यत्रोक्ताः मुख्यरश्मिविशेषाः अश्वसदृशाः ‘एकचक्रं’ एकप्रकारपरिवर्त्तं कालचक्रं, ‘युञ्जन्ति’। प्रवर्तयन्ति। तदेव स्पष्टीक्रियते। ‘सप्तनामा’ सप्तसङ्ख्यानि नामानि नमनयोग्यानि कंश्यानि †रश्मिरूपाणि य-
* अक्षरमिति E पुस्तकपाठः।
† वश्यानीति तै० पाठः।
३ प्रपाठके ११ अनुवाकः। ३१८
म॑र्वीम् । येने॒मा विश्वा॒ भुव॑नानि त॒स्थुः(२१) । (२२)भ॒द्रं पश्य॑- न्त उप॑सेदुरग्रे॑ । तपो॑ दी॒क्षामृष॑यः सु॒वर्विद॑: । तत॑: क्ष॒त्रं बल॒मोज॑श्च जा॒तं । तद॑स्मै दे॒वा अ॒भिसन्न॑मन्तु(२२) ।
स्यासौ सप्तनामा । 'अश्वः' व्यापकः 'एकः' सूर्य्यः तत्कालचक्रं 'वहति' । कीदृशं चक्रं, 'त्रिनाभि' तिस्रः सत्वरजस्तमोगुणरूपाः भूतभविष्यद्वर्त्तमानरूपा वा नाभयो यस्य तत्तिनाभि, 'अजरं' विनाशरहितं, न हि कालः संसारमध्ये कदाचिद्विनश्यति । 'अनर्वी' अर्वा विरोधो विनाशको भ्रातृव्यो वा अवेति श्रुतेः, तद्रहितं, न हि कालचक्रस्य कश्चिन्नाशकोऽस्ति । 'येन' कालचक्रेण, 'इमा विश्वा भुवनानि' दृश्यमानानि सर्वाणि भूतजातानि, तिष्ठन्ति, सुखेन वर्तन्ते तस्य कालचक्रस्य निर्वाहकोऽयं सप्तहोतादेव आदित्यः ॥
अथ द्वादशीमाह । (२२) "भद्रं पश्यन्तो ० अभिसन्नमन्तु" (२२) इति । 'सुवर्विदः' स्वर्गमार्गाभिज्ञाः, ऋषयः 'भद्रं' कल्याणं सप्तहोत्रूपमादित्यं, 'पश्यन्तः' प्राप्यत्वेन निश्चिन्वनाः, 'तपः' अनशनादिरूपं, 'दीक्षां' नियमविशेषं च, 'उपसेदुः' अनुष्ठितवन्तः । 'ततः' आदित्यसकाशात्, 'क्षत्रं' क्षतात् त्राणं अनिष्टनिवारणं । 'बलं' शरीरशक्तिः, 'ओजः' कान्तिः, इत्येतत् सर्वं 'जातं' सम्पन्नं । 'तत्' चस क्षत्रादित्रयं, 'अस्मै' यजमानाय, 'देवाः', अभिसन्नमन्तु । अभितः सम्पादयन्तु ॥
2 R
३२० तैत्तिरीये आरण्यके
(२३)श्वेतग्ँ र॒श्मिं वोभु॒ज्यमा॑नं । अ॒पाम्नेता॑रं॒ भुव॑नस्य गो॒पां । इन्द्रं॑ निचिक्युः पर॒मे व्योमन्(२३) ॥ ६ ॥ (२४)रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्ति पिङ्ग॒ला
अथ त्रयोदशीमाह । (२३)“श्वेतग्ँ रश्मिं ॰ परमे व्योमन्” (२३) इति । ‘परमे व्योमन्’ उत्कृष्टे हृदयाकाशे, ‘इन्द्रं’ पर- मैश्वर्ययुक्तं सप्तहोतृदेवमादित्यं, ‘निचिक्युः’ निश्चितवन्तः, ध्यातवन्त इत्यर्थः । कीदृशमिन्द्रं, ‘श्वेतं’ प्रकाशरूपत्वेन* शुक्ल- वर्णं । ‘रश्मिं’ रश्मियुक्तं, ‘बोभुज्यमानं’ सर्वैः प्राणिभिः वृष्टि- द्वारेण पुनः पुनः भुज्यमानं । एतदेव स्पष्टीक्रियते, ‘अपां नेतारं’ आदित्याज्जायते वृष्टिरिति स्मृत्या सूर्यो जलस्य नेता तादृशं, ‘भुवनस्य गोपां’ भुवनस्य पालकं† ॥
अथ चतुर्दशीमाह । (२४)“रोहिणीः ॰ नाव्यानां”(२४) इति । ‘रोहिणीः’ रोहिणवर्णाः,‡ ‘पिङ्गलाः’ पिङ्गलवर्णाश्च, या आपस्तत्तद्भूमिसम्बन्धेन बहुविधा दृश्यन्ते । ताः सर्वा अपि सप्तहोतृरूपस्य आदित्यस्य रश्मिसम्बन्धे सति मेघेषु नानारू- पत्वपरिव्यञ्जकरूपाः,§ भवन्ति । तथा ‘चरन्तीः’ वृष्टिरूपेण
* प्रकाश्यमानत्वेनति तै० पाठः ।
† भूतजातपालकमिति तै० पाठः ।
‡ लोहितवर्णा इति तै० पाठः ।
§ नानारूपत्वं परित्यज्यैकरूपा इति तै० पाठः ।
३ प्रपाठके ११ अनुवाकः। ३२१
एकरू॑पाः । श॒तःस॒हस्रा॑णि प्रयु॒तानि॑ ना॒व्या॑नाम्⁽२४⁾ । ⁽२५⁾अ॒यं यः श्वे॒तो र॒श्मिः । प॒रिसर्व॑मि॒दं जग॑त् । प्र॒जां प॒शून् धना॑नि । अ॒स्माकं॑ ददातु⁽२५⁾ । ⁽२६⁾श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सुवन् मह्यं॑ प॒शून् वि॒श्वरू॑पान्⁽२६⁾ । ⁽२७⁾प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया॑ ॥ १० ॥
भूमौ पतन्त्यः ताः पिङ्गलादिवर्णा आपः, 'एकरूपाः', भ- वन्ति। वृष्टिबाहुल्येन भूमौ 'नाव्यानां' नावा तरणीयानां अपां, 'शतं सहस्राणि' प्रयुतानि शतसङ्ख्याबहुविधसहस्रलक्ष- सङ्ख्याकाश्च सम्पद्यते। वृष्टिकाले तत्र तत्रानेकप्रवाहा भवन्ति। तदेतत् सर्वं सप्तहोत्रमाहात्म्यं ॥
अथ पञ्चदशीमाह । ⁽२५⁾“अयं यः ० अस्माकं ददातु” ⁽२५⁾ इति। 'यः' आदित्यः, श्वेतवर्णो रश्मियुक्तोऽस्ति सोऽयं 'सर्वमिदं' 'जगत्', परिव्याप्य वर्तमानः 'अस्माकं', प्रजादिकं 'ददातु' ॥
अथ षोडशीमाह । ⁽२६⁾“श्वेतो रश्मिः ० विश्वरूपान्”⁽२६⁾ इति। 'श्वेतरश्मिः' शुक्लवर्णरश्मियुक्तः आदित्यः 'सर्वं' जगत्, 'परिबभूव' परितो व्याप्तवान्, तादृश आदित्यः 'मह्यं' 'वि- श्वरूपान्' गोमहिष्यादिरूपेण बहुविधान्, 'पशून्', 'सुवत्' स्रौतु, प्रेरयत्वित्यर्थः ॥
अथ सप्तदशीमाह । ⁽२७⁾“पतङ्गमक्तं ० वेधसः”⁽२७⁾ इति ।
2 R 2
३२२ तैत्तिरीये आरण्यके
हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिण॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॑ वि॒चक्ष॑ते । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑:।⁽२७⁾। ⁽२८⁾प॒त॒ङ्गो वाचं॒ मन॑सा विभर्त्ति। तां ग॑न्ध॒र्वोऽव॑दद्ग॒र्भे अ॒-
असून् प्राणान् राति ददातीति 'असुर:' परमात्मा, तस्य 'मायया' अचिन्त्यशक्त्या, 'अक्तं' अभिव्यक्तं, 'पतङ्गं' आदित्यं, 'हृदा' 'मनसा' हृत्पुण्डरीकगतेन नियमितेनान्तःकरणेन, 'मनीषिण:' वेदशास्त्राभिज्ञा: महर्षय:, 'पश्यन्ति' ध्यात्वा साक्षात् कुर्वन्ति, 'कवय:' लौकिकवार्त्ताभिज्ञा:* पुरुषा:, 'समुद्रे अन्तः' समुद्रसमानेऽन्तरिक्षमध्ये, 'विचक्षते' विशेषेण कथयन्ति, अयमादित्य: उदित: मध्याह्ने सङ्गत इत्यादि व्यवहारं कुर्वन्ति । 'वेधस:' विधातारोऽनुष्ठानकुशला: केचिद्यजमाना:, 'मरीचीनां', 'पदं' रश्मीनां स्थानमादित्यं, 'इच्छन्ति' आदित्यसायुज्यप्राप्त्यर्थमनुतिष्ठन्तीत्यर्थ: ॥
अथाष्टादशोमाह । ⁽२८⁾"पतङ्गो वाचं ० निपान्ति"⁽२८⁾ इति। 'पतङ्ग:' आदित्य:, 'मनसा', स्वकीयेन, प्राणिनां 'वाचं', 'विभर्त्ति' धारयति, अन्तर्यामिरूपेण वाचं प्रेरयतीत्यर्थ: । तथाच पौराणिका आहु:, योऽन्तःप्रविश्यमम वाचमिमां प्रसुप्तां
* कालवृत्तान्ताभिज्ञा इति तै० पाठः ।
३ प्रपाठके ११ अनुवाकः । ३२३
न्तः । तां द्योत॑मानाꣳ स्व॒र्ये॑ मनी॒षां । ऋ॒तस्य॑ प॒दे क॒व-
यो निपा॑न्ति^{(२८)}। ^{(२९)}ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । वि-
रू॑पाः सन्तो॑ बहुधैकरू॑पाः । अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु
दे॒वः ॥ ११ ॥
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्नेति । 'तां' आदित्यप्रेरितां
वाचं, 'गर्भे अन्तः' शरीरस्य मध्ये, गन्धर्वनामको वायुरवददु-
च्चारयति । गन्धान् वहतीति व्युत्पत्त्या गन्धर्वशब्दो वायुः 'अव-
दत्, उच्चारयति*। गन्धान् वहतीति व्युत्पत्त्या गन्धर्वशब्दो वायु-
माचष्टे । वायुर्हि ताल्वादिस्थानेषु संयुक्तो वाचमुच्चारयति ।
'तां' वायुनोच्चारितां, 'द्योतमानां' प्रकाशमानां, स्वयें स्वर्गस्य
हेतुभूतां, 'मनीषां' मनसः ईशित्रीं आह्लादकरीमित्यर्थः । ता-
दृशींवाचं 'कवयः' शास्त्राभिज्ञाः, 'ऋतस्य पदे' सत्यस्य परब्रह्मणः
स्थाने, 'निपान्ति' नितरां पालयन्ति । परब्रह्मविषयाणि
वेदवाक्यानि सर्वदा पठन्तीत्यर्थः । तदेतत् सर्वं वाचः प्रेर-
कस्यादित्यस्य माहात्म्यं ॥
अथैकोनविंशीमाह । ^{(२९)}“ये ग्राम्याः ० संविदानः”^{(२९)}
इति । 'ये' पशवः, 'ग्राम्याः' ग्रामे भवाः गवाश्वादयः, 'विश्वरू-
पाः' जातिभेदैः बहुविधाः, 'विरूपाः' वर्णादिभेदेन विविधा-
काराः, एवं बहुधा दृश्यमानाः 'सन्तः', अपि पुनः पशुत्वा-
* एतच्चिह्नक्रोडीकृतपाठः E पुस्तके नास्ति
१२४ तैत्तिरीये आरण्यके
प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः^{(२९)}। ^{(३०)}वी॒तꣳ स्तु॒के स्तु॑- के । यु॒वम॒स्मासु॑ निय॑च्छतं । प्र प्र॑ य॒ज्ञप॑तिन्ति॑रः^{(३०)} । ^{(३१)}ये ग्राम्याः॑ प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑ बहु॒- धैकरूपाः । तेषाꣳ॑ स॒प्ताना॑मि॒ह रन्ति॑रस्तु । रा॒यस्पो-
कारेणैकरूपाः 'तान्' सर्वान्, अग्निरूपः सप्तहोतादेवः, 'अग्रे प्रमुमोक्तु' प्रथमं तत्तत्स्थानं मुञ्चतु,* प्रमुच्य अस्मभ्यं ददा- त्वित्यर्थः । 'प्रजापतिः', च स्वकीयया 'प्रजया', 'संविदानः' एकमत्यङ्गतः, अस्मभ्यं पशून् ददात्विति शेषः ॥
अथ विंशीमाह । ^{(३०)}“वीतꣳ स्तुके ० प्रयज्ञपतिन्तरः” ^{(३०)} इति । हे अग्निप्रजापती 'युवं' उभौ युवां, 'स्तुके स्तुके' तत्त- द्गवाद्यपत्ये, 'वीतं' प्रजननमुत्पत्तिं, 'अस्मासु' 'नियच्छतं' निय- मेन सम्पादयतं । 'यज्ञपतिं' यजमानं, 'प्रप्रतिरः' अत्यन्तं प्रकर्षेण वर्द्धयतं ॥
अथैकविंशीमाह । ^{(३१)}“ये ग्राम्याः ० सुवीर्यायाच”^{(३१)} इति । ग्राम्यादिशब्दाः पूर्ववद्योज्याः । 'तेषां' ग्राम्यपशूनां, 'सप्तानां' गोऽश्वाजाविपुरुषगर्दभोष्ट्ररूपाणां सप्तसङ्ख्याकानां,
* तत्तद्भेदेनात्रविमुञ्चतु इति तै० पाठः ।
३ प्रपाठके ११ अनुवाकः । ३२५
षाय॑ सुप्रजा॒स्त्वाय॑ सुवीर्या॑य^(९१) । ^(९२)य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑ बहुधैकरू॑पाः । वा॒युस्ताꣳ अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविदानः॑^(९२) । ^(९३)इडायै॑ सृ॒प्तं घृ॒तव॑च्चरा॒चर॑म् । दे॒वा अन्व॑विन्दन् गुहा॒हितं॑^(९३) । ^(९४)य आ॑र॒ण्याः प॒शवो॑ वि॒- श्वरू॑पाः । विरू॑पाः सन्तो॑ बहुधैकरू॑पाः । तेषाꣳ॑ स-
इह अस्मद्गृहे, 'रन्तिः' क्रीडा, 'अस्तु' तच्च धनपुष्टिशोभनापत्य- शोभनवीर्यार्थं सम्पद्यते ॥
अथ द्वाविंशीमाह । ^(९२)“य आरण्याः ० संविदानः”^(९२) इति। अरण्ये भवाः आरण्याः द्विखुराः श्वापदादयः तान्, अरण्याधिपतिर्वायुः 'प्रमुमोक्तु' । अन्यत् पूर्ववत् ॥
अथ त्रयोविंशीमाह । ^(९३)“इडायै सृप्तं ० गुहाहितं”^(९३) इति। 'इडायै' गोसम्पादनार्थं, 'सृप्तं' प्राप्तं, 'घृतवत्' घृत- युक्तं, घृताकारमित्यर्थः । तादृशं 'चराचरं' स्थावरजङ्गम रूपं जगदनुग्रहीतुं, 'गुहाहितं' प्राणिनां बुद्धाववस्थितं, सप्तहोतृदेव- देवाः 'अन्वविन्दन्' अन्विष्य लब्धवन्तः ॥
अथ चतुर्विंशीमाह । ^(९४)“य आरण्याः ० सुवीर्याय”^(९४)
| ३२६ | तैत्तिरीये आरण्यके |
|---|
मानामिह रन्ति॑रस्तु । रा॒यस्पोषाय सुप्र॒जास्त्वाय॑ सु॒वीर्या॑य^(३४) ॥ १२ ॥
आत्मजनानां, विकुर्वन्तं विपश्चिं, प्रजानां, वसुधानीं वि॒राजं, चरन्तं, गोमतीं, मे॒ निय॑च्छतु, एकं॑ च॒क्रं, व्यो॒मन्, मायया॑, दे॒व, एक॑रूपा, अ॒ष्टौ च॑ ॥ अनु० ॥ ॥ ११ ॥
इति । ‘रुप्तानां’ द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनामधेयानां । अन्यत् पूर्ववत् ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके तृतीयप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
३ प्रपाठके १२ अनुवाकः । ३२७
अथ द्वादशोऽनुवाकः ।
(१) स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
अथ द्वादशोऽनुवाकः ।
एतैरेकादशभिरनुवाकैश्चातुर्होत्रीयचयनमन्त्रा उक्ताः* । अथ नारायणनाम्ना पुरुषसूक्तनाम्ना च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नावापस्तम्बश्चाह । पुरस्तात् प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरो भवति, सहस्रशीर्षा पुरुष इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठेतेति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनियोगं भरद्वाज आह । नारायणाभ्यामुपस्थानमिति । अयं चोत्तरश्चेत्युभावप्यनुवाकौ नारायणमन्त्रौ नारायणाख्येन केनचित् ऋषिणा दृष्टत्वात्, जगत्कारणस्य नारायणाख्यस्य पुरुषस्य प्रतिपादकत्वात्† । तत्रास्मिन् द्वादशेऽनुवाके प्रथमामृचमाह । (१)“सहस्रशीर्षा ० अत्यतिष्ठद्दशाङ्गुलम्”(१) इति । सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः ‘पुरुषः’, सोऽयं ‘सहस्रशीर्षा’, सहस्रशब्दस्योपलक्षणत्वात् अनन्तैः शिरोभिर्युक्त इत्यर्थः, यानि सर्वप्राणिनां शिरांसि तानि सर्वाणि तद्देहान्तःपातित्वात् तदीयान्येवेति सहस्रशीर्षत्वं । एवमक्षिषु पादेष्वपि योजनीयं । ‘सः’ पुरुषः, ‘भूमिं’
* अभिहिता इति F, G चिह्नित-पुस्तकद्वयपाठः ।
† प्रतिपादकत्वादिति G चिह्नित-पुस्तकपाठः ।
३ M
३२८ तैत्तिरीये आरण्यके
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्^(१)। ^(२)पुरु॑ष ए॒वेदꣳ सर्वम्॑। यद्भूतं॒ यच्च॒ भव्यम्॑। उ॒तामृ॑त॒त्वस्येशानः॑। यदन्ने॑नाति॒रोह॑ति^(२)। ^(३)ए॒तावा॑नस्य महि॒मा। अ- तो॒ज्यायाꣳ॑श्च॒ पुरु॑षः॥ १ ॥
ब्रह्माण्डगोलकरूपां ‘विश्वतो वृत्वा’ सर्वतः परिवेष्ट्य, दशाङ्गुल- परिमितं देशं ‘अत्यतिष्ठत्’ अतिक्रम्य स्थितः। दशाङ्गुलमित्यु- पलक्षणं, ब्रह्माण्डाद्बहिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ॥
अथ द्वितीयामाह। ^(२)“पुरुष एवेदꣳ • यदन्नेनातिरोह- ति”^(२) इति । ‘यद्भूतं’ अतीतं जगत्, ‘यच्च भव्यं’ भविष्यज्जगत्, यदपि ‘इदं’ वर्तमानं जगत्, तत् ‘सर्वं’, ‘पुरुष एव’। यथाऽ- स्मिन्* कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरु- षस्यावयवाः, तथा एवातीतागामिनोरपि कल्पयोर्द्रष्टव्यं । ‘उत’ अपि च, ‘अमृतत्वस्य’ देवत्वस्य, अयं ‘ईशानः’ स्वामी, यस्मात् कारणात् ‘अन्नेन’ प्राणिनां भोग्येनान्नेन निमित्त- भूतेन, ‘अतिरोहति’, स्वकीयकारणावस्थामतिक्रम्य परिदृश्यमानं जगदवस्थां प्राप्नोति । तस्मात् प्राणिनां कर्मफलभोगाय जगदवस्थास्वीकारात् नेदन्तस्य वस्तुतत्त्वमित्यर्थः ॥
अथ तृतीयामाह । ^(३)“एतावानस्य • त्रिपादस्यामृतं दिवि”
* यदा यस्मिन्निति तै० पाठः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॒स्या॒मृतं॑ दि॒वि^{(३)}} ।
३ प्रपाठके १२ अनुवाकः। ३२६
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॒स्या॒मृतं॑ दि॒वि^{(३)}} । ^{(४)}त्रि॒पादूर्ध्व उदै॒त् पुरु॑षः । पादो॑ऽस्ये॒हाऽऽभ॑व॒त् पुन॑: ।
(३) इति । अतीतानागतवर्तमानरूपं जगद्यावदस्ति 'एतावान्' सर्वोऽपि, 'अस्य' पुरुषस्य, 'महिमा' । स्वकीयसामर्थ्यविशेषः, न तु तस्य वास्तवं स्वरूपं वास्तववस्तुपुरुषः 'अतः' महिम्नोऽपि, 'ज्यायान्' अतिशयेनाधिकः । एतच्च* स्पष्टीक्रियते। 'विश्वाभूतानि'† कालत्रयवर्तीनि प्राणिजातानि, 'अस्य' पुरुषस्य, 'पादः' चतुर्थोऽंशः। 'अस्य', अवशिष्टं 'त्रिपात् स्वरूपं' 'अमृतं' विनाशरहितं सत्, 'दिवि' द्योतनात्मके स्वप्रकाशरूपे, अवतिष्ठते । यद्यपि सत्यं ज्ञानमनन्तं ब्रह्मेत्याम्नातस्य परब्रह्मण इयत्तया अभावात् अंशचतुष्टयं न निरूपयितुं शक्यं तथापि जगदिदं ब्रह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षितत्वात् पादोपन्यासः ॥
अथ चतुर्थीमाह । ^{(४)}“त्रिपादूर्ध्व उदैत्पुरुषः ० साशनानशने अभि”^{(४)} इति । योऽयं 'त्रिपात्', 'पुरुषः' संसारस्पर्शरहितब्रह्मस्वरूपः‡ । सोऽयं 'ऊर्ध्व उदैत्' अस्मादज्ञानकार्यात्
* एतच्चोभयमिति F, G चिह्नित-पुस्तकद्वय-पाठः ।
† सर्वाणि भूतानि इति G चिह्नित पुस्तकपाठः ।
‡ संसारस्पर्शरहितब्रह्मस्वरूप इति तद्भिन्नाक्षरपुस्तकस्य G चिह्नित-पुस्तकस्य च पाठः ।
3 M 2
३३० तैत्तिरीये आरण्यके
ततो विष्वङ्व्यक्रामत् । साशनानशने अभि^(४) । ^(५)त-
संसाराद्वहिर्भूतः सन् अत्यन्तैर्गुणदोषैरस्पृष्टः उत्कर्षेण स्थितवान् । तस्य योऽयं 'पादः' लेशः, सोऽयं 'इह' मायायां, 'पुनराभवत्' । सृष्टिसंहाराभ्यां पुनः पुनरागच्छति । अस्य सर्वस्य जगतः, परमात्भांशत्वं* भगवताऽप्युक्तम्, विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगदिति । 'ततः' मायया आगत्यानन्तरं† 'विष्वङ्' देवतिर्यगादिरूपो‡ विविधः सन्, 'व्यक्रामत्' व्याप्तवान् । किं कृत्वा । 'साशनानशने' 'अभि,' लक्ष्य साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातं अनशनं तद्रहितमचेतनं गिरिनद्यादिकं तदुभयं यथास्यात् तथा स्वयमेवंविधो भूत्वा व्याप्तवानित्यर्थः ॥
अथ पञ्चमीमाह । ^(५)“तस्माद्विराज्जायत ० पश्चाद्भूमिमथोपुरः”^(५) इति । विष्वङ्व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते । 'तस्मात्' आदिपुरुषात्, 'विराट् अजायत' ब्रह्माण्डदेह उत्पन्नः, विविधं राजन्ते वस्तून्यत्रेति विराट्, 'विराजो अधि' विराड् देहस्योपरिस्थितमेव देहमधिकरणं कृत्वा,
* परमात्मोपदेशत्वमिति तै० पाठः † माययागत्यनन्तरमिति तै० पाठः। मायायामागत्यनन्तरमिति G चिह्नित-पुस्तकपाठः । ‡ देवतिर्यगादिरूपेणेति तै०पाठः। G चिह्नित पुस्तकस्य च पाठः।
३ प्रपाठके १२ अनुवाकः । ३३१
स्मा॑द्वि॒राड॑जायत । वि॒राजे॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः^(५) ॥ २ ॥ ^(६)यत् पुरु॑षेण ह॒विषा॑ । दे॒वा य॒ज्ञमत॑न्वत । व॒सन्तो॒
‘पुरुषः’ तद्देहाभिमानी कश्चित् पुमान्, ‘अजायत’ । योऽयं सर्ववेदान्तवेद्यः परमात्मा स एव स्वकीयया मायया विराड्- देहं ब्रह्माण्डं सृष्ट्वा तत्र जीवः* अभवत् । एतच्चाथर्वणिका उत्तरतापनीये समामनन्ति† । स वा एष भूतानीन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यव- हरन्नास्ते माययैवेति । ‘स जातः’ विराट् पुरुषः ‘अत्य- रिच्यत’ अतिरिक्तोऽभूत्, विराड्व्यतिरिक्तो देवतिर्यङ्मनुष्या- दिरूपोऽभूत् । ‘पश्चात्’ देवादिजीवभावादूर्ध्वं, ‘भूमिं’ सस- र्जेति शेषः । ‘अथो’ भूमिसृष्टेरनन्तरं, तेषां जीवानां ‘पुरः’ ‘ससर्ज’, आपूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि ॥
अथ षष्ठमाह । ^((६))“यत् पुरुषेण० ग्रीष्म इध्मः शरद्धविः” (६) इति । पूर्वोक्तक्रमेण देवशरीरेषूत्पन्नेषु ते ‘देवाः’, उत्तर- सृष्टिसिद्ध्यर्थं तत्साधनत्वेन ‘यज्ञमतन्वत’ कञ्चिद्यज्ञमन्वतिष्ठन् ।
* तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देवतात्मा जीवोभवत्
इति F पुस्तकपाठः। तत्र जीवरूपेण प्रविश्य ब्रह्माण्डाभिमानी देव-
ताऽभवत् इति तै० पाठः। तत्र जीवरूपेण ब्रह्माण्डाभिमानी देव-
तात्मा जीवोभवत् इति G चिह्नित-पुस्तकस्य पाठः।
† साधु समामनन्तीति F, G चिह्नित पुस्तकद्वयपाठः।
३३२ तैत्तिरीये आरण्यके
अ॒स्यासी॒दाज्य॑म्। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॑।⁽६⁾। ⁽७⁾स॒प्तास्या॑सन्
परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः। दे॒वा यद्य॒ज्ञं त॑न्वा-
बाह्यद्रव्यस्याप्यनुत्पन्नतवेन हविरन्तरासम्भवात् पुरुषस्वरूपमेव
मनसा हविष्ट्वेन सङ्कल्प्य तेन 'पुरुषाख्येन', 'हविषा', 'यत्' यदा,
मानसं 'यज्ञं', अकुर्वत तदानीं 'अस्य' यज्ञस्य, वसन्तर्त्तुरेव 'आज्यं',
अभूत्, तमेवाज्यत्वेन सङ्कल्पितवन्तः, एवं 'ग्रीष्मः', इध्मत्वेन स-
ङ्कल्पितः । 'शरत्', पुरोडाशादिहविष्ट्वेन सङ्कल्पिता। पूर्वं पु-
रुषस्य हविःसामान्यरूपत्वेन सङ्कल्पः। वसन्तादीनां त्वाज्या-
दिविशेषरूपत्वेनेति द्रष्टव्यं ॥
अथ सप्तमीमाह। ⁽७⁾"सप्तास्यासन् परिधयः ० अबध्नन् पु-
रुषं पशुं"⁽७⁾ इति। 'अस्य' साङ्कल्पिकयज्ञस्य, गायत्र्यादीनि
'सप्त', छन्दांसि 'परिधयः', 'आसन्', ऐष्टिकस्याहवनीयस्य,
त्रयः परिधयः औत्तरवेदिकास्त्रयः, आदित्यश्च सप्तमः परि-
धिप्रतिनिधिरूपः। अत एवाम्नायते, न पुरस्तात् परिदधा-
त्यादित्यो ह्येवोद्यन् पुरस्ताद्रक्षाꣳस्यपहन्तोति। त एत आदि-
त्यसहिताः* सप्त परिधयोऽत्र सप्तच्छन्दोरूपाः। तथा 'समिधः',
'त्रिःसप्त' त्रिर्गुणितसप्तसङ्ख्याकाः एकविंशतिः, 'कृताः' द्वादश
* तेष्वादित्यसहिता इति G चिह्नित-पुस्तकपाठः।
३ प्रपाठके १२ अनुवाकः । ३३३
नाः । अब॑ध्नन् पुरु॑षं प॒शुं^(७) । ^(८)तं य॒ज्ञं ब॒र्हिषि॒ प्रौ-
क्षन् । पुरु॑षं जा॒तम॑ग्र॒तः ॥ ३ ॥
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये^(८) । ^(९)त-
स्मा॑द्य॒ज्ञात् स॑र्व्वहुतः॑ । सम्भृ॑तं पृषदा॒ज्यं प॒शूꣳस्ताꣳ-
मासाः, पञ्चर्तवः, त्रय इमे लोकाः, असावादित्य एकविंश इति
श्रुताः पदार्था एकविंशतिदारुयुक्तेध्मत्वेन भाविताः । यः
पुरुषो* वै राजोऽस्ति तं ‘पुरुषं’, ‘देवाः’ प्रजापतिप्राणेन्द्रिय-
रूपाः, ‘यज्ञं तन्वानाः’ मानमयज्ञं कुर्वाणाः, ‘पशुमबध्नन्’
विराट्पुरुषमेव पशुत्वेन भावितवन्तः । एतदेवाभिप्रेत्य पूर्व्वत्र
पुरुषेण हविषेत्युक्तं ॥
अथाष्टमीमाह । ^(८)“तं यज्ञं बर्हिषिप्रौक्षन् ० साध्या ऋषयश्च
ये”^(८) इति । ‘यज्ञं’ यज्ञसाधनभूतं, ‘तं’ पुरुषं, पशुत्वभावनया
यूपे बध्नन् ‘बर्हिषि’ मानसे यज्ञे, ‘प्रौक्षन्’ प्रोक्षितवन्तः । की-
दृशं ‘अग्रतः’ सर्व्वसृष्टेः पूर्व्वं, ‘पुरुषं जातं’ पुरुषत्वेनोत्पन्नं । एतच्च
पूर्व्वमेवोक्तं । तस्माद्विराजायत विराजो अधिपूरुष इति । ‘तेन’
पुरुषरूपेण पशुना, ‘देवाः’ ‘अयजन्त’ मानसयागं निष्पा-
दितवन्तः । के ते देवाः इति त एवोच्यन्ते । ‘साध्याः’ सृष्टि-
साधनयोग्याः, प्रजापतिप्राणरूपाः तदनुकूलाः, ‘ऋषयः’ मन्त्र-
द्रष्टारश्च, ‘ये’, सन्ति ते सर्वेऽपि ‘अयजन्त’ ॥
अथ नवमीमाह । ^(९)“तस्माद्यज्ञात् सर्व्वहुत ० ग्राम्याश्च ये”
* यत् यः पुरुष इति G चिह्नित-पुस्तकपाठः ।
३३४ तैत्तिरीये आरण्यके
श्च॒क्रे वायव्या॑न् । आ॒र॒ण्यान् ग्राम्याश्च॒ ये^(९) । ^(१०)तस्मा॑- द्य॒ज्ञात् स॑र्व॒हुत॑: । ऋच॒: सामा॑नि जज्ञिरे । छन्दाँ॑सि जज्ञि॒रे तस्मा॑त् । यजु॒स्तस्मा॑दजायत^(१०) ॥ ४ ॥ ^(११)तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गा-
(९) इति । 'सर्वहुतः' सर्वात्मकः पुरुषो यस्मिन् यज्ञे हूयते सोऽयं सर्वहुतः तादृशात्, पूर्वोक्तात् मानसात् 'यज्ञात्', 'पृषदाज्यं', 'सम्भृतं' सम्पादितं, दधि चाज्यं चेत्येवमादिभोग्यजातं सम्पादितमित्यर्थः । तथा 'वायव्यान्' वायुदेवताकान्, लोकप्रसिद्धान्, 'आरण्यान्', 'पशून्', 'चक्रे' उत्पादितवान् । आरण्याः द्विखुरादयः तथा ये 'ग्राम्याः' गवाश्वादयं, तानप्युत्पादितवान् । पशूनामन्तरिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने समाम्नातं । वायवस्त्येत्याह वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षर्देवत्याः खलु वै पशवः । वायव एवैनान् परिददातीति ॥
अथ दशमीमाह । (१०)“तस्माद्यज्ञात् ० यजुस्तस्मादजायत”(१०) इति । 'छन्दांसि' गायत्र्यादीनि । स्पष्टमन्यत् ॥
अथैकादशीमाह । (११)“तस्मादश्वा अजायत०तस्माज्जाता अजावयः”(११) इति । अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये
३ प्रपाठके १२ अनुवाकः । ३३५
वा॑ ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑ज्जा॒ता अ॒जाव॑यः।(११) । (१२) यत् पुरु॑षं॒ व्यद॑धुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते।(१२) । (१३)ब्राह्म॒णो॑स्य॒ मु- ख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृतः ॥ ५ ॥
केचिदूर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति तेऽश्ववत् ‘अजा- यन्त’ । तथा ‘गावः’, अजाश्वावयश्च ते सर्वेऽप्युत्पन्नाः ॥
अथ द्वादशीमाह । (१२)“यत् पुरुषं० कावूरू पादावुच्येते” (१२) इति । प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुमत्र ब्रह्म- वादिनां प्रश्ना उच्यन्ते । प्रजापतेः प्राणरूपा देवाः ‘यत्’ यदा, ‘पुरुषं’ विराड्रूपं, ‘व्यदधुः’ सङ्कल्पेनोत्पादितवन्तः । तदानीं ‘क- तिधा’ कतिभिः प्रकारैः, ‘व्यकल्पयन्’ विविधं कल्पितवन्तः । एष सामान्यरूपः प्रश्नः । मुखं किमित्यादयो विशेषप्रश्नाः ॥
अथ त्रयोदशीमाह । (१३)“ब्राह्मणोस्य ० अजायत”(१३) इति । योऽयं ब्राह्मणजातिविशिष्टः पुरुषः सोऽयं ‘अस्य’ प्रजा- पतेः, ‘मुखमासीत्’, मुखादुत्पन्न इत्यर्थः । योऽयं ‘राजन्यः’ क्ष- त्रियजातिः, स बाहुत्वेन निष्पादितः, बाहुभ्यामुत्पादित इत्यर्थः । ‘तत्’ तदानीं, यौ प्रजापतेः ‘ऊरू’, तद्रूपः ‘वैश्यः’, सम्पन्नः* ऊरुभ्यामुत्पन्न इत्यर्थः । तथा ‘पद्भ्यां शूद्रः’, उत्पन्नः ।
* उत्पन्न इति तै० पाठः ।
२ 8